१०

अथ श्रीहस्तिगिरिमाहात्म्ये दशमोऽध्यायः

भृगुः –

विश्वास-प्रस्तुतिः

वरदं पुण्यकोट्यन्तर्वरदं वेदिमध्यगम् ।
कियन्तं कालमेकाग्र्यः पूजयामास पद्मभूः ॥ (१)

मूलम्

नारदः –

विश्वास-प्रस्तुतिः

यावत् त्रेतायुगप्राप्तिः तावत् ब्रह्माप्यपूजयत् ।
जितेन्द्रियो जितक्रोधो यतवाक्कायमानसः ॥ (२)

दिव्यैर्भोगैर्दिवानक्तं स्तुतिभिर्वन्दनैरपि ।
ध्यानैः प्रदक्षिणैः स्तोत्रैस्तोषयामास केशवम् ॥ (३)

ततः कृतयुगेऽतीते प्राप्ते त्रेतायुगे हरिः ।
पितामहमुवाचेदं वचनं प्रीतिपूर्वकम् ॥ (४)

श्रीभगवानुवाच –

विश्वास-प्रस्तुतिः

त्वयात्रैव चिरं कालं पूजितोऽहं पितामह ।
अनन्येनैव योगेन दुर्लभेनैव योगिनाम् ॥ (५)

अतस्तव प्रसन्नोऽस्मि वृणीष्व वरमीप्सितम् ।
वरदानाय सर्वेषां अत्रैवाहं व्यवस्थितः ॥ (६)

ब्रह्मा –

विश्वास-प्रस्तुतिः

अत्र सर्वं मया लब्धं त्वत्प्रसादात्सुदुर्लभम् ।
न चास्ति प्रार्थनीयं मे कृतार्थोऽस्मि जगद्गुरो ॥ (७)

त्वय्येव वर्तते नाथ मञ्चित्तमनियन्त्रितम् ।
किमन्यत्प्रार्थनीयं मे त्वत्पदाम्भोरुहस्मृतेः ॥ (८)

त्वत्प्रसादाद् चिरं कालं तपस्तप्तं सुदुष्करम् ।
ततस्ते परमं रूपम् ईदृशं दृष्टवानहम् ॥ (९)

प्रार्थनीयमिदं नाथ यदि मय्यस्त्यनुग्रहः ।
अत्रैव त्वत्पदांभोजपरिचर्यां प्रसीद मे ॥ (१०)

त्वत्पादकमलादन्यन्नैव वाञ्छति मे मनः ।
त्वद्दर्शनसमाह्लादसदृशं नास्ति किञ्चन ॥ (११)

अतोऽत्र निवसिष्यामि त्वत्पादकमलाश्रयः ।
ब्रह्मलोकनिवासो मे त्वया हीनो न रोचते ॥ (१२)

इत्युक्त्वा शिरसा ब्रह्मा वन्दयित्वा जनार्दनम् ।
तत्पदांभोरुहद्वन्द्वं प्रतिजग्राह बाहुभिः ॥ (१३)

तमुवाच जगन्नाथः पद्मपत्रनिभेक्षणः ।
अनादिर्जगतो हेतुः स्थावरस्य चरस्य च ॥ (१४)

मूलम्

तमुवाच जगन्नाथः पद्मपत्रनिभेक्षणः ।
अनादिर्जगतो हेतुः स्थावरस्य चरस्य च ॥ (१४)

श्रीभगवानुवाच –

विश्वास-प्रस्तुतिः

सर्गस्थितिविनाशाश्च लीलैव जगतो मम ।
न मेऽस्ति कारणं किञ्चित् कार्यं वापि कदाचन ॥ (१५)

त्वमेव भूत्वा सर्गादौ सृजामि भुवनान्यहम् ।
चरस्थिरविभागेन प्रविभिन्नान्यनेकशः ॥ (१६)

यज्ञयोनिरनन्तात्मा दुर्विज्ञेयस्सनातनः ।
अहमिन्द्रानुजो विष्णुः जातस्तदनुपालने ॥ (१७)

अचिन्त्यमहिमा व्यापी दुर्विज्ञेयस्सुरासुरैः ।
रुद्रोऽहं शङ्करो भूत्वा नाशयामि जगत्त्रयम् ॥ (१८)

अव्यक्तमविकारश्च भूतेन्द्रियगुणास्तथा ।
वसवोऽग्निर्यमो वायुर्वरुणो धनदस्तथा ॥ (१९)

सर्वे देवाश्च गन्धर्वा मनुष्या यक्षकिन्नराः ।
पशवः पक्षिणो वृक्षास्तृणगुल्मलतादयः ॥ (२०)

भूतं भव्यं भविष्यच्च सर्वं स्थावरजङ्गमम् ।
सर्वे ममांशसंभूताः मत्तो नान्यं न विद्यते ॥ (२१)

वर्णानामाश्रमाणां च कर्ताहं कर्मभेदतः ।
श्रुतिस्मृत्युदितं कर्म कुर्वन्ति मम शासनात् ॥ (२२)

न शक्नोति जनः कश्चिन्मदाज्ञामतिवर्तितुम् ।
पातयामि यमो भूत्वा मदाज्ञालङ्घिनो नरान् ॥ (२३)

अशास्त्रविहितेनैव मार्गेण गतचेतनः ।
मामर्चयति यो नित्यं स नरः पातकी भवेत् ॥ (२४)

मम प्रीतिकरं विद्धि मदाज्ञापरिपालनम् ।
अतिक्रम्य तु यो मूढः मामुपास्ते हतो हि सः ॥ (२५)

