[[वराहमिहिरम् Source: EB]]
[
॥ वराहमिहिरम् ॥
ज्ञानप्रभाभिः सततं ज्वलन्तम् । प्रजाक्रियालोकन विश्वनेत्रम् ।
प्रणोदिनं सुप्तजगत्समस्तम् । ज्योतिष्पतिं तं मिहिरं नमामि ॥
(नान्द्यन्ते)
चम्पा – (गेयमिदम्व्यक्त शब्दैः गुञ्जनं कुर्वन्ती, आदर्शे आत्मानं विलोक्य अलङ्कुर्वन्ती आस्ते)
गीतम् (भैरवीरागे)
रमते कैषा वर्षा तरुणी
वर्षा सिञ्चित गात्रीश्यामा
मलयाशानिल ज्वालितकामा
तटिदिव पीता चञ्चल रामा ॥ ध्रु. ॥
(ततः प्रविशति मल्लिका)
(मल्लिकां विलोक्य) सखि नमस्ते एहि उपविश । (इति आसनं दर्शयति)
मल्लिका – (आसने उपविशति)
चम्पा – सखि मल्लिके अवसित मण्डनाऽस्मि । अनुपदमेवागच्छामि । किञ्चित्कालमुपविश । आवां मिलित्वा गच्छावः ।
मल्लिका – सखि चम्पे, अतिक्रान्तवेला भवति । एतावत्पर्यन्तं त्वं किं करोषि ?
चम्पा – सखि सर्वं समाप्तम् । हां कतिघण्टावादनसमये नाटकप्रदर्शनं भवति ।
मल्लिका – सप्त घण्टावादनसमये भविष्यति ।
चम्पा – किं प्रवेशशुल्कपत्राणि लब्धानि ?
मल्लिका – हाम् अग्रिमत्वेन लब्धानि ।
चम्पा – हंसे मल्लिके, अहं विस्मृतवती, किं नाम नाटकस्य ?
मल्लिका – प्रयोक्ष्यमाणस्य नाटकस्य नाम वराहमिहिरम् ।
चम्पा – केन लिखितमिदम् ?
मल्लिका – प्रख्यात महाकविना पण्डित परीक्षित् शर्मणा विलिखितम् ।
चम्पा – गीर्वाणान्ध्रभाषाप्रवीणेन परीक्षित् शर्मणा विलिखितम् ।
मल्लिका – हां, किं त्वं जानासि तं महाकविम् ।
चम्पा – नाहं जानामि । किन्तु तमुद्दिश्य शृतं मया ।
मल्लिका – किं शृतं त्वया कथय ।
चम्पा – अयं महाकविः । अयं संस्कृतभाषायां ललितगीतलहरी इति गेयकाव्यं, विंशति सर्गात्मकं यशोधरा महाकाव्यम् अपि च अक्षयगीतरामायणं, सप्तविंशति नाटकचयेन भूषितं परीक्षिन्नाटकचक्रं, अपि च प्रतापराणायनमहाकाव्यं च विलिखितवान् । अयं गीर्वाणान्ध्रभाषा प्रवीणः ।
मल्लिका – अयं सम्यक् गास्यति ।
चम्पा – विंशतितमे शताब्दे संस्कृतस्यकृते अयं महत्कार्यं करोति ।
मल्लिका – वेला अतिक्राम्यति सत्वरम् अवसितमण्डनाभव ।
चम्पा – समाप्तम् । इदं वराहमिहिरन्नाम नाटकं चारित्रात्मकं किम् ?
मल्लिका – हां चारित्रात्मकम् । अस्मिन् नाटकचक्रे चतुर्दश पौराणिकानि, षट् चरित्रात्मकानि, सप्त सामाजिक नाटकानि सर्वाणि सप्तविंशति नक्षत्राणीव द्योतन्ते ।
चम्पा – अहो आश्चर्यम् । अयं कविराक्षसः इव प्रतिभाति मम ।
मल्लिका – मया पठितानि अस्य कवेः सर्वाणि काव्यानि ।
चम्पा – सखि, वराहमिहिर नाटकमुद्दिश्य किञ्चित् सङ्ग्रहेण श्रावय ।
मल्लिका – सखि, कथां यदि प्रथमतः एव कथयेयं तर्हि ते सम्यक् आस्वादयोग्यं न भवतीति त्वया एकदा उक्तम् । तस्मात् त्वं प्रत्यक्षं नाटकं विलोक्य रसास्वादस्य सुखमनुभव ।
चम्पा – हां मम तादृशी स्थितिः वर्तते ।
मल्लिका – सखि त्वम्तीव चिरयसि । आवयोः सम्बाषणमेव नाटकायते । सत्वरमेहि गच्छावः ।
चम्पा – सखि, समाप्तालङ्कारिणी अभवम् । त्वमपि किञ्चित् वदनमण्डलम् आदर्शे विलोक्य विदलित लोलालकान् सम्यक् विरचय ।
मल्लिका – भवतु नाम । नाहमिच्छुका लोलकान् सम्यक् विरचयितुम् । आधुनिकेषु दिवसेषु लोलालकत्वमेव मधुमण्डनं भवति ।
चम्पा – भवती अतीव रसिका । एहि गच्छावः । (इति हस्त गोणीं गृहीत्वा गच्छतः)
(नेपथ्ये वैदिक मन्त्रोच्चारणं भवति)
“शतमानं भवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये प्रतितिष्टति”
(ततः प्रविशति वेत्रहस्तः)
वेत्रहस्तः – सावधानम् । सावधानम् । अम्बरमणि तरणि किरण पुञ्ज समानाः, सकल विद्याप्रवीणाः, नवरत्न मण्डित महायशाः, संस्कृत कविमण्डल विनुत भूमण्डल महायशाः, विक्रमादित्य महाराजाः प्रविशन्ति । सावधानम् । सावधानम् ।
(ततः प्रविशति राजा विक्रमादित्यः)
(विक्रमादित्यः सिंहासने उपविशति, एकस्मिन् पार्श्वे अमात्यः, अन्यस्मिन् पार्श्वे पुरोहितः ज्योतिषाश्च स्वीयासनेषु उपविशन्ति)
अमात्यः – (उत्थाय) महाराज सर्वग्रहाणाम् अनुकूलार्थं शान्तिपाठः कर्तव्यः इति मया प्रकल्पितः ।
पुरोहितः – महाराज, अहं स्वयं समीपे स्थित्वा सकल ब्राह्मण्यं दश शान्ति पाठार्थम् आदिशम् । सर्वमपि यथा शास्त्रं निर्वर्तितम् ।
विक्रमादित्यः – अरुण पाठं पठितुं समादिष्टं किम् ?
