०४

अथश्रीहस्तिगिरिमाहात्म्ये चतुर्थोऽध्यायः

नारदः –

विश्वास-प्रस्तुतिः

ततस्सा सह्यशैलस्य निर्गत्योत्तरभागतः ।
आस्थायाति महद्वेगं ययौ सत्यव्रतं प्रति ॥ (१)

मूलम्

पातालतलपर्यन्तं दारयन्ती वसुन्धराम् ।
धारयन्ती भुवो भागं विनदन्ती महारवा ॥ (२)

उत्पतद्भिः पतद्भिश्च कल्लोलैरुपशोभिता ।
घोषेण महता तस्याः संपूर्यत जगत्त्रयम् ॥ (३)

प्रेरयामास वेगेन पर्वतान्पुरतः स्थितान् ।
केचिच्छिखरसंरोधात् लेलिहाना त्रिविष्टपम् ॥ (४)

कल्लोलभुजविक्षेपा चरन्मीनविलोचना ।
फेनमन्दस्मिता लोलभृङ्गमाला विभूषिता ॥ (५)

कलहंसरवालापा धातुचन्दनरञ्जिता ।
नवशैवलकेशान्ता स्मितकल्लोलकर्णिका ॥ (६)

मूलम्

कलहंसरवालापा धातुचन्दनरञ्जिता ।
नवशैवलकेशान्ता स्मितकल्लोलकर्णिका ॥ (६)

विश्वास-प्रस्तुतिः

तीरवृक्षसमाकीर्णैः कुसुमैः कृतपत्रिका ।
परिपूर्ण-महावर्त-निम्ननाभिमनोरमा ॥ (७)

मूलम्

तीरवृक्षसमाकीर्णैः कुसुमैः कृतपत्रिका ।
परिपूर्ण-महावर्त-निम्ननाभिमनोरमा ॥ (७)

विश्वास-प्रस्तुतिः

जलपूरापुत-प्रस्था विपुलाद्रिघनस्तनी ।
प्रियस्य वसतिं यान्ती नवयोषिदिवा बभौ ॥ (८)

दग्धारण्यस्थलीसङ्गात् कालुष्यं सहसा ययौ ।
दुर्जनानां समायोगात् मानसं योगिनामिव ॥ (९)

स्फटिकोपलसंयोगात् प्रससारातिनिर्मला ।
विष्णुभक्तिमिवासाद्य मानसं संयतात्मनः ॥ (१०)

क्वचिन्नीलघनश्यामा शारदभ्रसमा क्वचित् ।
क्वचित्सन्ध्याभ्रसदृशा हरितालसमा क्वचित् ॥ (११)

शनैः शनैः क्वचिद्याति क्वचिच्छीघ्रतरं ययौ ।
सङ्क्षिप्य च क्वचिद्याति विस्तीर्णा च क्वचित् क्वचित् ॥ (१२)

प्रत्यङ्मुखी क्वचिद्याति परावृत्य तथा क्वचित् ।
क्वचित्प्रयाति गम्भीरा क्वचिदाहृत्यसंहृता ॥ (१३)

उत्पाट्य पादपान्वेगात् प्रचिक्षेप बहिः क्वचित् ।
क्वचितदुन्मीलितैर्वृक्षैः वनराजिरिवा बभौ ॥ (१४)

नगरग्रामदुर्गाणि वनान्युपवनानि च ।
पुरोगतानि सहसा प्लावयामास वेगतः ॥ (१५)

मूलम्

नगरग्रामदुर्गाणि वनान्युपवनानि च ।
पुरोगतानि सहसा प्लावयामास वेगतः ॥ (१५)

विश्वास-प्रस्तुतिः

इत्थं संक्षोभन्ती सा नगरग्रामवासिनः ।
न दूरतो महावेगात् ययौ सत्यव्रतं प्रति ॥ (१६)

इज्यते हयमेधेन विधात्रा यत्र केशवः ।
तत्समीपं समासाद्य ननादोच्चैर्महानदी ॥ (१७)

भ्रमद्गिरिवरप्रख्याम् अर्धयोजनविस्तृताम् ।
ददृशुस्तां समायान्ती सत्यव्रतनिवासिनः ॥ (१८)

तां दृष्ट्वा भयवित्रस्ताः पौरजानपदास्तदा ।
किमेतदिति संभ्रान्ताः चुक्रुशुर्भयविह्वलाः ॥ (१९)

ततः कृत्यमजानन्तो यज्ञवाटं प्रपेदिरे ।
यत्रास्ते विबुधैस्सार्धं भगवानब्जसंभवः ॥ (२०)