श्रुतिस्मृत्युदितं कर्म मदाज्ञा तस्य दिष्यते ।
मत्कर्मकरणे वासौ यस्तस्मिन्प्रतितिष्ठति ॥ (२६)

करोति प्रतिषिद्धानि धर्मबुद्ध्यापि यो नरः ।
स याति नरकं घोरं परमज्ञानवानपि ॥ (२७)

मम प्रियचिकीर्षुस्त्वं यदि पद्मसमुद्भव ।
ब्रह्मलोकमितो गत्वा मदाज्ञां परिपालय ॥ (२८)

मत्समीपनिवासस्ते मद्भक्तस्य तु दुर्लभः ।
धीरो भव मम प्रीत्यै जगतां सर्वकर्मसु ॥ (२९)

मद्भक्तो मन्मना भूत्वा मामेव सततं स्मर ।
ब्रह्मलोके स्वयं स्थित्वा मदाज्ञां परिपालय ॥ (३०)

भवता न व्यथा ब्रह्मन्यावदाभूतसंभवम् ।
अत्राहं निवसिष्यामि प्रलयेष्वपि सर्वदा ॥ (३१)

ग्रसित्वा तजगत्सर्वं तदा मां प्राप्स्यसि ध्रुवम् ।
यस्त्वार्चयति संयुक्तो नियतात्मा दृढव्रतः ॥ (३२)

देवतिर्यधनुष्येषु मद्भक्तस्स भविष्यति ।
जगतस्सर्वकरणे ज्ञापितोऽसि मया पुरा ॥
तत्रैव तव कर्तव्या स्थितिर्मदनुशासनात् ॥ (३३)

चैत्रमासि सिते पक्षे चतुर्दश्यामिहागतः ।
पौर्णमास्यामनन्यात्मा मामुपास्य दिवानिशम् ॥ (३४)

विशेषेण मया दत्तं तदेवं मम पूजनम् ।
समागम्येह लोकेऽस्मिन् तद्दिने पूजयस्व माम् ॥ (३५)

इयं काञ्चीति विख्याता पुरी त्वत्कीर्तिवर्धनी ।
मम प्रीतिकरी पुण्या न कदाचिद्विनश्यति ॥ (३६)

पुण्यकोटीति विख्याते विमानेऽस्मिन्सनातने ।
मामनुस्मर युक्तात्मा सततं पद्मसंभव ॥ (३७)

समतीते कृतयुगे त्रेताख्यस्समुपागतः ।
इतो गत्वा स्वकं लोकं प्रशाधि भुवनत्रयम् ॥ (३८)

गजेन्द्रो नाम धर्मात्मा मद्भक्तो भुवि वर्तते ।
तस्मै दत्तं मया पूर्वं त्रेतायां मम पूजनम् ॥ (३९)

त्रेतायुगे व्यतीते तु द्वापरेऽथ समागते ।
अर्चयिष्यति मामत्र बृहस्पतिरुपागतः ॥ (४०)

ततः कलियुगे प्राप्ते शेषः फणभृतां वरः ।
अर्चयिष्यति मामत्र यावदाभूतसंप्लवम् ॥ (४१)

गच्छन्तिष्ठन्स्वपन्भुञ्जन् मामेवानुस्मरन्निह ।
परमं सर्वमन्त्राणां मन्त्रमेतज्जपस्व मे ॥ (४२)

ओङ्कारमग्रतः कृत्वा द्व्यक्षरं नम इत्यथ ।
प्रणतार्तिहरायेति पदमेनं समुच्चरन् ॥ (४३)

कीर्तयेद्यन्विमं मन्त्रं मामेवानुस्मरन्सदा ।
मामेवैष्यति देहान्ते स मुक्तस्सर्वकिल्बिषैः ॥ (४४)

तत्समीपं न गच्छन्ति पिशाचग्रहराक्षसाः ।
चोरव्याघ्रादयस्तद्वत् तथा व्याधिभयादयः ॥ (४५)

विमानमेतत्पश्यन्ति यत्र स्थित्वा नरा मम ।
न तत्र भूतरक्षांसि वर्तन्ते मम शासनात् ॥ (४६)

आवयोः परमं गुह्यं संवादं पुण्यवर्धनम् ।
कीर्तयेत् शृणुयाद्वापि मद्भक्तस्स भविष्यति ॥ (४७)

इत्युक्तस्तु तदा ब्रह्मा विष्णुना प्रभविष्णुना ।
गमनाय मतिं चक्रे तदाज्ञामनुपालयन् ॥ (४८)

प्रदक्षिणं परिक्रम्य प्रणिपत्य पुनःपुनः ।
प्रेक्षमाणो मुखं विष्णोः निर्जगाम शनैश्शनैः ॥ (४९)

यावत्सत्यव्रतक्षेत्रे न्यवसत्कमलासनः ।
तावत्काञ्चीमुपागम्य पुरीं परमभास्वराम् ॥ (५०)

न्यवसत्प्राणिनस्सर्वे ब्रह्मलोकनिवासिनः ।
समर्चयन्तो देवेशं वरदं भक्तवत्सलम् ॥ (५१)

तैस्सर्वैस्सहितो ब्रह्मा कृतकृत्यस्तदा मुने ।
प्रणम्य शिरसा देवं प्रययौ स्वालयं प्रति ॥ (५२)

अथ सुरमुनिसिद्धैस्सेव्यमानः कृतात्मा विगलितभयशोकक्रोधमोहाभिलाषः ।
नवमृदुकलकण्ठैः किन्नरेगीयमानः सरसिजवनतिसूतिः धाम भूयः प्रपेदे ॥ (५३)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीस्तिगिरिमाहात्म्ये हिरण्यगर्भप्रयाणं नाम दशमोऽध्यायः