पुरोहितः – महाराज, अरुण पाठं विना अन्य पाठाः निरर्थकाः भवन्ति । तस्मात् अरुण पाठार्थं निष्ठावतः वेदपाठकान् न्ययुजम् ।
विक्रमादित्यः – अयि विद्वद्वरेण्याः मन्त्रिवर्याः, भवतां आशीर्वादबलेन, वेदमन्त्रोच्चारणेन, सकल नवग्रह पूजया च मे पन्थानः निष्कण्टकाः भवन्तु इति अशास्महे ।
पुरोहितः – महाराज सर्वमपि सुखान्ते यथाभीष्टम् अवश्यं साधु भविता इति अहमपि भावयित्वा अनवरत वेदघोषार्थं घन जटा पदक्रमान्त वेदाध्यायिनः आदिशम् ।
अमात्यः – महाराज मा विचारयन्तु सर्वमपि अस्माकम्नुकूलं भविष्यति । अवश्यं पुत्रोदयवर्तां श्रोष्यन्ति ।
विक्रमादित्यः – अयि विप्रोत्तमाः अस्मदीय वंशीयः रघोः पुत्रः श्रीरामचन्द्रस्य पिता राजा दशरथः पुत्रंसन्तानार्थं पुत्रकामेष्ठिं कारयामास । अन्ततः वीतिहोत्र करुणया पुत्रकामेष्टिमाहात्म्येन पुत्ररत्नैः समलङ्कृतः आसीत् ।
अमात्यः – तद्वत् भवन्तः अपि सर्वं यथा शास्त्रं कर्तव्यम् अनुष्टितवन्तः आसन् । मा विचारयन्तु ।
पुरोहितः – वेदविहितङ्कर्म भवद्भिः अनुष्ठितम् । सर्वं साधु भविष्यति । अवश्यं पुत्रोदयः भविष्यति । अत्र अस्मिन् विषये संशयलेशोपि नास्ति ।
(सवेगं चन्द्रिका प्रविशति)
चन्द्रिका – (नमस्कृत्य) महाराज राज्ञी छाया पुत्ररत्नमसूत । मातापुत्रौ सक्षेमं स्तः । (इति विनम्रा तिष्ठति)
सर्वे – (एककण्ठेन) परमानन्दः भवति अस्माकम् ।
अमात्यः – महाराज अधुना अस्य राजस्य वारसः अस्ति ।
पुरोहितः – भवन्तः पुन्नामनरकात् तारिताः ।
ज्योतिषाचार्याः – अस्मिन् राज्ये समस्तमङ्गलानि भवन्ति ।
विक्रमादित्यः – (आनन्देन) चन्द्रिका, साधु समुदीरितं भवत्या । अनया वार्तया सकलराज्यमपि पुलकितं, पल्लवितं च । अस्मदीय आनन्दस्य नावधिः विद्यते । इदं हारं गृहाण । (इति स्वकण्ठात् हारं विनीय तस्यै क्षिपति)
चन्द्रिका – (हारं गृहीत्वा) धन्यास्मि महाराज । (इति सानन्दं गच्छति)
विक्रमादित्यः – अमात्यवर्यं, सर्वेभ्यः कर्मचारिभ्यः सकल उपायनानि, वस्त्रखण्डानि दुकूलानि, खाद्यपदार्थान्श्च यथेच्छं वितरतु । भवान् गच्छतु ।
अमात्यः – यथाऽज्ञापयति देवः । (इति गच्छति)
विक्रमादित्यः – अयि भोः पुरोहिताः भवन्तः, वेदपण्डितान्, संस्कृतज्ञान् पर्याप्त दक्षिणाभिः प्रतर्पयन्तु ।
पुरोहितः – भवदीय आज्ञाम् अवश्यं परिपालयिष्ये । (इति गच्छति)
विक्रमादित्यः – (आनन्देन) कः कोऽत्र भोः ।
वेत्रहस्तः – अयमस्मि भोः ।
विक्रमादित्यः – मार्गमादिश ।
वेत्रहस्तः – इतो इतः महाराज । (इति द्वावपि गच्छतः)
(यवनिका पतति)
*****************************************************************
.
द्वितीयं दृश्यम्
(मञ्जरी गृहम् अलङ्कुर्वन्ती गानगुञ्जनं कुर्वन्ती, बालं डोलायन्ती आस्ते)
गीतम् (चक्रवाकरागे)
पश्य पश्य गगनयान बालचन्द्र भोः
मा पिधेहि शीतकिरण नीरदान्तरे ॥ धृ. ॥
मञ्जुवक्त्र स्यन्दमान फेनपुञ्ज शोभिनम्
खेलनेन निर्जितं राजनीति राजकम्
लोकनेन सर्व हृदय भावहरण पाटवम्
पश्य पश्य चन्द्र भोः बालभाव चञ्चलम् ॥ 1 ॥
आनने नितान्त चलन काकपक्षकम्
पौरुषे धिक्कृतं सकल राजवर्गकम्
मन्द हास शोभमान भारतीय गौरवम्
बालभाव निर्जितं बालचन्द्र कीर्तनम् ॥ 2 ॥
डोलिका मृदुलपवन सौख्यशायिनम्
स्तन्यपान सक्तचित्त मधुर क्रन्दनम्
मातृहृदय भावशान्ति मलयचन्दनम्
गानमधुर भावमत्त सुप्तनन्दनम् ॥ 3 ॥
भूमिभस्म लसितदेह शैवबालकम्
हसित पुष्पराग लिप्त मृदुल रम्यदेहिनम्
मातृहृदय गहनभावनोर्मि राजहंसकम्
नयनकुमुद सत्वदान शीतकिरण भासुरम् ॥ 4 ॥
शिवप्रताप कृष्णराय पादचारिणम्
ईक्षणे नितान्तदीप्त भारतीय दृक्पथम्
आग्रहे कुमारभाव दर्शिनं कुमारकम्
पश्य भो भावि भरतराज्य शासकम् ॥ 5 ॥
पल्लवी – (गानं शृण्वन्ती शिरः कम्पनं कुर्वन्ती प्रविशति, गीतावसाने) साधु गीतं मञ्जरि । (इति करतल ध्वनिं करोति)
मञ्जरी – हञ्जे पल्लवि ! कथं भवति हठात् आगतासि ?
पल्लवी – त्वमेव भावय कथम् आगतास्मीति ।
मञ्जरी – (पल्लवी नखशिखपर्यन्तं विलोक्य) पल्लवकुडमलपुष्पफलसहित पूजाभाजनेन कुत्रापि गच्छन्ती त्वं कथम्त्र अधुना समागतासि ?
पल्लवी – भवती सर्वदा अन्येषां कर्मणि दत्तदृष्टिः भवसि । किन्तु स्वकीय विषयमुद्दिश्य न किमपि भणासि ।
मञ्जरी – पल्लवि, मया कतिवारं उक्तं, अन्यान् उत अन्याः न किमपि पृच्छ, विषय स्वीकरणे प्रयत्नशीली मा भवेति ।
पल्लवी – हञ्जे, अधुना किं जातम् । एवं विचारणे कोऽयम्पराधः मया कृतः ।
मञ्जरी – अपराधः कृतः इति नाहं भणामि । किन्तु अन्ये किं कुर्वन्तीति ज्ञातुं यः प्रयत्नः क्रियते सः अयोग्यः, इति मे अभिप्रायः ।
पल्लवी – भवतु । किमर्थं त्वं सम्यक् स्वात्मानम् अलङ्कृत्य फलपुष्प सम्भारवाहिनी असि ।
मञ्जरी – (वहस्य) जगति स्त्रीणाम्न्य स्त्रीणां सौन्दर्यादिकम् अलङ्करणादिकं विलोक्य सहनं न भवति ।
पल्लवी – सखि, कथं सम्भाषणं कर्तव्यं त्ममेव मां शाधि ।
मञ्जरी – अधुना समयाभावात् नाहं वक्तुं समर्थास्मि यत्किमपि ।
पल्लवी – किं भवती अतीव कार्यलग्नासि ।
मञ्जरी – हां कार्यमग्नास्मि शृणु । विक्रमादित्य महाराजस्य पत्नी छाया पुत्रम सूतोति वार्ता सर्वलोक श्रवणेन्द्रियं गता । सर्वेऽपि सानन्दं सोत्साहं नगरीम् अलञ्चक्रुः । नाहं जाने भवती कस्मिन् प्रपञ्चे वससीति ।
पल्लवी – किं कुर्यां गृहं विसृज्य अहं कुत्रापि नागच्छामि । कयापि न भाषयामि । तस्मात् किं वृत्तं कथं वृत्तं इति विषय जिज्ञासा अधिका भवति ।
मञ्जरी – जानामि ते चित्तवृत्तिम् । त्वं मयि कृत्था माभव ।
पल्लवी – अधुना त्वं भण, किं भणितव्यम् ।
मञ्जरी – तस्मात् बालकस्य नामकरणाख्यं कर्म अद्य भविता । तस्मात् तत् वैभवं द्रष्टुं प्रस्थितास्मि ।
पल्लवी – अतीव परमानन्दो जातः पौराणाम् । सर्वोऽपि पौरः विक्रमादित्य राजामुद्दिस्यैव चिन्तयन् आस्ते तदनन्तरं कोवा अस्य राजस्य राजा भविष्यतीति ।