प्रवदन्ति स्म ते सर्वे भयसन्त्रस्तचेतसः ।
रक्षध्वं विबुधांश्चास्मान् रक्षध्वं चतुरानन ॥ (२१)

पश्चिमोदधिरायाति प्लावयन् वसुधातलम् ।
तिरोहिता दिशस्सर्वा नभश्च प्रलये तथा ॥ (२२)

अधुना तेन सकलं जगदेकार्णवं कृतम् ।
भयमेतत्समुद्धर्तुं न च शक्ष्यामहे वयम् ॥ (२३)

इत्युक्त्वा क्रियमाणेषु प्रवर्गारम्भकर्मसु ।
उपमर्दं विधेश्चक्रुः पौरजानपदास्तदा ॥ (२४)

ततस्ते मुनयो देवा ये चान्ये सदसि स्थिताः ।
समुत्थस्तुः भयाविष्टाः किमेतदिति चाब्रुवन् ॥ (२५)

ऋत्विजः स्रुक्स्रुवादीनि विसृज्य च पुनः पुनः ।
कर्तव्यता-विमूढाश्च विनिर्जग्मुः ततस्ततः ॥ (२६)

गन्तुकामाश्च तेऽप्यासन् देवा देवपुरं प्रति ।
यक्षविद्याधराश्चैव संप्रतस्थुरितस्ततः ॥ (२७)

भगवान् प्राह संत्रस्तान्माभैष्टेति पितामहः ।
पप्रच्छुर्मुनयस्सर्वे ब्रह्माणं लोककारणम् ॥ (२८)

मुनयः –

विश्वास-प्रस्तुतिः

कोऽयं जलागमो ब्रह्मन् वसन्तसमयेऽधुना ।
त्वमेव सर्वं जानासि ब्रूहि नो भुवनेश्वर ॥ (२९)

ब्राह्मणाश्च तथैवान्ये ये जना भयविह्वलाः ।
परिवार्य सुसंभ्रान्ताः स्तमूचुश्चतुराननम् ॥ (३०)

ब्राह्मणाः –

विश्वास-प्रस्तुतिः

रक्षणीयास्त्वया ब्रह्मन् वयमस्माद्भयादिह ।
त्वं हि कर्तास्य जगतः तवाशक्यं न विद्यते ॥ (३१)

मूलम्

रक्षणीयास्त्वया ब्रह्मन् वयमस्माद्भयादिह ।
त्वं हि कर्तास्य जगतः तवाशक्यं न विद्यते ॥ (३१)

नारदः –

विश्वास-प्रस्तुतिः

इत्युक्तस्तैस्तदा ब्रह्मा यजमानो जनार्दनम् ।
विषण्णवदनो भूत्वा चिन्तयामास पद्मभूः ॥ (३२)

ततो ध्यात्वा क्षणं सर्वम् अपश्यच्चतुराननः ।
दानवानाञ्च चरितं सरस्वत्यास्समागमम् ॥ (३३)

प्रतिषिद्धो मम क्रोधो यजमानस्य तां प्रति ।
इति मत्वा न चुक्रोश धर्मभङ्गभयाद्विधिः ॥ (३४)

ज्ञात्वा क्रतुविघातञ्च प्राणिपीडामुपागताम् ।
अनन्यगतिरीशानं केशवं शरणं ययौ ॥ (३५)

नारायणं जगद्योनिं प्रणतार्तिहरं हरिम् ।
त्रातारं सर्वभूतानां सर्वभूताभयप्रदम् ॥ (३६)

हृत्पुण्डरीकमध्यस्थं जगतः प्रभुमव्ययम् ।
सुहृदं सर्वभूतानां तुष्टाव चतुराननः ॥ (३७)

ब्रह्मा –

विश्वास-प्रस्तुतिः

त्राहि मां पुण्डरीकाक्ष प्रणतं शरणागतम् ।
त्राता कर्ता च भोक्ता च त्वमेव मधुसूदन ॥ (३८)

दुःखशोकभयार्तानां गतिरात्यन्तिकी पुरा ।
न च त्वद्भक्तियुक्तानामशुभं विद्यते क्वचित् ॥ (३९)

त्वत्पदाम्भोरुहद्वन्द्वप्रवणं च मनो मम ।
अतो मां रक्ष देवेश भयादस्मादुपस्थितात् ॥ (४०)

येनेदं जगदखिलं धृतं विधात्रा विश्वं यज्जठरगतं युगान्तकाले ।
यो वेदानवति समेत्य मत्स्यरूपी तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४१)

