अथश्रीहस्तिगिरिमाहात्म्ये सप्तमोऽध्यायः
नारदः –
विश्वास-प्रस्तुतिः
ततस्तेषु प्रशान्तेषु मुनयस्संशितव्रताः ।
प्रातस्सवनशेषन्तु चक्रिरे मुनिसत्तमाः ॥ (१)
मूलम्
ततस्तेषु प्रशान्तेषु मुनयस्संशितव्रताः ।
प्रातस्सवनशेषन्तु चक्रिरे मुनिसत्तमाः ॥ (१)
विश्वास-प्रस्तुतिः
माध्यन्दिनञ्च सवनं तृतीयसवनं तथा ।
स्नाह्निकं ध्यानिकं कर्मकर्तुमारेभिरे ततः ॥ (२)
मूलम्
माध्यन्दिनञ्च सवनं तृतीयसवनं तथा ।
स्नाह्निकं ध्यानिकं कर्मकर्तुमारेभिरे ततः ॥ (२)
विश्वास-प्रस्तुतिः
अश्वं बध्वा तु यूपे तु तं समालाभ्य मन्त्रतः ।
विशस्याश्वं सुसंस्कृत्य होमार्थं चक्रिरे हविः ॥ (३)
मूलम्
अश्वं बध्वा तु यूपे तु तं समालाभ्य मन्त्रतः ।
विशस्याश्वं सुसंस्कृत्य होमार्थं चक्रिरे हविः ॥ (३)
विश्वास-प्रस्तुतिः
वपाहोमार्थमश्वस्य लोहितं सुशृतं कृतम् ।
निरुप्तानि तथान्यानि हवींषि सुशृतानि च ॥ (४)
मूलम्
वपाहोमार्थमश्वस्य लोहितं सुशृतं कृतम् ।
निरुप्तानि तथान्यानि हवींषि सुशृतानि च ॥ (४)
विश्वास-प्रस्तुतिः
ऋत्विक्प्रचोदितान्यस्मिन् अन्यैश्च मुनिपुङ्गवैः ।
ऋग्यजुस्सामघोषस्तु समुत्तस्थौ महाध्वनिः ॥ (५)
मूलम्
ऋत्विक्प्रचोदितान्यस्मिन् अन्यैश्च मुनिपुङ्गवैः ।
ऋग्यजुस्सामघोषस्तु समुत्तस्थौ महाध्वनिः ॥ (५)
विश्वास-प्रस्तुतिः
सर्वेभ्यो वेदघोषेभ्यः समघोषो महानभूत् ।
अन्वघोषयदत्यर्थं तेन ब्रह्माण्डमण्डलम् ॥ (६)
मूलम्
सर्वेभ्यो वेदघोषेभ्यः समघोषो महानभूत् ।
अन्वघोषयदत्यर्थं तेन ब्रह्माण्डमण्डलम् ॥ (६)
विश्वास-प्रस्तुतिः
तेनैव वेदघोषेण सर्वे रक्षःपिशाचकाः ।
त्रैलोक्यान्तर्गताः स्थानात् विनिर्जग्मुस्ततस्ततः ॥ (७)
मूलम्
तेनैव वेदघोषेण सर्वे रक्षःपिशाचकाः ।
त्रैलोक्यान्तर्गताः स्थानात् विनिर्जग्मुस्ततस्ततः ॥ (७)
विश्वास-प्रस्तुतिः
मनुष्याणाञ्च सर्वेषां पश्यतां त्रिदिवौकसाम् ।
आसीन्मनोहरो धातुरश्वमेधविधिस्तदा ॥ (८)
मूलम्
मनुष्याणाञ्च सर्वेषां पश्यतां त्रिदिवौकसाम् ।
आसीन्मनोहरो धातुरश्वमेधविधिस्तदा ॥ (८)
विश्वास-प्रस्तुतिः
ततो वसिष्ठो धर्मात्मा वह्निध्ये धूमके ।
मन्त्रेण जुहुवांचक्रे वपां परमपावनाम् ॥ (९)
मूलम्
