[[मिवारप्रतापम् Source: EB]]
[
[TABLE]
कलिकाता ४१ संख्यक देवलेन स्थित-सिद्धान्तयन्त्रे
श्रीहेमचन्द्रभट्टाचार्य्येण मुद्रितम्।
<MISSING_FIG href="../books_images/U-IMG-1723187915Screenshot2024-08-09124800.png"/>
महामहोपाध्याय-महाकवि-भारताचार्य्य-श्रीहरिदाससिद्धान्तवागीशः।
निवेदनम्।
१३४९वङ्गाब्दीयसौराषाढ़मासस्य सप्तविंशदिवसरजन्यां कोटालिपाड़ान्तर्गतेऊनशियाग्रामे मद्भवने प्रथमो वङ्गीयप्रतापस्याभिनयः, १३५२ वङ्गाब्दीयसौरज्यैष्ठमासस्य नवमदिवसरजन्यां कलिकाताराजधान्यां मिनार्भारङ्गमञ्चेद्वितीयस्तस्याभिनयः, १३५२ वङ्गाब्दीयसौराश्रावणस्यैकाशदिवसरजन्यां कलिकाताराजधान्यामेव ष्टाररङ्गमञ्चे तृतीयश्च तस्याभिनयः मञ्जातः। तेषु च त्रिष्वेव कालेषु रचनाया अभिनयस्य च गरीयानेवाभवत् प्रशंसावादः। तेन चानन्दातिरेकात्उत्माहातिशयाच्च १३५२ वङ्गाब्दसौराषाढ़सप्तदशदिवसेसमारभ्य तदब्दीयसौरकार्त्तिकाष्टाविंशदिवसे ममापितमिति द्वादशदिवसाधिकमासचतुष्टयेन मिवारप्रतापंनाम नाटकमिदं मया निरमायि। इदमपि च १३५२ वङ्गाब्दसौरफालगुनमाससप्तदशदिवसरजन्यां कलिकाताराजधान्यां ष्टाररङ्गमञ्चे प्राच्यवाणी-प्रतिष्ठानोद्योगेन प्रथममभिनीतम्। अत्रापि सञ्जाता रचनाया अभिनयस्य न भूयसीप्रशंसा। एषुच कलिकातागताभिनयेषु श्रीमान् शशिशेखरविद्यारत्नकाव्यतीर्थः सुष्ठ, परिचालयन् विशेषेण यशस्वी जातः। तदिदमपि निवारप्रतापनाटकंभगवदनुग्रहेगा मुद्रापितम्। श्रद्धेयास्तत्रभवन्तः सुधियः सदयहृदयेण पश्यन्त्विति सविनया प्रार्थना
परिशेषे च सक्षोभःसलज्जश्चायमनुरोधः, यत्, संशोधकशैथिल्यात्मुद्राकरवालिश्याच्चवङ्गीयप्रतापे मिवारप्रतापे च विद्यमानमनेकमशुद्धं दयया संशोध्यमिति।
१३५४ वङ्गाब्दीय-
सौरकार्त्तिकदशमदिवसीयम्।
विनीत—
श्रीहरिदासदेवर्म्मणः
नाट्योल्लिखितव्यक्तिगणः।
पुरुषगणः।
| १ | सूत्रधारः |
| २ | सुप्रभदेवोपाध्यायः |
| ३ | शान्तिशरणमिश्रः |
| ४ | प्रतापसिंहः |
| ५ | शम्भुसिंहः |
| ६ | रणजित्सेनः |
| ७ | भीमसिंहः |
| ८ | रहुवीरः |
| ९ | वादसाहः |
| १० | मानसिंहः |
| ११ | सेलिमः |
| १२ | शक्तसिंहः |
| १३ | अमरसिंहः |
| १४ | साहवाजखाँ |
| १५ | मवारकः |
| १६ | नुरमहम्मदः |
| १७ | सोलेमानः |
| १८ | दूतः |
| १९ | माधुकः |
| २० | मधुकः |
स्वस्त्ययनकरणार्थिनस्त्रयो ब्राह्मणाः,त्रयो भिल्लाः, दौवारिकः, सेलिमसैनिकः खोरासानी मूलतानी च। समाप्तिकाले भरतगणश्च मध्ये चारणगणश्च, उभयपक्षसैन्याश्च।
स्त्रीगणः।
| १ | नटी |
| २ | कमला |
| ३ | उद्यानपाली |
| ४ | गौरी |
| ५ | इन्दिरा |
| ६ | प्रतिहारिणी |
| ७ | भगवती दासी |
नर्त्तकीगणश्च
<MISSING_FIG href="../books_images/U-IMG-172354326954.jpg"/>
यवनिका-(सिन्) परिचयः।
प्रथमाङ्के
| प्रथमदृश्यम् | नाट्यशाला |
| द्वितीयदृश्यम् | पर्वतसन्निधाने देवमन्दिरम् |
| तृतीयदृश्यम् | पर्वतसन्निधाने देवमन्दिरम् |
द्वितीयाङ्के
| प्रथमदृश्यम् | राजपथसन्निधाने उपवनम् |
तृतीयाङ्के
| प्रथमदृश्यम् | वादसाहस्य मन्त्रणागृहम् |
चतुर्थाङ्के
| प्रथमदृश्यम् | पर्वतसन्निधाने देवमन्दिरम् |
| द्वितीयदृश्यम् | पर्वतसन्निधाने युद्धशिविरम् |
| तृतीयदृश्यम् | समराङ्गनम् |
| चतुर्थदृश्यम् | नाट्यशाला |
| पञ्चमदृश्यम् | पार्वत्यक्षुद्रनदी प्रान्तरञ्च |
पञ्चमाङ्के
| प्रथमदृश्यम् | निविड़ं महावनम् |
| द्वितीयदृश्यम् | पर्वतसमतलभूमौ पर्णकुटीरम् |
| तृतीयदृश्यम् | पर्वतसमतलभूमौ पर्णकुटीरं वनविड़ालश्च |
षष्ठाङ्के
| प्रथमदृश्यम् | पर्वतसन्निधाने देवमन्दिरम् |
| द्वितीयदृश्यम् | दुर्गे विलासभवनम् |
| तृतीयदृश्यम् | दुर्गे मन्त्रणाभवनम् |
| चतुर्थदृश्यम् | दुर्गसम्मुखे उच्चस्तम्भः |
| पञ्चमदृश्यम् | दुर्गसम्मुखे समराङ्गनम् |
| षष्ठदृश्यम् | दुर्ग, परिखा, अग्निकाण्डञ्च |
<MISSING_FIG href="../books_images/U-IMG-172354446454.jpg"/>
१३५२ वङ्गाब्दीयसौरफाल्गुनसप्तदशदिवसरजन्यां
कलिकाताष्टाररङ्गमञ्चेइमे खल्वभिनेतार आसन्।
<MISSING_FIG href="../books_images/U-IMG-172354446454.jpg"/>
नान्दी—श्रीसनत्कुमारवन्द्योपाध्यायः एम् ए, वि, टि।
सूत्रधारः—श्रीजगन्मोहनज्योतिर्विनोदः।
सुप्रभदेवोपाध्यायः—श्रीयामिनीकान्तविद्यारत्नः।
शान्तिशरणमिश्रः—श्रीमधुसूदनकाव्यतीर्थः।
प्रतापसिंहः—श्रीफणिभूषणरायसाहित्यविनोदः।
शम्भुसिंहः—श्रीरवीन्द्रनाथभट्टाचार्यः वि, ए।
रणजित्सेनः—श्रीशशिशेखरकाव्यतीर्थविद्यारत्नः।
भीमसिंहः —श्रीक्षितीशचन्द्र-आचार्य्यव्याकरणतीर्थः।
रहुवीरः —श्रीवीरेन्द्रनाथभट्टाचार्य्यः।
वादसाहः—श्रीश्रीपतिकाव्यव्याकरणतीर्थः।
सेलिमः—श्रीअदितिरञ्जनठाकुरः।
मानसिंहः —श्रीविष्णुदासभट्टाचार्य्यः।
शक्तसिंहः—श्रीराखालचन्द्रचक्रवर्त्ती।
अमरसिंहः — श्रीभवेशचन्द्रभट्टाचार्य्यः।
साहवाज खाँ — श्रीसुधीन्द्रनाथचतुर्धुरीणः।
मवारकः—श्रीजगन्मोहनज्योतिर्विनोदः।
नूरमहम्मदः —श्रीविनयभूषणचक्रवर्त्ती।
सेलिमानः —श्रीमणीन्द्रनाथठाकुरः।
दूतः—श्रीसन्तोषकुमारभट्टाचार्य्यः।
साधुकः— श्रीकालीनाथवेदान्तशास्त्री।
मधुकः—श्रीगोविन्दचन्द्रचक्रवर्त्ती।
त्रयो भिल्लाः —श्रीकिशोरीचन्द्रः, श्रीविश्वनाथदासः, श्रीसुरेन्द्रनाथचक्रवर्त्ती। स्वस्त्ययनकरणार्थिनस्त्रयो ब्राह्मणाः —श्रीजगन्मोहनः, श्रीविष्णुदासः, श्रीश्यामापदभट्टाचार्य्यः।
चारणगणः— श्रीविश्वनाथदासः, श्रीकिशोरीचन्द्रः, श्रीश्रीशदे।
दौवारिकः, सेलिमसैनिकगणः, खोरासानी, मूलतानी,
भरतगणः, उभयपक्षसैन्यगणः, शिविकावाहकाश्च।
<MISSING_FIG href="../books_images/U-IMG-172354503258.jpg"/>
स्त्रीगणः।
नटी—श्रीसुधीरकुमारविश्वासः।
कमला—श्रीअजितकुमारमजुमदारः।
उद्यानपाली—श्रीकालिदासभट्टाचार्य्यः।
गौरी— श्रीवीरेन्द्रकुमारभट्टाचार्य्यः।
इन्दिरा = श्रीआरतिभट्टाचार्य्या।
प्रतिहारिणौ —श्रीकिशोरीमोहनदासः।
भगवतीदासी—श्रीमणीन्द्रनाथठाकुरः।
नर्त्तकीगणः— श्रीसुधीरः, श्रीशशाङ्कमुखोपाध्यायः।
प्रतिहारिणी।
परिचालकः — श्रीशशिशेखरकाव्यतीर्थविद्यारत्नः।
नाट्यशिक्षकः—श्रीजगन्मोहनज्योतिर्विनोदः।
सङ्गीतशिक्षकः—श्रीनिर्म्मलकुमारगङ्गोपाध्यायः।
मिवारप्रतापम्।
नाटकम्।
<MISSING_FIG href="../books_images/U-IMG-1723205314Screenshot2024-08-09173819.png"/>
प्रथमोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-172354534554.jpg"/>
यो जायापदयोस्तले त्रिजगतामूर्द्धेच सन्तिष्ठते
धत्तेयश्च कृशानुमम्वुच सुखं शीर्षेसदा सन्ततम्।
भुङ्क्तेयोऽप्यमृतं विषञ्च विषमं पाथोधिमन्थोद्भवं
वन्देचित्रचरित्रशक्तिनिकरं ज्योतिः परं तं हरम्॥१॥
अपि च।
सुनातिरिव सम्पत्तिं पूर्णिमेव च कौमुदीम्।
एषा परिषदाप्नोतु तदीयदयया मुदम्॥२॥
नान्द्यन्तेसूत्रधारः। हन्त ! संसदेषा साधीयसीसंवृत्ता। तदार्य्याचिरयति कथमत्रागन्तुम्।
ततः प्रविशति नटीनृत्यन्तीगायन्तीच।
संस्कृतभारतीभारतसंस्कृतिरुदयतु पुनरपि भारतवर्षे। भवने भवने वदने वदने खेलतु संस्कृतभाषा मयूरीसदृशी वारिदवर्षे।
वैदिककर्म्मवैदिकधर्म्ममाचरतु नरो नारीहिन्दुप्रकर्षे।
अस्मिन् कलियुगे योऽभूत् कृतयुगे स भवतु भावो जनगणहर्षे ॥
सूत्र। आर्य्ये! ललितमधुरा तवेयं गीतिः। किन्तु तत्र पृच्छामि —भावपरिवृत्तिरधुना प्रार्थनीयैव; संस्कृतभाषाया उज्जीवनाशंसा तु कथम्?
नदी।सा क्खु, मिच्चुणा कवलिदा त्ति। (क)
सूत्र।(सहासम् ) क एवं व्रवीति?
नटौ। सिक्खिदो लोओ। (ख)
सूत्र।नन्वशिक्षित इति ब्रूहि। येन हि—
वेदादिशास्त्रनिचयस्फुटदिव्यमूर्त्तिः
सा वाक् किमन्यवचनादमरा म्रियेत।
मध्याह्नसूर्य्यकरगो हि यदि ब्रवीति
रात्रिः किलेयमिति हन्त! स एव मूढ़ः॥३॥
भवतु। अवश्यमेव द्रक्ष्यतितथैव संस्कृतभाषया ग्रथितेन नाटकेनाद्य परिषदमेनामनुरञ्जयिष्याम इति।
नटी। अध केण। (ग)
सूत्र। कोटालिपाड़ोनशियानिवासी
महाकविप्राप्ययशोऽभिलाषी।
_______________________________________________
(क) सा खलु मृत्युना कवलितेति।
(ख) शिक्षितो लोकः।
(ग) अथ केन?
_______________________________________________
लोकर्त्तुनागेन्दुमिते शकाब्दे
यन्निर्म्ममेश्रीहरिदासशर्म्मा॥४॥
तदेवाद्यवङ्गीयप्रतापानुजं मिवारप्रतापंनाम नाटकमभिनेतुमभिप्रेमः।
नटी। तर्हि स्खुबहुलोओज्जेवणिन्दां करिस्सदि। (घ )
सूत्र। कथं नाम?
नटी। परीक्खिदगुणअं पुराणं विवज्जिअ अपरीक्खिदगुणस्सणूदणस्स परिग्गहेण। (ङ)
सूत्र। आर्य्ये! नूतनग्रहणे नास्तिपरीक्षापेक्षा, नूतनत्वमेव ग्रहणप्रयोजकम्। पश्य—
नवं नारिकेलंनवीनञ्चचेलं
रमाञ्चापि नव्यां गृहं नूतनञ्च।
वचश्चाप्यपूर्व्वंविशेषेण सर्व्वे
रसज्ञाः पुराणाच्चिरायाद्रियन्ते॥५॥
नटी। होदु दाव। तहवि तु अणवअदभावदाए ज्जेव णिन्दां करिस्सदि। (च)
__________________________________________________________
(घ) तस्मिन् खलु बहुलोक एव निन्दां करिष्यति।
(ङ) परीक्षितगुणकं पुराणं विवर्ज्ज्य अपरीक्षितगुणस्य नूतनस्य परिग्रहेण।
(च) भवतु तावत्। तथापि तु अनवगतभावतयैव निन्दां करिष्यति।
__________________________________________________________
सूत्र। तत् सत्यम्। तथापि त्वहं निन्दाकारिणंपरमोपकारिणमेव मन्ये। येन हि —
दोषी जनो निजमुखे दधदन्यदोषं
कुर्य्याद्विनिन्दितुमनास्तमदोषमेव।
कर्षन् मलंहि वदनेन वनंवराहः
आलोड़यन् परममेव परिष्करोति॥६॥
नटी। अध कए वि देसभासाए ग्गढ़िदस्सरूवअस्सग्गहणेको दोमो। (छ)
सूत्र। (जनान्तिकम्) आर्य्ये! ब्रवीमि ते किमपि रहस्यम्। अस्ति खलु संस्कृतभाषया ग्रथितस्य रूपकस्य ग्रहणे गरीयानाश्वासः। तथा च —
सर्व्वथैवानभिज्ञोऽपि ज्ञापयन् निजविज्ञताम्।
सदोषमपि हिं स्थानं प्रशंसेत् खल्वसंशयम्॥७॥
हन्त! दुरतिक्रमः किल कालमहिमा। यदेकदा खल्वसाधारण एवासीत् संस्कृतभाषाया मानः। अधुना तु—
विधर्म्मिसंसर्गवशात् स मानो निहीनतां प्राप्त इति प्रतीतिः।
नेपथ्य—
सुक्षत्रियस्तच्चमिवारराजो न तेन संसृष्ट इति प्रतीहि॥८॥
___________________________________________________
(छ) अथ कयापि देशभाषया ग्रथितस्य रूपकस्य ग्रहणे कोदोषः।
___________________________________________________
नटी। (सविस्मयम्) अज्जउत्त!क एस तुह वअणंसमत्थेदि? (ज)
सूत्र। (विलोक्य) आर्य्ये! एष तावदुपाध्यायः सुप्रभदेवी द्वितीयमर्थमाविष्कृत्य मद्वचनंसमर्थयन् देवभवनं प्रविशति ।
इति निष्क्रान्तौ।
<MISSING_FIG href="../books_images/U-IMG-172362111154.jpg"/>
प्रस्तावना।
<MISSING_FIG href="../books_images/U-IMG-172362114358.jpg"/>
____________________________________________
(ज) आर्य्यपुत्र! क एष तव वचनं समर्थयति?
____________________________________________
अथ प्रविशति कालोशैलसन्निहितकालीमन्दिरालिन्दे
सचिन्तः सुप्रभदेवः।
सुप्रभ। (देवतां प्रणम्य) साधु शैलूषराज! साधु। सत्यमेवाह भवान् —
विधर्म्मिसंसर्गवशात् स मानो निहीनतां प्राप्त इति प्रतीतिः।
तत्एवाहमपि ब्रवीमि—
सुक्षत्रियस्तश्च मिवारराजो न तेन संसृष्ट इति प्रतीहि॥
प्रविश्य देवसेवकः शान्तिशरणमिश्रः। (उपाध्यायमभिवाद्य) उपाध्याय! किं नाम संवृत्तम्?
सुप्रभ। किमद्यापि नाधिगतो वृत्तान्तः?
शान्ति। नाधिगत एव।
सुप्रभ। गतेऽह्नि मध्याह्नकाले मानसिंहः समागतः।
शान्ति। (सविस्मयम्) किमस्मिन् मिवारराज्य एव?
सुप्रभ। मिवारराज्य एव कमलमीरनगर एव राजभवन एव।
शान्ति। (सविस्मयवैकल्यम्) असम्भावनीयो वृत्तान्तः। तत् किमेकको रक्षिसमेतो वा कियत्सैन्योपपन्नोवा?
सुप्रभ। एकक एव।
शान्ति। (सहर्षम्) हन्त! तर्हि यदैवागतस्तदैव वन्दीकृतः।
सुप्रभ। शान्तं पापम्। श्रीमन्महाराजः प्रतापसिंहो न
यवनः। येन वैरिणो रन्ध्रमनुसन्दधीत निःसहायञ्चवन्ध्रीयात्। अपि त्वसौ सूर्य्यवंशावतंसो वीरधुरीणी न्यायानुवर्त्ती च।
ततश्च —
वीरो वीरान्तरे प्राप्ते हृष्यत्येव हिनस्ति न।
दीपोऽन्यदीपसंयोगे वर्द्धते हि न हन्ति तम्॥९॥
अनेनैव चिरनिर्व्यूढ़विश्वासेन मानसिंहोऽप्येकक एवागत इति प्रणिधीयते।
शान्ति। अथास्य किमागमनप्रयोजनमवगतम्?
सुप्रभ। किमन्यत्, महाराजप्रतापसिंहेन सह वादसाहस्य सन्धिबन्धनमेव प्रयोजनमनुमानसिद्धं सर्व्वेषाम्।
शान्ति। तत् किमत्रोपस्थाने मानसिंहस्य स्वारसिकीखल्विच्छासीत्।
सुप्रभ। न खलु स्वारमिकी। अपि तु—
दृढ़मिह यवनानामाधिपत्यंस्वदेशे
चिरमनुनयवृत्तिर्भीतिसङ्गिन्यवस्था।
परिणयविधियोगाज्जातिधर्म्मप्रणाशः
समजनि समवायः कारणानां चतुर्णाम्॥१०॥
शान्ति। स्थाने खलु मानसिंहस्यात्रोपस्थाने भवदुक्तमिदं कारणचतुष्टयम्। कौटिल्य इव कूटकौशली वादसाहोऽपि नतरामिदमनुमेने। मन्ये च तस्यायमभिसन्धिरासीत्—
हिन्दोर्यवनसम्बन्धः सन्धौ सिध्यत्यसम्भवः।
अन्यथैनं समाक्रामेन्मानसिंहस्तु सिंहवत्॥११॥
सुप्रभ। समीचीनमिदं सम्भावनं भवतः।
शान्ति। नन्वनन्तरः को वृत्तान्तः?
सुप्रभ। अथ मानसिंहो राजभवनद्वारमुपेत्य द्वारपालमब्रवीत्—ब्रूहि महाराजं प्रतापसिंहम्, आतिथेयीमर्थयमानो मानसिंहःप्रथमं साक्षात्कारमपेक्षते, परञ्चपङक्तिभोजनमिति। द्वारपालाद्विदितवृत्तान्तश्च मिवारराजो विस्मयाकुलहृदयो निरतिशययवनसंसर्गिणंपरिजिहीर्षन् शिरःपीड़ापदेशेनात्मजममरसिंहं प्रेषयितुमियेष। अथ पङक्तिभोजनेनापि सन्धातुकामः शक्तसिंहः प्रतिपदमेव प्रतिवदन्नग्रजेनावज्ञातः सक्षोभंगेहान्तरंगतः।
शान्ति। हन्त! ममयमहिम्ना मनीषिणामपि मतयोविक्रियन्ते। येन हि युक्तमुक्तवन्तमपि शक्तसिंहंप्रत्याचक्षाणो राजा न खलु नीतिवैचक्षण्यमाविश्चकार। यतश्च प्रथमतो द्वितीयःसंसर्गः, द्वितीयतश्च सकृन्मात्र एव सः, अस्ति च तत्र विविधमेत्र रहः प्रायश्चित्तम, तदनुष्ठानेन च सर्व्वसामञ्जस्येसम्भवति किमिदं दुर्व्यवसितं नाम।
अयंकल्याणकल्लालः स्वयं सम्मुखमागतः।
दृढे़न स विशालेन शिलाबन्धेन वारितः॥१२॥
सुप्रभ। अये! शूरशिरोमणिः प्रतापसिंहो न खलु यवन इव कूटकौशली, नवा ब्राह्मण इव दुर्बलहृदयश्च। तेन हि—
वीरो वरं स्वीकुरुतेमहापदं
नहि च्छलं संश्रयते तु तुच्छवत्।
अग्निर्हि निर्वाणमलंव्रजत्यपि
न शीततां याति समीरणेरितः॥१३॥
शान्ति।भवतु। कुमारेणागत्य किमनुष्ठितम्?
सुप्रभ। कुमारेणागत्य अभिवादनमन्तरेणाञ्जलिबन्धनम्, स्पर्शनं विना महामूल्यासने समुपवेशनम्, गुणगरिमाणंपरिहाय आश्रयमहिम्न एव परिवर्णनञ्चानुष्ठितम्।
शान्ति। मन्ये — मानसिंहेनापि तत्सर्व्वमवगतम्।
सुप्रभ। किं ब्रवीषि—चतुरचूड़ामणिः खलु मानसिंहः। तेन च तदवगच्छत एव तस्य मालिन्यमापन्नामुखलक्ष्मीः, सञ्जातञ्च सन्धौ सन्दिहानं मनः। तथाप्याशाशेषवशेनासौ तत्रासन एव विशश्राम। अत्रान्तरे कञ्चुकीसमागत्य कुमारमवोचत् — महाराजो भवन्तं द्रष्टुमिच्छति। प्रातिष्ठत च कुमारः। कञ्चुकी च ब्राह्मणोचितसदालापेन मानसिंहं समवर्द्धयत्।
शान्ति। अथ श्रोतुमिच्छामि पराचीनंवृत्तान्तम्।
सुप्रभ। परञ्चैकस्यामेव पङ्क्तौ किङ्करेण केनचिद्विन्यस्तमामनयुगलम्, पाचकेनानीतमुत्तमान्नपूर्णं भोजनभाजनद्वयम्, आगता च मानसिंहमनसि सन्धिसम्पादने कियत्याशा।
शान्ति। अनन्तरं किं वृत्तम्?
सुप्रभ। अनन्तरञ्च कञ्चुकिनमनुयुञ्जानो द्वितीयमासनंकुमारस्य जानानस्तदनुरोधात् प्रथममासनमध्यासीनो मानसिंहः प्रत्यैक्षत कुमारागमनम्।
शान्ति। (सोत्कण्ठम् ) अथागतः कुमारः?
सुप्रभ। हन्त!तस्यागमनसम्भवे ततप्रस्थानमेवासम्भवमासीत्।
शान्ति। ननु तदानीं किमनुष्ठान आसीन्मानसिंहः ?
सुप्रभ। चिरयति कुमारे पङ्क्तिभोजनममम्भवमेव निश्चिन्वानो मानसिंहः कञ्चुकिनञ्चान्नमयदेवताञ्चप्रणम्य परिहाय च भोजनासनंप्रातिष्ठत। प्रतिष्ठमाने च तम्मिन्काचित् किङ्करीसमागत्य पश्यत एव तस्य पदाङ्कान् प्रक्षालयामास गङ्गावारिणा।
शान्ति। हा हन्त! हा हन्त! महामानास्पदे मानसिंहे खल्वेतावत्यवज्ञा न खलु राज्ञो विज्ञतां प्रज्ञापयति।
सुप्रभ। वयमपि नेममाचरणं समर्थयामः।
शान्ति। किं ब्रवीमि—
आशीविषे मणिं दातुंस्वयं स्वगृहमागते।
अनाट्टत्य विधृत्यासौ प्रत्युत प्रहृतः परम्॥१४॥
यातु तावत्। माक्षादेव तदवेक्ष्यमानसिंहेन किमाचरितम्।
सुप्रभ। तदवलोक्यैव मानसिंहःकोपस्फुरितहृदयः कञ्चकिनंप्रत्यवोचत्। ब्रूहि गर्विनिर्बोधंप्रतापम्—
यद्यमुष्य प्रतीकारं न कुर्य्यांवीर्य्यवानपि।
तदाम्बरंन यास्यामि यास्याम्यम्बरतां पुनः॥१५॥
अत्रान्तरे खल्वन्तरालात्काचिदुक्तिरश्रूयत —“त्वदीये-
नावुत्तेनसममेवागन्तव्यम्” इति। तदाकर्णयन्नेव च मानसिंहो झटिति राजभवनान्निर्गत्य तुरङ्गमारूढ़ो निरर्गलंचलितः।
शान्ति। भवतु। किमारम्भः सम्प्रति मिवारराजः?