मञ्जरी – बहु कालानन्तरं सुवार्ता शृता सर्वैरपि ।
पल्लवी – अहमपि त्वया साकं नामकरणाख्यं कर्म द्रष्टुं समागच्छेयम् ।
मञ्जरी – त्वं एतावत्पर्यन्तं स्नानमपि न कृतासि । त्वया साकं गमनं मे विलम्बस्य हेतुः भविष्यति ।
पल्लवी – त्वं यथार्थं कथिताऽसि । त्वं प्रथमतः गच्छ, अहं सावकाशम् आगच्छेयम् ।
मञ्जरी – त्वमपि फुलपुष्प उपायनैस्सहिता एहि ।
पल्लवी – हाम् अवश्यम् अहं स्नात्वा सज्जितवेषा त्वां मध्ये मार्गं मिलिष्ये, उत राजगृहे मिलिष्ये ।
मञ्जरी – अहं गच्छामि ।
पल्लवी – हां गच्छ । अहं मम कुटुम्बेन सार्थम् आगच्छेयम् ।
मञ्जरी – नमस्ते । (इति निष्क्रान्ता)
(ततः प्रविशति चण्डवर्मा)
चण्डवर्मा – (सन्तोषम्) हञ्जे, किं शृतं त्वया यत् विक्रमादित्यराजस्य पत्नी छाया पुत्ररत्नमसूतेति ।
पल्लवी – हां शृतं मया अधुनैव ।
चण्डवर्मा – कथं शृतं, केन कथितम् ।
पल्लवी – अधुना मे मैत्रिणी मञ्जरी समागता ।
चण्डवर्मा – सा कुत्र गतवती अधुना ।
पल्लवी – सा विक्रमादित्यस्य पुत्रस्य नामकरणाख्यं कर्म द्रष्टुं गतवती ।
चण्डवर्मा – किं त्वया नगतं तया सार्थम् ।
पल्लवी – न गतम् ।
चण्डवर्मा – साधु कृतम् भवत्या ।
पल्लवी – अहं गृहकर्मणि व्यापृतचित्ताऽस्मि । सर्वं विधाय गमने विलम्बो भविष्यति इति अहं ताम्कथयम् त्वमेकाकी गच्छेति ।
चण्डवर्मा – साधुकृतं भवता । हञ्जे शृणु । राजा विक्रमादित्यः पुरुषसन्तानार्थं बहुविध यागान् विधाय वैदिक कर्मानुसारेण ब्राह्मणेभ्यः दक्षिणादिकं वितीर्य, सभक्तिकं सूर्यदेवं प्रार्थयामास । तस्मात् तस्य पुत्ररत्नमजायत इति लोकः कथयति ।
पल्लवी – तत् सत्यमेव । प्राचीन परम्परालग्न चेतसां सर्वं प्रार्थनया वेदकर्मानुष्ठानेन भवति ।
चण्डवर्मा – दैवभक्त्या असाध्यं साध्यं भविष्यति ।
पल्लवी – तस्मात् अहं वच्मि । त्वं आस्तिको भव । वेदजपूकौ भव । प्राचीन संस्कृत्याः मान्यतां देहि । यदि एवं क्रियते तर्हि वयमपि राजोपमाः भविष्यामः ।
चण्डवर्मा – त्वं किं भावयसि यत् अहं नास्तिकः इति ।
पल्लवी – नाहं तथा भावयामि । किन्तु अधिक श्रद्धा परम्परायां भवितव्या इति केवलं भावयामि ।
चण्डवर्मा – साधु, अधुनैव आवामपि नामकरणाख्यं कर्म द्रष्टुं गच्छावः । त्वं सज्जी भव । (इति अन्तः प्रविशति)
पल्लवी – (डोलिका समीपं गत्वा, पुत्रं पश्यन्ती) कदा मम पुत्रः वर्धमानो भविष्यति । कदा देशे एकः राजा भविष्यति । कदा अस्माकं परमानन्दः भविष्यति । देव त्वमेव सर्वरक्षकोऽसि, तुभ्यं नमः । (इति नमस्करोति)
(यवनिका पतति)
********************************************************************
.
तृतीयं दृश्यम्
(विक्रमादित्यराजः सिंहासने उपविशति, सर्वे ज्योतिषविद्या पण्डिताः स्वीय स्थानेषु उपविष्टाः सन्ति)
विक्रमादित्यः – अयि भोः ज्योतिषाचार्यवर्याः एतावत्पर्यन्तं वैदिकपद्धत्या अन्नप्राशनपर्यन्तं सर्वसंस्काराः परिपूर्तिं गताः ।
प्रथमः – महाराजानां वैदिकपद्धत्यां कीदृशी गाढभक्तिः विद्यते सा एभिः संस्कारकार्यकलापैः केवलं ज्ञायते ।
द्वितीयः – राजानः देशसंस्कृतिं देशसाम्प्रदायं वैदिक धर्मप्रचारं च कारयन्ति । यदि महाराजानः अस्य धर्मस्यकृते अनवरत दीक्षया कर्म न कुर्युः भारतीय संस्कृतिः दिवंगता भवेत् ।
तृतीयः – भारतदेशे संस्कृतिः राजश्रिता अजीवत्, जीवति, जीविष्यती च ।
विक्रमादित्यः – नहि केवलं राज्ञां धर्मः संस्कृति रक्षणम् । संस्कृति रक्षणं सर्व भारतीयानाञ्जन्म सङ्क्रामित कर्तव्यं भवति । वेषभूषाः गच्छन्तु परिवर्तनाम् । पानशन विषये भवतु वैविध्यं, किन्तु पञ्चदश कर्मणां संस्कार विशेषाः सर्वभारतीयैः अवश्यं परिपालनीयाः । अयमेव भारतीयानां साम्प्रदायः । अयि भोः पण्डितवर्याः शृण्वन्तु भवन्तः । मे चिरञ्जीविनः जन्मपत्रिकां विलिख्य तस्य भविष्यत् च विलिख्य कथयन्तु भवन्तः ।
प्रथमः – महाराज यदा पुत्रोदयः संजातः तदा अनुपदमेव मया जन्मपत्रिका विलिखिता । ममाभिप्रायनुसारं इयं पत्रिका महाराज लक्षण समञ्चिता भाति ।
द्वितीयः – महाराज, मयापि बालकस्य जन्मपत्रिका विलिखिता । ममाभिप्रायानुसारं अस्य जीवितं बहु चित्रितमिव प्रतिभाति ।
तृतीयः – मदीय भावनानुसारेण अयं तुलालग्न सञ्जातः । तस्मात् न्यायेन राज्यं पालयिष्यति । किन्तु अङ्गारकबाधा विद्यते । तदर्थं शान्तिः करणीया इति मे प्रतिभाति ।
प्रथमः – शान्तिः सर्वदा शुभसूचका भवति ।
द्वितीयः – अधिकस्य अधिकं फलम् ।
तृतीयः – अयं बालः अल्पेवयसि युवराजा शासकश्च भविता ।
विक्रमादित्यः – अयि भोः ज्योतिषाचार्यवर्याः, एकजन्मपत्रिकाविषये सर्वेषां मतानि वैविध्यानि कथं भवन्ति ।
(ततः प्रविशति दौवारिकः)
दौवारिकः – (नामित पूर्वकायः वेत्रमण्डित दक्षिणहस्त नमस्कृत्य) महाराज, द्वारि तिष्ठन्ति मिहिराचार्यवर्याः, तत्र भवतां दर्शनाभिलाषी ।
विक्रमादित्यः – अहो मे भाग्यम् । ज्योतिषाचार्यवर्याः मिहिर पण्डिताः द्वारि तिष्टन्ति । विना आलस्यं तान् प्रवेशय ।
दौवारिकः – यथाज्ञापयति देवः । (इति निर्गच्छति)
(ततः प्रविशति मिहिरः । सर्वे उत्तिष्ठन्ति मिहिराचार्याय स्वागतं व्याहरन्ति)
विक्रमादित्यः – अयि मिहिर पण्डितवर्याः । नमोवाकं विदद्महे ।
मिहिरः – स्वस्ति भवते । आचन्द्रतारार्कं ते कीर्तिः राजतु भूतले ।
विक्रमादित्यः – उपविशतु भवान् । (इति आसनं दर्शयति )
मिहिरः – (आसने उपविशति) राजन् बहुकालानन्तरं सुतमुखकमल दर्शनसुखं भवतां सप्राप्तम् इति मे मनः निस्सीमानन्दं भजते ।
विक्रमादित्यः – तत्र भवतां विदुषाम् आशीर्वाद बलोऽयम् ।
प्रथमः – अवश्यं तत्र भवतां आशीर्वादोऽयम् ।
द्वितीयः – प्रथमतः भवद्भिः समुदीरितं यत् पुत्रदर्शनसुखमनुभविष्यति राजा इति ।
