रक्षाबन्धनम्

[[रक्षाबन्धनम् Source: EB]]

[

रक्षाबन्धनम्

श्रावणी पौर्णिमा दिव्या रक्षाबन्धन रूपिणीम् ।
देशे समैक्यता भावं जनयित्री विराजताम् ॥

(कुमुदिनी कुर्च्यां उपविश्य टेबलोपरि विद्यमान कर्गज पत्रेषु किमपि लिखन्ती आस्ते, टेबुलोपरि उभय पार्श्वतः अनेकानि पुस्तकानि शिखरी भूतानि राजन्ते)

(ततः प्रविशति कादम्बरी)

कादम्बरी – सखि कुमुदिनि सुप्रभातं ते । (इति नमस्करोति)

कुमुदिनी – (उन्नमित शिरस्का) अहो कादम्बरी ! नमस्ते सुप्रभतम्। सखि अन्तः प्रविश ।

कादम्बरी – (अन्तः प्रविशति, तत्र पार्श्वे विद्यमान कुर्च्यां उपविशति)

कुमुदिनी – सखि ! कादम्बरी प्रभाते कथं मे गृहं समागतासि ।

कादम्बरी – हञ्जे,अस्ति कश्चित् वाग्विशेषः ।

कुमुदिनी – कोऽयं वाग्विशेषः ?

कादम्बरी – अद्याहं विद्यालयं नागच्छामि ।

कुमुदिनी – तां वार्तां कथयितुं समागतासि किम् ?

कादम्बरी – हां ता वार्तां कथयितुं समागतास्मि ।

कुमुदिनी – को हेतुः विद्यते ।

कादम्बरी – अद्य अस्मद् गृहे वयं सर्वे नाटकं द्रष्टुं गच्छामः ।

कुमुदिनी – सर्वं कुटुम्बं गच्छति किम् ?

कादम्बरी – हां सर्वकुटुम्बं गच्छति ।

कुमुदिनी – कुत्र कस्मिन् नाट्यगृहे नाटकं भविष्यति ?

कादम्बरी – अत्रैव सान्निध्ये विद्यमान नाट्यगृहे भविष्यति ।

कुमुदिनी – नाटकस्य नाम किम् ?

कादम्बरी – नाटकस्य नाम रक्षाबन्धनम् ।

कुमुदिनी – श्रावणपौर्णिमायां रक्षाबन्धनमहोत्सवे, अपिच नारिकेल पौर्णिमायां रक्षाबन्धनं नाम नाटकं प्रयोक्ष्यते । सर्वथा साधु औचित्य पूर्णं भासते ।

कादम्बरी – अत्यन्त सुन्दरं नाटकं इति जनशृतिः ।

कुमुदिनी – कस्यां भाषायां प्रोयक्ष्यते नाटकमेतत् ।

कादम्बरी – संस्कृत भाषायाम् ।

कुमुदिनी – संस्कृत भाषायां रक्षाबन्धनं नाम नाटकम् ।

कादम्बरी – हां रक्षाबन्धनं नाम नाटकम् ।

कुमुदिनी – कोऽयं कविः ।

कादम्बरी – परीक्षित् शर्मा नाम कविः ।

कुमुदिनी – अहो ! गीर्वाणभाषाप्रपञ्चे विख्यातोऽयं कविः ।

कादम्बरी – अयं कवि विंशतितमे शताब्दे संस्कृतभाषायां ललितगीत लहरी नाम गेयकाव्यं, विंशति पर्यात्मिकं यशोधरा नाम महाकाव्यम्, अक्षय गीतरामायणं अपिच सप्तविंशति सङ्ख्यापरिमित नाटकचक्रं च विलिखितवान् अस्य कवेः गीर्वाण गेयचक्रवर्तीति नामान्तरमपि विद्यते । परीक्षिन्नाटकचक्रात् गृहीतमेतत् रक्षाबन्धनं नाम नाटकम् ।

कुमुदिनी – एतान्नाटकं पौराणिकं किम् ?

कादम्बरी – पौराणिकं नहि, किन्तु चारित्र्यात्मकम् नाटकम् ।

कुमुदिनी – ममापि द्रष्टुं नाटकमेतत् इच्छा भवति । भवत्या सार्थम् अहमपि आगच्छेयम् ।

कादम्बरी – मम अतीव परमानन्दः यतः त्वमपि शालां अगत्वा मया सार्थं नाटकं द्रष्टुं समागच्छसि इति । पाठशालागमनादपि नाटक प्रेक्षणमेव वरं भवति सर्वेषां, आधुनिकेषु दिवशेषु । एहि गच्छावः । (इति निष्क्रान्तौ)

(यवनिका पतति)

(एकस्मिन् उद्याने रजनी - सखीभिः गायन्ती नृत्यन्ती आस्ते)

गीतम् (मालकौसरागे)

एहि एहि चन्द्र भोः माबिभेही चन्द्र भौः
उदय शिखर हिण्डमान चारु चन्द्र भोः
यामिनी चुम्बनेन रागि चन्द्र भोः 1

तारकलिकेलिलोल पाण्डु चन्द्र भोः
विभावरी कर्णकुण्डलायमान पूर्णचन्द्र भोः
कुमुद कामिनी विलास लोलमत्त चन्द्र भोः
गगनसरसि क्रीडमान राजचन्द्र भोः 2