सुप्रभ। स तु ततः प्रभृत्येव नवनवदुर्गनिर्म्माणम्, पुरातनदुर्गसंस्कारम्, समरसम्भारायोजनम्, सेना-सेनाङ्गानाञ्चसंग्रहंनक्तन्दिवमेव विदधाति
शान्ति। घटनाक्रमेणैतत् सर्व्वं सर्व्वथैवोपपद्यते।
सुप्रभ। तद्भवन्तोऽपि परीक्षितगुणान् ब्राह्मणानुपानीय समीचीनस्वस्त्ययने व्याप्रियन्ताम्।
शान्ति। वाढ़म्।
इति निष्क्रान्तौ।
<MISSING_FIG href=”../books_images/U-IMG-172362272558.jpg"/>
विष्कम्भकः।
<MISSING_FIG href="../books_images/U-IMG-172362276057.jpg"/>
ततः प्रविशति कालौशैलसन्निहित-कालीमन्दिराङ्गने
यथासम्भव-सशस्त्र-सामन्त- सेनानी-सैनिकसमेतः
प्रतापसिंहः।
प्रताप। (सविस्मयामर्षक्षोभम्) नन्वेतावानधःपातः सञ्जातो मानसिंहस्य। यतः खल्वयम्—
जातिं धर्म्मंकुलगुणधनंभूयसीं जन्मभूमिं
मानञ्चालंयवनचरणे निर्व्विवादं समर्प्य।
वृत्तिंगृह्णन् मुदितहृदयः सेवते श्वेव नित्यं
स्वस्थंक्षत्रं वदति च पुनर्गर्विनिर्बोधमन्यम्॥१६॥
सामन्तः शम्भुसिंहः। न केवलं मानसिंहस्य, अपि त्वेकंभवन्तमन्तरेण प्रायेण सर्व्वेषामेव राजपुतराजानामेतादृशो दशा संवृत्ता। तेन च क्षत्रियजातेरीदृशंपूर्व्वापरवैषम्यं विशेषविषादविस्मयावहंमानवमात्रस्य। तथाहि—
जात्युत्कर्षंलिप्समानः सिषेवे
विश्वामित्रो दीर्घकालंतपांमि।
जात्यादीनां ध्वं समुत्प्रेक्षमाणः
क्षत्रव्यहः सेवते तुर्किपादम्॥१७॥
सेनानी रणजित्सेनः। जातिः खलु सर्व्वथा शीर्षवत्तिनीमानवानाम्। येन हि—
भवत्यसौ दुष्करया तपस्यया
व्यतिक्रमादल्पतराच्च्युता भवेत्।
गता न लभ्या बहु चेष्टयापि वा
सती च जातिश्च समानगौरवा॥१८॥
तामीदृशीं जातिं पातयतः सुतरां सिद्ध एव जातिमतः पातः॥
मन्त्री भीमसिंहः। धर्म्मःपुनरसाधारणो बन्धुर्मानवमात्रस्य। तथा च—
ननु धनमिह लोके लोकमुच्चोकरोति
नहि खलु परलोकंयाति लोकेन साकम्।
सुकृतमुभयलोके तुच्चताहेतुरुच्चैः
व्रजति च परलोकंसार्थिभावेन शश्वत्॥१९॥
तमित्यम्भूतंधर्म्मंनाशयतः सर्व्वथानाशयतः सर्व्वथा सर्व्वनाश एव सम्पद्यते।
प्रताप। वीरधुरीणाः! पश्यन्तु भवन्तः—
जन्तूनां जनयन्ति मातुरुचिता देहानि देहार्णवः
मृत्यौ प्रत्युपयान्ति नैव जननीदेहेषु तेऽमीपुनः।
एषां जन्मनि जन्मभूमिकणिकास्त्वायान्ति मृत्यौ पुन-
स्तत्रैव प्रतियान्ति तेन हि गुरुर्मातुः परा जन्मभूः॥२०॥
अपि च।
धत्तेमा दशमासमात्रमुदरे त्वाजीवनं जन्मभूः
स्तन्यं यच्छति सा समाद्वयमियं भक्ष्यंचिरायाङ्गजम्।
बालेन प्रहृतैव सा प्रहरते सैषा तु सर्व्वं सहा
मातुर्भूमिरनेकधा गुरुतरा तेनातिमातोच्यते॥२१॥
(सरोषम्) धिक्, तां खलु विद्रुह्यतां जाल्मानां नामापि कल्मषकारणमेव मन्तव्यम्।
शम्भु। युक्तिमतोयमुक्तिर्देवस्य। उक्तञ्चाप्तेः— “कथापि खलुपापानामलमश्रेयसे यतः।” हन्त! तामेतादृशीमतिमातरं जन्मभूमि राजन्यजन्मान एवाभिद्रुह्यन्ति। विशेषतश्च जयपुर-योधपुर-विकानीर-गोयालियर-पातियालादिराज्यानामधिराजा बहुसंख्या एवं संख्ये यवनशक्तिमेव जाल्माः पूरयिष्यन्ति।
रणजित्। अकिञ्चित्करंसंख्याधिक्यममीषाम्। येन हि—
एकः सूर्य्यःक्षपयतितरामन्धकाराननन्तान्
सिंहश्चैको दलतिगहने संहतान् भूरिजन्तुन्।
एकः क्षत्रान् युधि सयवनान् संहरेदेष राजा
संख्याधिक्यंनहि खलु जयेत् सञ्जयेत् सार एव॥२२॥
प्रताप। (उक्तेषु कर्णमदत्त्वा गगने बद्धलक्ष्यः)दुरात्मन्मानसिंह! त्वं किल मत्कृतमपमानमसहमानस्तत्प्रतीकारंप्रतिजानानः प्रस्थितः। तत्त्वमपि यतस्व तावदस्मदुच्छेदाय, वयमपि यतिष्यामहे युष्मदुच्छेदेन चितोरोद्धाराय। पश्यामि तावत् कतरस्य यत्नः सफलतामुपेयादिति।
शम्भु। न वयं केवलान् यवनपदलिहानानुच्छिद्यैव विरमाम।
रणजित्। अपि तु यवनानपि भारताद्वहिर्विदधामेति वाक्यशेषः।
शम्भु। बाढ़म्।
नेपथ्ये। कालि! कालि! कालि! दानवद्राविण!
सर्व्वे। (आकण्य सोल्लासमुग्रीवञ्चपश्यन्ति)
अथ प्रविशन्ति कालीशंलादवतरन्तः सशस्त्रा भिल्लाः।
भिल्लाः। (अवतीर्य्यपुनस्तमेव मारध्वनिं कुर्व्वन्ती देवतां वीरसञ्चयञ्च प्रणम्य सशस्त्रक्षेपं नृत्यन्तो गायन्ति।)
महु मह महरं सीहु सीहु णिअरंपिउपिउ चउरं वीर!।
लहु लहु चरणं वहु वहु करणं संहर जवणं धीर!॥
करेहि जीवणपणं धरेहिणु पहरणं।
मारेहि जवणगणं पत्थरसमसरीर!॥ (क)
(नृत्यगीतान्तेभिल्लराजो रहुवारा भूमौ जानुयुगलं विन्यस्य प्रतापसिंहं प्रणमति।)
प्रताप। (रहुशिरसि हस्तं निधाय) भिल्लराज! स्वागतम्, सुखी चिरं जीव, ब्रूहि कल्याणं सर्व्वाङ्गीनम्।
रहु। भट्टारअ! तुह्माणं पसादेणअस्थि कल्लाणं सर्व्वाङ्गीणं। (ख)
_______________________________________________________________
(क) मधु मधु मधुरं सीधु सीधु निकरं पिव पिव चतुरं वीर!।
लघु लघु, चरणं बहु बहु करणं संहर यवनं धीर!॥
कुरु जीवनपणं धर नु प्रहरणम्।
मारय यवनगणं प्रस्तरसमशरीर!॥
(ख) भट्टारक! युष्माकं प्रसादेन अस्ति कल्याणं सर्व्वाङ्गीनम्।
________________________________________________________
प्रताप।तत् किं देवताप्रणाम एव युष्माकमागमनप्रयोजनम्?
रहु। भट्टारअ! सुणिदं अह्मेहिं माणसिंहो आगदुअ तुए सह भोअणं पत्थअन्तो पञ्चाक्खादो पड़िणां अहिरुहिअ पत्थिदो त्ति। ता जुद्धं सम्भाविअ तुह आस्मअलाहत्थं अह्मे आअदा। (ग)
सर्वे। (सानन्दं मारध्वनिंंकुर्वन्ति।)
प्रताप। (सहर्षम्) साधु भिल्लराज! साधु। तदा तु युष्माभिराशातोतमुपकृता भविष्यामः।
भीम। हन्त! अनुकरणीयाः खल्वमी सभ्यम्मन्यैः। येन हि—
सुन्दरसरला प्रकृतिः निरतिशया खलु सत्यधर्म्मनिष्ठा।
अनाड़म्वरश्च वेश एषणीयमेषां जीवनम्॥२३॥
शम्भु। (सकौतुकम् ) भिल्लराज! समानेऽपि सम्बन्धे मिवारपक्षपरिग्रहे को नाम युष्माकमाग्रहहेतुः?
रहु। जीवणं एक्क एक्कस्य, जन्मभूमी तु सव्वस्सज्जेव सिणेहठ्ठाणां। (घ)
शम्भु। भिल्लराज! भवदाशयमपि धन्यं मन्ये। येन खल्वेतत्तात्पर्य्यपर्य्यवमायि ते वचनम्।
___________________________________________________________
(ग) भट्टारक! श्रुतमस्माभिः— मानसिंह आगत्य त्वया सह भोजनं प्रार्थयन् प्रत्याख्यातः प्रतिज्ञामधिरुह्य प्रस्थित इति। तद्युद्धं सम्भाव्य तवाश्रयलाभार्थं वयमागताः।
(घ) जीवनमेकैकस्य, जन्मभूमिस्तु सर्व्वस्यैव स्नेहस्थानम्।
_______________________________________________________
स्वस्वजीवनदानेन रक्षणीयेव जन्मभूः।
आदत्ते हि महद्वस्तु स्तोकत्यागेन बुद्धिमान्॥२४॥
भीम। अथवायमेवास्य वचनार्थः—
प्रीतिः स्थानं भवति भुवने जीवनं व्यष्टिभूतं
तस्याः स्थानं निखिलनिलया जन्मभूमिः समष्टिः।
आद्यात्यागे ह्रसति हि कियत् पूर्णरूपा द्वितीया
शेषात्यागे द्वयमपि चिरं हन्त! नश्यत्यवश्यम्॥२५॥
शम्भु। अतएवाघोषयन्ति तत्प्रीतिमन्तः सुसन्तानाः— “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति।
प्रताप। यदीदृगेव नाम जन्मभूमिः, तदा तस्याः परिरक्षार्थमुद्धारार्थं वा सन्तानानां कतिविधः केशः महनीयः स्यात्?
सर्व्वे। सर्व्वविध एव।
प्रताप। कियांस्त्यागो विधेयः?
सर्व्वे। प्राणपर्य्यन्तः।
रहु। देहस्ससेसरत्तबिन्दुपज्जन्तो। (ङ)
प्रताप। तर्हि स्मरन्तु भवन्तः— ऋषिरपि परशुरामः प्रतिज्ञारूढ़ एव त्रिःसप्तकृत्वो राजन्यविनाशेन निष्ठुरतानिष्ठामनुष्ठापितवान्, भीष्मोऽपि प्रतिज्ञामाश्रयन्नेव राज्यवर्ज्जनपुरःसरं नेष्ठिकब्रह्मचर्य्यं पालयितुमलमासीत्; पार्थः
_________________________________
(ङ) देहस्य शेषरक्तविन्दुपर्य्यन्तः।
___________________________________
किलार्ज्जनोऽपि च प्रतिक्षागुणादेव रवेरस्तगमनात् पूर्व्वं जयद्रथमस्तं गमयितुमशक्नोत्। तेन च वयमपि तामेव प्रतिज्ञामाश्रयामः।
सर्व्वे। उत्तमः प्रस्तावः।
प्रताप। तदा खल्वेषा जगदम्वा जगदीश्वरी, अयञ्च क्षत्राणां जीवनसम्वलं तरवारिः, अस्याः समक्षम् इमञ्च स्पृष्ट्वा प्रतिजानतां भवन्तः।
सर्व्वे। (जानुयुगलं भुवि विन्यस्य तरवारिञ्च स्पृष्ट्वा श्रेणीबद्धभावेन) सज्जीभूताः स्मः।
प्रताप। (स्वयमपि तथा कृत्वा) चितोरोद्धारं यावत् सान्वया एव वयं प्रयोजने जायमाने समरे प्राणानपि प्रदास्यामः।
सर्व्वे। वाढ़म्।
प्रताप। भोजने पादपपत्रमाश्रयिष्याम।
सर्वे। ओम्।
प्रताप। तृणशय्यामधिगय्य यामिनीं यापयिष्यामः।
सर्वे। सुदृढ़मेवाङ्गीकुर्म्महे।
प्रताप। सर्व्वविधमेव वेशविलासं परिहरिष्यामः।
सर्वे। ध्रुवमेवोररीकुर्म्मः।
प्रताप। एकं प्रहरणसम्बन्धमन्तरेण सर्व्वं यवनसम्वन्धं वर्ज्जयिष्यामः।
सर्वे। सत्यमभ्युपगच्छामः।
प्रताप। (उत्थाय जगदम्वां प्रत्यञ्जलिं बध्नाति।)
सर्वे। (उत्थाय तथैवाञ्जलिं बध्नन्ति।)
प्रतापादयः सर्वे। (सभक्तिगदगदम्) मातर्दानवमर्द्दिनि! सर्व मङ्गले!
रामस्य भीष्मस्य धनञ्जयस्य च
यथा प्रतिज्ञा सफला कृता त्वया।
तथा प्रतिज्ञां सफलां कुरुष्व नः
चिरञ्च भृयाः समरे सहायिनी॥२६॥
(इति देवतां प्रणम्य निष्क्रान्ताः सर्वे।)
<MISSING_FIG href=”../books_images/U-IMG-172364807756.jpg"/>
प्रतिज्ञा नाम प्रथमोऽङ्कः॥०॥
<MISSING_FIG href="../books_images/U-IMG-1723274790Screenshot2024-08-10125610.png"/>
द्वितीयोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1723274863Screenshot2024-08-09173819.png"/>
अथ प्रविशति शिविकारूढ़ा कमला।
कमला। (शिविकातोऽवतीर्य्य) अद्य सभावमानात् परं विश्रामभवनं गच्छन् वादसाहः स्वयमेव रहसि समाहूयार्य्यपुत्रमवोचत्— “राजन्! अद्यतने सायंकाले विशाले सुसज्जिते चान्तःपुराङ्गने भविष्यति निषिद्धपुरुषप्रवेशा महती महिलामेला। तत्रागमिष्यति हिन्दुयवननिर्व्विशेषण विलासिनीगणः, विचरिष्यति चासौ पण्यवीथिकासु हासकौतुककोलाहलेन क्रीणन् विक्रीणन् वा वस्तुजातम्, पुरस्करिष्यति च तं मन्महिषीगणः समागत्य रत्नालङ्कारवसनवितरणेन। तदद्य तामलङ्करिष्यति भवतोऽपि सहधर्म्मिणीति भवन्तमभ्यर्थये, मन्ये च सैव ग्रहीष्यति प्रथमं पुरस्कारमिति।”
तदिदमाकर्ण्यं पिशाचहासमिव यवनप्रणयं भयावहं मन्यमानामनिच्छन्तीमपि मामार्य्यपुत्रो बहुविधमाश्वासयन्प्रैषयदेव ; अहमप्यगत्यैवागच्छम्। येन हि—
सत्यं हि योषितः सत्याः पतिः परमदेवता।
मन्यते तेन तद्वाचंवेदवाचमिव ध्रुवाम् ॥१॥
भवतु। सतीकुलदेवता सर्व्वमङ्गलैव सर्व्वथा शरणम्।(परिक्रम्य) हन्त! सेयमिन्द्रप्रस्थनगरी। अत्र किल
कदाचिद्धर्म्मराजो राजसूयमन्वतिष्ठत्, इदानीञ्च विधर्म्मराजः प्रतिदिनं शतशतगवीहत्यामनुतिष्ठति; पूर्वमीदृ
शे सायं समये खल्वग्निहोत्रिणां होमधूमा गगनमण्डलमप्लावयन्, अधुना तु यवनहतानां गवामस्त्रस्रोतांसि भूतलंप्लावयन्ति। (विलोक्य) हन्त! रविरयमस्तं याति,उदेष्यति च पुनः प्रातः। हा भगवन्! यः किल हिन्दूनां गौरवरविरस्तं गतः, स किं पुनर्नोदीयात्? कथमुदीयात्? उदयहेतवः पुरुषा एव न सन्ति, ये च सन्ति, ते हि पुरुषनामानः शिलीमुखाः, यवनपदलेहिनः पुरुषकलङ्का वा। (स्मृत्वा सहर्षम्) अस्ति खलु पुरुषसिंहः प्रतापसिंहः। (विचिन्त्य सविषादम्) हन्त! स खल्वेकः, तत् किं हिन्दुगौरवमुद्धर्त्तुं प्रभवेत्?(साटोपम्) प्रभवेदेव। येन हि—
एकः स्फुलिङ्गो ग्रसते महावनं
रुद्रः किलैको धुनुते जगज्जनान्।
एको मरुत् पातयते च पादपान्
एकः प्रतापोऽपि तपेद्विधर्म्मिणः॥२॥
(अञ्जलिं बद्ध्वा) मातर्दानवमर्द्दिनि! वितर प्रतापसिंहस्य भुजयोर्विपुलं बलं हृदये च महान्तमुत्साहम्।
(परिक्रम्य सौरभमनुभूय) अये! कुत इदमलौकिकं सौरभमनुभूयते? (उपसृत्यः विलोक्य च) आं तदिदं श्रुतपूर्वं मनोहरमुद्यानं वादसाहस्य। (किञ्चित् प्रविश्य) हन्त! मणिमयाः पन्थानः, मरकतमयान्यालबालानि, पिहित-
मणिवेदयो महामञ्जवः कुञ्जाः, विसर्पिसौरभाणि देवलोभनीयानि नानाविधकुसुमानि च परिदृश्यन्ते।हा धिक्, यद्यहममुष्य स्वामिन्यभविष्यम्, तर्हिखल्वन्तरान्तरा विल्वपादपान् तुलसीतरूंश्चारोपयिष्यम्; येनेष्टदेवतार्च्चना समीचीना सुकरा चाभविष्यत्।
किं तया पुष्पसम्पत्त्या या न पूजोपयोगिनी।
किंतया हि विलासिन्या या न पर्त्युर्मनोरमा ॥३॥
भवतु;पश्यामि तावत् — कियतीमुद्यानशोभासम्पदम्। अस्मि च वीरतनया गुप्तशस्त्रिका च; निषिद्धपुरुषप्रवेशश्चायं प्रदेशः। (परिक्रम्य विलोक्य च) अये! केयमवलाप्याकारसूचितमहावला कर्कशमूर्त्तिरायाति? उद्यानपाली प्रतिहारिणी वा भवेत् ; कथमसौ महिलामेलां न गच्छति? आं उद्यानरक्षार्थं न गता। (इति परिक्रामति।)
प्रविश्योद्यानपाली। अह्मो! का एषा एआइणी उज्जाणे परिव्भमदि? ता एषा रूवेण अवररूबबदीणं पञ्चादेसो ज्जेव। अच्छरा भविस्सदि, अच्छरावि महिलामेलादं सणणिमित्तं आअदा भवे। होदु दाव, उवगदुअ पुच्छेमि। (उपसृत्य) कां अत्तभोदीं अबअच्छामि? (क)
____________________________________________________________
(क) अहो! का एषा एकाकिनी उद्याने परिभ्रमति? तदेषा रूपेणापररूपवतीनां प्रत्यादेश एवं अप्सरा भविष्यति, अपरापि महिलामेलादर्शननिमित्तम् आगता भवेत्। भवतु तावत्, उगसृत्य पृच्छामि। कामत्रभवतीमवगच्छामि।
__________________________________________________________
कमला। क्षत्रियपुत्रीं क्षत्रियकलत्रञ्चावगच्छ।
उद्यान। ता एआइणीए उज्जाणप्पवेसे हेदू? (ख)
कमला। महिलामेलां गच्छन्ती प्रथममलौकिक सौरभेण निवर्त्तिता, परञ्चोद्यानशोभया प्रवेशिता। येन हि—
पुष्पकान्तिरतुला ससौरभा
शारदी शशधरस्य कौमुदी।
माधुरा च गुणगानसम्भबा
कं नु नो हरति सेन्द्रियं जनम्?॥४॥
उद्यान। अत्तणः सरिसी अङ्गणा अत्ति कधेहि। (ग)
कमला। (स्मितं करोति।)
उद्यान। देवि! भोदीए भत्तुणो णाम शुणिदुं इच्छेमि। (घ)
कमला। अये! नाहं यवनी, येन प्रहीष्यामि भत्तर्नाम।
उद्यान। सङ्घेदेण भणाहि। (ङ)
कमला। वादसाहस्य सभाकविः।
उद्यान। (सविस्मयसम्भ्रमम्) अह्मो! भोदी क्खु पित्थिराअमहिसी। (च)
________________________________________________________
(ख) तदेकाकिन्या उद्यानप्रवेशे हेतुः?
(ग) आत्मनः सदृशी अङ्गना चेति कथय।
(घ) देवि! भवत्या भत्तुर्नाम श्रोतुमिच्छामि।
(ङ) सङ्केतेन भण।
(च) अहो! भवती खलु पृथ्वीराजमहिषी।
________________________________________________________
कमला। अथकिम्।
उद्यान। ता किं भोदी सअं आअदा? (छ)
कमला।न खलु। एतदर्थं स्वयं वादसाहेनैवाभ्यर्थितः सभाकविः।
उद्यान। जुज्जदि, तुमं एरिसो त्ति कदूअ सअं वादसाहो ज्जेव अव्भत्थेदि। (स्वगतम्) ता एरिसं इत्थिआरदणं जइ वादसाहस्य अप्पिदुं पारेमि, तहिं मिच्चुपज्जन्तं अत्थचिन्तादो णिवित्तिं लहिस्सामि। तेण अ एत्थ मए जदनो करगिज्जो। (ज)
कमला। नन्वितः कियद्दूरे महिलामेला?
उद्यान। मा चिन्तेहि अहं ज्जेव भोदीं महिलामेलां वादसाहं अ दंसइस्सामि। (झ)
कमला। (विरक्तिमभिनीय) धिक्, वादसाहदर्शनेन किं प्रयोजनम्?
उद्यान। देवि! अणेआओ ज्जेव महिलाओ तं पत्थेन्ति। (ञ)
__________________________________________________________
(छ) तत् किं भवती स्वयमागता?
(ज) युज्यते, त्वमीदृशीति कृत्वा स्वयं वादसाह एव अभ्यर्थयते। तदीदृशं स्त्रीरत्नं यदि वादसाहस्यार्पयितुं पारयामि, तदा मृत्युपर्य्यन्तम् अर्थचिन्तातो निवृत्तिं लप्स्ये। तेन चात्र मया यत्नः करणीयः।
(झ) मा चिन्तय, अहमेव भवतीं महिलामेलां वादसाहञ्च दर्शयिष्यामि।
_____________________________________________________________
कमला। अथ श्रूयते— महिलामेला निषिधपुरुषप्रवेशेति। तत् कथं तत्र वादसाहः प्रविशति? तत् किमसौ न पुरुषः?
उद्यान। स ण पुरिसो, किन्तु महापुरिसो ज्जेव। ता तस्म पवेसे ण दोसो। (ट)
कमला। तर्हि यज्ञवाटे महाकुर्क्कुरप्रवेशेऽपि न दोषः?
उद्यान। ण जुज्जति भोदीए एरिसं भणिदुं। (ठ)
कमला। तद्ब्रूहि वादसाहदर्शने किं प्रयोजनम्?
उद्यान। अलोइओ सुहसम्भोओ अदिट्टउव्वो पुरक्कारो अ। (ड)
नेपथ्ये गायति।
हे मधुप! हे मधुप!
विचरसि किं न पतसि किं न पिवसि किं मधुप!
गुणगुणमालय।
चलति मलयपवनो विधुतकुसुमकाननी
नवे वने नवो रव एति पिकजो रसय!॥
उद्यान। देवि! पेक्ख महिलास्मेणीतहिं ज्जेव गाआन्तीगच्छदि। ता तुमं वि चल, तुमं ज्जेव पढ़मं पुरक्कारं लहिस्मसि। (ढ)
____________________________________________________________-
(अ) भवति! अनेका एव महिलास्तंप्रार्थयन्ते।
(ट) स न पुरुषः, किन्तु महापुरुष एव। तत्तस्य प्रवेशे न दोषः।
(ठ) न युज्यते भवत्या ईदृशंभणितुम्।
(ड) अलौकिकः सुखसम्भोगः अदृष्टपूर्वः पुरस्कारश्च।
___________________________________________________________
कमला।(स्वगतंसोद्वेगञ्च) तदिदमुपस्थितमाशङ्कितचरं दुर्ज्जातम्। तदितो निष्कृतिंदुष्करामेव मन्ये। भवतु, इदानीमस्याः प्रलोभनमेव प्रथमो निष्कृतेः पन्थाः। (प्रकाशम्) सखि! उद्यानपालिके! त्वां पुरस्कर्त्तुमिच्छामि।
उद्यान। केण कज्जेण। (ण)
कमला। अवाधमविलम्वञ्चमे स्वभवनप्रेषणेन।
उद्यान। एसा ज्जेव आअदा, एषा ज्जेव जास्मदि? (त)
कमला। सखि! आकस्मिको मां बाधते शिरःपीड़ा।
उद्यान। हला! सुसमामईंमेलां महिममअंमेलाणाअअञ्च ण पेक्खिस्मदि? (थ)
कमला। सखि! यात्रान्तरे प्रक्षिष्ये। येन हि—
रुजया विकले कलेवरे प्रमदो नैव पदं प्रपद्यते।
मरुता विधुते तरोर्दले विगलत्यदेव हि निष्पतन्मधु॥५॥
उद्यान। महि! तहिं गदाए ज्जेव तुह पीड़ा उवसमं गमिस्मदि। जेणक्खु–
_________________________________________________
(ढ) देवि! प्रेक्षस्व, महिलाश्रेणीतस्यामेव गायन्ती गच्छति। तत्त्वमपि चल, त्वमेव प्रथमं पुरस्कारं लप्स्यसे।
(ण) केन कार्य्येण?
(त) एषैवागता, एषैव यास्यति?
(थ) हला! सुषमामयींमेलां महिममयं मेलानायकञ्च न प्रेक्षिष्यसे?
________________________________________________
पुप्पमई सुहसज्जा अदिट्टउव्वा विलाससामग्गी।
पुरिसो वि लोहणिज्जो महोसहं युवदिरोअस्स॥६॥ (द)
कमला। (सरोषम्) धिगिमामात्मौपम्येनोक्तिम्।
मृत्युमेव वृणुते वरं सती
नाङ्गमर्पयति पूरुषे परे।
जाह्नवी पथि विशुष्यति क्वचित्
सिन्धुगा न तु नदान्तरंव्रजेत्॥७॥
उद्यान। (स्वगतम्) जइक्खइमं परिच्चआमि, तहिं इमाए पुरक्कारे अप्पो लाहो, बिदिदवुत्तन्तस्सवादसाहस्सतु महन्तो ज्जेव तिरक्कारो गुरुओ दण्डो वा भविस्सदि। वादसाहस्सअप्पणे तु आसाणुरूवो ज्जेव पुरक्कारो भवे। ता तदत्थंज्जेवं मए जदणिज्जं। (प्रकाशम्) सहि! जब अहं दाव तुमं णपरिच्चयामि। (ध)
___________________________________________________
(द) सखि। तस्यां गताया एव तव पीड़ा उपशमं गमिष्यति। येन खलु—
पुष्पमयी सुखशय्या अदृष्टपूर्व्वा विलाससामग्री।
पुरुषोऽपि लोभनीयो महौषधं युवतिरोगस्य॥६॥
(ध) यदि खल्विमां परित्यजामि, तदा अस्याःपुरस्कारे अल्पोलाभः, विदितवृत्तान्तस्य वादसाहस्य तु महानेव तिरस्कारो गुरुको दण्डो वा भविष्यति। वादसाहस्य अर्पणे तु आशानुरूप एव पुरस्कारो भवेत्। तत्तदर्थमेव मया यतनीयम्। सखि! यद्यहंतावत् त्वां न परित्यजामि।
________________________________________________
कमला। अये! कः खलु मां रोद्धुमीश्वरः? जानासि न,
सुरधुनीं गिरिगह्वरभेदिनीं
जलनिधिंप्रति यानपरायणाम्।
नहि गिरीश्वरशक्तिरपि क्षमा
पथि निरोद्धुमवार्य्यजवान्विताम॥८॥
उद्यान। सहि! णं कधेमि, मा दाव अन्तसुहविमुहीहोहि। (न)
कमला। (सरोषम् ) आः पापे! पुनरपि पापप्रस्तावः।
उद्यान। (सहासम्) वालिए!ता किं विभावेसि एत्थ वितुमं साहीणा त्ति?(प)
कमला।(साटोपम्) कः सन्देहः। अरे!
आर्य्या सतीवह्निशिखासमाना
तृणीपमाना यवनीकिल त्वम्।
तत् कुट्टनीह प्रसभप्रवृत्ते-
र्द्रुतं निवर्त्तस्वजिजीविषुश्चेत्॥९॥
(इति शस्त्रीं निष्काशयति)
उद्यान। (स्वगतम्) एआइणी ण पारेमि। ता वेणरवेण अणाओआमन्तेमि। (प्रकाशम्) ता चिट्ट तुमं। (इति वंशीमानेतुमुद्यानद्वारगृहान्तरंप्रविशति।) (फ)
___________________________________________________
(न) सखि! ननु कथयामि— मा तावदात्मसुखविमुखी भव।
(प) बालिके! तत् किं विभावयसि अत्रापि त्वंस्वाधीनेति?
________________________________________________
कमला। (द्रुतं गत्वा तत्कपाटयुगलंसंयोज्य वहिरर्गलेन रुणद्धि।)
उद्यान। (अन्तगृहादेव)बालिसे! मिच्चुमुहंपविससि। (ब)
कमला। कुट्टनि! चिरं निरयनिवासमावस। (इति द्रुतमुद्यानद्वारंगच्छति।)
अत्रान्तरे वाहिकाः नारींकाञ्चिदवतार्य्यशून्यां शिविकामादाय तद्द्वारसम्मुखमार्गेण गच्छन्ति।
कमला। (विलोक्य द्रुतमुपसृत्य) अये! क्षिप्रमवतार्य्यतां शिविका।
वाहिकाः। (शिविकामवतार्य्य) अह्मेकहिं गच्छह्म? (भ)
कमला। (शिविकामारोहन्ती क्षुद्रपथं प्रदर्श्य) अमुना वर्त्मना द्रुतं निःशब्दञ्च सभाकवेर्भवनम्। (इत्यारोहति)
वाहिकाः स्कन्धेषु शिविकामुत्तोल्य धावन्ति।
इति निष्क्रान्ताः सर्व्वे।
<MISSING_FIG href="../books_images/U-IMG-1723287917Screenshot2024-08-10163459.png"/>
इतिकमलाकौशलं नाम द्वितीयोऽङ्कः॥०॥
<MISSING_FIG href="../books_images/U-IMG-172365068354.jpg"/>
__________________________________________________
(फ) एकाकिनी न पारयामि। तद्वेणुरवेण अन्या आमन्त्रयामि। तत् तिष्ठत्वम्।
(ब) बालिके! मृत्युमुखं प्रविशति।
(भ) वयं कस्मिन् गच्छामः?
