[[विराजसरोजिनी Source: EB]]
[
[TABLE]
विज्ञापनम्।
―:0:―
१३१२ बङ्गाब्दे स्वनामधन्य–प्रातःस्मरणीय–स्वर्गीय–पार्व्वतीचरणरायमहाशयस्य सहधर्म्मिणीधर्म्मप्राणा दीनदयावती मातृकल्पा योग्यताज्ञानवती श्रील–श्रीमती वगलासुन्दरी देवी स्वकीयकविराजपुरनगरे महाभारतपाठे पाठकतायां ‘महाननुग्रहोऽय’मिति मन्यमानं मां न्ययुङ्क्त, मया सा कथमपि सम्पादिता च। आसोच्च एकस्मिन्नेव वृषसंक्रान्तिदिवसे तदीय सावित्रीव्रत–महाभारतयोरुद्यापनसम्भवः, तत्र च अशेषदिग्दिगन्तागतविचक्षणगणसभा भाविनीति मन्यमानेन अस्मदुपाध्यायेन महामहोपाध्यायकल्पेन नितान्तभक्तिभाजन–परमपूज्यपादश्रीयुक्त आनन्दचन्द्र विद्यारत्न महाशयेन, परमविद्योत्साहिना पण्डितप्रियेण सुपण्डितेन दाने पितृपदवीमधिरूढेनस्वर्गीयपार्व्वतीचरण–प्रथमात्मजेन श्रीमता कृष्णदासरायमहाशयेन च अस्या एव “विराजसरोजिनी” नाटिकाया अभिनये समुत्साहिता वयम्। सुसम्पन्नश्चायमभिनयः। अत्र च सहोदरप्रतिमाः श्रीयुक्त विनोदविहारि भट्टाचार्य्यप्रभृतयः सतीर्था, प्रियतमाः
श्रीयुक्त हरेन्द्रनाथ व्याकरण काव्यतीर्थ प्रभृतयश्छात्राः, कुमारसुन्दराकृतिः सुकुमारमतिः पार्व्वतीचरण द्वितीयात्मजः श्रीमान् आशुतोष रायश्चअभिनयेऽस्मिन् स्वस्वभूमिकासु नितान्तनैपुण्यमदर्शयन्। आशेषाच्चअभिनयस्य सर्व्वेऽपि
शान्तिमन्त एवासनमध्यासीना आसन्। आसीच्चसभायां कथमपि मनोरथानुरूपा समालोचना, अभिनवसौष्ठवेन वा रचनापाटवेन वा सभासदामयं सन्तोष इति न कोऽपि निरणैषीत्। सेयमधुना विराजसरोजिनी प्रकाशीभवन्तीसर्व्वेषां लोचनगोचरतामापद्यते। इदानीम् एकोऽपि चेत् सानुग्रहदृष्ट्या परिग्रहेण खल्विमां कृतार्थयति, हन्त ! तर्हि सफलो मे महीयानयमायास इति।
विनीत—
श्रीहरिदास शर्म्मणः।
नाट्योल्लिखित व्यक्तिगणः।
<MISSING_FIG href="../books_images/U-IMG-1726396143Screenshot2024-09-15155846.png"/>
पुरुषगणः।
| सूत्रधारः | प्रस्तावसूचकः |
| राजा | मालवदेशाधीशो हरिदश्वनामा |
| विदूषकः | अस्य सहायः |
| वीरसिंहः | " सेनापतिः |
| सुबाहुः | दानवः |
| शान्तदेवोपाध्यायः | राजपण्डितः |
| श्रुतिनाथः | अस्य छात्रः |
| बालकः | तथा |
| मङ्गलकः | हालिकः |
| देवराजः | तथा |
| पुरोहितः | गन्धर्वराजस्य |
_________
स्त्रीगणः।
| सरोजिनी | गन्धर्व्वराजकन्या |
| चित्रलेखा | अस्याः सखी |
| हेमप्रभा | " |
| देवी | राजमहिषी |
| मलिना | अस्याः परिचारिका |
| चपलिका | " |
शुद्धिपत्रम्।
| अशुद्ध | शुद्ध |
| अभिनव | अभिनय |
| महसाच्चणं | महेसाच्चणं |
| लोत्त | लोओ |
| तुत्र | तुए |
| णिस्सिदा | णिम्मिदा |
| गणे | गले |
| असुनहो | असुलहो |
| तस्यैवावयोः | तथैवावयोः |
| ? | ! |
| मां | मं |
| सुमरविदह्मि | सुमराविदह्मि |
| मनोभवतरलितया | मनोभवतरलया |
| आणदो | आगदो |
| पतिशोधं | प्रतिशोधं |
| जेण णेक्खामि | थाकिवे ना |
| परिच्चतं | परिच्चत्तं |
| ललताङ्गकान्तिं | ललिताङ्गकान्तिं |
| यं | यत् |
| मज्झत्थश्रोणं | मज्झत्थत्तणं |
| परिच्चओं | परिच्चत्तं |
| अशुद्ध | शुद्ध |
| तुत्र | तुए |
| धीरओणं | धीरत्तणं |
| भूतो | भीतो |
| जगत् | जनः |
| ज्यातिः | ज्योतिः |
| अउसनं | अउसलं |
| अपराधिनि | अनपराधिनि |
| समुपस्तितेयं | समुपस्थितेयं |
| दानिवराअ! | दानवराअ! |
| निवत्तस्व | निवर्त्तस्व |
| कच्वी | कर्च्ची |
| कुक्कुराः | कुर्क्कुराः |
| हले | अले |
| मूर्हद | सूर्हद |
| नजन | नयन |
| मइ सलोइणीगुणे | मह सलोइणीत्तणे |
| छ | दु |
| आदिविसदिसे | अदिविसदिसे |
| सरोजिनी | न सरोजिनी |
| सरल मृदु शृगान | सरल मृदु मृगाल |
| अन्दा | अम्बा |
| सस्य | अस्य |
| तादेन | तातेन |
विराजसरोजिनी।
<MISSING_FIG href="../books_images/U-IMG-1726413357Screenshot2024-09-15204539.png"/>
प्रथमोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1726413415Screenshot2024-09-15204640.png"/>
यः सृष्टौ भवनामभाक्, पशुपतिस्त्राणे, हरः संहृतौ,
दैन्ये दिग्वसनो, महिम्निगगनं विश्वेश्वरः सम्पदि।
माङ्गल्ये च शिवः, समस्तविषयेष्वन्वर्थनामा, सदा
कल्याणं विदधातु वः स भगवान् योगीश्वरः शङ्करः॥१॥
अपिच—
विरलविमलशोभां भालवालेन्दुलग्नां
द्रुततरमपहर्तुस्त्रापयन् भालनेत्रात्।
निजसिततनुकान्तौ यो विमिश्नीकरोति
स मनसि जगदीशो जागृयान्नित्यशो वः॥२॥
नान्द्यन्तेसूत्रधारः। अहो! सानुनयमेव मानिनीमामन्त्रयामि।
नघष्याभिमुखमवलोक्य। आर्य्ये! परमकारुणिके! परिसमाप्त एव ते वेशविन्यासः, तर्हि चिरयसि कथमत्रागन्तुम्?।
अथ प्रविशति नृत्यन्तो गायन्तो व नटी।
दिने दिने चीयते मे मनोवेदना।
रङ्गगृहे नटसि नट ! शून्यगृहे शयाना।
नीलाकाशे विभाति शशी, पिकः कूजति दिशि दिशि
विमनाः केन प्रिय ! दिवानिशि?
वम गृहे वद चाटुमेषा मम कामना।
सूत्र। आर्य्ये ! अमुना गानरागेण सभासदां खलु विकचीकृतमेव हृदयसरोजं, तदभिनयेन केनचित् सरसमपि क्रियताम्।
नटी। अज्जउन्त ! कोणुउण अहिणओ तुह्माणं अहिमदी? (क)
सूत्र। आर्य्ये!
श्रीजानकीविक्रमनाटकात् परं
निर्म्माय काव्यञ्च “वियोगवैभवम्”।
सृष्टा त्रयोविंशसमा वयस्विना
या नूतना श्रीहरिदासशर्म्मणा॥३॥
तामेव वयमत्र विराजसरोजिनीं नाम नाटिकामभिनेतुमभिप्रेमः।
नटी। णूदणत्ति मे बेबदि हिअअं।
सूत्र। आर्य्यो ! वचनमिदं ते न साधु मन्ये। यतः—
सुरीतिः सरसा कान्ता सालङ्कारा च सद्गुणा।
असेविता नवा वाणी वामा चातिमनोरमा॥४॥
________________________________________________________________________
“कार्य्यतश्चोत्तमादीनां कार्योभाषाविपर्य्यय” इति साहित्यदर्पणात् बोधसुविधार्थं वर्तमानप्रणाल्या स्वरनिवेशार्थञ्च अत्रनाटिकायां गीतानि प्रायेच्चसंस्कृतभाषयैव रचितानि।
(क)आर्यपुत्र! को नु पुनरमिनयो युष्माकमभिमतः ?
(ख) नूतनेति मे वेपते हृदयम्।
नटी।एब्बं ण मए मन्दिदं, पुराणम्बि रूबअकइणं अन्तनब्बेणडबालहन्दि, विसेसदो णुदणं त्ति।(ग)
सूत्र। आर्य्ये! विषयेऽस्मिन्नयमतीव सावधानः। यदुक्तममुनैव—
“खद्योतोऽपि तमोहारी पद्मञ्च सवितुः सुहृत्।
पुष्पञ्च यदि कामास्त्रं तदाहं न कविः कथम्?"॥५॥
परन्तु प्रशंसा वा निन्दा वा सुजनदुर्ज्जनतानुसारिणी। तथाच—
यां सज्जनः सुरचनां चिनुते प्रशंसन्
तामेव दुर्ज्जनगणो विजहाति निन्दन्।
यत् सादरं पिवति यज्ञहविः सुरेन्द्रो
दूरात्तदेव विजहाति विरागतः श्वा॥६॥
अहन्तु मन्ये, तरुणीव मनोहारिणीइयमपि नाटिकाे सभासदां हृदयग्राहिणी भाविनोति।
नेपथ्ये। साधु नटनन्दन। साधु, समीचीनमिदं ते निदर्शनम्। तथाहि—
अतुलना ललनासु सरोजिनी
सहचरीधृतबाहुलता यदा।
उपवने विचरन्त्यवलोकिता
तदवधीरंचिरं हृदि चित्रिता॥७॥
__________________________________________________________
(ग)एवं न मया मन्त्रितं, पुराणमपि रूपककविम् आत्मगर्व्वेण उपालभन्ते, विशेषतो नूतनमिति।
सूत्र। आर्य्ये! स्वरसंयोगादनुमीयते, हरिदश्वोऽयं पुनरपि सरोजिनीदर्शनलालसया इदमेवमहेशमन्दिरमुपैति, तदमुष्य रहस्यस्थले नावयोर्युक्तमवस्थानम्।
इति निष्क्रान्तो।
प्रस्तावना।
अथ प्रविशति सचिन्तो राजा विदूषकश्च।
राजा। साध्वित्यादि श्लोकान्तपुनः पठित्वा। वयस्य ! नियतिरेवानुरागजननी जीवानाम्। यतः —
यां सर्व्वदोत्सुकमनाः परिचिन्तयामि
सा मां विलोक्य मलिनाननतामुपैति।
किं चन्द्रतां मयि, तथात्मनि पद्मिनीत्वं
नित्यं निवेदयति सा चतुरा स्वभावात्॥८॥
विदू। बअस्म ! मा उत्तम्म, एब्ब ज्जेब पच्चहं पलोएहि सरलहिअआ सा कदि दिणाई अणणुरत्ता चिट्ठिस्मदि?।(घ)
राजा। सविषादमात्मगतम्।अयि हतहृदय ! किमेवमविषयमनुधावसि? येन सा मामवलोक्यैव तदानीमधोमुखीजाता। अथवा कुतस्त्वामेवं ब्रवीमि? लक्ष्यनिज्ञिप्तो हि शरः न प्रायेण प्रतिनिवर्त्तते। भवतु तावत्। प्रकाशं। वयस्य ! आगच्छ, इदं प्राचीरान्तरालमेवालम्ब्यपुनरपि गन्धर्वराजनन्दिनीं प्रतिपालयामः। इति तथा कुरुतः।
__________________________________________________________
(घ)वयस्य ! मा उत्ताम्य, एवमेव प्रत्यहं प्रलोकय, सरलहृदया सा कति दिनानि अननुरक्ता स्थास्यति ?।
ततः प्रविशन्ति मालाहस्ताः सरोजिनी, चित्रलेखा,
वालिका, हेमप्रभा व गायन्त्यः।
चन्द्रचूड़ ! शान्तिकर ! कुरु करुणाम्
मालती यूथीविकासिनीयाति यातनाम्।
अतीतकलिकादशाम् उदिततरुणरसां
विनाऽलिमतिविरसां पश्य मलिनाम्।
शोषयति समीरणः, तापयति विरोचनः
दिवसे, निशि च पुनः याति मुद्रणाम्॥
राजा। अये ! लब्धं मयाश्वासस्थानम्।
विदू। किं त्ति ?(ङ)
राजा। पुनरपि दर्शनं सरोजिन्याः। अहो ! प्रथमावतीर्णयौवनानां हि कामिनीनां—
झनिति झनिति नादः सञ्चरनूपुरस्य
ललितचपलतायामीषदीषच्च लज्जा।
विविधनयनभङ्गी हेतुशून्यं स्मितञ्च
युवजनमदकार्य्येमद्यभूतान्यमूनि॥९॥
शशधरकिरणे कोमलता, सुवर्णे च वर्णमाधुर्य्यं, न चानयोः कियानपि गन्धः, सहकारकुसुमे पुनरेकं सौरभमेवेति विलासिनां चिरन्तनो विषाद एष एकयैवानया परिहृतः।
तथाहि—
__________________________________________________________
(ङ)किमिति?।
सुवर्णवर्णः, शशिमूर्त्ति मार्दवं
विलासतैलैरतिचारुसौरभम्।
स्वर्णेऽस्ति मूल्यं, तदिह त्वमूल्यता
गीतिर्विशेषाऽस्त्यधिका ततोऽखिलात्॥१०॥
अहो ! तरुणीनां गानशक्तिर्नाम निखिलजनमोहनविद्या। तथाच—
वर्णैरेव तनुस्तनोति नितरामाकर्षणं नेत्रयो-
र्लीलालोलगतिर्विलुम्पति मतिं धैर्य्यक्षयं कुर्वती।
गीतं ताललयाश्रितं सुललितं प्राक् चित्तमाकर्षति
मध्ये नन्दयते क्वचिद्व्यथयते सम्मोहयत्यन्तिमे॥११॥
चित्र। सहि ! कधंतुए दिणेदिणेमहसाञ्चणं लहूकरीअदि जेणअज्जबिअप्पाइं ज्जेब विल्लबत्ताइं उबचिदाइं।(च)
सरो। हला चित्तलेहे ! ब्भमेण मरुभूमीए रोबिदं बि बीजं उब्बन्तिअअबसरं गेह्णदि लोज्ञओ(छ)
चित्र। कुदो बा मालदीकुसुमसुउमारे तुह कलेबरे काढिणदा?।(ज)
__________________________________________________________
(च)सखि ! कथं त्वया दिने दिने महेशार्च्चनं लघुक्रियते? येन अद्यापि अल्पान्येव विल्वपत्राणि उपचितानि।
(छ)हला चित्रलेखे। भ्रमेण मरुभूम्यां रोपितमपि बीजं उद्दत्त्य अवसरं गृह्णाति लोकः।
(ज) कुतो वा मालतीकुसुमकुमारे तव कलेवरे कठिनता?।
सरो। असदि रससेए कुदो मिदुलदा लदाए?।(झ)
चित्र। मुहमण्डलञ्च सिसिरमधिदं बिअअरबिन्दं मलिणदा माबहदि?। (ञ)
सरो। दिणणाधदस्मणं बिया णहोदि अरबिन्दस्स बिआसो।(ट)
चित्र।मम्मितं। सच्चं तुए भणिदं।(ठ)
हेम। बहिणि ! ण किम्बि जाणामि तुह्माणं से आलाबस्म।(ड)
चित्र। हेम प्रभायाश्चिबुकं गृहीत्वा। ललिदे ! जोब्बणं दाब आअच्छदु तदो जाणिस्ससि।(ढ)
हेम। णहि णहि, कधेहि।(ण)
चित्र। अहिमदभत्ति दस्सणं बिणा मुहं से मलिणं जादंत्ति।(त)
हेम। भत्तुणाकिं होदि?।(थ)
__________________________________________________________
(झ)असतिरससेके कुतो मृदुलता लतायाः?।
(ब) सुखमण्डलञ्च शिशिरमथितमिवारावन्दंमलिनतामावहति?
(ट) दिननाथदर्शनं विनान भवति अरविन्दस्य विकासः।
( ठ) सत्यं त्वया भणितम्।
(ड) भविनि ! न किमपि जानासियुवयोरस्य आलापस्य।
(ढ) स्खलिते ! यौवनं तावदागच्छतु, ततो ज्ञास्यसि।
(ण) नहि नहि, कथय।
(त) अभिमतभर्त्तृदर्शनं विना सुखमस्या मलिनं आतमिति।
(थ) भर्ता किं भवति?।
सरोजिनी चित्रलेखा च परस्परं मुखमवलोकयतः।
राजा।सविस्मयोल्लासं। वयस्य ! आसां खलु विचित्रोऽयमालापः। चित्रलेखामभिलक्ष्य। चित्रलेखे ! बालिकां नाम हेमप्रभां शिक्षयितुं कथमीदृशं यतसे?। यतः —
उदयति रसिकत्वं यौवने कामिनीनां
सततमनपनेया मुग्धता शैशवे तु।
मधु भवति नलिन्याः पुष्पितायाः स्वभावात्
पतति तु कलिकाया न्यस्तमप्यात्मनैव॥१२॥
विदू। भो तूस्मींहोहि दाब मज्झे जप्पन्तो रसभङ्गं करेसि।(द)
हेम। णंकधेहि, भत्तुणा किं होदि ?।(ध)
चित्र। अदीक्खिदासि तुमं, ता एदं बेदबअणं ण शुणिदब्बं।(न)
सरोजिनी स्मितं करोति।
हेम। हला चदुरे ! तुह्मेकिं दीक्खिदे?।(प)
चित्र। दीक्खिदे ज्जेब। (फ)
हेम। केण?।(ब)
__________________________________________________________
(द) भोः तूष्णींभव तावत्, मध्येजल्पन् रसभङ्गं करोषि।
(ध) ननु कथय, भर्त्राकिं भवति?।
(न)अदीक्षितासित्वंतदेतत् वेदवचनं न श्रोतव्यम्।
(प)हलाचतुरे! युवां किं दीक्षिते?।
(फ) दीक्षितेएव।
(ब) केन?!
चित्र। मदणाचज्जेण।(भ)
राजा। चित्रलेखे ! यदि च कथितमेवात्मनोर्दीक्षाग्रहणं, तर्हि खलु तस्येमं प्रकारमपि किं न कथयसि?। यथा—
अविकलकलकण्ठः कोकिलस्तन्त्रधार-
श्चतुरगुरुरनङ्गः शिक्षिताशेषशिष्यः।
रसवति कुचकुम्भेपूजयन्निष्टदेवं
समुपदिशति यूनामन्तरे मूलमन्त्रान्॥१३॥
विदू। मन्तसिद्धि म्वि किं ण करेन्ति?। (म)
राजा। सस्मितं। पुरश्चरणादृते कुतो मन्त्रसिद्धिः?। सखे !
माधव !
इममेव युवा नवाङ्गना-
ललितालापरसं पिपासति।
युवकात्मनि यस्य सन्निधौ
नव पीयूषरसोऽपि नौरसः॥१४॥
हेम।जइ बितुम्हेदीक्खिदे, तहबि इत्थिओ ज्जेब, ता कधं वेदबअणंशुणुध भणध बा?(य)
__________________________________________________________
(भ) मदनाचार्य्येण।
(म)। मन्त्रसिद्धिमपि किं न कुर्व्वन्ति?
(य)। यद्यपि युवां दीक्षीते, तथापि स्त्रियावेव, तत्कथं वेदवचनं शृणुतो भणतोवा?।
चित्र।इत्थिआजणो बेदबअणं ण शुणेदि भणदि वा त्ति कहिं तुएजाणिदं?।(र)
हेम। मह भादुणो अज्झअण समए उबज्झाअसआसादो।(ल)
चित्र। अम्मो ! अहं पुरिसो ज्जेब।(व)
सरो। विहस्य सुखमवनमयति।
हेम। अधरंदर्शयति।
राजा। वयस्य ! किमीदृशी युवतीनामालापपरम्परा भवता पूर्वमपि श्रुता? तथाच—
निषिञ्चन्ती पूर्वं विरसहृदयं कौतुकरसै-
र्घनाकम्पे पश्चाद्वपुषिपुलकालिं विदधती।
तथा कर्षत्यन्ते स्थिरयितुमलं ह्रीश्च न यथा
विचित्रेयं काचिल्ललितललनालापलहरी॥१५॥
अपरञ्च प्रगल्भस्वभावा चित्रलेखा प्रकाशमेवालपति, गभीरस्वभावा सरोजिनी तु इङ्गितेनैवालापमेनमनुमोदते।
पश्य—
स्मितयतिश्रवणसमये कथयते पुनरधोमुखी च किञ्चित्।
लिखति नखेन मृत्तिकां लोलयति च लोचने क्वापि॥१६॥
सरोजिनीमवलोक्य सोल्लासं। माधव ! पश्य पश्य
लावण्यैर्लुलिता शरीरलतिका कान्तिः स्मरत्कान्तिकृत्
हेमस्तम्भनिभोरुयुग्मकुचयोः किञ्चिद्विशेषान्विता।
__________________________________________________________
(र)। स्त्रोजनोवेदवचनं न शृणोतिभणति वा इति कस्मिन् त्वया ज्ञातम्?।
(ल)। मम भ्रातुरध्ययनसमये उपाध्यायसकाशात्।
(ब)। अहो ! अहंपुरुष एव।
निर्गच्छत्यतिसूक्ष्मशुक्लवसनच्छिद्रान्तरालादिय-
मल्पाल्पाच्चलतः प्रवृष्टजलदात् ज्योत्स्नेव शीतद्युतेः॥१७॥
विदू। विविधभङ्ग्याविलोक्य। वअस्स ! एसा ण तुए अहिलसणिज्जा।(श)
राजा। केन वयस्य !
