अथश्रीहस्तिगिरिमाहात्म्ये पञ्चमोऽध्यायः
भृगुः –
विश्वास-प्रस्तुतिः
भगवन्नागतां देवीं नदीरूपां सरस्वतीम् ।
किमाहूय विधिश्चक्रे किमनादृत्य पद्मभूः ॥ (१)
मूलम्

नारदः –
विश्वास-प्रस्तुतिः
ततस्समागतां देवीं नदीरूपां सरस्वतीम् ।
दृष्ट्वा मुनिगणास्सर्वे लोकधात्रे व्यजिज्ञिपन् ॥ (२)

भगवन्नागता देवी त्वत्समीपमिहागता ।
आहूयतां त्वया सा च स हि धर्मस्सनातनः ॥ (३)

नारदः-
विश्वास-प्रस्तुतिः
इति तद्वचनं श्रुत्वा तानुवाच पितामहः ।
संप्रहृष्टमना भूयस्तद्दर्शनसमुत्सकः ॥ (४)

आगता चेत् जितक्रोधा मत्सकाशं मनस्विनी ।
आहूयतामिहेदानीं युष्माभिस्सा सरस्वती ॥ (५)

नदीनामाधिपत्यं हि प्रार्थितोऽहं तया पुरा ।
तद्दत्तमधुना तस्यै मयैव ऋषिसत्तमाः ॥ (६)

अतो यतध्वमाह्वाने तस्या यूयं तपोधनाः ।
उपायैर्विविधैश्चापि मम प्रियचिकीर्षया ॥ (७)

इत्युक्ता मुनयस्तेन तत्र वै संशितव्रताः ।
वेगवत्युत्तरे तीरे स्थित्वा तां परितुष्टुवुः ॥ (८)

ततो वेगवतीमध्यात् समुत्तस्थौ सरस्वती ।
योषिद्रूपा सुतन्वङ्गी नीलोत्पलविलोचना ॥ (९)

उत्तुङ्गस्तनविस्तीर्ण-विशुद्धां शुकधारिणी ।
विशुद्धगात्रा बिम्बोष्ठी सर्वाभरणभूषिता ॥ (१०)

विचित्रवलयाबद्ध-भुजयुग्मा सरस्वती ।
दुग्धोदधि-समुद्भूता यथा लक्ष्मीर्यशस्विनी ॥ (११)

तां दृष्ट्वा मुनयो देवीं प्रसन्नमुखपङ्कजाम् ।
प्रहृष्टास्तुष्टुवुर्हृष्टां प्रभामण्डललक्षिताम् ॥ (१२)

ततस्तामब्रुवन् देवीं भारतीं सलिलोत्थिताम् ।
ऋषयः –
प्रसीद त्वं जगद्धात्री जगत्पूज्ये सरस्वति ॥ (१३)
विश्वास-प्रस्तुतिः
प्रणिपातः कृतोऽस्माभिरेहि यज्ञालयं प्रति ।
श्रेष्ठ्यं सर्वनदीनाञ्च त्वया प्राप्तं यदृच्छया ॥ (१४)

अस्य क्षेत्रस्य संबन्धात् विष्णेः प्रीतिकरस्य हि ।
श्रैष्ठ्यं दत्तं नदीभ्यस्ते विधात्रा च महात्मना ॥ (१५)

अतः प्रसीद सुमुखिस्वभावात् त्वं गरीयसी ।
इदं सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ॥ (१६)

नित्यं सन्निहितो विष्णुरिह देवस्सनातनः ।
तत्प्रसादादिह स्था त्वं सर्वेभ्योऽपि गरीयसी ॥ (१७)

न त्वया सदृशं किञ्चित् पावनं विद्यते परम् ।
विष्णोरायतने यत्तु यत्तु क्षेत्रे च वैष्णवे ॥ (१८)

विद्यते सलिलं देवि तत्तीर्थमधिकं स्मृतम् ।
पञ्च तीर्थानि सन्त्यत्र नागाद्रेरभितश्शुभे ॥ (१९)

अनन्ततीर्थं ब्राह्मञ्च हेमाम्भोजसरस्तथा ।
अग्नितीर्थं कुशाख्यञ्च कीर्तितानि मनीषिभिः ॥ (२०)

मुनिभिस्सिद्धसङ्घैश्च ऋषिभिश्च समन्ततः ।
उदक्पश्चिमदिग्भागे नागाख्यं नागभूभृतः ॥ (२१)

प्रागुदीच्यान्तथा ब्राह्मं प्राच्यां हेमाब्जकं सरः ।
आग्नेय्यां दिशि वह्न्याख्यं पश्चिमायां कुशाख्यकम् ॥ (२२)

