०१

श्रीब्राह्म्येपुराणे भृगु–नारद–संवादे श्रीहस्तिगिरिमाहात्म्ये प्रथमोऽध्यायः

भृगुः –

विश्वास-प्रस्तुतिः

भगवन् मुनिशार्दूल वर्णाश्रमसमाश्रिताः ।
आख्याता बहवो धर्माः भवता मे सनातनाः ॥ (१)

मूलम्

उत्पत्तिः कथिता धातुः विष्णुनाभिसरोरुहात् ।
देवतिर्यङ्नराणां च संभवः कथितस्तथा ॥ (२)

धर्मार्थकाममोक्षाणां स्वरूपं च यथातथम् ।
देहिनां कर्मबन्धश्च तद्धेतुश्च सुविस्तृतः ॥ (३)

प्रधानपुंसो रजयोः स्वरूपं च समीरितम् ।
विद्याविद्ये च कथिते लोकभेदाश्च विस्तृताः ॥ (४)

पुण्यक्षेत्राणि सर्वाणि कथितानि समासतः ।
नगराणि च पुण्याणि विशेषानि महीतले ॥ (५)

सालग्रामं कुरुक्षेत्रं तथा बदरिकाश्रमम् ।
पद्मनाभं गयाक्षेत्रं उत्पलावतकं तथा ॥ (६)

क्षेत्राण्येतानि पुण्यानि कथितानि त्वयाऽनघ ।
अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका ॥ (७)

पुरी द्वारवती चैव सप्तैते मुक्तिदायकाः ।
इत्येवं भुवि पुण्यानि क्षेत्राणि नगराणि च ॥ (८)

कीर्तितानि सुपुण्यानि पर्वताश्च वनानि च ।
श्रुत्वैतदखिलं त्वत्तः कृतकृत्योऽस्मि सांप्रतम् ॥ (९)

प्रसादमगमच्चित्तं छिन्ना मे सर्वसंशयाः ।
इदानीं श्रोतुमिच्छामि त्वत्तोऽहं मुनिपुङ्गव ॥ (१०)

त्वदन्यः सर्वधर्माणां वक्ता मे भुवि दुर्लभः ।
त्वमेव सर्वधर्माणां गुरुरव्यय इष्यते ॥ (११)

त्वामुपास्यैव मुनयः शृण्वन्ति परमं हितम् ।
यत्तु सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ॥ (१२)

पुण्यक्षेत्रेषु सर्वेषु तस्यैव श्रैष्ठ्यमुच्यते ।
आश्चर्या बहवस्तत्र संक्षेपात् कथितास्त्वया ॥ (१३)

आदौ कृतयुगे तत्र चक्रे यज्ञं पितामहः ।
तत्र काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ॥ (१४)

विधातुरश्वमेधार्थं निर्मिता विश्वकर्मणा ।
अस्ति हस्तिगिरिर्नाम तत्र शैलवरो महान् ॥ (१५)

विधात्राऽप्यर्चितो विष्णुः तस्य शैलस्य मूर्धनि ।
पुण्यकोटीति विख्यातं विमानं पुण्यवर्धनम् ॥ (१६)

वेदिमध्यात् समुत्तस्थौ तस्य मूर्ध्नि स्वयं पुरा ।
तन्मध्ये भगवान् विष्णुः अभिव्यक्तो हरिस्स्वयम् ॥ (१७)

आराधितोऽभवद् धात्रा हयमेधेन मृद्गिरौ ।
वेगवत्युत्तरे तीरे पुण्यकोट्यां हरिः स्वयम् ॥ (१८)

वरदस्सर्वभूतानाम् अद्यापि परिदृश्यते ।
इति संक्षेपतः प्रोक्तं यत्पुरा भवता मम ॥ (१९)

विस्तरेणैव तत्सर्वं श्रोतुमिच्छाम्यहं मुने ।
हस्तिशैलस्य माहात्म्यं काञ्च्याख्यनगरस्य च ॥ (२०)