विदू। जेण एमा बिहिणा जादि चटुट्टएण णिस्मिदा।(ष)
राजा। केनैवं परिज्ञायते?
विदू। णं पेक्ख, एसा क्खुसरे कोइला, गमणे राअहंसी, रूबे उब्बसी, बअसि सोड़सी त्ति।(स)
राजा।अये ! भवादृशैः खलु क्रियमाण लोकोत्तरगुणशालिनामिह पदार्थानां प्रशंसा, निन्दायामेव परिणमते। तथाहि—
अल्पया नहि जनो निजशक्त्या
शक्तिमान् गणयितुं गुणराशिम्।
अन्नपुञ्जमिव वालविड़ालः
किन्तु दूषयति तं मुखदानात्॥१८॥
__________________________________________________________
(श) वयस्य !एषा न त्वया अभिलषणीया।
(ष) येन एषा विधिनाजतिचतुष्टयेन निर्म्मिता।
(स) ननु प्रेक्षस्व, एषा खलु स्वरेकोकिला, गमने राजहंसी, रूपे उर्वशी, वयसिषोडशीति।
अहन्तु मन्ये
इन्दोः कान्ति, हरिणनयनं राजहंसस्य यानं
रम्भास्तम्भौ, मदनधनुषी, कोकिलानां स्वरञ्च।
आनीय प्राग्विधिरभिमतान् स्रष्टुकामस्तु तांस्तान्
नारीरत्नं समसृजदिदं तत्परं कौतुकेन॥१८॥
अतएव ‘उत्तमा’ ‘उपमा’ ‘साधारणी’ चेत्यमी शब्दा नञ्पूर्वका एवैनामभिदधतीति।
सरो। हला चित्तलेहे ! एहि, उबहारमालिआंमहेसस्स अप्पेह्म।(ह)
चित्र। सहि ! तुह जीबिदं महेसस्सज्जेब मालिआंअप्पिअ जास्मदि, ण क्खु, तारिसं तरुणपुरिसं पाबिहिसि त्ति तक्केमि जेण एरिसीदुल्लहलालसा।(क्ष)
हेम।साक्रोशं। हला कुड़िले ! तुह गलेकिं ण अप्पेदि मालिआं? जेणतुए ज्जेब भणिदं, अहं पुरिसो ज्जेबत्ति (क)
सरोजिनीचित्रलेखे परस्पर मुखमवलोकयतः।
राजा। सोल्लासं। सखे ! श्रुतोऽयमालापस्त्वया?।
__________________________________________________________
(ह) हला चित्रलेखे। एहि, उपहारमालिकां महेशस्य अर्पयामः।
(क्ष) सखि ! तब जीवितं महेशस्यैव मालिकामर्पयित्वा यास्यति, न खलु तादृशं तरुणपुरुषं प्राप्स्यमीति तर्कयामि, येनईदृशो दुर्ल्लभलालसा।
(क)। हला कुटिले ! तब गले किं नार्पयति मालिकां? येन त्वयैव भणितम्, अहं पुरुष एवेति।
विदू। बअस्म जइएदाणं एरिसो ज्जेब सङ्कप्पो, तदो अहं गटुअ कधेमि, तुह गले मालिआंअप्पेदुत्ति।(ख)
इति गन्तुमारभते।
राजा। विदूषकस्य पाणिमाकृष्य।
दिवसो भविष्यति स मे कदा सखे !
प्रमदा यदेयमतिलोलपाणिना।
अवलोकमानजन-लोचनैः सह
स्रजमीदृशीं मम गले प्रदास्यति॥२०॥
सखे ! तमेवोपायमत्र चिन्तयामि येनाहममुष्या लोचनगोचरीभवेयम्।
विदू। जं तक्केमि, मालिआदाणसमए इमेहिं गाइदब्बं, तत्थ तुमं बि किम्बि गाइस्ससि।(ग)
राजा। तर्हि सहसा प्रागदृष्टजनदर्शनोद्विग्ना यदीमाःपलायन्ते।
विदू। अहिलासो बट्ठदि अमिअपाणे, केणअपिबीअदि त्ति ण जाणासि, अह्मो ! अअक्कान्त णिअड़ादो किं अन्तरा हुबितुं पारेदि लोहसलाआ?।(ग)
__________________________________________________________
(ख) वयस्य ! यदि एतासाम् ईदृशः सङ्कल्पः, ततः अहं गत्वा कथयामि, तव गले मालिकामर्पयतु इति।
(ग) यत् तर्कयामि मालिकदानसमये अभिर्गातव्यं, तत्र त्वमपि किमपि गास्यसि।
(ग) अभिलाषो वर्त्तते अमृतपाने, केन च पीयत इति न जानासि, अहो! अयस्कान्तनिकटात् किम् अन्तरा भवितुं पारयति लौहशलाका?
राजा। एवमिदानीमस्मि सम्मतिमान्।
सरो। अनया मालया विनिमयेच्छया शिव ! तव चरणमर्च्चये। इति शिवलिङ्गाय मालामर्पयति।
चित्र।योगेश्वरस्त्वमेवासि किमिमां न योजयसि योगहीनः किमिहासि तर्कये। तथा करोति।
हेम। सरोजिनीं हरिदश्व–करयोगान्मोदयस्व बालिकाहं सरलमर्थये। तथा करोति।
राजा। किञ्चिदुपसृत्य।
अयमहं हरिदश्वः सरोजिनीं मोदयस्व
प्रार्थना वः फलिता भावये॥
सर्व्वाः। सविस्मयसम्भ्रमं हरिदश्वंपश्यन्ति।
हेम।अह्मो ! को एसो?।(घ)
नेपथ्ये—
सरोजिनि? सरोजिनि? जननीखलु ते समुदितस्नेहविकारा समानीतसकलालङ्कारा—
अनलङ्कारचारूणि चम्पकाङ्गानि तेऽधुना।
पुनरुक्तिभयं हित्वा त्वामलङ्कर्त्तुमिच्छति॥२१॥
सरो।साभिलाषं हरिदश्वंपश्यति।
चित्र। सस्मितं। सहि ! सरोइणी हरिदस्ससंजोओ क्खुपहादंअबेक्खदि।(ङ)
__________________________________________________________
(घ) अहो! कएषः?।
(ङ) सखि ! सरोजिनी हरिदश्वसंयोगः खलु प्रभातमपेक्षते।
सरो। णामहेअमेत्त सदिसत्तणेण को क्खु संजोओ?।(च)
हेम। हला सहि ! अम्बा कञ्चुइणातुमं आमन्देदि, ता एहि घरं ज्जेबगच्छह्म।(छ)
सरो।शिवं हरिदश्वञ्च विलोक्य। चित्तलेहे ! पेक्ख मालिआए महेसस्म सुस्मीरिअत्तणं।(ज)
चित्र।साकूतं जनान्तिकं। हरिदस्सस्सत्ति भए।(झ)
सरो। तस्सकहिं मालिआ?।(ञ)
चित्र। तुए दादब्बा।(ट)
सरो। सरोषमिव। अत्तण उबमाणेण सब्बं पेक्खसि, ता अहं जामि। किञ्चित् प्रस्थाय स्वगतं।
पिअजण दस्मणलाहो सही बि चदुरा णिअड़े विदूसओ।
बिसमो समअक्खेबो असुलहो उण ईदिसो समत्रो॥२२॥
इति निष्क्रान्ता।
___________________________________________________________________
(च) नामधेयमात्रसदृशत्वेनकः खलु संयोगः?।
(क) हला सखि ! अम्बा कञ्चुकिना त्वामामन्त्रयति, तदेहि गृहमेव गच्छामः।
(ज) चित्रलेखे ! प्रेक्षस्व मालिकया महेशस्य सुश्रौकत्वम्।
( झ ) हरिदश्वस्यइति भण।
(ञ) तस्य कस्मिन् मालिका?।
(ट) त्वया दातव्या।
(ठ) आत्मनउपमानेन सर्वं प्रेक्षसे, तदहं यामि।
प्रियजनदर्शनलाभसख्यपि चतुरा निकटे विदूषकः।
विषमः समयक्षेपः असुलभःपुनरोद्धशःसमयः॥२२॥
चित्रलेखा हेमप्रभा च निष्क्रान्ते।
राजा। सरोजिनीप्रस्थानपथमवलोक्य सनिश्वासं।वयस्य ! यदहं मन्ये—
यथैव मम मानसं ननु सरोजिनीं प्रत्यगात्
तथैव किल मां प्रति व्रजति चित्तमस्या अपि।
गते सति शरद्वये निजनिजस्थले संस्थितं
शरासनयुगं यथा तनुयुगं तस्यवावयोः॥२३॥
नेपथ्ये—
अरे ! दुरात्मन् निवारितप्रवृत्त
प्राणस्पृहां परिहरन्न विशुद्धबुद्धे!
रे वञ्चक ! त्वमधुना मधुलाभलोभात्।
दन्तीन्द्रदन्तविधृतां नलिनीं प्रफुल्ला-
मुल्लासयन्निजमनो यतसे ग्रहीतुम्॥२४॥
विदू।आकर्ण्य सभयं हरिदश्ववस्त्राञ्चलमवलम्ब्य। बअस्स ! रक्खरक्ख मंत्र।(ड)
राजा। सवितर्कमाश्वास्य। मा भैषीः।
विदू।सकातरंहरिदश्वमाकृष्य। किं ण शुणेसि सरोइणीकामुअं तुमं ज्जेब आक्कोसदि।(ढ)
राजा। अये ! आगच्छ, प्राचीरान्तराले प्रतिपालयन्तौ पश्यावः किं वृत्तमिति। तथा कुरुतः।
__________________________________________________________
(ड)। वयस्य ! रक्ष रक्ष माम्।
(ढ)। किं न शृणोषि सरोजिनीकामुकं त्वामेव आक्रोशति।
ततः प्रविश्य कश्चित् खङ्गपाणिः पुरुषः “अरे दुरात्मन् !” इत्यादि
श्लोकान्तं पुनः पठति।
ततः प्रविश्य तादृमषरः पुरुषः। आः क्रूरमते ! आसन्नमृत्युविनष्टबुद्धे ! सिंहेऽपि वञ्चकभ्रमः?
रे क्षुद्र ! दुर्बलपशो ! मरणादभीत !
यं वञ्चकं कथयसे तमवेहि सिंहम्।
योऽयं भवादृशसहस्रगजेन्द्रयूथं
विद्रावयन् द्रवति रोषकषायिताः॥२५॥
प्रथमः। सरोषं। आः पामर ! यद्यपि पङ्गोर्गिरिलङ्घनवासना, पतङ्गस्य वह्निग्रासोद्यमः, मूकस्य च वक्तृभावः सम्भवति, तथापि न ते वारत्वगर्वः। अरे ! किमन्यत् —
दुर्द्दण्डाच्चापदण्डाञ्चलितघननदद्वाणदण्डैः प्रचण्डै-
र्दुश्छेदैश्छिन्नमुण्डस्तदनुशितशरैः खण्डखण्डीकृताङ्गः।
निष्प्राणः प्राणहीनः शकुनिपरिवृतो बान्धवैः क्रन्दनान्धैः
सम्प्रत्येव त्वदीयैः पशुरिव समरे दुष्ट ! दर्शिष्यसे त्वम्॥२६॥
द्वितीयः।सरोषावष्टम्मं। अरे रे मानवकुलकदन ! वृथा नाम विकत्थसे।
गर्वं खर्वजने च शीतपवनं हेमन्तकाले, पुन-
ग्रीष्मे वह्निकणं कुटुम्बकटुतां नो संसहन्तेजनाः।
तस्मात्त्वां विनिहत्य दुर्ज्जनतमं लोकेऽस्मि सन्तोषकृत्
दुष्टानां दमनाच्चशिष्टभरणान्नप्रीयते को जनः?॥२७॥
उभौ। तदागच्छ, समरोचितां स्थलीमेवाश्रयामः।
इति बेगेन निष्क्रान्तौ।
राजा। पुनः प्रविश्य।कीदृशेनान्तःकरणेन प्रस्थिता सरोजिनी? अपि वा पुनरपि सा नयनविषयिणो भवेत्? चित्रलेखा वा किं प्रबोधयति तां? कुतो वा सहसागतयोग्यं वीरयोः समरसमुद्योगः? सत्यमेवाहममुना विविधभावमहिम्नासमाकुलोऽस्मि।
विदू। पुनः प्रविश्य। बअस्स ! सरोइणीबिसओ ज्जेब एसो बीरसंलाबोत्ति तक्केमि।(ण)
राजा। ममापि तयैव भावनया—
भावेन तु सरोजिन्या वर्द्धिता तद्गता स्पृहा।
सहसा वीरगर्वेण खर्वीभवति सा पुनः॥२८॥
सविमर्षं। अनया च विपुलव्यापारणया—
दीर्घंनिश्वसितं मनो विचलितं, देहञ्च रोमाञ्चित-
मुष्णोऽसौ मलयानिलोऽपि ललितः, कामोऽपि वामो मम।
किं निश्चित्य सरोजिनीगृहमगात्, किं वा सखी तां वदेत्
सन्देहाकुलिता विवेकरहिता बुद्धिश्च वीरद्वये॥२८॥
इति निष्क्रान्तौ।
प्रथमोऽङ्कः।
__________
__________________________________________________________
(ण) वयस्य ! सरोजिनीविषय एव एष वीरसंलाप इति तर्कयामि।
द्वितीयाङ्के गर्भाङ्कः।
<MISSING_FIG href=”../books_images/U-IMG-1726634678Screenshot2024-09-18101423.png”/>
अथ प्रविशति सूत्रधारः।
हरे ! तव मुखे पदं किमु सरस्वती न्यस्यति?
विलोक्य तव मूर्द्धनि त्रिपथगां, कुतः श्रीश्चवा।
समस्तवपुषि स्थिता? त्वदुरषीश्वरीदर्शनात्
स कौतुकमिदं वचो हरहरीरितं पातु वः॥१॥
किञ्च—
जाह्नवीयमुनयोर्जलतुल्यौ शुक्लकृष्णवपुषौ प्रकृतीशौ।
राधिकानरहरीविहरन्तौसज्जनो जगति गायतु नित्यम्॥२॥
नेपथ्येगायति।
विजने किञ्जवनेवसति वनमाली
निनदति सुमधुरं दिशि दिशि कोकिलाली।
ईदृशसमये राधा समुपेत्य मृदुपदा।
पिदधातितस्य दृशौ स्वपाणिना चारुकेली॥
सूत्र। आकाशे। पारिपार्श्विक ! केन खल्विदं गीयते?। आकर्ण्य। किं व्रवीषि? सरोजिनीनिदेशात् गायन्तीचित्रलेखा हरिदश्वहरणाय मालवराजधानीमभ्युपैति, अये! अभिनवा किलेयं वार्त्ता, यत्पाणिपीड़ने वर एव कन्यां हरति, अत्र तु कन्या वरं हारयति, तदवश्यमेवेदं द्रष्टव्यम्। इति निष्क्रान्तः।
प्रस्तावना।
—o—
ततः प्रविशति चित्रलेखा।
चित्र। हेमप्यहे ! हेमप्पहे ! तुमं आमन्तेमि, बअणं मे सुणिअगच्छ।(क)
प्रविश्य हेमप्रभा। किं त्ति?।(ख)
चित्र। अहं जाब ओसहिं आहरिअआअच्छामि, दाब तुमं क्खणं बि सरोइणीसआसं णपरिहरिस्ससि।(ग)
हेम। सहि ! तं ज्जेब वुत्तन्तं तुए सुमणबिदह्मि,णं कधेहि, अज्जकदि दिणाइंजाब सरोइणौकम्बि ण आलबदि, किम्बि ण खाएदि, केबलं सूस्सहिअआबिअकिम्बि चिन्देदि।(घ)
चित्र। अदो ज्जेब ओसहिं आहरिस्सामि।(ङ)
हेम। हला घरबेज्जो किं ण चिइच्छदि?।(च)
चित्र। बहिणि ! घरबेज्जोएरिसंजणं णचिइच्छिदु अरिहदि।(छ)
__________________________________________________________
(क) हेमप्रभे! हेमप्रभे ! त्वामामन्त्रयामि वचनं मे श्रुत्वा गच्छ।
(ख) किमिति?