ततो वसिष्ठो धर्मात्मा वह्निध्ये धूमके ।
मन्त्रेण जुहुवांचक्रे वपां परमपावनाम् ॥ (९)
विश्वास-प्रस्तुतिः
यजमानश्च तां भक्त्या पद्मयोनिः पितामहः ।
तस्मै निवेदयामास विष्णवे परमात्मने ॥ (१०)
मूलम्
यजमानश्च तां भक्त्या पद्मयोनिः पितामहः ।
तस्मै निवेदयामास विष्णवे परमात्मने ॥ (१०)
विश्वास-प्रस्तुतिः
सर्वलोकेश्वरो देवः प्रणतार्तिहरो हरिः ।
अनया वपया साक्षात् गुरुर्मे प्रीयतामिति ॥ (११)
मूलम्
सर्वलोकेश्वरो देवः प्रणतार्तिहरो हरिः ।
अनया वपया साक्षात् गुरुर्मे प्रीयतामिति ॥ (११)
विश्वास-प्रस्तुतिः
ततोऽग्निमध्ये वरदं दध्यौ सरसिजासनः ।
अञ्जलिं प्रयतो बध्वा निमीलितविलोचनः ॥ (१२)
मूलम्
ततोऽग्निमध्ये वरदं दध्यौ सरसिजासनः ।
अञ्जलिं प्रयतो बध्वा निमीलितविलोचनः ॥ (१२)
विश्वास-प्रस्तुतिः
मनांसि सुप्रसन्नानि सर्वेषामभवत्तदा ।
प्रदक्षिणार्चिर्जज्वाल वह्निरुत्तरवेदिकः ॥ (१३)
मूलम्
मनांसि सुप्रसन्नानि सर्वेषामभवत्तदा ।
प्रदक्षिणार्चिर्जज्वाल वह्निरुत्तरवेदिकः ॥ (१३)
विश्वास-प्रस्तुतिः
हविर्भुजो महानासीत् पावनस्सार्वलौकिकः ।
तमोमोदं समाघ्राय मोदन्ति स्म दिवौकसः ॥ (१४)
मूलम्
हविर्भुजो महानासीत् पावनस्सार्वलौकिकः ।
तमोमोदं समाघ्राय मोदन्ति स्म दिवौकसः ॥ (१४)
विश्वास-प्रस्तुतिः
सुप्रसन्नमभूद्व्योम मानसं योगिनो यथा ।
प्रसन्नाश्च दिशस्सर्वा विधातरि समाहिते ॥ (१५)
मूलम्
सुप्रसन्नमभूद्व्योम मानसं योगिनो यथा ।
प्रसन्नाश्च दिशस्सर्वा विधातरि समाहिते ॥ (१५)
विश्वास-प्रस्तुतिः
ववौ सर्वसुखस्पर्शः स्पर्शकल्हारशीतलः ।
दिव्यगन्धवहो वायुः विधातरि समाहिते ॥ (१६)
मूलम्
ववौ सर्वसुखस्पर्शः स्पर्शकल्हारशीतलः ।
दिव्यगन्धवहो वायुः विधातरि समाहिते ॥ (१६)
श्रीवरदराज–प्रादुर्भावघट्टः
विश्वास-प्रस्तुतिः
तत उत्तरवेद्यन्तर्वह्निमध्यान्महामुने ।
समुद्बभूव सहसा नियुतार्कसमप्रभः ॥ (१७)
मूलम्
तत उत्तरवेद्यन्तर्वह्निमध्यान्महामुने ।
समुद्बभूव सहसा नियुतार्कसमप्रभः ॥ (१७)
विश्वास-प्रस्तुतिः
तेजसा तेन महता विद्योदितमिदं जगत् ।
अन्तर्बहिश्च सर्वेषां नष्टमन्धं तमस्तदा ॥ (१८)
मूलम्
तेजसा तेन महता विद्योदितमिदं जगत् ।