तृतीयः – जगति सर्वं दैवप्रेरणया महापुरुषाणां आशीर्वाद बलेन च भवति ।
विक्रमादित्यः – अत्र अस्माकं सुतस्य भविष्यत्कालमुद्दिश्य चर्चा समजनि ।
मिहिरः – अधुना अयं शिशुः । अस्य भविष्यत्कालमुद्दिश्य चर्चाकुतः ।
विक्रमादित्यः – भवतां भाषणं मे अवगाहनं न भवति ।
मिहिरः – शिशूनां भविष्यत् कालमुद्दिश्य न द्रष्टव्यम् इति शास्त्रप्रमाणं विद्यते ।
विक्रमादित्यः – तत् प्रमाणं राज्ञां बाधकं न भवति ।
मिहिरः – भवता प्रोक्तम् अङ्गीकरोमि । किन्तु लोकविषयं अहं ब्रवीमि । शास्त्रात् साम्प्रदायः बलवत्तरः इति मे अभिप्रायः ।
विक्रमादित्यः – भवतु नाम । तत्र भवन्तः कुमारस्य पत्रिकां पश्यन्तु इति ममादेशः ।
प्रथमः – बालस्य पत्रिका महाराजलक्षणसमञ्चिता इति मया विचार्य भणितम् ।
द्वितीयः – बालस्य पत्रिका बहुलानिष्ट समञ्चिता इति मया ससूचिता अस्मिन् विषये भवद्भिः परिशील्य वक्तव्यमिति मे विज्ञप्तिः ।
तृतीयः – अयन्तु तुलालग्न सम्भूतः । तस्मात् न्याय्येन राज्यं पालयिष्यति इति मया प्रपञ्चितम् ।
मिहिरः – अस्मिन् विषये मम वक्तव्यं न किञ्चिदप्यस्ति ।
विक्रमादित्यः – भवन्तः ज्योतिषाचार्यवर्याः । तस्मात् युष्माभिः यदुच्यते तत् अन्तिमं वाक्यं भवति । अयि भोः मिहिराचार्याः कथयन्तु बालकस्य भविष्यत् कथं भासते इति ।
प्रथमः – (उत्थाय पत्रिकां मिहिराय ददाति, मिहिरः गृह्णाति)
मिहिरः – (ऊर्ध्वं विलोक्य हस्ताङ्गुलीभिः गणनां विधाय) महाराज अयम् अवश्यं महाराजलक्षणोपेतः ।
प्रथमः – महाराज, शृतं भवद्भिः यत् मया कथितं तदेव कथ्यते मिहिराचार्यवर्यैः । मम शास्त्रदृष्टिः अकुण्ठिता भाति ।
विक्रमादित्यः – जानाम्यहं यत् मे सभायां पण्डिताः क्षुण्ण शास्त्राभ्यासकाः इति ।
तृतीयः – मयाऽपि सुविचार्य उक्तम् अयं तुलालग्न सम्भूतः न्यायपालने दक्षः इति च ।
विक्रमादित्यः – सर्वैऽरपि किञ्चित् न्यूनाधिक्येन एकमतं प्रतिपादितम् । तस्मात् अहं युष्मादृशानां पण्डितानां मण्डलेन सप्तर्षिमण्डल विराजित राजमण्डलमिव विराजे । (हठात् मिहिराचार्यं विलोक्य) अयि मिहिराचार्यवार्थः किं भवन्तः विचारयन्ति । किमप्यधिकं वक्तुं उद्यताः किम् ? विनावरोधं कथयन्तु भवन्तः ।
मिहिरः – महाराज, अयं बालः (इति मौनम् अवलम्बते)
विक्रमादित्यः – कथयन्तु भवन्तः, अयं बालः भाग्यवानिति ।
प्रथमः – मिहिराचार्याणां रसनायां शनिः वर्तते ।
तृतीयः – तस्मात् मिहिराचार्याः भाषणे दरिद्राः भवन्ति ।
विक्रमादित्यः – मिहिराचार्य कथयतु भवान् ।
मिहिरः – अयम् अल्पायुष्कः भवति ।
विक्रमादित्यः – (आश्चर्येण) किं भण्यते भवद्भिः ।
मिहिरः – सत्यं भण्यते महाराज । अयं पञ्चवयस्कः यदा भवति तदा वराहेण व्यापादितः भविष्यति, इति जन्मकुण्डली प्रत्यक्षं भणति ।
विक्रमादित्यः – मिहिराचार्य । सम्यक् गणितं कृतं किम् ? पुनः एकवारं गणयतु भवान् ।
मिहिरः – महाराज, मे वाक्यं वेदवाक्यं भवति । यथा मम मित्रं भणति यत् मम रसनायां शनिः वर्तते इति तत् सत्यमेव । अहं न किमपि भणामि कदापि । यदि यत् किमपि भणामि आलोच्य भणामि । यदुच्यते तत् सत्यं भवति । मम वाक्सरणिः एतादृशी ।
विक्रमादित्यः – मिहिराचार्यवर्य । भवान् भवदीय पाण्डित्येन दर्पितोऽस्ति । यत् एते कथयन्ति तत् नेति भवान् कथयति । स्वीय प्रतिभया भवदीय प्रतिमां स्थापयितुं भवन्तः कृतप्रपत्नाः भवन्ति । अधुना अवगतं मया । एते सर्वे जन्मपत्रिका साधु वर्तते इति कथयन्ति । भवान् स्वोपज्ञां प्रकटीकर्तुं बालः अल्पायुष्कः इति कथयति । अयं ते गर्वभावः । भवान् मम राज्ये स्थातुं नार्हति अपेहि मम सम्मुखात् । राजमर्यादां न भवान् जानाति ।
मिहिरः – महाराज, मह्यं कृत्थो मा भवतु भवान् । असत्य कथनेन किं मे भवति । यत् मया कथितं तत् सत्यं भविता ।
विक्रमादित्यः – मिहिर, अहं सर्वेभ्यः पण्डितेभ्यः श्रेष्टतमः पण्डितप्रकाण्डः इति कथयितुं त्वं प्रयतसे इति जानाम्यहम् ।
मिहिरः – कालक्रमेण मे ज्योतिषनिर्णयानुसारं न कोऽपि हानिः भवति, तदा भवन्तः मां निन्दन्तु इति अहं भणामि ।
विक्रमादित्यः – अनन्तरं कथं अधुनैवाहं निर्णयिष्यामि । अयि भोः ज्योतिषाचार्यवर्याः युष्मदीय प्रज्ञया आनन्दितः अस्मि । अहं सुफलार्हां क्षेत्रेन्दिरां, गृहं सवत्सधेनु सहस्रं दानं करोमि । गच्छन्तु भवन्तः । मिहिराचार्य भवता प्रतिपादितम् अस्माकम् अतिशय दुःखदायकं । अपिच त्रयाणां ज्योतिषाचार्याणां अपेक्ष्या भवान् भवतः धीचातुर्यं दर्शयितुं पाण्डित्यगर्वेण अब्रवीत् । तस्मात् मे दानं तव देशबहिष्कारः एव ।
मिहिरः – (उत्थाय) महाराज मया सत्यमुदीरितं ज्योतिषशास्त्रप्रमाणम् । स्वार्थान् न किमपि भणितं मया । मे पाण्डित्य प्रकटनाय कृतमिति भवद्भिः उदीरितं तत् असङ्गतं असम्बद्धम् । भवतां आज्ञा शिरोधर्या मया । किन्तु बहुकालानन्तरं भवान् पश्चात्तापेन अशान्तिं प्राप्य मम नाम संस्मरन् मदर्थं दत्तजीवनः सत्येन उन्मीलितलोचनः भविष्यति ।
विक्रमादित्यः – मिहिर, भवान् पयोमुखविषकुम्भः । अपेहि मम सम्मुखात् । कः कोऽत्र भोः ।
प्रतिहारी – (प्रविश्य) एषोऽस्मि देवः । (इति नामित पूर्वकायः भवति)
विक्रमादित्यः – मिहिरम् अस्मात् प्रदेशात् बहिः निष्कासय ।
मिहिरः – महाराज शृणु मे अन्तिमं वचः । अहं ब्राह्मणः मे राज्यभिलाषा नास्ति । नाहं सुखलोलुपः अस्मि । अहं वने तप्तुं गच्छामि । यदि मम उपस्थितिः आवश्यकी भवति तर्हि मे वार्तां प्रेषयन्तु । शृणु महाराज । मे वचनम् असत्यं न भवति । मे वाक्षु पवित्रताऽस्ति । तस्मात् मया यत् कथितं तत् अवश्यं भवतीति मे मतिः । स्वस्ति भवते ।
विक्रमादित्यः – अलं स्वकुचमर्दनेन । अपसर । (इति उच्चैः आदिशति)
(मिहिरः प्रतीहारिणा सार्थन्निर्गच्छति)
(यवनिका पतति)
**********************************************************
.
