०६

अथश्रीहस्तिगिरिमाहात्म्ये षष्ठोऽध्यायः

नारदः –

विश्वास-प्रस्तुतिः

एवमुक्तास्तु ते धात्रा प्रपन्नास्त्रिदिवौकसः ।
तमूचुर्लोकधातारं अहङ्कारजिगीषवः ॥ (१)

मूलम्

देवाः –

विश्वास-प्रस्तुतिः

दुस्तरोऽयमहङ्कारो यस्त्वया परिकीर्तितः ।
येन शक्यं परित्यक्तुं तन्नो ब्रूहि पितामह ॥ (२)

ब्रह्मा –

विश्वास-प्रस्तुतिः

गुणत्रयमयी माया जनित्री विश्वभाविनी ।
प्रधानमिति यामाहुः साङ्ख्य-योग-विचक्षणाः ॥ (३)

महदाख्याऽभवत्तस्या बुद्धिस्तु त्रिगुणात्मिका ।
सत्त्वं रजस्तम इति त्रिगुणास्संप्रकीर्तिताः ॥ (४)

अहङ्कारसमुद्भूतो बुद्धेर्भूतादिसंज्ञिकः ।
जाताः तस्मादहङ्कारात् पञ्चतन्मात्रसंज्ञिकाः ॥ (५)

शब्दस्स्पर्शो रसो रूपं गन्ध इत्येव पञ्च च ।
एतैर्व्याप्तानि भूतानि चराणि स्थावराणि च ॥ (६)

पृथिव्यापस्तथा तेजो वायुराकाश एव च ।
तन्मात्रेभ्यस्समुद्भूताः पञ्चैते सुरसत्तमाः ॥ (७)

एकादशेन्द्रियाण्यस्मादहङ्काराच्च जज्ञिरे ।
वैकारिकात्तैजसिकात् त्रैगुण्याद्बुद्धिसंभवः ॥ (८)

घ्राणं जिह्वा तथा चक्षुः त्वक् श्रोत्रमिति पञ्च च ।
बुद्धीन्द्रियाणि भूतानां ग्राहकाणि शरीरिणाम् ॥ (९)

उपस्थः पाणिपादौ च पायुर्वागिति पञ्च च ।
कर्मेन्द्रियाणि चैतेषां आहुरेकादशम्मनः ॥ (१०)

चतुर्विंशतिधा भिन्ना प्रकृतिस्तु यथाक्रमम् ।
तदात्मकमिदं सर्वं देवतिर्यङ्नरात्मकम् ॥ (११)

पुरुषो नाम निर्द्वन्द्वः निष्कलो निष्परिग्रहः ।
अदृश्योऽतीन्द्रियो व्यापी निर्गुणः पञ्चविंशकः ॥ (१२)

बध्यतेऽनीशयानीशः प्रसुप्त इव मायया ।
न शक्नोति बहिर्गन्तुं यूपे बद्धः पशुर्यथा ॥ (१३)

जन्ममृत्युजरादुःखभयव्याधिभिराकुलः ।
आत्मानं नैव जानाति गुणमायासमावृतः ॥ (१४)

ज्ञानस्वरूपो निर्दोषो निर्द्वन्द्वो निष्परिग्रहः ।
नैव स्त्री न पुमान्नैव षण्डश्चिन्मात्रसंज्ञिकः ॥ (१५)

तया तिरोहितज्ञानस्वरूपो जन्यतेऽन्यथा ।
अचेतनमनित्यञ्च प्राकृतं दुःखभाजनम् ॥ (१६)

तत्संबन्धसमुद्भूतैः इच्छाद्वेषादिभिर्युतः ।
कलेबर-परित्राणपरस्तदनुरूपतः ॥ (१७)

पुण्यपापात्मकं कर्म कुरुते गतचेतनः ।
आध्यात्मिकादिकं दुःखमनुभुङ्क्ते ऽवशो वशी ॥ (१८)

प्रीत्यप्रीतिविषादांश्च कलेबर-समुद्भवान् ।
अहङ्कारविमूढात्मा पश्यत्यात्मगुणानिव ॥ (१९)