अन्तर्बहिश्च सर्वेषां नष्टमन्धं तमस्तदा ॥ (१८)
विश्वास-प्रस्तुतिः
तं दृष्ट्वा विस्मितास्सर्वे वह्निमध्यात्समुत्थितम् ।
किमेतदिति संभ्रान्ताः समुत्तस्थुस्सभासदः ॥ (१९)
मूलम्
तं दृष्ट्वा विस्मितास्सर्वे वह्निमध्यात्समुत्थितम् ।
किमेतदिति संभ्रान्ताः समुत्तस्थुस्सभासदः ॥ (१९)
विश्वास-प्रस्तुतिः
अश्रूयत महान् शब्दो दिव्यः श्रोत्रसुखावहः ।
शुद्धभक्त्योपसंपन्नैः एकान्तिभिरुदीरतः ॥ (२०)
मूलम्
अश्रूयत महान् शब्दो दिव्यः श्रोत्रसुखावहः ।
शुद्धभक्त्योपसंपन्नैः एकान्तिभिरुदीरतः ॥ (२०)
विश्वास-प्रस्तुतिः
प्रसीद देवदेवेश प्रणतार्तिहराच्युत ।
त्वमेव गतिरस्माकं प्रपन्नानां जनार्दन ॥ (२१)
मूलम्
प्रसीद देवदेवेश प्रणतार्तिहराच्युत ।
त्वमेव गतिरस्माकं प्रपन्नानां जनार्दन ॥ (२१)
विश्वास-प्रस्तुतिः
वासुदेव नमस्तुभ्यं त्वदावेशितचेतसः ।
करुणापरिपूर्णाभ्यां लोचनाभ्यां विलोकय ॥ (२२)
मूलम्
वासुदेव नमस्तुभ्यं त्वदावेशितचेतसः ।
करुणापरिपूर्णाभ्यां लोचनाभ्यां विलोकय ॥ (२२)
विश्वास-प्रस्तुतिः
ओतं प्रोतमिदं सर्वं त्वय्येव परमेश्वर ।
तव सौम्यमिदं रूपं धन्या वयमुपास्महे ॥ (२३)
मूलम्
ओतं प्रोतमिदं सर्वं त्वय्येव परमेश्वर ।
तव सौम्यमिदं रूपं धन्या वयमुपास्महे ॥ (२३)
विश्वास-प्रस्तुतिः
इत्थं श्रुतेऽथ संजज्ञे दिव्यदुन्दुभिनिस्वनः ।
ततो मधुरगीतिश्च किन्नरीभिरुदीरिता ॥ (२४)
मूलम्
इत्थं श्रुतेऽथ संजज्ञे दिव्यदुन्दुभिनिस्वनः ।
ततो मधुरगीतिश्च किन्नरीभिरुदीरिता ॥ (२४)
विश्वास-प्रस्तुतिः
तत उत्तरवेद्यन्तः वह्निमध्यान्महाद्युतिः ।
विमानमतुलं दिव्यं समुत्तस्थौ स्वयं महत् ॥ (२५)
मूलम्
तत उत्तरवेद्यन्तः वह्निमध्यान्महाद्युतिः ।
विमानमतुलं दिव्यं समुत्तस्थौ स्वयं महत् ॥ (२५)
विश्वास-प्रस्तुतिः
तन्मध्ये पुण्डरीकाक्षो वरदो भक्तवत्सलः ।
आविर्बभूव सर्वेषां भूतानामभयप्रदः ॥ (२६)
मूलम्
तन्मध्ये पुण्डरीकाक्षो वरदो भक्तवत्सलः ।
आविर्बभूव सर्वेषां भूतानामभयप्रदः ॥ (२६)
विश्वास-प्रस्तुतिः
नीलजीमूतसङ्काशः पूर्णचन्द्रनिभाननः ।
करुणापूर्णदृष्टिभ्यां वीक्षमाणश्चतुर्मुखम् ॥ (२७)
मूलम्
नीलजीमूतसङ्काशः पूर्णचन्द्रनिभाननः ।
