अथ श्रीहस्तिगिरिमाहात्म्ये एकादशोऽध्यायः
भृगुः –
विश्वास-प्रस्तुतिः
तस्मिन् कृतयुगेऽतीते गते सरसिजासने ।
त्रेतायान्तु गजेन्द्रेण कथं तत्रार्चितो हरिः ॥ (१)
मूलम्

नारदः –
विश्वास-प्रस्तुतिः
गते तस्मिन् सुरज्येष्ठे क्षेत्रे सत्यव्रते हरिः ।
अतिष्ठद्वरदो नित्यैर्दिव्यैः परिजनैर्वृतः ॥ (२)

गरुडः पक्षिराट् शेषः विष्वक्सेनादयस्तदा ।
सुदर्शनश्च भगवान् चक्ररूपो महाद्युतिः ॥ (३)

पाञ्चजन्यो जलाधीशः शङ्खरूपो महाध्वनिः ।
कौमोदकीचतच्छक्तिः सर्वदुष्टभयङ्करी ॥ (४)

पद्माख्यो वसुधाधीशः महानंबुजरूपधृक् ।
शार्ङ्गाख्यो गगनाधीशः धनुर्वेदधरो महान् ॥ (५)

कौस्तुभो धिषणाधीशो मणिरूपधरश्शिवः ।
सर्वेषामीश्वरी लक्ष्मीः पद्महस्ता यशस्विनी ॥ (६)

वसुन्धरा च चार्वङ्गी नीलोत्पलदलेक्षणा ।
विष्वक्सेनो महातेजा गणानामीश्वरोऽव्ययः ॥ (७)

तदधीनास्तथैवान्ये परिवरास्सहस्रशः ।
स्वाधिकारेषु निरता देवराजं निषेविरे ॥ (८)

महद्वनमभूद् दुर्गं तदा काञ्ची महापुरी ।
सिंहव्याघ्रमृगाकीर्ण-घोरविन्ध्याटवी यथा ॥ (९)

महागह्वरदुर्धर्षे सर्वर्तुकुसुमोचिते ।
कोकिला-लापललिते मत्तषड्पदनादिने ॥ (१०)
मूलम्
महागह्वरदुर्धर्षे सर्वर्तुकुसुमोचिते ।
कोकिला-लापललिते मत्तषड्पदनादिने ॥ (१०)
विश्वास-प्रस्तुतिः
मत्तमातङ्गसङ्घुष्ट-पद्मकानन-शोभिते ।
हंससारससन्नादे किन्नरीगणनादिते ॥ (११)
मूलम्
मत्तमातङ्गसङ्घुष्ट-पद्मकानन-शोभिते ।
हंससारससन्नादे किन्नरीगणनादिते ॥ (११)
विश्वास-प्रस्तुतिः
सिद्ध-चारण-गन्धर्व-यक्षविद्याधरान्विते ।
चन्दनागरु-पुन्नाग-चूत-चम्पक-संवृते ॥ (१२)

स्निग्धगंभीरमधुर-मयूरस्वननादिते ।
विशुद्धसलिलोपेतदीर्घिकाशतशोभिते ॥ (१३)
मूलम्
स्निग्धगंभीरमधुर-मयूरस्वननादिते ।
विशुद्धसलिलोपेतदीर्घिकाशतशोभिते ॥ (१३)
विश्वास-प्रस्तुतिः
नदीपुलिनविश्रान्त-राजहंसोपशोभिते ।
तरुणार्कद्युतिस्मेर-पङ्कजामोदसंवृते ॥ (१४)

स्फुरत्पाटलकल्हारकैरवोत्पलकानने ।
स्मेर-केसर-सौगन्धि-निर्जितामरनन्दने ॥ (१५)

विकसत्केतकीसङ्ग-मन्दमारुत-सौरभे ।
कदाचिल्लीलया सार्धं लक्ष्म्या लक्ष्मीपतिर्मुने ॥ (१६)

सञ्चचार वने तस्मिन् सर्वं तु कुसुमोचिते ।
क्रीडन्वै स नदीतीरे पुण्यवृक्षसमाश्रिते ॥ (१७)

प्रविवेश वनं घोरं लक्ष्म्या सह जनार्दनः ।
धर्माभितप्तां वसुधामसिञ्चञ्जलदास्तदा ॥ (१८)

