०३

अथश्रीहस्तिगिरिमाहात्म्ये तृतीयोऽध्यायः

भृगुः –

विश्वास-प्रस्तुतिः

कथं विना सरस्वत्या धर्मपत्न्या महामुने ।
हयमेधं महायज्ञं चकार चतुराननः ॥ (१)

मूलम्

नारदः –

विश्वास-प्रस्तुतिः

सरस्वत्या वचः श्रुत्वा वसिष्ठेन समीरितम् ।
तमूचू ऋषयस्सर्वे ब्रह्माणं लोककारणम् ॥ (२)

ऋषयः –

विश्वास-प्रस्तुतिः

परित्याज्या त्वया भार्या भर्तुर्वचनलङ्घिनी ।
तत्र दोषो न चाऽस्तीति त्वं हि वेत्थ यथातथम् ॥ (३)

भगवन् भर्तुराज्ञां या शिरसा नैव धारयेत् ।
तस्यास्त्यागे न दोषस्स्यादिति वेदानुशासनम् ॥ (४)

अतिवादकरीं भार्यामसतीमतिकोपनाम् ।
त्यजेद्धर्मस्य रक्षार्थं तथैवाप्रियवादिनीम् ॥ (५)

सर्वलक्षणसंयुक्ता पितुर्भर्तुर्व्यतिक्रमम् ।
करोति सा परित्याज्येत्येष धर्मस्सनातनः ॥ (६)

शृणुष्व सर्ववाक्यानि सर्वलोकपितामह ।
सरस्वतीपतित्वं हि लोकयात्रैव केवलम् ॥ (७)

पतिस्त्वं सर्वलोकानां धाता कर्ता च शाश्वतः ।
अनन्तमव्ययं ब्रह्म त्वामाहुर्वेदवादिनः ॥ (८)

निर्णीतमिदमस्माभिः वेदशास्त्राविरोधतः ।
तदेव क्रियतामद्य भगवन् यदि रोचते ॥ (९)

मूलम्

निर्णीतमिदमस्माभिः वेदशास्त्राविरोधतः ।
तदेव क्रियतामद्य भगवन् यदि रोचते ॥ (९)

विश्वास-प्रस्तुतिः

नैवागच्छति सा देवी धर्मपत्नी यदि स्वयम् ।
तदंशभूता सावित्री पत्नीत्वे कल्प्यतां तव ॥ (१०)

सा सर्वेभ्योऽपि वेदेभ्यस्सारभूता समुद्धृता ।
प्रायश्चित्तं हि सावित्री विहिता सर्वकर्मसु ॥ (११)

न सावित्रीसमं लोके पवित्रं पुण्यवर्धनम् ।
अतस्तया सहैवायं कर्तव्यो हि महाक्रतुः ॥ (१२)

श्रद्धा तुष्टिः मतिश्चान्यास्तव पत्न्यो भवन्ति याः ।
इत्थं कृतो हि संपूर्णो भविष्यति महाक्रतुः ॥ (१३)

इत्युक्तो मुनिभिः ब्रह्मा तथेति प्रीतमानसः ।
सावित्रीं कल्पयामास श्रद्धाद्याश्च यथाक्रमम् ॥ (१४)

दीक्षां कृत्वाश्वमेधाय नीत्वा द्वादशवासरान् ।
प्रवर्ग्यादीनि कर्माणि कारयामास पद्मभूः ॥ (१५)

प्रवर्ग्योपसदाख्येषु क्रियमाणेषु कर्मसु ।
पृथक्पृथक् मरीच्याद्याः ऋत्विजः पूजितास्तदा ॥ (१६)

समागतानां सर्वेषां पूजार्थं चतुराननः ।
ब्राह्मणानां समर्थानां सहस्राणि न्ययोज्ययत् ॥ (१७)

सर्वेषामर्हणां चक्रुः यथार्हं ते द्विजोत्तमाः ।
विशेषेण तदा चक्रुः ब्राह्मणास्त्रिदिवौकसाम् ॥ (१८)