अनन्ते मखवान् स्नात्वा देवेन्द्रत्वमुपागमत् ।
ब्रह्मतीर्थे वसुस्स्नात्वा परं ज्ञानमुपागमत् ॥ (२३)

मतङ्गो हेमपद्माख्ये स्नात्वा मुक्तिमुपागमत् ।
वह्न्याख्ये हुतभुक् स्नात्वा विप्रशापाद्विमुक्तवान् ॥ (२४)

कुशतीर्थे ऋभुस्स्नात्वा त्रिकालज्ञो बभूव ह ।
एतेषामपि सर्वेषां श्रेष्ठं नागाह्वयं सरः ॥ (२५)

तत्समा त्वं च पञ्चानां षष्ठा भव सरस्वति ।
यत्फलं लभते स्नात्वा गङ्गासागरसङ्गमे ॥
त्वयि स्नात्वा लभेन्मर्त्यः तत्सहस्रगुणं फलम् ॥ (२६)

यत्तु सत्यव्रताख्येऽस्मिन् क्षेत्रे सकृदपि त्वयि ।
स्नायात्स सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ (२७)

इत्युक्ता मुनिभिस्तुष्टा वसिष्ठाद्यैस्सरस्वती ।
नदीमध्यात्समुत्तीर्य यज्ञशालामुपागमत् ॥ (२८)

स च सार्धं तया चक्रे हयमेधं पितामहः ।
सावित्र्या च तथान्याभिः श्रद्धाद्याभिश्च संयुतः ॥ (२९)

प्रवर्ग्यादीनि कर्माणि ऋत्विजश्चक्रिरे ततः ।
नियुक्ता ब्राह्मणास्सर्वानागतानभ्यपूजयन् ॥ (३०)

विविधैरन्नपानैश्च सायं प्रातस्समाहिताः ।
यथार्हं पूजितास्सर्वे देवर्षिमनुजादयः ॥ (३१)

वस्त्रैराभरणैः पुष्पैः धनधान्यैश्च पूजिताः ।
ब्राह्मणास्तुष्टुवुर्हृष्टाः यजमानं पितामहम् ॥ (३२)

क्रियमाणे तदा यज्ञे विधात्रा मुनिसत्तम ।
क्षुत्पिपासादयो भूम्यामवकाशं न लेभिरे ॥ (३३)

ब्राह्मणा वेदपारज्ञाः स्त्रियो वृद्धाश्च बालकाः ।
ऋत्विजोऽपि मुनिश्रेष्ठाप्रहृष्टे नाब्जयोनिना ॥ (३४)

गन्धपुष्पादिभिः दिव्यैः पूजिताश्च पृथक् पृथक् ।
तोषितास्सममन्नाद्यैश्च धात्रा तस्मिन्महाक्रतौ ॥ (३५)

वस्त्रधान्यप्रदानेषु ह्यधिकारो हि विद्यते ।
अन्नदानप्रदाने तु समास्सर्वे प्रकीर्तिताः ॥ (३६)

प्रशशंसुः प्रयोगज्ञाः क्रिया ऋत्विक्प्रचोदिताः ।
ब्राह्मणाश्च तथैवान्यास्तुष्टुवुर्यज्ञदर्शनात् ॥ (३७)

दिवसे दिवसे तस्मिन्निष्टका मुनिभिर्वृताः ।
इष्टकाचितयष्षट्च पुरीषचितयस्तथा ॥ (३८)

उपसद्दिवसेष्वेव तथाग्निचयनं मुने ।
न न्यूनं नातिरिक्तं च तत्रासीत्कर्म किञ्चन ॥ (३९)

प्रवर्ग्यादीनि कर्माणि द्वादशैव दिनानि तैः ॥ (४०)
विश्वास-प्रस्तुतिः
नीत्वान्त्यदिवसे तत्र यूपाश्च स्थापिताः क्रमात् ।
एकविंशतियूपाश्च स्थापिताश्शास्त्रवित्तमैः ॥ (४१)

खादिराश्च तथा बिल्वाः पालाशाश्च यथाक्रमम् ।
षड्बिल्वाष्षट् च पालाशाः खादिराश्च तथैव षट् ॥ (४२)

राज्जुवातः स्थितो मध्ये ह्यभितो द्वौ तु दारवौ ।
परितः खादिरा बिल्वाः पालाशाश्च यथाक्रमम् ॥ (४३)

स्थापिताश्शास्त्रकुशलैः विद्वद्भिर्मुनिपुङ्गव ।
सुसूक्ष्मैश्च सितैर्वस्त्रैः ततस्संवेष्टिताश्च ते ॥ (४४)

