०९

अथश्रीहस्तिगिरिमाहात्म्ये नवमोऽध्यायः

नारदः –

विश्वास-प्रस्तुतिः

ततः प्रसन्नो भगवान् पुण्डीकायतेक्षणः ।
श्लक्ष्णगम्भीरनिर्घोषं तमुवाच चतुर्मुखम् ॥ (१)

मूलम्

श्रीभगवानुवाच –

विश्वास-प्रस्तुतिः

प्रसन्नोऽस्मि समुत्तिष्ठ स्तोत्रेण चतुरानन ।
दर्शिता मयि ते भक्तिः अनन्यान्त्यन्तदुर्लभा ॥ (२)

मत्कृते सुचिरं कालं त्वया तप्तं महत्तपः ।
अतस्सन्दर्शितं तुभ्यं रूपमेतन्मयाऽव्ययम् ॥ (३)

यजिष्टोऽहं त्वया ब्रह्मन् हयमेधेन भक्तितः ।
ततः प्रसन्नेन मया दर्शितं रूपमद्भुतम् ॥ (४)

मम सौम्यमिदं रूपं शङ्खचक्रगदाधरम् ।
न देवा न च गन्धर्वा न च पश्यन्ति योगिनः ॥ (५)

यज्ञदानतपोहोमैः अदृश्योऽहं कदाचन ।
अनन्ययैव भक्त्या मां पश्यन्ति ब्रह्मवादिनः ॥ (६)

अनन्यां मयि ते भक्तिं जानामि कमलोद्भव ।
अतः प्रियतमं विद्धि त्वया दत्तं हविर्मम ॥ (७)

आगतोऽस्म्यहमत्रैव त्वदर्थं व्यक्तविग्रहः ।
न केवलं चतुर्वक्त्र तव प्रियचिकीर्षया ॥ (८)

यदेतद्भवता दृष्टं विमानमतुलप्रभम् ।
पुण्यकोटीति विख्यातं सर्वपापविनाशनम् ॥ (९)

अस्य सन्दर्शनं ब्रह्मन् दुर्लभं योगिनामपि ।
मत्प्रसादादिदं लब्धं भवता हृष्टचेतसा ॥ (१०)

पुण्यकोटिविमानान्तः ये मां द्रक्ष्यन्ति मानवाः ।
भ्रूणहत्यादिभिः पापैः मुच्यन्ते नात्र संशयः ॥ (११)

हिताय सर्वभूतानामाविर्भूतमिदं महत् ।
विमानं दिव्यमतुलं पुण्यकोटीति विश्रुतम् ॥ (१२)

अत्राहं हयमेधेन तोषितो भक्तितस्त्वया ।
अतो विमानमध्येऽस्मिन् दृष्टवानसि मां स्वयम् ॥ (१३)

वैदिकीभिः क्रियाभिर्मां ये यजन्ति दृढव्रताः ।
न हि तत्सदृशास्सन्ति मम प्रियचिकीर्षया ॥ (१४)

वरं वृणीष्व भद्रं ते वाञ्छितं यस्त्वयानघ ।
तदेव तव दास्यामि ध्रुवं नास्त्यत्र संशयः ॥ (१५)

तस्य तद्वचनं श्रुत्वा विष्णोरमिततेजसः ।
प्रणिपत्याञ्जलिं बध्वा तमाह चतुराननः ॥ (१६)

ब्रह्मा –

विश्वास-प्रस्तुतिः

परिपूर्णं मया लब्धं वाञ्छितं त्वत्प्रसादतः ।
न चान्यं नाथ मे लब्धमेतस्मादेव दर्शनात् ॥ (१७)

इदं हि परमं रूपं तव दिव्यं सुरेश्वर ।
प्रार्थितं सुचिरं कालं लब्धमेतन्मयाऽधुना ॥ (१८)

इदं हि प्रार्थ्यते नित्यं योगिभिर्विजितेन्द्रियैः ।
अनायासेन ते लब्धं त्वत्प्रसादान्मयाऽधुना ॥ (१९)