करुणापूर्णदृष्टिभ्यां वीक्षमाणश्चतुर्मुखम् ॥ (२७)
विश्वास-प्रस्तुतिः
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
दिव्यकौशेयवसनो दिव्याभरणभूषितः ॥ (२८)
मूलम्
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
दिव्यकौशेयवसनो दिव्याभरणभूषितः ॥ (२८)
विश्वास-प्रस्तुतिः
ज्वलत्किरीटकेयूर-स्फुरत्कर्णावतंसकः ।
विचित्रहार-केयूर-लसत्कन्धरबन्धनः ॥ (२९)
मूलम्
ज्वलत्किरीटकेयूर-स्फुरत्कर्णावतंसकः ।
विचित्रहार-केयूर-लसत्कन्धरबन्धनः ॥ (२९)
विश्वास-प्रस्तुतिः
सुकपोलोचितासङ्ग-स्फुरन्मकरकुण्डलः ।
प्रहर्षोत्फुल्लनयनैः स्नेहसंपूर्णमानसैः ॥ (३०)
मूलम्
सुकपोलोचितासङ्ग-स्फुरन्मकरकुण्डलः ।
प्रहर्षोत्फुल्लनयनैः स्नेहसंपूर्णमानसैः ॥ (३०)
विश्वास-प्रस्तुतिः
सनन्दनादिभिस्सिद्धैः वीक्ष्यमाणो मुहुर्मुहुः ।
अनन्यमानसैर्नित्यैः अनुरक्तैरनातुरैः ॥ (३१)
मूलम्
सनन्दनादिभिस्सिद्धैः वीक्ष्यमाणो मुहुर्मुहुः ।
अनन्यमानसैर्नित्यैः अनुरक्तैरनातुरैः ॥ (३१)
विश्वास-प्रस्तुतिः
संस्तूयमानो मुनिभिर्दिव्यलोकनिवासिभिः ।
सेव्यमानः श्रिया पार्थे शातकुंभनिभश्रिया ॥ (३२)
मूलम्
संस्तूयमानो मुनिभिर्दिव्यलोकनिवासिभिः ।
सेव्यमानः श्रिया पार्थे शातकुंभनिभश्रिया ॥ (३२)
विश्वास-प्रस्तुतिः
नीलजीमूतसङ्काश-स्थिरविद्युत्प्रकाशया ।
धरण्या च सुतन्वङ्ग्यालोकधात्र्या समन्वितः ॥ (३३)
मूलम्
नीलजीमूतसङ्काश-स्थिरविद्युत्प्रकाशया ।
धरण्या च सुतन्वङ्ग्यालोकधात्र्या समन्वितः ॥ (३३)
विश्वास-प्रस्तुतिः
अतसीकुसुमश्यामो गात्रलक्ष्म्या महामुने ।
ततो बभूव सहसा पुष्पवृष्टिर्नभस्थलात् ॥ (३४)
मूलम्
अतसीकुसुमश्यामो गात्रलक्ष्म्या महामुने ।
ततो बभूव सहसा पुष्पवृष्टिर्नभस्थलात् ॥ (३४)
विश्वास-प्रस्तुतिः
दिव्यदुन्दुभिनिर्घोषस्ताळकाहळसंयुतः ।
तत उत्तरवेद्यन्तः प्रभामण्डलमण्डितम् ॥ (३५)
मूलम्
दिव्यदुन्दुभिनिर्घोषस्ताळकाहळसंयुतः ।
तत उत्तरवेद्यन्तः प्रभामण्डलमण्डितम् ॥ (३५)
विश्वास-प्रस्तुतिः
पश्चिमाभिमुखं विष्णुं ददृशुस्ते दिवौकसः ।
तं दृष्ट्वा विस्मितास्सर्वे कृताञ्जलिपुटास्सुराः ॥ (३६)
मूलम्
पश्चिमाभिमुखं विष्णुं ददृशुस्ते दिवौकसः ।