गन्धमाल्यादिभिश्चैव यूपास्सर्वे ह्यलङ्कृताः ।
कल्पयित्वाऽथ नागाद्रिं तथैवोत्तरवेदिकाम् ॥ (४५)

अग्निष्टोमादिकं कर्म कर्तुं समुपचक्रिरे ।
तद्दिने पशवो बद्धाः यूपेष्वेकादशैव ते ॥ (४६)

पवित्रं विधिवत्कृत्वा प्रोक्षणाद्यैश्च तांस्ततः ।
पशून् संज्ञापयन्ति स्म श्रपयन्ति स्म तानपि ॥ (४७)

जुहुवाञ्चक्रिरे वह्नौ ऋत्विजोऽथ हवींषि च ।
ततस्सर्वेषु पशुषु हूयमानेषु पद्मभूः ॥ (४८)

यज्ञं यज्ञेश्वरं विष्णुं वरदं भक्तवत्सलम् ।
अग्निमध्ये स्थितं ध्यात्वा तस्मै सर्वं निवेदयत् ॥ (४९)

यज्ञमूर्तिरनन्तात्मा वैकुण्ठः प्रीयतामिति ।
तत्सर्वं प्रतिजग्राह ब्रह्मणा विनिवेदितम् ॥ (५०)

सर्वलोकगुरुस्साक्षात् वरदो हव्यकव्यभुक् ।
यः पशुप्येनं मन्त्रेण यद्देवत्योऽभिधीयते ॥ (५१)

स पशुस्तेन मन्त्रेण तद्देवत्यो हि हूयते ।
तथापि त्रिदशैः स्वांशो लभ्यते न कदाचन ॥ (५२)

गृहीतं विष्णुना सर्वं धातुः प्रियचिकीर्षया ।
ततः प्रकुपिता देवाः सर्वयज्ञांशभागिनः ॥ (५३)

उपविष्टा बभूवुस्ते ह्यन्यान्यमुखवीक्षणाः ।
अस्मिन्भागोऽयमस्मभ्यं दीयतेऽस्मत्समक्षतः ॥ (५४)

न चायं लभ्यतेऽस्माभिः किमेतदिति चाब्रुवन् ।
ततस्सर्वे समुत्थाय संभ्रान्तास्त्रिदिवौकसः ॥ (५५)

यजमानं विधातारं पप्रच्छुरमितौजसम् ।
किमिदं कल्पितोऽस्माकं त्वया लोकपितामह ॥ (५६)

यज्ञभागो न चास्माभिः लभ्यते त्वत्समक्षतः ।
ततस्तद्वचनं श्रुत्वा तानुवाच पितामहः ॥ (५७)

ईषदुत्स्मयमानस्तु स्मरन्विष्णुं सनातनम् ।
ब्रह्मा –
शृणुध्वं कारणं तत्र वक्ष्येऽहं वै सुरर्षभाः ॥ (५८)
विश्वास-प्रस्तुतिः
मद्दत्तो येन यज्ञांशो न लभ्यं ते दिवौकसः ।
न यष्टव्या मया यूयं कदाचिदपि देवताः ॥ (५९)

अन्येनापि भवाम्भोधीं तर्तुकामेन केनचित् ।
हेयस्थितिपरायुष्मान् ये तु स्वर्गादिकाङ्क्षिणः ॥ (६०)

लभन्ते चेप्सितान् कामान् भवद्विरुपपादितान् ।
तर्तुकामास्तु ये लोके ह्यसारं भवसागरम् ॥ (६१)

ते यजन्ति जगन्नाथं सततं गरुडध्वजम् ।
द्रष्टुकामस्तमेवाहमच्युतं पुष्करेक्षणम् ॥ (६२)

अश्वमेधं करिष्यामि तद्दैवत्यमिहाव्ययम् ।
यः पिता सर्वभूतानामाधारः परमेश्वरः ॥ (६३)

कर्ता भोक्ता च गोप्ता च वासुदेवस्स इज्यते ।
मया यूयं समाभ्रान्ताः मुनयश्च द्विजास्तथा ॥ (६४)

यज्ञसन्दर्शनायैव केवलं त्रिदिवौकसः ।
आगता येऽत्र ते सर्वे तं द्रक्ष्यन्ति जनार्दनम् ॥ (६५)

ततस्सर्वे संभ्रान्तां लोकानां हितकाम्यया ।
आदित्यानाञ्च रुद्राणां वसूनामश्विनोस्तथा ॥ (६६)