(ग) अहं यावदोषधिम् आहूत्य आगच्छामि, तावत्त्वंक्षणमषिसरोजिनीसकाशं न परिहरिष्यसि।
(घ) सखि ! तमेववृत्तान्तं त्वया स्मारितास्मि, ननु कथय, अद्य कति दिनानि यावत् सरोजिनी कमपि न आलपति, किमपि न खादति, केवलं शून्यहृदया इव किमपि चिन्तयति।
(ङ) अतएव ओषधिमाहरिष्यामि।
(च) हला ! गृहवैद्यः किं न चिकित्सति।
(छ) भगिनि। गृहवैद्यः ईदृशंजनं न चिकित्सितुम् अर्हति।
हेम। जइतुमं एरिसो ज्जेब चिइच्छिआ, तहिं बच्छरोइणं मह पिदामहं किं ण चिइच्छसि? तदा क्खु दे तादो मुद्दासदअं दास्सदि।(ज)
चित्र।सस्मितं। हला मुद्धे! तहिं मह अहिआरो णत्थि। जदो(झ)। संस्कृतमाश्रित्य—
अन्धकारमहनि प्रभाकरो
हन्तुमर्हति, निशागमे न तु।
एवमेव विषयस्य भेदतो
भिन्नभिन्नजनयोग्यता स्मृता॥३॥
बहिणि ! ता जाहि जाब, जेण सा सम्पदं एआइणी बट्टदि।(ञ)
हेम।जह आस्सबेसि।(ट)इति निष्क्रान्ता।
चित्र। संस्कृतमाश्रित्य अये ! प्रेषितास्मि खलु मनोभवतरलया सरोजिन्या हरिदश्वहरणाय। किन्तु तत्र सरोजिन्यामिव हरिदश्वेऽपि चेन्मनोभवस्याधिकारः, तदैव मे वासना भविता फलवती, इतरथा तु नहि खलु संयुज्यते सन्तप्तहेमशलाका
__________________________________________________________
(ज) यदि त्वमीदृश्वेवचिकित्सिका, तर्हि वात्सररोगिणं मम पितामहं कि न चिकित्ससि? तदा खलु ते तातो मुद्राशतकं दास्यति।
(झ) हला मुग्धे! तस्मिन् मम अधिकारो नास्ति। यतः —
(अ) भगिनि! तद् याहि यावत्, येन सा साम्प्रतमेकाकिनीवर्त्तते।
* “योषित्सखीवालवेश्याकितवाप्सरसां तथा।
वैदग्ध्यार्थं प्रदातव्यंसंस्कृतं चान्तरान्तरा॥ * इति साहित्यदर्पणम्।
शीतलहेमदण्ड इति सुप्रतीतमेव। अथवा कुत एष मे विषयः संशयस्य? न खलु वारिप्रवाहः तीरमेकतरमेव प्लावयते।विभाव्य सहासम्। अहो ! देवाङ्गनापि लौकिककलङ्कमाशङ्कते। यतः —
युगपदेव युवद्वयमुत्सुकं
श्रयति सा सहसा सरसा रतिः।
नतु बिभेति समेत्य समाजतः
परपुमांसमुपांशुसुपांशुला॥४॥
अये ! अप्सरसश्चित्रलेखायाः शिक्षितेयं गगनगमनविद्या समयविशेषादद्य फलवतीजाता। अथवा किमत्र केवलं—
न कापि शिक्षा विफलायते क्वचित्
महाफला स्यात् समये समागते।
हरौ समेते हरिणो विपद्यते
कपिः समुत्प्लुत्य तरौ हसत्यपि॥५॥
भवतु तावत्, यथाभिलाषमेव सम्पादयामि। इति छोटिकां तालत्रयञ्च दत्त्वा गगनगमनं नाटयति।
ततः प्रविशति राजा विदूषकश्च।
राजा। वयस्य ! जानासि किमर्थमविकलशशिकलाविमलाननाया अपि देव्यास्तादृशमा- ननमालिन्यम्?।
विदू। तुमं ज्जेब णिस्सेसि, जह मह अज्झबसाअंदेई ण जाणादि त्ति, किन्तु णिउणिआसा जा सब्बं ज्जेब जाणादि
त्ति तुमं ण बुञ्झसि। णं पेक्ख, जहिं दिबाअरो णलिणीए करं देदि, तहिं ज्जेब समए पढ़ग्गहीदा उसा पचिट्ठदि।(ठ)
राजा। तेन हि नूनं त्वमेव देवींवृत्तान्तमिममावेदितवानसि, यतो भवादृशेषु कृतो वाग्विन्यासः खधूपेषु विन्यस्तो वह्निरिव तत्क्षणात् परिस्फुरति।
विदू। एसो हि णेसग्गिओधम्मो पच्छस्मवत्तिणो जणस्म, जह सअं अकज्जंकटुअ परेसुं पउत्तावेदि। णवा कहं चोरेहिं राअघरं चोरिअ मण्डब्बे चोज्जं पमाणिदं।(ड)
ततः प्रविशति गगनादवतरन्ती चित्रलेखा।
चित्र। इयं सा राजधानी, तत्कतमस्मिन् प्रदेशे तावदवतरामि?। अङ्गुल्या निर्दिश्य। इयं विपणिः, असौ पशुशाला, इदं नाट्यमन्दिरम्, अमी होमगृहाः, असौ सुधाधवला सौधमाला, इयं वापी, इदञ्च प्रमोदोपवनम्। अये ! कथमसौ विदूषकेण समालपन्नुपविष्टस्तिष्ठति हरिदश्वः। अहो ! विदूषकेण सह यः संलापः सोऽवश्यमेव श्रोतव्यः। अस्मि च प्रच्छन्नविद्यावती, तदस्मिन्नुपवन एवावतरामि। इत्यवतीर्य्यैकान्ते स्थिता।
राजा। सखेदम्। वयस्य ! किं ब्रवीमि? अहं हि सम्प्रति—
__________________________________________________________
(ठ) त्वमेव निर्णयसि, यथा मम अध्यवसायं देवीन जानाति इति, किन्तु निपुणिका सायत् सर्वमेव जानातीति त्वंन बुध्यसे। ननु प्रंक्षस्व, यस्मिन् दिवाकरो नलिन्यैकरं ददाति, तस्मिन्नेव समये प्रथमगृहीता ऊषा प्रतिष्ठते।
(ड़) एष हि नैसर्गिको धर्म्मःप्रच्छन्नवर्त्तिनो जनस्य, यथा स्वयमकार्य्यं कृत्वा
परेषु प्रवर्त्तयति। नवाकथं चौरैःराजगृह चोरयित्वा माण्डव्ये चौर्य्यं प्रमाणितम्?।
देवीविरागमनुमत्य सरोजिनीं तां
प्रेप्सुर्विर्मोहविफलोविफलप्रयासः।
पाणिस्थहेम परिहाय चलन् सुमेरौ
दुर्भाग्यतोऽद्य मरुभूमिमुपागतोऽस्मि॥६॥
विदु। बअस्स ! दाणिं जाब सरोइणीए राअगन्धोबि तुए ण लक्खिदो?।(ढ)
राजा। रागगन्धोऽपि न लक्षितः। किन्तु स एव संशयविषयः। तथाच—
कुसुमं धनुः, कुसुममेव शरः,
कुसुमं गुणः कुसुमशस्त्रभृतः।
अपि लक्षिता कुसुमितैव वधूः
रतिसं लवोऽपि न तथापि कथम्॥७॥
चित्र। अहो ! स एवायमालापः, तद् यथार्थमेव निरणैषं यथा न खलु वारिप्रवाहः तीरमेकतरमेव प्लावयत इति।
विदू। बअस्स ! समस्सस, णक्खु, पज्जुस्मोअपदे पदंअप्पिअ अकिदत्थोहोदि।(ण)
राजा। सखे ! इतोऽपि छायेव प्रतिकूलतां नीता देवी, ततोऽपि च दूरवर्त्तिनीसरोजिनी, तत्कुतः समाश्वासो हरिदश्वस्य?।
____________________________________________________________
(ढ) वयस्य! इदानींयावत् सरोजिन्या रागगन्धोऽपि त्वया न लक्षितः?।
(ण) वयस्य ! समाश्वसिद्धि, न खलु प्रद्युस्नोऽपदे पदम् अर्पयित्वा अकृतार्थोभवति।
चित्र। अये ! नियतिवशेन प्रातःसमय इव दूरवर्त्तिन्यपि साम्प्रतमेवासन्नवत्तिर्नीभवेत् हरिदश्वस्य।
विदू। अह्मो! समअंअबेक्ख, ण क्खु केण बि मूलं गदुअ ज्जेब णारिएलरसो पिबीयदि।(त)
राजा। अये ! परोपदेशपेशल ! दुरतिक्रमो हि वियोगमुहूर्त्तमहिमा वियोगविधुराणाम्।
विदू। अह्मो! तुमं किं कड़ाहे तेलं अप्पित्र आगदो।(थ)
राजा। अये ! सुस्थान्तरा हि नाभिजानन्ति परक्लेशान्। अहन्तु—
तां जनन् हृदयंगतां प्रियतमां तच्चिन्तया तन्मय-
स्तस्याश्चारुकथां शृणोमि च पुनः पश्यामि चारु स्मितम्।
गाढ़ाश्लेषसुखान्यवाप्य च ततोऽपीच्छुर्यदालिङ्गितुं
शून्यं वीक्ष्यतदा प्रसारितकरो दग्धोऽस्मि चिन्ताग्निना॥८॥
विदू। जं तुमं एरिसं करेसि, ता जइ देई जाणिस्मदि।(द)
राजा। तदा साक्षाच्चण्डी भविता।
विदू। साहु, तदो तां पसारिअपडिस्सिसि।(ध)
__________________________________________________________
(त) अहो ! समयम् अपेक्षस्व,न खलु केनापि मूलं गत्वैव नारिकेलरसः पीयते।
(थ) अहो ! त्वं किं कटहितैलम्अर्पयित्वा आगतः?।
(द) यत् त्वमीदृशं करोषि, तद्यदि देवी ज्ञास्यति?।
(घ) साधु, ततस्तां प्रसार्य्यपठिष्यसि।
राजा। अलमनेन ब्रूहि तावत्, केनाहमधुना देवीप्रसादभूमिर्भवेयम्?।
विदू। किं कहेमि? सरोइणीदस्मणपहुदि तुमं इदो चिट्टसि, तदो गच्छसि, देई तु आगदुअसअणे तुमं अपाबिअआमिसालाहेण खाअणलोलुहा केसरिणी बिअभिसंकुप्पदि। (न)
राजा। तेनैव खल्वभिधीयतां कोपप्रशमोपायः।
विदू। अज्ज तुमं पढ़मं ज्जेब शअणे पड़िस्मसि, तदो जदा देई आगमिस्सदि, तदा तां अविस्ससि।(प)
राजा। केन वस्तुना?।
विदू। मन्महो जं जं पसूणसरं क्खिविस्तदि, तेण तेण ज्जेब तुमं पसून देईंअच्चिस्ससि। (फ)
चित्र। अये ! साधीयानयमुपायश्चिन्तितः।
राजा। सस्मितम्। अये ! न खलु सा देवीजातिः, न च अनुनयेन वा प्रयाति परितोषं,यस्याः खलु मान एव कोपः। तथाच—
पूर्वं यत्नाद्विविधकथिताऽप्यन्तिके नाभ्युपैति
शेषे नेत्राद्विसृजति जलं नासिकाशब्दयुक्तम्।
__________________________________________________________
(न) किं कथयामि सरोजिनीदर्शनप्रभृति त्वम् इतस्तिष्ठसि, ततो गच्छामि, देवी तु अगत्य शयने त्वामप्राप्य आमिषालाभेन खादनलोलुभा केसरिणीव भृशं कुप्यति।
(प) अद्य त्वं प्रथममेव शयने पतिष्यसि, ततो यदा देवो आगमिष्यति, तदा वाम् अर्च्चयिष्यसि।
(फ) मन्मयो यं यं प्रसूबशर क्षेप्स्यति, तेन तेनैव त्वं प्रसूनेनदेवीम्अर्च्चयिष्यसि।
आमर्षार्थं वपुषि च कृतं पाणिमुत्सार्य्ययाति
देवी न स्याद्भवति महिषीकिन्तु सा मानभङ्गे॥९॥
भवतु, अद्य भवद्विहितमुपायमेवावलम्बिष्ये।
नेपथ्येशायनिकःशङ्खध्वनिः।
तत्रैवच वैतालिकः पठति।
तूष्णीम्भूता दिवसमुखरा सुप्तलोका पुरीयं
एकैकश्च प्रहरिनिकरो वर्त्तते द्वारवृन्दे।
यातां रात्रीमपि परिहरन् याति चन्द्रः प्रतीचीं
जाता यूनां नयनपथगा स्त्रीसपत्नी च निद्रा॥१०॥
राजा। सचकितमाकर्णयते।
विदू। हन्त ! अज्ज बि गदो तुह अणुणअसमओ, जेण सासअणं आगदुअबिमणाअन्ती गदात्ति तक्केमि। (ब)
राजा। वयस्य ! तेन हि भवानितो निजनिलयमेव प्रतिष्ठताम्, अहमपि इत एव गच्छामि।
विदूषको निष्क्रान्तः। अन्तर्यवनिकोत्सारणम्।
ततः प्रविशति राजा चित्रलेखा च तमनुसरति।
राजा। पर्य्यङ्कमारुह्यसनिश्वासम्। प्रियतमे ! सरोजिनि ! पातुं खलु भवतीवदनचन्द्रिकां नयनं मे सततमेव साभिलाषम्। अपि च भवत्याः प्रथमदर्शनात् प्रभृति मम वैराग्यंविषये देव्याञ्च, अरुचिराहारे शरीरे च, शून्यता आशायां मनसि च,
__________________________________________________________
(ब)हन्त !अद्यापि गतस्तवानुनयसमयः, येन सा शयनमायश्वविमनायमाना यतेतितर्कयामि।
वियोगः सुखेन त्वया च, कण्टकमङ्गे त्वत्सङ्गेच नित्यमेव वर्त्तते। किञ्च मया हि दूरता भवत्याः समोपता दुःखस्य, अनुकूलमौत्सुक्यंविरोधी पुष्पधन्वा, रतिर्भवत्यां विरतिः कामे चानुभूयते। अयि ! अनधिगतपरक्लेशे ! मादृशे विवशजनविशेषे किमुतान्यथा किमपि संशेषे? येन हृदयं गतापि दर्शनं न ददासि। पश्य—
हृदये प्रतिभासि सन्ततं
व्यथकस्त्वद्विरहस्तथापि मे।
विषमे समये समागते
विगुणत्वं हि गुणोऽपि गच्छति॥११॥
चित्र। विशेषणं परिवर्त्तयन्तो सरोजिन्यपि भवन्तमेतावन्त्येव वक्ति।
राजा। अयि ! कुसुमायुध ! ननु मामेव पराजेतुं भवतस्तूणमद्य नूनं शरशून्यं भविता। तथापि—
सम्प्रेषयन् यदि रतिं हृदि मत्प्रियाया
मां सर्वदा प्रहरषे तदपीष्टमेव।
दाता विनिन्दति धनानि यदि प्रदाय
प्रार्थी प्रकुप्यति तदा न कदापि तस्मै॥१२॥
अहो ! अनङ्गोऽहमस्मि प्रहारपटुश्चेति मा कुरु गर्वं येन तावत्, अनङ्गः किल वसन्तो मलयानिलश्च, तयोरपि भवतो न्यूनं न खलु प्रहारपाटवम्। तथाच—
कुर्वन्नङ्गंसुशीतं मलयगिरिमरुत्तापयत्यन्तरञ्च
पुष्पामोदं वसन्तो दददपि कुरुते चेतसि त्केशजालम्।
तस्मात् कन्दर्प ! दर्पं परिहर नितरामात्मनैपुण्यजन्यं
श्रेयान्नश्रेयसोऽन्ते भवति हि भुवने कस्यचित् स्वाभिमानः॥१३॥
चित्र। अयि मालवेश्वर ! आसन्नविनाश एव ते विषाद एषः, तत्कथमेतावदाकुलोऽसि?। अथवा कादम्बिनीपरिपिहितप्रायो हि विवस्वान् विशेषेण तीक्ष्णो भवति। भवतु, विफलो मे विलम्बः, सम्प्रति हि प्रियसखी मे शतवृश्विकेनेव दश्यमाना, शून्यतयेव वक्षसि गृह्यमाणा, वह्निवृन्तेनेव वीज्यमाना—
नहि निजनिलये वा पुष्पशय्यातले वा
न पुनरुपवने वा सङ्गतौ वा सखीभिः।
मदनपवनवाणाविध्यमानेव दोना
न भवितुमिह शत्कास्थैर्य्यमाप्तुं कदाचित्॥१४॥
भवतु, निद्रापयामि तावदेनम्। मन्त्रपाठमभिनीय सर्षपान्विकिरति।
राजा। देवि ! अद्य भवतीमनुनेतुमेवाहमुपनीतोऽस्मि, किन्तु तथापि लोचनचुम्बिनी सुप्तिरेषा सपत्नीव भवत्याः प्रतिकूलतामाचरति। अहो ! सुषुप्तिर्नाम महदारामस्थानं शरीरिणाम्। तथाहि यस्याम् अस्पष्टमिव।
न क्लेशलेशो विषयस्पृहा च
मोहो नवा, नेन्द्रियवृत्तिरस्ति।
तत्त्वज्ञता कारणमन्तरेण
सा प्राणिनां मुक्तिरियं हि निद्रा॥१५॥
हन्त भोः। यत्नादपि न शक्नोमि लोचनयुगलमुन्मीलयितुम्।इति निद्राति।
ततः प्रविशति विषया देवो।
देवी।राजानमबलोक्य। अम्महे ! अज्जमहन्तं ज्जेब अनुग्गहं पेक्खामि, जेण दाणिं जाब इदो तदो परिमग्गिअबिजो णदिट्ठउब्बो, सो पढ़मं ज्जेब अज्जआगदो। अधबापरिच्चअणसमएहि णिम्मल्लस्स गन्धं गेहृदि साहओ भोदु, पेक्खामि दाब णिद्दिदो णबत्ति।(भ)इत्युपसर्पति।
चित्र। कथमियं देवी, तत् किमेनामपि निद्रापयामि? मैवं तावत्, नहि भवति युक्तिमतो परार्था खलु परवञ्चना।
राजा। स्वप्ने प्रलपति। अयि प्रियतमे ! गन्धर्वराजमन्दिनि ! सरोजिनि ! दयितापि निर्दयेव, स्पृश्यमानापि कृतमामेव कथमदृश्यमाना भवसि? किन्तु अस्मिन् विनिमये लाभस्ताव-न्ममैव। पश्य—
त्वं केवलंहृतवतीमदीयं
रूपं समस्तमपि ते हृतवानहन्तु।
त्वंतत्तुरक्षितवती निजसर्वगात्रे
प्रावेशयं तव तु रूपमहं हृदये॥१६॥
______________________________________________________________________
(भ) अम्महे! ( इत्याश्चर्य्यसूचकमव्ययम् ) अद्य महान्तमेवानुग्रहं प्रेक्षे, येन इदानींयावत् इतस्ततः परिमार्ग्यापि यो न दृष्टपूर्व्वः, स प्रथममैवाद्य आगतः। अथवा परित्यजनसमये हि निर्म्माल्यस्य गन्धंगृह्णाति साधकः। भवतु, प्रेक्षेतावत् निद्रितो नवेति।
चित्र। माशङ्ककम्। अये ! इयं देवी सन्निहिता, तत् किमिदं प्रलपति राजा?।यत् सत्येयं किल लोकवार्त्ता, यत्रास्ति वृकभयं तत्रैवाविर्भवति विभावरी। तन्मन्ये, सरोजिनी हरिदश्वयोगःसान्तराय इति।
देवी। सरोषविषादं। हिअअ! कीस तुह अज्जबि अज्जउत्तोबरिएरिसो सिणेहो? कमलिणीरसं पिबीअ केबलपक्खपबणेण सीदलीकादुंउज्जट्रेमहुअरे मुद्दणं ज्जेब जुत्तंकुमुदिणीए हद्दीजं सददं ज्जेब सुमरेमि, सो मं परिच्चअदि। (ब)
इति सजलनयना राजानं पश्यति।
चित्र।देवि ! युज्यत एव विषाद एष ते। परतरणिमधिरूढ़े हि कर्णधारे परिहीयमाणा पुनरात्मतरणिःप्रायेण परिभ्रमति।
देवी। सरोषम्। धूत्त ! धूत्त ! चिट्ठ दाब तुमं, अबिलम्बं ज्जेब तुह पड़िसोहं करेमि। चिन्तयित्वा। एब्बं दाब। लिपिं विन्यस्यराजहस्तेपत्रमर्पयति। भोदु, सुणुह्मिदाब परं किं पलबदि?। (म)इत्येकान्ते तिष्ठति।
चित्र।अहो ! रजनीं यावदितो न यास्यति देवी, तदद्य
__________________________________________________________
(ब) हृदय ! केन तव अद्यापि आर्य्यपुत्रोपरि ईदृशः स्नेहः? कमलिनीरसं पीत्वाकेवलपक्षपवनेन शीतलीकर्त्तुमुद्यते मधुकरे मुद्रणमेव युक्तं कुमुदिन्याः हा धिक् !
यं सततमेव स्मरामि, स मां परित्यजति।
(म) धूर्त ! धूर्त ! तिष्ठ तावत्त्वं अविलम्बमेव तव प्रतिशोषंं करोमि। एवं तावत्। भवतु, शृणोमितावत् परंकिं प्रलपति।
न किमपि भविता। भवतु वार्त्तामिमां सरोजिनीमावेदयामि तावत्। इति निष्कान्ता।
ततः प्रविशति सरोजिनी।
सरो। अये ! अनुचरसमालोचनापरिचितमिदं हरिदश्वशयनमन्दिरंयावत् प्रविशामि। अहो ! इयमस्मि सरोजिनी हरिदश्वहरणाय स्वभावचतुरां चित्रलेखां सम्प्रेष्य बलवत्सन्दिहाना संवृत्ता। येन हि आहारमाहर्त्तुं वुभुक्षमाणस्य नियोगः सम्पद्यते खलु निजनैराश्याय। विलोक्य। हन्त भोः ! स एवायं शयितस्तिष्ठति। सानुरागम् ! यदि मदीयेन चक्षुषा अमुं किलावलोकयन्ति लोकाः, तदायं ममेव तेषामपि प्रियतमो भवेत्। भवतु, यथा केवलं अयमेव मां पश्यति, तथा प्रच्छन्ना भवेयम्। इत्येकान्तमवलम्बते।
नेपथ्ये मध्यमयामिकः शङ्खध्वनिः।
राजा। चकितंनयनमुन्मील्य। अहो ! गभीरेयं विभावरी।
तथाहि—
एकैकः प्रहरी पुरीपरिसरे जागर्त्ति दीर्घं नदन्
कश्चित् कूजति कोकिलश्च, मधुलिट् पुष्पे वसन् गुञ्जति।
वातो वाति शनैः शनैः सनिनदं शुष्कञ्च पर्णं वहन्
विश्राम्यन्ति शरीरिणः सदयया क्रोड़े कृता निद्रया॥१७॥
शयनीयमवलोक्य। कथमद्यापि विलम्बते देवी? अथवा उपेत्य मामुपात्तनिद्रमवलोकमाना कृतमाना प्रतिनिवृत्ता भवेत्। अहो ! वामेति सान्वया खलु संज्ञा सीमन्तिनीनाम्। तथाहि—
स्वपिति च वामपार्श्वे दक्षिणेऽपि च समाचरति वामम्।
वीक्षते च वामदृशा महतीहि निपुणतां विधातुः॥१८॥
भवतु, पश्यामि तावत्। समन्तादवलोक्य सरोजिनीमङ्गुल्या निर्दिश्य
अये ! केयं लक्ष्मीरिव सौधस्य, चन्द्रिकेव लोचनयुगलस्य, महौषधिरिव मदनामयस्य चित्रिता कामिनीमूर्त्तिः? अहो ! स्पन्दनवतीयं न चित्रिता। तत् किमयं मे स्वप्नः? उत वा कामिनीमूर्त्तिरेवेयम्?। अहो ! रूपमिदम् अलौकिकमद्वितीयञ्चपरिलक्ष्यते। तथाहि—
शशिकला सकला तनुमण्डले
नयनयोरनयोरसितोत्पले।
विकसितञ्च सितं कमलं मुखे
समुदये च सुवर्णलता मता॥१९॥
तन्मन्ये—
जातः पर्वविधुर्विधुन्तुदभयान्मुक्त्वा कलङ्कंमुखं
भूते पङ्करुहः कुचौ च कलिके भीत्या हिमांशोः करात्।
कान्तः किन्तु पिवेत्तदेव हि मुखंमर्द्देत् करेणैव तौ
सर्वः क्लेशमुपैत्यदृष्टवशतो हन्तान्यजन्मन्यपि॥२०॥
सरो। वेपते।
देवी। सावष्टम्भमाकर्णयति।
नेपथ्ये। देबि! सारस्सदनन्दिनि ! गेह्नबिदूसअं, अह म्बि तुह बिस्मत्तिं रस्मो कधेमि। (य)
__________________________________________________________
(य) देवि ! सारस्वतनन्दिनि ! गृहाण विदूषकम्, अहमपि तव विज्ञप्तिं राज्ञः कथयामि।
देवी। सगर्वं निष्कान्ता।
सरो। सत्रासंविलोक्य निश्वस्य च। परापतति हि देवी परिचारिका तदत्रन मे सफलमवस्थानम्। हन्त भोः ! विघ्नबहुला हि प्रायशः फलसिद्धिः। आगमनमिदं मे दुःसमयदूषितम्।
तथाच—
मालवेशनिकटे प्रगल्भता
संशयोऽप्यजनि मे सखीजने।
दुर्ज्जनात् पथि महाभयं स्थितं
मन्मथेन विहिताहमाकुला॥२१॥
इति निष्क्रान्ता।
राजा। विलोक्य सविषादम्। हन्त ! हन्त ! प्रस्थितेयं लावण्यमयी मूर्त्तिः। किमियं सरोजिनी? अथवा सरोजिनीसमाना काचिदन्या? उत वा स्वप्न एव?।धिक् कष्टम् ! नाशक्नु वं किल वाचापि निर्णेतुम्। येन हि मादृशानाम्—
इच्छा वक्तुंभवति महती, किन्तु वक्तुंन शक्तः
शक्तौसत्यां स्फुरति हृदये किं ब्रवीमीति तर्कः।
चित्तेलज्जा, परजनभयं, देहकम्पोऽप्युपैति
यूनामेते दयितयुवतेरन्तिकेऽप्यन्तरायाः॥२२॥
प्रविश्य देवीपरिचारिका। जेदु जेदु भट्टा, देब! देई भबन्तं आमन्देदि। (र)
राजा। साशङ्कम्कुत्रदेवी?।
__________________________________________________________
(र) जयतु जयतु भर्त्ता देव ! देवो भवन्तमामन्त्रयति।
परि। पमदसोहे।(ल)
राजा। तदुपदिश पन्थानम्। स्वगतम्। न जाने देवी किमद्य विधास्यति?।
इति निष्क्रान्तौ।
गर्भाङ्कः।
—o—
द्वितीयोऽङ्कः।
ततः प्रविशति सपरिवारा देवीविदूषकश्च।
देवी। माहब ! कधेहिं किंणिमित्तं तुह बअस्सोडदासीणो सम्बुत्तो त्ति। (क)
विदू। भोदि ! साहु पुच्छिदोह्मि, पढ़मं दाब कधेहि कधं तुमं पुरिसोसि?। (ख)
देवी। सस्मितम्।केरिसं?। (ग)
विदू। जेण भोदी पहु, सो तुह आअत्तो त्ति। (घ)
देवो।धूत्त ! परिच्चअ दाब सढत्तणं, कधेहि कधं तुह बअस्सोउदासीणो सम्बुत्तो।(ङ)
विदू। भोदि ! णं संसारिणं ज्जेब तं पेक्खामि,
__________________________________________________________
(ल) प्रमदसौधे।
(क) माधव ! कथय किं निमित्तं तव वयस्य उदासीनः संवृत्त इति।
(ख) भवति ! साधु XXXXXप्रथमं तावत् कथय कथं त्वं पुरुषोऽसि?।
(ग) कीदृशम?