तावकीन रश्मिरूप रूपकावयम्
मधुर भाव हास ललित लासिका वयम्
हावभाव मधुर नटन शिक्षित वयम्
चतुर वृत्त गान चरण पाटवा वयम् 3

सान्ध्यराग चित्रिताः कपोल पालिकाः
मधुर हसन कुसुन पुञ्ज चित्र भूषिताः
शारदाभ्र शुभ्र वयन चारु मण्डिताः
भूतले नितान्त ललित हसन जीविताः 4

अनङ्ग रङ्ग विविध चारु बन्ध पाटवाः
ईक्षणेन तरुण हृदय भावग्राहिकाः
मन्दयान चित्त जात भाव चालकाः
भावसून निचय दान पुष्प लविकाः 5

(गायन समये प्रविशति अलक्ष्येन्द्रः)

अलक्ष्येन्द्रः – (रजनीं दृष्ट्वा आत्मगतम्) कासा भूलोक सुन्दरी ? किमेषा स्वर्गादवततार उत नागलोकात् आविर्भूता ? गायन पद्धतिः गन्धर्व गानोपयिता । भवतुनाम तस्याः समीपं गत्वा तामेव पृच्छेयम् । (इति गत्वा) अयि सुन्दरि कासि त्वम् ?

रजनी – (ससम्भ्रमं) अहं पारसीया भारतवर्षे निवसामि । (सखीः विलोक्य) सख्यः यूयं गच्छथ । (सर्वाः सख्यः गच्छन्ति) अयि भोः भवान् कोऽस्ति ?

अलक्ष्येन्द्रः – अहं ग्रीस् देशीयः । सर्वं भूतलयं जिगीषामि । ग्रीस् देशादारभ्य मार्गमध्ये विद्यमान सर्वराज्य मण्डलानि विजित्य अधुना भारत वर्षे मिन्ध प्रान्तमागतोऽहम् ।

रजनी – भवान् जगज्जेता भवितुमिच्छति ।

अलक्ष्येन्द्रः – हां सत्यमेव इत्छामि

रजनी – तर्हि भारतवर्षं किमर्थमागतोऽसि ।

अलक्ष्येन्द्रः – अयं भारतवर्षः भूतलस्वर्गः अत्र सर्वशास्त्राणि वृद्धिं गतानीति श्रावं श्रावं भारतवर्षं प्रयुध्य स्वायन्तं कर्तुं समागतोऽस्मि ।

रजनी – (विहस्य) किं भारतवर्षं भवान् जिगीषति ।

अलक्ष्येन्द्रः – तरुणि अत्र हसितस्य कारणं किं विद्यते ? हां सत्यमेवाहं भारतवर्षं जेतुमिच्छामि ।

रजनी – तत् असाध्यं भवति ते इति हसामि ।

अलक्ष्येन्द्रः – तरुणि मम अजेयं भूतले न किमपि विद्यते ।

रजनी – त्वं अत्याशावान् मा भव। अयं देशः सर्वथा शक्तिसम्पन्नः ।

अलक्ष्येन्द्रः – अत्र कोऽयं राजा ।

रजनी – भारतवर्षे बहवः राजानः सन्ति ।

अलक्ष्येन्द्रः – अत्र सिन्धुनदो प्रान्ते पञ्जाब प्रदेशे कोऽयं राजा इति मे प्रश्नः ।

रजनी – अत्र पुरुषोत्तमः राजा अस्ति । सः सत्यमेव पुरुषोत्तमः । तं जेतुं हरिणापि हरेणापि न शक्यते ।

अलक्ष्येन्द्रः – तरुणि, त्वं तथा मावद । त्वं न जानासि मम भुजपराक्रमम् ।

रजनी – अहं जानामि ते भुजपराक्रमम् ।

अलक्ष्येन्द्रः – भवती कथं जानाति मे भुजपरक्रमम् ।

रजनी – प्रथम दर्शनेनैव सर्वमपि अवगतं मे । ते रूपमेव तव महिमानं व्याचष्टे ।

अलक्ष्येन्द्रः – (किञ्चित् तस्याः समीपम् आगत्य) अहं सर्व धरित्रीं जेतुमिच्छामि । किन्तु भवती मां जेतुम् इच्छति । प्रथमदर्शनेनैव मां अवगतासि भवति ।

रजनी – हां सत्यमेव अहं त्वां जेष्यामि । अहं त्वां कामये ।

अलक्ष्येन्द्रः – अहमपि त्वां कामये । भवती अयस्कान्तोऽस्ति । अहं अयोमयः ।

रजनी – एहि मत्सकाशं देहि गाढालिङ्गनम् ।

अलक्ष्येन्द्रः – मा त्वरस्व ते गाढालिङ्गनं दास्यामि । प्रथमतः त्वं कथय मम हस्ते अस्य राज्ञः पराजयः कथं भविष्यति ।

रजनी – (किञ्चित् विचकिता) तत् कथयितुमहम् असमर्थास्मि ।

अलक्ष्येन्द्रः – तथा यदि, अहमपि गाढालिङ्गनं दातुम् असमर्थः। आवयोः प्रेम निष्फलं भविष्यति ।

रजनी – तथा यदि भवति, अहं समालोच्य ते सहायं करिष्यामि ।

अलक्ष्येन्द्रः – तथैव भवतु । भारतदेश स्वाधीनानन्तरं अहं भारतस्य राजा त्वं राज्ञीच भवितारौ ।

रजनी – समयमनुसृत्य यथा योग्यं सर्वमहं करिष्ये ।

अलक्ष्येन्द्रः – भारतवर्षे कति प्रदेशाः वर्तन्ते साकल्येन निवेदय । तत्र सर्वेऽपि राजानः पराक्रमिनः राजन्ते किम् ?