आविर्भावं तथा विष्णोः कथयस्व यथाक्रमम् ।
नारदः –

गुह्यमेतन्महाभाग यत्पृष्टोऽहमिह त्वया ॥ (२१)

विश्वास-प्रस्तुतिः

अस्य श्रवणमात्रेण मृत्युमत्येति मानवः ।
न चास्य सदृशं किञ्चित् विद्यते गुह्यमुत्तमम् ॥ (२२)

अस्य श्रोता च वक्ता च न पुनर्भवमृच्छति ।
अतोऽहं कथयिष्यामि शृणु गुह्यमिदं महत् ॥ (२३)

आधारं सर्वगुह्यानां तदेव जगति ध्रुवम् ।
पुराऽहं सुचिरं कालं तपस्तप्त्वा सुदुष्करम् ॥ (२४)

द्रष्टुकामः परं विष्णोः स्वरूपं ध्यानचक्षुषा ।
न मे चित्तं समाधातुं शक्तिरासीत् कदाचन ॥ (२५)

श्वेतद्वीपं समासाद्य तत्राद्राक्षं महामुनीन् ।
ध्यायतः परमं ब्रह्म वासुदेवाख्यमव्ययम् ॥ (२६)

तान् प्रणम्य महाभागान् यतवाक्कायमानसान् ।
अहमप्यास्थितो योगमुपविष्टोऽस्मि संयतः ॥ (२७)

न मे चित्तं समाधातुं शक्तिरासीत्कदाचन ।
बहिर्निर्गत्य मच्चित्तं विषयानन्वगाद्बलात् ॥ (२८)

न कर्मणा न दानेन न तपोभिश्च दुष्करैः ।
मनसो निग्रहे दक्षः कश्चिदस्ति कदाचन ॥ (२९)

यत्नैश्च विविधस्तस्य निग्रहेऽहमनीश्वरः ।
तस्मान्निर्गत्य सहसा मेरुपूर्वमुपागमम् ॥ (३०)

तस्मिन्नेव तदा ब्रह्मा देवर्षिगणसेवितः ।
संस्तूयमानो योगीन्द्रैः प्रसन्नस्समुपाविशत् ॥ (३१)

तं प्रणम्य सुसंपूज्य याज्ञवल्क्यस्तपोधनः ।
पर्यपृच्छद्यथान्यायं योगमष्टाङ्गलक्षणम् ॥ (३२)

तेन पृष्टस्तथा ब्रह्मा याज्ञवल्क्येन धीमता ।
उवाच परमं योगमङ्गानि च पृथक् पृथक् ॥ (३३)

तमेवाहं समुत्थाय प्रणिपत्य पितामहम् ।
अन्वपृच्छमिदं गुह्यं परमं योगसिद्धये ॥ (३४)

भगवन् सर्वलोकेश सर्वकारणकारण ।
त्वमेव सर्वलोकानामाधारः परमा गतिः ॥ (३५)

त्वामुपास्यैव मुनयो लभन्ते परमं हितम् ।
त्वद्भक्तानां हि सर्वेषां दुर्लभं नैव विद्यते ॥ (३६)

श्रोतुमिच्छाम्यहमिदं योगिनामीप्सितं वरम् ।
वक्तव्यमेतद्भक्ताय मह्यं शुश्रूषवे गुरो ॥ (३७)

मम दुर्निग्रहं चित्तं न समाधौ प्रवर्तते ।
तदेवाचक्ष्व भगवन् येन तद्विनिगृह्यते ॥ (३८)

निगृहीते तु मच्चित्ते त्वत्प्रसादात्पितामह ।
सर्वभूतान्तरात्मानं तं द्रक्ष्यामि जनार्दनम् ॥ (३९)

इति पृष्टो मया ब्रह्मा प्रसन्नेनान्तरात्मना ।
यदुवाच तदा मह्यं मनोनिग्रहसाधनम् ॥ (४०)

तदेव तव वक्ष्यामि शृणुष्व सुसमाहितः ।
न हि प्रियतमः कश्चित् विद्यते त्वत्समो मम ॥ (४१)

