अथश्रीहस्तिगिरिमाहात्म्ये अष्टमोऽध्यायः
नारदः –
विश्वास-प्रस्तुतिः
ततः प्रदीप्तानलवेदिमध्यगं निजप्रभामण्डलमण्डितं हरिम् ।
सुनिर्मलं निर्मलचित्तगोचरं ददर्श संहृष्टमनाश्चतुर्मुखः ॥ (१)
मूलम्

निशाकरार्कप्रभशङ्खचक्रिणं ज्वलत्सहस्रांशुसमानशेखरम् ।
समुल्लसद्रत्नविचित्रकुण्डलं सुरेन्द्रचापप्रतिमध्रुवं विभुम् ॥ (२)

महेन्द्रनीलाभललाटनिश्चल-प्रदीप्त-संपत्तिलकोज्वलाननम् ।
उदारसौभाग्य सितावतंसिक ललाटलोलालक राजिराजितम् ॥ (३)

समुल्लसत्काञ्चनबाहुबन्धनं समुल्लसत्काञ्चननूपुरद्वयम् ।
कुशेशयावेशितपादपङ्कजं विभक्तगुल्फं त्रसुरस्थिरे स्थितम् ॥ (४)

अविश्लथन्मांसल गूढजानुकं क्रमानुवृत्तोरुयुगोचिताम्बरम् ।
प्रसन्नवक्त्रं स्मितशोभिताधरं विशाललोलाम्बुजलोचनद्वयम् ॥ (५)

उदारसौभाग्यकपोलकुण्डलं सुनासिकाकल्पलतं महाभुजम् ।
ततस्समुद्वीक्ष्य पुरःस्थितं हरिं वितानवेद्यामतसीसुमप्रभम् ॥ (६)

सतत्क्षणोद्भूतसुखार्णवाप्लुतो ययौ तदाकृत्यविवेकमूढताम् ।
उपाविशन्मौनमुपागतः क्षणं जगौ ननर्ताक्रमतानकं पुनः ॥ (७)

रुद्रोऽथ भूयस्तमुदैक्षतक्षणं ततः परं क्ष्वेलनतत्परोऽभवत् ।
प्रदक्षिणं प्रेत्य तदाऽप्रदक्षिणं प्रयाति रुद्रं पुनरेति सन्निधिम् ॥ (८)

करेण पस्पर्श ममार्ज तद्वपुः प्रियेण गाढं परिषस्वजे स्वयम् ।
पुनःपरिक्रम्य ननाम पादयोः बहुप्रलापप्रवणोऽभवत्क्षणम् ॥ (९)

इति प्रहर्षाद्विवशश्चतुर्मुखः चकार चेष्टा विविधास्तदग्रतः ।
ततस्समाधाय मनः प्रसन्नधीः जगद्गुरुं प्रेक्ष्य पुरःस्थितं हरिम् ॥ (१०)

प्रणम्य बद्धाञ्जलिरानताननो जगद्गुरुं स्तोतुमथारभत्पुनः ॥ (११)
ब्रह्मा –
विश्वास-प्रस्तुतिः
प्रसीद देव प्रणतार्तिनाशन प्रभावितोऽहं भवताव्ययात्मना ।
अगोचरस्सर्वमनोगिरामपि त्वमेव मद्दृष्टिपथं गतोऽसि यत् ॥ (१२)

अनादिमध्यान्तमजं पदं परं निरञ्जनं निर्गुणमक्षयं शिवम् ।
तदव्ययं ज्योतिरचिन्त्यमक्षरं त्वमेव विज्ञानमयं जनार्दन ॥ (१३)

अणोरणीयां समनन्तमव्ययं महान्तमव्यक्तमनन्तमीश्वरम् ।
परात्परं कारणकारणं हरिं निराश्रयं त्वां प्रवदन्ति सूरयः ॥ (१४)

यथाग्नितप्ताः पयसस्स्फुलिङ्गकाः सहस्रशोऽन्ये परितस्सरन्ति हि ।
तथैव जीवाश्च भवत्सकाशतो विनिर्गतास्सत्वरजस्तमोवृताः ॥ (१५)

यज्ञान्तकृत् यज्ञपतिहुताशनो हविविधिः कर्तृफलानि कर्मणाम् ।
विकारहीनो जगदेककारणं त्वमेव विज्ञानमयं गुणाधिकम् ॥ (१६)

असच्च सच्चान्यमपारमक्षयं निरस्तदुःखञ्च विशोकमन्वहम् ।
असूक्ष्ममस्थूलमदीर्घमव्ययं निराश्रयं त्वां वरदं समाश्रये ॥ (१७)

मेघोज्झितान्यद्रि-गुहान्तरेषु यथा समुद्रं सलिलानि यान्ति ।
तथैव सर्वत्र हुतानि यानि विशन्ति तान्येव भवन्तमीशम् ॥ (१८)

त्वन्मायया विश्वमिदं विमूढं न चैव जानाति निजस्वरूपम् ।
त्वय्येव जातं त्वयि वृद्धिमेति त्वय्येव विश्वं विलयं प्रयाति ॥ (१९)

स्थूञ्च सूक्ष्मं परमपारभूतं त्वमेव विज्ञानमयञ्च धाम ।
परावरेशं निहितं गुहायां निरत्ययं निष्कलमामनन्ति ॥ (२०)