यो देवानसृजदनाद्यनन्तरूपो विश्वात्मा विधूततमोरजोभिरीड्यः ।
धत्ते मां कमठवपुर्महीमजस्रं तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४२)

यः पृथ्वीमसुरभयाद्रसातलस्थाम् उद्धर्तुं खुरनिहतक्षुतासुरौघः ।
वाराहीं तनुमभजत्रयीनिवासः तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४३)

हैरण्यं कुलिशदृढं पुरा नखाग्रैः वक्षो यस्सपदि निवारयाञ्चकार ।
प्रलादप्रियहितकृन्नृसिंहरूपो तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४४)

स्वर्लोकस्थितिकरणाय धात्रीं त्रेधा विक्रमितुमयाचता सुरेशम् ।
भूत्वा वामनतनुरीश्वरस्सुराराणां तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४५)

यः क्षत्रं निशितपरश्वधेन सर्वं छित्वा तत्क्षतजजलेन कर्म पित्र्यम् ।
चक्रे विक्रमविभवैकसंपदीशः तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४६)

यो लोकत्रयमवनाय चेश्वराणाम् ईशानो दशवदनं रणे निहन्तुम् ।
रामोऽभूद्दाशरथीरुदारवीर्यः तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४७)

यः पृथ्वीमसुरभयातिभङ्गुरार्ताम् उद्धर्तुं सपदि हलायुधो बभूव ।
कालिन्दी-कर्षणदर्शितात्मवीर्यः तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४८)

कंसादीन्स्त्रिदशरिपून् अपाचिकीर्षुं यः पृथिव्यामिह यदुनन्दनो बभूव ।
बालार्कद्युतिविलसत्सरोजनेत्रः तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (४९)

पाषण्डान् कलिकलुषीकृतस्वधर्मान् निश्शेषं सपदि निराकरिष्णुरीशः ।
यः कल्कीभवति नितान्तघोररूपः तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ (५०)

त्वां स्तोतुं वरद न चास्म्यहं समर्थः विश्वेशं विधृतजगत्त्रयं महान्तम् ।
कारुण्यादिह परिरक्ष केवलं मे विश्वात्मन् क्रतुवरमेनमब्जनाभ ॥ (५१)

इत्थं स्तुतो जगद्धात्रा भगवान् मधुसूदनः ।
इज्यमानोऽश्वमेधेन प्रसन्नोऽभवदच्युतः ॥ (५२)

पश्चिमे यज्ञशालायास्समीपे मुनिसत्तम ।
आविर्बभूव भगवान् शङ्खचक्रगदाधरः ॥ (५३)

मूलम्

पश्चिमे यज्ञशालायास्समीपे मुनिसत्तम ।
आविर्बभूव भगवान् शङ्खचक्रगदाधरः ॥ (५३)

विश्वास-प्रस्तुतिः

शयानश्शेषपर्यङ्के कुन्देन्दुधवलप्रभे ।
फणारत्नसहस्रां शौनवास्तरणविस्तृते ॥ (५६)

नीलजीमूतसङ्काशः पद्मपत्रनिभेक्षणः ।
संस्तूयमानो योगीन्द्रैरभितो भक्तिसंयुतैः ॥ (५७)

सेव्यमानो विशालाक्ष्या लक्ष्म्या कमलहस्तया ।
धरण्या च जगद्धर्त्र्या धाता विश्वस्य विश्वभुक् ॥ (५८)

तं दृष्ट्वाऽभिप्रणम्याथ तुष्टुवुस्त्रिदिवौकसः ।
वसिष्ठप्रमुखास्सर्वे ऋषयश्च तपोधनाः ॥ (५९)

ततस्सरस्वती देवी महावेगादुपागता ।
योजनद्वयमात्रे तु ददर्श पुरुषोत्तमम् ॥ (६०)

प्रणम्य सा महाभगा सर्वलोकगुरुं हरिम् ।
चिन्तयामास सहसा सन्निरुद्धमनोरथा ॥ (६१)

मूलम्

प्रणम्य सा महाभगा सर्वलोकगुरुं हरिम् ।
चिन्तयामास सहसा सन्निरुद्धमनोरथा ॥ (६१)

सरस्वती –

विश्वास-प्रस्तुतिः

मां निरोद्धुमयं शेते भगवान्भक्तवत्सलः ।
विधातुर्यज्ञरक्षार्थं स्वयमेव ममाग्रतः ॥ (६२)

सर्वेषामपि भूतानां गुरुरेषस्सनातनः ।
सर्वभूतान्तरात्मानं न शक्यमतिवर्तितुम् ॥ (६३)