सृष्ट्वैव तदखिलं ब्रह्मा जगत्स्थावरजङ्गमम् ।
आदौ कृतयुगे विष्णुं द्रष्टुकामो बभूव ह ॥ (४२)

तत्र त्रिपथगामध्ये स्थित्वा चक्रे महत्तपः ।
एकाकी निर्ममश्शान्तो निर्द्वन्द्वो निष्परिग्रहः ॥ (४३)

यमैश्च नियमैश्चैव प्राणायामैः दृढव्रतः ।
संयतस्सततं मौनी नासाग्रन्यस्तलोचनः ॥ (४४)

दुर्निग्रहं मनस्तस्य न च विष्णौ प्रतिष्ठितम् ।
बलान्निर्गत्य सहसा विषयानन्ववर्तत ॥ (४५)

ततश्चिन्तापरवशो बभूव कमलासनः ।
असमर्थस्समाधातुं मनश्चञ्चलमस्थिरम् ॥ (४६)

ततो विषण्ण-वदने विमनस्के विधातरि ।
उच्चचाल महानादा तत्र वागशरीरिणी ॥ (४७)

मूलम्

ततो विषण्ण-वदने विमनस्के विधातरि ।
उच्चचाल महानादा तत्र वागशरीरिणी ॥ (४७)

वाणी –

विश्वास-प्रस्तुतिः

भो भो ब्रह्मन् विषादस्ते न कर्तव्यस्सुदुष्करे ।
उपायरहितैश्चित्तं निगृहीतुं न शक्यते ॥ (४८)

शृणुष्व निग्रहोपायं यथावत् कथयामि ते ।
येन दुर्निग्रहं चित्तम् उपयास्यति निश्चलम् ॥ (४९)

कुरुष्व मनसश्शुद्धिमश्वमेधैः पितामह ।
शुद्धे मनसि सद्यस्ते समाधिर्भविता स्वयम् ॥ (५०)

सहस्रमश्वमेधानां यष्टव्यं चित्तशुद्धये ।
अनायासात्सहस्रं ते कृतं स्याद्येन तच्छृणु ॥ (५१)

जम्बूद्वीपे महापुण्ये वर्षे भारतसंज्ञके ।
गङ्गाया दक्षिणे भागे योजनानां शतद्वये ॥ (५२)

पञ्चयोजनमात्रेण पूर्वाम्बोधेस्तु पश्चिमे ।
पुण्यवृक्षसमाकीर्णं सप्तयोजनविस्तृतम् ॥ (५३)

यत्तु सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ।
विष्णोः प्रीतिकरं नित्यं सिद्धगन्धर्वसेवितम् ॥ (५४)

तत्र गत्वाश्वमेधेन यजस्व पुरुषोत्तमम् ।
ततः प्रसन्नचित्तस्त्वं भविष्यसि न संशयः ॥ (५५)

एकस्तत्र कृतो धर्मो वर्धते तु सहस्रधा ।
तस्य क्षेत्रस्य माहात्म्यान्नात्र कार्या विचारणा ॥ (५६)

तत्र सन्निहितो विष्णुः सर्वदा सर्वगः प्रभुः ।
ददाति च फलं सद्यः कर्मणामीश्वरस्स्वयम् ॥ (५७)

हस्तिशैल इति ख्यातस्तत्र शैलवरो महान् ।
दृश्यते तस्य शिखरे पूजनीयस्त्वया हरिः ॥ (५८)

दिङ्नागैरर्चितस्तस्मिन् पुरा नारायणः प्रभुः ।
ततो हस्तिगिरिर्नाम ख्यातिरासीन्महागिरेः ॥ (५९)

कल्पयित्वा तमेवाद्रिं सम्यगुत्तरवेदिकाम् ।
तन्मूर्ध्नि वरदं विष्णुं यजस्व गरुडध्वजम् ॥ (६०)

उदक्पश्चिमभागस्थं वल्मीकं महतो गिरेः ।
पूजनीयश्च तत्रास्ते शेषः फणभृतां वरः ॥ (६१)

