श्रीहस्तिगिरिमाहात्म्ये द्वितीयोऽध्यायः
नारदः-
विश्वास-प्रस्तुतिः
अथ दीक्षाविधानाय प्रक्रान्ते कमलासने ।
तमुवाच गुरुर्होता पुरोधास्त्रिदिवौकसाम् ॥ (१)
मूलम्

आहूयतामिह ब्रह्मन् तव पत्नी सरस्वती ।
इहागतायां तस्यां हि कर्तव्यं तदनन्तरम् ॥ (२)

कल्पनीयाश्चतस्रोऽस्यांस्तव पत्न्योऽथ धर्मतः ।
कल्पितानां च सर्वासां ज्येष्ठा पत्नी सरस्वती ॥ (३)

तयैव सह कर्तव्यः क्रतुरेष जगत्पते ।
अत आहूयतामद्य जगत्पूज्या सरस्वती ॥ (४)
मूलम्
तयैव सह कर्तव्यः क्रतुरेष जगत्पते ।
अत आहूयतामद्य जगत्पूज्या सरस्वती ॥ (४)
नारदः –
विश्वास-प्रस्तुतिः
इति तद्वचनं श्रुत्वा यष्टुकामः पितामहः ।
उवाच स्वयमाहूय वसिष्ठं मुनिपुङ्गवम् ॥ (५)

सरस्वत्यां समध्यास्ते नद्यामद्य सरस्वती ।
तदाह्वानं त्वया कार्यं गच्छ शीघ्रं तपोधन ॥ (६)

इदानीं सा मयि क्रुद्धा मया पूर्वं विमानिता ।
दुराराध्या मया तस्मादनुनीया नयस्व ताम् ॥ (७)

इति तद्वचनं श्रुत्वा तं प्रणम्य कृताञ्जलिः ।
वसिष्ठः प्रययौ शीघ्रं यत्रास्ते सा सरस्वती ॥ (८)

तत्र तां प्रणिपत्याथ प्रतिपूज्य च मातरम् ।
उवाच वचनं प्रीत्या मृदुपूर्वं सरस्वतीम् ॥ (९)

वसिष्ठः –
विश्वास-प्रस्तुतिः
त्वं गतिस्सर्वभूतानां त्वं जनित्री यशस्विनी ।
त्वया प्रकाशितं सर्वं सर्वे त्वां पर्युपासते ॥ (१०)

सर्वे धर्माः प्रवर्तन्ते त्वत्प्रसादाद्धि मानिनि ।
त्वत्प्रसादात् चतुर्वक्त्रः ससर्ज भुवनत्रयम् ॥ (११)

इदानीं प्रेषितस्तेन विधात्राऽहमिहागतः ।
महत्कौतूहलं तस्य तव सन्दर्शनं विधेः ॥ (१२)

तत्समीपं मया सार्धमितो गन्तुं त्वमर्हसि ।
त्वया हीनो विधिर्भाति प्रभाहीन इवांशुमान् ॥ (१३)

श्रिया हीनो यथा विष्णुः ज्योत्स्ना हीन इवोडुराट् ।
अध्वरो दक्षिणाहीनो यथा भुवनपावनः ॥ (१४)

विद्याहीनो द्विजो यद्वत् क्षमाहीनं तपो यथा ।
हिताय सर्वलोकानां मत्प्रियार्थं च भारति ॥ (१५)

समीपं ब्रह्मणो गन्तुमितोऽर्हसि नमोऽस्तु ते ।
शृणुष्वैतन्महाभागे त्वदागमनकारणम् ॥ (१६)

यन्निमित्तमिहैवाहं प्रेरितस्तेन वेधसा ।
पतिस्ते सुचिरं कालं तपस्तप्त्वा सुदुष्करम् ॥ (१७)

इदानीमश्वमेधेन यष्टुकामः श्रियःपतिम् ।
क्षेत्रे सत्यव्रते पुण्ये सिद्धगन्धर्वसेविते ॥ (१८)

त्वत्समागमनाकाङ्क्षी ह्यास्ते मुनिगणैस्सह ।
तत्र तत्प्रेरितेनैव पुरी पुण्या मनोहरा ॥ (१९)

योजनत्रयविस्तारा निर्मिता विश्वकर्मणा ।
समीपेऽनन्ततीर्थस्य यज्ञशाला च निर्मिता ॥ (२०)

संभृतानि समस्तानि यज्ञोपकरणानि च ।
तेषां संभावनायैव देवी गन्तुं त्वमर्हसि ॥ (२१)

धर्मपत्न्या त्वया हीनो यज्ञो नैव प्रवर्तते ।
नारदः-
तस्य तद्वचनं श्रुत्वा रोषविष्फारिताधरा ॥ (२२)
निवृत्तगमनाकाङ्क्षा वसिष्ठञ्चेदमब्रवीत् ।
सरस्वती –
क्रियतां तेन तत्रैव हयमेधोऽपि वेधसा ॥ (२३)
विश्वास-प्रस्तुतिः
नाहं तत्रागमिष्यामि पुत्र तेनावमानिता ।
नमोऽस्तु ब्रह्मणे तस्मै लोकनाथाय वेधसे ॥ (२४)