परिभ्रमति तद्देहे तोषणे परितोषितः ।
तद्भोगायैव कुरुते परहिंसामहर्निशम् ॥ (२०)

इत्थं संसारदुःखेऽस्मिन् मायया परिवेष्टितः ।
परिभ्रमन्नरो दुःखान्निष्कृतिं नाधिगच्छति ॥ (२१)

निबद्धः क्लेशपाशेन परिभ्रमति मोहितः ।
लूतातन्तुवितानेन वेष्टितो मशको यथा ॥ (२२)

पशु-पुत्र-गृहाराम-क्षेत्र-बन्धु-सुहृत्सु च ।
ममत्वाकुलचित्तोऽसौ नववृत्तिमुपाश्रितः ॥ (२३)

गच्छस्तिष्ठन् स्वपन्भुञ्जन् बुद्ध्याध्यायन्नासीन एव च ।
व्याकुलो देहयात्रासु वर्तते पशुवन्नरः ॥ (२४)

धनवान्निर्धनो वापि पण्डितो जड एव च ।
शोकचिन्ताविमूढात्मा न देही लभते सुखम् ॥ (२५)

यत्सुखं लभते देही शब्दस्पर्शादिसंभवम् ।
दुःखायैव तदेव स्यात् इति नास्त्यत्र संशयः ॥ (२६)

स्वभावस्त्रिविधो ज्ञेयो नियतस्सर्वदेहिनाम् ।
सात्विको राजसश्चैव तामसश्चेति सर्वथा ॥ (२७)

तत्प्रकारांश्च वक्ष्यामि शृणुध्वं वस्सुरर्षभाः ।
यद् ज्ञात्वा न पुनर्देही वर्तते दुःखसागरे ॥ (२८)

ज्ञान-विज्ञान-सन्तोष-श्रद्धास्तिक्य-समन्विताः ।
सदाचाररताश्शान्ताः जायन्ते सात्विका भुवि ॥ (२९)

राग-द्वेष-भय-क्रोध-शोक-नास्तिक्य-संयुताः ।
अहङ्कारबलोद्भिक्ताः जायन्ते राजसास्तथा ॥ (३०)

अधर्मसहिता मूर्खाः निरीहा वेदनिन्दकाः ।
प्रमादाज्ञानमोहान्धाः जायन्ते तामसा नराः ॥ (३१)

सात्विका मोक्षमार्गस्थाः राजसा भोगलालसाः ।
उभयन्नैव जानन्ति तामसा मोहसंवृताः ॥ (३२)

सात्त्विकस्सत्त्वसंपन्नो निष्कामो विगतस्पृहः ।
अपाणिपाद-चपलश्शुचिर्नियतमानसः ॥ (३३)

ज्ञानयोगपरो मौनी शीलाचारसमन्वितः ।
स्वाध्यायशीलो धर्मात्मा शान्तोदान्तस्समाहितः ॥ (३४)

उत्पत्तिं सर्वभूतानां प्रलयं च यथास्थितम् ।
यथावदभिजानाति सत्यवादी मिताशनः ॥ (३५)

समस्सर्वेषु भूतेषु लोभडम्भविवर्जितः ।
वर्णाश्रमाचाररतो वीतरागो विमत्सरः ॥ (३६)

आत्मानं सर्वभूतेषु पश्यत्येकत्वमास्थितम् ।
अद्रोही सर्वभूतानां हितकृत्सत्यसङ्गरः ॥ (३७)

अभेदेनात्मनो नित्यं परमात्मानमच्युतम् ।
हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् ॥ (३८)

अनन्ययाजी सततं यजते पुरुषोत्तमम् ।
तमेव सर्वयज्ञानां भोक्तारमजमव्ययम् ॥ (३९)

यथावदभिजानाति ज्ञानसंशुद्धमानसः ।
स्वधर्मैश्शास्त्रविहितैर्भक्तिश्रद्धासमन्वितः ॥ (४०)

सर्वदेवमयं विष्णुं यजते पुरुषोत्तमम् ।
सततं चिन्तयन्विष्णुं सर्वाधारमनामयम् ॥ (४१)

