श्रीहस्तिगिरिमाहात्म्ये द्वादशोऽध्यायः
भृगुः –
विश्वास-प्रस्तुतिः
कथं देवगुरोर्ब्रह्मन् महतः पापसंभवः ।
तारितो यन्निमित्तं स देवराजस्य दर्शने ॥ (१)
मूलम्

नारदः –
विश्वास-प्रस्तुतिः
पुरा देवसभामध्ये महेन्द्रस्समुपाविशत् ।
सर्वैःपरिवृतो देवैः बृहस्पतिपुरोगमैः ॥ (२)

वसिष्ठप्रमुखास्सर्वे मुनयस्संशितव्रताः ।
उपतस्थुस्तदा सर्वे महेन्द्रममितद्युतिम् ॥ (३)

मुनिभिः कथिताः पुण्याः कथाश्शुश्राव वृत्रहा ।
प्रसङ्गात्कथयामासुः नियमं च सतां मतम् ॥ (४)

धर्मनिर्णयशुश्रूषुः मुनीनां भावितात्मनाम् ।
तानपृच्छन्मुनीं तत्र सुरश्रेष्ठश्शचीपतिः ॥ (५)

इन्द्रः –
विश्वास-प्रस्तुतिः
कश्चित् स्वगृहसंवासी सदाचाररतो वशी ।
इष्टापूर्तादिकं कुर्वन् देवपित्त्र्यरतस्तथा ॥ (६)

करोति नियतः सम्यगतिथीनाञ्च सत्क्रियाः ।
हिरण्यधान्यावस्त्राणि श्रोत्रियेभ्यो ददाति च ॥ (७)

धर्माविरोधेनादत्ते क्षेत्राणि च धनानि च ।
तपस्वाध्यायनिरतो यतवाक्कायमानसः ॥ (८)

साङ्ख्ययोगरतो नित्यं कर्मयोगपरस्तथा ।
अध्यात्मनिरतो नित्यं सर्वभूताभयप्रदः ॥ (९)

स्वदारनिरतश्शान्तः सर्वभूतहिते रतः ।
निवृत्तासत्कथालापः कामक्रोधविवर्जितः ॥ (१०)

धर्मेणोत्पाद्य पुत्रांश्च वर्तते नियतात्मना ।
कश्चित्पुत्रकलत्रादीन् विहाय विगतस्पृहः ॥ (११)

तीर्थयात्रापरो नित्यं देहमात्रपरिग्रहः ।
व्रतोपवासनिरतो मृदुश्शान्तो जितेन्द्रियः ॥ (१२)

शीलाचाररतो मौनी निर्द्वन्द्वो वीतमत्सरः ।
निश्परिग्रहवान् धीरः मितभुक् सत्यसङ्गरः ॥ (१३)

जपशीलो विसृष्टान्नः विमुक्तातिथिपूजकः ।
पुण्यक्षेत्रेषु सर्वेषु कुर्वन् श्राद्धादिकाः क्रियाः ॥ (१४)

तेषु तेषु यथाशक्ति श्रोत्रियेभ्यो ददाति च ।
तपस्वाध्यायनिरतो ज्ञानयोगपरायणः ॥ (१५)

नगरग्रामतीर्थेषु पावनेषु समन्ततः ।
चरन्न नियतावासो यथालब्धाशनश्शुचिः ॥ (१६)

वर्तते निरहङ्कारो भयशोकविवर्जितः ।
द्वयोः पुरुषयोरित्थं सततं वर्तमानयोः ।
युष्माभिः कथ्यतां सम्यक् कः श्रेष्ठ इति तापसाः ॥ (१७)

इति तद्वचनं श्रुत्वा सन्दिहाना महर्षयः ।
अग्रतः तं समासीनं बृहस्पतिमथाब्रुवन् ॥ (१८)

ऋषयः –
विश्वास-प्रस्तुतिः
त्वमस्माकं सुराणाञ्च गुरुर्वाचस्पते मतः।
अतस्त्वं वद निश्चित्य पृच्छते बलशत्रवे ॥ (१९)

स च मत्वा गृहे वासमसारमिति तत्त्वतः ।
तीर्थयात्रा परश्रेष्ठ इत्युवाच बृहस्पतिः ॥ (२०)

तच्छ्रुत्वा मुनयस्सर्वे बृहस्पतिसमीरितम् ।
बभूवुः क्रोधनाविष्टा देवाश्च परमर्षयः ॥ (२१)