___________________________________________________
तृतीयोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1723288066Screenshot2024-08-09173819.png"/>
अथ प्रविशति मन्त्रणाभवने सचिन्तो वादसाहः।
वाद।(परिक्रामन्) हन्त! प्रायेणैवायथार्थो लोकवादः। तथा च दीनतो धनी, धनितो राजा, राजतश्च सम्राट्सुखीति स्वप्रत्ययमात्रवर्त्तिनो लोका वदन्ति। अनुसन्दधानास्तु निपुणं परीक्षमाणा विचक्षणाः सर्व्वथैवामुं मतवादंप्रत्याचक्षाणाएतत्प्रातिलोम्येनैब सुखं समर्थयन्ते। अहं पुनरेकं मन्यासिनमेव, सुतरां सुखास्पदंमन्ये।
येन हि—
यावतीह गृहिणी धनसम्प-
त्तावतीध्रुवममुष्य हि चिन्ता।
चिन्तयातिविकले किल लोके
शान्तिमन्नहि सुखं समुपैति॥१॥
विशेषतस्तु भारतसम्म्राट्कदापि सुखं शान्तिं वा नाशास्ते। तथा च—
नानाजाति-वचोवर्ण-धर्म्मवेशास्पदं बृहत्।
एकंहि भारतंमन्ये द्वितीयां पृथिवीमिव॥२॥
तेन च गोवधविधाने तीव्रमुन्माह्यति रोषेणार्य्यः, नितरां नृत्यति तोषेण यवनः, गोवधनिषेधे तु तुष्यति हिन्दु, रुष्यति मुसलमानः। एष चोभयोरेवार्य्य-यवनसमाजयोर्जातिगत-
तीव्रविद्वेषप्रसूतो विषमः स्वभावः। तथा चार्य्याणां धर्म्मशास्त्र एव मधुपर्के गोवधो विधिबद्धः, महाकविर्भवभूतिश्चोत्तररामचरिते तथैवोदाजहार; गोमेधो नाम यज्ञश्चासीत्। राजा रन्तिदेवश्च यागहतानां गवामस्रोस्रोतसा चर्म्मण्वतीं नामैकां सरितमेव प्रवर्त्तयामास इत्यादिकं श्रूयते। अथ चाधुना गोवधं शृण्वन्त एवामर्षेणोन्माद्यन्ति। यवनाश्च गवेतरेषां पशूनां विशसनेनैव पिशितपिपासां पूरयितुं पारयन्तोऽपि गा एवालभन्ते। अपि चार्य्याभगवतश्चिन्मयतया निराकारतां सिद्धान्तयन्ति निर्म्मिण्वन्ति च मूर्त्तिमर्च्चयन्ति च तामेव; यवनाश्च भगवतो व्यापित्वमङ्गीकुर्व्वन्ति धावन्ति च मक्काम्।
तदीदृशान्सिद्धान्तविरुद्धानाचारानालोचयन्नुभयसमाज एवोभयं समाजमुपहसति निन्दति विवदतेच। अतएवामीषामुभयेषामेवसामञ्जस्यमञ्जसा विधातुकामेन मया राजकार्य्येमहासभायाञ्च प्रायेण समानसंख्ययैव विन्यस्ता हिन्दुमुसलमाना मौलभीपण्डिताश्च; शोणितसंक्रमणाय चोपक्रान्तो यौनः सम्बन्धः; महिलानां मेलनाय च मे जन्मदिवसे कल्पिता महिलामेला। (स्मृत्वा सलज्जम्) तत्र चोद्यानपाली कमलासंलापे मदभिधानमभिदधाना नितरामेव प्रमाद्यति स्म। यातु तावत्, परोक्षे परसंलापेन खलु मे दोषलेशावकाशः। अथ चैतदेव हि दुष्कर्मणः फलम्—
न शङ्कते यद्यपि दण्डमात्मन-
स्तथाप्यसावुद्विजते च लज्जते।
निजे च धन्ते परगुप्तमन्त्रितं
न शान्तिमाप्नोति च दुष्क्रियो जनः॥३॥
आस्तां तावत्। इदं नाम भारतं वर्षं चिरमेव हिन्दूनां स्थानमिति हिन्दुस्थानमाख्यायते; अद्यापि च हिन्दव एव संख्यया भूयांसो गुणेन गरीयांसः सम्पदा च महीयांसः; तथापि तु धर्म्मों विश्लथ इत्येकतापरिहीनाः। तथा च—
जनानां योजकं धर्म्मं सूत्रं सुमनसामिव।
धर्म्माभावे तु भिद्यन्ते सूत्राभावे च ता इव॥४॥
अत एवामी विजिताः, यवनाश्च विजेतारः संवृत्ताः। अथवा नानाकुसुमानां मधूनि मधुचक्रेष्विव हिन्दूनां धर्म्माणि मधुसूदनसरखती-तुलसीदासादिषु पुञ्जीभूतानीव सञ्जातानि। अत एवामी ‘नतरामेव मे श्रद्धामादधाना धर्म्मचार्य्यतायां स्थापिताः, वीरधुरीणा मानसिंहादयश्च सुतरामेव विश्वासमासादयन्तः सेनानायकतायां नियुक्ताः। अनेनैव च हेतुना मुसलमाना मां हिन्दुम्मन्यमेव मन्यन्ते रहसि हसन्ति निन्दन्ति च। तथापि चाहमिमां साधीयसीं नीतिं न परिहरामि। भवतु तावत् (विचिन्त्य) तत् कथं चिरयति मानसिंहः—
सिंहः सिंहेन युक्तो वा वियुक्तो वा हतोऽपि वा।
(इत्युच्चारयन्नेव ससम्भ्रमम्)
नाशङ्क्यमोदृगन्याय्यं प्रतापे तु प्रतापिनि॥५॥
(दृष्ट्वा) हन्तायमागच्छति मानसिंहः। (विशेषणावलोक्य सोद्वेगम्) किमेतत् —
म्लानं मुखं हृदयदुःखमलं व्यनक्ति
रोषानलं मनसि शंसति तीव्रदृष्टिः।
आबद्धमुष्टिरपि वक्ति दृढ़प्रतिज्ञां
तस्मादभूद्विषमदुर्घटनैव कापि॥६॥
प्रविश्य मानसिंहः। (उष्णीषमवतार्य्याभिवादयते।)
वाद। (प्रत्यभिवाद्योपविश्य च) ननु क्रियतामासनग्रहणम्।
मान। (सामर्षक्षोभम्) साम्प्रतं भद्रासन्ने ममासनग्रहणमसाम्प्रतमेव।
वाद। [सोत्कण्ठम्] हेतुमत्रावगन्तुमिच्छामि।
मान। [सक्षोभम्]
सौहृद्यं घटयितुकाम एव गत्वा
दौर्हृद्यं समघटयं नितान्ततीव्रम्।
न्यक्कारं समधिगतस्तथा किलाहं
चाण्डालो मलवहनो यथापि वा खा॥७॥
वाद। (सौत्सुक्यम्) किं नु नाम संवृत्तम्?
मान। (सवैधुर्य्यमामूलं कर्णे कथयति।)
वाद। (सक्रोधाभिनयम्) अहह! दारुणो व्यवहारः। पतङ्गस्य पावके पादप्रहारः, फेरोः केशरिणः केशाकर्षणम्, मूषिकस्य च करीन्द्रास्कन्दनम्। (स्वगतं सहर्षम्) सिद्धं नः समीहितम्।
मान। तदानीञ्च मे —
परया घृणया तया रिपोरपमानेन विशङ्कटेन च।
प्रतिलोमविलादिबोदगुर्भृशकोपानलविन्दवो द्रुतम्॥८॥
वाद। ततो भवतोऽप्याचरणं श्रोतुमिच्छामि।
मान। ततः कञ्चुकिनमश्रावयं मत्प्रतिज्ञाम्।
बाद। कीदृशीं नाम?
मान। (साटोपम्)
यद्यमुष्य प्रतीकारंन कुर्य्यां वीर्य्यवानपि।
तदाम्वरं
न यास्यामि यास्याम्यम्वरतां पुनः॥९॥
वाद। साधु कृतम्। आचारोचिता समीचीना चेयं प्रतिज्ञा।
मान। तदिदानींकिं नाम विधेयम्?
वाद। अत्र तावद्भवदिच्छैव सर्व्वथा प्रमाणम्।
मान। (सगर्व्वम्) श्रूयतां तर्हि —
मिवारजयमग्रतः कमलमीरसंलुण्ठनं
प्रतापधृतिमानयं प्रसभमस्य दिल्लीपुरे।
समंमुसलमानकैःसदसि भोजनं तस्य च
क्रमेण करवाण्यहं तव समेत्य साहायकम्॥१०॥
वाद। भवादृशे वीरधौरेये सर्व्वमेवेदं सम्भाव्यते। अहो! विस्मृतंमयैतज्जिज्ञासितुम्। तस्मिन् दुर्व्यवहारे कस्यापि कोऽपि प्रतिवादो नासीत्?
मान। कञ्चुकिमुखादश्रौषम् —अनुजः शक्तसिंहः खलु
प्रतिवदन्नग्रजेन प्रतापेन निराकृतस्तिरस्कृतश्च गृहान्तरं गत इति।
बाद। (सहर्षम्) तर्हितेन विभीषणक्रिया कारयितव्या।
मान। अत्रास्ति गरीयान् संशयः। येन हि—
एकशोणितसम्बन्धः कथमन्यां क्रियां क्रियात्।
पद्मयोर्भिन्नगन्धित्वं नैककासारजातयोः॥११॥
आस्तां तावत्। तथाप्येकः शक्तसिंहः किमधिकं कर्त्तुं शक्तो भवेत्?
बहौ हि सिंहे हरिणः किलैक-
स्तेषां बलंनाभ्यधिकंविदध्यात्।
गतेषु चास्मासु स शक्तसिंहः
शक्तोऽप्यशक्तो भवितैव वाढ़म्॥१२॥
वाद। अथाधिगतंभवता कियती सैन्यसंख्या प्रतापस्येति।
मान। पञ्चाशत्सहस्रपर्य्यन्ता। तेन च द्विलक्षसैन्योपपन्नेमयि सागरे सरिदिव सा लयं यास्यति।
वाद। मा मैवम्।
आक्रान्तः प्राणरक्षार्थमाक्रन्ता तद्ग्रहाय तु।
युध्यते युधि तेनाद्यो दुर्बलोऽपि बलीयते॥१३॥
मान। युक्तिरियं शतश एव प्रत्यक्षसिद्धा वादसाहस्य। किन्त्वितश्च चतुरङ्गिनी चतुर्गुणा च वाहिन्यस्माकमित्यपि विवेक्तव्यम्।
वाद। बाढ़म्। (स्वगतम्) एष खलु मानसिंहो हिन्दुः क्षत्रियो राजपुतः सूर्य्यवंशीयश्चेति चतुर्द्धासम्पृक्तः प्रतापसिंहेन, अस्माभिस्तु वेतनमात्रेण। ततश्च नितान्तदुर्व्यवहारादिदानींकोपेनोन्माद्यति; कदाचित् सद्व्यवहारात्तु सन्तोषेण प्रीयेतापि। विशेषतश्च स्वजातिविश्लिष्टस्य विजातिसंश्लेषः संशयास्पदमेव। अथवा खल्वीदृशस्यास्थैर्य्यमेव स्वाभाविकम्।
तथा च—
वृन्तान्निपतितं पुष्पमावर्त्तेपरिघूर्णते।
स्रोतसा नीयमानन्तु पुनरन्यत्र गच्छति॥१४॥
एवञ्चास्माकंविषमावस्थैवोपस्थिता भवेत्। तदेतदेवात्र प्राप्तकालम्। (प्रकाशम्) अम्बरपते! वत्सः सेलिमः प्रायेणैवोत्साहेन युयुत्सां प्रज्ञापयति। तस्मिन् वयश्चसञ्जातंप्रतापप्रकाशस्य। ततस्तमत्रभवतः सहचरीकर्त्तमिच्छामि।
मान। (साशङ्कम्) सेनापतितया तदधीनतया वा?
वाद। नवीनस्य सैनापत्यंसर्व्वथैव विपदो मूलमिति सेनापतेर्भवत एवाधीनतया।
मान। (सहर्षम्) सर्व्वथा न्यायानुवर्त्तिनीबुद्धोराजराजेखरस्य। तदेतदेवास्तु।
वाद। दौवारिक!
प्रविश्य दौवारिकः। आणवेदु देवो। (क)
वाद। कुमारंद्रष्टुमिच्छामि।
दौवा। तह। (ख)
____________________________________________________
(क) आज्ञापयतु देवः। (ख) तथा।
_______________________________________________
(इति निष्क्रम्य पुनः सेलिमेन सह प्रविशति।)
सेलिमः। (स्वजातिरीत्या वादसाहमभिवादयते।)
वाद। वत्स! चिरञ्जीवीभूयाः।(इङ्गितेनोपवेष्टुमनुमोदते।)
सेलिमः। (उपविशति।)
वाद। आयुष्मन्! प्रायेणैव विवृणोषि समरलालसाम्, वयश्चेदंते प्रतापमारोपयितुम्, समयश्च समायातस्तस्य।
सेलिमः। कथमिव?
वाद। तत्रभवतो मानसिंहस्य शोलापुरविजययात्रावसरे सम्भावयता मयैवोपदिष्टम्— महाराज! भवता खल्ववश्यमेव जेष्यते शोलापुरम्। तज्जयानन्दवाहिना च मिवारानागत्य प्रतापसिंहेन सह सन्धिबन्धनानन्दमपि वहता समागन्तव्यमिति। गतञ्च तत्र महाराजेन। ततश्च प्रतापेन महामानस्थाने नितरामपमानः प्रयुक्तो मानसिंहस्य।
सेलिमः। (सोत्कण्ठम्) कीदृशः खल्वसौ?
वाद। (सेलिमं प्रति स्वैरंकथयति।)
सेलिमः। (सरोषम्) अहह! गरीयानत्याचारः।
वाद।
मानेऽपमानो मम दुःसहो भृशं
परं प्रतापोऽप्युपचीयते श्रुतम्।
रिपुश्चरोगश्च विवृद्धिमान् क्रमात्
नोपेक्षणीयो हि विपश्चितश्चिरम्॥१५॥
सेलिमः। तदस्य गर्व्विणो दमनंसर्व्वथा प्राप्तकालम्।
वाद। तर्हि तु प्रतापं प्रति प्रयाणे श्रीमन्तमम्वरपतेः सहचरीकर्त्तुमिच्छामि।
सेलिमः। स्वाधीनतया?
वाद। पराधीनतया, नवीनः खल्वायुष्मान्।
सेलिमः। महास्वाधीनसूनोः पराधीनतां युक्तां मन्यते सम्राट्। तथा च—
सक्तानुवर्त्तनरता चलिता च शश्वत्
मूर्द्धानमुत्रमयितुं नियतंन शक्ता।
ईष्टेस्वयञ्च न पुनः क्षमताप्रकाशे
स्रोतोगता मृदुलता परनिघ्रता च॥१६॥
वाद। (आकर्ण्य विविच्य) भवतु। आयुष्मन्! आगच्छ, पश्यावस्तावन्मिवारमानचित्रं तत्प्रवेशमार्गंसमरोचितंप्रदेशञ्च। (इति मिवारमानचित्रमादत्ते।)
सेलिमः। सर्व्वथा युक्ततमं खल्वेतत्। (इत्युपसर्पति।)
उभौ। मिवारमानचित्रं पश्यतः।
मान। (स्वगतं सखेदम्) इतः कुमारः कामयते न पराधीनताम्, इतश्च मयापि विवेक्तव्यम्; सैनापत्येस्वहस्तेन स्वजनसंहारः, स्वेनैव स्वजातिद्रोहः, आत्मनैवचात्मन एव जन्मभूमेः परस्मैप्रदानम्। धिक्, इयं खल्वनिर्व्वचनीया नृशंसता। हन्त! पापीयसो नृशंसस्य मे निरयेऽपि न स्थानम्। अहोवत! यवनेन कन्यायाः पाणिं ग्राहयता तातेनैव नुन्नोजातिधर्म्मःमया च राज्यविसर्ज्जनेनार्जितं
प्रजात्वम्, शाश्वतस्वाधीनताविनिमयेन क्रीता चिरन्तनी पराधीनता, प्रभुत्वप्रदानेनादत्तं दासत्वम्, जगत्सम्मानिततेजस्वितापरिवर्त्तनेन च गृहीता जगद्गर्हिता कातरता। साधु, चमत्कारिणो मनीषा मानसिंहस्य।
धीरस्य धीरुभयलोकसमृद्धिहेतु-
र्मूढ़स्य सा तदुभयस्य तु पातवीजम्।
नारी सतीहि पतिमुन्नयते द्युलोकं
सा त्वेव पातयति तं निरये स्वपापात् ॥१७॥
(सोन्मादमिव) मानसिंह! मानसिंह! अथवा अन्धेपद्मलोचननामेव नितगमपमानिनि मानपदमनन्वयमेव; धराधुराविरहे चतुधुरीगोपाधिरिव च नितान्तकातरे सिंहोपाधिरपि सर्व्वथैवार्थशून्यः। एवं हि लुप्तमेव मानसिंहाभिधानम्, प्रवृत्तञ्च सार्थकंशिलीमुखापमदेत्यभिधानम्। (विचिन्त्य) हन्त! त्रेतायां रावणं विरुन्धता राममाश्रयता च विभीषणेनायमाविष्कृतः पन्थाः, द्वापरे पाण्डवान् परिहरता सुयोधनं भजता च कर्णनासौ विवर्द्धितः कलौ च पृथ्वीराजंवर्ज्जयता महन्मदञ्चगृह्नता जयचन्द्रेण चोज्ज्वलीक्कृतः। हा धिक्—
हिन्दुरेव हि हिन्दूनां विकृतः कुरुते क्षतिम्।
मुद्गरीकृतलौहं हि लौहं दलति शाश्वतम्॥१८॥
तदत्र धर्म्मशैथिल्यमेवाद्वितीयं कारणमिति निष्प्रतिवादः प्रवादः। कष्टम्, अधन्यस्य मे नास्तीदानीं प्रतिनिवृत्तेरपि
पन्थाः। कर्णः किल कुन्तीकृष्णयोरनुरोधेऽपि कृतज्ञताकर्षणाद्दुर्य्योधनंन परिजहार। इतश्च परापराधेन परापकारः सुतरामन्याय्यः। एष च पराधीनतायाः स्वभावः, यत्प्रभोरधीनतायां तत्प्रतिनिध्यादेरप्यधीनतेति।ममापि तथैवास्ताम्। “पापात्मनां पापशतेन किं वा।” (प्रकाशम्) तदस्तु तावत् कुमारस्यैव सैनापत्यम्।
वाद। अत्र महाराजः किं नाम युक्तरूपं मन्यते?
मान। राजराजेखर! कुमारः खलु युवा। तेन च—
उद्यमोवयसि यौवने यथा प्रौढ़वृद्धबयसोर्न तादृशः।
आदितो भवति यादृशो जवः शेषतस्तु न तथा स्वधूपजः॥१९॥
वाद। तदा त्वत्रभवता चाजयसिंहेन च सततमेवायुष्मतो मन्त्रणायामवधातव्यम्।
मान। उत्तमः कल्पः।
सेलिमः। सर्व्वथा समीचीन एवायं नियोगः सार्व्वभौमस्य। तदचिरादेव भवन्तः प्रत्यक्षीकरिष्यन्ति—
पूर्वं जेष्यन् समरशिरसि क्षत्रियान् मुष्टिमेयान्
शेषं यास्यंस्तदुदयपुरं लेशतश्चूर्णयिष्यन्।
आनेष्येऽहं विलगतममुंमूषिकंतंप्रतापं
गर्व्वान्मूढ़ं सपदि भवतोः पादयोश्चोपदास्ये॥२०॥
वाद। आयुष्मन्!सततमेव चिन्तनीयंखल्विदंसारार्थंनीतिवाक्यम्—
ऋणञ्चरोगञ्चरिपुञ्चधीमान्
मन्यतेन क्षुद्रतया कदाचित्।
समूलमुच्छेत्तुमिमान् यतेत्
न चेद्विवृद्धो ध्रुवमेवहन्युः॥२१॥
सेलिमः। (सप्रणामम्) वाढ़म्।
इति निष्क्रान्ताः सर्व्वे।
<MISSING_FIG href="../books_images/U-IMG-1723347101Screenshot2024-08-11085805.png"/>
मिवारप्रयाणंनाम तृतीयोऽङ्कः॥०॥
<MISSING_FIG href="../books_images/U-IMG-172370834054.jpg"/>
चतुर्थोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1723347177Screenshot2024-08-11090244.png"/>
अथ प्रविशति कालीमन्दिरालिन्देशान्तिशरणमिश्रः।
शान्ति। अहो! उपाध्यायेनादित एवादिष्टम्, गतः खलु रोषज्वलनज्वलितहृदयो मानसिंहः। तदत्यासन्नंयवनयुद्धम्। तत्र च विजयलक्ष्मीलाभायावश्यकरणीयेस्वस्त्ययने परीक्षितगुणा ब्राह्मणा वरणीया इति। तान् प्रेषयितुञ्चविज्ञापितस्तत्रभवान् राजगुरूरामप्राणत्रिपाठी। इतश्च श्रूयते युयुत्समाना यवनसेना प्रायेणासन्ना।तत् कथं चिरयति त्रिपाठी। (विलोक्य सहर्षम्) हन्त!अमीत्रयो ब्राह्मणाएवागच्छन्ति;
तदमीभिरेव तैर्भवितव्यम्।
ततः प्रविशन्ति त्रयो ब्राह्मणाः।
शान्ति। (सप्रणामम्) स्वागतमत्रभवताम्। नन्वलतङ्क्रियन्तामासनानि।
ब्राह्मणाः। (देवतां प्रणम्य शान्तिशरणञ्च प्रत्यभिवाद्य नाट्येनोपविशन्ति।)
शान्ति। (प्रथमं प्रति) नन्वभिधानमभिधीयतामात्मनः।
प्रयमः। सु-सु-सुधाकर-दि-दि-द्विवेदी।
शान्ति। तत्रभवान् किंगोत्रः?
प्रथमः। का-का-काश्यपगोत्रः।
शान्ति। (सक्षोभम्) किं तावदधीतम्?
प्रथमः। व्या-व्या-व्या व्याकरणम्।
शान्ति। अन्यत् किमपि?
प्रथमः। छा-छा-छागलेय-ध-ध-धर्मशास्त्रम्।
द्वितीयः। (सोत्प्रासम्) शक्तिपूजायामेकान्तमेव च्छागलेयप्रयोजनम्।
प्रथमः। (सक्रोधम्) वा-वा-वाचाट!त-त-त्वमपि मामा-माहिषयः, त-त-तवापि त-त-तत्र प-प-प्रयोजनम्।
द्वितीयः। (सक्रोधविस्मयम्) एष खलु वङ्गभाषामपि जानाति। वङ्गीयाश्च तातं वावेति ब्रुवन्ति, एषोऽपि मां तथैव ब्रवीति।
प्रथमः। (साटोपं कटीं बध्नाति।)
शान्ति। (सहासम्) न केवलं वावेति, मामेत्यपिप्रयुक्तम्।
द्वितीयः। (सक्रोधहासम्) वैधेयेनामुना मयि खलु बीभत्सः सम्पर्कसङ्करः कृतः।
प्रथमः। (द्वितीयं प्रहृर्त्तमुद्युङ्क्ते।)
द्वितीयः। (तथैवोद्यच्छति।)
शान्ति। (उभयमेव विधृत्य स्थापयित्वा दासीमागतामालोक्य) अये! पादोदकमेषामुपहर।
द्वितीयः। तिष्ठ।अहो!इयं खलु स्पृश्यजला
अस्पृश्यजला वेत्यनिश्चिन्वानः कथमुररीकरोमि। (दासींप्रति) किं ते नाम?
दासी। भअवदी दासी। (क)
द्वितीयः। अये! भगवत्यस्तु यूयं सर्व्वा एव योषितः। तत्तेकिं विशेषाभिधानमिति पृच्छामि।
सर्व्वे। (हसन्ति।)
दासी। (सलज्जं सहासञ्चपरावर्त्तते।)
प्रथमः। प-प-पश्यन्तु भवन्तः, ए एष खलु दु-दु-दुर्म्मनुष्यो यो-यो-योषितः स-स-सन्निधावेवाश्लीलं व-वदति।
द्वितीयः। तर्हि तु ‘भगवद्गीता’‘भगवानुवाच’ इत्याद्युक्तिरपि तादृश्येवाश्लीलोक्तिः स्यात्?
प्रथमः। धि-धि-धिङ्मूर्ख!अत्र तु भ-भ-भगशब्दस्य मा-मा-माहात्म्यमर्थः।
द्वितीयः। अत्रापि श्रीरेवार्थः।
प्रथमः। स-स-सर्वा न श्री-श्री-श्रीमत्यः।
शान्ति। (हस्तसङ्केतेनोभौ वारयित्वा दासींप्रति) गच्छत्वम्।
दासी। (गच्छन्ती सर्व्वानुद्दिश्य सन्निहिततृतीयान्तिके प्रणमति।)
तृतीयः। पुत्रवान् भव।
सर्व्वे। (हसन्ति।)
__________________________________________________________
(क) भगवती दासी।
___________________________________________________-
शान्ति। (सहासम्) अये!स्त्रीखल्वेषा। तद्वतीति ब्रूहि।
तृतीयः। (शिरः सञ्चाल्य) सत्यम्, पुत्रवान्वतीभव।
सर्व्वे। (अट्टहास्यं कुर्व्वन्ति।)
शान्ति। अहो! पुत्रात् परंवानिति न तिष्ठेत्।
तृतीयः। (सशिरः कम्पम्) वाढ़म्, वान्पुत्रवती भव।
सर्व्वे। (तथैव हसन्ति!)
शान्ति। आः! पुत्रात् पूर्व्वमपि वानिति न भवेत्।
तृतीयः। तर्हि, पुत्रवतीवान् भव?
सर्व्वे। (हसन्ति।)
शान्ति। (सहासम् ) एतदपि न।
तृतीयः। वतीपुत्रवान् भव।
शान्ति। आः! कोऽयं दुर्व्विपाकः।
तृतीयः। तदा वान्वतीपुत्र भव।
शान्ति। नैवमपि।
तृतीयः। अस्तु, तर्हि वतीवान् पुत्र भव।
शान्ति। धिङ्मूर्ख!।
तृतीयः। (वृद्धाङ्गुष्ठद्वयंप्रदर्श्य) तदा तु नास्त्येव संस्कृतभाषायामीदृशीनामाशीर्वादः।
शान्ति। (सक्षोभमात्मगतम्)
पूर्व्वमासन् वशिष्ठ्याद्या इदानीञ्चेदृशा द्विजाः।
अहो! कालस्य महिमा सौधस्थाने दलालयः॥१॥
(प्रकाशं द्वितीयं प्रति) अथ राजगुरुणा त्रिपाठिनैव प्रेषिता भवन्तः?
द्वितीयः। न खलु कुसुमविक्रेतरि त्रिपाठिनो विक्रीय केनापि पठ्यमानं भवत्पत्रञ्चाकर्ण्य निजविपणिमागते तत्क्रेतुंगतेन च मया ततः श्रुतम्,स्वयोग्यताज्ञानेन चात्रागतंपथि च मिलितम्।
प्रथमतृतीयौ। आवाभ्यामपि तथैव।
शान्ति। उपपद्यते सर्व्वम्। (प्रत्येकं द्वे द्वे मुद्रेप्रदाय) इयं वो राज्ञः प्रणामदक्षिणा। अलमायासेन भूयसा, गन्तुमर्हन्ति भवन्तः।
त्रय एव। (गृहीत्वा देवतां प्रणम्य शान्तिशरणञ्चाभिवाद्य ससन्तोषं प्रतिष्ठन्ते।)
प्रविश्य सुप्रभदेवोपाध्यायः। (देवतां प्रणमति।)
शान्ति। (उपाध्यायमभिवादयते।)
सुप्रभ। सचिन्त इव लक्ष्यसे?
शान्ति। न खलु सचिन्तः, सोद्वेग एव।
सुप्रभ। केन नाम?
शान्ति। अद्यापि प्रस्तुतस्वस्त्ययनस्थानारम्भरेण।
सुप्रभ। आश्वसिहि। महाराजः स्वयमेव सङ्कल्प्यवरयित्वा च चण्डीमण्डपे पण्डितानेव गुरुणा प्रेषितान् पञ्चब्राह्मणान् स्वस्त्ययने व्यापारयामास।
शान्ति। (सहर्षम्) साधु,
अनागतां सम्पदमातनोति
समागतामापदमुत्क्षिणोति।
स्वास्थ्यञ्च तेजश्च ददात्यपूर्व्वं
दैवीक्रिया बन्धुतमा नराणाम्॥२॥
भवतु। किमारम्भः सम्प्रति महाराजः?
सुप्रभ। चतुरङ्गिनी यवनवाहिनी समायातीति युद्धसन्नद्धःसर्वाङ्गसम्पन्नसैन्योपपन्नोहरिद्राघट्टं प्रति प्रस्थितः। अस्ति चापरः परमशुभः संवादः।
शान्ति। (सोत्कण्ठम्) को नाम?
सुप्रभ। जानास्येव यथा तदानींशक्तसिंहो मानापमानमनैतिकमसहमानः प्रतिवदन्महाराजेन निराकृतस्तिरस्कृतश्चेति।
शान्ति। श्रुतोऽयं वृत्तान्तो भवत एव।
सुप्रभ। परञ्चासौ वादसाहमाश्रितः, समये च समासन्नेनितरां निर्व्वेदमापन्नो विभीषणकलङ्कादात्मानं मोचयन्वादसाहमनुज्ञाप्य मिवारानागच्छन् पथि भिन्नशूरं (भिन्सोर) नाम दुर्गं विजित्यागत्य महाराजायोपजहार।
शान्ति। (सानन्दोच्छासम्) साधु साधु। पराचीना का वार्त्ता?
सुप्रभ। महाराजेन च सानन्दमाददानेन तत्प्रदेश एव कृतः सामन्तः शक्तसिंहः।
शान्ति।तर्हि शक्तसिंहः सम्प्रति समरसहायो महाराजस्य?