त्वमीश्वरस्सर्वगुरुर्गरीयान् न तिर्यगूर्ध्वञ्च तथाप्यधस्तात् ।
न चक्षुषा पश्यति कश्चन त्वां हृदिस्थमव्यक्तमनन्तरूपम् ॥ (२१)

यदव्ययं साङ्ख्यविदो वदन्ति सुनिर्मलं केवलमप्रमेयम् ।
विकारहीनं प्रकृतेः परञ्च त्वमेव विश्वेश्वर विश्वरूप ॥ (२२)

अदृश्यमग्राह्यमगोत्रमव्ययं महत्सुसूक्ष्मं त्वमनन्तमीड्यम् ।
परात्परं नित्यमजं शिवश्च तव प्रभावो भुवनातिरिक्तः ॥ (२३)

सुरा मनुष्याः पशवश्च वृक्षाः सरीसृपाश्शैलसरित्समुद्राः ।
पिशाच-यक्षग्रह-तारकाश्च रक्षांसि भूतानि सुरद्रुमाश्च ॥ (२४)

पयोमुचो मेघवराश्च विद्युन्नभोमरुद्वह्निजलानि पृथ्वी ।
एतानि सर्वाणि हरे त्वदीयसङ्कल्पमात्रेण समुद्भवन्ति ॥ (२५)

सुरेश वैश्वानर कालरक्षो जलेशवायूत्तरदिक्पतीशाः ।
दिशा गजाश्शेषकुलाचलाश्च तवैव रूपाणि न च त्वदन्ये ॥ (२६)

बहूनि दुःखानि सुरेशजन्म जरामयोत्क्रान्ति समुद्भवानि ।
अतीत्य निर्वाणमवाप्तुकामाः त्वामेव धीराश्शरणं प्रयान्ति ॥ (२७)

अनेकजन्मार्जितपापराशेर्न जातु चित्तं त्वयि सन्निधत्ते ।
विकृष्यमाणं विषयैरसङ्ख्यैश्चरत्यजस्रं परमप्रहृष्टम् ॥ (२८)

निरुद्धनिश्वासकफादियोगात् सुदुष्प्रधर्षस्त्वमनीशयोगैः ।
तथापि कारुण्यतयैव नाथ चिराय मे दृष्टिपथं गतोऽसि ॥ (२९)

यान्येव कर्माणि करोति जन्तुः तान्येव पापानि भवन्ति तस्य ।
न निष्क्रियः कश्चिदिहास्ति लोके स त्वां कथं पश्यति लोकनाथ ॥ (३०)

भवार्णवे दुःखमहाजलौघे भयातिशोकाभिनिवेशपूर्णे ।
प्रियासुहत्प्रेमरसातिगूढे निमग्नमभ्युद्धर मामनन्त ॥ (३१)

क्षेत्राणि मित्राणि धनानि नाथ पुत्राश्च दाराः पशवो गृहाणि ।
त्वत्पादपद्मप्रवणात्मवृत्तेः भवन्ति सर्वे प्रतिकूलरूपाः ॥ (३२)

अज्ञानमोहान्धतमोऽभिभूताः न त्वां प्रपश्यन्ति सदा हृदिस्थम् ।
पुनःपुनर्जन्मजराभयेषु सुखेषु दुःखेषु परिप्लवन्ति ॥ (३३)

भवाब्धिमध्ये विनिमज्जतान्तु परागतिर्देहभृतां त्वमेव ।
पिता च माता च सुहृच्च बन्धुः त्वमेव सर्वं मम देवदेव ॥ (३४)

भक्तिं प्रसीद भगवन् त्वयि निर्मलां मे नित्यं त्वदीयपदपद्मनिषेवणाञ्च ।
त्वद्दर्शनैकरसतां च दृशोरजस्रं त्वन्नामकीर्तनपटुत्वमनन्तवाचाम् ॥ (३५)

मायाविमोहितमतिर्भगवन्न जाने कृत्यं कृतं च करुणाञ्च हिताहिते च ।
त्वत्पादपद्मकरुणापहृतात्ममोहः त्वामात्मनोऽगतिरहं शरणं गतोऽ स्मि ॥ (३६)

पापानि पूर्वचरितानि बहूनि यानि शक्यन्न तानि गदितुं युगकोटिभिर्मे ।
वेत्थ त्वमेव सकलं जगदन्तरात्मन् तस्मात्त्वदङ्घ्रियुगलं शरणं गतोऽस्मि ॥ (३७)

त्वन्नाभीरुहपुण्डरीकजनितस्सर्गादिकाले ह्यहं
त्वां स्तोतुं कथमीश्वरोऽस्मि जगतः पूर्वं परं कारणम् ।
तेजो वीर्यबलावबोधजलधि ज्योतिः परस्मात्परं
त्वामेवं शरणं गतोऽस्मि कृपया संरक्ष मां केवलम् ॥ (३८)
नारदः –
इत्युक्त्वा शिरसा पपात सहसा तत्पादपद्मद्वये
प्रीतः पूर्णमनोरथश्च पुरुषं ध्यायन्पुरोऽवस्थितम् ।
वैकुण्ठं वरदं वरेण्यमनघं भक्तप्रियं पद्मभूः
निर्दोषं निरनिष्टमच्युतमजं नीरभ्रपिञ्छप्रभम् ॥ (३९)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादेश्रीहस्तिगिरिमाहात्म्ये अष्टमोऽध्यायः