इत्थं विचिन्तयन्ती सा तत्समीपं शनैर्ययौ ।
न शशाक ततो गन्तुं निरुद्धा विष्णुसेतुना ॥ (६४)

निरुद्धे तु महावेगे विष्णुना प्रभविष्णुना ।
प्रत्यस्रोतोवहा भूयो ववृधे सा सरस्वती ॥ (६५)

ततो विकीर्णा बहुधा प्रययौ सागरं प्रति ।
दक्षिणोत्तरभागाच्च पूर्वभागात्ततो हरेः ॥ (६६)

विष्णोरुत्तरभागेन प्रययौ सागरं प्रति ।
शुक्तिका कनका सृप्रा वेगा चैव प्रवेगिका ॥ (६७)

अञ्जना चण्डवेगेति कीर्तितास्सप्तनामभिः ।
विष्णोः दक्षिणभागे तु प्रययौ सागरं प्रति ॥ (६८)

तस्या वेगवतीत्याख्या बभूव भुवनत्रये ।
सन्निरुद्धे जले विष्णोः पश्चिमे योजनद्वये ॥ (६९)

प्रागुदक्प्रवणा वेगात् प्रययौ सागरं प्रति ।
तां तु क्षीरनदीं प्राहुः प्रसन्नसलिलोद्वहाम् ॥ (७०)

सर्वपापक्षयकरीं सिद्धगन्धर्वसेविताम् ।
इत्थं विकीर्णा बहुधा प्रययौ सागरं प्रति ॥ (७१)

शयानस्याग्रतो विष्णोरुभयोरपि पार्श्वयोः ।
ततस्तस्याग्रतो विष्णोर्यत्रोत्तस्थौ सरस्वती ॥ (७२)

विशुद्धगात्री तन्वङ्गी योषिद्रूपा यशस्विनी ।
तत्र स्थित्वा जगन्नाथं प्रणिपत्य सरस्वती ॥ (७३)

संस्तुत्य विविधैस्स्तोत्रैः स्वयमन्तर्दधे पुनः ।
तत्तीर्थमभवत्पुण्यं महापातकनाशनम् ॥ (७४)

शयानस्याग्रतो विष्णोर्यत्रोत्तस्थौ सरस्वती ।
कुण्डतीर्थमिति ख्यातं पावनं केशवप्रियम् ॥ (७५)

तत्र कुर्वन्ति ये स्नानं न ते यान्ति पुनर्भवम् ।
इत्थं विष्णोः प्रसादेन यजमानस्य वेधसः ॥ (७६)

यज्ञशाला जलोत्पीडा नापीडयदुपागता ।
ततस्तन्महदाश्चर्यं दृष्ट्वा मुनिगणास्तदा ॥ (७७)

शशंसु ब्रह्मणे तस्मै ध्यायते मधुसूदनम् ।
प्रशशंसुश्च बहुधा तमेवात्यन्तगौरवात् ॥ (७८)

ध्यायन्तमच्युतं भक्त्या रक्षणार्थं महाक्रतोः ।
ऋषयः-

विष्णुभक्तिस्तव ब्रह्मन् प्रत्यक्षफलदायिनी ॥ (७९)

विश्वास-प्रस्तुतिः

जलपूरं निषिद्धं हि यद्विष्णुना त्वद्धितैषिणा ।
विष्णुभक्ता महात्मानः न तेषामस्ति दुर्लभम् ॥ (८०)

विष्णुभक्ता विपद्यन्ते न कदापि क्वचित्क्वचित् ।
तत्प्रभावं न जानन्ति नरा मायाविमोहिताः ॥ (८१)

इति ब्रुवन्तो मुनयस्तं प्रणेमुः पितामहम् ।
नारदः –

तत् श्रुत्वा कथितं सर्वं विष्णोरद्भुतकर्मणः ॥ (८२)

विश्वास-प्रस्तुतिः

प्रहर्षोत्फुल्लनयनो बभूव चतुराननः ।
समुत्थाय ततो विष्णुं शयानं पद्मसंभवः ॥ (८३)

प्रणम्य परिसन्तुष्टः तोषयामास संयतः ॥ (८४)

ब्रह्मा –

विश्वास-प्रस्तुतिः

इत्थं निरोधे हयमेधभङ्गविधान-सन्नद्धमहाजलौघे ।
जनार्दनेनाब्ज-समुद्भवोऽपि प्रचक्रमे कर्तुमथाश्वमेधम् ॥ (८५)

इति ब्राह्म्ये पुराणे भृगु–नारद–संवादेश्रीहस्तिगिरि–माहात्म्ये चतुर्थोऽध्यायः