गुरुणा भाषितं यत्तु श्रुतिस्मृतिविगर्हितम् ।
इति निर्भत्स्य सहसा तमूचुश्च महर्षयः ॥ (२२)

अज्ञानाद्यदि वा ज्ञानात् अशास्त्रीयं त्वयेरितम् ।
अतस्त्वं वसुधां गत्वा जायस्वात्यन्तदुःखभाक् ॥ (२३)

ततस्स नर्मदातीरे कदन्नाहारकुत्सिते ।
ब्राह्मणस्य सुतो जज्ञे गुरुर्मन्त्रजितो मुने ॥ (२४)

जातमात्रे तु जननी जगाम यमसादनम् ।
क्लेशेन महता पित्रा रक्षितो बालकन्तदा ॥ (२५)

मृदुशय्या न तत्रासीत् न च दंशनिवारकः।
न च स्नानादिकं काले ववृधे शुचिसंस्तरे ॥ (२६)

यया कयाचित् कृपया रक्षितो बालकः तदा ।
इत्थं संवर्धितो बाल्ये शयानो यत्र कुत्रचित् ॥ (२७)

अत्यन्तसङ्कटे गेहे न्यवसच्छोकपीडितः ।
भृशं निर्वेदमापन्नो मनोरथशताकुलः ॥
स्वबन्धुभिरवज्ञातो नरो जीवन्मृतो यथा ॥ (२८)

पीडितो व्याधिभिर्नित्यं किञ्चित्कर्तुमीश्वरः ।
पूर्वजन्मवशादेव सर्वशास्त्रार्थतत्ववित् ॥ (२९)

इत्थं तस्मिन्महादुःखे वर्तमाने महामुने ।
आजगाम नृपः कश्चित् तस्मिन् ग्रामे ससैनिकः ॥ (३०)

सुतस्तस्य महीपस्य सप्तवर्षो महामुने ।
कुंभस्थशाबकं मातुः पार्श्वस्थं सन्ददर्श ह ॥ (३१)

तमादाय स्वयं बालः कुतूहलसमन्वितः ।
अगाधे सहसा गर्ते गृहे चिक्षेप दुर्मतिः ॥ (३२)

पुत्रनाशादतिक्रुद्धा श्ववधूस्तं नृपात्मजम् ।
ददंश दशनैस्तीक्ष्णैः जङ्घयोरुभयोरपि ॥ (३३)

ततःपरमतिक्रुद्धाश्शूलमुद्गरपाणयः ।
आजग्मुः श्ववधूं हन्तुं बहवो राजकिङ्कराः ॥ (३४)

सा च वाचा गृहीत्वान्यं बालकं भयविह्वला ।
तस्यैव गेहं सहसा ब्राह्मणस्य विवेश ह ॥ (३५)

प्रविश्यान्तर्गृहं भीता वीक्षमाणा समन्ततः ।
त्राहि त्राहीति सहसा ब्राह्मणं शरणं ययौ ॥ (३६)

न शङ्का तद्गृगृहे जाता किङ्कराणां विचिन्वताम् ।
तामदृष्ट्वा निवर्तन्ते सर्वे नृपति-किङ्कराः ॥ (३७)

विनिवर्त्यसु संरब्धाः तदन्वेषणतत्पराः ।
व्यतिष्ठन् सङ्गतास्सर्वे वीधिकान्तस्थलाश्रयाः ॥ (३८)

स तु तां ब्राह्मणो भुञ्जन् श्ववधूं पुरतः स्थिताम् ।
कम्पमानां भयादार्तां वीक्षमाणां समन्ततः ॥ (३९)

संभ्रान्तः क्रोधसंविष्टो निमीलितविलोचनः ।
उवाच वचनं पुत्रानियं निर्यास्यतामिति ॥ (४०)

सा च भूयस्तमेवाह ब्राह्मणं पुत्रगृद्धिनी ।
क्रोधेन महताविष्टं निमीलितविलोचनम् ॥ (४१)

श्ववधूः –
विश्वास-प्रस्तुतिः
बहिस्तिष्ठन्ति बहवः शूरा मां हन्तुमुद्यताः ।
क्षणं क्षमस्व मामत्र त्वामहं शरणा गता ॥ (४२)