सुप्रभ। अथकिम्। साम्प्रतमसौ भिल्लसेनानायकः संवृत्तः॥
शान्ति। (साञ्जलिबन्धम्) मातः सर्वमङ्गले! कृतमिदानीं त्वया सार्थकमेवात्मनाम्। इतः परञ्च —
जयश्रीर्धीयतां पुत्रे पुत्रिण्यवोत्तमाङ्गना।
क्रियतां म्लेच्छनाशेन हिन्दुस्थानञ्च भारतम्॥३॥
इति निष्क्रान्तौ।
<MISSING_FIG href="../books_images/U-IMG-1723349139Screenshot2024-08-11085805.png"/>
विष्कम्भकः।
<MISSING_FIG href="../books_images/U-IMG-1723349165Screenshot2024-08-11090244.png"/>
ततः प्रविशति हरिद्राघट्टप्रान्तवर्त्तिगिरिशिखरे
सशस्त्रः शक्तसिंह।
शक्त। आर्य्यादेशेन संवृत्तोऽस्मि भिल्लसेनानायकः; यथास्थानं सन्निवेशिता च सा सेना। किन्तु नाद्यापि दृष्टिविषयो मानसिंहानीता यवनवाहिनी। हन्त! आर्य्येणमया चास्मिन् समरे मानसिंहस्य लोचनगोचरता सर्व्वर्थैव समाशास्यते। अहो! विचित्रं नाम जनचरित्रं जगत्याम्। जनःकिलात्मानुरूपं स्तौति, तदनमुरूपञ्च गर्हयति। तेन च सज्जनः सज्जनंप्रशंसति दुर्ज्जनञ्च निन्दति; दुर्ज्जनश्चदुर्ज्जनंप्रगुणीकरोति सज्जनञ्च विगायति। अतएव हि यवनपदलेही मानसिंहो यवनद्वेषिणं प्रतापसिंहं निर्बोधमभिधाय निर्गतः। मया तु मन्यते मानसिंहः खल्वेकः प्रकाण्डो रासभः।
तथा च—
परस्य वहतो भारंपरादेशेन गच्छतः।
तत्प्रसादञ्च भुञ्जाते मानसिंहश्च रासभः॥४॥
तयोरन्तरेऽपि च मानसिंह एवाधमतरः। येन हि—
भ्रष्टस्य मानसिंहस्य विदेशी यवनः प्रभुः।
स्वस्थस्य तु खरस्यायंस्वदेशीरजकः पतिः॥५॥
(विभाव्य) अहोवत! मानसिंहो यदि धीमानेवाभविष्यत्, तदा गान्धारसीम्नःसमारभ्य आराकानपर्य्यन्तं प्राष्यमेव राज्यं विजित्य यवनाय नोपाहरिष्यत्; तथा निखिलबलानामेव
नितान्तानुकूलतया नितरामविश्वासिनो यवनपतेर्विश्वासमात्रवर्ज्जनेनैव भारतसाम्राज्यमेवार्जयिष्यत्। तदेव मानसिंहस्य बुद्धिविपर्य्यय एव हिन्दोर्वा हिन्दुस्थानस्य वा भाग्यविपर्य्ययस्थायिताया विशेषबीजम्। तद्यदि वयमत्रसंग्रामेविजयलक्ष्मींलप्स्यामहे, तदावश्यमेव भारताद्यवनापसारणेन साम्राज्यमारोपयितुमेव यतिष्यामहे।
नेपथ्ये एकस्यां दिशि। आल्ला आल्ला हो!
अन्यस्यां दिशि। कालि! कालि! कालि! दानवद्राविणि!
शक्त। (सौत्सुक्यम्) अहो! समासन्नायवनसेना।
ससम्भ्रमंप्रविश्य शम्भुसिंहः। कुमार! कुमार! दृश्यताम्— असावारावल्लीमिरिमालापार्श्वतः प्रादुर्भवति यवनसेना। तन्महाराजः समादिशति — अस्माभिरेवैषा प्रथममाक्रमणीया। तत्त्वरितमुपेत्यायुषमन्तं शक्तसिंहं ब्रूहि—यत्, शरपातपथवर्त्तिन्यामेव यवनवाहिन्यां भिल्लसेना यथा गिरिगात्रात् प्रहर्त्तुमारभते, तथा क्रियतामिति।
शक्त। (सहर्षम्) युक्तमादिष्टंवीरधुरन्धरेण। अस्माकमाग्नेयास्त्रविरहाद्विशिखैरेव तद्विधेयो दूरप्रहारो विधातव्यः। तद्गच्छामि, तथैव करोमि। (इति द्रुतं निष्क्रान्तः)
नेपथ्ये। अहो देशप्रियाः साधुसङ्कल्पाः भिल्लवीराः! आयाति देशवैरिणीयवनवाहिनी। तदस्यां शरपातपथोपस्थितायामेव भवद्भिःशरैःप्रहर्त्तव्यम्। तेन च—
तथा भवन्तो हि शरान् किरन्तु
च्छिन्दन्तु भिन्दन्तु च वैरिवारान्।
रामार्ज्जुनद्रोणमुखान् प्रवीरान्
विलोकयतोऽद्य यथा स्मरन्ति॥६॥
नेपथ्ये। कालि! कालि! कालि! दानवद्राविणि! (इति मारध्वनिसमानतरमेव शतशो धनुष्टङ्काराः, आल्ला आल्ला हो! इति मारध्वनिपरतश्च युगपदनेकशतघ्नी-नालीकनिनादाः प्रादुर्भवन्ति।)
शम्भु। अहो! दूरादुपक्रान्तः समरः, एकतः शिलीमुखसम्प्रहारेणान्यतश्च गुलिकावर्षणेन। तथापि सेनानायकनिदेशेन भिल्लसेनासञ्चालनाय शक्तसिंहमनुकूलयितुमस्माभिरत्रैवस्थेयम्।
प्रविश्य शक्तसिंहः। (सहर्षम्) शम्भुसिंह! पश्य पश्य—
मण्डलीकृतकोदण्ड-निर्गता मार्गणा अमी।
गच्छन्ति गगने शीघ्राः शकुन्ता इव सस्वनाः॥७॥
शम्भु। विपक्षतोऽपि प्रक्षस्व—
बृहन्नालीक-नालीक-निक्षिप्ता क्षिप्रगामिनी।
कृशानुपदवीवेयमायाति गुलिकावली॥८॥
शक्त। एष खल्वाविष्कारो नाद्यापि समीचीनः संवृत्तः। येन हि प्रथमं विस्फोरकपूरणम्, परं गुलिकाप्रवेशनम्, अनन्तरंलक्ष्यस्थिरीकरणम्, ततश्चाग्नियोजनमिति प्रक्रियागौरवेण भूयः समयक्षेपः। तेन च तत्रान्तरे महानेयान्तरायः सम्पद्यते परप्रहारेण।
शम्भु। एष हि क्रमविकाशस्वभावः, यत् क्रमेणैवोन्नतिंलभते वैज्ञानिकः पदार्थः। तथा चादिसर्गे सर्व्वथा शस्त्राभावेन भगवान् नारायणो मधुना कैटभेन च सममतिभूयांसमेव समयं बाहुयुद्धमेव विदधे। “पञ्च वर्षसहस्राणि बाहुप्रहरणो विभुः।” परञ्च“कुन्तायुधञ्च खङ्गञ्चशार्ङ्गयुधमनुत्तमम्" कुन्तंखङ्गंशृङ्गरचितंवक्रमेकं शस्त्रञ्च लक्षयामः। अनन्तरञ्च रामरावणसङ्गरे गरीयसीमेवोन्नतिमस्त्राणां शृणुमः। ततोऽपि कुरुपाण्डवसाम्पराये परां काष्ठामेवोन्नतेरस्त्राणांपश्यामः।
शक्त। स किलोत्कर्षःकदा कथंनाम तिरोहितः?
शम्भु। कुरुपाण्डवसमर एव वीरवैज्ञानिकविलोपेन शिक्षकसम्प्रदायविलोपाद्विलुप्त इत्यैतिहासिकाः समामनन्ति।
नेपथ्ये महान् कलकलः।
उभौ। (ससम्भ्रममवलोकयतः)
शक्त। (सौत्सुक्यम्) शम्भु सिंह! पश्य पश्य, परस्परशरीरसंयोगेनैवसङ्गरः संवृत्तः।
अश्वैरश्वाःसमिति मिलिता दन्तिभिर्दन्तिनश्च
पद्गैःपद्गाः प्रबलरभसाः स्यन्दनैःस्यन्दनाश्च।
तुल्यो ध्वानः सरय-सरितोः सम्मुखवृत्तिमत्योः
सञ्जातोऽयं युधि पृतनयोर्भीषणश्च प्रहारः॥९॥
शम्भु। कुमार! दारुणो दारुणःसम्प्रहारः संवृत्तः।
शूलेन वक्षोविभिनन्ति कश्चित्
परोऽसिना तस्य शिरश्छिनत्ति।
परं समाश्लिष्य परस्परं तौ
प्रेम्णेव तूर्णं समरे शयाते॥१०॥
शक्त। (समन्तादवलोक्य सौत्सुक्यम्)शम्भुसिंह! अयमेव सङ्कुलः समर इत्याख्यायते। पश्य—
दीर्णो दारयते क्षतः क्षपयते च्छिन्नश्छिनत्त्युल्वणः
विद्धोविध्यति वा धृतो धरति वा श्लिष्टः परंश्लिष्यति।
हस्ताहस्ति नखानखि प्रकुरुते नष्टास्त्रकः सैनिकः
मुष्टीमुष्टि कचाकचि प्रहरते वृत्तो रणो दारुणः॥११॥
शस्भु। (विलोक्य सविस्मयम्) कुमार! कः खल्वसौ मनोहरमूर्त्तिरत्युज्ज्वलवेशश्च युवा सुसज्जितं मत्तमातङ्गमारूढ़ो यवनमृतनायाः पुरस्तात् प्रादुर्भवति?
शक्त। (दृष्ट्वा साटोपहर्षकौतुकम्) असौ किल वादसाहसूनुः सेलिमः। अयमेवाद्यतनः सेनापतिः प्रतिपक्षस्य।
शम्भु। (सखेदम्) सेलिम एवाद्यतनः सेनापतिः, न पुनर्मानसिंहः?
शक्त। अथकिम्। अद्य समरे सेलिमस्य मन्त्रिपदे निहितो मानसिंहो वादसाहेन।
शम्भु। धिङ्मानसिंहम्। येन हि—
सर्व्वसम्पत्तिदानेन क्रीता यवनदासता।
तत्राप्यद्य गृहीतेयमसारा रणमन्त्रिता॥१२॥
शक्त। आः किमुच्यते। न खलु मानसिंहः साक्षात्सम्प्रहारविशारदः, अपि तु कपटकूटपटीयान्। अतएवाद्यासौ दुरात्मा क्वापि प्रच्छेन्नः स्थितः।
शम्भु। सर्व्वथा सम्भवत्येवम्। मन्ये च तत एवास्माकं महाराजस्तमन्विष्यन् नितरामाकुलः संवृत्तः।
शक्त। वयमप्येवं सम्भावयामः।
शम्भु। (विलोक्य सावेगम्) कुमार! पश्य पश्य,
सेनापतिंयवनसैनिकसम्मुखस्थम्
आलोक्य चैतकगतो द्विगुणोद्यमोऽसौ।
निघ्नन् करीव नलिनानि समीपगानि
सैन्यानि धावति जवेन मिवारराजः॥१३॥
शक्त। (दृष्ट्वा सोन्मादमिव) शम्भुसिंह! न मे युक्तमिदानीमत्रावस्थानम्। तत्तूर्णमेवाहमार्य्यमनुवर्त्तिष्ये, त्वञ्चसञ्चालय भिल्लसेनाम्। (इति द्रुतं निष्क्रान्तः)
शम्भु। (समीक्ष्यभिल्लासम् ) अहो! दुर्व्वारो वेगः पुरुषसिंहस्य।साधु प्रतापसिंह! साधु,
चैतकश्चलति दुःसहस्यदस्त्वञ्चचालयसि घूर्णयन्नसिम्।
सम्पतन्ति रिपवश्च भूतले पार्श्वयोश्च पुरतश्च सन्ततम्॥१४॥
नेपथ्ये। कालि! कालि! कालि! दानवद्राविणि।
पुनर्नेपथ्ये। आल्ला अल्ला हो!
शम्भु। तत् कथमुल्लासो यवनानामपि। (विलोक्य) हंहो यवना अपि तीव्रमाक्रामन्ति हिन्दून्। (पुनर्निपुणमवलोक्य)
अये! परस्पराक्रमणायोपक्रममाणौ क्रमेण सेलिमप्रतापसिंहावित एवागच्छतः।
नेपथ्येकलकलः।
शम्भु। (दृष्टिं कलकलानुवर्त्तिनींविधाय) आः शत्रवः खल्विममेव शैलमारोेढुमुपक्रमन्ते। तत् प्राक्सञ्चितपाषाणसम्पातनेनैतान् निपातयामि। (द्रुतं निष्क्रान्तः)
अथ प्रविश्य चारणा गायन्तः परिक्रामन्ति।
धाव धाव वीर! तुमुलरणमध्ये
संहर सततं नहि दया वध्ये।
शीघ्रं प्रहर प्रहरणशाली
वदने वदतां जय मा कालि!
भिन्धि भिन्धि त्वरितं रिपुवक्षः,
छिन्दि छिन्धि द्विषतो ननु दक्ष !
विपदि निमग्ना जननी च जाया
का तव शान्तिः का तव माया।
द्विषतामसृका संसृज सिन्धुम्
उद्वर विषयानुद्वर बन्धुम्।
नाशय निविड़ं तिमिरं तूर्णं
चिरमालोकंकुरु परिपूर्णम्॥
अथ प्रविशतो विपरीतद्वारद्वयेन साटोपमुद्वतक्रमौ
सेलिमप्रतापसिंहौ, विभवतश्चोभयसैन्ये।
सेलिमः। अये! अद्येव लप्स्येसे मानसिंहस्य मानहरणप्रतिफलम्।
प्रताप। आः समयमियन्तं यावन्मानसिंहं मञ्जूषायामापूर्य्यगर्ज्जसि; तत्तूर्णमाविष्करुतं दुरात्मानम्, तदानीं तस्य मानमहार्षम्, इदानीन्तु जीवनं हरामि।
सेलिमः। अरे! वाङ्मात्रसाराः खलु हिन्दवः शतश एव परीक्षितपराक्रमाः पूर्व्वम्।
प्रताप। ब्रूहि तावदेकमपि निदर्शनम्, यत्र किल हिन्दवः पराक्रमपराङ्मुखाः संवृत्ताः।
सेलिमः। श्रूयतां तर्हि, प्रथमं सोमनाथमन्दिरलुण्ठनम्, द्वितीयंतरायणायोधनम्^(….)।
प्रताप। अये इतिहासवालिश! इत एव निवत्तस्वात्मविकत्थनात्। कतिपये निरीहे हिन्दुसन्ताने शङ्करसेवाप्रवृत्तेअकस्मात् सन्निपत्य ससेनः सुलतानमामुदो यत्सोमनाथमन्दिरमलुण्ठत्; तत् खलु दस्युतायाः परमं निदर्शनम्। यच्च तरायणायोधने सन्धिभिक्षया विरतमामोदमग्नं वर्म्मग्रहीतुमप्यलब्धावसरञ्च पृथ्वीराजमजयद्विजितो महम्मदः, सोऽपि च विश्वासघातकतायाश्चरमो दृष्टान्तः।
सेलिमः। अरे वाचाट! नितरामुपकर्त्तारमप्यधिक्षिपसि। अवधीयतां तर्हि— तत्रभवान् सुलतानमामुदःसत्सङ्कल्प एवासीत्। तथा च—
ये चिन्मयस्य हि तनुं परिकल्पयन्तः
संस्कारदोषवशतः समुपासतेताम्।
तानेष शिक्षयितुमेव हि सोमनाथं
सञ्चूर्ण्यसाधु गुरुकर्म्मचकार कामम्॥१५॥
परञ्चयद्ब्रवोषि, महम्मदघोरी विश्वासघातक इति; तत्रापि ब्रवीमि—नूतनदेशजिगीषुः सेनानायको न खलु युष्माकं तपोवननायको भवितुमर्हति। तेन च—
राज्यजीवनधनानि जिहीर्षु-
र्दारुणंकिलरणं व्यदधाद्यंः।
तत्र विश्वसिति यः खलु मूर्खः
तस्य तत् फलमलंननु युक्तम्॥१६॥
प्रताप। अये! महाकौतुकहेतुः स एवायमुन्मत्तप्रलापः। आस्तां तावत्। तथा सति—
ब्रह्मैवैकंसत्यमन्यद्भ्रमस्थं
युष्माकञ्चाप्येष सिद्धान्तवादः।
तस्माद्भ्रान्तंमस्तकंतेऽधुनैव
च्छिन्दन् कुर्य्यां मूढ़! गाढ़ोपकारम्॥१७॥
सेलिमः। रे रे दुरात्मन्! सति सामर्थ्योकिमुपेक्षसे मे शिरश्छेत्तुम्। भवतु। एष ते मारोपदेशः।
मिवारराज्यं त्वरया विसृज्य
वहिर्भव त्वंस्वजनैः समेतः।
प्राणा न चेत्तेनमु तैः सहैव
वहिर्भविष्यन्त्यचिरंरणेऽस्मिन्॥१८॥
प्रताप। अये यवनापसद! अहमपि ब्रवीमि—
पूर्णेपद्मैरिव शुचिशुभे शैवलौघस्तड़ागे
हिन्दुस्थाने यवननिवहो दैवयोगात् प्रविष्टः।
चायं चायंतमिव तमहंसर्वतस्ताड़यिष्यन्
शान्तं पूतं पुनरपि परं संविधास्याम्यवश्यम्॥१९॥
सेलिमः। रे रे पार्व्वत्यमूषिक! क्षिप्रमिदानीम्—
अवनम चरणान्तेप्रार्थय प्राणभिक्षां
परिहर च मिवारान् वन्दिभावं भजस्व।
सह च यवनजाल्मैरेकपात्रेकिलान्नं
सपदि निड़गितःसन्नन्यथा द्राङ्म्रियस्व॥२०॥
प्रताप। अयेक्षौमाशुंकपरिष्कारक!यवनापसद! यूयमेप्यद्यप्रभृत्येव —
सदा चलत संयताः कुरुत नात्र धर्मक्षतिं
क्रमात्त्यजत भारतंव्रजत तुर्किदेशंपुनः।
न चेत् पथि जले स्थले पुरि गिरौ मरौ कानने
गृहे च भवत ध्रुवंसपदि खण्डखण्डीकृताः॥२१॥
सेलिमः। (तरवारिमुत्तोल्य) आः पाप दुरात्मन्!
प्रताप। (शूलमुद्यग्य) आःपाप दुरात्मन्!
(इति परस्परमाक्रामन्तौ निष्क्रान्तौ उभयसैनिकाश्च)
(नेपथ्ये। कालि! कालि! कालि! दानवद्राविणि!)
प्रविश्य ससम्भ्रमं शम्भुसिंहः। तत् कथं सारध्वनिः क्षत्रियाणाम्। (विलोक्य) अहो! शूरसिंह एव प्रतापसिंहः। तदस्य प्रतापोऽपि मूर्त्तिमानिव प्रकाशते। अमुष्य हि—
दुर्व्वारवेगस्य निवर्त्तनाय
तथा पुनः सेलिमरक्षणाय।
ये ये समायान्ति तरुनिवैतान्
दावानलो हन्ति मिवारराजः॥२२॥
नेपथ्ये। जयः प्रतापसिंहजयः, जयो मिवारजयः।
शम्भु। (दृष्ट्वा) अहो! हतो हतः सेलिमः। येन च—
करीन्द्रकुम्भेननु चैतकोऽय-
मुत्प्लुत्य पादद्वयमादधाति।
शूलंसमुद्यच्छति शूरसिंहो
गतो गतः सेलिम एष शेषम्॥२३॥
(विलोक्य सविषादम्) हा हन्त! हा हन्त! क्षिप्तंकिल शूलंवेष्टनीप्रतिहतमाघोरणंनिपात्य निपतितम्।
आशीविषविनाशाय क्षिप्तमस्त्रंशिलीमुखम्।
निहत्य निष्फलं जातं दैवं हि बलवत्तरम्॥२४॥
(दृष्ट्वा सहर्षाटोपम्) अहो! साधु, साधु, सत्रासं पलायते सेलिमः, साटोपमनुधावति च तंप्रतापसिंहः।
नेपथ्ये।आल्लाआल्लाहो!
तत् कथमयमुल्लसो यवनानाम्। आः! सङ्गरान्तरे भागीरथीप्रवाह इव प्रतापसिंहे पतति यवनबलप्रवाहः।
श्वेतातपत्रंननु राजचिह्नं
विलोक्यतद्धावति वैरिवृन्दम्।
क्लान्तोऽवसन्नोऽपि च युध्यतेऽसौ
अहो! सुदुर्वारविपत्प्रपातः॥२५॥
(विशेषेणावलोक्य) तत् कतमोऽयं स्वल्पसैनिकसमेतः प्रविशति, प्रतापसिंहशिरस्तश्च श्वेतातपत्रमाक्षिप्य स्वशिरसि निदधाति? आंज्ञातम्, सोऽयं महात्मा झालापतिर्मान्ना आत्मप्रदानेनापि प्रतापसिंहंपरित्रायते; धीमानसौचैतकश्च प्रभुमुपादाय निरर्गलंरणाङ्गनादपक्रामति। अहो! साधु साधु, अभौझालापतिः किलाधुना—
समन्तादुपेतान् सपत्नाननन्तान्
निकृन्तन् विभिन्दन् परं पोथयंश्च।
विमाद्यन् गजेन्द्रो नलानीव भञ्जन्
असिंचालयन् घूर्णतेऽसौ महात्मा॥२६॥
नेपथ्ये। जयो दिल्लीशजयः, जयः सेलिमजयः।
तत्कथमयमुल्लासो यवनानाम्। (विलोक्य सखेदम्) हा कष्टम्, हा कष्टम्, निरन्तरताड़नाच्छिन्नविदीर्ण देहो झालापतिस्तरङ्गादपस्रस्तः। धन्यः खल्वयं महात्मा—
जानन् जन्मभुवोऽद्य रक्षणविधौ शक्तंप्रतापंध्रुवं
नात्मानन्तु तथेति मुञ्चति तनुं तस्यापदो मुक्तये।
स्वच्छः स्वंविगुणं विहाय सगुणं प्रायः परंत्रायते
दग्धुंस्वर्णमलंददाति हि निजंदीप्तेऽनले सीसकम्॥२७॥
तदसौन शोचनीयः, प्रत्युत चिरस्मरणीय एव। (विभाव्य) हा भगवन्! एव खलु षट्सप्तत्यधिकपञ्चदशशतसंवतः श्रावणस्य सप्तमो दिवसःस्वेषां विषादेन परेषाञ्च हर्षेण चिरमेव स्मृतिपथमुदेष्यति। येन हि—
क्लान्तः प्रतापः समरादपासरत्
झालापतिर्विस्मयकृज्जहौ तनुम्।
रणेऽत्रसैन्यस्य दशानका हताः
विधिर्बलीयान् विदधाति वैरिताम्॥२८॥
इति सविषादंनिष्क्रान्तः।
<MISSING_FIG href="../books_images/U-IMG-1723357036Screenshot2024-08-11090244.png"/>
चतुर्थोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1723357068Screenshot2024-08-10125610.png"/>
चतुर्थाङ्केगर्भाङ्कः।
<MISSING_FIG href="../books_images/U-IMG-172336334353.jpg"/>
समम्भ्रमं प्रविश्य सूत्रधारः।
शक्तिंदेहि महाशक्ते! त्वरया चानुकूलताम्।
देवनामिव हिन्दूनां पुरा देवासुरे रणे॥१॥
(विलोक्य) हा धिक्, क्लान्तमपक्रामन्तमप्याक्रामन्ति हिंस्रास्तुकिर्णः। तथा च—
खोरासानीमूलतानी च सैन्यौ
पृष्ठे लग्नौ हन्त हन्तुं प्रतापम्।
अस्तं शैलं द्रागिवेन्दुं यियासुं
वाहारूढ़ौ धावतो धूमकेतू॥२॥
साधु वाजिराज! चैतक! साधु, त्वं खलु क्षतविक्षताङ्गोनितान्तक्लान्तदेहोऽपि सादिनमादायेदानीमपि यथेच्छमेव गच्छसि। अहोवत! स्वस्थतया स्वस्तिमन्तौ शत्रुसैनिकतुरङ्गौ तु तड़ित्तरसा मन्दगन्तारं चैतकं प्रायेणासादयतइव। इतस्तु शोणितप्लतशरीरः सुतरामवसन्नोविषणश्चाश्वपृष्ठे केवलमवतिष्ठत एव प्रतापसिंहः।
(अञ्जलिं विधाय) भगवन्!विष्वक्सेन! त्वंखलुयुगपदेव त्रिभुवनस्यापि त्राणेशक्तः। तेन च—
देव! शक्त! समायाहि पाहोमौ राजवाजिनौ।
नेपथ्ये।
एष शक्तः समायातः समाश्वसिहि साम्प्रतम्॥३॥
तत् क एष मामाश्वासयति? (विशेषेणावलोक्य सहर्षम्) एष खलुदुर्व्वारवेगंतुरगमारूढः सशस्त्र एव शक्तसिंहः प्राप्तः। असौ तु प्रागुक्तं शक्तपदमात्मनि योजयन् मामाश्वास्य शत्रुसैनिकयोः पृष्ठतः प्रायेण संसृष्टः। तदयं शूराग्रियो बाढ़मेवाग्रजं त्रायेस।
इति निष्क्रान्तः।
<MISSING_FIG href="../books_images/U-IMG-172336721354.jpg"/>
प्रस्तावना॥०॥
<MISSING_FIG href="../books_images/U-IMG-172336724555.jpg"/>
अथ प्रविशति रक्ताक्तदेहस्तादृशमेव तुरङ्गमारूढः
प्रतापसिंहः।
प्रताप।(सम्मुखस्थां शैलकुल्यामवलोक्य सविषादम्) हा विधे। अचेतनः पदार्थोऽपि मे परित्राणंप्रतिबध्नाति।
तुरङ्गः। (तथा वदन्तमेव प्रतापसिंहमादाय समुत्प्लुत्य शैलकुल्यायाः परपारंगत्वा मन्दमन्दंगच्छति)
यवनसैनिकद्वयम्। (तत्कुल्यातीरमुपेत्य तथोत्प्लवनासमर्थंस्वंस्वमश्वं कुल्यातरणाय तीव्रं ताड़यति)
तदश्वयुगलम्। (कुल्यायामवतरति)
ततः प्रविशति तत्कुल्यातीरे तुरगारूढः शक्तसिंहः।
यवनयोः पृष्ठगः। (अश्वपदध्वनिमाकर्ण्य मुखं परावर्त्त्य शक्तसिंहं पश्यति)
शक्त। (दृष्ट्वा) अये!अस्य खलु वक्षोवर्म्मणि’खोरासानी’इत्यङ्कितंनाम लक्ष्यते। भवतु। जीवन एवास्य जीवनं हरामि। (इति हतशत्रुतो गृहीतेन नालीकेन गुलिकांनिक्षिपति)
खोरासानी। (अश्वपृष्ठात् कुल्यायां पतति)
अपरः सैनिकः। (सत्वरमश्वारूढ़ एव कुल्यामुत्तरति)
शक्तसिंहाश्वः। (तमादायैव चैतकवदुत्प्लत्यकुल्वायाःपरपारंगच्छति)
शक्त। (कोषादसिं निष्क्राष्य) आःपाप! योधधर्म्मानभिज्ञ! यबनापसद! पलायमानमपि जिघांसूर्य्यसि, तद-
यमालयमेव याहि। (इति परिवृत्य कोषादसिं निष्काशयतएव तस्य केशपाशमाकृष्य शिरश्छिनत्ति। पतिते च तस्मिन्तस्यापि वक्षोवर्म्मणि’मूलतानी’ इत्यङ्कितंनाम पश्यति) आः! पापीयसःस्पर्शेनापवित्रंमे गात्रम्। भवतु। आर्य्यपादस्पर्शेनैवैनंशोधयिष्यामि। (प्रतापसिंहं प्रति तारस्वरेण) अहो! नीलाश्वसादिन्!अवतिष्ठस्व। (इति तुरगादवतीर्य्य कुल्याजलेन रक्ताप्लुतंपाणियुगलं प्रक्षालयति)
प्रताप। कोऽयं घनीभूतशोणितशोणशरीरो मामामन्त्र्य निवर्त्तयितुमिच्छति? आं ज्ञातम्, मामनुधावतोर्यवनयोरेवायमेकतरः। (विलोक्य) न खलु। अस्य तावदुष्णीषच्छन्नंशिरः। तत् कश्चन हिन्दुरेव मां हन्तुंकामयते। हन्त!हिन्दुभिरेव हिन्दूनां हिंसया संवृत्तोऽयं सर्व्वनाशो भारतस्य।(निपुणमवलोक्य) नायं साधारणो हिन्दुः, राजपुत एवायम्;तादृश एवास्य वेशविन्यासः। आः स खल्वसौ दुरात्मा सागरसूनुरजयसिंहो भविष्यति। (विभाव्य) नैवमपि।स हिपापीयानार्य्यधर्म्मंविगर्हयन् इस्लामधर्म्मेदीक्षितः प्रकृष्टोमुसलमानः संवृत्तः; स कथं पुनरपि राजपुतवेशंविदधीत।तत् कतमोऽयम्?