चतुर्थं दृश्यम्
(ग्रामेत्वटवृक्षस्य छायायां एकस्यां वितर्दिकायां त्रयः ग्रीमीणाः लवित्रयष्टि खनित्रैः युताः उपविश्य अन्योन्यं भाषयन्तः आसन्)
यष्टिकः – महाराजः अतीव धर्मात्मा । साम्प्रदायानुवादी । वेदब्राह्मण गोपरिपालकः । कथं मिहिराचार्यान् देशबहिष्कारम् अकुर्वन् इति मे प्रश्नः ।
लवित्रकः – ते देशरक्षकाः राजानः । तेषां निश्चयः अप्रतिहतः भवति । ते साधुमसाधुम् । असाधुं साधुं कुर्वन्ति तेषां सिंहासनरक्षणाय । तस्मात् प्रोक्तङ्खलु स्मृति कर्तुभिः यत् राज्यान्ते नरकं ध्रुवम् इति ।
खनित्रकः – अस्मदीय प्राचीन स्मृतिकर्तारः अनुभवज्ञाः सर्वमपि अनुभवपूर्वकं अवोचन् । वयमेव मूर्खाः पण्डितं मन्यमानाः ।
खनित्रकः – वैदिक साम्प्रदायानुसारिणम्, ज्योतिषाचार्येषु उत्तमं सत्यवादिनं विरागिणं, भौतिक सुखानभिज्ञं मिहिराचार्यम्, देशबहिष्कारमकरोत् राजा । तस्मात् ममापि सन्तापः भवति ।
यष्टिकः – अस्मिन् विषये राज्ञाम्मतिः अकरणीयकर्मणि प्रवर्तिता । ते मिहिराः शास्त्रप्रमाणं धृत्वा कुमारस्य भविष्यत् उक्तवन्तः न तु कापट्यभावेन । अस्मिन् विषये क्रोधस्य स्थानमेव न भवति ।
लवित्रकः – राजानः मत्सरग्रस्ताः । ते सर्वदा स्वार्थाय अकरणीयं करिष्यन्ति । ते गोमुखव्याघ्राः भवन्ति । शृणु, बहुकाऽलानन्तरं तेषां सुतमुखदर्शनानन्दः आसीत् । सर्वेऽपि ज्योतिषाचार्याः यथापत्रिकां स्वीयमतं प्रपञ्चिताः आसन् । तद्वत् मिहिरोऽपि स्वीयमतं प्रकटीचकार । तस्य देशबहिष्कारः अयुक्तः इति सर्वेषामपि अभिप्रायः ।
खनित्रकः – मिहिराचार्येऽपि स्वीय भावनां विनाकापट्यभावं प्रकटीचकार । अयं आचार्यः किञ्चित् अलौकिकः । परमानस भावनानभिज्ञः । मनसि यत् स्फुरितं तत् सर्वं प्रकटीकृत्य, अकारणेन देशबहिष्कृतः आसीत् ।
यष्टिकः – अन्ततः मम भावना एवमस्ति, राज्ञा सहसा कर्म कृतमिति । पुत्रस्य मरणं भविता इति शृत्वा आत्मानं संयमितुम् अशक्तोभूत्वा एवं दिदेश इति मे मतिः ।
लवित्रकः – यदि राजा एवं करिष्यति तर्हि कोऽन्यः धर्मरक्षकः भविष्यति इति प्रश्नः ।
खनित्रकः – राजा पश्चात्तप्तः तं मिहिरं पुनः समाह्वयिष्यतीति मे प्रतिभाति ।
यष्टिकः – एवं भवितुं शक्यं भवति । किन्तु एकदा अवमानितः मिहिराचार्यः प्रत्यागमनम् अङ्गीकरिष्यति किम् इति अन्यः प्रश्नः ।
लवित्रकः – मिहिरस्य प्रत्यागमनम् अनुपदं न भविष्यति ।
खनित्रकः – अधुना देशे वर्तमानपरिस्थितयः सर्वेषामपि असौख्यदायकाः भवन्ति ।
यष्टिकः – अस्मदीयभाषणं यः कोऽपि शृत्वा राज्ञे यदि निवेदयति तर्हि अस्माकमपि मिहिरस्थितिः भविष्यति ।
लवित्रकः – अस्माकं मिहिरदशा न भवति ।
खनित्रकः – तथ्यमेवोक्तम् । अस्माकं मिहिरदशा न भवति । किन्तु यदि भविष्यति यत्किमपि तद् मरणमेव भविष्यति ।
यष्टिकः – अस्मिन् विषये न निर्णेतारः भवामः ।
लवित्रकः – कालः एव निर्णायकः भविष्यति ।
खनित्रकः – यत् भविष्यति तदेव भविष्यति । पिष्टपेषणं किमर्थम् ? इतःपरम् अस्माकं भाषणं न योग्यं भवति । गच्छामः वयं कार्यकरणाय । गत जलसेतुबन्धनं किमर्थम् ? उत्तिष्ठन्तु, आगच्छन्तु, गमिष्यामः । (इत्युत्थाय उष्णीषबन्धनादिकं विधाय स्वीयस्वीय वस्तुचयं गृहीत्वा गच्छन्ति) अयि मित्रवर्याः एतत् विषयमुद्दिश्य न केनापि भाषणीयं विद्यते । नमांसि । (सर्वेपि) नमांसि । (इति गच्छन्ति)
(यवनिका पतति)
*********************************************************
.
पञ्चमं दृश्यम्
(विक्रमादित्यः सिंहासने उपविष्ठः, मन्त्रि पुरोहितौः पार्श्वस्थ आसनयोः उपविष्टौ ।)
विक्रमादित्यः – अमात्य, अयं मे चिरञ्जीवः धनञ्जयः समाप्तपञ्चवर्षीयः सञ्जातः, अस्य अक्षराभ्यासः करणीयः अस्ति ।
अमात्यः – हां सत्यमेव करणीयः विद्यते शुभमुहूर्ते ।
विक्रमादित्यः – अमात्य, अद्य प्रभृति शुभदिवसाः, अशुभ दिवसाश्च न भवन्ति मे करणीयेषु समारभ्येषु । विश्वकर्मणः सृष्ठ्यां सर्वं मङ्गलात्मकं भाति मे ।
अमात्यः – भवता उदीरितं सत्यमेव राजन्, किन्तु भारतीय साम्प्रदायस्तु शुभाऽशुभ कर्मपरीतः अस्ति । तस्मात् भवन्तः देशरक्षकाः, अस्मदीय परम्परानुयायिनः,ईदृशी भावना भवतां न योग्या, शोभना च भवति ।
विक्रमादित्यः – न मे विद्यते विश्वासः अस्मिन् ज्योतिषे ।
अमात्यः – महाराज, विश्वासः अस्तिवा नवा नायं विषयः । सर्वथा राजभिः महापुरुषैः, प्रजाभिः, परम्परा परिपालनीया रक्षणीयाच । वयं गमिष्यामः किन्तु परम्परा न भ्रष्टा भवति । अवश्यं ऋषीणां मार्गः आदेशश्च अङ्गीकार्यौ भवतः राजन् । भवान् एकवारं स्मरस्व रघुवंशीयान् । एतावत्पयन्तं सर्वोऽपि लोकः तान् कीर्तयति ।
विक्रमादित्यः – अमात्य, भवता भणितं श्रुतम् । त्वमेव सर्वं कारय ।
अमात्यः – अयि पुरोधसाः, धनञ्जयाय अद्यैव अक्षराभ्यासं कुर्वन्तु भवन्तः शुभवेलायाम् ।
पुरोहितः – अमात्य अद्य षष्ठी । विद्यारम्भे शुभाषष्ठी । इति शात्रम् । तस्मात् अद्यैव अक्षराभ्यासः भविष्यति ।
अमात्यः – भवन्तः गत्वा सर्व व्यवस्थां कुर्वन्त । राजानः समागमिष्यन्ति ।
विक्रमादित्यः – अमात्य, मिहिरः अद्य मे मनसि प्रशान्तात्मा भूत्वा वने तपस्यन् इव चित्रितः प्रतिभाति ।
अमात्यः – प्रभो अयं मिहिरः धर्मानुयायी, मोक्षकाङ्क्षी च ।
विक्रमादित्यः – मिहिरस्य वाचि शक्तिः विद्यते किम् ?