रजनी – भारतवर्षम्प्रति त्वं किमपि मावद । तुभ्यं यद् रोचते तत् कुरुष्व । नाहं समर्था भारतमुद्दिश्य कथयितुम् । इयं भूमिः षट्पञ्चति प्रदेशैः सङ्कीर्णा सुबद्धा प्रतिभाति । इयम् अष्टैश्वर्याणाम् आकरः । अत्र राजानः सहस्रभानुप्रतीकाः । अहं त्वां चकमे । तस्मात् त्वदर्थं यत् मया आचरणीयं विद्यते तदेव कर्तुं शक्ताऽस्मि ।

अलक्ष्येन्द्रः – सत्यं त्वं मे जीवनदात्री प्रेयसी सञ्जाता । (इति तस्यास्कन्धोपरि हस्तौ निक्षिप्य किञ्चित् स्वसमीपं गृहीत्वा) प्रेयसि तदेवालम् । त्वं सर्वथा मम सहायं कुरु तदैव ते मम गाढालिङ्गनं उपायनमिव दास्यामि । पुनः समागमनाय, पुनः दर्शनाय शुभरजनी भूयात् । (इति निर्गच्छति)

रजनी – तवेयं रजनी शुभं कुर्यात् । (इति तं हस्तसंज्ञया प्रेषयति)

(इति द्वावपि गच्छतः)

(यवनिका पतति)

*************************************************************

.

द्वितीयं दृश्यम्

(आरस्तु सिंहासने उपविशति ततः प्रविशति अलक्ष्येन्द्रः)

अलक्ष्येन्द्रः – (प्रविश्य नमस्करोति ग्रीस्‌देशीय पद्धत्याम्)

आरस्तु – विजयी भव । (इति हस्तमुद्युक्त आशिषः ददाति)

अलक्ष्येन्द्रः – गुरो, अहं अद्यप्रभृति पुनः जैत्रयात्रार्थं जिगमिषामि ।

आरस्तु – त्वं जगज्जेता नूनं भविता ।

अलक्ष्येन्द्रः – भवतां आशीर्वचनबलेन अहम् अवश्यं जगज्जेता भविता ।

आरस्तु – आशिषः सन्त्येव । किन्तु मानसिक निग्रहः अपेक्षितव्यः ।

अलक्ष्येन्द्रः – भवतां आशयः कः उपदिशन्तु ।

आरस्तु – पुरुषः यदि जितेन्द्रियः भवति तर्हि सः सर्वशक्तिमान् भविष्यति ।

अलक्ष्येन्द्रः – ततः ।

आरस्तु – शृणु । पुरुषः अज्य घटोपमः ।

अलक्ष्येन्द्रः – ततः ।

आरस्तु – अङ्गना अग्निः ।

अलक्ष्येन्द्रः – ततः ।

आरस्तु – द्वयोः सन्निहितसम्बन्धः मा भूयात् ।

अलक्ष्येन्द्रः – यदि भवेत् ।

आरस्तु – सृष्टिकर्तापि स्वीय सृष्ट्यां पुत्रिकायामपि कामुकः इव प्रवर्तिष्यति ।

अलक्ष्येन्द्रः – तथा भविष्यति किम् ?

आरस्तु – अरे वत्स त्वं न जानासि । स्त्रीशक्तिः पुरुषं बलहीनं करोति जगति ।

अलक्ष्येन्द्रः – गुरो स्त्रीपुरुष संयोगादेव सृष्टिः भवति ।

आरस्तु – तत् सत्यमेव । किन्तु जगज्जेत्रूणां स्त्रीसहवासः अयोग्यः इति मे आदेशः ।

अलक्ष्येन्द्रः – ततः ।

आरस्तु – यदि पुरुषः स्त्रीलंपटो भवति तर्हि सः निर्बलः भविष्यति । तदा सः योद्धा भवितुं नार्हति । सः निर्वीर्यः भविष्यति । निर्वीर्ये सकलव्याधयः तं परिवेष्टन्ति ।

अलक्ष्येन्द्रः – किं कर्तव्यं मया आदिशन्तु भवन्तः ।

आरस्तु – कुत्रापि स्त्रीसम्बन्धः मा भूयात् तव जैत्रयात्रायाम् ।

अलक्ष्येन्द्रः – एतादृशी भावना असहजा भवति । यतः जगति सर्वं स्त्रीपुरुष शक्तिसमुद्भूतम् ।

आरस्तु – निग्रही जेता, क्षणिक सुखासक्तः मा भूयात् । सः सर्वदा शाश्वत सुखाय प्रयतनीयः भवति ।

अलक्ष्येन्द्रः – स्त्रीलोलुपत्वं अलक्ष्येन्द्राणां पतनकारणं भवतीति भवताम् अभिप्रायः ।