(ध) येन भवतीप्रभुः स तव आयत्त इति।
(ङ) धूर्त ! परित्यज तावत् शठत्वं कथय कथं तव वयस्यउदासीनः संवृतः।
थाकिवेनाजेण बअस्सेण दण्डो ण ग्गहीदो घरे खाअणं बिण परिच्चतं णबाणअरादो णिक्कन्तं। (च)
देवी। धूत्त ! दाणिं बि णकधेसि? हला चबलिए ! णं इमिणा रस्सिणा संजमाबेहि दाब। (छ)
चपु। रश्मिमाददाति।
विदू। (सार्त्तस्वरं) को को एत्थ चिट्ठसि? सीग्घंसीग्घंएहि, देई उच्छग्गंअकटुअ मं णरबलिं देदि। (ज)
ततः प्रविशति राजा मलिना च।
मलि। भट्ठिणि ! एसो भट्टा। (झ)
देवी चपलिका च। कथञ्चित् सम्भ्रान्ता।
राजा। आत्मगतम्।
नोलं निचोलयुगलं ललिताङ्गकान्ति
हेम्नो लतां मरकतांशरिवावृणोति।
चारुस्मितं कुटिलवीक्षणमाततं तत्
सा कीदृशीति मन एव विबुध्यते मे॥२३॥
__________________________________________________________
(च) भवति ! ननु संसारिणमेव तं प्रेक्षे, येन वयस्येन दण्डोन गृहीतः, गृहे स्वादनमपि न परित्यक्तं, नवा नगरात् निष्क्रान्तम्।
(छ) धूत्तं ! इदानीमपि न कथयसि? हलाचपलिके! एनमनेन रश्मिना संयमय तावत्।
(ज) कः कोऽत्र तिष्ठसि? शीघ्रं शीघ्रमेहि, देवीउत्सर्ममकृत्वा मां नरबलिं ददाति।
(झ) भर्त्रि! एष भर्ता।
विदू। बअस्स! तुह पाणभीदी बि णत्थि, जेण सअंज्जेब केसरिणीमुहे णिपड़िदोसि। (ञ)
राजा। सभयं देवीसुखमवलोक्य आत्मगतम्। इयमेकासाधारणविलक्षणा जातिः। तथाच—
सरले कुटिलाचारा सुलभे दुर्लभा पुनः।
मृदुले कठिना नित्यमपमाने च मानिनी॥२४॥
देवी। सुहागमणं महाराअस्स?। (ट)
राजा। विशेषतो भवतीदर्शनेन। स्वगतम्।अयमद्य नवीनोपचारः, यदार्य्यपुत्रपदे महाराजेति।
देवी।णूणद त्तिकधिदब्बे विसेसद त्ति कधिदं। (ठ)
राजा। सभूभङ्गं विदूषकमुस्वमवलोक्य।
विदू। मए क्खु, सरोइणीणामहेअं बि ण किदं, ता कीस तुए मह उबरि कड़क्खो करीअदि?। (ड)
देवी। मुद्ध! ब्वह्मण ! तुए सरोइणीणामहेअंबि ण किदं किन्तु महाराएण ज्जेब किदं, इट्ठमन्तं को विसुमरेदि?। (ढ)
__________________________________________________________
(ञ) वयस्य ! तवप्राणभीतिरपि नास्ति, येन स्वयमेव केसरिणीमुखे निपतितोऽसि।
(ट) शुभागमनं महाराजस्य?।
(ठ) न्यूनत इति कथयितव्य विशेषत इति कथितम्।
(ड) मया सरोजिनीनामधेयमपि न कृतं, तत् केन त्वया मम उपरि कटाक्षः क्रियते?।
(ढ) मुग्ध ! ब्राह्मण ! त्वया सरोजिनीनामधेयमपि न कृतं, किन्तु महाराजनेव कृतम्, इष्टमन्त्रं को विस्मरति?।
राजा। प्रिये ! मृषावचनरचना हि लोकानां लघुताहेतुः।
देवी। ता सच्चं, सच्चरअणातु ण लहुदाहेदु। (ण)
राजा। प्रिये ! प्रणयिनि जनेऽपि परिहासः समयविशेषादशनिसमानः।
देवी। परिहासो ज्जेब असणिसमाणो, णक्खु, सच्चकधा। (त)
राजा। देवि ! ईदृशी सत्यता कुतस्त्वया प्रतीता?।
देवी। चबलिए! तुबराए तुमं महाराअस्स पज्जङ्केपत्तं परिमम्निअआअच्छ। (थ)
चप। जं आणवेदि भट्टिणी। इति निष्क्रम्य पत्रमादाय पुनः प्रविश्य।भट्टिणि ! एदं तं पत्तअं।(द)
देवी। गृहीत्वा राजहस्तेपुनरर्पयति।
राजा। (गृहीत्वा) वयस्य ! वाचय। विदूषकस्यार्पयति।
विदू। पत्रमादाय। ता जाणामि तुमं एरिसो ज्जेबपण्डिदो। (ध)इति वाचयति।
कमलिनीमधु षट्पद! सम्प्रिवन्
स्पृहयसे किमु शैवलिनी मधु?।
__________________________________________________________
(ण) तत्सत्यं सत्यरचना तु न लघुताहेतुः।
(त) परिहास एवअशनिसमानः, न खलु सत्यकथा।
(थ) चपलिके! त्वरया त्वंमहाराजस्य पर्य्यडेपत्रंपरिमार्ग्यआगच्छ।
(द) यदाज्ञापयति भर्त्री।भर्त्रि! एतत् तत्पत्रम्।
(ध) तत् जानामि त्वम् ईदृश एवपण्डितः।
अपि ददर्श भवान् युगपत् क्वचित्
कमलशैवलयो स्फुटतां द्वयोः॥२५॥
भोदि ! तुए तु सोलोअ रअणासिक्खिदा, ता किं ण णाडअ रअणा सिक्खा बिकरीअदि?। (न)
चप। भट्ठिणि व्यह्मणो किं भणदि?। (प)
देवी। अज्जणूणंइमिणा ओदरिएणमोदअब्भमेण सिद्धिलड्डुअं भक्खिदं। (फ)
राजा।सहासं। देवि ! पदविन्यासवशेन मन्ये, यथार्थमेवाभिलक्षितं वयस्येन।
देवी।पत्रमवलोक्यात्मगतम्। अन्महे ! तुबराए णमए पदब्बदिक्कमो लक्खिदो। प्रकाशम्। बालिआए लिहिदे को णाम पदबिबेओ?। (ब)
राजा। इदं तावत् स्वभावसुलभं कौशलं ललनानाम्।
देवी। मा दाब मा दाब बिअत्येहि। (भ)
विदू। सभयमञ्जलि वहा। भोदि ! चण्डि ! तुए णिहिलं ज्जेब
__________________________________________________________
(न) भवति ! त्वया तु श्लोकरचना विक्षिता, तत् किं न नाटकरचनाशिक्षापि क्रियन्ते?।
(प) भर्त्ति ! ब्राह्मणः किं भवति?।
(फ) अद्य नूनमनेन औदरिकेणमोदकभमेणमिङ्घिन्तड्डुकं भक्षितम्।
(ब) अम्महे ! त्वरया न मया पदव्यतिक्रमो लक्षितः। बालिकया लिखितेको नाम पदविवेकः?!
(भ) मा तावत् मा तावत् विकत्थस्व।
असुरउलंउन्मूलिअकोबचरिदत्थओणंकिदं, ता दाणिं एक्कं बि णं बअस्सं मेदेहि। (म)
राजा। धिक् वैधेय ! प्रतिपादय तावत् स्थिरतामात्मनः, देवि ! किमिति?।
देवी। सढ़ ! सिबिणप्पलाबो ज्जेबपमाणं। (य)
राजा। स कीदृक्?।
देवी। स“अयि प्रियतमे ! गन्धवराजनन्दिनि।” इत्यादि श्लोकान्तं राजोक्तसन्दर्भं पठति।
राजा। इदमेव तवायथार्थं वचः।
देवी। चबलिए! किं भणसि ?। (र)
चप। अह्मेहिंबि तादिसं ज्जेबसुणिदं। (ल)
विदू। बअस्स ! एत्थ बिआरेबिआरपती ज्जेब तुह बादी (व)
देवी। भोदु दाब, सरोइणींपेक्खिअ बिअउन्मादेण बिअ “अये ! केयं लक्ष्मीरिव सौधस्य” इदो पहुदि पबन्धो केण उण कधिदो?।(श)
__________________________________________________________
(भ) भवति ! चण्डि ! त्वया निखिलमेव असुरकुलम् उन्मूल्य कोपचरितार्थत्वंकृतं तदिदानीम् एकमय्यनं वयस्यंमे दोह।
(य) शठ ! स्वपूप्रलाप एव प्रमाणम्।
(र) चपलिके! किं भणसि ?।
(ल) अस्माभिरपि तादृशमेव श्रुतम्।
(व) वयस्य ! अत्रविचारे विचारपतिरेव स वादी।
(श) भवतु तावत्, सरोजिनीप्रेक्ष्यइव उन्मादेन इव “अयेकेयं लच्छेXXबौधस्य इतः प्रभृति प्रबन्धः केन पुनः कथितः?।
राजा।आत्मगतम। अहो ! अस्मिन् खल्ववितथकथासमर्थने समाकुलोऽस्मि सवृत्तः। यतः —
एकस्य मिथ्यावचनस्य रक्षणे
सहस्रमिथ्यावचनप्रयोजनम्।
विहङ्गमं चालयितुं विहायसि
विहित्त्रिमं वस्तु व व्यपेक्षते॥२६॥
हन्त भोः ! यदिच शशिनि मलिनता, दिननाथरथेतिमिरसञ्चारः, हुताशने शीतलता, समीरणे च स्थिरता, सतां मनोऽनुकूला, तथापि सोमन्तिनीषु न स्वतन्त्रता। येन हि स्वतन्त्राणां रागो वदने, न पुनरात्मनि, अनुकम्पा शिरसि, न मनसि, सरलता भाषणे, नाचरणे, निर्म्मलता च विहसिते, न चान्तःकरण इति। किन्तु प्रणयिनि जने प्रतिपक्षतेव स्वयोषिति प्रखरता संसारविरागविधायिनीमादृशानां, विषमविधिना सैवमे सङ्घटिता। तथाच—
सन्ध्योपमा नियतरक्तमुखेन वामा
वामोपमं जनमनोहरणेन रत्नम्।
रत्नोपमश्च तमसां हरणेन सूर्य्यः
सूर्य्योपमेयमतितीव्रतया च भार्य्या॥२७॥
अहो ! स खलु स्वप्न एव मे निखिलानर्थमूलम्। येन हि—
साक्षाद्वीक्ष्यसरोजिनीमिव मया सप्रेम यत्प्रेक्षितं
यत्प्रालापि च चापलेन, मिलितुं गाढ़ोद्यमो यत्कृतः।
तन्मेसर्वमिवैन्द्रजालिकमभूद्देव्या च दृष्टं पुनः
स्वप्नोऽभूत् सुखसम्भवे विधिवशाद्दुःखे च साक्षात्क्रिया॥२८॥
देवी। महाराअ! तूस्मींभविअकिं तक्केसि?।(ष)
राजा।न किञ्चिदन्यत्, किन्तु भवत्या वाणीविन्यासकौशलमेव केवलं तर्कयामि।
देवी। महाराअ! तुह सरोइणी भोदु, भबं बा सरोइणीए, तदो ण मे असुहं, किन्तु लोअणेअङ्गुलींअप्पिअ जा करेसि ता ज्जेब असुहं। (स)
विदू। जानामि भोदि?जाणामि, बअस्सेण केबलंणाम किदं सरोइणीए तदो ज्जेब तुझेहिं बिससल्लताड़िदाहिं बिअ केसरिणीहिं उम्मत्तं, जइ लाहो भवे तदो। (ह)
इति राजानं प्रति मुष्टिं दर्शयति।
चप। ब्बह्मण ! तुमं दाब तूणींहोहि। (क)
विदू। भोदि ! अहं उण ब्बह्मणो मज्झत्थत्तणंकरेमि, ता सुण, जह सरोइणींपेक्खअन्तेण बिअबअस्सेण पलबिदं तुमं पड़ि बि तादिसं करीअदु, तदो तुमं पसस्म्महोहि। (ख)
__________________________________________________________
(ष) महाराज ! तूपाम्भूत्वा किं तर्कयामि?।
(स) महाराज ! तव सरोजिनीभवतु, भवान् वा सोरजिन्याः, ततो न मेअमुखं, किन्तु लोचने अङ्गुलीम् अर्पयित्वा यत् करोषि तदेव असुखम्।
(इ) जानामि भवति ! जानामि, वयस्येन केवल नाम कृतं सरोजिन्याः तत एव युष्माभिःविषशल्यताडिताभिरिव केसरिणोभिरून्मत्तं, यदि लाभो भवेत्, ततः।
(क) ब्राह्मण ! त्वंतावत्तूष्णींभव।
राजा। स्वगतम्। देवीदूषणमयुक्तं मे। येन हि सापत्न्यंनाम सीमन्तिनीनामनाशीविषविसृष्टम् अतरुरूपञ्चमहाविषम्। यतः —
यदा कान्तो रक्तामनुसरति काश्चित् प्रियतमां
तदन्या निर्वर्ण्य प्रभवति तदैवातिमलिना।
प्रतीचीव प्राचींदिनकरकरामर्षिततनुं
स्वतुल्यानां कश्चिन्नखलु सहते स्वाधिकसुखम्॥२९॥
हन्त ! विपदियं मे महतीसमासन्न। तथाच— हृदयापहारिणी सरोजिनी, प्रमोदहारिणी देवी, शरीरशोषिणी चिन्ता, अवशकारिणी भार्य्याधीनता, सत्यवादितानाशिनी च स्वप्नवाणी। अपिच हृदये उत्कण्ठा देवीभयञ्च, नयने सरोजिनीरूपम् अश्रु च, श्रवणे सरोजिनीगानं देवीतर्जनञ्च, शरीरे रोमाञ्चजालम् अस्वास्थ्यञ्च परिलक्ष्यत इति।
देवी। अज्जउन्त ! दिणणाधो हि पआसंज्जेब एक्कपोक्करिणीए पहूदाइंकमलाइंउप्फुल्लाइंकरेदि, तेण णताणं अस्मोस्मंभोदि मस्सरो, ता जइ तुमं मं बिस्मबिअसरोइणी कामुओ भबे, तदो बरणसूप्पेण तां। (ग) इति अश्रुमोचनं नाटयति।
___________________________________________________________________
(ख) भवति ! अहं पुनर्ब्राह्मणो मध्यस्थत्वं करोमि, तत् शृणु, यथा सरोजिनी प्रक्षमाणेमेव वयस्येन प्रलपितं, त्वां प्रत्यपि तादृशं क्रियतां ततस्त्वंप्रसन्नाभव।
(ग) आर्य्यपुत्र ! दिननाथो हि प्रकाशमेव एक पुष्करिण्याः प्रभूतामि कमलानि उत्फुल्लानि करोति, तेन न तेषाम् अन्योन्यंभवति मत्सरः, तद् यदि त्वंमां विज्ञाप्य सरोजिनीकामुको भवेः, तदा वरणशुर्पेणताम्-
विदू। स्वगतम्। अणुण्यं बि जाणादि देई?।(घ)
राजा। आत्मगतम्। अहो ! विचित्रं नाम चरित्रंललनानाम्। तथाहि—
नहि भवति विलम्बः केशपाशं ग्रहीतुं
न सपदि पतितुंवा पादयोरेककाले।
शिरसि पतति वृष्टिः प्राक् परं पादयोश्च
जगति हि तरलानामेष एव स्वभावः॥३०॥
प्रकाशं। प्रिये ! स्वप्नप्रलापविशकलितविश्वासेन मनसा नार्हसि विद्वेष्टुं विलपितुं वा। ननु कथयतु, भवतीमेव पृच्छामि, यदि स्वप्नेसमधिरूढ़गजेन्द्रः सुरेन्द्रोऽहं गच्छामि सत्यलोकमिति प्रालपम्, तदा किन्नु भवतीवैधव्यमाश्रयेत?।
देवी। तादिसो हि सिबिणो अह्मेहिं पच्चक्खीकिद सिबिणदो बिसदिसि। (ङ)
चप। भट्ठिणि ! गेह्णदु महाराओ सरोइणीं तेण का हाणी भोदिए?। (च)
विदू। चबलिए ! उजुअबुद्धिआतुमं सि, ता सुणु, सामिजुअलस्सअहिआरबासी पाआजणोकस्सब्बि करं ण देदित्ति सामी एक्कस्सअत्तणो ज्जेब अहिआरे पआंरक्खिदुं इच्छदित्ति। (छ)
__________________________________________________________
(घ) अनुनयमपि जानाति देवी?।
(ङ) तादृशोहि खप्नः अस्माभिः प्रत्यक्षीकृतस्वप्नात् विसदृशः।
(च) भर्त्रि! गृह्णातु महाराजः सरोजिनीं तेन का हानिर्भवत्याः?।
देवी। हला चबलिए! दाणिं जाब अस्मकज्जाइंउज्झिअ जा परिचज्जा किदा, ताए फलस्म, संसारसुहस्स, जीविदप्पओ अणस्सअ हाणी। (ज)
राजा। देवि! न खलु भविता भवत्याः कस्यचिदपि हानिः। येन हि मम—
प्रथमा त्वयि प्रियतमे! प्रियता
नहि सा विनङ्क्ष्यति परेऽपि गता।
अपरं तरुंस्वशिरसाश्रयते
व्रततिर्नं तु त्यजति मूलमपि॥३१॥
देवी। सुणिदं तुए चबलिए! अबस्संज्जेब अस्सपरजणे पिअदा गमिस्सदि त्ति इमिणा सद्दाबिदं, ता अह्माणं किं इमेहिं बाबारेहिं एहि गच्छह्म। (झ)
इति चपलिकामलिनाभ्यां सह निष्क्रान्ता।
राजा। देवि! प्रसीद, परिहाय च परिजनानुनयम् उच्छिद्य च प्रणयपाशम्, प्रदाय च समुद्वेगोपहारम्, निर्म्माय च लोचन-
__________________________________________________________
(छ) चपलिके! ऋजुकबुद्धिका त्वमसि,तत् शृणु, स्वामियुगलस्य अधिकारवासी प्रजाजनः कस्यापि करं न ददातीति स्वामी एकस्य आत्मन एवअधिकारे प्रजां रक्षितुमिच्छतीति।
(ज) हला चपलिके! इदानीं यावत् अन्यकार्य्याणि उज्झित्वा यत् परिचर्य्याकृता, तस्याः फलस्य, संसारसुखस्य, जीवितप्रयोजनस्य च हानिः।
(झ) श्रुतं त्वया चपलिके! अवश्यमेवास्य परजने प्रियता गमिष्यति इत्यनेन शब्दितं, तदस्माकं किमेभिर्व्यापारैःएहि गच्छावः।
सलिलं, विस्मृतचिरानुरागा दर्शितनवविरागा जनितविषमवियोगा, चपलेव चपलगमना, अमायामिनीव मलिनमुखी, वाराणसीगङ्गेव दक्षिणविमुखी किमर्थं चलितासि?।
नेपथ्ये। तुमं ज्जेब भिस्मलिङ्गओ ईदिसो। (ञ)
विदू। बअस्स! पीदरसा खज्जुरिआ बिअ एसा गच्छदु, अणस्मामिट्ठउब्बां पहादे सूज्जो बिअसरोइणींगेह्य। (ट)
राजा।मूर्ख! त्वमसि मे कथमभिज्ञःक्लेशस्य?। न खलु परः परक्लेशमवगच्छति।
नेपथ्य देवी मायति।
भ्रान्तहृदय! त्यज विषयवासनां
क्लान्त! कुरु विषय क्षणिक भावनाम्।
ऋतुराजो वसन्त आसीदशोकहेतुः
साम्प्रतमपरागतो ददाति यन्त्रणाम्॥
राजा। आकर्ण्य। वयस्य! सत्यमस्मि साम्प्रतमाकुलतमः? यतः—
सरोजिनीप्रणयपरीप्सु मे मनः
चिरप्रियाप्रणय इतोऽनुकर्षति।
उषस्यलिंसरसि रसं सरोरुहः
पिपासुकं कुमुदरसस्मृतिर्यथा॥३२॥
________________________________________________________________________
(ञ) त्वमेव भिन्नलिङ्गमः।
(ट) वयस्य! पीतरसाखर्जूरिकेव एषा गच्छतु, अन्यथामृष्टपूर्व्वांप्रभातेसूर्य्यइव सरोजिनीं गृहाच्च।
सचिन्तम्। सखे! परिहाय च तवान्तिकम्, उपेत्य च विश्राममन्दिरं, निद्राय च सहसा किं प्रालपं, किंवा समाचरं, न खलु तत् सम्प्रति स्मरामि। किन्तु अद्य सरोजिनीमवलोकितवानिव शयनसौधे।
विदू। सहासम्। इदो परं सब्बंज्जेब सरोइणीमअं पेक्खिस्ससि। (ठ)
राजा। न खलु वयस्य! सत्यमेवाद्य कृतार्थोऽस्मि सरोजिनीं पश्यन्।
विदू। तह बि दाणिं तुमं अकिदत्थो, जेण पढ़मं णेत्तसंजोओ, तदो हिअअसंजोओ, अज्ज तु सोहसंजोओ, जह उण बक्खोसंजोओ हुबिस्सदि, तहःतुमं किदत्थो। (ड)
राजा। सखे! नूनमद्य स्वप्ने प्रलपितं मया, येन हि देवी विरक्ता।
विदू। परिच्चत्तंतुएधीरत्तणं, जेण हलिजोइदस्स बिअ बिसहस्स तुह केबलं बट्ठदि एक्कचिन्ता। (ढ)
राजा। माधव! महीयान् खलु धैर्य्यलोपी विरहमहिमा, दुःसहश्च तरुणानाम्। अपिच—
_____________________________________________________________
(ठ) इतः परं सर्व्वमेव सरोजिनीमयं प्रेक्षिष्यसे।
(ड) तथापि इदानींत्वमकृतार्थः, येन प्रथम नेवसंयोगः ततो हृदयसंयोगः, अद्य तु सौधसंयोगः, ययापुनः वक्षःसंयोगो भविष्यति, तथात्वं कृतार्थः।
(ढ) परित्यक्तं त्वया धीरत्वं, येन हलियोजितस्य इव वृषभस्य तवकेवलं वर्त्तते एकचिन्ता
प्रकृतिजमपि धैर्य्यंविप्रयोगो भिनन्ति
यदिति तदुपसर्गस्यात्मनो हि स्वभावः।
गणगत-युजिधातुर्योगमर्थं व्यनक्ति
गमयति खलु तस्य व्यस्तमर्थं विशब्दः॥३३॥
विदू। णं पुच्छेमि, सच्चं तुए सअणसोहे सरोइणी पेक्खिदा?।(ण)
राजा। किं व्रवीमि? सैव लावण्यमयीमूर्त्तिः, स एव हासः, तदेव सरलावलोकनं कथं सरोजिनीनेति प्रतीतिः।
विदू। तहिं कथं परिच्चत्ता?।(त)
राजा। तत्र खलु देवीपरिचारिकेरितां गिरमाकर्ण्य प्रदीपशिखेव तस्मिन्नेवान्तर्हिता।
विदू। तहिं क्खुतुह देई सुहाघड़ीए मुहपिहाणिआ सम्बुत्ता। (थ)