जपहोमादिभिः नित्यं नयत्यन्तसंयुतः ।
एक एव परो विष्णुरनन्तात्मा जगद्गुरुः ॥ (४२)

तन्मायैवेदमखिलमिति पश्यत्यनन्यधीः ।
इत्थं नीत्वा नरः कालं सात्विकस्सुदृढव्रतः ॥ (४३)

सूर्यद्वारेण देहान्ते याति तद्वैष्णवं पदम् ।
विष्णुभक्ता यतात्मानः कामक्रोधविवर्जिताः ।
यद्गत्वा न निवर्तन्ते याति तद्वैष्णवं पदम् ॥ (४४)

राजसः कर्मनिरतः त्रिवर्गफललालसः ।
अहङ्कारपरीतात्मा स्वधर्मव्यापकस्सदा ॥ (४५)

यक्षगन्धर्वरक्षांसि भूतप्रेतनरोरगान् ।
यजन्ते सततं रागात् नियतस्सुदृढव्रतः ॥ (४६)

डम्भार्थं यजते यज्ञैः ख्यातिशीलस्समुत्सकः ।
भोक्तारं सर्वयज्ञानां नैव जानाति केशवम् ॥ (४७)

स्वर्गार्थं यजते यज्ञान् रक्षार्थं भुवनस्य वा ।
नैव जानाति रागान्धः कर्मणां शाश्वतं फलम् ॥ (४८)

मदान्धो धनदुर्मानी स्वात्मसम्भावनापरः ।
युष्माभिर्पूजितैर्दत्तान्युपभुङ्क्ते फलानि च ॥ (४९)

पितृदेवमनुष्याणामृषीणाञ्च समर्चने ।
वैषम्यं नैव जानाति सर्वत्र समदर्शिनः ॥ (५०)

वासुदेवेन सर्वेषां साम्यं पश्यति दुर्मतिः ।
अतो न विष्णुमेवैकं यजते पुरुषोत्तमम् ॥ (५१)

इत्थं क्रियापरो लोके वर्तमानस्तु राजसः ।
भूम्यादिमार्गतश्चान्ते पुण्यान् लोकानवाप्नुयात् ॥ (५२)

यमलोकञ्च पुण्यान्ते याति पापानुसारतः ।
नारकीं यातनां भुङ्क्ते जायते च पुनःपुनः ॥ (५३)

यद्यत्पृथिव्यामुद्भूतं तत्तद्भवति दुःखितः ।
ततश्च सर्वभूतानामन्तत्वमुपगच्छति ॥ (५४)

ततः पशुमनुष्याद्यैः पर्यायेणोपभुज्यते ।
उपभुक्तोऽन्नरूपेण रेतस्त्वमुपगच्छति ॥ (५५)

जायते च पुनर्गर्भे पुमान् स्त्रीषण्ड एव वा ।
सर्वत्र दुर्लभं जन्म मानुषन्देहिनस्सुराः ॥ (५६)

अतस्तल्लभते देही पुण्यकृत्पापसंक्षये ।
जातश्च कुरुते कर्म पुण्यपापात्मकं पुनः ॥ (५७)

तत्फलान्युपभुङ्क्ते च ततो लोकान्तरं गतः ।
इत्थं प्रवर्तमानेऽस्मिन् राजसो दुःखसागरे ॥ (५८)

कदाचिदपि संसारान्निष्कृतिं नाधिगच्छति ।
तामसो मोहसंयुक्तो जडः पशुसमो वृतः ॥ (५९)

हैतुको निरनुक्रोशः शौचाचारविवर्जितः ।
देहत्राणपरो मूढः शिश्नोदरपरायणः ॥ (६०)

मूलम्

हैतुको निरनुक्रोशः शौचाचारविवर्जितः ।
देहत्राणपरो मूढः शिश्नोदरपरायणः ॥ (६०)

विश्वास-प्रस्तुतिः

अन्नपानादिभोगेन कृतकृत्यमतिश्शठः ।
विषयानेव सततं प्रवदत्यतिदुर्मतिः ॥ (६१)