आरस्तु – हां सत्यमेव । जितेन्द्रियत्वेन जेता बलसम्पन्नः बुद्धिमान् भविष्यति । राज्यकाङ्क्षिणां कान्तानुसरणम् अयोग्यं भवति ।

अलक्ष्येन्द्रः – राजकीयेषु कामिन्यः सहायभूताः भविष्यन्ति ।

आरस्तु – ताः केवलं राज्यपतनस्यापि कारणं भवन्ति ।

अलक्ष्येन्द्रः – अधुना मया किं कर्तव्यम् आदिशन्तु भवन्तः ।

आरस्तु – स्त्रीसम्बन्धः पुरुषस्य अनावश्यकः । सः सम्बन्धः असहजः ।

अलक्ष्येन्द्रः – सर्वप्राणिनां कामना भवति खलु ।

आरस्तु – भवति चेत् जातु केवलं सम्भोगः कर्तव्यः ।

अलक्ष्येन्द्रः – यदि सः असन्तृप्तः भवति तेन सम्भोगेन किं कर्तव्यम् ?

आरस्तु – जगति ॠतुचक्रमनुसृत्य सम्भोगः कर्तव्यः ।

अलक्ष्येन्द्रः – तदापि सः असन्तृप्तः भवति चेत् ।

आरस्तु – स्मशाने अग्निं परिकल्प्य रमणं योग्यं भवति ।

अलक्ष्येन्द्रः – मरणमेव योग्यम् इति भवताम् अभिप्रायः किम् ?

आरस्तु – हाम् अयमेव मे अभिप्रायः ।

अलक्ष्येन्द्रः – शृङ्गारवीररसयोः अत्सन्त सन्निहित सम्बन्धः विद्यते खलु जगति ।

आरस्तु – भवतु नाम । तस्यार्थः अयम् । यावदपेक्ष्यते तावदेव अनुभोक्तव्यः । किन्तु मा लोलुपत्वं लम्पटत्वं च भूयात् इति मे निर्देशः ।

अलक्ष्येन्द्रः – प्रभो उन्मीलितं मे लोचनद्वयम् । अहम् अधुना जैत्रयात्रार्थं गच्छामि । पुनः कदा प्रत्यागच्छेयं नाहं जाने । आशिषः दीयन्ताम् । (इति प्रत्यालीढ पादः भवति)

आरस्तु – वत्स निरामयः जैत्रयात्रां सफली कुरुष्व । (इति हस्तमुद्यम्य आशीर्वादान् ददाति)

अलक्ष्येन्द्रः – (गच्छति)

(यवनिका पतति)

********************************************************

.

तृतीयं दृश्यम्

(नेपथ्ये)

काश्मीरं गीतम् (पहाडीरागे)

पुलकितगात्र भारतपुत्र शृणु रे । निर्मलपावनचरितं काश्मीरम् ।
स्मर रे नित्यं शीर्षकभूतम् । भव्यं भारत नन्दनवन काश्मीरम् ॥ ध्रु.

कुङ्कुम चन्दन कुन्दन चम्पक । कुडमल मञ्जुल मन्दारं काश्मीरम् ।
भारतयोषा शीर्षक सिन्दूरम् । विद्या केन्द्रं नन्दनवन काश्मीरम् ॥ 1

श्यामल शाद्बल कोमल पल्लव । भासारञ्जित वासवचापं काश्मीरम् ।
सुस्वर पाठन बहुविध सङ्कुल । निर्गत पावन वेदालापं काश्मीरम् ॥ 2

कोकिल कूजन केकी केका नर्तन । चञ्चल बम्भर झङ्कारं काश्मीकम् ।
निर्झर शीतल शीकर सिञ्चित । मल्ली सूनस्मेरं काश्मीरम् ॥ 3

अम्बर चुम्बि हिमाचल शृङ्गक ।
सन्ध्या नर्तन पशुपति ताण्डव घोषण पूतं काश्मीरम् ।
निर्जरमण्डल भूतल कल्पित
ऋतुगण चित्रित सुखमय देशं काश्मीरम् ॥ 4

(अम्भिराजस्य स्वसा तारा विचारयन्ती मञ्चे उपविष्टा अस्ति । ततः प्रविशति अम्भि राजा सहर्षम्)

अम्भी – स्वसः किं शृतं त्वया ?

तारा – किं श्रवणीयं विद्यते ?

अम्भी – विद्यते महत् श्रवणीयम् ।

तारा – कथय ।

अम्भी – ग्रीस्‌देशात् अलक्ष्येन्द्रोनाम महाप्रतापवान् योद्धा समागतः ।

तारा – (आश्चर्येण) ग्रीस्‌देशात् योद्धा समागतः ।

अम्भी – हां ग्रीस् देशात् । सः अतीव बलपराक्रमोपेतः ।

तारा – सः किमर्थमागतः भारतवर्षम् ।

अम्भी – योध्दुं समागतः ।

तारा – केन सार्थम् ।

अम्भी – पुरुषोत्तमचक्रवर्तीना सार्थम् ।

तारा – (विचकिता) किमर्थम् ।

अम्भी – भारतं जेतुम् ।

तारा – भारतं जेतुम् ?