त्वद्रूपं द्रष्टुमृषयो मुनयस्संशितव्रताः ।
ब्रह्माचरं चरन्त्यन्ये सर्वभूतहिते रताः ॥ (२०)

त्वां द्रष्टुकामा मुनयः चरन्ति परमं तपः ।
द्रष्टुकामा महायज्ञैः त्वां यजन्ते हि यज्वनः ॥ (२१)

प्राणायामान् प्रकुर्वन्ति निराहारा द्विजोत्तमाः ।
तीर्थानि च निषेवन्ते त्वद्दर्शनसमुत्सुकाः ॥ (२२)

गन्धपुष्पादिभिर्नित्यं यजन्ते त्वां दृढव्रताः ।
पुत्रमित्रकलत्रेषु निस्स्पृहा योगिनस्सदा ॥ (२३)

त्वां यजन्ति जितक्रोधाः निर्द्वन्द्वा निष्परिग्रहाः ।
यज्ञैर्दानैर्जपैर्होमैः तपस्स्वाध्यायसंयमैः ॥ (२४)

तव सन्दर्शनायैव देवेन्द्रस्त्वामुपासते ।
तव सौम्यमिदं रूपं दुर्लभं सर्वदेहिनाम् ॥ (२५)

त्वत्प्रसादान्मया लब्धं केवलं मधुसूदन ।
सुतप्तं सुचिरं कालं मया त्वद्दर्शनेच्छया ॥ (२६)

स्वप्नेष्वपि न दृष्ट यदिह प्रत्यक्षतां गतम् ।
स्फुरत्कमलपत्राक्ष पीतवासश्चतुर्भुज ॥ (२७)

श्रीवत्साङ्क महाबाहू सर्वभूतहिते रत ।
न चान्यत्प्रार्थनीयं मे दुर्लभात्तव दर्शनात् ॥ (२८)

न ह्यलब्धं मया किञ्चिदधुना मधुसूदन ।
इदन्तु प्रार्थनीयं मे यदि ते मय्यनुग्रहः ॥ (२९)

सर्वलोकहितं तात दुर्लभं च जगत्त्रये ।
तव दिव्यमिदं रूपं सर्वभूताभयप्रदम् ॥ (३०)

फुल्लेन्दीवरसङ्काशं पीतांबरधरं शिवम् ।
देवतिर्यङ्मनुष्याणां सदा प्रत्यक्षगोचरम् ॥ (३१)

अत्र तिष्ठतु देवेश हस्तिशैलस्य मूर्धनि ।
वैकुण्ठे तु यथैव स्याद् यथैव क्षीरसागरे ॥ (३२)

तथा सत्यव्रतक्षेत्रे वासस्तेऽत्र भवेदिह ।
हस्तिशैलस्य शिखरे सर्वलोकनमस्कृते ॥ (३३)

पुण्यकोटिविमानेऽस्मिन् पश्यन्तु त्वां सदा सुराः ।
चतुर्बाहुमुदाराङ्गं वनमालाविभूषितम् ॥ (३४)

वरदं सर्वभूतानां सर्वैश्वर्यसमन्वितम् ।
अत्रैव द्रष्टुकामा ये समागच्छन्ति दूरतः ॥ (३५)

सर्वपापविनिर्मुक्ता यान्तु ते परमां पदम् ।
नारदः –

विश्वास-प्रस्तुतिः

इत्थं संप्रार्थितस्तेन वरदो वेदिमध्यगः ।
प्रसन्नवदनः श्रीमान् इदमाह महामुने ॥ (३६)

श्रीभगवान् –

विश्वास-प्रस्तुतिः

प्रार्थितं यत्त्वया ब्रह्मन् तद्दत्तमधुना मया ।
येन संप्रार्थितोऽत्राहं तस्य तद्भविता ध्रुवम् ॥ (३७)