दुर्लभं दर्शनं विष्णोः सिद्धानां योगिनामपि ।
दत्तं युष्मन्मुखाद्भुङ्क्ते हविस्स्वर्गादिभिः हरिः ॥ (६७)

मुमुक्षुभिस्तथा भुङ्क्ते स्वयमेव जनार्दनः ।
फलं ददाति सर्वेषां स एव परमः पुमान् ॥ (६८)

न चान्यः कर्मणां भोक्ता फलदो वापि कश्चन ।
द्वे रूपे ब्रह्मणस्तस्य विष्णोरमिततेजसः ॥ (६९)

स्थूलसूक्ष्मविभेदेन स्वर्गमोक्षफलप्रदे ।
स्थूलं स्वर्गादिफलदं सूक्ष्मं मोक्षफलप्रदम् ॥ (७०)

स्थूलं यूयं वयं सर्वे सूक्ष्म श्रीवत्सलक्षणम् ।
द्विविधा विहितास्तेन समस्ता वैदिकाः क्रियाः ॥ (७१)

संसारफलदाश्चैव निर्वाणफलदास्तथा ।
युष्मत्कृते कृतं कर्म संसारफलदं भवेत् ॥ (७२)

विष्णवे यत्कृतं तस्मै तन्निर्वाणदमिष्यते ।
यज्ञदानादिकं कर्म यत्सकामैः अनुष्ठितम् ॥ (७३)

स्वर्गादिफलदं तेषां तद्भवत्यल्पमेधसाम् ।
अकामैस्तु कृतं कर्म तदेव ज्ञानपूर्वकम् ॥ (७४)

अपवर्गप्रदं कर्म तेषामेव न संशयः ।
स्वर्गादिफलदा यूयं कर्मणां तत्प्रचोदिताः ।
अपवर्गप्रदो विष्णुः अकामानां स्वयं विभुः ॥ (७५)

युष्मानेव यजन्तेऽत्र ये तु स्वर्गादिकाङ्क्षिणः ।
तमेवैकं यजन्तेऽत्र ते तु निर्वाणकाङ्क्षिणः ॥ (७६)

देवाः-
विश्वास-प्रस्तुतिः
एकक्रियाद्विधा ब्रह्मन् कथं स्वर्गापवर्गतः ।
भवेदिति महानेषः संशयो नः प्रजायते ॥ (७७)

एतन्नो वद तत्त्वेन संशयो येन नश्यते ।
त्वमेव सर्वलोकानां कारणं परमं मतः ॥ (७८)

ब्रह्मा-
विश्वास-प्रस्तुतिः
संक्षेपेणैव तद्वक्ष्ये शृणुध्वं देवसत्तमाः ।
येन वस्संशयो नश्येदिहैवाज्ञानसंभवः ॥ (७९)

विद्याविद्येति विख्याते मोक्षभोगफलप्रदे ।
ज्ञातव्ये द्वे सुरश्रेष्ठाः वेदवेदाङ्गपारगैः ॥ (८०)

विद्या-ज्ञानमविद्या तु कर्मकेवलमुच्यते ।
अनयोर्दृश्यते भेदः फलभेदेन सर्वदा ॥ (८१)

यत्कर्म विद्यया सार्धं क्रियते तद्विमुक्तिदम् ।
तया विरहितं यत्तु तत्संसारफलप्रदम् ॥ (८२)

तत्राविद्या द्विधा भिन्ना गौणमुख्यविभेदतः ।
ऐहिकार्थप्रदा गौणी मुख्या स्वर्गफलप्रदा ॥ (८३)

अविद्या विहिता विद्या नैव मोक्षाय कल्प्यते ।
तथैव सहिता सैव निर्वाणफलदायिनी ॥ (८४)

अश्वमेधादिकं कर्म विद्यया सह निर्मितम् ।
मोक्षायैव भवेत्सत्यमुक्तमेतन्न संशयः ॥ (८५)

ददाति मनसश्शुद्धिमविद्या ज्ञानसंहितम् ।
विशुद्धं तेन विद्यायां वर्तते सुदृढं मतः ॥ (८६)

कुतश्शुभाश्रये विष्णौ जायते ज्ञानसन्ततिः ।
तया विमुच्यते देही दुःखसंसारबन्धनात् ॥ (८७)

स्वरूपं श्रूयतां तस्याः विद्याया गदतो मम ।
यन्न जानाति मूढात्मा तमोमोहसमावृतः ॥ (८८)

सर्वेषामपि भूतानामीश्वरः कारणं हरिः ।
तेन सृष्टं जगत्सर्वं इदं स्थावरजङ्गमम् ॥ (८९)