शक्त। (वैरिसंहारात् सगर्वं प्रतापमभिगच्छति)
प्रताप। हन्त! अव्यवस्थितचित्तःकूटकौशलीवाशक्तसिंहः खल्वयम्। तस्यैवेदंनेपथ्यंनेत्रपथे नः पान्थायते। शक्तः किलात्मानं समरे मां जेतुमशक्तंमन्यमानः साधीयांस-
मवसरमन्विष्यन्नागतः। तदसौ दुरात्मा भ्रातृहिंसायांविभीषणमप्यधश्चकार। अहोवत! भ्राता नामनराणामुपकर्त्तापि गरीयान्, अपकर्त्तापि गरीयानेव। तेन च—
सुहृदामुत्तमो भ्राता दुर्हृदामपि चोत्तमः।
सन्निपाते हि दत्तोऽसून हरतेऽन्यत्र तान् विषम्॥४॥
तदिदानीं नितान्तक्लान्तकलेवरः किं करोमि मन्दभाग्यः अस्यैव हि राज्यमुत्सृज्य वशीभूतो भविष्यामि। (विचिन्त्य) न खलु न खलु। तर्हि तु मानसिंह इवायमपि यवनहस्त एव राज्यमर्पयिष्यति। तदस्यहस्तेराज्ययानादस्य हस्तेनजीवनयानं मे शतधा श्रेयः। (इति तरवारिं निष्काशयन्चैतकादवतरति)
शक्त। (विलोक्य) तत्कथमार्य्यःपरिचिन्वानोऽपि मांविरुन्धन्निवावतिष्ठते? आंज्ञातम्। (इति तरवारिंकोषे प्रवेश्योष्णीषञ्चावतार्य्यसाञ्जलिबन्धमुपसर्पति)
प्रताप।(विलोक्य सविस्मयम्) आश्चर्य्यम्, असेःकोषेनिवेशनम्, शीर्षादुष्णीषावतारणम्, साञ्जलिबन्धनञ्चोपसर्पणम्,कथममी विनयप्रकाराः शक्तस्य? अथवा शक्तं प्रति सा भ्रान्तिमूलैवासीन्मे चरिताशङ्का। येन हि—
भ्रातुर्वृत्तिः प्रीतिरम्यैव भावात्
तीक्ष्णाया तु प्रायशः साऽन्यहेतोः।
शैत्यं सत्यं वारि नैसर्गिकं हि
स्यादागन्त्रो तूष्णता वह्नितापात्॥५॥
शक्त। (उपेत्य) आर्य्य! आपदमपसार्य्यायमभिवादयतेदासः। (इति पादयोः पतति)
प्रताप। (शक्तस्य शिरसि हस्तं दत्त्वा) वत्स! चिरञ्जीवीभूयाः। यावत् पृच्छामि, आयुष्मता खल्वपसारिता कतमानामापत्?
शक्त।जानात्येवार्य्यो यथा रणाङ्गनादपसरन्तमेव भवन्तमन्वधावद्यवनयोधयुगलम्।
प्रताप। जानामि।
शक्त। मयापि तूर्णमनुधावता तावुभावेद नीतौशमनसदनम्।
प्रताप। (सानन्दोच्छासम्) शक्त! प्राणाधिक!
स शिथिलमुपगच्छन् कैकयीसूनुरेकां
मुदमददत रामे काननान्तस्तदानीम्।
सरभसमुपगच्छन् शैलभूमाविदानीं
मयि किल ददसे त्वं तां मुदं जीवनञ्च॥६॥
भवतु। वत्स! इत एव हेतोरद्यप्रभृत्यायुष्मान् खोरासानिमूलतानिनोरर्गल इत्याख्यास्यते।
उभौ। (परस्परमाश्लिष्यतः)
प्रताप।(सव्यथमिव) आयुष्मन्! परं निर्व्विणोऽस्मि।
शक्त। पराजयादपसरणाच्च।
प्रताप।(साक्षेपम्) अथकिम्।
शक्त। आर्य्य वीरधौरेय!
रणे जयो वा यदि वा पराजयः
प्रजीवनंवा मरणञ्च वामये।
भवेन्नृणामन्यतरः स्वभावतः
स्वभावभव्ये नहि भावनोचिता॥७॥
परमपसरणञ्च न ते निर्वेदहेतुः। येन हि—
जायेत चेदुपचयोऽपचयादवश्यं
कर्त्तव्य एव हि तदापचयः स धीरैः।
युद्धादपक्रमणमाक्रमणाय कार्य्यं
तस्मादृणग्रहणमृद्धिविवृद्धये च॥८॥
चैतकः। (भुवि निपत्य चरणचतुष्टयं प्रसारयन् कण्ठेघर्घररवंकरोति)
प्रताप। (सत्रामवैक्लव्यम्) शक्त! शक्त!चैतकोमज्जीवनं प्रदाय स्वजीवनं जहाति। (इत्युष्णीषवातेन वीजयति)
चैतकः। (शिरः सञ्चाल्य निष्पन्दो भवति)
शक्त। (परीक्ष्य) आर्य्य! प्रहारातिरेकेणाजस्रमस्रस्रंसनात् श्रमातिशयाच्च शरीरपिज्जरान्निर्गतः खलु प्राणविहङ्गस्तुरङ्गस्य।
प्रताप।(साश्रुपातम्) किमुच्यते; चैतकस्य मे धियश्चातुर्य्यं शक्तिवैचित्र्यञ्च मानुषमप्यतिक्रान्तम्।
शक्त। (सखेदम् ) वयमपि मन्यामहे —भवतः साहायके हयाकृतिरसौ मनीषी मानुषविशेष एवासीदिति। येन हि—
तुल्येऽपि प्राणचैतन्ये बुद्धिवृत्तेर्गुणागुणात्।
मानुषो मानुषः ख्यातः पशुश्चपशुरुच्यते॥९॥
प्रताप।(सवैक्लव्यम्) हा प्राणप्रिय! चैतक! त्वं खलुमे—
सलिले तरिर्गिरिवने तुरगः
रणसङ्कटे सुनिपुणः सचिवः।
परमः सखा विचरणे च चिरं
नहि वाहनं ननु वहन्नपि माम्॥१०॥
शक्त। आर्य्य! तमेनंचिराय स्मर्त्तुमत्रैव स्थापनीयःकश्चन प्रस्तरस्तम्भः।
प्रताप।न्याय्यमेवाह श्रीमान्।
शक्त। (साशङ्कम्) आर्य्य! अयुक्तमिदानीमावयोर्दीर्घकालमत्रावस्थानम्। तद्भवानस्मदीयमेवाश्वमधिरुह्य कमलमीरंगच्छतु; अहमपि निहतयवनयोरेकतराश्वेन भिन्नशूरदुर्गमेवगच्छामि।
प्रताप। एतदेवावयोरिदानीं युक्ततमम्। ( इति तंतमश्वमारुह्य निष्क्रान्तौ।)
चतुर्थाङ्के गर्भाङ्कः।
<MISSING_FIG href="../books_images/U-IMG-172337134556.jpg"/>
प्रतापपराजयो नाम चतुर्थोऽङ्कः॥०॥
<MISSING_FIG href="../books_images/U-IMG-172337126854.jpg"/>
पञ्चमोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-172337269457.jpg"/>
अथ प्रविशति निविड़पर्व्वतारण्ये परशुकरण्डीहस्तं
भिल्लकाष्ठिकद्वयम्।
प्रथमः। महुआ! जंपुच्छसि, ता सुणु, अह्माणं लाआक्खु महन्ते ज्जेव भद्दलोओ।(क)
मधुकः। किं तत्त प्रमाणं? (ख)
प्रथमः। चलित्तं चलित्तं, इभस्मक्खुअलोइअंमहुलं चलित्तं ज्जेव भद्दत्तणे प्रमाणं। (ग)
मधुकः। केलिसं? (घ)
प्रथमः। स क्खु हलिद्दाघट्टसमलदो पलाइअपढ़मं कमलमिलं गदो, कालान्तले तहिं वि जबणेहिं भिसंआक्कन्ते सपलिवालो ज्जेव तदो णिग्गदुअ गिलिदो गिलिंअड़विदो अड़विं दिहरकालंपज्जड़िअचप्पण-गढ़-चोन्देग्गामे अह्माणंघले ज्जेव उवट्ठिदो। (ङ)
___________________________________________________________
(क) मधुक! यत् पृच्छसि, तत् शृणु; अस्माकं राजा खलु महानेव भद्रलोकः।
(ख) किं तत्र प्रमाणम्।
(ग) चरित्रं चरित्रम्, अस्य खलु अलौकिकंमधुरं चरित्रमेव भद्रत्वे प्रमाणम्।
(घ) कीदृशम्।
________________________________________________________
मधुकः। (सखेदम् ) साहुआ! लाओ वि एलिसं कट्टं सहिदुं सक्कणोदि। (च)
साधुकः। तवस्मी, महन्ते ज्जेव तवस्मीलाआ। (छ)
मधुकः। होदु, तदो? (ज)
साधुकः। तदो मह तादो तस्मववहालेण सिणेहपलवसोहुविअभिसंआदलंकलन्तो मां चिलभिच्चं कटुअ सअंवि तह ज्जेव त्थिदो। (झ)
मधुकः। साहुत्रा! तहिं तुह तादो वि अणाधंपालअन्तो धम्मिओज्जेव णिणेओ। (ञ)
साधुकः। होदु, तुमं कुदो आअदो? (ट)
____________________________________________________
(ङ) स खलु हरिद्राघट्टसमरात् पलाय्य प्रथमंकमलमीरं गतः,कालान्तरे तस्मिन्नपि यवनैर्भृशमाक्रान्ते सपरिवार एव ततो निर्गत्यगिरितो गिरिम, अटवितः अटविं दीर्घकालं पर्य्यट्य चप्पनगतचौन्देग्रामेअस्माकं गृह एवं उपस्थितः।
(च) साधुक! राजापि ईदृशंकष्टं सहितुं शक्नोति।
(छ) तपस्वी, महानेव तपस्वीराजा।
(ज) भवतु, ततः?
(झ) ततो मम तातस्तस्य व्यवहारेण स्नेहपरवशो भूत्वा भृशमादरंकुर्व्वन् मां चिरभृत्यं कृत्वा स्वयमपि तथैव स्थितः।
(ञ) साधुक! तस्मिन् तव तातोऽपि अनाथं पालयन् धार्म्मिक एव निर्णेयः।
(ट) भवतु, त्वं कुत आगतः?
________________________________________________________
मधुकः। सुणु, इमस्मवि णअलस्मवेट्टणेजवणसेणातुवलदि त्ति सुणिअजदा लाआचप्पणगदचोन्दग्गामदोविणिग्गदुअइमस्मिं गिलिदुग्गे आअच्छदि, तदा भिल्लसेणावइणा लगुणा आणइअ हगे लस्मोदिस्मो। (ठ)
साधुकः। ता महुआ! इमस्सिंमिवालगिलिदुग्गेअजाणिदमग्गे सपलिवालो ज्जेवलाअपलमणिव्वुदो चिट्ठदि।एत्थ दाव जवणगन्धो वि ण हविस्मदि। (ड)
मधुकः। (सगर्व्वम्) ता आअच्छदु जवणसेणा, अह्मे भिल्लाओ सुलेहिं सलेहिंभिन्दिअभिन्दिअ जवणलासिंसमाहित्यं कलेह्म। (ढ)
साधुकः। अले! लाआसअंज्जेव अन्तलान्तला ससेणिओ णिपड़िअआअदां जवणसेणां संहलदि। (ण)
__________________________________________________________
(ठ) शृणु, अस्यापि नगरस्य वेष्टने यवनसेना त्वरत इति श्रुत्वायदा राजा चप्पनगतचौन्दग्रामादपि निर्गत्य अस्मिन् गिरिदुर्गे आगच्छति,तदा भिल्लसेनापतिना रघुणा आनीयाहंराज्ञो दत्तः।
(ड) तत् मधुक! अस्मिन् मिवारगिरिदुर्गे अज्ञातमार्गे सपरिवारएव राजा परमनिर्वृतस्तिष्ठति।अत्र तावत् यवनगन्धोऽपि नभविष्यति।
(ढ) तदागच्छतु यवनसेना; वयं भिल्लाः शूलैः शरैश्च भित्त्वा भित्त्वा यवनराशिं समाधिस्थं कुर्म्मः।
(ग) अरे! राजा स्वयमेव अन्तरान्तरा ससौनिको निपत्यआगतां यवनसेनां संहरति।
__________________________________________________
मधुकः। अम्मो! अह्माणं लाआमहासुले। ता एसो ज्जेव सुलधन्मो। (त)
साधुकः। होदु। महुआ! अहिआवेला सञ्जादा।ता एहि कज्जंकलेद्म। (थ) (इति कटिदेशे करण्डों बद्धाफलपादपमारोहति शाखातः शाखां गच्छन् फलान्याहृत्याहृत्य करण्डींपूरयति च)
मधुकोऽपि। (कटौ करण्डीं लम्बयित्वा पुष्पपादपमधिरोहति, शाखातः शाखां गच्छन् पुष्पाणि सञ्चित्य सञ्चित्यकरण्डीं पूरयति च)
साधुकः। महुआ! मह कज्जंसम्पस्मं।(द) (इतिफलपादपादवरोहति)
मधुकः। साहुअ! मह वि कज्जं सम्प्रस्मं। (ध)(इति पुष्पपादपादवरोहति)
उभौ। (शुष्काणीन्धनानि सञ्चिनुतो बध्नीतश्च। ततःसाध्यसाधनानन्देन सनृत्यंगायतस्तत्तत् कार्य्यञ्च कुरुतः)
साधुकः। हगे णइस्मंसादुफलाइं। (न) ( फलकरण्डींस्पृशति)
_______________________________________________________
(त) अहो! अस्माकं राजा महाशूरः। तदेष एव शूरधर्म्मः।
(थ) भवतु। मधुक! अधिकावेला सञ्जाता। तदेहि कार्य्यंकुर्व्वः।
(द) मधुक! ममकार्य्यं सम्पन्नम्।
(ध) साधुक!ममापि कार्य्यं सम्पन्नम्।
_____________________________________________________
मधुकः। हगे णइस्संसव्वउलाइं। (प) (पुष्पकरण्डींस्पृशति)
साधुकः। तुमंगिहाण पुष्पकलण्डीं। (फ) (पुष्पकरण्डीं दर्शयति। मधुकश्च गृह्णाति)
मधुकः। तुमं गिहाण फलकलण्डीं। ( ब ) (फलकरण्डीं दर्शयति। साधुकश्च गृह्णाति)
साधुकः। दालु गेह्णिअसीस्सेकटुअ। [भ] [काष्ठभारंशीर्षे स्थापयति]
मधुकः। पलसूणइअहत्थे धलिअ। [म] [परशुद्वयं हस्तेन धारयति]
साधुकः। धलं चलेह्म दाणंकलेह्म। [य] [चलति]
मधुकः। पलं सिणाह्य तदो खाआह्म। [र] [व्रजति]
इति निष्क्रान्तौ।
<MISSING_FIG href="../books_images/U-IMG-172337699054.jpg"/>
प्रवेशकः॥०॥
<MISSING_FIG href="../books_images/U-IMG-172337703255.jpg"/>
_____________________________________________________________________
(न) अहं नेष्यामि स्वादुफलानि। (प) अहंनेष्यामि सद्वकुलानि।
(फ) त्वं गृहाण पुष्पकरण्डीम्। (ब) त्वं गृहाण फलकरण्डीम्।
(भ) दारु गृहीत्वा शीर्षे कृत्वा।
(म ) परशु नीत्वा हस्ते धृत्वा।
(य) गृहं चलावः दानं कुर्व्वैः।
(र) परं स्नावः ततः खादावः।
_______________________________________________________
अथ प्रविशति मिवारशैलसानुवने पर्णकुटीराङ्गने
सपरिवारः प्रतापसिंहः।
प्रताप।देवि!समाश्वसिहि, न खलु केवलमहमेववनवासमकार्षम्। अपि तु—
नलश्च रामश्च युधिष्ठिरश्च
वनेषु वासंसुचिरादकार्षुः।
जायावियोगोऽपि बभूव तेषां
नात्येति लोको नियतेर्नियोगम्॥१॥
महिषी। अज्जउत्त! भवदो विहवविअमकिदं एरिस कट्टंपेक्खिअ दिज्जदि मह हिअअं। (क)
प्रताप।देवि! दारिद्र्यंनाम सर्व्वशान्तिनिदानम्। अतएव हि मनीषीसर्व्वं सन्न्यस्यन् वृणोति दारिद्र्यम्। वदन्ति च तत्त्वज्ञाः—
निस्वःस्वल्पेन सन्तोषी गर्व्वोद्वेगमदच्युतः।
केवलोदरचिन्ती च वरमाढ्याप्रादनीदृशात्॥२॥
तत्राहन्तु—
नहि स्वल्पेन सन्तोषी गर्व्वोद्वेगमदान्वितः।
सदा साम्राज्यचिन्ती च निस्वोविश्वविलक्षणः॥३॥
महिषी। ता किं तए सव्वदा ज्जेव एसा चिन्ता करीअदि? (ख)
(क) आर्य्यपुत्र! भवतो विभवविगमकृतमीदृशं कष्टं प्रोक्ष्य दीर्य्यते मम हृदयम्।
प्रताप। सर्व्वदा कर्त्तुं कथं शक्यते, देवार्च्चनया निद्रया च भूयानेव समयो व्याहन्यते।
महिषो। अज्जउत्त! सिणाणं असणं सअणञ्च जधाकालंअणण चिठ्ठदो तुह कथं णाम भविस्मदि देहरक्खा। (ग)
प्रताप।प्रिये! जन्मभूमावरक्षितायां देहरक्षा निष्प्रयोजनैव। तत्किमित एव भवत्यपि सहते दुःसहमेव क्लेशम्?
महिषी।एत्थ किं णाम अस्थि कधणिज्जं, विम्वं अणुवट्टदि हि च्छाआ। (घ)
प्रताप।देवि! अत्र खल्ववधीयतामयं महीयानाश्वासः।
उत्साहियोद्धुर्बलवन्मनोबलं
युक्तस्य योगश्च तपस्तपस्विनः।
अकुर्व्वतोवापि कलेवरक्रियां
भवत्यलंजीवनकारणंध्रुवम्॥४॥
महिषी। ता किं राअभवणदो वि तुह एदं गिरिवणं सोहणं पड़िभादि? (ङ)
प्रताप। [स्वगतम्] हन्त!आसीदियमस्मच्चित्त-
__________________________________________________
(ख) तत् किं त्वया सर्व्वदैव एषा चिन्ता क्रियते।
(ग) आर्य्यपुत्र! स्नानमशनं शयनञ्च यथाकालमननुतिष्ठतस्तव कथं नाम भविष्यति देहरक्षा?
(घ) अत्र किं नामास्ति कथनीयम्, विम्वमनुवर्त्तते हि च्छाया।
(ङ) तत् किं राजभवनतोऽपि तवेदं गिरिवनं शोभनं प्रतिभाति?
_____________________________________________________
वृत्तेरप्योजस्विनी। किन्तु क्रमेण दुःसहं क्लेशमसहमानासम्प्रति विमनायते। तदस्याः खल्वीदृशी दशा परं परमुपचीयमाना भाविनी मे कार्य्यसिद्धेर्महीयानन्तरायः। तदिमामित्थं सुमनीकरोमि। [प्रकाशम्] देवि! अत्र कः सन्देहः?
रजोगुणविवर्द्धिनो विविधकामसञ्चारिणो
विलासमदकारिणी व्यसनिनीमहीभृत्पुरी।
शमोपरमकारणाद्विमलसत्त्वसम्पादनात्
मनीषिमुनिसेविताद्गिरिवनान्निहीना ध्रुवम्॥५॥
महिषो। एसो क्खु विवेओ विराइणो जणस्सअह्मेतुराअसाअरमग्गा। (च)
प्रताप। तर्हि किल रागिणं जनमेव पृच्छामि। (नेपथ्याभिमुखमवलोक्य) इन्दिरे! इतस्तावत्।
महिषी। (सहासम्) ता किं बालिआतुह पमाणं? (छ)
प्रताप। महिषि! ता किं ब्रवीषि। बाल्यंखलु नित्यसत्यानुवर्त्ति। (पुनर्नेपथ्यमवलोक्य) अम्ब! मा विलम्बस्व।
नेपथ्ये। ताद! इअंजामि। हला सहीओ! तह्मे चिट्ठध, अहं तादं पेक्खिअदाणिं ज्जेव आअच्छामि। (ज)
_____________________________________________
(च) एष खलु विवेको विरागिणोजनस्य, वयन्तु रागसागरमग्नाः।
(छ) तत् किं बालिका तव प्रमाणम्?
(ज) तात! इयं यामि।हला सख्यः! यूयं तिष्ठत, अहं तातंप्रेक्ष्य इदानीमेवागच्छामि।
_______________________________________________
ततः प्रविशति धूलिधूसराङ्गी वन्यकुसुमभूषणा शाटी-
परिधाना चेन्दिरा।
प्रताप।( सस्नेहम्) एहि अम्ब! (हस्तौ प्रसारयति)
महिषो। (विलोक्य सस्नेहहासकौतुकम्) चिट्ठदुव्विणीदे! एरिसगात्तसंजोएण महाराअगात्तं वि कलुसोकरिस्ससि। (झ) (धर्त्तुंगच्छति।)
इन्दिरा।(किञ्चिदपसृत्य सभयम्) ताद! अम्बामारेदि। [ञ]
प्रताप। मा भैषीः। [इन्दिरामुपसर्पन्] देवि! ईदृक्कलुषीकरणंमहाभागधेयफलंजीवानाम्। येन हि—
दृष्टेःसुधा दूरत एव दृष्टा
स्नोहेन चित्तं स्तिमितीकरोति।
दूरे हि चिञ्चा परहस्तपिष्टा
परस्य वक्त्रंकुरुते जलार्द्रम्॥६॥
[इत्युपसरन्निन्दिरामङ्के निधाय ] अहो स्पर्शः!
अतसिकुसुमवर्णा धूलिकीर्णा समन्तात्
अयस इव लवाप्ता हैमनीपुत्तलीयम्।
मृदुलललितगात्री बालपुत्रो हृदग्नेः
शमयति परितापं शीतलस्पर्शतो मे॥७॥
____________________________________________________________________
(झ) तिष्ठ दुर्व्विनीत! ईदृशगात्रसंयोगेन महाराजगात्रमपि कलुषीकरिष्यसि।
(ञ) तात! अम्बामारयति।
__________________________________________________________
[इन्दिरायाश्चिबुकं धृत्वा] इयन्तंसमयंक्व खल्वासीः?
इन्दिरा।खेलाट् ठाणे।
प्रताप।कैः सह खेलसि?
इन्दिरा। भिल्लवाआहिं। [ठ]
प्रताप। तन्मामपि खेलायां गृहाण।
इन्दिरा। [सहासम् ] तुमंपुरिसो। (ड)
प्रताप।(सहासकौतुकंमहिषीं दर्शयन्) तर्होमां गृहाण।
इन्दिरा।(विहस्य) इअंवि वुड्ढा। (ढ)
दम्पती। (सकौतुकं हमतः)
इन्दिरा! अहं जामि। (ण) (उत्थातुमिच्छति)
प्रताप। (इन्दिरां गाढ़माश्लिष्य चिबुकं धृत्वा) दुर्विनीते!ब्रूहि—अस्मिन् गिरिवने त्वमारमसि? कमलमीरभवने वा?
इन्दिरा। इमस्सिंगिरिवणे। (त)
प्रताप।(सकौतुकहासम्) कुतः?
इन्दिरा। एत्थधूलीपावीअदि, पुष्पंलम्भीअदि, णिज्झरजलंपेक्खोअदि, पक्खिरवोअसुणीअदि। (थ)
प्रताप।(सहासगर्व्वम्) महिषि! जितं मया।
________________________________________________
(ट) खेलास्थाने। (ठ) भिल्लबालिकाभिः। (ड) त्वं पुरुषः।
(ढ) इयमपि वृद्धा। (ग) अहं यामि।
(त) अस्मिन् गिरिवने।
(घ) अत्र धूलिः प्राप्यते, पुष्पं लभ्यते, निर्झरजलंप्रेक्ष्यते, पक्षिरवश्च श्रूयते।
_____________________________________________
महिषी। (सहासम्) एसा वालिआअत्तणो मणोणु उलं भणदि। (द)
प्रताप।देवि! उत्तममधमं वा मनोऽनुकूलप्रतिकूलतयैव सर्व्वस्य।पश्य—
तद्धितस्योत्तमं वस्तु येन यः परिहृष्यति।
हालिको गृहपर्य्यङ्कंहित्वा शेते तृणेऽङ्गने॥८॥
महिषी। (महासाटोपम्) ता अहं अमरं आमन्तेमि। (ध)
प्रताप। सतु विलासी विलासविषयं कमलमीरमेवसर्व्वथा शोभनं समर्थयिष्यति।
महिषी। ता किं विलासो दोसपिसुणो? (न)
प्रताप। न खलु विलासो नवोदितयौवनस्य दोषपिशुनः।
अपि तु —
पुष्पे विकासस्तरुणे विलासः
शिशौ चलत्वं स्थविरे स्थिरत्वम्।
नयः प्रवीरे विनयश्च धीरे
सङ्गच्छते श्रीमति शोभते च॥९॥
किन्तु तत्र सङ्गच्छमानःशोभमानश्चाप्यसौ विलासः पदविरुद्धश्चेद्दोषपिशुन एव। पश्य—
प्रसाधनंवृत्तियोऽनुवर्त्तिं
नेयंविहेयं विपरीतमेव।
____________________________________________
(द) एषा बालिका आत्मनो मनोऽनुकूलंभणति।
(ध) तदहममरमामन्त्रयामि।
____________________________________________________
यूनो गृहस्थस्य यथा न चोरं
तथा सुचेलञ्चमुनेर्न योग्यम्॥१०॥
भवतु। आहूयतामायुष्मान्।
महिषी। (नेपथ्याभिमुखमवलोक्य) वच्छ! अमर! इदोदाव।(प)
पुस्तकहस्तो नवयौवनः सुन्दरमूर्त्तिश्चामरसिंहः प्रविश्य। किमम्व!
महिषी। (सहासकौतुकम्) कधेहि तस्म कमलमीरस्म इमस्सगिरिवणस्मअ केरिसं अन्तरं? (फ)
अमर। (सोल्लुण्ठनहासम्) सूर्य्यज्योतिरिङ्गणयोः, सुवर्णलौहयोः, सरोजशैबलयोश्च यादृशमन्तरम्।
महिषी। (सहासकौतुकमेव) ता पट्टं कधेहि। (ब)
अमर। (सहासमेव)एतदपि पृच्छनीयम्। सा राजधानी, इयं पशुपक्षिस्थली, स विपश्चितां निवासः, अयं तिरश्चामावासः; स स्वर्गः, अयञ्च निरय इति।
महिषी। (सहासकौतुकमेव) अज्जउत्त! दाणिं केणजिदं? (भ)
________________________________________
(न) तत् किं विलासो दोषपिशुनः?
(प) वत्स! अमर! इतस्तावत्।
(फ) कथय तस्य कमलमीरस्य अस्य गिरिवनस्य च कीदृशमन्तरम्।
(ब) तत् स्पष्टं कथय।
(भ) आर्य्यपुत्र! इदानींकेन जितम्?
_______________________________________________
प्रताप।(सहासमेव) इदमहमवादिषं पूर्व्वमेव। (तद्धितस्योत्तमंवस्तु··· इत्यादिकं पुनः पठति)
अमर। इन्दिरा किं ब्रवीति?
महिषी। ता पुच्छ।(म)
अमर। (उपेत्य इन्दिरायाश्चिवुकंधृत्वा सहासम्) अये! त्वमनयोःकतरत् किल शोभनंमन्यसे?
इन्दिरा। एदं गिरिवणं। (य)
प्रताप।(सहासम्) देवि! इदानीमावयोःसमानःपक्षः।
महिषी। बालिआकिं बुज्झदि। (स्वगतम्) हन्त! सामि-सन्ताणेहिंसद्धंहासकोदुएण खणमेत्तं वि निव्वुदह्मि। (र)
प्रताप। (स्वगतम् ) सिद्धं नः समीहितम्, देव्याः प्रसन्नमनः। ( प्रकाशममरं प्रति) किमिदं पुस्तकं ते हस्ते?
अमर।महाकविकालिदासप्रणीतंरघुवंशम्।
प्रताप। इदानीमिदमेवाधीषे?