अभिव्यक्तोऽहमत्रैव केवलं त्वत्कृतेऽधुना ।
त्वदाराधनसन्तुष्टः किं प्रदास्यामि सुव्रत ॥ (३८)

अत्राहं निवसिष्यामि त्वत्प्रियार्थं पितामह ।
वाञ्छितं सर्वभूतेभ्यो दस्यामि च सुपूजितः ॥ (३९)

ये यजन्तेऽत्र मां नित्यं श्रद्धाभक्तिसमन्विताः ।
ते लभन्तेप्सितान् कामान् ते ममैतदनुशासनम् ॥ (४०)

यत्र कुत्र वसन्वापि धार्मिकोऽधार्मिकोऽपि वा ।
मां स्मरन्पुण्यकोट्यन्तः सर्वपापैः प्रमुच्यते ॥ (४१)

अयनादिषु कालेषु पुण्येषु यतमानसः ।
मा स्मरन्पुण्यकोट्यन्तः स मुक्तस्सर्वकिल्विषैः ॥ (४२)

यस्त्रिरात्रमुपोष्यात्र मामर्चयति भक्तितः ।
कृतकृत्यस्तु सहसा ब्रह्महत्या व्यपोहति ॥ (४३)

हेमरत्नादिकं धान्यं वस्त्राण्यपि पशूनपि ।
क्षेत्रोद्यानादिकं वापि पत्रपुष्पफलादिकम् ॥ (४४)

ददाति श्रद्धया मह्यम् अस्मिन् क्षेत्रे तु मानवः ।
प्रतिगृह्णामि तत्सर्वम् अहमत्यन्तगौरवात् ॥ (४५)

तेभ्यो ददाम्यभीष्टानि फलानि च पितामह ।
यस्स्मरेत्प्रातरुत्थाय मम क्षेत्रमिदं नरः ।
पुरीमिमाञ्च स नरो मुच्यते सर्वकिल्बिषैः ॥ (४६)

सत्यव्रतमिदं क्षेत्रं सततं यस्तु कीर्तयेत् ।
मम लोकमवाप्नोति न चेह जायते पुनः ॥ (४७)

मत्समाराधनायेयं निर्मिता महती पुरी ।
अतस्सर्वपुरीणाञ्च पुण्यश्लोका भविष्यति ॥ (४८)

जातो वापि मृतो वापि पापानामतिपापकृत् ।
मम लोकमवाप्नोति न पुनर्भवमृच्छति ॥ (४९)

मूलम्

जातो वापि मृतो वापि पापानामतिपापकृत् ।
मम लोकमवाप्नोति न पुनर्भवमृच्छति ॥ (४९)

विश्वास-प्रस्तुतिः

श्वःखरोष्ट्रमृगव्याळपशुपक्षिसरीसृपाः ।
अस्मिन् क्षेत्रे समुत्पन्नाः मद्भक्तिं यान्ति नैष्ठिकीम् ॥ (५०)

श्रद्धयाऽश्रद्धया वापि यत्कर्म क्रियतेऽत्र वै ।
तत्सर्वफलदं तस्य न कदाचिद्विनश्यति ॥ (५१)

रूपमेति मया व्यक्तं पुराप्यत्रैव तिष्ठति ।
नित्यं सन्निहितो ह्यत्र यथाहं क्षीरसागरे ॥ (५२)

अत्रैवार्चयते नित्यं शेषः फणभृतां वरः ।
त्वत्कृते निवसाम्यत्र न मां द्रक्ष्यन्ति मानवाः ॥ (५३)

अस्मिन् गिरिवरे पूर्व दिग्गजाः किल धाविताः ।
गन्धपुष्पादिभिर्दिव्यैः भक्ष्यैः मामभ्यपूजयन् ॥ (५४)

पुरा वराहरूपेण धरणीयं मयोद्धृता ।
क्षुरैर्निहत्य दैतेयान् पातालतलवासिनः ॥ (५५)