मूलम्

अन्नपानादिभोगेन कृतकृत्यमतिश्शठः ।
विषयानेव सततं प्रवदत्यतिदुर्मतिः ॥ (६१)

विश्वास-प्रस्तुतिः

वृथा जल्परतो नित्यं वैदिकांश्च विनिन्दति ।
जरामरणदुःखैश्च पर्यायेणातिपद्यते ॥ (६२)

गर्भस्थो लभते दुःखं जायमानस्सुदुस्सहः ।
अन्त्यकाले महाक्लेशमनुभुङ्क्ते पुनःपुनः ॥ (६३)

न तच्छक्यं मया वक्तुं दुःखमुत्क्रान्तिकालजम् ।
निरुद्धश्वासविश्लिष्टगात्रसन्धिः स्फुरद्वपुः ॥ (६४)

शुष्ककण्ठोष्ठवदनो पूर्णनेत्रो महाव्यथः ।
स्मरन्पुत्रकलत्रादीन् तद्वियोगात्सुदुःखितः ॥ (६५)

एते कथं भविष्यन्तीत्यतीव ममताकुलः ।
यमस्य किङ्करैरुग्रैः शूलमुद्गरपाणिभिः ।
घातितः कर्मबन्धेषु मुह्यमानः पुनः पुनः ॥ (६६)

विधून्वन् पाणिपादांश्च विवशः पाशसंयुतः ।
पाशेन महता युक्तो निर्गच्छति शरीरतः ॥ (६७)

अन्धकारे महाघोरे शिलाकण्टकसंयुते ।
मार्गे निम्नोनते दुर्गे कृष्यमाणः इतस्ततः ॥ (६८)

क्षुत्पिपासादिभिर्दुःखैः पीडितोऽत्यन्तदुःसहैः ।
सिंहव्याघ्रमृगव्यालैः भक्ष्यमाणो भयङ्करैः ॥ (६९)

त्यज्यन्मनो विरूपाक्षैर्गिस्थैः यमकिङ्करैः ।
नेत्रे समुद्धरिष्यन्ति क्रव्यादास्तस्य देहिनः ॥ (७०)

याभ्यामतिथयो गेहे क्षुधार्तार्न परिवीक्षिताः ।
पाटयन्ति च वज्रेण तस्य वक्त्रं पथि स्थिताः ॥ (७१)

प्रत्याख्याताः पुरा येन भिक्षवो गृहमागताः ।
नाराचैरग्निसन्तप्तैः क्षोधयिष्यन्ति विलोचने ॥ (७२)

परदाराः परस्वञ्च याभ्यामेवाभिवीक्षिताः ।
सालावृकाश्च दंशन्ति सुतीक्ष्णरशना पथि ॥ (७३)

पोषितानि परद्रव्यैः यानि गात्राणि देहिनः ।
पादौ बध्वास्य पाशेन कर्षयन्ति पथि स्थिताः ॥ (७४)

याभ्यां विमानिता विप्राः गुरवः पशवस्तथा ।
इत्थं मार्गे बहून् केशाननुभूय सुदुस्सहान् ॥ (७५)

यमस्य सदनं गत्वा तं पश्यन्त्यतिभीषणम् ।
यातनाः कर्मनिरताः नारका यमचोदिताः ॥ (७६)

अनुभुङ्क्ते दृढैर्गात्रैः निजकर्माण्यनुस्मरन् ।
नारकानि सुदुःखानि न शक्यं गदितुं मया ॥ (७७)

सर्वेभ्यो दुस्सहं दुःखं यमस्य मुखदर्शनम् ।
छेदयन्ति च शस्त्रौघैः दहयन्ति पुनःक्वचित् ॥ (७८)

छित्वा छित्वा कुठारेण क्षिपन्ति क्षारकर्दमे ।
प्रक्षिपन्ति समुद्दीप्ते महाज्वालाकुले तथा ॥ (७९)

उत्क्षिप्य खड्गधारासु पातयन्ति पुनः पुनः ।
बध्वा दास्यन्ति सिंहेभ्यो व्याघ्रेभ्यश्चातिनिघृणाः ॥ (८०)