तं दृष्ट्वा विस्मितास्सर्वे कृताञ्जलिपुटास्सुराः ॥ (३६)
विश्वास-प्रस्तुतिः
सहस्रादित्यसङ्काशे विमाने गिरिमूर्धनि ।
तिष्ठन्तं हविरश्नन्तं ददृशुस्ते दिवौकसः ॥ (३७)
मूलम्
सहस्रादित्यसङ्काशे विमाने गिरिमूर्धनि ।
तिष्ठन्तं हविरश्नन्तं ददृशुस्ते दिवौकसः ॥ (३७)
विश्वास-प्रस्तुतिः
प्रणेमुर्नम इत्येवं वदन्तो वरदं तदा ।
भास्वन्तं वेदिमध्यस्थं वरदं त्रिदिवौकसः ।
संभ्रान्तास्तुष्टुवुर्हृष्टाः पश्यन्तस्तन्मुखांबुजम् ॥ (३८)
मूलम्
प्रणेमुर्नम इत्येवं वदन्तो वरदं तदा ।
भास्वन्तं वेदिमध्यस्थं वरदं त्रिदिवौकसः ।
संभ्रान्तास्तुष्टुवुर्हृष्टाः पश्यन्तस्तन्मुखांबुजम् ॥ (३८)
देवाः –
विश्वास-प्रस्तुतिः
प्रसीद देवदेवेश प्रधानपुरुषोत्तम ।
वरदं सर्वभूतानां त्वां प्रपन्नास्स्म माधव ॥ (३९)
मूलम्
प्रसीद देवदेवेश प्रधानपुरुषोत्तम ।
वरदं सर्वभूतानां त्वां प्रपन्नास्स्म माधव ॥ (३९)
विश्वास-प्रस्तुतिः
विश्वेश्वरं विश्वसृजं विश्वरूपमनीश्वरम् ।
परात्परतरं विष्णुं सर्वकारणकारणम् ॥ (४०)
मूलम्
विश्वेश्वरं विश्वसृजं विश्वरूपमनीश्वरम् ।
परात्परतरं विष्णुं सर्वकारणकारणम् ॥ (४०)
विश्वास-प्रस्तुतिः
निर्गुणं निर्मलं शान्तं निरवद्यं निरञ्जनम् ।
निष्कलं निष्क्रियं शुद्धं निरपेक्षं निरामयम् ॥ (४१)
मूलम्
निर्गुणं निर्मलं शान्तं निरवद्यं निरञ्जनम् ।
निष्कलं निष्क्रियं शुद्धं निरपेक्षं निरामयम् ॥ (४१)
विश्वास-प्रस्तुतिः
निरनिष्टमनाधारं लोकाधारं धराधरम् ।
अचिन्त्यमक्षयं विष्णुं त्वां प्रपन्नास्स्म माधव ॥ (४२)
मूलम्
निरनिष्टमनाधारं लोकाधारं धराधरम् ।
अचिन्त्यमक्षयं विष्णुं त्वां प्रपन्नास्स्म माधव ॥ (४२)
विश्वास-प्रस्तुतिः
अनन्यशरणा नाथं मत्वा व्याकुलचेतसः ।
त्वामेव शरणं प्राप्ताः रक्षास्मान्मधुसूदन ॥ (४३)
मूलम्
अनन्यशरणा नाथं मत्वा व्याकुलचेतसः ।
त्वामेव शरणं प्राप्ताः रक्षास्मान्मधुसूदन ॥ (४३)
विश्वास-प्रस्तुतिः
त्वत्तो जातमिदं सर्वं त्वय्येव स्थितमच्युत ।
त्वय्येव लयमभ्येति त्वमेव सकलं जगत् ॥ (४४)
मूलम्
त्वत्तो जातमिदं सर्वं त्वय्येव स्थितमच्युत ।
त्वय्येव लयमभ्येति त्वमेव सकलं जगत् ॥ (४४)