राजा। अहो! सा खलु मे विरोधिनीसंवृत्ता। येन हि अवलापि स्वाधीना, भीरुरपि महाराजविद्रोहिणी, दक्षिणानुगतापि वामा, मनुष्यकन्यापि महिषी, वरवर्णिन्यपि विवरवर्णिनी, गृहस्थापि दण्डधारिणी, सजलनयनापि रुक्ष्मदृष्टिः, पतिविदूषिकापि विदूषकविद्वेषिणी। हन्त भोः सरोजिनीलाभे क्ववा मनसि महानन्दः, नयने लावण्यमयी स्वर्गीयमूर्त्तिः, कर्णे
__________________________________________________________
(ण) ननु पृच्छामि, सत्यं त्वया शयनसौधे सरोजिनी प्रेक्षिता?।
(त) तर्हिकथं परित्यक्ता?।
(थ) तर्हि खलु तवदेवी सुधाघट्या सुखपिधानिका संवृत्ता।
मधुमिश्रितं भ्रमरगुञ्जितम्, अधरे मधुराधरसुधा, वक्षसि च कमलकोमलं कलेवरं, क्ववा देवीतर्ज्जने मनसि विषादः, नयने सत्रासदृष्टिः, कर्णे केसरिणीगर्ज्जनम्, अधरे मालिन्यं वक्षसि च महती कम्पा। तेन हि ममाशालता फलोन्मुखी जाता, प्रायेण देवी च तस्याः कर्त्तरिका।
विदू। सरोइणी आअदा बा सिबिणप्पहाबो बत्ति संसओ ज्जेब मे ण णस्सदि, जेण हि जइ सरोइणी आअदा, तह देबीए पेक्खिअ किं ण संजमिदा?।(द)
राजा। अये! नैनमर्थमवगच्छन्ति भवादृशाः। पश्य—
अन्यैर्जनैरविदिता प्रविवेश याऽस्मिन्
तां बद्धुमर्हति कथं प्रकृतैव देवी?।
या चेतनेत्यजनने, मरणे च याति
योगीजनोऽपि नहि पश्यति कुत्रचित्ताम्॥३४॥
स्वगतम्। अहो! चपले खल्वस्मिन् ब्राह्मणकुमारे वचनगोपनं मे वायसस्य भोजनीयगोपनमिव स्वस्यैव केवलमप्रत्यक्षाय। भवतु, एवं तावत्। प्रकाशम्। सखे! देवीवशतापन्नतया खल्वहमपुरुषोऽस्मि संवृत्तः। पश्य—
कन्या सा स्वयमेव मे गृहमगादन्तः पुरे किन्त्वहं
सा दूरं निशि निर्भया गतवती, भीतोऽस्मि देव्या अहम्।
_______________________________________________________
(द) सरोजिनी आगता वा स्वप्नप्रभावो वेति संशय एव मे न नश्यति, येन हि अहि सरोजिनी आगता, तदा देव्या प्रेक्ष्य किं न संयमिता।
सा मां पश्यति सस्मितं, परजनाशङ्की स्थितोऽहं पुन-
रप्राणापहरः सदा तनुभृतां मृत्युः पराधीनता॥३५॥
वयस्य! तदमुष्मिन् शेषरात्रे त्वमितः शिक्षितां ललितललनामिव लोचनचुम्बिनीं निद्रां भजस्व, अहमपि तावत् देवीं प्रसादयामि।
विदू। बअस्म! पसादणं कादुं अवसादणं मा करेहि। (ध)
इति निष्क्रान्तः।
राजा। हन्त! किमत्र विधेयम्? देवीविसर्ज्जने गृहशून्यता, देवीरक्षणे पुनरधिवासःसरोजिनीविरहस्य, क्वसरोजिनीत्यन्वेषणे उन्मत्तताप्रतीतिः, सरोजिनीलालसात्यागे जीवनविफलता, सरोजिनीस्पृहायाञ्च सततस्त्रीमूर्त्तिचिन्ता, उभयपरित्यागे च गृहत्याग एव युक्तः, किन्तु तथापि इदमत्रावधेयं,—सरोजिनी- मनन्विष्यन्नपि मन्मथेनैवोन्मत्तीभवेयं, तन्मे सरोजिनीमन्विष्यत एव उन्मत्तीभावः श्रेयान्। किन्तु—
अन्वेषणीयैव तथा सरोजिनी
यथा परो वेत्ति न वित्तमोऽपि सन्।
येषां प्रवर्द्धेत यशश्चकर्म्मभिः
कार्य्यञ्च सिध्येत त एव पण्डिताः॥३६॥
इति निष्क्रान्तः।
द्वितीयोऽङ्कः।
___________________________________________________________________________________
(४) वयस्य! प्रसादनं कर्त्तुम् अवसदनं मा कुरु।
तृतीयोऽङ्कः।
<MISSING_FIG href=”../books_images/U-IMG-1726834425c.png”/>
ततः प्रविशति राजपण्डितः शान्तदेवोपाध्यायः
सम्भवतश्च शिष्यवर्गः।
शान्त। अयि विवेकविहीनहृदय! किमनया विषविषमया विषयवासनया?
एकोऽपि कार्य्यवशतो विविधं स्वरूपं
यो नाटकाभिनयकृज्जनवद्बिभर्त्ति।
एकैकशोरविरिवप्रतितोयभाण्डे
यो भाति सर्वविषयेषु च तं स्मर त्वम्॥१॥
शिष्यः। उपाध्याय! कं नाम तमवगच्छामः?।
शान्त। वत्स! ब्रह्मेति वेदान्तिनः, नित्य-शुद्ध-बुद्ध-मुक्त-स्वभाव इति सांख्याः, महेश्वराद्यन्यतम इति पातञ्जलाः, मन्त्रमय इति मीमांसकाः, परमात्मेति नैयायिका वैशेषिकाश्च, सर्वज्ञ इति बौद्धाः, लोकाचारसिद्ध इति चार्वाकाः, नारायण इति स्मार्त्ताः, हिरण्यगर्भ इति पौराणिकाः, शब्द इति वैयाकरणाः, शक्तिरिति शाक्ताः, विष्णुरिति वैष्णवाः, शिव इति शैवाः, सूर्य्य इति सौराः, गणेश इति गाणपत्याः, गाॅड् इति म्लेच्छाः, रहिम इति यवनाः, अन्येऽपि वहवः सम्प्रदाया अपरनामानमीश्वरमामनन्ति।
शिष्यः। तर्हि मादृशाः, किं नामानमीश्वरमुपासीरन्?।
शान्त। वत्स! श्रुतिनाथ!
एकं हि वस्तु स्थितमैन्द्रजालिकं
यथाजनःपश्यति भिन्ननामकम्।
एकं तथैवेश्वरमत्र मानवः
भिन्नाभिधं वक्ति समाजभेदतः॥२॥
तत् किल निजवंशपरम्परापरिप्राप्त एवेश्वरः समुपासनीयः।
अपरः शिष्यः। उबज्झाअ! अहं क्खु सत्तं पढ़िदुं बाबारिदो ह्मिजणएण, ता किं पढ़मं पढ़िदब्बं?। (क)
शान्त।वत्स! सुशीलोऽसि नूतनवयाश्च तत् प्रथममिदमवधातव्यम्।
वेदे सुन्दरमन्दिरे स्थितिमतां मोक्षार्थनिर्द्देशिनि
द्वारं व्याकरणं, पुराणममलो दीपः प्रकोष्ठः स्मृतिः।
स्तम्भाश्चास्तिकदर्शनानि, रसवत् काव्यञ्च नव्या वधू-
श्चार्व्वाकं स्वरु, रुन्दुरुर्जिनमतं, ज्योतिः कपाटं स्मृतम्॥३॥
तत् किल शब्दशास्त्रमेव प्रथममध्येतव्यम्।
ततः प्रविशति कटिदेशे वरणशूर्पमादाय विदूषकः।
विदू। विलोक्य। हंहो! तिणखाअणेण परितित्तो बिअ बिड्टो बिसहोमुहं चालअन्तो चिट्ठदि उबज्झाओ सन्तदेबो, ता णं उवसप्पिअ पुच्छेमि। उपसृत्य। ओसरध अप्पपण्डिदाओ! ओसरध। (ख)
_______________________________________________
(क)उपाध्याय! अहं खलु शास्त्रंपठितुं व्यापारितोऽस्मि जनकेन, तत् किं प्रथमं पठितव्यम्?।
(ख)हंहा! तृणखादनेन परितृप्तः इव वृद्धो वृषभः मुखं चालयन् तिष्ठति उपाध्यायः शान्तदेवः, तदेनमुपसृत्य पृच्छामि। अपसरत अल्पपण्डिताः। अपसरत।
श्रुति। माधव! अपि कुशलमुदरेण सह भवतः?।
विदू। हंहोअप्पपण्डिद! उदरस्मकुसलं किं पुच्छसि? जेण चउद्दसबारमेत्तभोअणेण पादुआए बिअउदरस्मः चम्ममेत्तं अबसिट्टं, तदो मह बिअउसलंआपड़िदं। (ग)
श्रुति। (विहस्य) अये! धर्म्मशास्त्रे खलु वारद्वयाधिकं भोजनं निषिद्धमस्ति, तत्कथं चतुर्द्दशवारभोजनम्?।
विदू। हंहो अप्पपण्डिद! एरिसस्सरस्मोअहिआरे ण बसामि, जेण चउद्दसबारं ज्जेब अस्मं लहामि। किन्तु कहिं बि लड्डुअं, कहिं बि सक्करां, कहिं बि मोदअंखाएमि। भोदु, ओसर अप्पपण्डिद! ओसर। इत्युपाध्यायमुपसर्पति। (घ )
शान्त। विलोक्य। माधव! वैवाहिकशूर्पवहने किं प्रयोजनम्?।
विदू। उबज्झाअ! तुह्मेकेबलं कुदो णिमन्तणपत्तं आअदं, कहिं बा हुबिस्सदि ति चिन्तेध, इदो जा महाराओ उम्मत्तीभूदो, देई बि भहाराअघरे पोक्करिणीं खगादि त्ति ण पेक्खध।(ङ)
____________________________________________________
(ग) हंहो! अल्पपण्डित! उदरस्य कुशलं किं पृच्छसि?येन चतुर्दशवारमात्रभोजनेन पादुकाया इव उदरस्य चर्म्ममात्रमवशिष्टं, ततो ममापि अकुशलमापतितम्।
(घ) हंहो अल्पपडित! ईदृशस्य राजोऽधिकारे न वसामि, येन चतुर्दशवारमेवअन्नंलभे। किन्तु कस्मिन्नपि लड्डुकं, कस्मिन्नपि शर्करां, कस्मिन्नपि मोदकं खादामि। भवतु अपसर अल्पपण्डित! अपसर।
शान्त। अये! प्रकृतमिदानीमभिधीयताम्।
विदू। उबज्झाअ ! तत्थभअदा महाराएण कहिं बि बाराणसीणअरे सरोइणीत्ति गन्धब्बकस्मआ पेक्खिदा, राअसहाबसुलहेण कामेण अहिलसिदा अ परिणेदुं, देई तु बिरोहिणी जाणिअ सब्बंज्जेब पउरमहिलाअणं तां बरीदुं णिबारेदि त्ति। (च)
शान्त। तर्हि किमिति भवान् शूर्पधरः संवृत्तः?।
विदू। तुह सआसादो बबत्थां ग्गहीदुं, णं कधेहि, अहं इत्थिआ भविअ इमिणा सूप्पेण महाराअपरिणीदां सरोइणीं बरीदुं सक्कणोमि णबत्ति, जेण देईणिसिद्दो णाबरो महिलाअणो आगमिस्सदि त्ति। (छ)
शान्त।सहासम्। अये! किमिति प्रष्टुं नापरंपण्डितमवाप्तवानसि?।
________________________________________________________________________
(ङ) उपाध्याय! यूयं केवलं कुतो निमन्त्रणपत्रमागतं, कस्मिन् वा भविष्यतीति चिन्तयत, इतो यत् महागज उन्मत्तीभूतः, देव्यपि महाराजगृहे पुष्करिणींखनतीति न प्रेक्षध्वे।
(च) उपाध्याय! तत्रभवता महाराजेन कस्मिन्नपि वाराणसीनगरे सरोजिनीति गन्धर्वकन्यका प्रेक्षिता, राजस्वभावसुलभेन कामेन अभिलषिता च परिणेतुं, देवीतु विरोधिनीज्ञात्वा सर्वमेव पौरमहिलाजनं तां वरीतुं निवारयतीति।
(छ) तव सकाशात् व्यवस्थां ग्रहीतुं, ननु कथय, अहं स्त्रीभूत्वा अनेन शूर्पेण महाराजपरिणीतां सरोजिनींवरीतुं शक्नोमि नवेति येन देवीनिषिद्धो नापरी महिलाजव आगमिष्यतीति।
विदू। सच्चं उबज्झाअ! मए क्खु सब्बं ज्जेब उक्कोअ मन्दिरं परिमग्गिअ बि णाबरो धम्मसत्तपण्डिदो लद्धो। (ज)
शान्त। धिङ् मूर्ख! पण्डिताः किमुत्कोचहराः?।
विदू । कोबि कोबि। (झ)
शान्त। अये! समासन्नासु जीवनविपत्सु पापमपि केचिदङ्गीकुर्वन्ति। येन हि सम्प्रति दुष्करा समुपस्थिता सुधीजनानां जीवनयात्रा। तथाच —
चुल्लीं वह्नियुतां विधाय वनिता म्लानानना ध्यायति
बाला भोजनभाजनं निदधतः पश्यन्ति मातुर्मुखम्।
विप्रं दासमुरीकरोति न जनो, नास्ति प्रभूणांदया
नष्टंदेहबलं, गृहेऽपि न धनं कः स्यादुपायस्तदा॥४॥
अपिच—
वाल्ये वेतसताड़नं, प्रियतमाविश्लेषणं यौवने,
प्रौढ़े भ्रूकुटिदर्शनञ्च धनिनां पाश्चात्यशिक्षावताम्।
वार्द्धक्येपठितुं शिशोर्गतवतो विच्छेदजा यन्त्रणा
सर्वक्लेशनिदर्शनार्थमसृजज्जातिं बुधानां विधिः॥५॥
सविषादम्। अहो वत! दिने दिने मन्दभाग्यतया खल्वार्य्यजातीनां चिरन्तनं सकलमेव लुप्तप्रायम्। तथाहि सम्प्रति पाश्चात्यशिक्षाव्रतिनां युगान्तरप्रवर्त्तकानामिव नूतनधनिनाम्—
______________________________________________________________
(ज) सत्यन्, उपाध्याय! मयाखलुसर्वमेवउत्कोचमन्दिरं परिमास्योपि नापरो धर्म्मशास्त्रपण्डितो लब्धः।
(झ) कोऽपि कोऽपि।
गाढ़ा भक्तिर्विसदृशजने, देवतायां विरक्ति-
र्नामावल्यां भ्रकुटिरचना, वर्म्मसु प्रेमदृष्टिः।
हित्वा देवादृतनवरसामार्य्यभाषां सुधावत्
आस्ते भाषास्वपसदगणैश्वर्वितासु प्रवृत्तिः॥६॥
अपरः शिष्यः। उबज्झाअ! तहिं अह्मे मिच्चुम्बि अङ्गीकरिअ णपढ़ह्म सत्तं। (ञ)
श्रुति। उपाध्याअ! तदिमंनूतनसम्प्रदायमवगच्छतो मे वलवद्विषस्ममन्तःकरणम्।
शान्त। वत्सौ! न खलु विचिकित्सितव्यंश्रीमद्भिः। येन हि—
लघूं वा हेयं वा स्मरतु वदतु प्राकृतजनो
विना वित्तंदेहो भवतु च कृशः सीदतु मनः।
स्वधर्म्मार्थं तत्राप्यु चितमधुना शास्त्रपठनं
जनान् पृष्ठप्रेक्षानपि शिशिरसूर्य्यस्त्यजति न॥७॥
विदू। उबज्झाअ! उबज्झाअ! एसा किं तुह्माणं बबत्था? ता तुमं चिट्ठ, अहं जामि। अहं मणू, अहं बिस्मामित्तो, अहं जस्मबक्को, अहं जं करेमि तं सत्तं, ता अहं इत्थिआ भबिअ सरोइणीं बरइस्मं। (ट)
इति विविधभङ्ग्यानिष्क्रान्तः।
___________________________________________________________________
(अ) उपाध्याय ! तर्हि खलु वयं मृत्युमपि अङ्गीकृत्य न पठामः शास्त्रम्।
(ट) उपाध्याय ! उपाध्याय ! एषा किं युष्माकं व्यवस्था?। तत् त्वं तिष्ठ, अहं यामि, अहं मनुः, अहं विश्वामित्रः, अहं याज्ञवल्क्यः, अहंयत् करोमि तत् शास्त्रं, तदहं स्त्रीभूत्वा सरोजिनींवरिष्यामि।
शान्त। विलोका। अहो! वैधेयनिर्गमेन शान्तिमापन्नाः स्मः। ननु वत्सौ! पश्यतं खलु सूरो दूरमधिरूढ़ो गगनस्य, तन्मध्यन्दिनमापतितम् आह्निकसमयश्चेति गच्छामः।
श्रुति। यदाज्ञापयत्युपाध्यायः।
इति निष्क्रान्ताः सर्वे।
विष्कम्भकः।
ततः प्रविशति सचिन्तः सुवाहुः।
सुवाहः। अहो! यथार्थेयं किल लोकधारणा,यत्साधारणी खलु गङ्गा सतीच रमणीति। येन हि—
हिमशिखरिशिखान्ताज्जाह्नवी सन्निपत्य
पथि जलधिमलब्ध्वाऽप्यन्यसिन्धुंन याति।
दयितमलभमाना नापरं सत्यपि स्त्री
भुवि कथमथवा स्यात् पावनी स्पर्शमात्रम्॥८॥
अये मूढ़हृदय! त्वं खलु प्रियया विप्रलभ्यसे, मनोरथेन विड़म्ब्यसे, मादृशा परेण परिहस्यसे, सरोजिन्या च प्रत्याख्यायसे, तथापि न ते निवृत्तिरस्ति, न वा विषादः, तन्मन्येवराहशिक्षिता तवेयं गतिः। तर्ज्जनीमुत्तोल्य। अये खलशिरोमणे! मीनकेतन! अपराधिनि मयि किमिति निरन्तरमेव प्रकटयसि प्रहारपाटवम्?। अथवा युक्तमेतत् । यतः —
अहं किल क्लेशकरोऽस्मि दानवः
भवान् पुनर्देवगणेषु गण्यते।
विरोधिता तेन हि नः पुरातनी
न शत्रुता जातिकृता प्रशाम्यति॥९॥
कृताञ्जलिः। हे अलौकिकयोधकुशल! प्रद्युम्न! स्तौमि भवन्तं, शतमपि प्रहर मां, किन्तु सरोजिनीमपि लक्षय। भवतु, अद्य प्राणानपि पणीकृत्य सरोजिनीग्रहणे प्रवर्त्तिष्ये।
इति किञ्चिदन्तरालं गच्छति।
नेपथ्ये गायति।
देवी मम मनोरथपूरणे वैरिणी जाता
दिने दिने आशालता क्रमशो विलयं गता।
मनसि मनसि योगः देहयोः पुनर्वियोगः
भवति न सुखभोगः कामेन विकलीकृता॥
ततः प्रविशति भयचकिता सरोजिनी।
सरो। अहो! सुसदृशीखलु वृत्तिः प्रबले स्रोतसि निपतितानां वेतसानां स्त्रीजितानाञ्च पुरुषाणाम्। तथाच—
अवलापि वलेन यं जनं
स्ववशं वेशयते निरन्तरम्।
भविता यदि सोऽपि पूरुषः
सुतरां हन्त! हता स्वतन्त्रता॥१०॥
सम्प्रति तु। मालवेशेत्यादिकं पुनः पठति। यत् किल मन्ये, तस्य रूपप्रवाहे सर्व्वाः खलु प्लवन्ते युवतय इति। समन्तादवलोक्य परिक्रामति।
सुवाहुः। सरोजिनीं विलोक्य सोल्लासम्। हन्त भोः! समुपस्थितेयं चिन्तामात्रप्रमोहकारिणी विषादवैरिणी कामिनीमूर्त्तिः। अहो! निर्म्माणनैपुण्यंविधेः। तथाच—
ऊरू स्तम्भौ, विरलविरला लोममाला च भित्तिः,
द्वारं दृष्टिः, निधिरपि कुचश्छादनं केशपाशः।
दीपो वक्त्रं, नयनकुसुमे भ्रूलते तोरणे च
वामानाम्नी रतिसहचरस्योत्तमाऽट्ठालिकेयम्॥११॥
अहो! कविभावनापि सम्यगिमामक्षमा वर्णयितुम्। तन्मादृशस्तावदेतावन्मन्यते, यत् उदयमानः पूर्णिमाचन्द्रमाः, मकरन्दपूर्णञ्चनवारविन्दं, इयञ्च कामिनीमूर्त्तिः, हरणार्थं त्रितयमिदं विधिनिर्म्मितं तत्र प्रथमस्तिमिरहरणे, द्वितीयं भ्रमरपिपासाहरणे तृतीया च धैर्य्यहरणे यूनाम्। कथञ्चिदुपसृत्य।अयि प्रियतमे! सरोजिनि। चिरादपि मे दृष्टिपथं गतासि, तत् परिषिञ्च मे वचनामृतेन मदनानलशोषितं मनः।
सरो। भयेन कम्पते।
सुवाहः। विलोक्य। अयि गन्धर्वराजनन्दिनि। किं नाम ते भयकारणम्? प्रतिपादय तावदात्मनः स्थैर्य्यम्, अथवा युक्तं खल्विदम्। यतः —
तृष्णार्त्ते मधुपे प्राप्ते कम्पते च सरोजिनी।
स चापि चिरविश्वासात् पतन् पिवति तन्मधु॥१२॥
सरो। समन्तादवलोकयति।
सुवाहुःअयि विलासिनि! किमिति विफलं दिशं विलोकयसे? न खलु ते किमपि भयकारणमस्ति। पश्य—
दानवेषु राजत्वंसुश्रीकेषु च नास्ति मे द्वितीयः।
प्रियतमे किमतःपरं लिप्सनीयमस्ति कुमारीणाम्॥१३॥
सरो। मुखमवनमय्य। ण क्खुसाहुजणो परकलत्तं अहिलसदि। (क)
सुबाहुः। हन्त गन्धर्वकन्ये! यां खलु भवतीमात्मनोऽप्यात्मीयतमां मन्ये, कथं सा परकलत्रमिति?।
सरो।ण क्खु हरिदस्सदो अस्मोमह अत्तजणो। (ख)
सुवाहुः। विहस्य। अयि मुग्धे! इयमेव भवतीनां विवेकविहीनता। तथाच—
एकमेव दिवि यौवनं वयः
एकमेव च सुखं निवासिनाम्।
आमनन्ति किल नश्वरं सुखं
मर्त्यधामनि मनीषिणो नृणाम्॥१४॥
अधुना विवेचय दानवमानवयोः कतरस्ते साधीयानिति।
सरो। अधोमुखी। सदी इत्थिआ हि एकस्सिं अत्ताणं अप्पिअअस्मस्मिंवीदराआ होदि। (ग)
________________________________________________________________________
(क) न खलु साधुजनःपरकलत्रमभिलषति।
(ख) न खलु हरिदश्वतः अन्यो मम आत्मजनः।
(ग) सतीस्त्री हि एकस्मिन् आत्मानम् अर्पयित्वा अन्यस्मिन् वीतरागा भवति।
सुबाहुः। सरोजिनीं विलोक्यात्मगतम्। अहो! अस्याः खलु नयनभावेन प्रत्याख्यानवचोऽपि मे मनोहरम् । अपिच—
सुगन्धिमुखपङ्कजे स्फुरति तीव्रमप्यक्षरं
विशालपुलकावली लसति देहवल्यामपि।
किमद्भुतमिदं चिरस्मरणमद्य पश्याम्यह-
मियं किमुत वा भवेदभिनवावलानां गतिः॥१५॥
प्रकाशम्।
प्रार्थकः स्वयमुपागतः प्रिये!