सुरसंभावनां दृष्ट्वा साभ्यसूयास्सुरद्विषः ।
समेत्य यज्ञशालायां निर्जग्मुः क्रोधमूर्च्छिताः ॥ (१९)

मन्त्रयित्वा मिथस्सर्वे मखभङ्गाय वेधसः ।
योद्धुकामास्ततस्तत्र बभूवुस्त्रिदशैस्सह ॥ (२०)

सुदुर्द्धर्षा दुरात्मानो महाबलपराक्रमाः ।
अन्योन्यबलसन्दृप्ताः अन्योन्यविजगीषिणः ॥ (२१)

ततो विरोचनस्सर्वान् दैतेयानसुरेश्वरान् ।
उवाच वचनं चेत्थमालोक्य मतिमान् वरः ॥ (२२)

विरोचनः –

विश्वास-प्रस्तुतिः

युद्धो नैवात्र कर्तव्यो विबुधैस्सह संप्रति ।
तत्कारणं वो वक्ष्यामि शृणुध्वं वदतो मम ॥ (२३)

विष्णुरेवेज्यते तेन विधात्रा दैत्यसूदनः ।
श्रूयतां कारणञ्चान्यद् युद्धस्य विनिवृत्तये ॥ (२४)

अनालोच्य कृतं युद्धं करिष्यति विपर्ययम् ।
एतत्तु वैष्णवं क्षेत्रं तत्र सन्निहितो हरिः ॥ (२५)

अतस्सर्वात्मनास्माकं बलहानिर्भविष्यति ।
उपायश्चिन्त्यतामन्यो मखभङ्गाय वेधसः ॥ (२६)

अनुपायकृतं कर्म फलसिद्धिर्न विन्दति ।
उपायं तत्र वक्ष्यामि येन भङ्गो भवेत् क्रतोः ॥ (२७)

कुरुध्वं तत्र सन्नाहं मद्वचो यदि रोचते ।
धर्मपत्न्या सरस्वत्या विनाऽयं यजतेऽब्जभूः ॥ (२८)

तथा विघातः कर्तव्यः प्रेर्यतां सा सरस्वती ।
नारदः-

तथेति तद्वचश्श्रुत्वा ते सर्वे विबुधद्विषः ॥ (२९)

विश्वास-प्रस्तुतिः

द्विजरूपं समास्थाय निवृत्ताः कामरूपिणः ।
सरस्वतीं नदीं गत्वा तुष्टुवुस्तत्र भारतीम् ॥ (३०)

सा च सद्यस्स्तुतिप्रीता तेषां दृष्टिपथं गता ।
तां दृष्ट्वा पूजयामासुः स्तोत्रैश्च विविधैः पुनः ॥ (३१)

स्तोत्रेण सदृशं नास्ति देवतानां प्रसादने ।
नमस्तुभ्यं नमस्तुभ्यं भवशोकविनाशिनी ॥ (३२)

त्वमेव सर्वलोकानां गतिरत्यन्तदुर्लभा ।
त्वं शक्तिस्त्वं मतिर्विद्या त्वं सुधा त्वं यशस्विनी ॥ (३३)

त्वं सृष्टिस्त्वं विभूतिस्त्वं वषट्कारस्त्वमेव यत् ।
त्वं स्वाहा त्वं हविर्देवी त्वमेव सकलं महत् ॥ (३४)

स्थावरं जङ्गमं वापि भूतं भव्यञ्च यज्जगत् ।
त्वत्प्रसादाच्चतुर्वक्त्रः ससर्ज भुवनत्रयम् ॥ (३५)

त्वामुपास्य सहस्राक्षः सुराणामीश्वरोऽभवत् ।
यत्त्वया रहितं किञ्चित् तमोभूतं तु तद्भवेत् ॥ (३६)

अन्तर्बहिश्च सर्वेषां तमो नूनं त्वमेव हि ।
त्वत्कटाक्ष-प्रतिक्षेप-क्षपिताशेषकल्मषः ॥ (३७)

व्याजहार विधिर्वेदान् प्रलयान्तर्हितान्पुनः ।
त्वां स्तोतुं न च शक्तास्स्मो वयमप्यल्पमेधसः ॥ (३८)