तथैव धर्ममक्लिन्ना न भवेत्सा वनस्थली ।
यत्र यत्र चरेत्तस्मिन् वने लक्ष्मीसहायवान् ॥ (१९)

तत्र तत्र चचारोच्चैः पक्षौ विस्तीर्य पक्षिराट् ।
चरत्यखिललोकेश-लीलयैव तदा वने ॥ (२०)

चरितार्थाभवन् सर्वे तं दृष्ट्वा वनचारिणः ।
विचित्रकुसुमाकीर्णां प्रसन्नसलिलाशयाम् ॥ (२१)

स्फुरत्कमलकल्हार-चरन्मीनकुलाकुलाम् ।
घनशैवालसञ्च्छन्नां महाह्रदसमाकुलाम् ॥ (२२)

नदीं वेगवतीं दृष्ट्वा प्रहर्षमतुलं ययौ ।
चरत्यखिललोकेशे वीक्षमाणे वनस्थलीम् ॥ (२३)

ससृजुः पुष्पवर्षाणि स्थले वन्यस्थलीरुहाः ।
रराज तरुनिर्मुक्तैः पुष्पैश्च सुमनोहरैः ॥ (२४)

सत्यव्रतमही सर्वा नभस्ताराङ्कितं यथा ।
सहत्कल्हारसंभेद-संभृतामोदशीतलः ॥ (२५)
मूलम्
सत्यव्रतमही सर्वा नभस्ताराङ्कितं यथा ।
सहत्कल्हारसंभेद-संभृतामोदशीतलः ॥ (२५)
विश्वास-प्रस्तुतिः
पवनः पूगकान्तार-सङ्गमन्दगतिर्ववौ ।
न ततापातिघर्मांशुः अंशुमानपि तद्वने ॥ (२६)

पूर्णबिंबश्चकाशेन्दुः वने चरति माधवे ।
वासन्तिकानि शरदि वसन्ते शारदानि च ॥
समृद्धान्यभवं तत्र ननृतुश्च मुदान्विताः ॥ (२७)

लक्ष्मीं लक्ष्मीपतिं दृष्ट्वा मेघं सौदामिनीं तथा ॥ (२८)
विश्वास-प्रस्तुतिः
ये तु तस्मिन् वने पूर्वं निर्मिता विश्वकर्मणा ।
तास्सर्वाः कुमुदांभोजैः विचेरुः गृहदीर्घिकाः ॥ (२९)

मत्तद्विपगणास्तस्मिन् विचेरुश्च महामुने ।
विचेरुर्मृगयूथानि नवशाद्वलभूमिषु ॥ (३०)

माधवी मल्लिका नागाः केतकी करवीरकाः ।
मन्दाराश्च मधुकाश्च नीपाः कुरवकास्तथा ॥ (३१)

वञ्जुलाश्शतपत्राश्च बभूवुः पुष्पशालिनः ।
तत्सर्वं दर्शयन्देव्यै चचार वरदो वने ॥ (३२)

सर्वलोकेश्वरस्साक्षात् अक्षयो विश्वकृद्विभुः ।
विनिवृत्य तदा तस्मात् तया सह मनोहरात् ॥ (३३)

अनन्तसरसस्तीरं स कदाचित्समभ्यगात् ।
तस्य पश्चिमतीरे तु तपस्यन्तं तपोधनम् ॥ (३४)

ददर्श सुमहाभागं दिव्यं देवपुरोहितम् ।
तिष्ठन्तमेकपादेन बाहू विक्षिप्य चोर्ध्वगौ ॥ (३५)

उत्पिञ्जरजताहारं त्वगस्थिस्नायुबन्धनम् ।
उद्वीक्षमाणमनिशं विमानं पुण्यवर्धनम् ॥ (३६)

जपन्तं सततं वाचा गायत्रीं वेदमातरम् ।
निवातदीपनिष्कम्पं निर्द्वन्द्वं निष्परिग्रहम् ॥ (३७)

निर्मलं निरहङ्कारं क्रोधलोभविवर्जितम् ।
क्षुत्पिपासादिभिर्दुःखैः पीडितं चाप्यचञ्चलम् ॥ (३८)

आत्मवत्सर्वभूतानि पश्यन्तं मुनिपुङ्गवम् ।
तं दृष्ट्वा सहसा तस्य समीपं स समभ्यगात् ॥ (३९)