अमर। पाणिनीयंशब्दशास्त्रमधीत्याधुना खल्विदमध्ये तुंप्रवृत्तः।
प्रताप।आयुष्मन्! इदं तावत् स्मर्त्तव्यम्। यत्—
______________________________________________
(म) तत् पृच्छ। (य) एतत् गिरिवनम्।
(र) बालिका किं बुध्यते। हन्त! स्वामिसन्तानैःसार्द्धेहासकौतुकेन क्षणमात्रमपि निर्वृतास्मि।
____________________________________________________
सूर्य्यैवंशप्रसूतस्य शौर्य्यं क्षत्रस्य सर्व्वदा।
शिक्षणीयं प्रयत्नेन विप्रस्येवादिमं तपः॥११॥
अमर। (सविनयम्) सर्व्वथास्मरिष्यामि।
ततः प्रविशतः प्रत्येकं शिरसि काष्ठभारंहस्ते च
करण्डीमादाय साधुकमधुकौ।
साधुकः। (काष्ठभारं करण्डीञ्च भूमाववतार्य्य) एसोकट्ठभालो इअञ्च फलकलण्डी। (ल)
मधुकः। (तथैव कृत्वा) अअं दालुभालो, एसा अ पुप्पकलण्डी। (व)
प्रताप।(प्रत्यकंपारितोषिकंददाति)
साधुकमधुकौ। (ससन्तोषं गृहीत्वा प्रणम्य च निष्क्रान्तौ) नेपथ्ये वंशीध्वनिः।
प्रताप। (श्रुतिमभिनीय) देवि! इतः सूरो दूरमधिरूढ़ी गगनस्य, ततश्च सेनापतिर्मद्दर्शनमिच्छन् वंशीरवेणनिजमागमनंसूचयति। तत्त्वंभवनं प्रविश्य क्रियतां पूजनायोजनमाहार्य्यनिर्म्माणञ्च।
महिषो। दुवे वि पढ़मं ज्जेव करिअ इदो आअदा। (श)
प्रताप। तर्हि गत्वा प्रागिमावभ्यवहारय, अहमपि सेनापतिना कृतसंलापो यास्यामि मध्यन्दिनक्रियासम्पादनाय।
___________________________________________
(ल) एष काष्ठभारः, इयञ्च फलकरण्डी।
(व) अयं दारुभारः, एषा च पुष्पकरण्डी।
(श) द्वेअपि प्रथममेव कृत्वा इत आगता।
__________________________________________________
महिषी। एव्वं भोदु। (ष)
अमर। (सहासं पुष्पकरण्डीमिन्दिराशिरसि निधायस्वयञ्चहस्तयोः काष्ठभारद्वयंगृहीत्वा निष्क्रान्तः)
महिषी। (फलकरण्डींगृहीत्वा निष्क्रान्ता)
प्रताप। (प्रतिवंशोरवेण सेनापतिमामन्त्रयति)
साटोपं प्रविश्य सेनापतिः। जयति जयति देवः।(प्रणमति)
प्रताप।(सोत्कण्ठं प्रतिप्रणम्य) अभिधीयतामद्यतनी वार्त्ता।
सेना। अद्य खलु प्रभातायामेव विभावर्य्यां भगवताविवस्वता सार्द्धमेव प्राज्यामभ्युदितं यवनबलम्।
प्रताप। (सोत्साहम्) ततः?
सेना। ततः प्रथममेवास्माकं भिल्लसैनिकैस्तुङ्गशैलाङ्गान्निरन्तरमार्गणगणैर्गगनमार्गमावृत्य प्रहर्त्तुमुपक्रान्तम्।
प्रताप।(सहर्षम्) साधूपक्रान्तम्। अनन्तरम्।
सेना। यवनैरपि शैलसुषिरेषु प्रच्छन्नान् प्रति मोघमेवनालीकगुलिकावर्षणमारब्धम्। तेषु चानेके निद्रात्यागकालएव महानिद्रां भेजिरे। परे च—
चार्म्मावृताङ्गा यवनास्तदानीं
तान् भिल्लसेनाविशिखाननेके।
_____________________________________________
(घ) एवं भवतु।
________________________________________________
वृषा इवादाय घनाब्दवृष्टिं
मिवारशैलान्तिकमागता द्राक्॥१२॥
प्रताप। (साशङ्कम्) ततः?
सेना। ततश्च भिल्लैःपाषाणपातेन क्षत्रियैश्चाविर्भूय शूल-भल्ल-करबाल-करालाघातेन च्छिन्नभिन्नाः क्रमेणापक्रान्ताः।
प्रताप।(सानन्दोल्लासम्) साधु साधु। दिगन्तराणि केरक्षन्ति।
सेना। अवाचीं शक्तसिंहः, प्रतीचीं शम्भुसिंह उदीचीञ्चभीमसिंहः।
प्रताप।(सानन्दम्) साधु, यथास्थानंवीराणामिदमवस्थानंमहदेवाश्वासस्थानम्।
सेना।देव! विलम्बे विपत्पातः सम्भाव्यते।
प्रताप। तत्त्वरस्व स्वपदमेव सनाथीकर्त्तुम्।
सेना। (प्रणम्य द्रुतं निष्क्रान्तः)
प्रताप।(विचिन्त्य सखेदम्) गरीयानर्थाभावः। तत् कथमीशो भवेयंनालीकं बृहन्नालीकञ्च निर्म्मातुंक्रेतुं वा।
नेपथ्ये इन्दिरायाआकुलकन्दनध्वनिः, तरुगात्रेदण्डताड़नशब्दः, हद्दीहद्दी(स) इति महिष्या आक्षेपरवश्च।
प्रताप।(आकर्ण्य सोद्वेगम्)किं नाम संवृत्तमन्तर्भवने? (द्रुतं निष्क्रान्तः)
___________________________________________
(स) हाधिक् हाधिट्।
________________________________________
ततः प्रविशति भोजनासने दण्डायमाना सोच्छासंरुदती
चेन्दिरा, दण्डेन तरुंताड़यन्नमरसिंहः, दर्व्वीहस्ता
महिषी, सष्कुलीमुखः पादपस्कन्धारूढ़ो
वनविड़ालश्च।
उन्मुखाः सर्व्वे वनविड़ालं पश्यन्ति।
ससम्भ्रमंप्रविश्य प्रताप। किं नाम संवृत्तम्?
अमर।आयुष्मतीभोक्तुमासीना, अहञ्च तत्रोद्युञ्जानः,ततो यावदम्बाश्रीमत्याः सष्कुलींप्रदाय परावर्त्तते, तावदेवायं दुष्टो वनमार्ज्जारः कुतोऽप्युपेत्य तामस्या हस्तादाच्छिन्दन्नुत्प्लुत्यामौपादपस्कन्धमारूढ़। (इति दण्डं विहाय वनविड़ालंप्रति लोष्ट्रं क्षिपति)
प्रताप।(वनविड़ालं विलोक्य) अये! विरमास्याः पुनराहरणात्। पशूच्छिष्टंखल्वनाहार्य्यंमानुषाणाम्। (महिषीं प्रति) तत् किमेकैवेयंनिरमायि भवत्या?
महिषी। अधइं। (ह)
प्रताप। तदपरा अपि झटिति निर्म्मीयन्ताम्।
महिषी। घासलेमो वि णत्थि। (क्ष)
प्रताप। फलानि दीयन्ताम्।
इन्दिरा। फलाइंअञ्चन्तंज्जेव कड़ कसाआइं। (क)
अमर। ललिते! नन्वद्यतनान्यतीवस्वादुफलानि। तद्वयमश्नोमस्त्वमप्यज्ञान। (इतीन्दिराया हस्ते फलं ददाति)
____________________________________
(च) अथकिम्। (क्ष) घासलेशोऽपि नास्ति।
(क) फलानि अत्यन्तमेव कटुकषायाणि।
________________________________________
प्रताप।(सविस्मयखेदमात्मगतम्) हन्त!कः खल्वयं मे ग्रहः, युद्धंतावद्भागधेयेनापि सार्द्धम्? नन्वियमलौकिकी मूढ़ता। (किञ्चिद्विभाव्य)
प्राज्यं राज्यं विभवि नगराञ्चाध्यकारि द्विषद्भिः
प्राया हृद्या लयमुपगताः सर्व्वथैवाम्मि निस्वः।
जायापत्यान्यपि सुरपुरंयातुमुद्युञ्जतेऽस्मिन्
मामद्यापि त्यजसि नहि किं दुर्द्दमाशापिशाचि!॥१३॥
अहोवत, क्वननु कमलमीरं सर्व्वसम्पन्मनोज्ञं
क्व नु शिखरिवनंवा भीममापन्निदानम्।
नरपतिपरिवारा वासयोग्याः किमस्मिन्
मरुभुवि नलिनानि प्राणितुं नेशतं हि॥१४॥
(महिषींविलोक्य सस्वेदम्) अहह! पृर्व्वमिमां न खलुनाममात्रेण गौरीम्, अपि तु वर्णतो गौरीम्, वस्तुतोऽपि चगौरीमेवान्वभवम्; इदानीन्तु परिधानशाटीमिव वर्णतोमलिनां वस्तुतोऽपि च मलिनामेवानुभवामि। अपि च पूर्व्वमिमामसूर्य्यम्पश्यामपश्यम् अधुना तु प्रायादिमां सूर्य्यवश्यमेव पश्यामि। (अमरमालोक्य) हा धिक्, अयमपिकुमारः खल्वमरो निरन्तरममरकुमार इव तदानींराजधान्यांरराज; साम्प्रतन्तु असुरेणेव दारुणेन दैन्येनावमन्नःसम्पन्नः।हा हन्त! इयमपि कमलकलिकेव कोमलकलेवरा कन्या तुषारपातेनेव दुःसहक्लेशपातेन दिने दिने परिम्लाना सञ्जाता।(इति सविषादंचिन्तां नाटयति।)
इन्दिरा।(रुदतीं मातरमालोक्य मुक्तकण्ठं रोदिति)
प्रताप।(विलोक्य सवैक्लव्यम्) देवि! देवि! मा रोदीः स्वयमाश्वस्यसमाश्वासयैनाम्।(अमरंप्रति) आयुष्मन्! पुमानसि बलवान्, तत् सान्त्वय तावदबले। (इन्दिरामङ्के निधाय) स्वर्णप्रतिमे। समाश्वसिहि। (सोच्छासखेदम्) भवतु। अद्यैव विधास्यामि युष्माकं दुःखावसानम्।इदानीमेव प्रेषयामि सन्धातुकामो यवनपतौ सन्धिपत्रम्।तदागच्छत यूयम्, अन्तर्गृहमेव गच्छामः।
अमर। (दिगन्तरमवलोक्य स्वगतम्) अद्य खाद्यं हरन्नयमाखुभुगस्माकंदुःखभुगेव संवृत्तः। तत् सुष्ठूक्तं कालिदासेन—
“^(……..)विषमप्यमृतंक्वचिद्भवेत्
अमृतं वा विषमीश्वरेच्छ्या॥”
इति निष्क्रान्ताः सर्व्वे।
<MISSING_FIG href="../books_images/U-IMG-172339575256.jpg"/>
वनवासो नाम पञ्चमोऽङ्कः॥०॥
<MISSING_FIG href="../books_images/U-IMG-172339579854.jpg"/>
षष्ठोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-172339591657.jpg"/>
अथ प्रविशति कालीशैलसन्निहितमन्दिरालिन्दे
शान्तिशरणमिश्र जपमालाहस्तो हर्षोत्फुल्लवदनः
सुप्रभदेवश्च।
शान्ति। (विलोक्य) स्वागतमुपाध्यायस्य? इदमासनमधास्यताम्। (इत्यभिवादयते)
सुप्रभ। (देवतां प्रणम्य प्रत्यभिवाद्य नाट्येनोपविश्य च) कर्हि भवान् प्रत्यावृत्तः?
शान्ति। गतेऽह्नि मध्यन्दिने। अथ भवान्?
सुप्रभ। सप्ताहं यावत्।
शान्ति। (सुप्रभस्य मुखमवलोक्य सकौतुकम्) तत्कथमत्रभवन्तमानन्दसरस्वन्तं सन्तरन्तमिवावलोकयामि।
सुप्रभ। तदामूलतः श्रूयताम्।
शान्ति। (सौत्सुक्यम्) अवहितोऽस्मि।
सुप्रभ। जानास्येव, यथा तदानीं हरिद्राघट्टसङ्गरे यवनैर्विजयवैजयन्तीलाभेन महाराजस्तस्मादपसरन्नस्मिन्नुदयपुर एव तावदुदयमुपेत्य स्थितः। दारुणवर्षागमाच्च नानारोगागमेनदेशस्य दुर्गमतया च यवनगणोऽपि प्रस्थितः। वर्षान्तरे च वर्षागमादतिपूर्व्वमेव पुनर्यवनैरस्मिन्नप्याक्रान्ते भवान्
वाराणसीम्, अहञ्च प्रयागं प्रस्थितः। सपरिजनो महाराजश्चास्मान्निर्गतः।
शान्ति। इयन्तमुदन्तमधिगत एवास्मि।
सुप्रभ। ततश्च सपरिजन एव महाराजो दोर्घकालंग्रामतो ग्रामं गिरितो गिरिमटवीतश्चाटवींपर्य्यटन् तत्र तत्रैवयवनैरनुसन्धायाक्रम्यमाणोमिवारशैलमानुवने निर्म्मितपर्णकुटोरेषु सुरक्षितो निवमन्नशेषकेशमहिष्णुर्नल-राम-युधिष्ठिरानपि तदानीप्रतीतायाय।
शान्ति। (मखेदम्) हन्त! दुर्गतक्रम एवं नियतिनियोगो जीवानाम्।
चिरचारुतरुस्रस्तो व्याकुलो वकुलव्रजः।
विशीर्णश्च विकीर्णश्च वनगेरनलानिलैः॥१॥
सुप्रभ। उद्भावितं तावद्दृश्यमेव सादृश्यंमिश्रेण। भवतु। ततः कदाचिन्मध्यन्दिने तादृशदशावशेन महिषीनिर्म्मितांपादपमारूढ़ोवनविडालः। तदानीञ्चेन्दिरा मुक्तकण्ठमरादत्। महिषीच सोच्छासमस्रमस्रंसरत्। अमरश्चदण्डेन तंतरुमताडयत्।ईदृशविप्लवकाले च महाराजस्तत्र सन्निधाय प्रतीकारोपायमपश्यन् परं निर्व्वेदमापन्नस्तदानीमेव हि सन्धातुकामःप्रेषयामास यवनपतौ पत्रम्।
शान्ति। (सविस्मयम्) पुरुषसिंहेन सन्धित्सुनैव प्रेषितंपत्रम्!
सुप्रभ। अहो तदानींखल्वरुन्तुदो निर्व्वेदः पुरुषसिंहस्य। तथा च—
परिजनस्य समीक्ष्यसुदुर्द्दशां
परमकार्य्यमपि क्रियते सता।
जलधिमन्थिसुरासुरसङ्कटे
पशुपतिर्हि पपौ विषमं विषम्॥२॥
शान्ति। भवतु तावत्। पराचीनःको वृत्तान्तः?
सुप्रभ। वादसाहस्तु प्राप्तपत्रःप्रथमं प्रतापप्रार्थनांप्रत्येतुमेव नार्हति स्म; परञ्चात्मनैवाक्षरपरिचयात् विस्मयानन्दकुतूहल कोलाहलि-बहुजन-प्रत्यायनाच्च प्रत्ययमुपेतो निर्दिदेशराजधान्यां महोत्मवमनुष्ठातुम्।
शान्ति। (सविषादमेव) प्राप्तकालमेवानुष्ठानंवादसाहस्य।
सुप्रभ। परञ्च परिषत्कविं पृथ्वीराजमाहूय देवप्रतिमेदेवभाषैवानुरोधः समीचीन इति तद्भाषयैव पत्रं रचयितुंरोचयामास। पृथ्वीराजश्चान्तर्वहन् महाविषादंवहिश्च प्रकाशयन् परमं प्रसादं श्लेषेण पत्रं विरचय्य प्रादर्शयत्,वादमाहेन च दृष्टमुररीकृतञ्च।
शान्ति। (सकौतुकम) स्मरति चेदुपाध्यायः श्रावयतुमाम्।
सुप्रभ। श्रूयताम—
“श्रीमन्महाराजप्रतापसिंह! स्वस्ति ते सर्व्वाङ्गीनमेवास्ताम्।दिल्लीनगरादिदंजातिवर्णबन्धुः सनिर्वन्धमेवानुरुन्धे भवन्तम्।
कृत्यस्तेप्रस्तुतः सन्धिर्दिल्लीशेन च सम्मतः।
सम्भाव्यमानः सहसा सर्व्वेषाञ्चात्र नो मतम्॥३॥
अपि च,
एको हि दीपो ज्वलसोह नस्त्वं
तेजस्वितां तत् परिहाय पूर्व्वाम्।
सन्धोहि मानस्थितिमान् भवाशु
संग्रामचेष्टाविरतश्च भूयः॥४॥
भवदीयः श्रीपृथ्वीराजवर्म्मा।”
शान्ति। (सहर्षोल्लासम्) साधु साधु, चमत्कारिणी रचनाचातुरी। सुगमसुन्दरीभाषा, अथ च विपरीतार्थयोरभङ्गःसभङ्गश्च श्लेषः सर्व्वथैव हृदयाश्लेषौ। महाकवेर्माघस्य शिशुपालवधकाव्य एव षोड़शसर्गे खल्वीदृशः श्लेषो दृश्यते।
सुप्रभ। अत एव हि भारतेश्वरस्य महासभायां कविपदमध्यासीनः पृथ्वीराजः।
शान्ति।आस्तां तावत्। अनन्तरः को वृत्तान्त?
सुप्रभ। अनन्तरञ्च वादसाहेनस्वभाषया लिखितंस्वाक्षरप्रमितञ्चमूलंसम्मतिपत्रम् इदं पृथ्वीराजपत्रञ्च दूतेनप्रेषितं प्रतापसिंहाय। स चोभयंप्राप्य वादसाहपत्रेदृष्टिमात्रमामर्शयन् नातिप्रसन्नमनाःस्वजातिवर्णप्रेम्णाप्रणिधानेन पृथ्वीराजपत्रंवाचयन् हंसो नीरात् क्षीरमिव तस्यपृथ्वीराजपत्रस्य द्वितीयमर्थमादाय विस्फोरकलग्नः स्फुलिङ्ग इवस्फुरितस्तत्क्षणादेव तेजसा।
शान्ति। (सहर्षम्) सव्वथा सम्भवत्येव। तथा च—
चित्तस्य वृत्तिः सुचिरान्महस्विनी
सन्धुक्षिता सा कविनाज्वलत् क्षणात्।
जलेऽनुकूले चलितानिले पुनः
पृष्ठागते याति तरिस्तड़िज्जवात्॥५॥
सुप्रभ। अस्मिन्नेवान्तरे महामन्त्री भीमसिंहः स्वार्ज्जितं सञ्चितं पैतृकञ्च महान्तमर्थराशिमुपादाय तत्रोपस्थाय समरसाहाय्याय महाराजाय सविनयमुपजहार।
शान्ति।(सानन्दोच्छासम्) ततः?
सुप्रभ। ततस्तदानीं निस्वोऽपि मिवारेश्वरो विस्मयानन्दसन्दोहेनान्दोलितहृदयो मन्त्रिणोऽप्यनुग्रहं निग्रहमिवमन्वानः प्रथमंग्रहीतुमस्वीकुर्व्वन् परञ्च तस्याग्रहातिरेकात् प्रयोजनातिशयात् समयोपयोगाच्च सस्मितं स्वीचकार कृतकृत्यञ्चात्मानं मेने।
शान्ति। नन्वधिगन्तुमिच्छामि कियानसावर्थराशिरिति।
सुप्रभ। सांख्यां नाधिगच्छामि, किन्तु तत्सचिववचनेनाध्यगच्छम्, द्वाविंशतिसहस्रयोधानां चतुर्द्दशाब्दान् यावत्तेनार्थराशिना सुखेनैव पोषणंस्यादिति।
शान्ति। (सानन्दोन्मादम्) अहो भाग्यं राज्ञः,अहो औदार्य्यमार्य्यसचिवस्य। ततः?
सुप्रभ। ततश्च झटित्येव युगपदेव तत्सानुवनस्थ एवमहाराजो निर्म्मापयामास पूर्व्वाभीष्टं यथेष्टमेव नालीकं
बृहन्नालीकंतद्भिन्नञ्च नानाविधमायुधम्; सज्जग्राहचस्वदेशाद्विदेशाच्च समरविशारदानां योधानां पञ्चाशत् सहस्राणि।
शान्ति। (सौत्सुक्यम्) अभिधीयतामनन्तरक्रिया।
सुप्रभ। अनन्तरञ्च प्रथमंकमलमीरं परञ्चोदयपुरमधिकृत्य शोभने सरसि कमलानीव कमलमीरे पूर्व्ववदेवयोग्यभोग्येन परिजनान् प्रतिष्ठाप्य महाविक्रमेणैकैकक्रमेण ऊनत्रिंशद्दुर्गाण्यध्यकार्षीत्; इदानीञ्च देवीदुर्गमधिकर्त्तुमुद्युक्ते। तथा च—
एकतो ज्वलनो भावात् समीरश्च द्वितीयतः।
तृतीयतो हविःक्षेपो दग्धन्तेनाञ्जसेन्धनम्॥६॥
शान्ति। (सानन्दोन्मादम्) उपाध्याय! ईदृशशुभसंवादवादिने किं नाम पारितोषिकं ददामीत्यन्विष्यन्नपि ननिश्चिनोमि।
सुप्रभ। इदमेव महापारितोषिकम् यत्, तत्स्वस्थ्ययनस्यविफलतामाशङ्क्य तदानींस्वविषादप्रसवमस्मदन्तरे सञ्चारितवान्; इदानीञ्च तस्य सव्वथासफलतामाकर्ण्य निजानन्दसन्तानमस्मदन्तरे प्रषयसीति।
शान्ति।एष मे द्रढ़ीयान् विश्वासो यत्, साङ्गंखलुदेवार्च्चनमलमेव फलंजनयति।
सुप्रभ। अत्र कः सन्देहः। अभिहितञ्चाप्तैः—“स्वाङ्गाद्धि वैदिककर्म्मणःफलावश्यम्भावनियमः” इति।
शान्ति। एष च तस्मात्तृतीयः संवत्सरः। तेन चेदमपि।प्रमाणीकृतम्—
“त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः।
अत्युत्कटैःपापपुण्यैरिहैव फलमश्नुते॥”
उभौ। (जानुयुगलं भूमौ विन्यस्य साञ्जलिबन्धम्)मातर्दानवमर्द्दिनि! मर्द्दय तावत् पुनर्दानवान् द्रुतमपसारयच हिन्दुस्थानात्।
इति निष्क्रन्तौ।
<MISSING_FIG href=”../books_images/U-IMG-172339963955.jpg"/>
अङ्कावतारः॥०॥
<MISSING_FIG href="../books_images/U-IMG-172339967954.jpg"/>
अथ प्रविशति देवीदुर्गे विलासभवने दुर्गाध्यक्षः
साहवाज खास्तद्वयस्य मवारकश्च।
साह। वयस्य! त्वं खलु नितरामेव लोकतत्त्वनिष्णातः। तद्ब्रूहि कतमस्मिन् वयसि कतमद्वस्तु लोभनीयं मनुष्यस्य?
मवा। कोमारे मादुणो सिणेहो महुरो रसो अ, जोव्वणे ऊुवदीविलाससामग्गीअ, वठ्ढए अ धम्मो विस्लामो अ। (क)
साह। तर्हि तावदिदानीमस्माकं यथा युवतयो लोभनीयास्तथा तासामपि वयम्?
मवा। एत्थ को संसओ।ताणंहि अट्टगुणो कामो त्ति सुहिओ कधेन्ति। (ख)
साह। अये! सुधियः खलु धीशून्या एव।
मवा। (सहासम्) सुहिओधीसुस्माओ, जलणिहओ जलसुस्माओ, धणिणो धणसुस्माओ, दस्मतमिस्माओ अतमिस्मसुस्माओ। तुह्येदुग्गञ्झक्खाओ जंकधेध, तं ज्जेव सच्चंहोदु। (ग)
________________________________________________
(क) कौमारे मातुः स्नेहो मधुरो रसश्च; यौवने युवतिर्विलाससामग्री च, वार्द्धके च धर्म्मोविश्रामश्च।
(ख) अत्र कः संशयः। तासां हि अष्टगुणः काम इति सुधियःकथयन्ति।
(ग) सुधियो धीशून्याः, जलनिधयो जलशून्याः, धनिनो धनशून्याः,दर्श-तमिस्राश्च तमिस्रशून्याः। यूयं दुर्गाध्यक्षा यत् कथयथ, तदेवसत्यं भवतु।
_____________________________________________
साह। यदि नाम कामो योषाया एवाष्टगुणोऽभविष्यत्, तर्हितु पुरुष एव वेश्यावृत्तिमकरिष्यत्, प्रसभप्रवृत्ति तस्याएव बहुलंप्राचलिष्यत्। प्रत्युत—
उररीकुरुते न पूरुषं
प्रणयेनाप्यलमर्थिताङ्गना।
चलनेन तु तं निरस्यति
व्रततिर्वातधुतेव षट्पदम्॥७॥
परञ्चेयंविश्वविलक्षणा जातिः। तथा च—
सम्मते याति वैमत्यं सरसे विरसायते।
दक्षिणे च भवेद्वामा रामा चित्रचरित्रिका॥९॥
मवा। अणत्थं उवालहसि। एसा हि पुरिसत्यं ज्जेवघरदुआरे चिट्ठदि, पुरिसं पेक्खिअ ज्जेव कड़क्खेण आमन्तेदि,सादरंपुरिसं ग्रेण्हदि, सअलां ज्जेव अरणीं सन्तोसिअ विवज्जदि। (घ)
साह। सखे! त्वन्तु पण्याङ्गनाविषयं ब्रवीषि। तादृशी तरुणी तु पारतरणिरेव मन्तव्या। तथा च—
अर्थं समादाय दधाति वक्षसि
स्वयंजनान् स्वीकुरुते बहूनपि।
____________________________________________________
(घ) अनर्थसुपालभसे। एषा हि पुरुषार्थमेव गृहद्वारे तिष्ठति,पुरुषंप्रेक्ष्यैव कटाक्षेणामन्त्रयति, सादरंपुरुषंगृह्णाति, सकलामेवरजनींसन्तोष्य च विवर्ज्जयति।
_________________________________________________
परञ्च निष्काशयते परागमात्
साधारणी स्त्री तरणी च पारिणी॥९॥
मवा। किं कधेसि। घरतरणी पुरिसं ण आवज्जेदि। (ङ)
साह। विरलम् अतिविरलमेव निदर्शनम्।
मवा। ता कदरा दे रोअदि? (च)
साह। सखे! पण्याङ्गना मूल्यलभ्या निस्नेहा, कुलाङ्गना त्वमूल्या सस्नेहा। तेन च—
स्निग्धा मृदुस्पर्शसुखा मनोरमा
निस्नेहरूक्षा तु मनोरमैव न।
मनः समाकर्षति वल्लिबल्लरी
शाखा नवीनापि तु नो विजानतः॥१०॥
मवा। (सकौतुकम्) वअस्म! जाणासि किं जंकुलाङ्गणा कट्टसाञ्झा। (छ)
साह। भवतु।
प्रसाध्यमाना सुखदा यथा स्यात्
स्वयन्तु सिद्धा न तथा कदापि।
सञ्चर्व्यमाणा मधुरेक्षुयष्टि-
र्यथा रसाली गलिता तथा न॥११॥
________________________________________________
(ङ) किं कथयसि, गृहतरुणीपुरुषं नावर्ज्जयति?
(च) तत् कतरा ते रोचते?
(छ) वयस्य! जानासि किं, यत्, कुलाङ्गना कष्टसाध्या।
__________________________________________________
मवा। (सहासकौतुकम्) ता तुह वल्लहा कुलवहु वि ण दुल्लहा भविस्सदि, किन्तु अत्थप्पओअणं। (ज)
साह। (सौत्सुक्यम्) यावदर्थप्रयोजनम्, तावन्तमेवार्थमासादयिष्यति प्रियवयस्यः।
मवा। (स्वगतम्) एसा क्खु बाहुल्लेण ज्जेव णिव्वोहा धणिस्मेणी। तापस्मबहुज्जेव कुलवहु करिअआणाइस्मं।(प्रकाशम्) ता कदा पत्थेसि? (झ)
साह। सखे! मनः प्रियं खलु विलम्वं न सहते।
मवा। मए क्खुतिस्मितरुणीओआणाइअ रक्खिदाओ।ता दाणिं ज्जेव आअदुअ णिच्चंसङ्गीदंअ करतीओ तुमं वसीकरिस्सन्ति। (ञ)
साह। ता यदि कुलाङ्गनाः …..।
मवा। बुद्धं। अत्थपत्थणाए धिट्टाओ जादाओ। (ट)
साह। (सोत्कण्ठम्) तदानय।
मवारको निष्क्रम्य तरुणोत्रयेण सह पुनः प्रविशति।
____________________________________________
(ज) तत्तव वल्लभा कुलवधूरपि न दुर्ल्लभा भविष्यति; किन्तु अर्थप्रयोजनम्।
(झ) एषा खलु बाहुल्येनैव निर्ब्धोधाधनिश्रेणी। तत् पण्यबधूरेव कुलवधूः कृत्वा आनेष्यामि। तत् कदा प्रार्थयसे?
(ञ) मया खलु तिस्रस्तरुण्य आनीय रक्षिताः। तदिदानीमेव आगत्य नृत्यं सङ्गीतञ्च कुर्व्वत्यः त्वां वशीकरिष्यति।
(ट) बुद्धम्। अर्थ प्रार्थनया धृष्टा जाताः।
____________________________________________
तरुण्यो नृत्यन्त्यो गायन्ति।
कुञ्जेकुञ्जेमञ्जुमञ्जुरटति मधुपः सुमनोरसपः,
सातिशयगुणवान् गुणगुणरववान् मोहितपादपः सेवितविटपः,
मृदुलपवने वन उपवने
चरति शोभने तुलितभूमिपः
प्रमदलोलुपः,
विकासिनलिनोस्फुटकुमुदिनी
विकचकामिनीगृहीतसमीपः
परिगतनीपः॥
साह।(सानन्दोल्लासम्) साधु साधु। वयस्य!