अमात्यः – अयं ज्योतिषशास्त्रपारङ्गतः । नाहं किमपि वक्तुं समर्थः अस्मिन् विषये । किन्तु अयं प्रभावशाली ।
विक्रमादित्यः – अद्य बालस्य पञ्चवर्षाणि व्यतीतानि भविष्यन्ति ।
अमात्यः – मिहिराचार्येण सूचितं यत् तत् अवश्यम् अस्माभिः सावधानतया अनुपालनीयम् विद्यते ।
विक्रमादित्यः – अन्ये ज्येतिषाचार्याः बालमुद्दिश्य, तस्य भवितव्यमुद्दिश्य सम्यगवोचन् किन्तु मिहिरः स्वप्रज्ञां प्रदर्शयितुम् अन्यथा अशुभं प्राकटयत् ।
अमात्यः – महाराज तथा न भणितव्यम् । भवताम् एकपुत्रविषये एतादृशी कुशङ्का भवति । विचार्यमाणे, अन्ये ये पण्डिताः विद्यन्ते ते भवद्भ्यः धनकनकवाहन वस्तुचयं भूखण्डं च प्राप्तुम् एवं अवोचन् । किन्तु अयं मिहिराचार्यः फलकाङ्क्षी नहि । सः ज्योतिष सिद्धान्त स्थापनार्थं केवलं जीवति इति मे मतिः ।
विक्रमादित्यः – विचार्यमाणे तथैव ममापि प्रतिभाति ।
अमात्यः – तस्मात् कुमाररक्षणे व्यवस्था कर्तव्या ।
विक्रमादित्यः – अयं बालः कुत्रापि गन्तुं न क्षमः । वराहस्य नगरप्रवेशः असम्भवः । कथं एनं वराहः हनिष्यति ? तस्मात् मे शङ्का भवति तस्य ज्योतिषे ।
अमात्यः – तस्मादेव ममापि शङ्का भवति । अवश्यं यत् किमपि भविष्यति । न वयं वक्तुं शक्ष्यामः घटनाऽघटनामुद्दिश्य । पुरा राजा परीक्षित् एतादृशीमेवावस्थाम् अन्वभूत् । तस्मात् ब्राह्मणवचनं व्यर्थं न भवति । ब्राह्मणानां वाक्षु शक्तिः विद्यते । तस्मात् सावधानतया प्रवर्तितव्यम् इति ममाभिप्रायः ।
विक्रमादित्यः – भवता समुदीरितं सत्यमेव । किन्तु सर्वेषां ब्राह्मणानां वाक्षु शक्तिः न भवति ।
अमात्यः – अहं विद्यमान परम्परामुद्दिश्य अवोचम् । अत्र किमपि अस्मिन् विषये अनिर्वचनीयं गोप्यं वर्तते इति मे प्रतिभाति । अयं सत्यवान्, निष्ठावान् पवित्रवान् ब्राह्मणः । तस्मात् अश्रद्धा न कर्तव्या इति ममाभिप्रायः ।
विक्रमादित्यः – नास्मिन् विषये भीतिः विद्यते ।
अमात्यः – शतथा रक्षणा कर्तव्या अस्मभिः । यदा कदापि यस्मिन् कस्मिन् समये वराहः पत्तनं प्रवेक्ष्यति ।
विक्रमादित्यः – अमात्य, अद्य प्रभृति सकलराज्यरक्षकभटैः सावधानतया प्रवर्तितव्यमिति, राजधान्यां हिंस्र जन्तूनां प्रवेशः यथा न भवति तथा सर्वे उपायाः कर्तव्याः इति, जागृदवस्थायां सर्वमपि पतनं स्थातव्यमिति घोषणां कारयन्तु भवन्तः ।
अमात्यः – तथैव सर्वं कारयिष्यामि । अद्य प्रभृति कुमारं, प्रासादाग्रे चरमतले संस्थाप्य तं सर्वराजलक्षणचिह्नितेन वस्तुचयेन समलङ्कृत्य ध्वजस्तम्भमधः सिंहासने उपवेशयामः ।
विक्रमादित्यः – तथैव कुर्वन्तु । (इत्युत्थाय गच्छति, अमात्यः अपि गच्छति)
(यवनिका पतति)
******************************************************
.
षष्ठं दृश्यम्
(पल्लविनी गृहे कर्मकुर्वन्ती आस्ते, ततः प्रविशति चन्द्रिका)
चन्द्रिका – हञ्जे पल्लविनी किं श्रुतं भवत्या ?
पल्लविनी – किमिति ।
चन्द्रिका – विक्रमादित्यपुत्रस्य धनञ्जयस्य मरणमुद्दिश्य ।
पल्लविनी – किं ब्रवीषित्वम् ।
चन्द्रिका – सत्यं ब्रवीमि ।
पल्लविनी – बत ! कथं अल्पे वयसि मरणम् ।
चन्द्रिका – कथयामि श्रुणु ।
पल्लविनी – अवहितास्मि । अमूलाग्रं कथय ।
चन्द्रिका – धनञ्जयजननानन्तरं राजा विक्रमादित्यः कुमारस्य जन्मपत्रिकां द्रष्टुं सर्वज्योतिषाचार्यान् आदिदेश । सर्वे ज्योतिषाचार्यः पुत्रकस्य जन्मपत्रिकां विलोक्य समीचीनं साधु इति अब्रुवन् । किन्तु तेषां सिद्धान्तं अनङ्गीकृत्य कुमारस्य मरणं एकेन वराहेण पञ्चमेवयसि भविष्यतीति मिहिराचार्याः उद्घोषयन् ।
पल्लविनी – बत, एवं भविष्यति ? ततः ।
चन्द्रिका – ततः विक्रमादित्यः अतीव कृत्थः मिहिराचार्यं देशात् बहिष्कृतवान् ।
पल्लविनी – शान्तं पापम् । मिहिराचार्याणां कष्टदशा सम्प्राप्ता ।
चन्द्रिका – तदा मिहिराचार्याः अयि भोः महाराज मया यत् कथितं तत् सत्यं भविष्यति । अहं भवदीय आज्ञां पालयिष्यामि । किन्तु श्रुण्वन्तु भवन्तः, यदि मदीय सहायमपेक्ष्यते तर्हि मह्यं वार्तां प्रेषयन्तु, अहम् अवश्यं भवतः समीपमागमिष्यामि । इति राज्ञे स्वस्ति वाचकं उद्गीर्य वनं गताः ।
पल्लविनी – तदानीं किमभूत् ।
चन्द्रिका – तदानीं राजा अतीव चिन्ताग्रस्तः धनुञ्जयस्य रक्षणाय सर्वप्रयत्नाः करणीयाः इति सकल सैन्यं आदिदेश ।
पल्लविनी – तदा ते किमकुर्वन् ।
चन्द्रिका – तदा सर्वे सौनिकाः तं धनुञ्जयं सौधोपरि चरमतले सर्वां सौख्यमयीं व्यवस्थां विधाय वराहलाञ्छनविराजितध्वजपटं ध्वजस्तम्भे आविष्कृत्य, तस्य ध्वजस्य समीपे बालं सिंहासने उपविशेयम् ।
पल्लविनी – इयं कथा श्रोतुं मां उत्सुकयति ततः ।
चन्द्रिका – एकदा सन्ध्यासमये हठात् समागतझंझावातेन सः ध्वजस्तम्भः ताडितः तस्मिन् सौधतले तत्रैव पपात । तेन प्रचण्डपतनेन सः कुमारः धनञ्जयः पञ्चत्वं प्रापितः । तदा ध्वजस्य वराहचिह्नित केतनपटं तस्य बालकस्योपरि आच्छादितमभूत ।
पल्लविनी – हा बत धनञ्जयस्य पञ्चत्व वार्ता श्रवणेन मे मानसं दुःखप्रपूर्णं भवति । बत अधुना विक्रमादित्यमहाराजः पुत्रविहिनो जातः । दैवनिर्णयं न कोपि परिमार्ष्टं शक्नोति ।
चन्द्रिका – सर्वमपि धरण्यां दैवनिर्णयेन भवति ।
पल्लविनी – ततः किं जातम् कथय ।
चन्द्रिका – विक्रमादित्यराजः बहुसन्तप्तः पुत्रशोकेन विललाप ।
पल्लविनी – पुत्रशोकः बहुसन्तापकारकः खलु जगति सर्वप्राणिनाम् ।
चन्द्रिका – तदनन्तरं किं जातम् श्रुणु ।
पल्लविनी – किं जातं कथय ।
चन्द्रिका – तदा राजा मिहिरं स्मरन् मिहिराचार्याणां प्रज्ञावैशिष्ट्यं कीर्तयन् महाब्राह्मणाय घोरं विधत्तम् इति पदे पदे वदन् तं महाब्राह्मणं आह्वयितुम् इच्छुकः अभूत ।
पल्लविनी – अधुना राज्ञः मानसं पुत्रमरणेन दुःखाक्रान्तं, मिहिरस्य निष्कासनेन सन्तप्तं च बभूव । तस्य मानसम् अधुना द्विधा दुःखितं बभूव ।
चन्द्रिका – अद्य अधुना शोकसभा भविष्यति । तस्मात् अहं तत्र गच्छामि । मध्ये मार्गं त्वां द्रष्टुं, एनां वार्ता तव कर्णपुटे पातयितुं समागतास्मि ।
पल्लविनी – अहम् आगन्तुम् अशक्ताऽस्मि यतः मे कुमारस्य प्रकृतिः समीचीना न प्रतिभाति । चण्डवर्मानः तत्र गतवन्तः इति मन्ये । अपिच एतादृशी वार्ता श्रवणेन मे मानसं किञ्चित् व्यथाविलम् आसीत् ।
चन्द्रिका – विलम्बः सञ्जातः अधुनाहं गच्छामि । नमस्ते पल्लविनि । (इति नमस्कृत्य गच्छति)
पल्लविनी – आगच्छ पुनर्दर्शनाय । (इति अन्तः प्रविशति)
(यवनिका पतति)
.******************************************************
.