अम्भी – हां सर्वभारतं जेतुं समागतः ।

तारा – सः कथं भारतं जेष्यति ।

अम्भी – युद्धेन ।

तारा – तस्य भारतं अजय्यं भवति ।

अम्भी – कथं तस्य अजय्यं भवति । सः योद्धा । ग्रीस्‌देशादारभ्य भारतपर्यन्तं विद्यमान सर्व देशान् विजित्य अधुना पेषावर्‌पर्यन्तं समागतः ।

तारा – अहो (साशङ्कम्) सोऽयं वृत्तान्तः तव कर्णपथं कथं समागतः ।

अम्भी – अहं स्वयं तेन सार्थं सल्लापमकरवम् ।

तारा – तेन सार्थं त्वं किमर्थं भाषणमकरोः ।

अम्भी – स्वसः त्वं न जानासि वर्तमानपरिस्थितिमुद्दिश्य ।

तारा – वर्तमानपरिस्थितिमुद्दिश्य त्वं किं जानासि कथय ।

अम्भी – भगिनी, अलक्ष्येन्द्रः महायोद्धा, अयं अवश्यं विनायासं पुरुषोत्तमचक्रवर्तिनं जेष्यति ।

तारा – ततस्ततः ।

अम्भी – सर्व भारतं सः स्वीयं करिष्यति ।

तारा – अहो ततस्ततः ।

अम्भी – अस्य विशालभारतदेशस्य प्रशासनाय सः अलक्ष्येन्द्रः मां नियुज्य स्वदेश तिरोगमनं करिष्यति ।

तारा – ततस्ततः ।

अम्भी – तदाहं भारत चक्रवर्ती भवेयम् । त्वं मे स्वसा, तदा येनकेनापि महाराजेन विवाहिता सर्वभोगाननुभोक्ष्यसि इति मदीया भावना अस्ति ।

तारा – त्वं शतृणासाकं हस्तमेलनं विधाय देशद्रोहं कर्तुमीहसे । तत् अयोग्यं अयुक्तं च भारतीयानाम् । त्वं यदि शत्रृव्यूहे पतिष्यसि तर्हि पुनः ते जीवनं असम्भवं भविष्यति । तस्मात् स्वार्थाय त्वं तथा मा व्यवहर । राजा पुरुषोत्तमः सत्यं पुरुषोत्तमः । स एव भारतदेशरक्षकः भवति, न अस्मादृशाः क्षुद्रजन्तवः भवितुमर्हन्ति । तस्मात् त्वं तादृशं वातहर्म्यं निर्माणं विसृज । यत् ते कर्तव्यं विद्यते तदेव त्वं कुरु ।

अम्भी – स्वसः नाहं काङ्क्षे त्वदीय नीतयः । त्वं न जानासि राजनीतिम् ।

तारा – अरे सहोदर, त्वं अत्याशापूरितोऽसि । त्वं न किमपि कर्तुं समर्थो भवसि । तस्मात् त्वं देशद्रोहं कर्तुं व्यवसितोऽसि । भ्रातः देशद्रोहापेक्षया आत्महत्या परमोत्तमा । तस्मात् त्वं उत्तमां स्थितिं भजस्व ।

अम्भी – कासि त्वं मम निश्चयात् मां चालयितुम् ?

तारा – अहं ते स्वसा, देशभक्ता, पुरुषोत्तमस्य पादरजोऽद्वाहिनी ।

अम्भी – त्वं मे स्वसाभूत्वा मम विन्द्रोहं चिकीर्षसि ।

तारा – अरे महान्तःयोद्धारः गताः, महाराजानः निर्गताः, महाचक्रवर्तिनः पञ्चत्वं गताः किन्तु भारतम् अखण्डितं भाति पूर्ववत्, देवतेयं भूमिः । इयं निर्जरा । एतस्य भारतस्य कदापि नाशनं न भवति । परदेशात् समागताः शत्रवः न किमपि करिष्यन्ति भारतम् । किन्तु स्वार्थपरायणाः त्वादृशाः अन्तश्शत्रवः मिलित्वा भारतं स्मशानं कर्तुं प्रयतन्ते । तस्मात् अहं त्वां नीतिमुपदिशामि ।

अम्भी – न मे रोचते तव बोधना ।

तारा – सोदर त्वं ॠग्णोऽसि । ॠग्ण बाधितऽनां औषधं हितकरं रुचिकरं न भवति । किन्तु वैद्यस्य आदेशेन स्वास्त्यै अवश्यं ग्राह्यं भवति ।

अम्भी – शृणु तारे । अहं योद्धा राजपुत्रः । नीतिज्ञः धर्मवेत्ता । जानाम्यहं सामदान भेद दण्डोपायान् । तस्मात् कारणात् अलक्ष्येन्द्रेण साकं मिलित्वा सर्वं भारतीयचरितं तस्मै निवेद्य तस्मै उपकारं विधाय भारते महाराजा भवितुमिच्छामि । अधुना विद्यमान पद्मव्यूहे त्वम् अत्र स्थातुं नार्हसि । अपेहि त्वं अस्मात् गेहात्, इदं ते योग्यं न भवति । (इति तां भर्त्सयति)

तारा – एतावत्पर्यन्तं त्वं मे सहोदरः असि । अधुना त्वं दुरोदरोऽसि त्वं मां तव गृहात् निष्कासितुं समर्थोऽसि, न किन्तु भारतराष्ट्रात् । अहं सपदं गत्वा पुरुषोत्तमचरणसान्निध्ये निवसिष्यामि । शृणु यदि त्वं जेष्यसि अस्मिन् व्यूहे, उत अहं जेष्यामि पश्येयम् । (इति चपलं स्वीय वस्मादिकं ग्रन्थिं विधाय स्वीय कक्षायां निक्षिप्य रोषेण निर्गच्छति)

अम्भी – अधुना मम अन्तरायः निर्गतः । अवश्यं अलक्ष्येन्द्रेण साकं अहं निवसेयम् । अहं भाविभारतचक्रवर्ती । (इति श्मश्रृसम्मार्ज्य अट्टहासं विधाय निर्गच्छति)

(यवनिका पतति)

************************************************************

.