सुरुचिरा रसिका च नवाङ्गना
नटति गायति भङ्गिमती यदा।
युवमनोऽपि तदा विवशीभवत्
सपदि हृष्यति नृत्यति माद्यति॥१२॥
मवा। वअस्म! ता एदाणं पारितोसिअं? (ठ)
साह। अवश्यमवश्यं प्रविश्य व देयम्।
मवा। (निष्क्रमणाय तरुणीषु नयनेङ्गितंकरोति)
तरुण्यः। (निष्क्रामन्ति)
प्रविश्य प्रतिहारिणी। (भूमौ जानुयुगलं विन्यस्य साञ्जलिबन्धम्) देव! मिवारराअप्पहिदोको वि सन्देसहरो उवत्थाअ
___________________________________________
(ठ) वयस्य! तदेतासां पारितोषिकम्?
(ड) देव! मिवारराजप्रहितः कोऽपि सन्देशहर उपस्थाय
________________________________________________-
विस्मवेदि—अस्थि गुरुओसंवादो। ता झत्ति दुग्गणाधो सअंज्जेब आअदुअ सुणादुत्ति। (ड)
साह। (सविरक्तिक्षोभम्) आः! कोऽयमन्तरायःप्रमोदान्तरे।
मवा। (साशङ्कम्) वअस्स! मिवारराअप्पहिदत्ति केणवि गुरुण हेदुणा होदव्वं। (ढ)
साह। श्रुतं किल पाषाणमूषिकः खल्वसौ विलासविकलानलसांश्चाध्यक्षान् विजित्य कियन्ति दुर्गाण्यध्यकार्षीदिति।तदिदमस्माभिः सुरक्षितीकृतम्, सन्ति च युद्धसन्नद्धाएव सपरिकरा योद्धारः। (किञ्चिद्विभाव्य) अथवा सन्धित्सयापिसन्देशहरः प्रेषितो भवेत्। (प्रतिहारिणीं प्रति) अये!क्वासौसन्देशहरः?
प्रति। मन्तणाघरे (ण)
साह। (उत्थाय) प्रदर्शय तस्य पन्थानम्।
प्रति। इदो इदो देवो। (त)
इति निष्क्रान्तौ साहवाज-मवारको प्रतिहारिणी च
_________________________________________________
विज्ञापयति—अस्ति गुरुकः संवादः। तद्झटिति दुर्गनाथः स्वयमेवागत्यशृणोतु इति।
(ढ) वयस्य! मिवारराजप्रहितइति केनापि गुरुकेण हेतुनाभवितव्यम्।
(ण) मन्त्रणागृहे।
(त) इत इतो देवः।
_________________________________________________
अथ प्रविशति मन्त्रणाभवने साहवाजस्य मन्त्रो
नुरमहम्मदः, सेनापतिः सोलेमानः, मिवारदूतश्च।
नुर। (दूतं प्रति) क्रियतामासनग्रहणम्।
दूतः। (उपविशति)
मन्त्री सेनापतिश्च। (उपविशतः)
नुर। अयि मयि वक्तुमर्हसि सन्देशम्।
दूतः।राज्ञःखल्वाज्ञामवज्ञायभवति विज्ञापनमन्याय्यमेव भवति।
अथ प्रविशति साहवाजः।
सर्व्वे। (आसनानि परिहायोत्तिष्ठन्ति)
साह। नन्वध्यासतामासनानि भवन्तः। (उपविशति)
सर्व्वे।(उपविशन्ति)
साह।(दूतं प्रति) कमत्रभवन्तमवगच्छामि?
दूतः। अवगच्छतु तावत् समरसिंहंनाम मिवारेश्वरस्यसन्देशहरम्।
साह। कः खलु सन्देशः?
दूत। (एकां कशाम्, एकां शृङ्खलाम्, एकं तरवारिञ्चपुरस्तान्निधाय) विजिगीषुस्तत्रभवान् मिवारेश्वरस्तत्र तत्रप्रयोज्यमिद वस्तुत्रितयंसम्प्रेष्य यथाक्रमंप्रणयेन जयनिर्णयेन वीरनयेन च भवन्तं विज्ञापयति। (कशांप्रदर्शयन्) एषा कशा, इमामुपादाय तुरङ्गमारूढ़ःसस्वजन एवएतदहोरात्रान्तर एव चान्तरायमन्तरेण निरन्तरं प्रतिष्ठस्व प्रथमं दुर्गात्, परञ्चभारतवर्षात्।
नुर। (तीव्रामुत्तेजनां प्रद्योतयति)
सोलेमानः। (कोषादसिं निष्काशयति)
साह। (सोल्लुण्ठनहासम्)सन्देशहरः खल्वयम्।(हस्तसङ्केतेनोभावेव वारयति)
तावुभौ। (तद्भावाद्विरमतः)
साह। ब्रूहि निर्भयमनन्तरां वार्त्ताम्।
दूतः। अस्मिन् कल्पे विकल्पश्चेत्, (शृङ्खलांप्रदर्श्यं) एषा शृङ्खला, इमां परिगृह्णन् अह्नायैवोपसर्पन् विधेहितावदात्मसमर्पणंपरिधेहि चैनाम्।
सर्व्वे। (उल्लुण्ठनं सूचयन्तो हसन्ति)
साह। अथैतावती वार्त्ता?
दूतः। अस्याः शेषांशभूता वर्त्तते वार्त्ता।
माह। विधेयवदेवाभिधीयतामभिधेयम्।
दूतः। अत्रापि तावदपत्रपसेचेत्, (तरवारिं निर्द्देश्य)एष तरवारिः, एनमासाद्य खल्वद्यैव युद्धसन्नद्धः सत्वरमवतरसमरचत्वरम्; वयमपि प्रायेण प्रत्यासन्नाः।
साह। अस्ति ते सावशेषं वचः?
दूतः। कियन्मात्रमाकर्ण्यताम्।
हिन्दुस्थाने यवनवसतिर्नोचिता भारतेऽस्मिन्
नीहारौघस्थितिरिव शरद्व्योम्नि नक्षत्रदीप्ते।
तस्मादस्मान्निजनिजधिया यात यूयं स्वदेशान्
अस्रस्रोतः स्रवतु न खलु च्छिन्नभिन्नाच्छरोरात्॥१३॥
साह। (सगर्वं तरवारिंपरिगृह्य) सत्वरमुपेत्य ब्रूहि तं पाषाणमूषिकम्—
सुप्ते जने निभृतमेत्य चरन् गृहान्तः
शस्यादनंवसनकर्त्तनमत्यकार्षीः।
जाग्रज्जनेऽत्र भवने त्वसि चेद्विविक्षुः
स्वंजीवनंसहजनंननु हारयेथाः॥१४॥
दूतः। बाढ़ं ब्रवीमि। (साटोपं निष्क्रान्तः)
साह। श्रुता तावद्गर्वोक्तिर्वरस्य। प्रायेण प्रत्यासन्ना वैरिण इत्यभिहितञ्च वार्त्तावाहिना। तेन च श्रोतुमिच्छामिसंक्षेपेण विपक्षवृत्तान्तम्।
सोलेमानः। क्रोशान्तरे सन्निवेशिताशिविरावली,चतुरङ्गिनी सेना, संख्याश्च द्वाविंशतिसहस्राणि प्रत्यासीदति चसाटोपम्, संगृहोतञ्च विविधमाग्नेयमायुधम्।
साह। अस्माकं कीदृशमायोजनमायोधनस्य?
सोलेमानः। सर्वेष्वव सेनाङ्गेष्वाधिक्यमस्माकम्। विहिताश्च दुर्गं परित एव परिखापारभूमयः पिहितविकीर्णविस्फोरकपूर्णाः, सम्मुखसेतुमुखे च वहिर्मुखानि स्थापितानिचत्वारि वृहन्नालोकानि, सर्वदा सज्जिता चास्मत्सेना।
साह।(सोत्साहम्) साधु। प्रथममस्माभिरेवाक्रमणीयम्, ईदृशञ्चायोधनं विधेयम्, यथा तच्चिरस्मरणीयंस्यात्। तत्त्वंत्वरस्वआरभस्व च संग्रामम्।
स्वशक्तिमभिदर्शयन् यवनगौरवंवर्द्धयन्
जयन् परवरूथिनीमखिलशात्रवान् संहरन्।
गृहाण च पुरस्कृतिंकुरु च कीर्त्तिमत्युत्तमां
स मान इव माननां व्रज च वादसाहादपि॥१५॥
सोलेमानः। (सगर्वम्) बाढ़मेव बर्द्धयिष्ये देवगौरवम्।(साटोपं निष्क्रान्तः)
साह। अमात्य! भवानपि जविनमेव वाजिनमारूढ़ः समन्तादेव सेनामुत्साहयन् आ विजयाद्विचर; अहमपि युद्धसन्नद्धः सशस्त्रश्च भवामि।
नुर। सर्व्वथा प्राप्तकालोऽयमादेशो दुर्गाध्यक्षस्य। (इति। निष्क्रान्तौ)
दुर्गद्वारे आल्ला आल्ला ल्ला हो! गुड़म् गुड़म् दुम्।
सम्मुखे कियद्दुरेकालि! कालि!दानवद्राविणि। गुड़म् गुड़म् दुम्।
ससम्भ्रमं प्रविश्य नुरमहम्मदः। आरब्धमायोधनम्।तत्र चादिष्टोऽस्मि दुर्गाध्यक्षेण योधानां समुत्साहनायाम्। तत्समीक्ष्यसम्प्रहारावस्थां यथास्थानं विचरिष्यामि। (इति दुर्गद्वारस्थमुच्चस्तम्भमारुह्य विलोक्य च) साधु, उपक्रम एव महाविक्रमप्रकाशो यवनयोधानाम्। तथाहि—
बृहन्नालीकनिक्षिप्ता प्रयाति गुलिकावली।
वह्निना निर्म्मिता मृत्योः पदवीव पुरोमुखी॥१६॥
अहो! वैचक्षण्यं विपक्षयोधानामपि।अमी हि गुलिकानां सम्मुखायनमपहाय पार्श्वयोरपसरन्तः सरलमभिधावन्ति।
नालीकगुलिका चेयंघूर्णिवात्या च सा समे।
सम्मुखस्था विनश्यन्ति मुच्यन्ते पार्श्वगाः सुखम्॥१७॥
(समन्तादवलोक्य साशङ्कम्) इमे च भिन्ना भटाः परिखायाः परपारमुपेत्यबद्धश्रेणयः खल्वश्रान्तशरक्षेपेण प्रतिपक्षस्यमहासाहायकं सम्पादयन्ति, वारयन्ति चास्मन्नालीकगुलिकाश्चर्म्मावरणेन। (विलोक्य सत्रासम्) हा धिक् हा धिक्,अमीभिरेव तीव्रशरताड़नेन त्वरयैव व्यापादिता बृहन्नालीकरक्षितारो यवनयोद्धारः।
नेपथ्ये कालि! कालि! कालि! दानवद्राविण!
तत् कथमुल्लासेन मारध्वनिर्हिन्दूनाम्। हन्त हन्त! अस्माकं बृहन्नालीकगुलिकाविश्रामेणाश्रान्तमेवायान्ति क्षत्रिययोद्धारः,पलायन्ते च यवनयोधाः। (तारस्वरमाश्रित्य) भो भोःसाहसैकसारा यवनवीराः! भवन्तः किल—
पलायमाना अपि ताड्यमाना-
स्त्यजन्त्यसून् किं सहितान् यशोभिः।
अग्रेमरीभूय विनाश्य शत्रून्
क्रीणन्तु कीर्त्तिं चलनासुदानात्॥१८॥
(विलोक्य सविषादम्) हा कथं न शृण्वन्त्यपि। तन्न स्थानेखल्वत्रावस्थानमिदानीम्। (इति त्वरितमवतीर्य्यनिष्क्रान्तः)
ततः प्रविशत्याक्रामन् रणजित्सेन आक्रम्यमाणश्च सोलेमानः।
रणजित्। अये यवनापसद। चिराचरितदुश्चरितफलंप्राप्स्यसि खल्वस्मद्विक्रमादेव क्रमेण।
स्वर्णंप्रसूममलभारतपुण्यभूमिं
दैवात् पिशाचनिचया इव ये प्रविष्टाः।
सन्ताड़यन्त इह तानिव भूतवैद्याः
दूरात् सुदूरमपि सम्प्रति ताड़यामः॥१९॥
सोलेमानः। रे रे हिन्दुकुलकलङ्क! आकर्णयतावद्भूतार्थम्।
दुर्म्मर्षणो ब्रण इवातिजवादुदित्य
यो रूढ़वान् हृदयमर्म्मणिभारतस्य।
सोऽयंविजित्य यवनः खलु हिन्दुवैद्यान्
हत्वा क्रमादधिकरिष्यति सर्व्वमेव॥२०॥
रणजित्। (सोन्मादमिव) आः पाप! प्रत्यक्षमीक्षसे क्षमतावैषम्यं विकत्थसे च। तदायाहि।
सोलेमानः। (सक्रोधकम्पम्) पश्य विक्रमं वीरधौरेयस्य।इत्युद्धतक्रमौ निष्क्रान्तौ।
नेपथ्ये कालि! कालि! कालि! दानवद्राविण!
जयो मिवारजयः, जयः प्रतापसिंहजयः।
त्वरया प्रविश्य नुरमहम्मदः। (ससम्भ्रमोद्वेगविषादम्)हा धिक् हा धिक्, अश्रान्तमेवाक्रामन्ति हिन्दुयोद्धारः पलायन्तेच मुक्तकच्छा यवनयोधाः। सज्जातः सङ्घभङ्गः, लुप्ता जयाशा,संवृत्तः पराजयः, नष्टञ्च यवनगौरवम्। तदयमेवावसरःशेषचेष्टायाः। (तारस्वरमाश्रित्य) भो भोः समरदुर्द्धषायवनवीराः!त्वरितम् अतित्वरितंक्रियतामग्निसंयोगो विस्फोरकेषु, निक्षिप्यतां निक्षिप्यताञ्चेन्धनंज्वलज्ज्वलनेषु।
तत्क्षणात् सर्वतो दुर्गमग्निर्ज्वलति।
नेपथ्ये आल्ला आल्ला ल्ला हो!
उभययोधानां महतीहुलहुल्लिका च वर्त्तते।
नुर। (विलोक्य सोल्लासम्) साधु कृतम्, अनुष्ठितःखल्वादेशो दुर्गाध्यक्षस्य।
नेपथ्ये। भो भोः साधुसङ्कल्पा देशप्रिया भिल्लवीराः! सिच्यतां सिच्यतां परितः परिखाजलंज्वलनेषु।
भिल्लाः। (प्रविश्य तथा कुर्वन्ति)
नुर। (ससम्भ्रमम्) अहो अहो दुर्गचरकिङ्करनिङ्कर! आयान्ति दुर्द्दान्ताः। तेन च—
विचिनु विचिनु रत्नस्वर्णमुक्ताप्रबालान्
विचिनु च बहुमूल्यं भूषणञ्चांशुकञ्च।
अपसर च यथेच्छंसर्वमादाय तूण
भवतु ननु परेषां भस्ममात्रं हि लभ्यम्॥२१॥
उद्धतक्रमं प्रविश्य शक्तसिंहः। दुरात्मन्! निःशेषस्वध्वंसंपश्यन् दुर्गध्वंसमाकाङ्क्षसि। तत्तिष्ठ।
त्वयैव प्रणीतेऽनले हिन्दुवत्त्वां
धरागर्त्तधेयं विमन्त्रंदहामि।
नुर। प्रदाहाय वो ज्वालितेऽस्मिन् कृशानौ
पुरस्त्वां निकृन्तन् भटेर्दाहयामि॥२२॥
शक्त। (आक्रामन्) आः पाप दुरात्मन्!
नुर। (प्रत्याक्रामन्) आःपाप दुरात्मन्!
परस्परमाक्रामन्तौ निष्क्रान्तौ।
ततः प्रविशतः साटोपगर्वोद्धतक्रमौ
साहवाजप्रतापसिंहौ।
माह। आःपाप! सेलिमनिर्धूतवीर्य्यनिर्मर्य्याद!नाटकाभिनेतार इव वाङ्मात्रसाराः शरद्धनवद्गर्ज्जनप्रधानाश्च पामरा हिन्दवोऽपि योद्धंजानन्ति!
प्रताप। आश्चर्य्यम्, समक्षमोक्षमे स्वपक्षसंहारं हिन्दुकृतमेव, पश्यसि च सर्वथानिर्व्यढ़मात्मनःपराजयम्; तथापिबीभत्ससे तानेव गर्जसि चाजस्रम्, विकत्थसे चात्यन्तम्।तेन च (तरवारिमुद्यम्य)
अच्छिन्ने तव मस्तके नहि भवेत् स्पर्द्धाविरामो ध्रुवं
साह। (करबालमुत्तोल्य)
कश्छिन्द्यान्ननु कस्य मस्तकमरे पश्याम्यहं पश्य च।
शूलमुद्धूयैव केनापि द्वारेण झटिति प्रविश्य शक्तसिंहः।
प्राग्भिन्द्यामहमुज्ज्वलं दृढ़मुरः शूलेन शेलस्य ते
भल्लमास्फाल्यैव द्वारान्तरेण क्षिप्रं प्रविश्य शम्भुसिंहः।
द्राग्भल्लेन कटूक्तिमल्लमधुना सन्दारयाम्यग्रतः॥२४॥
द्रुतं प्रविश्य शृङ्खलाहस्तो रणजित्सेनः।
न हन्तव्यो न हन्तव्यो वन्दीकर्त्तव्य एष तु।
हतः क्लेशं न बुध्येत वन्दीभूतंस्तु बुध्यताम्॥२५॥
(इत्युत्प्लुत्य साहवाजस्य हस्तौदृढ़ं धारयति)
प्रतापसिंहः। (साहवाजस्य शिरस्त्राणं हरति)
शक्तसिंहः।(तस्य दक्षिणहस्तात्तरवारिमाच्छिनत्ति)।
शम्भुसिंहः।(तस्य वामहस्ताच्चर्म्मनयति)।
रणजित्सेनः।(तस्य हस्तयोः शृङ्खलां परिधाप्य) अरे।स्मरेदानीमस्माकंशृङ्गलाप्रेषणम्। (इत्याकृष्य नयन् निष्क्रान्तः)
ततः प्रविशति जपव्यापृतहस्तः सुप्रभदेवोपाध्यायः।
सर्वे। (विलोक्य प्रणमन्ति)
सुप्रभ। (हस्तमुद्यम्य) चिरञ्जीवनम् नित्यं विजयम्,शाश्वतं कल्याणञ्च लभन्तां श्रीमन्तः।
प्रताप। अथार्य्यसमराङ्गने?
सुप्रभ। मिवारेश्वर! अपरेषां दुःखांशमिव मुखांशमपि ग्रहीतुमिच्छन्ति ब्राह्मणाः। तेन च श्रुतवृत्तान्तो ब्रह्मानन्दमधिगन्तुमुपागतः। तत् पृच्छामि—अपि सर्व्वथा सम्पन्नस्ते विजयः?
प्रताप। भवतामाशिषा निःशेष एवायं नः सम्पन्नो विजयः।
सुप्रभ। (सानन्दोच्छासम्) हन्त! धन्यो देशः, कृतार्थाचार्य्यजातिः। तथा च—
आशालता नः सफलाद्य जाता
सत्या किलाशीरभवद्गुरूणाम्।
सन्तानपोषी परदास्यपाशा-
न्मातेव मुक्तैव च जन्मभूमिः॥२६॥
तत् किमन्यदाशास्तेप्रियमायुष्मान्।
प्रताप। अतः परमपि प्रियमस्ति। तथापीदमस्तु—
भरतवाक्यम्—
काले वर्षतु वारिदो भवतु भूः सम्पन्नशस्या चिरात्
ईतिर्नश्यतु रीतिरस्तु रुचिरा भीतिः समा शाम्यतु।
हिन्दूनां चिरभिन्नभिन्नमनसां नित्यैकता वर्त्ततां
शिष्टानुग्रहदुष्टनिग्रहविधिंदेश्येव चालम्वताम्॥२७॥
( इति निष्क्रान्ताःसर्वे)
यवनिकापतनम्।
<MISSING_FIG href="../books_images/U-IMG-172345071555.jpg"/>
द्वात्रिंशद्दुर्गविजयो नाम षष्ठोऽङ्कः॥०॥
<MISSING_FIG href="../books_images/U-IMG-172345076154.jpg"/>
समाप्तञ्चेदं मिवारप्रतापं नाम नाटकम्॥०॥
वियोगवैभवम्।
<MISSING_FIG href="../books_images/U-IMG-172345109257.jpg"/>
प्रथमः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-172345114854.jpg"/>
मखभुवि शितिकण्ठः कण्ठमानीय कान्तां
भ्रमणमनणु चक्रे चक्रवद्यम्महिम्ना।
परमपुरुषरूपोऽप्यर्द्धनारीशरीरो
रहयतु विरोऽसौ दुःसहो वश्चिराय॥१॥
स खलु दिविषदीशः केवलंस्वर्गलोकं
प्रबलबहुलशक्तिर्मर्त्त्यमेकञ्च सम्राट।
स च विषधरराजः शास्ति पातालमात्रं
त्रिभुवनमविरामंयस्तु शास्त्येक एव॥२॥
दृढ़शरमपि यद्वन्मन्मथंपुष्पबाणं
विदलयदपि जीवान् जीवनंवा यथाम्वु।
विमथितपथिकञ्चाप्योषधीशंयथेन्दुम्
अपि विरहिणि दोषं यं गुणं वक्ति विद्वान्॥३॥
निवसति किल यःस्वाभावयुक्तोऽपि सत्त्वे
स्वयमपि गुणरिक्तो यो गुणाख्यां बिभर्त्ति।
स्वमधिकरणरूपंतापयन् प्राणिवर्गं
हुतवहगतधर्म्मंसर्व्वदा यश्च धत्ते॥४॥
कलयति हि वसन्ते काकलीकोकिलानां
मुदितमदनदेवंचन्द्रमाश्चन्दनश्च।
विजनजननिवासो यामिनीजागरा च
तटमपि च तटिन्या यन्त्वविश्रान्तमेव॥५॥
सहचरमनुबध्नन् यञ्चचञ्चत्प्रभावं
युवकजनसमाजान् मन्मथो मन्थतीमान्।
स इह तु मम वर्ण्यो वर्णनीयाग्रगण्यो
न खलु महिमहीनंस्तौति कश्चिद्विपश्चित्॥६॥ (कुलकम् )
सुधियमपरपक्षं कल्पयंश्चित्तमेव
निजकरकृतभङ्गिस्तर्कयंस्तर्कशास्त्रम्।
चिरविरहविशीर्णः कोऽपि नव्यो यवीयान्
शरदि दिवसशेषे जह्नुकन्या प्रतीरे॥७॥
अदलितदलदूर्व्वापत्रमात्रप्रताने
तरलतरतरङ्गादुत्तरद्विन्दुवृन्दे।
विमलकमलमाला प्रोत्पतद्भृङ्गसङ्घे
प्लुतपतितपतङ्गश्रेणिसंश्रीयमणे॥८॥
उपगतदिननाथालिङ्गनश्रान्तिमत्याः
शमनदिगवलाया मन्दनिश्वासतुल्यैः ।
धृतमलयजगन्धैः सेविते गन्धवाहैः
अनतिचलितचक्षुः सन्नवात्सीदनन्यः॥९॥ (विशेषकम् )
अथ कृततिलकां वा सान्द्रसिन्दूरतेलैः
दिनपतिरुपयातो यत्र सन्ध्यां क्रमेण।
नयनमिव धुवन्तो भ्रान्तभृङ्गच्छलेन
सह खलु दिनकान्त्या पद्मिनो मुद्रिताभूत्॥१०॥
उपगतनिजभक्तान् साथ सन्ध्या विलोक्य
दिनमणिपरिरम्भाल्लज्जयेव व्यरंसीत्।
श्रमशिथिलकरोऽसौ संश्रयन्नम्बरान्तं
चरमगिरिगुहायामुष्णरश्मिश्च शिश्ये॥११॥
चरमशिखरिशीर्षात् पूष्णि तस्मिन् विलीने
निविड़तिमिरराशिर्द्राग्विजिग्ये जगन्ति।
भृशनियतिनियोगादीश्वरेऽस्मिन् विपन्ने
भवति हि किल लोके जीयमानोऽपि जिष्णुः॥१२॥
अहिमरुचि गतेऽस्तं पूर्व्वदिक्पर्व्वतान्तात्
उपपतिरिव सन्ध्यां तामधावत् सुधांशुः।
व्रजति परकलत्रंकामुको यः स्वदोषात्
भवति हि सकलङ्की लोकमध्ये मृदुश्च॥१३॥
समुचितनवसन्ध्यारक्तवासो वसाना
मलिनमुखसरोजा लब्धताराक्षमाला।
विगलितशिशिराश्रुःसा दिनश्रीरभावात्
सवितुरिव विषस्मामर्त्त्यधाम व्यमुञ्चत्॥१४॥
स्त्रियमिव सह कुर्व्वन् तर्कचिन्ताममुष्य
शिशिररुचिरयासीन्मन्दमन्दं द्युदूरम्।
मनसि च सहसान्या प्राविशत् कापि चिन्ता
स्फुटिसकुमुदपुञ्जे चन्दिनीचन्द्रिकेव॥१५॥
अथ हृदयजभावंवर्द्धयन् पार्श्वदेशे
उदचरदतिचारुः कामिनीकण्ठनादः।
विरसतृणसमूहानीषदीषद्दहन्तं
दहनमिवनभस्वान् दुःसहःशीतलोऽपि॥१६॥
प्रिय! परिहर पन्नप्रायवस्त्राञ्चलं मे
न च वद चट्लोक्तिंशिक्षितोऽयं शुकस्ते।
तव पितृजनयित्रीं वक्ति सर्वं प्रभाते
मृदु मृदु विहसन्ती सा ततो वीक्षते माम्॥१७॥
कथयसि च ममौष्ठं त्वंदृढ़ं मास्म चुम्वीः
यदि दशनजचिह्नंवीक्षतेऽन्योऽपि कश्चित्।
तव तु दशनदष्टादोष्ठविम्वात् समर्था
रहयितुमवगुण्ठं नास्मि सख्यन्तिकेऽपि॥१८॥
पुनरपि तव पाणौ नार्ययाम्यंशुकं मे
परिचयपरिहानात्तेऽद्य वासो वसानाम्।
गृहकृतिविधुरां मामालयःसन्निरीक्ष्य
कृतकलकलनादा ज्यायसीं वक्तुमीषः॥१९॥
त्वमपि तु मम चेलंन्यस्य सेस्मीयमानः
प्रकटयसि सखिभ्यो विह्वलत्वं ममैव।
रसिक! रहसि या या चाटुकोक्तिर्मयोक्ता
कृतबहुतरभङ्गिस्तां तु सर्व्वां ब्रवीषि॥२०॥
तव तदनुभवन्तीं मां बलेनाधिरुह्य
दलयति हृदय हा हन्त लज्जापि वर्य्या।
युवतिजनशरीरं प्रायशोऽधः करोतु
प्रतिमुखविधिनेदंकिन्नु लिप्तं ललाटे?॥२१॥
इति विनयमनोज्ञां यावदुक्तिं शृणोति
नवबिरहजभावोद्भेदभिन्नो वियोगी।
मधुरमधरविम्वोच्चुम्बयाल्पप्रकाशः
युवजननिनदोऽभूद्गद्गदस्तावदेव॥२२॥
जलधरपरिमुक्तः शोभते शीतरश्मिः
निविड़तिमिरतीर्णं पङ्कजञ्च प्रभाते।
पतति पततु चेलंतन्वि! तेऽस्मान्नितम्बात्
तरुणि! परमशोभां बाधते कस्त्वदन्यः?॥२३॥
यदि निजगुणकीर्त्तिं कीर्त्तयत्यन्यलोकः
भवति विकृतवुद्धिस्तत्र को वा निषेद्धा?।
निजकुसुमजगन्धान् सन्ततं गन्धवाहाः
दिशि विदिशि वहन्ते पादपः शान्त एव॥२४॥
त्वदधरमधुभाण्डंचुम्बितुं नार्पितापि
दशति दशनमाला मे स्वयं किं करोमि?।
स्वयमिह खलु कर्णंवंशवंशोनिनादः
हरति च हरिणाङ्कः पङ्कजञ्चाक्षि लोके॥२५॥
पुनरपि मम पाणौ दित्ससे चेन्नवस्त्रम्?