तेन संवर्धिते नित्यं तस्मिन्नेव प्रतिष्ठितम् ।
तस्मिन्नेव लयं याति स एव सकलं जगत् ॥ (९०)

लीलेव तस्य जगतां सर्गस्थितिलयक्रियाः ।
न तस्य कारणं कार्यं विद्यते ह्यव्ययात्मनः ॥ (९१)

यथा तरङ्गफेनाद्याः जायन्ते महतोऽम्बुधेः ।
तथैव विष्णोर्जायन्ते प्रधानपुरुषादयः ॥ (९२)

ऊर्णनाभिर्यथा सृष्ट्वा स्वयं तद्गृह्यते पुनः ।
तथा सृष्ट्वैतदखिलं स्वयं स ग्रसते हरिः ॥ (९३)

तेनेदमखिलं व्याप्तं जगत्सदसदात्मकम् ।
अतस्स एव सकलं न तदन्योऽस्ति कश्चन ॥ (९४)

विभिन्नमिव पश्यन्ति नरा मायाविमोहिताः ।
स एव सर्वमित्येव संपश्यन्ति मनीषिणः ॥ (९५)

ये तु देवादयो भेदाः दृश्यन्ते त्रिदिवौकसः ।
सा माया केवलं विष्णोः न चास्ति परमार्थतः ॥ (९६)

स एव सत्यममृतं परं ब्रह्म सनातनम् ।
निर्गुणो निर्मलश्शान्तो निराधारो निरञ्जनः ॥ (९७)

अव्ययः पुरुषोऽनादिरन्न्तात्मा शाश्वतश्शिवः ।
प्रधानपुरुषाद्याश्च स एव पुरुषोत्तमः ॥ (९८)

तस्माद्विष्णोस्समुद्भूतं न जातन्नैव किञ्चन ।
तस्मात्कर्माणि जातानि फलानि विविधानि च ॥ (९९)

स एव कर्ता भोक्ता च क्रिया कार्यञ्च कारणम् ।
स एव हव्यं कव्यञ्च हवनं हव्यवाहनः ॥ (१००)

इत्येवमुदितं यत्तु ज्ञानं विद्या हि सुस्मृतम् ।
यो नरस्समाप्नोति नरो मुक्तिमृच्छति ॥ (१०१)

तमेवोद्दिश्य यत्कर्म क्रियते वैदिकं नरैः ।
तदेव विद्यासहितं कीर्तितं ब्रह्मवादिभिः ॥ (१०२)

अतो यत्क्रियते कर्म युष्मदाराधनात्मकम् ।
स्वर्गादिफलदं तेषां केवलं नात्र संशयः ॥ (१०३)

अतस्तं द्रष्टुकामोऽहं वरदं पुरुषोत्तमम् ।
अश्वमेधेन यक्ष्येऽहं क्षेत्रे सत्यव्रतेऽधुना ॥ (१०४)

अतो विषादं युष्माभिः न कर्तव्योऽत्र मां प्रति ।
अहङ्कारो महानद्य शाम्यतां वस्समुत्थितः ॥ (१०५)

समूलं सर्वपापानां रजोगुणसमुद्भवः ।
अपि हन्याद् गुरूंस्तेन संयुक्तः पुरुषाधमः ॥ (१०६)

अज्ञानतिमिरान्धानामनात्मज्ञानिनां नृणाम् ।
अहमेव ममता बुद्धिरहङ्कार इतीष्यते ॥ (१०७)

श्लेष्म-विण्मूत्रसंपूर्णे नवद्वारे रजोज्वले ।
अनित्येऽशुचिदुर्गन्धे महाव्याधिसमाश्रये ॥ (१०८)

पञ्चभूतमये देहे सर्वदुःखसमाश्रये ।
अहङ्कारविमूढात्मा कुरुते ममतां नरः ॥ (१०९)

शरीरार्थञ्च कुरुते पातकानि सहस्रशः ।
दानतश्च स्वयं भुङ्ते याज्याः कर्मनिबन्धनाः ॥ (११०)

तस्मात्त्याज्यो ह्यहङ्कारः पापहेतुस्सुदुस्सहः ।
तेनैव दूषितं चित्तं न कदाचित्प्रसीदति ॥ (१११)

त्यजत सहजशत्रुं दुःखसन्तापदाव-
ज्वलनजननभूमिं यूयमद्याभिमानम् ।
सपदि भवति युष्मत्क्रोधलोभाभ्यसूया-
मदमदनभयानां संप्रणाशः क्षणेन ॥ (११२)
इतिब्राह्मपुराणेभृगु–नारदसंवादेश्रीहस्तिगिरि–माहात्म्ये पञ्चमोऽध्यायः।