सर्वपापहरं यत्तु तत्र नागाह्वयं सरः ।
तस्य दक्षिणतीरे तु यज्ञशाला प्रकल्प्यताम् ॥ (६२)

इत्थं तत्राश्वमेधेन तोषयस्व जनार्दनम् ।
एकेनैवाश्वमेधेन तत्सहस्रकृतं भवेत् ॥ (६३)

भवन्ति तत्र सहसा कर्मणां फलसिद्धयः ।
अतस्तत्रैव कर्तव्यो हयमेधः पितामह ॥ (६४)

हरिर्नारायणो देवो हयमेधेन तोषितः ।
प्रत्यक्षं दृश्यते तत्र सर्वलोकेश्वरस्स्वयम् ॥ (६५)

इति तद्वचनं श्रुत्वा प्रीतः पूर्णमनोरथः ।
पितामहः समुत्थाय ययौ सत्यव्रतं प्रति ॥ (६६)

तत्रापि सुचिरं कालं तपश्चक्रे सुदुष्करम् ।
अनन्तसरसस्तीरे सर्वपापप्रणाशने ॥ (६७)

स तप्त्वा सुचिरं कालं तस्मिन्नेव पितामहः ।
ततश्चक्रेऽश्वमेधाय मतिं मतिमतां वरः ॥ (६८)

देवानृषीन् मनुष्यांश्च सिद्धचारणपन्नगान् ।
यक्षविद्याधरगणान् गन्धर्वान्श्च तथा सुरान् ॥ (६९)

समाहूयात्र कर्तव्यमिति मत्त्वा पितामहः ।
सहसा विश्वकर्माणं समाहूयेदमब्रवीत् ॥ (७०)

हरिरत्राश्वमेधेन यष्टव्यो विश्वकृन्मया ।
तदर्थ-क्रियतां सद्यो यत्कर्तव्यं त्वयाधुना ॥ (७१)

देवा मनुष्याः पितरो यक्षगन्धर्वदानवाः ।
त्रैलोक्यान्तर्गतास्सर्वे शतशोऽथ सहस्रशः ॥ (७२)

सर्वेऽप्यत्रागमिष्यन्ति मम यज्ञदिदृक्षवः ।
त्वं तेषामपि सर्वेषां निर्मिमीथाः पुरं महत् ॥ (७३)

पृथक् पृथगसंबाधं हर्म्यप्रासादसंयुतम् ।
धनधान्यसमृद्धिञ्च सर्वोपकरणान्वितम् ॥ (७४)

सन्तक्ष्य परितश्शैलमिदं सर्वमनोहरम् ।
तस्य मूर्ध्नि महाभाग कुरुष्वोत्तरवेदिकाम् ॥ (७५)

वल्मीकमेतत्संस्थाप्य उदक्पश्चिमगोचरम् ।
विभुरत्रैव वसति शेषस्सर्वनमस्कृतः ॥ (७६)

अत्रैव पूज्यते विष्णुः अनन्तेन महात्मना ।
माहात्म्यादस्य सरसि सन्निधत्ते हरिस्स्वयम् ॥ (७७)

अतोऽस्य सदृशं नास्ति क्षेत्रं पुण्यविवर्धनम् ।
सुसमीक्रियतामेतत् क्षेत्रं यज्ञार्थमात्मनः ॥ (७८)

वापीकूपतटाकानि रम्याणि विपुलानि च ।
उद्यानानि विचित्राणि निर्ममस्व महामते ॥ (७९)

इति तद्वचनं श्रुत्वा प्रणिपत्य कृताञ्जलिः ।
तदाज्ञा प्रतिजग्राह विश्वकर्मा महामनाः ॥ (८०)

निर्ममे मनसैवाथ पुरं देवपुरं यथा ।
वीथिकाशतसाहस्रं विशालायतवेदिकम् ॥ (८१)

मूलम्

निर्ममे मनसैवाथ पुरं देवपुरं यथा ।
वीथिकाशतसाहस्रं विशालायतवेदिकम् ॥ (८१)