श्रिया च सह तन्वङ्गया भूत्वा षोडश वार्षिकः ॥ (४०)
विश्वास-प्रस्तुतिः
राजलक्षणसंपन्नः सर्वाभरणभूषितः ।
पद्मपत्र विशालाक्षः चन्द्रबिंबनमानसः ॥ (४१)

सदृशी तस्य तन्वङ्गी हंस-सुन्दर-गामिनी ।
चचार पार्श्वतः तस्य सर्वाभरणभूषिता ॥ (४२)

तमुवाच तपस्यन्तं भगवान्भूतपावनः ।
समस्तजगताधारः सदारो मानुषाकृतिः ॥ (४३)
मूलम्
तमुवाच तपस्यन्तं भगवान्भूतपावनः ।
समस्तजगताधारः सदारो मानुषाकृतिः ॥ (४३)
श्रीभगवानुवाच –
विश्वास-प्रस्तुतिः
कस्त्वं तपसि दुर्धर्षे वर्तसे विजने वने ।
किं त्वया प्रार्थ्यते ब्रह्मन् वदस्व यदि रोचते ॥ (४४)

इत्युक्तस्स तदा तेन तापसो मुनिसत्तमः ।
उपरम्य समाधेस्तं प्रत्युवाच पुरःस्थितम् ॥ (४५)

ब्राह्मणः –
विश्वास-प्रस्तुतिः
राजपुत्र मया किं ते ब्राह्मणेन तपस्विना ।
गच्छ गच्छ वनादस्मात् सिंहव्याघ्रभयाकुलात् ॥ (४६)

किमर्थमनया सार्धं वर्तसे त्वं निरायुधः ।
मनुष्या नात्र वर्तन्ते सिंहत्रस्ता महावने ॥ (४७)

किं युवामनुजानन्ते बान्धवा वनगोचरौ ।
किमर्थं निर्जने बाल्यादागतौ निर्भयाविह ॥ (४८)

अत्रैव बहवो व्याघ्राः क्षुधार्ता घोरदर्शनाः ।
मामादायैव निस्सारमिति मत्वा च तत्यजुः ॥ (४९)

तावदस्मादितो गच्छ न स्थातव्यं क्षणं त्वया ।
आगमिष्यन्ति ते व्याघ्राः क्षुधार्तास्सिलिलार्थिनः ॥ (५०)

इत्युक्तस्तेन विप्रेण देवराजः श्रियःपतिः ।
ईषदुत्स्मयमानस्तं पुनर्वचनमब्रवीत् ॥ (५१)
मूलम्
इत्युक्तस्तेन विप्रेण देवराजः श्रियःपतिः ।
ईषदुत्स्मयमानस्तं पुनर्वचनमब्रवीत् ॥ (५१)
श्रीभगवानुवाच –
विश्वास-प्रस्तुतिः
अरण्ये वा गृहे वापि न भयं तपतांवर ।
यत्र कुत्र च वर्तेऽहं न भयं मे कदाचन ॥ (५२)

अभयं सर्वभूतेभ्यो यः प्रयच्छति सर्वदा ।
कुतस्तस्य भयं विप्र सर्वभूतहितैषिणः ॥ (५३)

यत्पृष्टस्त्वं मया पूर्वं तद्वदस्व तपोधन ।
महत्कौतूहलं तस्य श्रवणे मम जायते ॥ (५४)

भरद्वाजसुतस्याहं पौत्रोऽयं व्रजितस्सुतः ।
जातिस्मरोऽस्मि देवानां गुरुः पूर्वत्र जन्मनि ॥ (५५)

बहून्यब्दसहस्राणि घोरे तपसि तिष्ठतः ।
ममात्रैव व्यतीतानि निर्जने पुण्यवर्धने ॥ (५६)

तपश्चरणहेतुर्मे शृणुष्व कथयामि ते ।
यदि कौतूहलं श्रोतुं वर्तते राजपुत्रक ॥ (५७)

परित्यक्ता मया पूर्वं श्ववधूः शरणङ्गता ।
तद्दोषक्षालनायैव क्रियतेऽत्र मया तपः ॥ (५८)

अत्र यत्क्रियते कर्म पुण्यपापात्मकं नरैः ।
ज्ञानतोऽज्ञानतो वापि यत्सम्यक् धृतिकोविदः ॥ (५९)

पश्यैतदखिलं वत्स विमानममितद्युति ।
पुण्यकोटीति विख्यातं स्मरणादेव मुक्तिदम् ॥ (६०)