विश्वास-प्रस्तुतिः
त्वमव्ययः परः शास्ता परिणामविवर्जितः ।
ईशानस्सर्वभूतानां पुरुषः परमोऽव्ययः ॥ (४५)
मूलम्
त्वमव्ययः परः शास्ता परिणामविवर्जितः ।
ईशानस्सर्वभूतानां पुरुषः परमोऽव्ययः ॥ (४५)
विश्वास-प्रस्तुतिः
तव मायैव निर्वाते नियंते वादिकल्पना ।
त्वमेव कारणं ब्रह्म शाश्वतञ्चामरेश्वर ॥ (४६)
मूलम्
तव मायैव निर्वाते नियंते वादिकल्पना ।
त्वमेव कारणं ब्रह्म शाश्वतञ्चामरेश्वर ॥ (४६)
विश्वास-प्रस्तुतिः
परमात्मन् न जानन्ति त्वामज्ञानमोहिताः ।
त्वमेव चिन्त्यसे नित्यं प्रध्वस्ताशेषकिल्बिषैः ॥ (४७)
मूलम्
परमात्मन् न जानन्ति त्वामज्ञानमोहिताः ।
त्वमेव चिन्त्यसे नित्यं प्रध्वस्ताशेषकिल्बिषैः ॥ (४७)
विश्वास-प्रस्तुतिः
तव लीलैव सकलं जगत् स्थावरजङ्गमम् ।
नामरूपविकल्पाभ्यां न चापि परमार्थतः ॥ (४८)
मूलम्
तव लीलैव सकलं जगत् स्थावरजङ्गमम् ।
नामरूपविकल्पाभ्यां न चापि परमार्थतः ॥ (४८)
विश्वास-प्रस्तुतिः
त्राता भोक्ता तथा ज्ञाता ज्ञानं ज्ञेयमनामयम् ।
अविकल्पविकल्पाढ्यं त्वमेवाखिलमव्ययम् ॥ (४९)
मूलम्
त्राता भोक्ता तथा ज्ञाता ज्ञानं ज्ञेयमनामयम् ।
अविकल्पविकल्पाढ्यं त्वमेवाखिलमव्ययम् ॥ (४९)
विश्वास-प्रस्तुतिः
अनादिनिधना वेदाः शास्त्राणि विविधानि च ।
इतिहासपुराणानि त्वमेव पुरुषोत्तम ॥ (५०)
मूलम्
अनादिनिधना वेदाः शास्त्राणि विविधानि च ।
इतिहासपुराणानि त्वमेव पुरुषोत्तम ॥ (५०)
विश्वास-प्रस्तुतिः
आब्रह्मस्तम्भपर्यन्तं विश्वं विश्वेश्वराव्यय ।
त्वयैव विधृतं तस्मात् त्वत्समो नास्ति कश्चन ॥ (५१)
मूलम्
आब्रह्मस्तम्भपर्यन्तं विश्वं विश्वेश्वराव्यय ।
त्वयैव विधृतं तस्मात् त्वत्समो नास्ति कश्चन ॥ (५१)
विश्वास-प्रस्तुतिः
त्वमादिरन्तो मध्यञ्च जगतोऽस्य जनार्दन ।
त्वयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ (५२)
मूलम्
त्वमादिरन्तो मध्यञ्च जगतोऽस्य जनार्दन ।
त्वयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ (५२)
विश्वास-प्रस्तुतिः
तारितास्स्म वयं नाथ ब्रह्मणा परमेष्ठिना ।
अभूमिर्योगिचिन्तानां यस्त्वमस्माभिरीक्षितः ॥ (५३)
मूलम्
तारितास्स्म वयं नाथ ब्रह्मणा परमेष्ठिना ।