यत्प्रसादादिहस्थाऽहं धारयिष्यामि जीवितम् ।
मयि क्रौर्यं न मन्येथाः शृणु वृत्तं यथातथम् ॥ (२५)

श्रुते यस्मिन् त्वयैवेतद्युक्तमित्येव वक्ष्यसि ।
पुरा ब्रह्मसभामध्ये देवर्षिगणसेविते ॥ (२६)

उपविष्टो मया सार्धं ब्रह्मा त्रिजगदीश्वरः ।
अशृणोत् किन्नरीणाञ्च गीतं श्रुतिसुखावहम् ॥ (२७)

तस्मिन्काले समाजग्मुः मुनयस्तत्र केचन ।
मद्भक्ताश्च श्रियो भक्ताः विवदन्तः परस्परम् ॥ (२८)

प्रशशंसुश्च केचिन्मां च तत्र केचित् श्रियं तथा ।
सर्वे ते परिपप्रच्छुर्मुनयस्सदसि स्थितान् ॥ (२९)

मुनीन्देवांश्च मध्यस्थान् मन्यमानाश्च तत्त्वतः ।
वयमत्रागता युष्मान् पृष्टुकामा यथातथम् ॥ (३०)

का श्रेष्ठा श्रीसरस्वत्योः एतन्नः कथ्यतामिति ।
त आसाञ्चक्रिरे तूष्णीं मुनयश्च दिवौकसः ॥ (३१)

वीक्षमाणास्तु मामेव वरार्हासन-संस्थिताम् ।
तैरपृष्टस्तदा चासीत् स्वयमेव पितामहः ॥ (३२)

सन्दिहानांस्तु तान् सर्वान् आहूय मम सन्निधौ ।
ब्रह्मा –
का श्रिया स्पर्धते लोके विष्णुवक्षःस्थलस्थया ॥ (३३)
विश्वास-प्रस्तुतिः
ईशाना सर्वलोकानां विष्णुपत्नी यशस्विनी ।
ममापि सर्वलोकानामन्येषां साऽधिदैवतम् ॥ (३४)

अतो लक्ष्मीसमा नास्ति भाविता न च योषिताम् ।
तदंशभूतास्सर्वा हि स्त्रियो याश्च परावराः ॥ (३५)

विष्णोरंशांश्च लेशाश्च पुरुषाश्च परावराः ।
सरस्वती-
ततोऽहं तद्वचश्श्रुत्वा वीडितास्स्त्रीस्वभावतः ॥ (३६)
विश्वास-प्रस्तुतिः
विनिगृह्यैव तां व्रीडामिदमप्रार्थयं पतिम् ।
मम श्रैष्ठ्यं नदीभ्यो वा प्रसीद भुवनेश्वर ॥ (३७)

त्वत्प्रसादात्ततः श्रेष्ठां सर्वे संभावयन्तु माम् ।
इति संप्रार्थितो ब्रह्मा मामनाद्रुत्य मत्पतिः॥ (३८)

मुनीनाञ्च ऋषीणाञ्च मद्भक्तानाञ्च सन्निधौ ।
श्रेष्ठां सर्वनदीनाञ्च गङ्गां विष्णुपदोद्भवाम् ॥ (३९)

मन्यमानो मयि क्रुद्धो मामुवाच पुनर्वचः ।
विष्णुपादोदकसमं न भूतं न भविष्यति ॥ (४०)

तस्मान्न लभ्यते श्रैष्ठ्यमन्यत्संप्रार्थ्यतामिति ।
ततोऽहमिव सङ्क्रुद्धा समुत्थाय वरासनात् ॥ (४१)

अन्तर्धानगता देशमिमं प्राप्तास्मि मामकम् ।
ममैवांशसमुद्भता नदीयं लोकविश्रुता ॥ (४२)

सरस्वतीति विख्याता शुभा पुण्यजलाश्रया ।
अत्रैव निवसिष्यामि सततं मुनिपुङ्गव ॥ (४३)

पुण्यवृक्षसमाकीर्णे पुण्यशैलमनोहरे ।
अत्रैव क्रियतां यज्ञो ब्रह्मणा परमेष्ठिना ॥ (४४)

तस्य सर्वात्मना धातुर्यदि मय्यस्त्यनुग्रहः ।
अन्यथा नागमिष्यामि तत्समीपमहं पुनः ॥ (४५)

तत्समीपमितो गत्वा वद सर्वं मयेरितम् ।
आगच्छ सह तेनैव तस्यैतद्यदि रोचते ॥ (४६)
मूलम्
तत्समीपमितो गत्वा वद सर्वं मयेरितम् ।
आगच्छ सह तेनैव तस्यैतद्यदि रोचते ॥ (४६)
हिताय सर्वलोकानां प्रवर्तन्ते भवादृशाः ।
नारदः –
इत्युक्तोऽथ वसिष्ठस्तां प्रत्युवाच कृताञ्जलिः ॥ (४७)
धातुः प्रियहितं मत्वा स्वयमेव तपोधनः ।
वसिष्ठः –
त्वमेव सर्वं जानासि कस्त्वां देवि प्रशासति ॥ (४८)
विश्वास-प्रस्तुतिः
त्वत्प्रसादेन वै सर्वं जगच्चेतयते सदा ।
तथापि यत्त्वया प्रोक्तमिदानीं मम सन्निधौ ॥ (४९)