सप्तमं दृश्यम्
(दुःख सन्तप्तः राजा इतस्ततः चरन् एकस्मिन् आसने उपविशति)
विक्रमादित्यः – बत न कोऽपि जानाति विधि वैपरीत्यम् । बहुकालानन्तरं पुत्रोत्पत्तिः । अनन्तरं पुत्रस्य मरणम् इत्येतत् सपद्सपदं जातम् । मिहिराचार्य, भवता प्रतिपादित सिद्धान्तः फलितः जातः । अहो ते बुद्धिविशेषः । वयं राजानः गर्वान्धाः मदेनमत्ताः तामसरजोगुणान्विताः । तत्र भवन्तः ब्राह्मणाः सत्वगुण सहिताः । यूयं प्रसन्नात्मानः भवन्ति । (उत्थाय पार्श्वे विद्यमान घण्टां नादयति, गत्वा आसने उपविशति)
प्रतीहारी – (प्रविश्य) अयमस्मि । (इति नामित पूर्वकायः भवति)
विक्रमादित्यः – अमात्यवर्यान् आह्वय ।
प्रतीहारी – यथाऽज्ञापयति देवः (इति गच्छति)
(ततः प्रविशति अमात्यः)
अमात्यः – नमांसि महाराज । (इति नमस्करोति)
विक्रमादित्यः – अमात्यवर्य, मिहिरवचनं सत्यं बभूव । सः सत्यं भूदेवता अस्ति ।
अमात्यः – महाराज । अयं वयसा कनिष्टः, किन्तु बुध्या गरिष्ठः । अद्य तस्य वचांसि सत्यविलसितानि भान्ति ।
विक्रमादित्यः – महामात्य, अयं कुमारः वराहेण मारितः भविष्यतीति तेन प्रोक्तम् । किन्तु वराहेण न मारितः । वराहचिह्नमुद्रित पताकध्वजशूलेन मारितः ।
अमात्यः – महाराज अधुनापि भवतः शङ्का अस्ति किम् ?
विक्रमादित्यः – शङ्का नहि । किन्तु वराहेण न मारितः किन्तु शूलेन मारितः ।
अमात्यः – महाराज मिहिराचार्याणां ज्योतिषसिद्धान्तस्य कलङ्कमापादयितुं भवन्तः प्रयतन्ते किम् ?
विक्रमादित्यः – नाहं प्रयतामि । किन्तु गतं कथयामि ।
अमात्यः – राजन् वयं कुमारस्य रक्षणोपायान् व्यरचयाम । तस्मात् वराहस्य नगरप्रवेशः असम्भवः आसीत् ।
विक्रमादित्यः – येन केनापि रूपेण मृत्युः सम्प्राप्तः ।
अमात्यः – जगति मरणमवश्यमेव जन्तोः । विचारेण नहि प्रयोजनं विद्यते ।
विक्रमादित्यः – आमात्य, अहं पुत्रशोकेन प्रसन्तप्तमानसोऽपि मिहिराणां मेधाशक्त्या अत्यन्तचकितः सर्वदा तमेव चिन्तयामि ।
अमात्यः – राजेन्द्र, तेजस्वी दूरस्थितोऽपि, सर्वदा दवीयान् प्रतिभाति । भगवान् मिहिरः अनेककोटिक्रोश दूरे विद्यमानोपि तेजस्विनां गणनायाम् अत्यन्तसन्निहितत्वं भजते । सा एव तेजस्विनां महिमा ।
विक्रमादित्यः – अमात्यवर्य, अयं ब्राह्मणः । पण्डितः महामेधावी । अयं मम राज्ये, अपिच मम सभायां स्थातव्यः भवति । सः अधुना कुत्र विद्यते, किं कष्टं भजते वा, विचार्यमाणे मया असाधुकृतमितिभाति ।
अमात्यः – जगति सर्वस्यापि अन्धकारपरीतजीवनं यदा कदापि जीवने भवत्येव ।
विक्रमादित्यः – अयं अधुना कुत्रास्ति इति भवताम् अभिप्रायः ।
अमात्यः – श्रुतं मया बदरिकाश्रमे तपतीति ।
विक्रमादित्यः – तस्य मम राज्ये पुनः प्रवेशः कर्तव्यः इति समादिशतु ।
अमात्यः – राजन् अधुनैव सेवकान् सम्प्रेष्य तमानेतुम् आदिशतु ।
विक्रमादित्यः – (घण्टां नादयति)
प्रतिहारी – (प्रविश्य) एषोऽस्मि देव । (इति नमस्करोति)
विक्रमादित्यः – सैन्याधिपतिं प्रवेशय ।
प्रतिहारी – यथाज्ञावयति देवः । (इति नमस्कृत्य गच्छति)
(ततः प्रविशति सेनाधिपति)
सेनाधिपतिः – (प्रविश्य उरसि हस्तं निक्षिप्य किञ्चित् अवनतशीर्षः भूत्वा नमस्करोति)
विक्रमादित्यः – अयि सेनापते श्रुणु, बदरिकाश्रमे तपस्यन्तं मिहिराचार्यवर्यं प्रत्यानयतु भवान् इति मम आज्ञा ।
सेनाधिपतिः – यथाज्ञापयति देवः । (इति गच्छति)
अमात्यः – महाराजाः भवन्तः सुतमरणशोकेन अतीव ग्लापितमनस्काः अभवन् । गत्वा भवन्तः विश्रान्तिसुखमनुभवन्तु ।
विक्रमादित्यः – भवन्तः अपि परिश्रान्ताः । भवन्तः अपि गच्छन्तु ।
(इति उत्थाय अन्तः प्रविशति, अमात्यः अपि तमनुसरति)
(यवनिका पतति)
****************************************************************
.