चतुर्थं दृश्यम्

(पुरुषोत्तमसभा, पुरुषोत्तमः सिंहासने उपविष्टः अस्ति, अमात्यः पार्श्वभागे उपविष्ठः भवति)

पुरुषोत्तमः – अयि अमात्य, किं हिमाचलप्रदेशीयाः काश्मीरीयाः पेषावरदेशीयाः राज्यपालने सुखं निवसन्ति ?

अमात्यः – हां महाराज । सर्वे ससुखं निवसन्तीति वार्ताः समायान्ति । पेषावरप्रान्तीयः राजा अम्भि प्रजाभ्यः सहकारं न ददातीति वार्ताहराः कथयन्ति ।

पुरुषोत्तमः – अपि च शृतं मया भवतां वदनारविन्दात् यत् ग्रीस् देशात् अलक्ष्येन्द्रः इति कश्चन योद्धा वसुधातलं जेतुं समागतः इति तेन साकं हस्तमेलनं अम्भिना कृतमिति ।

अमात्यः – देव तस्मात् अयं राजा अम्भिः अस्माभिः निगृहीतव्यः इति । मया एतदपि शृतं यत् तत्र अस्मदीय पालना भवितव्या इति च प्रजानां आग्रहः ।

पुरुषोत्तमः – तेन साकं विरोधः अधुना युद्धाय कारणं भविष्यति । तस्मै पेषावरप्रान्तः अतीव रोचते इति कृत्वा अपिच अयं विश्वसनीयः इति च मत्वा तं तत्रैव प्राहिणम् ।

अमात्यः – महाराज सः एषु दिवसेषु अविश्वासपात्रः भवति तस्मात् तं पदच्युतं कर्तव्यमिति मे विज्ञप्तिः ।

पुरुषोत्तमः – अमात्यशेखर, जानामि ते अभिप्रायम् । किन्तु सर्वस्यापि समयसीमा विद्यते । समयं विलोक्य सर्वमपि साधु समाचरणीयम् इति भवन्तः जानन्त्येव ।

अमात्यः – अस्मिन् विषये विचारणीयः अंशः न कोऽपि विद्यते । यत् भवद्भ्यः रोचते तत् अनुपदमेव कुर्वन्तु भवन्तः ।

(ततः प्रविशति वार्ताहरः)

वार्ताहरः – (नामित पूर्वकायः नमस्कृत्य) महाराज पेषावर प्रदेशीयराजा अम्भिः ग्रीस् देशादागतस्य अलक्ष्येन्द्रस्य सहायार्थम् अकरणीयं, अवचनीयं कथयतीति, तेन सार्थं भारतं जेतुं प्रयतते इति किंवदन्ती प्रचलति ।

पुरुषोत्तमः – त्वं गच्छ ।

वार्ताहरः – नमांसि (इति नामितपूर्वकायः अर्थवृतः निर्गच्छति)

पुरुषोत्तमः – अमात्यवर्यं शत्रुं महान्तोऽपि न शेषयन्ति । अयं एकदा मे आप्तमित्रम् अभूत् । अधुना शत्रृः सञ्जातः देशद्रोहार्थम् । अयं मित्रद्रोहीजातः । मित्रद्रोहः प्रथमसोपानः देशविनाशाय ।

अमात्यः – महाराज, तत् सत्यं यदुदीरितम् । पदधराणां मित्रद्रोहेः देशद्रोहः इति तरतम भावना न विद्यते । ते स्वार्थाय अनाचरणीयमपि, स्ववंशनाशनं कर्तुमपि पूर्वापरसन्दर्भं न विचारयन्ति । ते पदधारणाय स्वीय पुत्रमपि घ्नन्ति ।

पुरुषोत्तमः – मित्रद्रोहापेक्षया देशद्रोहापेक्षया च तादृशानां अनुपदं मरणमेव योग्यं भवति । शत्रृः जगज्जिगीषया समागतः । तमुद्दिश्य न किमपि निवेदयामास मह्यं, सराजा अम्भिः । तेन साकं मन्त्रयित्वा भारतं जिगीषति ।

अमात्यः – अधुना यदि अलक्ष्येन्द्रः अम्भिसहायेन भारतं जेतुं अन्तः प्रविशेत् तदा किं कर्तव्यम् ।

पुरुषोत्तमः – अमात्यवर्य भवानपि एवं वदति । भवतां भाषणं शृत्वा मम आश्चर्यं भवति ।

अमात्यः – प्रभो, सः न किमपि करिष्यति, जानाम्यहम् । किन्तु जयापजयौ निर्णेतुं कष्टं भवति । सर्वं दैवाधीनं इति वदाभि ।