अत्रैव हयमेधोऽपि विधात्रा क्रियतामिति ।
नैवं भवत्या वक्तव्यं त्वं हि विज्ञानदीपिका ॥ (५०)

देशकालविशेषेण फलभेदोऽस्ति कर्मणाम् ।
यत्तु सत्यव्रतक्षेत्रं सर्वकर्मफलप्रदम् ॥ (५१)

विष्णोः प्रीतिकरं नित्यं तत्र सन्निहितो हरिः ।
योगिनो मुनयस्सिद्धास्सततं शंसितव्रताः ॥ (५२)

तत्रैवोपासते नित्यं भगवन्तं सनातनम् ।
निवसन्ति च ये जाता म्रियन्ते वाऽत्र ये नराः ॥ (५३)

न ते यमस्य सदनं यान्ति दुष्कृतिनोऽपि वा ।
नित्यनैमित्तिकाः काम्याः क्रियास्तत्र प्रवर्तिताः ॥ (५४)

सहस्रशो विवर्धन्ते देवि तत्क्षेत्रगौरवात् ।
ज्ञानिनोऽज्ञानिनो वापि क्रियावन्तोऽक्रिया अपि ॥ (५५)

तत्पदं वैष्णवं यान्ति सत्यक्षेत्रनिवासिनः ।
असमाहितवाक्वित्ताः श्रद्धाभक्तिविवर्जिताः ॥ (५६)

डाम्भिकाः पिशुना मूर्खाः विकर्मस्था जडाश्शठाः ।
असंस्कृता दुरात्मानः कर्महीनास्सुहृद्रुहः ॥ (५७)

कृतघ्नाः परदोषज्ञाः मातापित्रोरपूजकाः ।
स्वधर्माचाररहिताः परधर्मपरायणाः ॥ (५८)
मूलम्
कृतघ्नाः परदोषज्ञाः मातापित्रोरपूजकाः ।
स्वधर्माचाररहिताः परधर्मपरायणाः ॥ (५८)
विश्वास-प्रस्तुतिः
वेदनिन्दापरा ये च ये चान्ये प्रतिलोमकाः ।
एतेऽपि यदि कुर्वन्ति तत्र दानादिकाः क्रियाः ॥ (५९)

तेषामपि भवत्येव फलसिद्धिरभीप्सिता ।
अतस्तत्रैव कर्तव्यो विधात्रा सहसा क्रतुः ॥ (६०)

तत्र सन्निहितो विष्णुः सदा यज्ञप्रभुर्विभुः ।
अनन्ततीर्थे यस्स्नात्वा विष्णुमाराधयेच्छुचिः ॥ (६१)

यज्ञदानतपोहोमैः तस्य विष्णुः प्रसीदति ।
क्षेत्राणि भुवि पुण्यानि सन्त्यनेकानि भामिनि ॥ (६२)

तेषां सत्यव्रतक्षेत्रसादृश्यं नैव विद्यते ।
मया चतुर्मुखेनापि गदितुं नैव शक्यते ॥ (६३)

सत्यव्रतस्य माहात्म्यं सत्यमेतद् ब्रवीमि ते ।
यानि व्रतानि तत्रैव कृतानि विगुणान्यपि ॥ (६४)

तानि सत्यव्रतानि स्युः इति सत्यव्रतं स्मृतम् ।
एकयज्ञेन यज्ञानां सहस्रं यजतेऽब्जभूः ॥ (६५)

यदि ते तत्र शीघ्रं त्वं देवि गन्तुमितोऽर्हसि ।
नारदः –
तस्य तद्वचनं श्रुत्वा पुनराह सरस्वती ॥ (६६)
विश्वास-प्रस्तुतिः
निवृत्तगमनाकाङ्क्षा रोषविस्फुरिताधरा ।
नागमिष्याम्यहं तत्र तथा तेनावमानिता ॥ (६७)

मया विना महायज्ञो विधात्रा क्रियतां मुने ।
नारदः –
विश्वास-प्रस्तुतिः
इत्युक्तोऽथ सरस्वत्या वसिष्ठो मुनिपुङ्गवः ।
तां प्रणम्य यथान्यायं ययौ सत्यव्रतं प्रति ॥ (६८)

निशम्य तद्वाक्यमथ प्रियेरितं तपोधनोक्तं सरसीरुहासनः ।
चकार यज्ञं विधिवत्तया विना जनार्दनाराधनभोगलालसः ॥ (६९)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादेश्रीहस्तिगिरिमाहात्म्ये द्वितीयोऽध्यायः