विश्वास-प्रस्तुतिः

विचित्रवलभैर्युक्तं विचित्रोच्छ्रयगोपुरम् ।
मेरुमन्दरसङ्काशं हर्म्यप्रासादसंयुतम् ॥ (८२)

नानारत्नमयैश्चित्रैः तोरणैरुपशोभितम् ।
द्वारैश्चित्रैश्च कक्ष्याभिः अलङ्कारैर्मनोहरम् ॥ (८३)

रथैर्मनोहरैर्हेमैः परार्थैरासनैर्युतम् ।
मनोहरैर्महाशालैस्संयुतञ्च महानिधैः ॥ (८४)

विचित्रभक्ष्यभोज्याद्यैः सरसैश्चाभिपूजितम् ।
विस्तरेणैव सर्वेषां निर्मिता गृहदीपिकाः ॥ (८५)

ब्राह्मणानां नृपाणाञ्च देवानाञ्च पृथक्पृथक् ।
ऋषीणाञ्चैव सर्वेषां वैश्यानाञ्च विशेषतः ॥ (८६)

यथार्हं कल्पयामास स्थानानि विविधान्यपि ।
वापीकूपतटाकानि सुबहूनि च निर्ममे ॥ (८७)

यज्ञशालां विशालां च सर्वलक्षणसंयुताम् ।
निर्ममेऽथ समीकृत्य महीं शैलसमीपतः ॥ (८८)

नागाद्रिं परिसन्तक्ष्य निम्नोन्नतविवर्जितम् ॥
तच्छृङ्गञ्च समीकृत्य चकारोत्तरवेदिकाम् ॥ (८९)

इत्थं कृत्वाथ तत्सर्वं मनसा सुमनोहरम् ।
ब्रह्मणे दर्शयामास विश्वकर्मा महात्मने ॥ (९०)

ततो मुनिगणान् सर्वानाहूयानुमतश्च तैः ।
विसृज्याश्वं पुनस्तस्मिन् वत्सरान्ते समागते ॥ (९१)

देव-दैतेय-गन्धर्व-मनुष्यादींश्च सर्वशः ।
समाहूय ततश्चक्रे हयमेधं पितामहः ॥ (९२)

मरीचिरङ्गिराश्चात्रिः वसिष्ठः पुलहो वसुः ।
परावसुः क्रतुश्चैव हारीतः कण्वकर्दमौ ॥ (९३)

शातातपस्सुयज्ञश्च धनुशाक्षश्च तित्तिरिः ।
रैक्वश्च षोडशैते च ऋत्विजो मुनयो वृताः ॥ (९४)

बृहस्पतिरभूद्धोता वसिष्ठोऽध्वर्युरेव च ।
सत्ययज्ञस्तथोद्गाता मरीचिश्च प्रजापतिः ॥ (९५)

बभूवुः ऋत्विजश्शेषाः कण्वाद्या मुनयः क्रमात् ।
अध्यक्षं वरयामास याज्ञवल्क्यं पितामहः ॥ (९६)

देवाश्च पितरस्सर्वे ब्राह्मणा वेदपारगाः ।
योगिनस्सनकाद्याश्च भूपाला धर्मवत्सलाः ॥ (९७)

यक्ष-दैतेय-गन्धर्व-सिद्धचारण-किन्नराः ।
यज्ञसन्दर्शनायैते तस्मिन्नेव समागताः ॥ (९८)

ततस्समस्तयज्ञानां भोक्तारं पुरुषोत्तमम् ।
यज्ञस्य दैवतं ध्यात्वा धाता यष्टुं प्रचक्रमे ॥ (९९)

क इति ब्रह्मणो नाम तेन तत्राञ्चितो हरिः ।
तस्मात् काञ्चीति विख्याता पुरी पुण्यविवर्धनी ॥ (१००)

सरसिजवसते रथाश्वमेधे-क्रतुवरदर्शनकौतुकानुषक्तैः ।
असुर-सुर-नरादिभिस्समेतैः क्षुभितमहाब्धिसमं पुरं तदासीत् ॥ (१०१)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादेश्रीहस्तिगिरि–माहात्म्ये प्रथमोऽध्यायः।