तं विहाय कथमन्यमिच्छसि?।
अन्तिकस्थमपहाय पादपं
दूरगं किमु लतावलम्बते?॥१६॥
सरो। अत्ता ज्जेब मह णत्थि। इति स्तोकं स्तोकं चलति। (घ)
सुबाहुः। सखेदम्। अयि सरलवालिके! उपसंहर चरणसञ्चारणं, परिवर्त्तय हृदयावेगं, शिथिलय हरिदश्वानुरागं, प्रदेहि किङ्करे प्रणयप्रतिवचनं, वितर तृषातुरे सरसकटाक्षवर्षं, निष्ठुरतमे! प्रस्थितायां खलु त्वयि त्वदेकशरणं नूनमेनं जनं निहनिष्यति चिरविपक्षी मनोभवः।
सरो। सभयं चलत्येव।
सुवाहुः। चरणे प्रणिपत्य। गन्धर्वराजनन्दिनि! पश्य त्वदर्थमेव विशीर्णमिदं मे कलेवरम्, उत्सन्नप्रायञ्च जीवनं,तन्मयि शरणापन्नेभवतु भवतीकरुणापरायणा। येन हि आश्रितेषु दया,
______________________________________________________________________________
(घ) चात्मैव मम नास्ति।
साधुषु सौहार्द्दं, प्रणयिषु प्रेमिकता, इमानि किल महतां लक्षणानि।
सरो। अपरां दिशमवलोक्य। अहह्मिबालिआ, ता कुदो महत्तणं। (ङ)
सुबाहुः। निर्द्दयतमे! त्वदर्थमेवाहमस्मि पदे पदे प्रमत्तभावमापन्नः। यतः —
आस्ते मे नगरी बधूश्चसुषमा, राज्यञ्च निष्कण्टकं
उत्फुल्लोपवनोपशोभिततटा वापी च सत्पङ्कजा।
शान्तः साधुसुधीजनः परिजनः, सेना च हस्त्यश्वभाक्
हित्वैतानि हसामि रोदिमि पुनर्नृत्यामि जल्पाम्यपि॥१७॥
अपच त्वदर्थमेव—
देहात् कान्ति, -र्विचलमनसः शान्तिरैकान्तिकीमे
नष्टा शक्तिः सततविकलादात्मनो देवता च।
तस्मिन् देहे भृशमलिनता, तन्मनस्याकुलत्वं
तस्मिन्नात्मन्यपि च भवती वर्त्तते दौर्बलञ्च ॥१८॥
अन्यच्च—
स्वरे श्रोत्रं, नेत्रं तव निरुपमेरूपनिकरे
समालेख्ये पाणि—श्चरणयुगमन्वेषणविधौ।
समासक्तंचित्तंप्रणयनिगड़े, साम्प्रतमहं
त्वदर्थं जातोऽस्मि प्रणयिनि! विहीनेन्द्रिय इव ॥१९॥
___________________________________________________________________
(ङ) अहमस्मिबालिका, तत्कुतो सह त्वम्?।
सरो। स्वगतम्। किं एत्थ करणिज्जं? अहह्मिएअलिआ अबला, दूरे बन्धुअणो, दाणबणिअड़े अ णिप्फला खेअरगदी, ता सच्चं ज्जेब अज्ज समापड़िदो बिसमो समओ। अदो ज्जेब कधेन्ति पण्डिदाओ, जं जादीविसरिसं कम्म विसमं फलं उप्पादेदि त्ति। मह तु पढ़मं बिसरिसं आअमणं, तदोवि एआइणीए। भोदु एत्थजीबणं जाब मह णिब्बन्धो। प्रकाशम्। दानबराअ! णिबित्तो होहि। (च)
सुवाहुः। लक्ष्यनिक्षिप्तसायकस्यविना विनाशंकुतो निवृत्तिः?
सरो। इमिणा तुह णिन्दा बिबत्ती बा आबड़िस्सदि। (छ)
सुवाहुः। चतुरिके! न खलु मादृशा निन्दां विपत्तिं वा गणयन्ति।
सरो। अदो ज्जेब बिबज्जन्ति। (ज) इति किञ्चित् किञ्चित् चलति।
सुबाहुः। अपरिणामदर्शिनि! गिरिषु शतसमीरणाहतिरिव अस्मासु का नाम विपत्तिः?। तेन खलु इदमिदानीं भवत्याःविवेचनीयं, यत् त्वमेकाकिनी तरुणी, अहञ्च दानवराज इति।
_____________________________________________________________
(च) किमत्रकरणीयम्? अहमस्मि एकलिका अवला, दूरेबन्धुजनः, दानवनिकटे च निष्फला खेचरगतिः, तत्सत्यमेव अद्य समापतितः विषमः समयः। अतएव कथयन्ति पण्डिताः, यत् जातिविसदृशं कर्म्मविषमं फलम् उत्पादयतीति। मम तु प्रथमं विसदृशमागमनं, ततोऽपि एकाकिन्याः। भवतु अत्रजीवनं यावत् मम निर्व्वन्धः। दानवराज! निवृत्तो भव।
( छ) अनेन तव निन्दा विपत्तिर्वाआापतिष्यति।
( ज) अतएव विपद्यन्ते।
सरो। भयाकुलापि सरोषम्। तुए बि एदं बिबेअणिज्जं, जं एआइणीए तरुणीए ज्जेब दाणबो बाबादीअदि त्ति। (झ) इति द्रुतं कम्पमाना चलति।
सुबाहुः। द्रुतमुपसृत्य। गर्वपरवशे! न खलु भवत्याः कोपवचनमपि मे विरक्तिंजनयति, तदालप प्रियवचसा, निवर्त्तय च गतिम्। इत्यतिसन्निधानं गच्छति।
सरो। सरोषम्। दाणबाहम! मा परामिस मं। (ञ)
सुवाहुः। अये! विसदृशाचारिणि! मा विकत्थस्व।
इति ग्रहीतुमुपक्रमते।
सरो। सत्रासकम्पम्। णअरपालआ! परिच्चाअध भीरुं। (ट)
इति मूर्च्छति।
नेपथ्ये। मा भैषीः।
सुबाहुः। किमेतत्?। इति साशङ्कं समन्तादवलोकयति।
ततः प्रविशति द्रुतं सशस्त्रो वीरसिंहः।
वीर। समन्ताद्विकटं विलोक्य? अरे! किमत्र पिण्डीभूतः कलिकालः? अथवा किमिदमराजकं राज्यम्? रक्षिशून्यं वा स्थानमात्रम्? निर्वीरं वा सेनामण्डलम्? नास्ति वा धर्म्मसञ्चारः?यदमी प्रादुर्भवन्ति पापात्मानः। सरोषं सुबाहुमवलोक्य। अरे! स एव न त्वमसि दानवाधमः सुवाहुः? निवर्त्तस्व पापात्निवर्त्तस्वपापात्।
___________________________________________________________________________________
(झ) त्वयाऽपि एतद्विवेचनीयं, यत् एकाकिन्या तरुण्यैव दानवो व्यापाद्यत इति।
(अ) दानवाधम! मा परामृश माम्।
(ट) नगरपालकाः! परित्रायध्वंभीरुम्।
सुवाहुः। स्वगतम्। इदमुपस्थितमनवधानताफलं, यत् प्रसह्मप्रवर्त्तनसमये अनुनयेन प्रवृत्तं मया, तदिदानीं सेनापतिमपराजित्य नास्ति मे मनोरथसिद्धिः। परावृत्य सगर्वम्। अये! दानवाः किं न धारयन्ति वीरदेहम्? न वा स्वाधिकृतं राज्यं पालयन्ति? अथवा त्वादृशान् वीरकीटानुपेक्षन्ते? यत्वमीदृक्विकत्थसे।
वीर। आः कदर्य्य। निर्मर्य्याद। कामयमानोऽपि जननीकल्पां राजरमणींन लज्जसे मुखं दर्शयितुम्?। अरे मूर्खतम! जानासि न?
महीपालपत्नी, गुरुस्त्री, स्वमाता,
सतीस्त्री च साधारणी वा समाना।
तदिच्छुंबलाद्देवपेयं पिपासुं
यथासारमेयं तथा शिक्षयामि॥२०॥
सुबाहुः। साहसम्! आः! भवानेव जगति मनुर्याज्ञवल्क्योवा, तदु यं कमपि शिक्षयितुं क्षमः। अरे? यदियं मम रमणी अतएव राजरमणी।
अजानतां हि मूर्खाणां शास्त्रं शास्त्रार्थजल्पनम्।
दृष्टञ्चवीरकीटानां वीरत्वंवाक्यमात्रतः॥२१॥
वीर। साक्रोशम्। आः पाप! दानवापसद! परकलत्रलम्पट! त्वमेवाशरणामाक्रामसि बालिकां, वाक्यमात्रेण वीरत्वं नाम सम?। यतः —
शूरः समाश्रितजनं रमणीं शिशुञ्च
नाक्रामति क्वचन पामर! धर्म्मभीरुः।
सिंहो हि धावति महाद्विरदं प्रमत्तं
गर्वात् पुनर्ग्र सति कीटशिशुन्तु भेकः॥२२॥
सुवाहुः। अरे रे साधुम्मन्य! छद्मना सरोजिनीलालस! यदि पुनर्दृष्टान्तमात्रेण वीरत्वं, तदा खलु कवय एव वीराः, दीर्घध्वनिरेव वा चेत् वीरत्ववीजं सन्ति किल जलदाः। यदि वा मन्यसे अभिनयमेव वीरत्वहेतुं तदा रूपकाभिनेतार एव वीराः। अरे !
व्याजेनैव सरोजिनीं दनुसुतादेनां ग्रहीष्याम्यह-
मेषा ते किल कामना फलवतीन स्यादभूमीरुहा।
माहात्म्येन गरुत्मता बलवता स्वर्गात् समासादिता
सौगन्धैशलभाय मुग्धमतये कस्मै प्रदत्ता सुधा?॥२३॥
तदिदानीमप्युपदिशामि, यत् त्वमसहाय इत एव निवर्त्तस्व।
वीर। आःशास्त्रान्ध! किं व्रवीषि? अहमप्यसहायोऽस्मि?।
धर्म्मः, साधुः समस्तः, क्षितिभृदपि पुनर्यस्य चैते सहायाः
तस्यान्यैः किं सहायैरनुपमबलिनः क्षुद्रकार्य्येममास्मिन्।
त्वामप्येकं ततोऽस्यां समरभुवि वृथागर्वितं पातयेयं
किं वा यत्नेन कचीविटपविदलने घोरनिस्त्रिंशपाणेः?॥२४॥
सुवाहुः। आः पाप! दुरात्मन्! वृथा विकत्थन! मानवकुलकलङ्क! निश्वाससमीराः पर्वतस्य, श्रेणीकृतमण्डूकाः द्विपेन्द्रस्य,
विहङ्गसङ्घाश्च खगेन्द्रस्य किं कर्न्तुमर्हन्ति? तद्वीरकीटस्त्वं नार्हसि मां पदात् पदमपि चालयितुम्। ततो ब्रवीमि—
क्रोधज्योतिर्ज्वलति युधि चेद्दुर्ज्जयः सूर्य्यकल्पः
वह्नेर्वह्निर्भवति तु तदा दानवोऽयं सुवाहुः।
तस्मादस्माद्विरमकलहाम्मूढ़! किंवोपदेशैः
प्रायेण स्यान्न खलु सुमतिर्जीवनापायकाले॥२५॥
वीर। आःपाषण्ड! मण्डूककल्पजल्पन! अशक्यसाहस! क्रमश एव भृशं विकत्थसे?। तदिदानीमेव।
किं देवा, उत दानवाः, किमुत वा यक्षाश्चरक्षांसि वा
त्वत्पक्षं यदि पूरयन्ति, तदपि त्वां रक्षितुं न क्षमाः।
एष त्वां प्रणिहम्मि, योषितमिमां यच्छामि योग्ये जने
त्वत्तुल्यान् विनिवर्त्तयामि च परान् प्रीणामि च प्रेयसः॥२६॥
सुवाहुः। रे रे मनुष्यापसद! कुत्सितप्रवृत्ते! धूर्त्ताभिसन्धान! साम्प्रतं न क्षणमपि सक्षमःसोढुं। तत् पश्य—
निपातयतु ते शिरः शशधरप्रभः सायकः
छिनत्तु परिखण्डशस्तनुमसौ कृपाणः पुनः।
शृगालखगकुर्क्कुराः प्रमुदिताश्च कर्षन्त्वमी
रुदन्तु तव बन्धवः क्षितिलुठच्छरोराः शुचः॥२७॥
वाीर।आःपाप! दुरात्मन्!।
सुवाहुः।आःपाप! दुरात्मन्!।
इति विकटं परिक्रम्य निष्क्रान्तौ।
रे रे, पलायनपरो भव दानव! त्व-
मन्यः खलोऽपि लभतामित एव शिक्षाम्।
धर्म्मःस्थिरश्चरतु, नश्यतु पातकञ्च
राजन्वति स्फुरति नो विषमोऽत्र देशे॥२८॥
ततः प्रविशति किरीटमादाय वीरसिंहः।
वीर। सावष्टम्भंपरिक्रम्य। धिक् दानवापसदं, यदयं दुरात्मा पुनःपुनर्विजितोऽपि न निवर्त्तते पापात्। अहोवत! दुर्निबारो हि दुरात्मनामुद्यमः, येन हि कदर्य्यो जनः धर्म्माद्वा,अधर्म्माद्वा, समाजपरिवादाद्वा, परलोकाद्वा, मरणाद्वान बिभेति। तथाच—
दृष्ट्वा काञ्चित् रहसि रमणीं प्राग्दिदृक्षुस्तदक्षि
तस्यासिद्धौ, स्वनति वदति स्वं यथेक्षेत साऽपि।
चेष्टा सा चेन्न फलति तदा जीवनाशांजहाति
योगिप्रायाऽप्रतिहतगतिर्दुर्ज्जनस्याऽपि वृत्तिः॥२६॥
अतएव—
समस्तः साधीयान् विनयतु परस्त्रीचटुलकं
स्वधर्म्मश्रद्धावान् परपुरुषतृष्णां स्त्रियमपि।
विमार्गप्रस्थायिन्यसति हि जने का खलु दया?
परानिष्टाशङ्कीदहति विषवृक्षङ्कुरमपि ॥३०॥
भवतु पश्यामि का खलु दशा सरोजिन्या इति। विलोक्य। अहो। दुरात्मनो दानवाद्भयेन निमीलितनयनाया नेदानीमपि स्वास्थ्यमापन्नमन्तःकरणम्। उपसृत्य। भद्रे! समाश्वसिहि। निर्वर्णा साशङ्कम्। कथमियं परिलुप्तचैतन्या निश्वासानुमेयजीवना संवृत्ता। आः! कदर्य्यस्य खल्वियमरुन्तुदा क्रिया। येन—
समीरस्वानमात्रेण हरिणी चकितान्तरा।
सहसा किं महारण्येसहते सिंहगर्ज्जितम्?॥३१॥
भवतु, एवं तावत्। इति जलसेकं नाटयति।
सरो। नयनयुगमुन्मोल्य सेनापतिमवलोक्य पुनर्मुद्रयति।
वीर। विलोक्य। हन्त! नेदानीमपि हृदयमस्याः सुस्थीभूतम्। भवतु, प्रमोदवनिकायामेवैनामवस्थापयामि। विचिन्त्य।अहो! विचित्रंखलु विधेर्विलसितं। येन—
अनुपमजनलिप्सुर्दानवो विप्रलब्धः
मम तु निखिलमङ्गं सङ्गरे शस्त्रखिन्नम्।
अनभिलषितरत्नंविन्दते किन्तु राजा
विधिकृति निरपेक्षं को नु भाग्यं रुणद्धि?॥३२॥
इति सरोजिनीमुत्तानश्यामड्केसमारोप्य निष्क्रान्तः।
तृतीयोऽङ्कः।
_________
चतुर्थोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1727100095b.png"/>
नेपथ्ये।
भो भोः पौरजानपदाः ! किमिति निरातङ्का विश्राम्यन्ति भवन्तः? येन हि तत्रभवान् मालवेन्द्रः —
विहाय मणिकुण्डलप्रभृति राजचिह्नं, - दधत्—
मनोज्ञमनलङ्कृतं सरसकाव्यतुल्यं वपुः।
प्रभावपरिलक्षितः प्रियतमागुणं वर्णयन्
पुरात् किल विनिर्गतो मलिनमत्तवेशोऽभवत्॥१॥
तदिदानीमापामराः परितस्तमन्विष्यन्तु भवन्तः।
॥चूलिका॥
ततः प्रविशति रज्जुंकर्त्तरिकाञ्चआदाय हालिकद्वयं।
एकः। सानन्दं। अइले देबलाआ! हग्गे एत्थबच्छले लच्छीणाहेसम्बुन्ते। (क)
द्वितीयः। अले मङ्गलआ! केलिशं?। (ख)
मङ्ग। जेण एत्थ बच्छले मए तिस्मिसदए धस्मालए लद्धे, दुबे
__________________________________________________
(क) अरे देवराज! अहम् अत्रवत्सरे लक्ष्मीनाथः संवृत्तः।
(ख) अरे मङ्गलक! कीद्दशम्?