केवलं कृपया प्राप्ता त्वमस्मदृष्टिगोचरम् ।
ये त्वामुपासते भक्त्या वरदामभयप्रदाम् ॥ (३९)

तेषां मनोरथाः पूर्णाः भविष्यन्ति न संशयः ।
नारदः –

संस्तुता ब्राह्मणैरित्थं सुप्रसन्ना सरस्वती ॥ (४०)

विश्वास-प्रस्तुतिः

उवाच सम्यक् ज्ञात्वा तानसुरान् कामरूपिणः ।
प्रसन्नाऽस्मि द्विजश्रेष्ठाः स्तोत्रैः भक्तिपुरस्सरैः ॥ (४१)

वरं वृणीध्वं भद्रं वो यदर्थं यूयमागताः ।
अस्मिन्क्षेत्रे तु मद्भक्ता ये मामर्चन्ति मानवाः ॥ (४२)

ददामि वाञ्छितं तेषां न वृथा मदुपासनम् ।
नारदः –

इत्युक्तास्ते सरस्वत्या कृतकृत्यास्सुरारयः ॥ (४३)

कृताञ्जलिपुटाः स्थित्वा तामूचुरसितेक्षणाम् ।
ब्राह्मणाः –

त्वया दृष्टाः किमन्यन्नः प्रार्थनीयं यशस्विनि ॥ (४४)

विश्वास-प्रस्तुतिः

दर्शनं तव सर्वेषां फलानामुपरि स्थितम् ।
तव सन्दर्शनायैव वयमत्र समागताः ॥ (४५)

मूलम्

दर्शनं तव सर्वेषां फलानामुपरि स्थितम् ।
तव सन्दर्शनायैव वयमत्र समागताः ॥ (४५)

विश्वास-प्रस्तुतिः

त्वां दृष्ट्वैव वयं देवि कृतकृत्यास्स्म संप्रति ।
यत्र यत्र च वर्तन्ते ब्राह्मणा वेदपारगाः ॥ (४६)

तत्र तत्र च ते देवि न सहन्ते पराभवम् ।
विशेषेण वयं देव्या यशःपरिभवं नवम् ॥ (४७)

नैव सोढुं समर्थाः स्म त्वद्भक्त्या वरवर्णिनि ।
यज्ञार्थं वयमाहूता देवाश्च परमर्षयः ॥ (४८)

देवि सत्यव्रतक्षेत्रे ब्रह्मणा परमेष्ठिना ।
समागतेषु चास्मासु तत्रैव मुनिभिस्सह ॥ (४९)

धर्मपत्नी विहाय त्वां धाता यष्टुं प्रचक्रमे ।
सावित्रीमात्मनः पत्नीं कल्पयित्वा महर्षिभिः ॥ (५०)

ऋत्विग्भिः दीक्षितो ब्रह्मा ह्यभीष्टफलसिद्धये ।
तं दृष्ट्वैव वयं क्रुद्धाः प्रतीकार-चिकीर्षवः ॥ (५१)

निवेदयितुकामास्ते त्वत्समीपमिहागताः ।
प्रमाणं तत्र कर्तव्यं देवि त्वं यदनन्तरम् ॥ (५२)

मखभङ्गस्त्वया कार्य इत्येवं प्रतिभाति नः ।
अपकार-प्रतीकारः सतां सर्वत्र सम्मतः ॥ (५३)

अपकारः कृतस्तेन विधात्रा त्वयि मानिनी ।
नारदः –

इत्युक्ता दानवैर्देवी तथेत्याह सरस्वती ॥ (५४)

अनुज्ञाता तया देव्या प्रययुस्सुरशत्रवः ॥ (५५)

विश्वास-प्रस्तुतिः

अथ विधिमखभञ्जनाय धातुः वदन-सरोरुहषण्डराजहंसी ।
कृतमतिरतिरं ह सा नदी सा भवितुमधिश्रयदाशु सह्यशैलम् ॥ (५६)

इति ब्राह्म्ये पुराणे भृगुनारदसंवादेश्रीहस्तिगिरिमाहात्म्ये तृतीयोऽध्यायः।