पुरुषोत्तमः – अमात्य “दैवं विहाय कुरु पौरुषमात्मशकत्या” शृणु महामात्य, अधुना अहं कथयामि । एकः अलक्ष्येन्द्रः नहि, अलक्ष्येन्द्राणां सहस्रमपि भारतं न किमपि करिष्यति, यावत्पर्यन्तं पुरुषोत्तमः जीवन् आस्ते तावत्पर्यन्तम् । ततः चिन्ता न कार्या । यदि सः मां जित्वा अन्तः प्रविशेत् अन्ये चक्रवर्तिनः तं जीवन्तं समाधिं करिष्यन्ति । भारतराष्ट्रं सुलभगृहीतं न भवति परेषाम् ।

अमात्यः – महाराज प्रागेव युद्धाय सर्वं सन्नाहान् कृत्वा यं यं यत्र स्थापनीयं, तं तं तत्र संस्थाप्य, सर्वमपि सुव्यवस्थायां विराजमानं विलोक्य भवद्भ्यः निवेदयितुं समागतोऽस्मि ।

पुरुषोत्तमः – सर्वं सैन्यं जागृदवस्थायां वर्तनीयमिति नदीप्रदेशाः, पर्वतप्रदेशाश्च सहस्राक्षित्वेन द्रष्टव्याः इति समादिशतु सर्वान् भवान् । गज रथतुरगपदातीनां चमूः जागृदवस्थायां स्थातव्या इति आदिशतु भवान् ।

(ततः प्रविशति वार्ताहरः)

वार्ताहरः – महाराज अलक्ष्येन्द्रस्य सेनानी भवतः द्रष्टुं द्वारिर्तिष्ठति । तेनेदं सन्देशपत्रं दत्तम् । (इति पत्रं अमात्याय ददाति)

अमात्यः – पत्रं गृह्‌णाति)

पुरुषोत्तमः – अमात्यवर्य पत्रं वाचयतु ।

अमात्यः – (पत्रं प्रसार्य पठति)

परमपवित्र भारतवर्षे विराजमानाः गौरवनीय अपिच माननीय सिन्धुप्रान्तपालकाः पुरुषोत्तमराजानः भवतां समस्त सन्मङ्गलानि भवन्तु इत्यहं ग्रीस् देशादागतः अलक्ष्येन्द्रनामकः वार्तयामि । अहं भारतवर्षं द्रष्टुं समागतोऽस्मि दुर्दैववशात् अहं भवतः द्रष्टुं अशक्तः अभवम् । अयं सेनानी मम स्थानापन्नः भवति । अयं सेनानी मन्मुखेन भवतः दिदृक्षति । भवन्तः तस्मै यथा सन्दर्भं मार्गदर्शनं करिष्यन्तीति आशासे ।

   एवं  
   योद्‌धा अलक्ष्येन्द्रः ।

पुरुषोत्तमः – ओं विदितं सर्वम् । अरे वार्ताहर, द्वारि विद्यमानं सेनापतिं अन्तः प्रवेशय ।

वार्ताहरः – यथाज्ञापयति देवः । (इति अर्थवृतः निर्गच्छति)

(ततः प्रविशति सेनापतिरूपेण अलक्ष्येन्द्रः, ततः नमस्करोति राजानं ग्रीस् देशीयपद्धत्या)

पुरुषोत्तमः – अयि अलक्ष्येन्द्र सेनापते भवतामहं स्वागतं व्याहरामि ।

सेनानी – महाराज धन्यवादान् वितरामि । (इति दक्षस्थित्यां कथयति)

पुरुषोत्तमः – सेनापते भवतः राजा, भारतवर्षं किमर्थमागतः ।

सेनानि – राजन् अस्मदीय राजा अलक्ष्येन्द्रः भारतं द्रष्टुं समागतः ।

पुरुषोत्तमः – भारतं द्रष्टुं समागतः उत जेतुं समागतः ।

सेनानि – (चकितो भूत्वा) द्रष्टुमेव समागतः ।

पुरुषोत्तमः – अयं मे महान् सन्तोषः यतः बहुदूरात् भारतदेशं श्राव श्रावं द्रष्टुं समागतः इति । सर्वस्यापि सर्वं द्रष्टुं अधिकारः विद्यते जगति ।

सेनानी – भवतां भारत दर्शनेन मे राज्ञः महान् आनन्दः सञ्जातः ।

पुरुषोत्तमः – अयं भारतवर्षः सर्वेषां वस्तु सङ्ग्रहालयः जातः । अयं देशः सर्वेषां धर्मशाला भवति ।

सेनानी – भारतीयाः धर्मपरायणाः सौहार्दं काङ्क्षिणश्च इति सर्वेषां ज्ञातोऽयं वृत्तान्तः ।

पुरुषोत्तमः – तथेति मत्वा सर्वे परदेशीयाः भारतीयान् स्वार्थाय समुपयुञ्जन्ति ।

पुरुषोत्तमः – तव नाम किम् ?

रजनी - मम नाम रजनी ।

पुरुषोत्तमः – किमर्थमागतासि ?

रजनी – महाराजैस्साकं किञ्चित् भाषितुं समागतास्मि ।

पुरुषोत्तमः – भाषस्व भगिनि ।

रजनी – महाराज अद्य पौर्णिमायां रक्षाबन्धन सुमुहूर्तः भवति ।

पुरुषोत्तमः – हां भवति ।

रजनी – अस्मिन् दिव्यमहोत्सवे अहं एकाकिनी निवसामि ।

पुरुषोत्तमः – कथं त्वं एकाकिनी ?