अभूमिर्योगिचिन्तानां यस्त्वमस्माभिरीक्षितः ॥ (५३)
विश्वास-प्रस्तुतिः
अहो महानुभावोऽयमब्जयोनिः पितामहः ।
त्वमागतोऽसि यद्दत्तहविर्ग्रहणतत्परः ॥ (५४)
मूलम्
अहो महानुभावोऽयमब्जयोनिः पितामहः ।
त्वमागतोऽसि यद्दत्तहविर्ग्रहणतत्परः ॥ (५४)
विश्वास-प्रस्तुतिः
यज्ञ-दान-तपो-होम-ध्यानाध्ययनकर्मभिः ।
दुर्लभं दर्शनं यस्य स त्वमस्माभिरीक्षितः ॥ (५५)
मूलम्
यज्ञ-दान-तपो-होम-ध्यानाध्ययनकर्मभिः ।
दुर्लभं दर्शनं यस्य स त्वमस्माभिरीक्षितः ॥ (५५)
विश्वास-प्रस्तुतिः
प्रसीद पुण्डरीकाक्ष प्रसीद पुरुषोत्तम ।
प्रसीद देवदेवेश रक्षास्मान् शरणागतान् ॥ (५६)
मूलम्
प्रसीद पुण्डरीकाक्ष प्रसीद पुरुषोत्तम ।
प्रसीद देवदेवेश रक्षास्मान् शरणागतान् ॥ (५६)
नारदः –
विश्वास-प्रस्तुतिः
एवं संस्तुत्य विबुधाः वैकुण्ठं पुरतः स्थितम् ।
तत्पदाम्भोरुहद्वन्द्वं शरणं प्रतिपेदिरे ॥ (५७)
मूलम्
एवं संस्तुत्य विबुधाः वैकुण्ठं पुरतः स्थितम् ।
तत्पदाम्भोरुहद्वन्द्वं शरणं प्रतिपेदिरे ॥ (५७)
विश्वास-प्रस्तुतिः
इत्थमादौ कृतयुगे जम्बूद्वीपे तु दक्षिणे ।
भागे भारतवर्षे तु क्षेत्रे सत्यव्रताख्यये ॥ (५८)
मूलम्
इत्थमादौ कृतयुगे जम्बूद्वीपे तु दक्षिणे ।
भागे भारतवर्षे तु क्षेत्रे सत्यव्रताख्यये ॥ (५८)
विश्वास-प्रस्तुतिः
चैत्रमासे सिते पक्षे चतुर्दश्यां तथा मुने ।
शोभने हस्तनक्षत्रे रविवारसमन्विते ॥ (५९)
मूलम्
चैत्रमासे सिते पक्षे चतुर्दश्यां तथा मुने ।
शोभने हस्तनक्षत्रे रविवारसमन्विते ॥ (५९)
विश्वास-प्रस्तुतिः
वपाहोमे प्रवृत्ते तु प्रातस्सवनकालिके ।
धातुरुत्तरवेद्यन्तः प्रादुरासीज्जनार्दनः ॥ (६०)
मूलम्
वपाहोमे प्रवृत्ते तु प्रातस्सवनकालिके ।
धातुरुत्तरवेद्यन्तः प्रादुरासीज्जनार्दनः ॥ (६०)
विश्वास-प्रस्तुतिः
अथ सुरमनुजादयस्तदानीं वरदमुदीक्ष्य वितानवेदिमध्ये ।
रजनिकरमिवोदयाद्रिशृङ्गे कुमुदवनानि यथा ययुः प्रमोदम् ॥ (६१)
मूलम्
अथ सुरमनुजादयस्तदानीं वरदमुदीक्ष्य वितानवेदिमध्ये ।
रजनिकरमिवोदयाद्रिशृङ्गे कुमुदवनानि यथा ययुः प्रमोदम् ॥ (६१)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादेश्रीहस्तिगिरिमाहात्म्ये सप्तमोऽध्यायः