तदा मां द्रष्टुकामोऽयमनन्तो लोकधारकः ।
अत्रैव वसुधां भित्वा समुत्तस्थौ रसातलात् ॥ (५६)

तदाप्रभृति विख्यातमेतत्पुण्यजलं सरः ।
अनन्तसर इत्येतत्सर्वपापविनाशनम् ॥ (५७)

मूलम्

तदाप्रभृति विख्यातमेतत्पुण्यजलं सरः ।
अनन्तसर इत्येतत्सर्वपापविनाशनम् ॥ (५७)

विश्वास-प्रस्तुतिः

निवसत्यत्र वल्मीके पन्नगेन्द्रो मम प्रियः ।
तदाप्रभृति तीर्थस्य स एवास्याधिदैवतम् ॥ (५८)

अनन्तसरसि स्नात्वा मामर्चयति यो नरः ।
स सर्वैः पूज्यते लोके देवगन्धर्वदानवैः ॥ (५९)

सत्यव्रतं सत्यफलप्रदमेतत् पितामह ।
पुण्यानामपि सर्वेषां पावनं सिद्धसेवितम् ॥ (६०)

इदानीं सन्निधानेन विमानस्यास्य भास्वतः ।
अश्रद्धया कृतं वापि बद्द्धयते कर्म कोटिभिः ॥ (६१)

नित्यं सन्निहितोऽत्राहं प्रत्यक्षो नैव कस्यचित् ।
त्वयाहं दृष्टवानत्र प्रत्यक्षेण पितामह ॥ (६२)

अभिव्यक्तोऽहमत्रैव हविर्ग्रहणतत्परः ।
त्वत्प्रियार्थं त्वया तस्मात्तारितं भुवनत्रयम् ॥ (६३)

देवा मनुष्याः पशवो मद्भक्ता ये पितामह ।
त्वामर्चयन्तु ते सर्वे ममैतदनुशासनम् ॥ (६४)

क्रतुशेषं त्विदानीं त्वं यजस्व यतमानसः ।
न मे यज्ञेन सदृशं पूजनं विद्यतेऽब्जज ॥ (६५)

देवतिर्यङ्मनुष्याणाम् अहं प्रत्यक्षतां गतः ।
अत्रैव निवसिष्यामि सत्यमेतद्ब्रवीमि ते ॥ (६६)

आगताश्चैव ये ब्रह्मन् अश्वमेधदिदृक्षवः ।
मत्प्रियास्ते च संसिद्धिं लभन्तेऽत्र न संशयः ॥ (६७)

प्रणतार्तिहरेत्येवं सततं कीर्तयस्व माम् ।
विनश्यन्ति च दुःखानि विवर्धन्ति सुखानि च ॥ (६८)

चैत्रे मासे सिते पक्षे चतुर्दश्यामनन्यधीः ।
मामेवाभ्यर्चयात्र त्वं वेदिमध्ये व्यवस्थितम् ॥ (६९)

माधवे मासि नक्षत्रे श्रवणे पुण्यवर्धने ।
अनन्तसरसि स्नात्वा ये मां द्रक्ष्यन्ति मानवाः ॥ (७०)

सततं मां नमस्यन्तः कथयन्तश्च मत्कथाः ।
जन्मबन्धविनिर्मुक्ताः ते यान्ति परमां गतिम् ॥ (७१)

आषाढ-शुक्लद्वादश्याम् अर्चयन्ति च ये नराः ।
चतुरष्टेषु मासानां मत्साम्यं यान्ति ते ध्रुवम् ॥ (७२)

एकरात्रं त्रिरात्रं वा सप्तरात्रमथापि वा ।
निवसेद्यस्स सहसा मुच्यते सर्वकिल्बिषैः ॥ (७३)

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।
पूजयित्वात्र मामेव मुच्यते महतो भयात् ॥ (७४)

नारदः-

विश्वास-प्रस्तुतिः

इत्युक्त्वा शिरसा ब्रह्मा भक्तिपूतेन चेतसा ।
अर्चयामास देवेश वरदं भक्तवत्सलम् ॥ (७५)