तिलद्दोणेअ। ता दाणिं जइए देमासकदम्बए णेदुं पालेमि, तदो महालाएण तुल्ले होमि। (ग)
देव। मङ्गलआ! मह क्खु मन्दभाअदाए पलिणए धस्मबिन्देसूअलेहिं दद्धललालेहिं मूसिएहिं बि खाइदे, -णडवा हग्गेबि लच्छीणाहे होमि। (घ)
मङ्ग। अले पमत्ता! तुमं घले सुबिअ केबलं णिद्देसि, ता सूअलस्समूसिअस्सबा को अबलाहो?। (ङ)
देव। हग्गे किं कलेमि? आचालिएण दिणं पेक्खिअ धस्माइंलोबिदाइं, तहबि णट्टाइं। (च)
मङ्ग। होदु, कज्जं कलेमि । (छ)
इति कर्त्तरिकया तॄणं छिनन्ति।
ततः प्रविशति साधारणवेशेन मत्तप्रायो राजा।
राजा। समन्तादवलोक्य नेत्रेनिमील्य च। हन्त! न जाने कीदृशी
________________________________________________________________
(ग) येन अत्रवत्सरे मया त्रिशतकं धान्वाढकं लब्धं, द्वेतिलद्रोणेच, तदिदानीं यदि एतत् माषकदम्बकं नेतुं पारयामि, तदा महाराजेन तुल्यो भवामि।
(घ) मङ्गलक! मम खलु मन्दभाग्यतया परिणतं धान्यवृन्दं शूकरैः दग्धललाटैःमूषिकैरपि खादितं नतुवाअहमपि लच्योनाथो भवामि।
(ङ)अरे प्रमत्त! त्व गृहेशयित्वा केवलं निद्रासि, तत् शूकरस्यसूषिकस्य वा कःअपराधः?।
(च) अहं किकरोमि! आचार्य्येणदिनं प्रेक्ष्यधान्यानिरोपितानि तत्रापि नष्टानि।
(छ)भवतु, कार्य्यं करोमि।
खलु दैबिड़म्बना? येन नयनपथं गतापि स्वप्रायिता। अहो! किमीदृशं मम भाग्यमस्ति? येन—
विशालचललोचना मृदुलकुन्ददन्तावलिः
लसत्कुटिलकुन्तला स्मितसितीकृतोष्ठाधरा।
अपूर्व्वतनुचारुता ललितकोकिलालापिका
दृशं स्थलसरोजिनी किमुत सा पुनर्यास्यति?॥२॥
एष एव मे संशयविषयः, यत् सा किं स्थलसरोजिनी अथवा जलसरोजिनीति? भवतु, स्थलसरोजिनीत्येव निर्णेतव्यम्। तथाच—
सलिलान्तः समुत्पन्ना सा चेज्जलसरोजिनी।
तदा कथं सदा लुब्धे सततं परुषान्तरा॥३॥
सा खलु या काचिद्भवतु, किन्तु—
नयनविषयं प्रिया मे पुनरपि यास्यतीति चित्तेजागर्त्ति।
व्यतिस इव प्रत्ययमात्रंसोपसर्गं प्रकृतिशून्यञ्च॥४॥
विचिन्त्य। अयि हृदय! नयनमेव सरोजिनीमिदानीं नावलोकते, त्वन्तु सततमेव तामनुभवसि, तत् किमिति विषीदसि?। हे असन्तोषनयन! समासन्नां खलु तामेकामेव पश्यसि, भुवनमिदानीं सरोजिनीमयमवलोकमानमपि कथमीदृशं विफलमश्रूणि विसृजसि?। अयि सतृष्णकर्ण! किमिति भवान् निरुपमं सरोजिनीस्वरमेव शृणोति? येन कोकिलालाप-
मप्यवमन्यते। अहोवत! सरोजिनीभुवनमयीति कथामात्रं, येन हि प्रत्यक्षदृष्टेव मामाप्याययति नेदानीम्। परितः पश्यन् हालिकह्वयमवलोक्य। अहो ! अस्मिन् खलु क्षेत्रे काविमौ?
मलिनवसनखण्डे नातृतोरुः प्रजल्पन्
असिततनुशरीरः कर्त्तरीपाणिरेकः।
रचयति तृणगुच्छं रज्जुमास्तीर्य्य भूमौ
किमपि च वदतेऽन्यः सम्पिवं स्ताम्रकूटम्॥५॥
विहस्य। अहो! रूपान्तरपरिग्रहेण मां प्रतारयितुम् अत्रागताभ्यां सरोजिनीचित्रलेखाभ्यां भवितव्यं। विचित्रमेतत्—
ललनाच्छलनापरायणा
चपला वाऽप्यचला भवेद्यदि।
कमलं समलं दिवातने
नियमं कं विदधौ विधिस्तदा?॥६॥
भवतु, पृच्छामि तावत्। उपसृत्य। प्रियतमे! सरोजिनि! किमियमौचिती भवत्याः? यत्प्रसादपात्रेविषादप्रदानम्।
हालिकौ। सविस्मयं विशेषेण निर्वर्णयतः।
राजा। विहस्य। अयमपि युवयोरितरः प्रतारणोपायः।
मङ्ग। जनान्तिकं। देबलाआ। के एसे अह्मेहिं अदिट्ठउब्बे किम्बि पमत्ते बिअ जप्पेदि? किन्तु सर्ल लप्पहाब
सूइद सोहग्गेपि दीसदि, ता पुच्छेमि। प्रकाशं। के तुमं? (ज)
राजा। सस्मितं। अये! न जाने, कति सन्ति युष्माकं किल मम वञ्चनोपायाः! भवतु, अवधीयतां तावत्, अहं किल—
सरोजिनीप्रेमपरायणो जनः
सरोजिनीतीक्ष्णावियोगविह्वलः।
सरोजिनीं सम्मृगयन् समन्ततः
सरोजिनीं तां भवतीमिहाप्तवान्॥७॥
देव। जनान्तिकं। मङ्गलआ! एसे क्खु णट्टमणिए उलए बिअ उच्छुए लक्खीअदि।प्रकाशं। अले! का उण सलोइणी?। (झ)
राजा। सखेदं। सखि! चित्रलेखे! त्वमपि मां शरणैषिणं विरमसि न विप्रलब्धुम्?। अयि! युष्माकं तरुणीजातिः खलु—
नयमकोणनिपातनमात्रतः
युवजनस्य न कां कुरुते दशाम्?।
_______________________________________________________________________________
(ज) देवराज! क एषः अस्माभिरदृष्टपूर्व्वःकिमपि प्रमत्त इव जल्पति? किन्तु शरीरप्रभावसूचित- सौभाग्योऽपि, दृश्यते, तत् पृच्छामि कस्तम्?।
(झ) मङ्गलक! एष खलु नष्टमणिकः उरम इव उत्सुको लक्ष्यते। अरे! का पुनः सरोजिनी?।
हृदि रतिं विरतिं विषयान्तरे
दृशि जलं विकलञ्चपरं मनः॥८॥
देव। का तुह सलोइणी होदि?। (ञ)
राजा। अये! किं पृच्छसि? सरोजिनी किल मे हृदयमरुमण्डले पीयूषवर्षधारा, विषादतिमिरेशशाङ्ककान्तिः, मदनमध्यन्दिनदिनकरातपे विलाससरसी। अथवा अलमन्येन, सैव मे जीवनमिति।
देव। अध तुमं से पणई?। (ट)
राजा। तदिमामेव पृच्छ।
मङ्ग। अपवार्य्यसकौतुकं। देबलाआ! सच्चंज्जेब एसे पमत्ते, ता इमिणा हग्गे कीलिस्सं। (ठ)
देव। अपवार्य्य। अले अस्मदम! आकिदीसे मं कधेदि, णएसे पाइदे मणुस्से, ता ण एसे कीलणए। (ड)
मङ्ग। अपवार्य्य। अच्चलीअं? तुमं किं लग्गाचलिए बिअ
__________________________________________________
(ञ) का तव सरोजिनीभवति?।
(ट) अथ त्वमस्याः प्रणयौ?।
(ठ) देवराज! सत्यमेव एष प्रमत्तः, तदनेन अहं कीड़िष्यामि।
(ड) अरे अद्यतम! आकृतिरस्य मां कथयति, नैषप्राकृतो मनुष्यः, तत्न एष क्रीड़नकम्।
जोइसे पण्डिदेसि? जेण आइदिं पेक्खिअ जेब सव्वबुज्झसि। (ढ)
देव। अपवार्य्य। मङ्गलआ! मङ्गलआ! तुमं मं बिप्पलह, किन्तु आइदिप्पहावं दाब गणेहि। (ण)
मङ्ग। अले! तुमं ऊद्घमुहे हुबिअ केवलं धम्मं गणेहि। राजानं प्रति। महंसलोइणीगुणे किं पमाणं?। (त)
राजा। अस्मिन् किल ते शरीरे तस्याः कुन्तलकलापसावर्ण्यमेव प्रमाणं। इति सविशेषं निरीक्षते।
मङ्ग।सस्मितं । पिअ! किं एत्थ मए कलणिज्जं?। (थ)
राजा। अश्रूणिप्रसृज्य। अयि मदेकशरण्ये! सरोजिंनि! लघु रचय निजां तां चन्द्रवच्चारुकान्तिं।
मङ्ग।केलिशीं? (द)
राजा। नहि तुलयितुमीशः, साद्वितीया हि मूर्त्तिः।
_____________________________________________________
(ढ) आश्चर्य्यं! त्वं किं लग्नाचाय्यं इव ज्योतिषे पण्डितोऽसि, येन आकृतिंप्रेक्ष्यैव सर्व्वं बुध्यसे।
(प) मङ्गलक! मङ्गलक! त्वं मां विप्रलभस्व, किन्तु आकृतिप्रभावंतावत् गण्य।
(त) अरे! त्वं ऊर्द्धमुखो भूत्वा केवलं धर्म्मंगणय।मम सरोजिनीत्वे किं प्रमाणम्।
(थ) प्रिय! किमत्रमया करणीयम्?।
(द) कीदृशीम्?।
मङ्ग। कहि म्बि णत्थि सदिसत्तणे?। (ध)
राजा। अस्ति खल्वनेकेषु वस्तुषु—
शशिनि, हरिणनेत्रे, पक्वविम्बे, कदम्बे।
विरुधि, कदलदण्डे, स्वर्णवर्णे च किञ्चित्॥९॥
मङ्ग। एब्बं जइ, तह पिअ! वह मह तिणगुच्छे (न)
देव। अले बिबस्मप्पाअ! अमूल्लमणि लदण घलिदमुउल प्पदे से सेहले मा अप्पेहि तिणगुच्छे। (प)
मङ्ग। अपवार्य्य। अले बुडृआ! तुमं आसस्ममिच्चूता जुत्तं अजुत्तंअ चिन्तेहि। हग्गे दूबुज्झह्मि, जेण अप्पणो सुअले होदि कज्जे, तह कलणिज्जे। राजानं प्रति। बहपिअबह तिणगुच्छे। (फ)
राजा। सहसा विहस्य। अहो! दशाविनिमयविधायि खलु दैवं, येन हि पुरा मे शशाङ्कमरीचिसञ्चारकाले —
मुकुटेन्दुकान्तमणिना स्ववता
स्रपितं यदास्त शिशिरेण शिरः।
______________________________________________________________
(ध) कस्मिन्नपिनासि सदृशत्वम्?।
(न) एवं यदि, तदा प्रिय! वह ममतृणगुच्छम्।
(प) अरे विपन्नप्राय! अमूल्यमणिरत्नघटितमुकुटास्पदेअस्य शेखरे ताअर्पय तृणगुच्छं।
(फ) अरे वृद्ध! त्वम्आसन्नमृत्युः, तत् युक्तमयुक्तञ्च चिन्तय। वहन्तु बुध्ये, येन आत्मनःसुकरं भवति कार्य्यं, तथा करणीयं। वह प्रिय! वह तृणगुच्छं।
तदिदं तृणस्तवकसंवहनात्
वहतां विधौतमलमद्य जलम्॥१०॥
विचिन्त्य। अथवा किमेष विषादः? वहामि च तृणगुच्छम् उद्वहामि च सरोजिनीम्। हस्तौप्रसार्य्य!राजनन्दिनि! स्वेनैव पाणिपङ्कजेन शिरसि मे समारोपय।
देव। मा दाब, मा दाब। (ब)
मङ्ग। भ्रूकुटिं विधाय। चिट्ठ तुमं। (भ)
इति तथा कर्त्तुमारभते।
नेपथ्ये।
अरे रे जाल्लआहम! दासीएपुत्ता! अच्चाहिदं अच्चाहिदं। (म)
मङ्ग। तृणगुच्छं विहाय साशङ्कंसमन्तादवलोकते।
ततः प्रविशति लगुड़मुद्यम्य विदूषकः।
विदू। सराषं तर्जनीमुत्तोल्य।अरे दासीए पुत्तआ! जस्स क्खुमालबणाहस्ससेहरे आसोप्पसूणं वि अप्पिदुंभिसं आसङ्कदि इसिजणो, तस्म ज्जेब सेहरे तुमं जबसं अप्पेसि, ता चिट्ठ। (य)
इति परितो विलोक्य तत्क्षेत्रंनिश्चिनोति।(य)
_________________________________________________________
(ब)मा तावत् मा तावत्।
(भ) तिष्ठ त्वम्।
(म ) अरे रे जाल्मकाधम! दास्याःपुत्र! अत्याहितम् अत्याहितम्।
(य) अरे दास्याःपुत्र! यस्य खलु मालवनाथस्य शेखरे आशौःप्रसूनमपि अर्धयितुं भृशमाशङ्कते ऋषिजनः, तस्यैव शेखरे त्वंयवसमर्पयसि? तत्तिष्ठ।
हालकौ। सभयं विदूषकमवलोक्य किञ्चिदन्तरं गच्छतः।
राजा। सासूयमिव। ब्राह्मण! ब्राह्मण! कथमिमां लावण्यलहरीनिधिं मम प्राणप्रतिनिधिम-कस्मादधिक्षिपसि?।
विदू। सविषादविस्मयमात्मगतं। अह्मो अञ्चरीओ क्खु देब्बप्पाबो, जेण हि ज एसो मदित्थिरदाए सहस्सं सुबिआरेदि, तस्स ज्जेब मदिव्भमो सम्बुत्तो। (र)
पहर दिवाअर किरणो सुत्तिआए रअदस्माणे हेदू।
अदिबिसदिसे मम्महो सरोइणीस्माणे एदस्स॥११॥
भोदु। प्रकाशं। मालबणाह! अदिबिसदिसो क्खुएसो ण सरोइणी, ता आअच्छ, दिट्टउब्बां ज्जेब तां तुह अप्पेमि। (ल)
राजा। विहस्य सोत्कण्ठं। अये! भुवनं भ्रमता न खलुकदापि सा मयेदानींदृष्टचरी; तत्त्वं दर्शयिष्यसीति उन्मत्तप्रलापः । अथवा—
निरस्य नियतेः शक्तिंत्वञ्चेत्तां दातुमर्हसि।
उत्सर्गोऽपि तदा कुर्य्यात् विशेषविधिबाधनम्॥१२॥
___________________________________________________________________
(र) अहो आश्वर्य्यःखलु दैवप्रभावः, येन हि य एष मतिस्थिरतया सहस्रंसुविचारयति, तस्यैव मतिभ्रमः संवृत्तः।
प्रखरदिवाकरकिरणः शुक्तिकायांरजतज्ञाने हेतुः।
अतिविमदृशे मन्मथः सरोजिनीज्ञाने एतस्य॥
(ल) भवतु। मालवनाथ! अति विसदृशः खल्वेषः,न सरोजिनी, तदागच्छ, दृष्टपूर्व्वामेव तां तव अर्पयामि।
बिदु।महाराअ! एदं तुए स्सादब्बं, जइ एसा तुहप्पणइणी तदोकहंमत्थएतिणपुञ्जदाणेन तुमं असहाबेदि? (व)
राजा। विशेषेण निर्व्वर्ण्य विहस्य च। नैषा नैषा, त्वं खलु तदा सरोजिनी, येन मे प्रियमाचरसि। इति सशब्दं हसति।
विदू।बअस्स! परिइदउव्वं मं किं सरोइणींविअ पेक्खसि? (श)
राजा। सविशेषं विलोक्य सास्रं। हत विधे! जगदिदमशान्तिमन्दिरतीकृतमद्य भवता। यतः—
सस्नेहे विचलन्मनः सरसि मे तत्कामनारोहणे
शङ्कामीनसमाविले स्थितबधूमानानिलव्याकुले।
गन्धामोदिसरोजिनी विकसिता सम्बन्धमूला स्थिता
केनापि हिजदन्तिना ननु चिरादुन्मूलिता साऽधुना॥१३॥
अये! दर्शय कुत्रसरोजिनी?।
विदू। आअछ। (ष)
अन्नर्यवनिकोत्सारणं। ततउद्यानमण्डपे वामपाणिनिहितमुखी सरोदना सरोजिनी समुपविष्टा प्रविशति।
विदू। पृष्ठतोराजानमवलम्ब्य। पेक्ख सरोइस्सीं। (स)
________________________________________________________
(व) महाराज! एतस्त्वया ज्ञातव्यं, यदि एषा तव प्रस्तयिनी, ततः कथं मस्तके तृणपुञ्जदानेन त्वाम् असुखयति?।
(श) वयस्य परिचितपूर्व्वंमां किं सरोजिनीमिवप्रेक्षसे?।
(घ) आगच्छ।
(स) प्रेक्षस्व सरोजिनीं।
राजा। विलोक्य विहस्य च। अये! सत्यंखल्वियं सरोजिनी। तथाच—
द्वितय-चपलभृङ्ग-प्रान्त-सम्पीयमाना
सरल-मृदु-मृणाल-द्वन्द्वसंश्रीयमाणा।
अनधिक-विकचाभ्यां सङ्गता कोरकाभ्यां
पतदुदकसरोजा, नाऽन्यरूपा स्थलेऽपि॥१४॥
सविशेषं निर्व्वर्ण्यसकल्पं। अयि जन्मान्तरसखे! किमद्य, दर्शितं त्वया। भवदर्थमेव समधिगता मया महामयमहौषधिः। येन हि—
नेत्रान्तान्निपतत् करोति कुचयोर्नेत्राम्बुमुक्ताभ्रमं
पद्मे पद्ममिव स्थितं करतले वामे विवर्णं मुखम्।
गूढ़ं नो विजनस्थले स्तनयुगं, निर्णीतपूर्व्वा द्युतिः
एषा सैव सरोजिनी निरुपमा, नास्त्यत्र मे संशयः॥१५॥
अधीर इव। हे अनन्तसन्तापतारण। ब्राह्मणवर! अवलम्बस्व माम्। इति मूर्च्छति।
सरो। विलोक्य। हन्त! जस्सकिदे एरिसी मे देब्बबिड़म्बणा, सो ज्जेब एसो मणोरधसददुल्लहो हिअअगअण पूस्सचन्दो समुदिदो। (ह)
_____________________________________________________________
(ह) हन्त! यस्यकृते ईदृशीमे दैवविडम्बना, स एवैष मनोरथशतदुर्ल्लभः हृदयगगनपूर्णचन्द्रः समुदितः।
इति मूर्च्छति।
विदू। कहं अज्जबि एसा बिबत्ती? महाराअ! समस्मस,कीस उण दाणि म्बि बिमणाअसि?। गेह्न चिरप्पणट्टं रदणं। (क्ष)
इति पटान्तं सञ्चालयति।
राजा। संज्ञां लभते।
विदू। सरोजिनीमुपेत्य। भोदि! उत्थेहि, पहादाक्खु, दे दुक्खरअणी; ता किं ण णिअप्पआसअं हरिदस्मंपेक्खसि?। (क)
इति पटान्तंसञ्चालयति।
सरो। चैतन्यमुपैति।
राजा विलोक्य अश्रूणि विमृज्य च। हन्त सखे! चमत्कारिणीखलु दैवपरिवृत्तिः। येनाद्य—
कस्याञ्चिन्निशि चञ्चलेव चपला या दृष्टपूर्व्वा मया
निद्राचुम्बितचक्षुषोऽन्तरदधान्मायाविनीसा न चेत्।
मोहो वा विगतः स मे यदि, तदा भाग्याच्चिरं लिप्सिता
सन्नष्टा वणिजेव नौरिव मया प्राप्ता पुनः सा प्रिया॥१६॥
सरो। अम्मो! अज्ज देब्बप्पसाददो समासादिदो मए
________________________________________________________________
(क्ष) कथम् अद्यापि एषा विपत्तिः?। महाराज! समाश्वसिहि केन पुनरिदानीमपि विमलायसे?। गृहास्तचिरप्रनष्टं रत्नम्।
(क) भवति! उत्तिष्ठ, प्रभाता खलु ते दुःखरजनी, तत् किं न निजप्रकाशकं हरिदश्वं प्रेक्षसे?।
दढ़तिमिरे पूस्मचन्दो, किन्तु एत्थ णत्थि पिआपच्चो णिच्चणिरादङ्गो जणओअबच्च वच्छला अम्बावि। (ख)
राजा। विदूषकाङ्गीमि निर्व्वर्णयति।
विदू। सस्मितं। किस्मु क्खु मह अङ्गेसुं किम्बि अहिणबत्तणं बट्टदि? जेण तुमं अदिमेत्तं बिलोएसि। (ग)
राजा। न खलु, वयस्यतया निश्चय एव मे विशेषविलोकनप्रयोजनम्, अथवा किमनेन? नहि शशधरादन्यत्र सम्भवति अमृतदीधितिः। विदूषकहस्तमवलम्ब्य। अनुकूलवर्त्तिनि किल दैवे किं नाम दुरवापमस्ति शरीरिणाम्। तदद्य—
प्राणप्रायां परमरमणीं त्वत्प्रदिष्टामिमाञ्च
मित्रञ्च त्वामतिहितकरं प्राप्तु वन् शान्तचेताः।
विद्बद्वैद्यंतदनुमुदितामोषधिञ्चाभ्युपेत्य
सुस्थात्मानं सुकृतिनमहं रुग्नपूर्व्वंस्मरामि॥१७॥
किन्तु तथापि ममान्तरमान्दोलयति महान् सन्देहः; यदियं समीरणदुःसञ्चरगन्ध- र्ब्बराजपुरवर्त्तिनीकथमत्रसम्प्राप्तेति।
________________________________________________________________
(ख) अम्भो! (खेदसूचकमव्ययमिदं) दैवप्रसादतः समासादितो मया दृढतिमिरे पूर्णचन्द्रः, किन्तु अत्रनास्ति प्रियापत्यो नित्यनिरातङ्कोजनकः, अपत्यवत्सला अन्यापि।
(ग) किन्नु खलु मम अङ्गेषु किमपि अभिनवत्वंवर्त्तते? येन त्वम् अतिमात्रंविलोकयसे।
विदू। बअस्स! कहि म्बि एसो वुत्तन्तो तुमं अपरिगेह्णीअण चिट्ठिस्सदि। (घ)
प्रविश्य वीरसिंहः। जयति जयति देवः।
राजा। सेनापते! ब्रूहि तावत्।
अनार्य्यंनेहते कश्चित् राज्ये निर्ज्जितशत्रुणि।
अथवा पुरुषे मुक्ते कुतः प्रकृतिसंस्रवः॥१८॥
वीर। देव! देवेन अनादिष्टपूर्व्वंस्वयं निष्पादितं कमपि व्यापारमावेदयितुमिहागतोऽस्मि।
राजा। कथमिव?।
वीर। देव! कदाचिन्मया राज्यस्य निःशेषितशत्रुतया विस्रब्धंकाशीपुरीं पर्य्यटता ससखीजनां सरोजिनीं कामयमाने सुवाहुनामनि दानवे निर्ज्जिते प्रस्थिता सा स्वनगरम्।
राजा। जनान्तिकं। वयस्य! स्मरसि? कस्मिंश्चिदहनि मया समं भवानपि सरोजिनीं पश्यन् सहसा वीरसम्मर्द्दमवेक्ष्यमम शरणमापन्न इति।
विदू। अधइं। (ङ)
राजा।विचित्रमेतत्, यदहं सेनापतिमपि न खलु तदानींनिरणैषम्।
________________________________________________________________
(घ) वयस्य! कस्मिन्नपि एष वृत्तान्तस्त्वामपरिगृह्यन स्थास्यति।
(ङ) अथ किम्।
विदू। जनान्तिकं। तत्थ क्खुभवं अत्ताण म्बि सरोइणींपड़िबस्मो,ता कीस उण सेणावइनिस्मओ?। (च)
राजा। सेनापते! ततः?