स तु तद्वचनं श्रुत्वा रोषाविष्टोऽभवत्पुनः ।
तनूजं सर्वदोषाणां बीजं देहपरिग्रहः ॥ (४३)

यतो रूपं समास्थाय मानुषं दुःखभाजनम् ।
ईदृशं वचनं प्राह गुरुस्सर्वदिवौकसाम् ॥ (४४)

ततस्तां मुसलैर्दण्डैः प्रकृत्यात्यन्तनिर्घृणाः ।
बहिर्निर्यापयन्त्यस्मतत्पुत्रास्तत्प्रचोदिताः ॥ (४५)

तां बहि स्थाप्य सुदृढं बबन्धुश्च कवाटकम् ।
सा च संस्मार दुष्कर्म स्वकृतं पूर्वजन्मनि ॥ (४६)

तत उच्चैर्जगादे मां गाथां च श्ववधूस्स्वयम् ।
पश्यन्ती सततं क्रूरान्नागतान् नृपकिङ्करान् ॥ (४७)

शूलदण्डप्रहरणान् भयार्ता पुत्रगृद्धिनी ।
श्ववधूः –
यत्पुरा मद्गृहाद्भिक्षुः परिनिर्यापितो मया ॥ (४८)
विश्वास-प्रस्तुतिः
सहस्रगुणितं भूयस्तत्तदेवोपभुज्यते ।
यदाचरति यत्कर्म पुण्यपापात्मकं पुरा ॥ (४९)

तदेव तेन भोक्तव्यमहो नु नियमो विधिः ।
ज्ञानतोऽज्ञानतो वापि यत्कृतं कर्म निन्दितम् ॥ (५०)

कर्तव्यं सहसा तस्य प्रायश्चित्तं मनीषिणः ।
परित्यज्यति यो मूढो भयार्तं शरणं गतम् ।
प्रायश्चित्तं न तत्रासीदिति वेदानुशासनम् ॥ (५१)

इति ब्रुवन्तीं विप्रं तं स्मरन्तीं पूर्वजन्मनि ।
मार्गमाणस्तु तां दृष्ट्वा निर्जग्मुः नृपकिङ्कराः ॥ (५२)

शाबकञ्च समादाय जघ्नुरत्यन्तनिर्घृणाः ।
स्मरन्तो राजपुत्रस्य व्यथामत्यन्तनिर्घृणाः ॥ (५३)

स तु तस्या वचः श्रुत्वा ब्राह्मणो धर्मसंहिताम् ।
विव्यधे धर्मपाशेन वेष्टितो भृशदुःखितः ॥ (५४)

विचिन्वन् सर्वशास्त्रेषु नापश्यत्पापनिष्कृतिम् ।
ततस्सन्तप्तहृदयः स्मृत्वा याम्याश्च वेदनाः ॥ (५५)

ययौ भागीरथीतीरं पुण्यवृक्षसमावृतम् ।
तत्रोपविष्टमद्राक्षीत् भारद्वाजं महामुनिम् ॥ (५६)

तपःकृशितसर्वाङ्गं चीरवल्कलवाससम् ।
तं प्रणम्य महाभागं ब्राह्मणो विगतज्वरः ॥ (५७)

तस्मै विज्ञापयामास निजं कर्म यथातथम् ।
स च क्षणमुनिर्ध्यात्वा भारद्वाजो महामतिः ॥ (५८)

भारद्वाजो महातेजा ज्ञातवांश्च बृहस्पतिम् ।
जानाम्यहं द्विजश्रेष्ठ तव पापस्य निष्कृतिम् ॥ (५९)

मा भैषीस्त्वमितो धीरः शृणुष्व वचनं मम ।
अस्ति सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ॥ (६०)

यत्र काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ।
तत्र गत्वापनेतव्यं पातकं द्विजसत्तम ॥ (६१)

तत्रैवाचरितं कर्म सद्यः सर्वफलप्रदम् ।
तत्राभ्यर्च्य जगन्नाथं हयमेधेन केशवम् ॥ (६२)

प्रत्यक्षं दृष्टवान्पूर्वं पद्मयोनिः पितामहः ।
पुरादिक्करिणस्तत्र पूजयित्वा जनार्दनम् ॥ (६३)

प्रत्यक्षं ददृशुस्सर्वे वरदं भक्तवत्सलम् ।
तत्रैव शेषपर्यङ्के शयानं मधुसूदनम् ॥ (६४)