क्वाथयन्ति च मूषायां तैलान्तर्देहिनं पुनः ।
उच्चान्निपात्य शूलाग्रादुद्धरिष्यन्ति किङ्कराः ॥ (८१)

विशंस्यते च शस्त्रेण शस्त्रिभिः परिकुंरिताः ।
दंशन्ति जन्तवस्सूक्ष्माः क्षुत्पिपासादिदुःखिताः ॥ (८२)

एवं बहुविधैः दुःखैः निजकर्मनिबन्धनैः ।
श्रान्तस्तस्माद्विनिर्गत्य पुनर्गर्भं प्रयाति च ॥ (८३)

अण्डजं स्वेदजं वापि दारुजं वोद्भिजं तथा ।
मृदुगात्रो दृढप्रज्ञो गर्भस्थो वर्तते तदा ॥ (८४)

क्लेशाद् गर्भसमुद्भूताद् गर्भस्थोंऽभुजते पशुः ।
तमोदुःखेन महता जायते योनिसङ्कटात् ॥ (८५)

चण्डालः पुल्कसो वापि शूद्रो वा दुःखमोहितः ।
देवद्विजगुरूणाञ्च हैतुको दूषकोऽशुचिः ॥ (८६)

नास्तिको भिन्नमर्यादः पापकृत्पापच्छन्नधीः ।
मूर्खः क्षुब्धोति दुर्मानी कामक्रोधवशं गतः ॥ (८७)

बह्वाशी कुत्सितानाशी विरूपः कुलपांसनः ।
अस्नातभोजी निर्लज्जो ब्रह्मस्वहरणे रतः ॥ (८८)

एवं नीत्वा वृथा जीवी वर्षाणि सुबहूनि च ।
ततो लोकान्तरं गत्वा जायते च पुनर्यथा ॥ (८९)

इत्थं संसारचक्रेऽस्मिन् वर्तमानस्य देहिनः ।
कदाचिदपि संसारात् निस्तृतिर्न भविष्यति ॥ (९०)

एवं गुणविभेदेन विभिन्ना देहिनस्सुराः ।
कर्माणि च विभिन्नानि भिन्नाश्च गतयस्तथा ॥ (९१)

सात्विकाः कीर्तिता येऽत्र मोक्षमार्गपरायणाः ।
ते सर्वे निरहङ्काराः निर्ममा वीतमत्सराः ॥ (९२)

राजसानान्तु सर्वस्वमहङ्कार उदाहृतः ।
तामसानाञ्च भवति तमसा संवृतो हि सः ॥ (९३)

सर्वानर्थकरो मूलोऽयमहङ्कारोऽभिधीयते ।
तेन मूढा न विन्दन्ति निर्गुणं देहिनस्सुराः ॥ (९४)

अचेतनमनित्यञ्च दुःखालयमशाश्वतम् ।
देहमेवैनमात्मानं मन्यते स्मयदूषिताः ॥ (९५)

न गतिर्विद्यते तेषां कदाचिदपि मुक्तिदा ।
अतस्त्याज्यो ह्यहङ्कारो दुःखान्निपतितीर्षुभिः ॥ (९६)

अहङ्कारं परित्यज्य स्वस्थान्तःकरणो वशी ।
समर्चयति यो विष्णुं स याति परमां गतिम् ॥ (९७)

अतो यूयमहङ्कारं विसृज्य यतमानसाः ।
अनसूयापराश्शान्ताः क्रोधलोभविवर्जिताः ॥ (९८)

क्रियमाणां हरेः पूजां वैदिकीमाश्वमेधिकाम् ।
दृष्ट्वा मया च सन्तुष्टिं व्रजध्वं त्रिदिवौकसः ॥ (९९)

अथोपदिष्टं वचनं निशम्य पितामहेनाब्जसमुद्भवेन ।
व्यपेतदोषास्त्रिदिवौकसोऽपि विनिर्गताहङ्कृतयो बभूवुः ॥
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादेश्रीहस्तिगिरिमाहात्म्ये षष्ठोऽध्यायः