वाीर। देव। परञ्च।
एकाकिनीं क्वचिदिमां चकितां व्रजन्तीं
श्येनः शुकीमिव दनोस्तनयश्चकर्ष।
आनीतवानहमितो विविधैरुपायैः
देवार्थमर्णवसुधामिव चक्रपाणिः ॥१९॥
परञ्चभगवता राजपुरोधसा मायासंहारिणा मन्त्रेण परिरक्षितेस्मिन् मण्डपे सुखमवस्थापिता च।श्रुत्वा देवः प्रमाणम्।
राजा। वीरसिंह! कृतमिदं वीरजनोचितं कर्म्म,तदिदं पारितोषिकं परिगृह्य विश्रम्यताम्।
इति हारं ददाति।
वीर। हारं गृहीत्वा। यदाज्ञापयति देवः।
निष्कान्तः।
ततः प्रविशति चित्रलेखा हेमप्रभा च गायन्तौ।
हे सखि! नः सा वासना विधिपूरिता
प्राणसखी सरोजिनी मित्रमीलिता।
________________________________________________________________
(च) तत्रखलु भवान् आत्मानमपि सरोजिनीं प्रतिपन्नः, तत् केन पुनःसेनापविनिर्णयः?।
नास्त्यसुखंनः, उच्चसुखंवः,
चूतगले चारुलता चारु राजिता।
कान्ता कान्ते अतिकान्ते साधु शोभिता॥
राजा। (सोल्लासं) स्वागतमत्नभवत्योः?।
चित्र! ण क्खु। (छ)
राजा। कथमिदं?।
चित्र। जेन आअणणादो अहिस्सप्पआरा पिअसही सरोइणी अज्ज पहुदि ट्ठणान्तरिदात्ति। (ज)
राजा। सखि! किमुत ननु शशाङ्कः कुमुदाकरवर्त्तिनीं कुमुदिनीसंहतिं विच्छिद्य विकासयति?।
विदू। स्मितं करोति।
चित्र। सुखमवनमय्य सासूयमिव।णिउत्तिरहिदा क्खुआसासब्बस्स। (झ)
सरो। चित्रलेखां हेमप्रभाञ्चविलोक्य सम्भ्रान्ता सुखमवनयति।
हेम। बहिणि! चित्तलेहे! कधंअज्जसरोइणी अह्मे अणासिलिसिअ ओणदमुही सम्बुत्ता?। (ञ)
_________________________________________________________________
(छ) न खलु।
(ज) येन आजननात् अभिन्नप्रचारा प्रियसखी सरोजिनीअद्य प्रभृति स्थानान्तरितेति।
(झ) निवृत्तिरहिता खलु आशासर्वस्य।
(ञ) भगिनि! चित्रलेखे! कथमद्य सरोजिनी आवाम् अनाश्लिष्य अवनतमुखी संवृत्ता?।
चित्र। अज्ज पहुदि सरोइणीए इत्थिआसिलेसणं परिच्चत्तं। (ट)
सरो। सहीओ! आअदे, अबि सुमरध मं? (ठ)
इति साश्रुनयना उभे परिस्वजते।
चित्र। ता सच्चं। (ड)
सरो। मुहं तुह्माणं, कुसलिणी मे अम्बा तादोअ। (ढ)
चित्र। अधइं। (ण)
सरो। हला सहि! कधेहि दाव मह बुत्तन्तंसुणिअतादेण किं अज्झबसिदं?। (त)
चित्र। सरोइणि! सुणु दाब, तादो मह णिड़ए तुह बुत्तन्तं सुणिअ। (थ)
सरो। साशङ्कं। सहि! किं तुए मह एसो बुत्तन्तो जधाजधं ज्जेब तादस्सणिवेदिदो? (द)
_______________________________________________________________________________
(ट) अद्य प्रभृति सरोजिन्या स्त्रीश्लेषणंपरित्यक्तम्।
(ठ) सख्यौ? आगते? अपि स्मरथो माम्?।
(ड) तत् सत्यम्।
(ढ) शुभं युष्माकं, कुशखिनीमे अम्बा, तातश्च?।
(ण) अथ किम्।
(त)हला सखि! कथय तावत् मम वृत्तान्तं श्रुत्वा तातेन किम् अध्यवसितम्?
(थ)सरोजिनि! शृणुतावत, तातो मम निकटे तव वृतान्तं श्रुत्वा।
(द)सखि! किं त्वया ममैष वृतान्तःयथायथमेव तातस्य निवेदितः?।
चित्र। हला! किस्सुमं जुहिट्ठिरमदिं बिअ णिच्च सच्चपर दन्दां जाणासि? जेण एब्बं सङ्कसि। एब्बं क्खुसास्सुमुहीए मएबिस्सबिदं तादस्म, जह कहि म्बि एअलिआ सरोइणो णिहुदं कासोणअरे सिबं बन्दमाणा सुबाहुणा दानवेण आक्कन्दा रणणिउणेन मालबणावेण अदाणबम् अवाकरीत्र अत्तणअरं पाबिढ़ा चिट्ठदित्ति। (ध)
सरो। सानन्दं। अज्ज धास्माह्मिजेण तुए ओसारिदो दढ़ो कलङ्को। (न)
हेम। सगर्व्बं। एत्थ उवत्थिदिकाले कधं एसा सम्भाबिणो से कलङ्कस्सचिन्ता णासी? (प)
सरो। सलज्जमधोमुखी तिष्ठति।
चित्र।बालिए एदं तुए कधं जाणिदब्बं?। (फ)
सरो। सहि! तदो तादेण किं अज्झसितं?। (ब)
चित्र। तदो तिस्सिमासिअ पुरच्चरणप्पउत्तेण तादेण दिट्ठिआ बञ्चअणिरासिणो गइन्दस्सविअ णलिणी, मालवणाधस्स
_________________________________________________________________
(ध) हला! किन्नु मां युधिष्ठिरमतिमिव नित्यमत्यपरतन्त्रां जानासि? येन एवं शङ्कसे। एवं खलु माश्रुमुख्या मया निवेदितं तातस्य, यथा कस्मिन्नपि एकलिका सरोजिनी निभृतं काशीनगरे शिवं वन्दमाना सुवाहना दानवेन आक्रान्ता रणनिपुणेन मालवनाथेन च दानवं अपाकृत्य आत्मनगरं प्रापिता तिष्ठतीति।
(न)अद्य धन्यास्मि, येन त्वया अपसारितो दृढः कलङ्कः।
(प)अत्रउपस्थितिकाले कथमेषा सम्भाविनः अस्य कलङ्कस्य चिन्ता नासीत्।
(फ) बालिके! एतत् त्वया कथं ज्ञातव्यम्?
(ब) सखि! ततस्तातेनकिम् अध्यवसितम्?।
दाणबजइणो हत्थे सरोइणी निपड़िदा, तदो को ईदिसं सलाहणीज्जसम्बन्धंउज्झदित्ति भणिअ तुमं अप्पिदुंपड़िणिहीकटुअ पुरोहिदो पेसिदो। (भ)
सरो। सखेदमिव। सहि! सच्चं ज्जेब तादस्समं पड़ि णत्थि सिणेहो, जेण एब्बंअस्सादजणस्स मं अप्पेदि। (म)
चित्र। सगर्व्वहामं। अम्महे! परिच्चअ बिसादं, जाणामि तुह मणोरधं। इदो असहणीज्जो बिलम्बो, तहवि ण सोहदि सालीणत्तणं। अरे! जालुअणिड़ए मच्छगुत्तिः। (य)
ततः प्रविशति पुरोहितः।
सर्व्वाः। अवलोक्य किञ्चिदिव सम्भ्रान्ताः।
पुरो। हस्तमुद्यम्य। विजयतां मालवेन्द्रः।
राजा। उत्थाय। अभिवादये भवन्तम्। इदमास्तीर्णमासनम्, उपविश्यताम्।
पुरो। उपविश्य। राजन्!
आस्तां स्वस्ति समस्तराज्यविभवे, चर्च्चाहरश्यार्च्चने
ज्योतिष्मान् भव भानुमानिव जहन्मायां तमिस्त्रामिव।
________________________________________________________________
(भ) ततस्त्रिमासिकपुरश्वरणप्रवृत्तेन तालेन दिष्ट्या वञ्चकनिरासिनो गजेन्द्रस्येव नलिनी, मालवनाथस्य दानवजयिनो हस्तेसरोजिनी निपतिता, ततः क ईदृशं श्लाघनीयसम्बन्धम् उज्झतीति भणित्वा त्वामर्पयितुंप्रतिनिधीकृत्य पुरोहितः प्रेषितः?।
(म ) सखि! सत्यमेव तातस्य मां प्रति नास्ति स्नेहः, येन एवम् अज्ञातजनस्य माम् अर्पयति।
(ग) अन्महे! परित्यज विषादं, जानामि तव मनोरथम। इतः असहनीयः बिलम्बः, तथापि न शोभते शालीनत्वम्। अरे! जालुकनिकटे मत्स्यगुप्तिः?।
बन्धं सांख्यविदां विदीर्य्य तरतादुयोगं प्रकृत्यात्मनोः
अङ्गानि स्ववशीभवन्तु भवतो राज्यस्य योगस्य च॥२०॥
राजा। भगवन्!
धर्म्मार्थकाममोक्षाणां चतुर्णामिह कारणम्।
अविद्येवास्मितादीनामाशीरेषा भवादृशाम्॥२१॥
पुरो। राजन्! तत्रभवता गन्धर्वपतिना पूर्वसङ्कल्पितायाःसरोजिन्याः परित्राणप्रवृत्तिमधिगम्य प्रतिनिधीकृतः प्रेषितश्चास्मि तस्याः प्रदानेन भवन्तमानन्दयितुम्। तदिदानीं भवदभिप्राय एव प्रमाणम्।
राजा। भगवन्! सूर्य्यस्य पूर्वाचलोपस्थितिरिव भवादृशामागतिरेवाभ्युदयाय लोकानां; तदितः कीदृगानन्दः सम्भाव्यते?।
विदू। सासूयं जनान्तिकम्। बअस्स! एसोबि ब्बह्मणो अह म्बिब्बह्मणो, ता इमस्सतुए जह आदरो करीअदि मह जीबणे बि ण तादिसो किदो। (र)
राजा। सस्मितमपवार्य्य। बयस्य! किमेवं विमनायसे? शृणुतावत्—
आवयोरुभयोरेव लिप्सास्ति न तु मेलनम्।
सति हेतौ फलाभावे विशेषोक्तिर्हि युज्यते॥२२॥
_____________________________________________________________
(र) वयस्य! एषोऽपि ब्राह्मणःअहमपि ब्राह्मणः तदस्य त्वया यथा आदरः क्रियते, मम जीवनेऽपि न तादृशः कृतः।
विदू। तहिं भण अमिए कस्सअरुइ त्ति। (ल)
परो। मालवेन्द्र! नियतमेव परिस्फुरति भवतामीदृशं सूनृतं वचः, किन्तु गन्धर्वंराजप्रार्थनायां किमत्नोत्तरं भवतः?।
राजा। विनयेन पृच्छामि न प्रत्याख्यानेन; मह्यमात्मजामर्पयतो गन्धर्वराजस्य कः खलु सन्तोषविशेषः?।
पुरो। विहस्य। राजन्!
कन्या वरेषु कुलशीलगुणान्वितेषु
तीव्रातपेषु सवितुः शिशिरानिलश्च।
विद्या सुतेषु रजनीषु च पौर्णमासी
क्षेत्रेषु शस्यमपि कस्य न तोषकाणि?॥२३॥
राजा। स्वगतम्। अहो!
स्थाने स्थाने विचलितमतिः प्रस्खलन् नाम जल्पन्
या मन्वैषं स्वयमुपगतस्तामसौ दातुमिच्छन्।
आहूयार्थं स्वयमभिमतं दत्तवान् निर्द्धनाय
लोकानां स्यात् सति सुसमये सर्वमाशानुरूपम्॥२४॥
भवतु। प्रकाशम्! भगवन्! अनुरुणद्धि भवान्, आदिशति व गन्धर्वराजः, तदिदमवश्यमङ्गीकर्त्तव्यम्?
पुरो। सहर्षम्। साधु, मालवेन्द्र! परमनुगृहीताः स्मः। येन—
इन्दोः सान्द्रा चन्द्रिकेवाङ्गलग्ना
छायाऽनुष्णे वोष्णरश्मेःसहाया।
__________________________________________________
(ल) तर्हिमण, अमृते कस्य अरुचिरिति।
आस्तामङ्गेसङ्गिनीयं चिरं ते
नास्त्ये तस्माच्छान्तिरैकान्तिकीनः॥२५॥
अयि वत्से! चित्रलेखे! हेमप्रभे! नन्विदानींयुष्माभिर्मङ्गलविधानपराभिर्भवितव्यम्। यतः —
आमोदरससम्पूर्णा प्रफुल्लमुखपङ्गजा।
हरिदश्वकरस्पर्शात् विराजेत सरोजिनी॥२६॥
सरो। सलज्जमधोमुखी तिष्ठति।
चित्रलेखा हेमप्रभा च। सहर्षम्। भअबं! एसो अह्माणं चिरन्तणो मणोरधो। (व) इति गायति।
चित्त।** नवोनसरसि सरोजिनी मृदुलपवनविकम्पिनी।
मुग्धतरे! गायतु रे!।** कथा।
हेम।** सकलकलासु विकासिनीनागरहृदयविहारिणी।
भासितास्मि हर्षनीरे। **कथा।
चित्त।** प्रभात उदितो दिनमणिः समीपविहारीरतिजानिः।
वामदिशि याहि सखि! **कथा।
हेम।** भविता चिरं तदामोदिनी चिरस्यानन्तरवियोगिनी!
किं स्थितासि नम्रमुखी?!**कथा।
चित्त।** मुक्तया मीलितो गजमणिः मनोज्ञतरुणसहायिना।
जातमद्यशान्तिदिनम्।**कथा।
हेम।** वासनाफलिता चिरन्तनीसुखिनीचिराय सीमन्तिनी।
तुल्यमिह पुरं वनम्। **कथा।
______________________________________________
(व) भगवन्! एषाऽस्माकं चिरन्तनो मनोरथः।
पुरो। राजन् ! किमतःपरं भवद्भिरीप्सितमस्ति?।
राजा। भगवन्! यद्यपीयमेव नः परिसीमा प्रियकार्य्यस्य, तथापीदमर्थयामः। यत्—
भरतवाक्यम्।
लोकाः सन्तु निरीतयो, बुधगणो विद्योततां विद्यया
भूयासुः सुखसम्पदश्च, विपदो नश्यन्तु नित्यं सताम्।
श्रीगोविन्दपदारविन्दयुगले सङ्कल्पितो यश्चिरं
न्याय्योऽसौ कुसुमाञ्जलिः पततु मे माभूच्चजन्मान्तरम्॥२७॥
कोटालिपाड़नगरोनशियानिवासी
सत्काश्यपः सुकविलभ्ययशोऽभिलाषी।
शाकेधराऽक्षिवसुचन्द्रमितेसुकर्म्मा
श्रीमानिमां रचितवान् हरिदासशर्म्मा॥२८॥
इति निष्क्रान्ताः सर्वे।
यवनिकापतनम।
समाप्तेयं विराजसरोजिनी
नाटिका।
_________
বিজ্ঞাপন।
^(_________)
** শ্রীযুক্ত হরিদাস সিদ্ধান্তবাগীশ মহাশয় বিরচিত নিম্নলিখিত পুস্তকগুলি বিক্ৰয়ার্থ প্রস্তুত :—**
১। বিরাজসরোজিনী ( নাটিকা )। মূল্য ॥০ আট আনা৷
২। স্মৃতিচিন্তামণি ( যন্ত্রস্থ )। মূল্য ১।০ এক টাকা চারি আনা
সম্পূর্ণ নূতন ধরণের পুস্তক। ইহাতে স্মার্ত্ত-ভট্টাচার্য্যের তিথি, উদ্বাহ,প্রায়শ্চিত্ত, শুদ্ধি, শ্রাদ্ধ ও মলমাসতত্ত্বের এবং চন্দনধেনুবিবেক ও দত্তকচন্দ্রিকার সকল ব্যবস্থা প্ৰমাণ প্রয়োগসমেত উদ্ধৃত করা হইয়াছে, তদ্ভিন্ন জগদ্ধাত্রী, দীপান্বিতা, রটন্তী, সৌভাগ্য-লক্ষ্মীপূজা, গর্ভিণীকৃত্য়প্রভৃতি বহুতর আবশ্যকীয় বিষয় লিখিত হইয়াছে। উপরে সরল সংস্কৃতভাষায় প্রমাণাদিসমেত মূল এবং নিম্নে বিশদ ও বিস্তৃত বঙ্গানুবাদ দেওয়া হইয়াছে। এ কথা সাহস করিয়া বলিতে পারি যে, ৩।৪ বৎসর পড়িয়া যে সকল ব্যবস্থা জানিতে হয়, স্মার্ত্ত-ভট্টাচার্য্য প্রভৃতির মীমাংসিত সেই সকল ব্যবস্থা প্রমাণাদিসমেত ১ মাসে অনায়াসে জানিতে পারা যাইবে, অতএব পণ্ডিত ও অপণ্ডিত সাধারণের পক্ষেই এই গ্রন্থ বিশেষ উপযোগী। বিশেষতঃ স্মৃতির গবর্ণমেন্ট গৃহীত আদ্য়, মধ্য ও উপাধি পরীক্ষার গত ৫ বৎসরের প্রশ্নপত্রসমূহ সন্নিবেশিত থাকায় স্মৃতিশাস্ত্রের পরীক্ষার্থিগণের বিশেষ আবশ্যকীয়। একসঙ্গে উক্ত দুখানা পুস্তক লইলে ১॥০ দেড় টাকা মুল্যে দিব৷
উক্ত সিদ্ধান্তবাগীশ মহাশয় বিরচিত নিম্নলিখিত সংস্কৃত পুস্তকসমূহ ক্রমশঃ প্রকাশিত হইবে :—
১। বিয়োগবৈভব (খণ্ডকাব্য)।
২। রুক্মিণীহরণ (মহাকাব্য)।
৩। সরলা (সরল সংস্কৃত গ্যকাব্য)।
৪।সাঙ্খ্য়প্রকাশ (সাঙ্খ্য অনিরুদ্ধবৃত্তির সরল টীকা)।
প্রাপ্তি স্থান—
জেলা ফরিদপুর, পোষ্ট অফিস উনশিয়া, উনশিয়া গ্রামে গ্রন্থকারের বাটী শ্রীলক্ষ্মীকান্ত ভট্টাচার্য্যের নিকট। অথবা—
১। জেলা খুলনা, পোষ্ট নকীপুর, হরিচরণ-চতুষ্পাঠী, গ্রন্থকারের নিকট।
২। কলিকাতা বাগ্বাজার ৩৯ নং বসুপাড়া লেন শ্রীজানকীনাথ ভট্টাচার্য্যের নিকট।
৩।২২ নং বলরাম ঘোষ ষ্ট্রীট শ্রীশ্রীরাম শাস্ত্রীর নিকট।
শ্রীলক্ষ্মীকান্ত ভট্টাচাৰ্য্য।
]