अयमहमुपविष्टो मस्तके न्यस्तमस्तु।
निधुवनप्रतिकूलं किन्तु लज्जादुकूलं
अहमिह चुचुकान्तात् पाणिना संहरामि॥२६॥
तव वसनममुष्मिन्नालपंसन्दधानः
सखिजनमहमस्मात्तन्वि! चेल्लज्जितासि।
इदमयि! मम वस्त्रं धारयन्त्यद्य तादृक्
त्वमपि तरुणि! कृत्वा लज्जितं मां कुरुष्व॥२७॥
युवतिजनशरीरं प्रायशोऽधः करोतु
यदिदमभिहितंतद्वैपरीत्यंकरोमि।
नवरसपरिपूर्णान्न्यु व्जभावीकृताच्चेत्
कुचकलशयुगात्तेते रसा निष्पतन्ति॥२८॥
वचनमिदमुदञ्चद्यावता कर्णरन्ध्र
अविशदधरविम्बावाधनास्पष्टरूपम्।
सपुलकतनु तूर्णं लोचनंचालयन् स
नवकुतुकनिविष्टस्तावतेत्यं ददर्श॥२९॥
सुरसरिदुपतीरन्यस्तसोपानपङक्तेः
धवलविमलकान्तेःकस्यचिन्मन्दिरस्य।
त्रितलगतकथञ्चिल्लम्बमाने गृहांशे
मुखनिहितगवाक्षश्रेणिसम्भृतदण्डे॥३०॥
उपवनकुसुमालीलिङ्गिरिङ्गत्समीरे
विविधकुसुमकीर्णेसज्जताम्बूलभाण्डे।
विमलमृदुलशय्याशालिखट्वे सुधांश-
रुचिनिचयनिविष्टे नायिकानायकौ स्तः॥३१॥ (युग्मकम् )
मृदु मृदु विहसन्त्या लोचने घूर्णयन्त्याः
पतितमिव दधत्या वामहस्तेन वस्त्रम्।
विवृतरसनयासौ चर्व्वितान् स्वप्रियायाः
व्यतरदधरविम्बे चारुताम्बूलखण्डान्॥३२॥
विलुलितरसनान्ते चारुताम्बूलखण्डान्
चलननयनयुग्मे चञ्चले लोचने च।
पुलकितकुचकुम्भे साधु दत्त्वैवपाणिं
स्फुरितमधरविम्बं नायकोऽसौ निनिंसे॥३३॥
स्तनयुगमतिगाढ़ालिङ्गनादङ्गनायाः
अरुददिव विकीर्णस्वेदविन्दुच्छलेन।
जघनयुगलतीरात्यन्तदोदुल्यमान-
विरसितरसनाया मञ्जुना शिञ्जितेन॥३४॥
करतलमुपलिप्तं लाक्षया यत्र यत्र
समुपहितवती सा कामिनी कान्तकाये।
कुपितमदनमुक्तोद्दीप्तनाराचघात-
क्षतमरुणितचिह्नं तत्र तत्रेव जातम्॥३५॥
अतिदृढ़परिरम्भोत्पीड़नादाचकाङ्क्ष
स्तनयुगमिव गन्तुं दूरमन्यत्र मन्ये।
नहि खलु महतेऽस्मिन्नुन्नतः कोऽपि लोके
परकृतपरिपीड़ामात्मदेशावलम्बी॥३६॥
कटितटयुगलान्तात्तूर्णमन्योन्यहस्तै-
र्वसनयुगमधस्तात् सस्मितं कृष्यमाणम्।
अपतदुपरि यावल्लज्जया सार्द्धमुर्व्याः
वदनमकृत तावत् सन्नतं स प्रवासी॥३७॥
किमु विरहमहत्त्वात् किन्नु संसर्गदृष्टेः
किमुत विधिनियोगात् किन्नु वा भाग्यदोषात्।
अभिनवमिव तत्तत् पश्यतस्तस्य तस्मिन्
सपदि हृदयमध्ये कोऽपि भावो बभूव॥३८॥
सुविमलकरजालैरिन्दुना हन्यमानं
गिरिविवरमिवास्य स्वान्तगर्भं प्रविश्य।
किमु नभसि सुधांशुवर्त्तते वा नवारिः
इदमिव परिवोद्धुंध्वान्तमास्ये जगाम॥३९॥
विपुलपुलकजालकच्छद्मना पुष्पधन्वा-
तनुमभिनदशेषां यत्र तस्मिन् वियोगी।
विषमविरहमेवानङ्गपक्षंव्यनिन्दीत्
इयदिह हि बलं स्वंदुर्द्दमेऽरौ मृदूनाम्॥४०॥
विरह! यदि सखा त्वं पुष्पकेतोरभिन्नः
किमु खलु विदधासि व्यत्ययं तद्गुणानाम्।
प्रहरति स हि यूनामङ्गमन्योन्ययोगे
प्रकटितनिजरूपे त्वन्तु घोरं वियोगे॥४१॥
उदयति मदने च प्रायशो दम्पतीनां
रतिरविरतमास्ते तत्त साक्षात् प्रदृष्टम्।
त्वयि तु समुपयाते सा न यूनां कदापि
स्मृतिपथमपि याति स्वावलातत्पराणाम्॥४२॥
अपि च मदनयोगे सन्निधाने स्वकान्ता
वपुषि च परिभाति स्फीतता रोमहर्षात्।
त्वयि तु समुपविष्टे सा प्रिया चित्तमध्यं
वपुरपि च तमुत्वं याति हन्त क्रमेण॥४२॥
अनुपमममरत्वंकामिनीवल्लभत्वं
प्रखरविशिखवत्त्वञ्चेति कामे प्रसिद्धम्।
त्वयि न तदमरत्वंत्वंहि योगे म्रियेथाः
न च तव ललनास्ते नापि शस्त्रं कदापि॥४४
अथ रिपुमपि वक्तुंत्वां न शक्तः स्मरस्य
चरति यदुभयोर्वामेक एव स्वभावः।
तव च मकरकेतोः सत्सहायो वसन्तः
त्वमपि च स च लोकेऽनङ्गनाम्ना प्रसिद्धः॥४५॥
अयि विरह! भवन्तं हन्त पृच्छामि किञ्चित्
प्रभवसि किमनङ्गो नूनमाजन्मनस्त्वम्?।
हरनयनविकीर्णेनाग्निना दाहकाले
सहचरकुसुमेषोर्येन दग्धोऽसि न त्वम्॥४६॥
सुचिरमभिदधेऽष्टंचिन्तितं यत्तदद्य
स्मर! विरह! भवन्तौ नन्वनङ्गौ भवन्तौ।
निजदलितजनानामुद्यतेभ्यः करेभ्यः
दृढ़तरकुपितानामात्मरक्षामवाप्तौ॥४७॥
प्रहरति वहिरन्यो वीर्य्यवानायुधेन
स्रवति च किल रक्तं त्वन्त मर्म्मप्रहंसि।
प्रतिदिनमसृगन्तः शुष्यते च त्वया तत्
वद कुत इह चित्रः शिक्षितोऽयं प्रहारः॥४८॥
प्रतिविपिनमुपेन्द्रं क्रन्दयामासिथ त्वं
अथ निनयिथ कण्ठं दक्षजाञ्चेश्वरस्य।
तदतिपुरुषकारंते वयंनिर्णयामः
रहसि हरसि जीवान् कातरत्वञ्च तेन॥४९॥
श्रियमनिशमनैषीत् केशवः सर्वदेहं
तनुमकृत शिवार्द्धां सर्वयोगीश्वरोऽपि।
अयि विरह! महात्मन्! तेन सत्यं वदामः
इह जगति भवन्तो भीतिमान् सर्व एव॥५०॥
विरह! न कुरु रोषं सङ्गतत्वाद्ब्रवीमि
न खलु तव समानो वर्त्ततेऽन्यो नृशंसः।
प्रहरणसमये त्वं युक्तसर्वेन्द्रियोऽसि
भवसि तु परदुःखाकर्णने कर्णहीनः॥५१॥
विरह! न तव कान्ता श्रूयतेऽस्तीति काचित्
अनुभवसि न दुःखं तेन विच्छेदजन्यम्।
अथ तवदयितास्ते चेत्तथापि स्व एव
नहि खलु निजदुःखंकोऽपि लोके ददाति॥५२॥
अतिपटुरथवा त्वंनाङ्गनां पर्य्यणैषीः
क्वचिदपि ननु भव्यं संशयानो वियोगम्।
अनुभवति हि दुःखं यत् स्वयं तत्परेभ्यो
न खलु भवति दातुं सस्पृहो दुर्ज्जनोऽपि॥५३॥
इदमविशदवर्णंदीर्घनिःश्वासदीर्णं
वचनमसुखमाख्यन् स्वंप्रदेशं प्रवेक्ष्यन्।
विरहविहितदुःखक्षुणचित्तः क्षणान्ते
निजवसतिमयासीत् स्वप्रियाप्रेषितात्मा॥५४॥
अथ निजदयितायै प्रैरिरत्तस्य चेतः
प्रकुपितविरहोऽसौ नास्ति सन्देहलेशः।
सुविकसितमपीन्दुं सर्वदेहंदहन्तं
पथि यदयममंस्त ग्रीष्ममध्याह्नसूर्य्यम्॥५५॥
सपदि विरहराजः पीड़िताङ्गस्य तस्य
समपिवदिव सर्वं शोणितंसर्वदेहात्।
सकलसबलमगच्छद्यौवनीयं बिनाशं
अणुरपिकिल पन्थाश्चाभवद्विप्रकृष्टः॥५६॥
निजवसतिमुपेत्य प्राप्तकार्य्यस्यतस्य
न्यविशत दयितान्तः शैवले कौमुदीव।
इह जगति वियोगे प्रेयसीवृत्तिमेव
मनसि युवजनानां जीवनोपायमाहुः॥५७॥
सुमनसमिव वल्लीचन्द्रिकां यामिनीव
समितिरिव सुनीतिं पद्मिनीं दीर्घिकेव।
विदुष इव च विद्या शश्वदुत्पन्नबुद्धिम्
अधिगृहमुपलेभे तेन शय्या विना स्त्रीम्॥५८॥
अतुलसुखकरी या प्रेयसीसंश्रिताभूत्
वितरति परिपीड़ां सैव शय्या ममाद्य ।
सुविषमसमये हि प्राणिनां सर्वमेव
प्रियतममपि घोरं जायते शत्रुरूपम्॥५९॥
अयि रजनि! यदि त्वंज्योत्स्नयात्यन्तशुक्ला
भवसि मयि तथापि-क्रोधिनीकालरूपा।
बहिरिह विमलः स्याद्दुर्ज्जनः सर्व एव
ननु कथमथवा स्यात् सर्वविश्वासपात्रम्॥६०॥
मुक्त्वामादृग्विरहिविषयं ते प्रियामेति नाम
सन्तः स्त्रीमद्युवकविषये नूनमन्वर्थ माहुः।
किंवा याहीत्यसकृदुदिता याम यामेह याम
त्रीनित्थंयत् कथयसि ततस्त्वां त्रियामां वदन्ति॥६१॥
क्वापि ज्योत्स्नां क्वचिदपि निशामित्यमुत्थाय निन्दन्
क्वापि क्रन्दन् विषमशयने पार्श्वयोः संक्रमेण।
संवृत्तोऽयं व्यथितहृदयस्तत्क्रियाकौतुकेन
हासं वामा द्रुतमिव ददौ शर्वरी वर्वरेव॥६२॥
इति श्रीहरिदासकृतौ वियोगवैभवे खण्डकाव्ये
यामिनीवैभवो नाम प्रथमः सर्गः॥०॥
<MISSING_FIG href="../books_images/U-IMG-172345766555.jpg"/>
द्वितीयः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-172345788854.jpg"/>
अथ विकलकरान्तो धारयन् न्युव्जभावं
अरुणवदन इन्दुः शैलमस्तं जगाम।
इह जगति विमूढ़ो वारुणीं सेवते यः
पतति हि स यदुच्चात्तत्तुप्रत्यक्षसिद्धम्॥१॥
शिशिररुचि गतेऽस्तं चन्द्रिकोत्सृज्य वाष्पं
पिकविकलनिनादा स्रस्तदेहान्वगच्छत्।
यदि न भवति तस्मिन् म्लेच्छराज्यंतदानीम्
अनुसरति पतिं या स्यात् सती सायथार्थम्॥२॥
कुसुमचयसमानंतारकाराशिमारात्
शिशिरसलिलविन्दून् मन्त्रपूताम्व तुल्यान्।
अतिमृदुलकराग्रैरेष निक्षिप्य सद्यः
उदगमदिव सूर्य्यः पूजयन् पूर्वसन्ध्याम्॥३॥
तरणिकिरणराजीशूर्पसंशोध्यमानं
प्रखरतरविभासम्मार्जनीमृज्यमानम्।
तिमिरपटलमूषाकन्ययोत्सृज्यमानं
प्रमिलितमिव तस्मिन्नस्तदर्य्यां पपात॥४॥
त्रिभुवनजनचक्षुर्ध्वान्तराशिंनिरस्य
प्रखरकिरणमाली सन् विवस्वान् रराज।
उदयति समये यस्तीक्ष्णतेजाः स्वदेशात्
नहि भवति विलम्बस्तस्य कश्चित् प्रकाशे॥५॥
अधिरजनि वियोगाच्चिन्तयन् प्राणकान्तां
अनधिगतसुषुप्तिः शेषरात्रप्रसुप्तः।
स्फुटमविगतनिद्रःप्रस्फुटेऽपि प्रभाते
निकट इव सुषुप्तां वल्लभामाललाप॥६॥
इति वदसि ममान्ते वल्लभे! त्वं सदैव
मदुरसि दयित! त्वां नेतुमिच्छुर्यदाहम्।
स्तनयुगमतितुङ्गं स्तम्भवत्तत्र रुन्धे
क्वचिदपि निजवस्तु प्राज्यदुःखं ददाति॥७॥
इति खलु तव जाता सुस्पृहा निष्फलासीत्
अनुभव विपरीतां तामहंपूरयामि।
मदुरसि दयिते! त्वां पृष्ठसुप्तां विधाय
यदि तु गुरु नितम्बं नैव रुन्ध्यात्तदेमाम्॥८॥
सपुलक इति जल्पन् वर्द्धयन् पाणियुग्मं
स्वसविध उपविष्टंकञ्चनान्यं सतीर्थम्।
किमपि किल पठन्तंस्वीयकान्तेति मत्त्वा
मुदितनयन एवाकृष्टवान् गाढ़मेषः॥९॥
अमृदुलतनुदेशंसान्द्ररोमाञ्चशून्यं
प्रकटितकरयुग्मालिङ्गनोद्योगहीनम्।
मृदु मृदु हसदास्यंपूरुषंवीक्ष्यतेन
नयनमपि विकास्य द्राक् पुनर्मुद्रितञ्च॥१०॥
उपगतमरुभूमिं पश्यतो यः पिपासोः
शशिमणिमभिखिप्सोर्यश्चजातो धृताग्नेः।
धनिसदनयियासोर्यातदीनाश्रयस्य
य इह भवति तस्मिन् तं विषादं स लेभे॥११॥
अतिसुखविषयेऽभूद्दारुगोऽलंविषादो
युवतिविसदृशोऽन्यो वल्लभालिङ्गने च।
रजनिरियममुष्यां भावनायां दिनञ्च
सुनियतविषये वा कृत्यता हीनबुद्धिः॥१२॥
असुखमदनपीड़ाम्लानवक्त्रेण तस्मिन्
अविषयकृतयत्नप्राप्तशोकेन तेन।
मुहुरपि मृदुदृष्टिर्मुद्रितोन्मोलिता द्राक्
असमय इव विद्युन्नव्यधाराधरेण॥१३॥
अथ तदभिमुखः सन् सादरंवीक्ष्यभावं
स विरहिणमवोचद्धासकम्प्राग्रकायः।
असदृशमिह कार्य्यं चेष्टमानस्य लोके
भवति हि ननु लाभः सत्परीहास एव॥१४॥
अयि विधुर! वियोगिन्! गाढ़मालिङ्ग्य कान्तां
किमिति परमहासीर्नो विहारं विधाय।
त्वमिह विरम कामी किन्तु कान्ताजनोऽयं
नहि खलु विरमेत्तेग्राम्यधर्म्मादिदानीम्॥१५॥
मदुरसि दयिते! त्वां पृष्ठतो वेशयामि
यदिति कथितमस्मान्नाहमालिङ्गनेच्छुः।
किमिति न कुरुषे त्वं? धूर्त्तं! मिथ्याविभाषिन्!
न वचनमथवा स्यात् कामिनां सत्यरूपम्॥१६॥
इति निगदति सख्यौ प्रस्फुटाक्षस्य तस्य
विरहदहनधूमच्छन्नवत् कृष्णकृष्णः।
विरलविमलभासो निर्गतः स्वल्पहासः
सहविपुलविषादश्वासवातेन वक्त्रे॥१७॥
अपि हससि मुखे त्वंदुःसहं किन्तु चित्ते
विषमविरहदुःखं ज्ञायते श्वासहासात्।
निजनिकटनिविष्टा वल्लभैषा तथापि
विरह इति तु मन्ये वल्लभान्यापि तेऽस्ति॥१८॥
अथ शयनशयानंदेहमायच्छमानः
सपदिसपदभङ्गंभिन्नवासा वसन् सन्।
तदभिमुखमुखेऽसौ पाणिमानीय पाणौ
अबददिति सतीर्थंदुःखयोगी वियोगो॥१९॥
स्वयुवतिजनयुक्तो भुक्तसङ्गः सदैव
विरहविहितदुःखं बुध्यसे मे कथं त्वम्।
विमलनयनशाली नो जनो बुध्यते हि
सकलविफलभूतं दुःखमन्धस्य किञ्चित्॥२०॥
अहनि विविधभावैरालपस्यालिलोकान्
निशि विहरसि गङ्गातीरहर्स्म्येयुवत्या।
अनधिगतवियोगक्लेशलेशस्त्वमस्मिन्
परिहससि परं मां का व्यथा तेन ते स्यात्?॥२१॥
स्मर ननु यदि लब्धः प्रेयसीविप्रयोगः
भृशमहमपि लोकानीदृगेवाहसं प्राक्।
हसति यमधिकुर्वन् यो जनोऽन्यानबोधः
स हि खलु विषयस्तं संश्रयेत् सत्यमेव॥२२॥
इति विरहिगिरंतां शुश्रुवान् सन् सतीर्थः
विशददशनकान्तिं भास्वरींभासयन् सः।
अचकथदिति वाचं कौतुकाकृष्टचेताः
कथय तव वियोगे कीदृशीचित्तवृत्तिः?॥२३॥
न खलु विरहदुःखं प्रेयसीमानवैति
तदिह किमु भवन्तं तस्य दुःख ब्रवीमि।
सति हि दशनवन्दे कोऽपि किं कोविदोऽपि
स्वदनकथमदुःखं निर्द्दतो वेति किञ्चित्॥२४॥
जनकसखिजनादेरेकरूपाद्वियोगात्
युवतिजनवियोगःसर्वदुर्भेद एव।
इह हि बहुललोकाः षड़्रसानास्वदन्ते
न तु कथयितुमीशाः कस्य कीदृक् प्रभेदः॥२५॥
भुवि भवति ययोस्तु प्रेम गाढ़ं चिरस्य
व्यथयति विरहस्तावन्ययोः किन्नु दुःखम्।
व्रततिविटपिनोः स्यान्निर्भरान्योन्यबन्धे
स्खलितवति विहानिर्भिन्नयोः स्वास्थ्यमेव॥२६॥
भवति मम तु यादृक् चित्तवृत्तिर्वियोगे
प्रियसख! शृणु तावत्तामहं वर्णयामि।
समुपरि परिपूर्णाद्द्रोणतः शालितुल्या
स्खलति तव पुरा मे हृष्यतश्चेतसो वाक्॥२७॥
कथयति यदि कश्चिद्विप्रयोगे प्रियाया
अमृतमितकथञ्चित् सङ्कथां किं क्षणेऽपि ।
सुनियतयतमानो नष्टचेष्टो जनस्ता
हरिण द्रव सुगीतां वंशगीतिं शृणोति॥२८॥
अपि च विरहकाले यो बधूमानयेति
वदति विदितमर्म्माविप्रयोगस्य पूर्वम्।
शशधरमिव धारावर्षुकंसत्सुधानां
अभिलषति वियोगिस्वान्तमासेवितुं तम्॥२९॥
सदपि हृदयमेतद्विश्रुतं क्लीवलिङ्गं
विहरति विरहे हि प्रायशः प्रेयसीषु।
नर इति किमु वा तल्लिङ्गता शब्दनिष्ठा
प्रभवति किमु रन्तुं सान्यथा यत् कलत्रम्॥३०॥
मनसि विरहदुःखं तन्मनो वल्लभायां
नियतरसवती सा वल्लभा चातिदूरे।
पुनरपि मनसि स्याद्दूरता सैव शश्वत्
भवति विरहकाले सर्वमस्मिन्नपूर्वम्॥३१॥
निविड़विवरमध्ये नेत्रयुग्मं विकान्ति
मनसि च दयिता सानन्दथुःकन्दरे च।
अखिलविषयवाञ्छाव्योम्नि गात्रं तनुत्वे
ननु विरहिजनानां हन्त याति क्रमेण॥३२॥
सति च हृदययोगे दम्पतीनां सदैव
विरह इति प्रसिद्धा देवयोर्विप्रयोगात्।
सवितुरपि नलिन्या लक्षहस्तान्तरायाः
कथयति किल योगंतेन स प्राज्यरूपः॥३३॥
अपरयुबकलीलालापमाकर्ण्य यस्य
विपुलपुलकजालंसर्वदेहे चकास्ति।
अतिपटुविरहेणाधीनमेनंविधातुं
परित इव विकीर्णं सर्षपासारवृन्दम्॥३४॥
निधुवनमिह यूनोर्निर्वहेन्निर्निनादं
नहि च भवति लज्जा कापि पश्यज्जनेभ्यः।
प्रचरति च प्रशस्तिर्मानसीनां क्रियायां
अनुभवति च दुःख विप्रयोगे तथापि॥३५॥
अविरतरतिकार्य्यंचेतसैवोपपाद्यं
न च कियदपराधात् कामिनी मानिनीस्यात्।
चरणपतनजन्या मानहानिश्च न स्यात्
अपि च विरहकाले सर्व नव्या व्यथन्ते॥३६॥
निशि शयनगतस्य प्राप्ततन्द्रस्य यूनः
वितरति यदि यूनोदर्शनंस्वप्नकाले।
पशुपतिरिव सद्यो जाततन्द्राप्रभङ्गः
रतिरहितमनङ्गंहन्त तस्मिन् करोति॥३७॥
प्रकृतिजमपि धैर्य्यंविप्रयोगो भिनत्ति
यदिति तदुपसर्गस्यादिमो हि स्वभावः।
गणगतयुजिधातुर्योगमर्थं व्यनक्ति
गमयति खलु तस्य व्यस्तमर्थं विशब्दः॥३८॥
शतमपि परिरोद्धं, चेष्टते तं वियोगं
न तु भवति कृतार्थः कोऽपि रुन्धेस एव।
स्खलति हि महिमा नो क्वापि सर्वातिगस्य
नगमपि परिभञ्जन् निर्झरो याति सिन्धुम्॥३९॥
अवहिरमिततेजोराशियुक्तं महान्तं
प्रतिदिनसमयोगेनापि संवर्त्तमानम्।
प्रखरबिरवह्निं देहशैलेऽनुमातुं
प्रभवति तनुशोषान्मादृशो दुःखहेतोः॥४०॥
इति गिरमभिधाय ध्यायतः प्रेयसींस्वां
सपदि विरहिणोऽस्यामन्दमस्यन्ददक्ष्णाः।
मदनदहनतापैः पच्यमानस्य फेनः
निरवसरकवोष्णप्रस्रताश्रुच्छलेन॥४१॥
वचनमिदममुष्याकर्णयन् कीर्णकर्णः
हृदनुगुणतयैवाप्रीयतायंसतीर्थः।
भवति हि समये यद्भाषितं युक्तियुक्तं
अमृतमपि विहाय श्रेयसाश्रीयते तत्॥४२॥
प्रियसख! वचनं ते मत्स्वभावानुरूपं
तदिह सुखयते मां नान्यथारूपमस्मात्।
द्रवति सलिलसेकान्मृत्तिका नाग्नितापात्
गहनदहनतापात् सीसकं नाम्बुसेकात्॥४३॥
दिनमिदमपि जातं मित्र! पाठावसानं
स्मरसि च रसिक! त्वं प्रेयसीमुन्मनाश्च।
सुखमनुभव तूर्णंतेन कान्तायुताख्यं
उषसिचरति नालीपद्मिनीमन्तरेण॥४४॥
इति निजमतरूपां भारतीं शृण्वतोऽस्य
प्रथममपि प्रियायां निःसरन्मानसस्य।
अभिमुखमिव नौका स्वानुकूलाम्बवाता
झटिति किल कलत्रं प्रत्यगच्छन्मनीषा॥४५॥
किमुत भवति कान्ता दर्शनं वा नवेति
स्मरणविचलितात्मा प्रत्यगात् स्वां पुरींसः।
जलधिरिव शशाङ्के शोभमाने प्रतीरं
मतिरिह हि नियुङ्क्तेजन्मिनः कार्य्यजाते॥४६॥
अथ भवनगतोऽसौ प्राणकान्तामवीक्ष्य
मुखमसितमकार्षीन्निष्फलात्मप्रयत्नः।
न भवति विशदात्मा वासरो हि प्रभाते
तरणिकिरणकान्तिं सन्ततामन्तरेण॥४७॥
मृगयितुमपि शक्तो लज्जया प्रेयसीं न
द्विगुविरहकष्टाद्दीर्घतापंप्रसेहे।
अपि च हृदयशोषं द्रागशेषं पुपीष
नद इव दिनशेषे कौमुदीमन्तरेण॥४८॥
बहुलविरहकालं सोऽतियातोऽपि कष्टात्
अणुमपि परिशिष्टं नेतुमेवाक्षमोऽभूत्।
स्थलमुपरितनस्थंतुल्यमार्द्धद्विहस्तं
वदति दुरधिरोहंतालवृक्षाधिरोहे॥४९॥
पितृभवनगता किं? तर्हि वार्त्तांलभेयं
किमपि नु कुरुते किं? तर्हि मां द्रष्टुमिच्छेत् ।
किमुत हतविधिर्मामिकशेषं चकार?
न च पुनरभिवृत्तौ द्वन्दसंज्ञेसमासे॥५०॥
विरहसितशरीरां विभ्रतीमेकवेणीं
विगतसकलभूषां दूरसूर्य्यामिवोषाम्।
परित इव वसन्तः फुल्लितां पुष्पलक्ष्मीं
गृहगतदयितां तामाननन्दावलोक्य॥५१॥
अथ स विरहशेषस्तं तदा लिप्समानं
अधरमधुरिमाणं वल्लभाया ववाधे।
अपि दहनविहीनं तापमात्रप्रवीणं
अतनु तपति हस्तंन्यस्तमात्रं हि दारु॥५२॥
सकलकुशलपृच्छानन्तरंनव्ययोगो
विरहतृषितकान्तामेलनोत्कण्ठितः सः।
अभिदधदपि वार्त्तां पृच्छते स्वां जनाय
सपदि दिनकृतोऽस्तप्रस्थितौ लालसोऽभूत्॥५३॥
अतिचिरयसि भास्वन्नम्वरान्तं प्रयातु
किमु किमपि नवीनं पूर्वतःपश्यसीह।
इह दिनकर! मर्त्ये ब्रह्मलोकभ्रमेण
भ्रमसि नभसि किंवा मन्दमत्यन्तमद्य॥५४॥
मिहिर! पतनमास्ते सत्यमेव त्वदीयं
तदिह किमु विलम्बं दुःसहं मे करोषि?।
अयि नभसि सहाश्वैःस्यन्दनं स्थापयित्वा
स्वयमभिपत तूर्णं शैलमुत्प्लुत्य सूर्य्य!॥५५॥
वदत इति चिरस्य स्वान्तदुःखेन सार्द्धं
तरणिरगमदस्तं वाक्यमस्येव शृण्वन्।
उदभवदपि रात्रिस्तत्प्रमोदेन साकं
सति हि सुसमये स्यात् सर्वतः सौख्यमेव॥५६॥
अधिगतशयनीयो वल्लभागत्यपेक्षी
दलरवमपि शृण्वन् तूर्णमुत्कीर्ण कर्णः।
मुहुरुपगममार्गं वल्लभाया विलोक्य
सपदि विकलितात्मा चिन्तयामास भूयः॥५७॥
ननु विरह! किमस्मिन् पुञ्जभूतो भवन् मां
प्रहरसि विदधानो रोषमासन्ननाशः।
खलमतिरथवासौसूर्य्यपुत्रो जनानां
वितरति बहुदुःखं स्वीयकालावसाने॥५८॥
इति स बहुविषादंचिन्तयन्नेव कान्तां
परिहृतपरितापां शिञ्जितेर्नूपुरस्य
शशभृदिव दिनान्ते शेषसन्ध्यामवाप्य
विरतमलिनभावः फुल्लितामाननन्द॥५९॥
शयनमिलितयनोः कोऽग्रतो वक्ति वाक्यं
किमपि च वदतीत्थंप्रागभूच्चित्ततर्कः।
तदनुदयितपृच्छानन्तरं वल्लभोक्तिः
क्षणमभवदतीतं वाक्यमन्योन्यजन्यम्॥६०॥
उक्त्वातत्तद्विरहदिवसे चिन्तितं यद्यदासीत्
मध्यस्थाने चलति न यथा तन्तुरेकोऽपि सूक्ष्मः।
हित्वा हारं तमिव विरहं दीर्घशत्रुं निपेष्टुं
तादृक् तस्मिन्नुभयमुभयोर्निर्भरादालिलिङ्ग॥६१॥
आदौ मया षोडशवर्षवत्ति ना
विनिर्म्मितंकंसवधाख्यनाटकम्।
काव्यंततः शङ्करसम्भवंपरं
श्रीजानकीविक्रमनाटकंकृतम् ॥६२॥
तज्जानकीविक्रमनाटकान्ते
सप्तैकनागेन्दुमिते शकाब्दे।
एकोनविंशाब्दवयः स्थितात्मा
व्यधादिदं श्रीहरिदासशर्म्मा॥६३॥
<MISSING_FIG href="../books_images/U-IMG-172344804053.jpg"/>
समाप्वितमिहं वियोगवैभवं खण्डकाव्यम्॥०॥
<MISSING_FIG href="../books_images/U-IMG-172344809655.jpg"/>
]