पाञ्चरात्रविधिः प्रोक्तः सर्वाम्नायसमन्वितः ।
विधिमोक्षप्रदः शुद्धः शुचिकृत्सर्वदेहिनाम् ॥ (७६)

तेन मार्गेण वरदं वेदिमध्ये व्यवस्थितम् ।
राजोपचारैर्विविधैः पूजयामास पद्मभूः ॥ (७७)

ततो विज्ञाप्य भूतानामीश्वराय पितामहः ।
उक्थानशेषमखिलं चक्रे सप्तर्षिभिस्सह ॥ (७८)

अतिरात्राह्निकं कर्म ततश्चक्रुर्यथाविधि ।
समाहितधियो भूत्वा ऋत्विजः परमपावनाः ॥ (७९)

तत्पदाम्बोरुहाधार-ज्वलने च समुज्वले ।
जुह्वायाञ्चक्रिरे सर्वे हवींषि मुनयस्तदा ॥ (८०)

त्रिदशा मुनयस्सिद्धा मनुष्याश्च समागताः ।
तद्धविस्सर्वमश्नन्तं वरदं ददृशुस्तदा ॥ (८१)

ततस्सन्तुष्टुवुस्सर्वे हविर्गन्धमुखं हरिम् ।
कृताञ्जलिपुटास्थित्वा संपश्यन्तो हरिं मुने ॥ (८२)

ज्योतिष्टोमातिरात्रौ च अभिजिद्विश्वजित्तथा ।
अप्तोर्यामश्च विधिवत् निवृत्तास्ते महर्षिभिः ॥ (८३)

इत्थं कर्मणि संपूर्य सर्वाणि मुनिसत्तमैः ।
ऋत्विग्भ्यश्च ततो ब्रह्मा समृद्धां दक्षिणां ददौ ॥ (८४)

सदस्येभ्यस्तथान्येभ्यो ब्राह्मणेभ्य पितामहः ।
प्रददौ धनधान्यानि वस्त्राण्याभरणानि च ॥ (८५)

चतुर्धाकृत्य वसुधां ऋत्विग्भिः प्रददौ क्रमात् ।
गवां शतसहस्राणि नियुतान्ययुतानि च ॥ (८६)

ततस्तां ऋत्विजस्सर्वे वसुधाञ्च पशूनपि ।
प्रददुर्देवराजस्य चरणांबुजयोः मुने ॥ (८७)

इत्थमाराध्य देवेशं हयमेधेन केशवम् ।
देवर्षिगणसंयुक्तः चक्रेऽश्वभृथमब्जभूः ॥ (८८)

ततो देवर्षिभिस्सार्धं कृतकृत्यः पितामहः ।
निर्ययौ यज्ञशालायाः स्नानार्थं ऋषिभिस्सह ॥ (८९)

उदग्पश्चिमदिग्भागे वेद्यास्त्रिंशद्धनुर्मिते ।
अनन्तसरसि स्नातुं मनश्चक्रे महामनाः ॥ (९०)

प्रसन्नसलिले पुण्ये गम्भीरे पुण्यवर्धने ।
लोलकल्लोलविलसत् काञ्जनाम्बुजकानने ॥ (९१)

राजहंससमाकीर्णे मत्तकारण्डवाकुले ।
मत्तषट्पदसन्नाद-निर्मिताशेषकिन्नरे ॥ (९२)

महावराहदेवेशं द्रष्टुकामो रसातलात् ।
निर्ययौ यत्र भगवाननन्तः पन्नगेश्वरः ॥ (९३)

तीर्थे तस्मिन्महापुण्ये सिद्धसङ्घनिषेविते ।
समाहूतानि सर्वाणि तीर्थानि मुनिभिस्तदा ॥ (९४)

तानि सर्वाणि सरसि सङ्गतानि स्वयं तदा ।
उदतिष्ठत्तदा गङ्गा प्रसन्नसलिलोद्वहा ॥ (९५)