समाराध्य चिरं कालं सत्यकेतुर्महामतिः ।
प्रत्यक्षं दृष्टवानत्र पद्मपत्रनिभेक्षणम् ॥ (६५)

सन्ति तत्रैव तीर्थानि शतमष्टोत्तरं द्विज ।
सन्त्यनेकानि दिव्यानि देवतायतनानि च ॥ (६६)

तत्तत्तस्यैव क्षेत्रस्य सदृशं न कश्चित् दृश्यते भुवि ।
तत्र गत्वा स्वकं पापमपमार्ष्टुं त्वमर्हसि ॥ (६७)

सर्वदुष्कृतनाशस्ते भविता नात्र संशयः ।
पुण्यकोटीति विख्यातं विमानं तत्र दृश्यते ॥ (६८)

तस्य दर्शनमात्रेण संप्रणश्यन्त्यघानि च ।
तन्मध्ये पुण्डरीकाक्षो भगवान् भक्तवत्सलः ॥ (६९)

दिव्यैः परिजनैः नित्यं पूज्यतेऽत्र महात्मभिः ।
स न शक्यस्त्वया द्रष्टुं पापसंवृतचेतसा ॥ (७०)

तपसा क्षालिते पापे तं दृष्ट्वा पूजयिष्यसि ।
समीपे तस्य नागाख्यं सरः काञ्जनपङ्कजम् ॥ (७१)

तस्य तीरं समासाद्य कुरुष्व परमं तपः ।
जितेन्द्रियो जितक्रोधो विमानमवलोकयन् ॥ (७२)

जपस्व देवीं गायत्रीं यावत्त्रेतायुगावधि ।
ततो दिव्यं स्वकं रूपं लब्ध्वा विष्णोः प्रसादतः ॥
पूजयिष्यसि तं देवं द्वापरे वेदिमध्यगम् ॥ (७३)

इत्युक्तो ब्राह्मणस्तेन भारद्वाजेन धीमता ।
तं प्रणम्याभ्यनुज्ञातो ययौ सत्यव्रतं प्रति ॥ (७४)

अनन्तसरसि स्नात्वा तस्मिन्नियतमानसः ।
विमानाभिमुखस्तिष्ठन् चकार परमं तपः ॥ (७५)

अनन्तसरसि स्नानात् स मुक्तस्सर्वकिल्बिषैः ।
तथापि विष्णोः पूजार्थं समारब्धं परं तपः ॥ (७६)

पूज्यतामात्मनो मत्वा द्वापरे गुरुणा हरिः ।
कारयामास तेनैव स्वयमन्तर्गतस्ततः ॥ (७७)

अतप्ततपसा विष्णुर्न पूज्यो वेदिमध्यगः ।
अतस्तत्पूजनार्हत्वं लब्धश्चक्रे महत्तपः ॥ (७८)

तपसा तस्य सन्तुष्टो लक्ष्म्या सार्धं जगत्पतिः ।
तेन संभाष्य विप्रेण ययौ मानुषरूपधृक् ॥ (७९)

न स्वकं दर्शितं रूपं तस्मै दत्तं न किञ्चन ।
न च पापविमोक्षाय कारणं दर्शनं हरेः ॥ (८०)

निर्दग्धकल्मषो वापि नाभक्तः पुरुषोत्तमम् ।
यथावन्नैव जानति तस्मात्तेन न दर्शितम् ॥ (८१)

तपश्चरन्ति ते विष्णुं द्रष्टुकामा दृढव्रताः ।
नातप्ततपसा विष्णुः हस्तिशैलस्य मूर्धनि ॥ (८२)

अर्चनीयस्ततस्तेन सुतप्तं दुश्चरं तपः ।
तपोभिर्जायते भक्तिः तदा दृष्टो जनार्दनः ॥ (८३)

तदभावात् स्वकं रूपं ब्राह्मणाय न दर्शितम् ।
ततस्तस्मिन् गते विष्णौ लक्ष्म्या सह महामुने ॥ (८४)

पुनर्बबन्ध तपसि मनः स्थिरमतिर्द्विजः ।
स्नात्वा विमानच्छायायाम् अनन्तसरसि स्थितः ।
जपन्वाचाथ सावित्रीं विमानाभिमुखोऽभवत् ॥
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे द्विज–भारद्वाजसंभाषणं नाम श्रीहस्तिगिरि माहात्म्ये द्वादशोऽध्यायः