स्वयंव्यक्तमिदं धातुः हयमेधे महात्मनः ।
अस्मिन् हि भगवान्विष्णुः व्यक्तरूपः चतुर्भुजः ॥ (६१)

न मया शक्यते द्रष्टुं पापसंवृतचेतसा ।
अतस्तं द्रष्टुकामोऽहं तपाम्यहमकल्मषः ॥ (६२)

करिष्येऽत्र तपो घोरं न मे निष्कृतिरन्यथा ।
बहवस्तपसा विष्णुम् उपास्येह गतां ह सः ॥ (६३)

विमुक्ताः कर्मबन्धेभ्यः परां सिद्धिं अरोगताम् ।
अत्र विष्णुमुपास्यैव निर्द्वन्द्वा वीतमत्सराः ॥ (६४)

योगसिद्धिं परां प्राप्ताः योगिनो बहवः पुरा ।
चतुर्बाहुरुदाराङ्गः पीतवासाः चतुर्भुजः ॥
दिव्यैः परिजनैरस्मिन् पूज्यते गिरिमूर्धनि ॥ (६५)

न स शक्योऽत्र सन्द्रष्टुं नरैर्दुष्कृतकारिभिः ।
स्वधर्मनिरताश्शान्ताः तं पश्यन्ति जनार्दनम् ॥ (६६)

चरन्ति विष्णुभूतानि बहून्यत्राभितो वने ।
तानि पापसमाचारं दृष्ट्वा निघ्नन्त्यसंशयः ॥ (६७)

अत्र रक्षःपिशाचाद्याः न वर्तन्ते कदाचन ।
विष्णुदूतपरित्रासाः परितो योजनद्वये ॥ (६८)

त्वमस्मिन् सरसि स्नात्वा कृतकृत्योऽनया सह ।
प्रणम्य वरदं तत्र प्रार्थयस्वाभिवाञ्छितम् ॥ (६९)

राज्यं वा विजयं वाथ पुत्रान्वाथ यदिच्छसि ।
तत्सर्वं प्रार्थितो देवस्तव दास्यत्यसंशयः ॥ (७०)

महाभोगस्त्वमस्मिन्किमागतोऽस्य निवारितः ।
दुष्प्रधर्षो ह्ययं देशः प्रवेश्यो हि यतात्मना ॥ (७१)

तव सन्दर्शनादासीत् सुप्रसिद्धं मनो मम ।
इत्युक्तो मुनिना तेन स्मयमानमुखांबुजः ॥
आरुरोह श्रिया सार्धं हस्त्यद्रिशिखरं ततः ॥ (७२)

श्रिया सार्धं हृषीकेशः तस्य प्रत्यक्षतां गतः ।
अदत्वैव स्वयं किञ्चित् किमर्थं गतवांस्तदा ॥ (७३)

गुह्यमेतत्त्वया पृष्टं श्रोतव्यं हितकाङ्क्षिभिः ।
कथयाम्यधुना सम्यक् शृणुष्व सुसमाहितः ॥ (७४)

सर्वदा सर्वगो विष्णुरच्युतः पुष्करेक्षणः ।
न तेन रहितं किञ्चित् दृश्यते श्रूयतेऽपि वा ॥ (७५)

यथा तैलं तिले सर्पिः दध्नि दारुष्विवानलः ।
अदृश्यस्सर्वभूतेषु तथा सर्वगतो हरिः ॥ (७६)

मथनाद्यैर्यथा तानि सुव्यक्तं याति यत्नतः ।
भक्तिनिर्मथिते नैव व्यक्तिं याति तथा हरिः ॥ (७७)

करस्थं नैव जानाति यथान्धो रत्नमुत्तमम् ।
तमसा मूढमनसो नैव जानन्ति किञ्चन ॥ (७८)

तिरोदधृतिपापानि विष्णुसन्दर्शने न च ।
तेषु नष्टेषु तस्यैव स्वयं भाति जनार्दनः ॥ (७९)

सततं वेष्टिभिः पापैः दुस्तरे ब्राह्मणो गुरुः ।
अतो दृष्ट्वैव पुरतो नैव जानाति किञ्चन ॥ (८०)

अतस्तत्सन्निधिं गत्वा तेन चाभाष्य संवृतः ।
न तस्मै दर्शयामास स्वकं रूपं तदा हरिः ॥ (८१)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये वरद–बृहस्पति–संवादो नाम एकादशोऽध्यायः