अष्टमं दृश्यम्
(विक्रमादित्यः सिंहासने उपविशति, अमात्यः पार्श्वे उपविशति, ज्योतिषशास्त्र पारङ्गताः त्रयः ब्राह्मणाः पार्श्वे उपविशन्ति)
(ततः प्रविशति भटः)
भटः – (प्रविश्य नमस्कृत्य) महाराज मिहिराचार्यवर्याः आगताः ते द्वारि तिष्टन्ति ।
विक्रमादित्यः – अनुपदं प्रवेश्य ।
भटः – यथाज्ञापयति देवः ।
(ततः प्रविशति मिहिरः सर्वे उत्तिष्ठन्ति)
विक्रमादित्यः – (तस्याभिमुखं गत्वा तस्य हस्तौ गृहीत्वा विनमित गात्रः) मिहिराचार्यवर्य एहि, (इति आनीय तं पार्श्वे विद्यमानपीठोपरि उपवेशयति, सर्वे उपविशन्ति) मिहिराचार्य, (इति सगद्गदं) कुमारः दिवङ्गतः ।
मिहिरः – महाराज, मा विचारयतु भवान् । जगति सर्वेषां जन्म कारणमनुसृत्य भवति । तदनुसारं ते जीवन्ति, नश्यन्ति च । अस्मिन् विषये श्रद्धा नदेया । जातस्यहि ध्रुवोमृत्युः । जगति वृक्षस्य पुष्पाणि भवन्ति । तानि पुष्पाणि सर्वाणि शलाटवः न भवन्ति । सर्वाणि शलाटवः फलानि न भवन्ति । सर्वाणि फलानि नानुभूयन्ते जनैः । इयं लोकपरिपाटिः । अत्र विचारः नहि कर्तव्यः । इयं रीतिः चर्वित चर्वणा भवति । नात्र चिन्ताहेतुः विद्यते ।
विक्रमादित्यः – आचार्यवर्य वयं राजानः अरिषड्वर्गादिभिः जीवामः । युष्मादृशाः चिन्ताविहीनाः विरागिणः । वयन्तु सुतरां लौकिकाः । अस्मादृशानां सर्वदा लोकविचारः एव । तस्मात् कारणात् वयं मलिनाः सञ्जाताः ।
मिहिरः – महाराज तथा मा वक्तव्यम् । सर्वः सर्वं न भवति । सर्वेषां जीवनपद्धतिः विभिन्ना । नत्रा चिन्तायाः हेतुः विद्यते ।
विक्रमादित्यः – मिहिराचार्याः, अहं क्षन्तव्योऽस्मि । भवन्तः ऋषिप्रायाः । सर्वमपि यूयं द्रक्ष्यथ समक्षम् । तादृशी शक्तिः अस्माकं न विद्यते ।
मिहिरः – राजेन्द्र, भवन्तः धीरोदात्त नायकाः । भवद्भिः विना देशः अराजकः भविष्यति । गतं गतमेव । न स्मर्तव्यम् । वयं भारत संस्कृति प्रेमिणः । वयं शास्त्र रक्षकाः, किन्तु न मारकाः भवेम ।
विक्रमादित्यः – मिहिर अद्य मे मतिः विकसिता । अद्य प्रभृति भवान् मे सभा रत्नेषु नवमः भविता । भवतां नाम अद्य प्रभृति वराहमिहिरः इति भविष्यति । भवन्तः मे कुमारस्य मृत्युः एकेन वराहेण भविष्यतीति सूचितवन्तः । ततः भवतां नाम आगामिनी काले जगति सर्वेषां तत्रभवन्तः मम राज्ये विराजिताः ज्योतिषाचार्यवर्याः इति सुविदितं भविष्यति ।
वराहमिहिरः – राजेन्द्र, सर्वं जगति सहकारेण अन्येन्याश्रयेण भासते । सर्वं वस्तु परस्पराधीनं भवति जगति । भवद्भिः वयं अस्माभि भवन्तः अन्योन्याश्रयेण भारतीय इतिहासे चिरस्थानम् अक्षरत्वं च भजिष्यामः । स्वस्ति भवते । (इति आशीर्वादान् ददाति)
विक्रमादित्यः – आचार्यवर्य युष्मम्यं नमः । (इति नमस्कारोति)
वराहमिहिरः – प्रचन्द्रमास्थिरति दीर्घमायुः ।
(यवनिका पतति)
****************************************************
.
अष्टमं दृश्यम्
(विक्रमादित्यः सिंहासने उपविशति, अमात्यः पार्श्वे उपविशति, ज्योतिषशास्त्र पारङ्गताः त्रयः ब्राह्मणाः पार्श्वे उपविशन्ति)
(ततः प्रविशति भटः)
भटः – (प्रविश्य नमस्कृत्य) महाराज मिहिराचार्यवर्याः आगताः ते द्वारि तिष्टन्ति ।
विक्रमादित्यः – अनुपदं प्रवेश्य ।
भटः – यथाज्ञापयति देवः ।
(ततः प्रविशति मिहिरः सर्वे उत्तिष्ठन्ति)
विक्रमादित्यः – (तस्याभिमुखं गत्वा तस्य हस्तौ गृहीत्वा विनमित गात्रः) मिहिराचार्यवर्य एहि, (इति आनीय तं पार्श्वे विद्यमानपीठोपरि उपवेशयति, सर्वे उपविशन्ति) मिहिराचार्य, (इति सगद्गदं) कुमारः दिवङ्गतः ।
मिहिरः – महाराज, मा विचारयतु भवान् । जगति सर्वेषां जन्म कारणमनुसृत्य भवति । तदनुसारं ते जीवन्ति, नश्यन्ति च । अस्मिन् विषये श्रद्धा नदेया । जातस्यहि ध्रुवोमृत्युः । जगति वृक्षस्य पुष्पाणि भवन्ति । तानि पुष्पाणि सर्वाणि शलाटवः न भवन्ति । सर्वाणि शलाटवः फलानि न भवन्ति । सर्वाणि फलानि नानुभूयन्ते जनैः । इयं लोकपरिपाटिः । अत्र विचारः नहि कर्तव्यः । इयं रीतिः चर्वित चर्वणा भवति । नात्र चिन्ताहेतुः विद्यते ।
विक्रमादित्यः – आचार्यवर्य वयं राजानः अरिषड्वर्गादिभिः जीवामः । युष्मादृशाः चिन्ताविहीनाः विरागिणः । वयन्तु सुतरां लौकिकाः । अस्मादृशानां सर्वदा लोकविचारः एव । तस्मात् कारणात् वयं मलिनाः सञ्जाताः ।
मिहिरः – महाराज तथा मा वक्तव्यम् । सर्वः सर्वं न भवति । सर्वेषां जीवनपद्धतिः विभिन्ना । नत्रा चिन्तायाः हेतुः विद्यते ।
विक्रमादित्यः – मिहिराचार्याः, अहं क्षन्तव्योऽस्मि । भवन्तः ऋषिप्रायाः । सर्वमपि यूयं द्रक्ष्यथ समक्षम् । तादृशी शक्तिः अस्माकं न विद्यते ।
मिहिरः – राजेन्द्र, भवन्तः धीरोदात्त नायकाः । भवद्भिः विना देशः अराजकः भविष्यति । गतं गतमेव । न स्मर्तव्यम् । वयं भारत संस्कृति प्रेमिणः । वयं शास्त्र रक्षकाः, किन्तु न मारकाः भवेम ।
विक्रमादित्यः – मिहिर अद्य मे मतिः विकसिता । अद्य प्रभृति भवान् मे सभा रत्नेषु नवमः भविता । भवतां नाम अद्य प्रभृति वराहमिहिरः इति भविष्यति । भवन्तः मे कुमारस्य मृत्युः एकेन वराहेण भविष्यतीति सूचितवन्तः । ततः भवतां नाम आगामिनी काले जगति सर्वेषां तत्रभवन्तः मम राज्ये विराजिताः ज्योतिषाचार्यवर्याः इति सुविदितं भविष्यति ।
वराहमिहिरः – राजेन्द्र, सर्वं जगति सहकारेण अन्येन्याश्रयेण भासते । सर्वं वस्तु परस्पराधीनं भवति जगति । भवद्भिः वयं अस्माभि भवन्तः अन्योन्याश्रयेण भारतीय इतिहासे चिरस्थानम् अक्षरत्वं च भजिष्यामः । स्वस्ति भवते । (इति आशीर्वादान् ददाति)
विक्रमादित्यः – आचार्यवर्य युष्मम्यं नमः । (इति नमस्कारोति)
वराहमिहिरः – प्रचन्द्रमास्थिरति दीर्घमायुः ।
(यवनिका पतति)
****************************************************
.
]