प्रापूर्यन्त तदा भूयो महानागाह्वयं सरः ।
तां दृष्ट्वा विस्मितास्सर्वे गङ्गां भुवनपावनीम् ॥ (९६)

प्रणेमुः प्रीतमनसः प्रशंसन्तः परस्परम् ।
हेमकुम्भात्समादाय गङ्गासलिलमब्बभूः ॥ (९७)

अभ्यषिञ्चत्ततो भक्त्या वरदं वेदिमध्यगम् ।
पुनः प्रक्षाल्य सलिलैः तत्पदाम्भोरुहद्वयम् ॥ (९८)

ऋत्विग्भ्यश्चाथ देवेभ्यः ऋषिभ्यश्च ततो ददौ ।
ततो नागाह्वयं तीर्थं सर्वतीर्थसमन्वितम् ॥ (९९)

पश्यन्तो मुनयस्सर्वे प्रशंसुश्च परस्परम् ।
अत्रिः –

विश्वास-प्रस्तुतिः

अस्मिन्सरसि यस्स्नात्वा पूजयेद्वरदं हरिम् ।
सर्वपापविनिर्मुक्तः स याति परमं पदम् ॥ (१००)

पुलस्त्यः –

विश्वास-प्रस्तुतिः

अस्मिन्नागाह्वये तीर्थे यः स्नात्वा भक्तिपुरस्सरम् ।
वरदं प्रणमेभक्त्या मुच्यते सर्वपातकैः ॥ (१०१)

बृहस्पतिः-

विश्वास-प्रस्तुतिः

अस्मिन्नागाह्वये तीर्थे यः स्नायाद् अवशोऽपि सः ।
स मुक्तः सर्वपापेभ्यः भविता पुण्यकृद्ध्रुवम् ॥ (१०२)

वसिष्ठः –

विश्वास-प्रस्तुतिः

यस्मिन्नवभृथं स्नानं चकार चतुराननः ।
तस्मिन् सरसि यः स्नायात् स मुक्तस्सर्वकिल्विषैः ॥ (१०३)

इत्युक्त्वा मुनयस्सर्वे तस्मिन् सस्नुः यथाविधि ।
विमानं पुण्यकोट्याख्यं वीक्षमाणा महुर्मुहुः ॥ (१०४)

पद्मयोनिश्च तैस्सार्धं नागतीर्थे विगाह्य च ।
दध्यौ पद्मपलाशाक्षं पश्चिमाभिमुखं हरिम् ॥ (१०५)

कृतकृत्यस्ततो ब्रह्मा प्राप्तसर्वमनोरथः ।
वरदं सर्वभूतानां समाराद्धुं प्रचक्रमे ॥ (१०६)

ततो देवमनुष्याद्याः समाहूताश्च ये जनाः ।
विधात्रा समनुज्ञाताः प्रययुस्ते यथागतम् ॥ (१०७)

ब्रह्मणश्चरितं सर्वमाविर्भावं तथा हरेः ।
आश्चर्यं प्रययुः प्रीताः प्रशंसन्तः परस्परम् ॥ (१०८)

अथ सरसिजसंभवः कृतात्मा सुरवरमौलिविराजिताङ्घियुग्मम् ।
व्यवसितमतिरग्र्य-गन्धपुष्पैः वरदमपूजयदात्मयोनिरीशम् ॥ (१०९)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादेश्रीहस्तिगिरि–माहात्म्ये अश्वमेधावभृथस्नानंनामनवमोऽध्यायः

॥ हस्त्यद्रि सम्बन्धिसन्दोहः ॥

॥ हस्तिगिरि दर्शनम् Part 3॥

HASTHIGIRI DARSANAM Part 3

(सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्)

श्रीः

श्रीमते रामानुजाय नमः

श्रीब्राह्मपुराणान्तर्गतं श्रीहस्तिगिरिमाहात्म्यम् (Continued)