रजनी – पितरौ स्तः । किन्तु भ्रातरः न सन्ति ।

पुरुषोत्तमः – भारतवर्षे सर्वेपि ते भ्रातरः एव ।

रजनी – सर्वे भ्रातरः कामनां पूरयितुं न शक्ताः ।

पुरुषोत्तमः – का ते कामना ।

रजनी – अहं वः रक्षाबन्धनं विदधातुं समुत्सुकास्मि ।

पुरुषोत्तमः – अवश्यं अहं मम भारत राष्ट्रे भातृहीनायाः एकस्याः युवत्याः भ्राता भविष्यामि ।

रजनी – भवन्तः राजानः मे भ्राता भवितुम् उद्युक्ताः, का भवतां विशालभावना ।

पुरुषोत्तमः – अहं प्रजारक्षकः । किं नाहं शकतः भविष्यामि एकां युवतीं रक्षयितुम् ।

रजनी – भवन्तः नूनं पुरुषोत्तमाः । युष्मदीय नाम सत्यं सार्थकं भवति ।

पुरुषोत्तमः – एहि भगिनि रक्षां बधान । (इति दक्षिण हस्तं प्रसारयति)

रजनी – (राज्ञः समीपमागत्य रक्षां बध्नाति)

पुरुषोत्तमः – भगिनि गृहाण इदं सुवर्ण कङ्कणम् । (इति हस्तात् सुवर्ण कङ्कणं अपनीय दित्सति)

रजनी – महाराज न मह्यं रोचते धनकनकवाहन वस्तुचयम् ।

पुरुषोत्तमः – भगिनि किं ते रोचते ।

रजनी – भवन्तः सङ्ग्रामे भीमसदृशाः वः न कोऽपि जेष्यति । भवतां समक्षं सर्वेऽपि मूषक प्रायाः भवन्ति ।

पुरुषोत्तमः – कथनीयं किं विद्यते अनुपदं कथय ।

रजनी – महाराज अहं प्रष्टुं भीताऽस्मि ।

पुरुषोत्तमः – महाराजानां तव भ्रातृणां समक्षं भीतिः कुतः अनुपदमेव निस्संशयं पृच्छ ।

रजनी – महाराज, अलक्ष्येन्द्रः मे भवितव्यः पतिः । तं सङ्ग्रामे भवान् रक्षतु । इमां भगिनीं सौभाग्यवतीं करोतु इति मे अभ्यर्थना ।

पुरुषोत्तमः – भगिनि, एतादृशी ते कामना इति नाहं जाने । अहं मम देश सुखाय स्नेहं, दयां, सौख्यं च लोकस्य आराधनाय र्सत्यक्ष्यामि । अधुना त्वदीया कामना देशस्य अहिता भविष्यति । सर्वं देशः अन्याक्रान्तः भविष्यति । अहं कथं देशं रक्षयिष्यामि ।

रजनी – भवन्तः राजानः किमपि कर्तुं सक्षयाः, अहं इयन्तं याचे मे सौभाग्यं रक्षन्तु इति ।

पुरुषोत्तमः – भगिनि मे मनः द्विधा विभक्तम् । इतः देशरक्षणं, अन्यतः भगिनी संरक्षणम् । देशरक्षणं बलवत्तरं भाति भगिनी रक्षणापेक्षया ।

रजनी – अद्य रक्षाबन्धन सुमुहूर्तः । यदि एतस्य रक्षाबन्धन समयस्य मूल्यं नास्ति, तर्हि त्वां देशीयाः परम्परा नाशकं मन्वते । देशे रक्षाबन्धनमहोत्सवः स्थगितः भिविष्यति ।

पुरुषोत्तमः – भगिनि, त्वं मा विचारय अस्मिन् समये अहं देशं अपि च भगिनीं त्वां रक्षिष्यामि । मा शुचः गच्छत्वम् ।

रजनी – महाराज भवन्तः पुरुषोत्तमाः, भवतां कीर्तिः आचन्द्रतारार्कं वर्तिष्यति सर्वप्रपञ्चे । अहं धन्यास्मि । (इति नमस्कृत्य गच्छति)

पुरुषोत्तमः – अहो विपदि विपद् सुखे सुखं अनुसरतः इति लोकोक्तिः सत्यमेव अत्र मया दृष्टम् । धर्मो रक्षति रक्षितः । (इति अन्तः गच्छति)

(यवनिका पतति)

.******************************************************

.

पञ्चमं दृश्यम्

(नेपथ्ये चमूचालनं भवति । सैनिकाः सङ्ग्रामगेयं गायन्ति)

गीतम् (भूपालीरागे)

जयत जयत जननीरक्षणदीक्षित भारतयोधाः
शात्रवभूमिजभञ्जन प्रलयप्रभञ्जन भारतवीराः ॥ ध्रु. ॥

परनगहृदयविदारण भूषणकुलिशाकृति योधाः
कुरुत कुरुत देशं स्वर्गसमानं भारतजननी पुत्राः ॥ 1 ॥

अरिजनदहन विरूपाक्षेक्षणकुहर धनञ्जयरूपाः
समराङ्गण पावकतापन द्विगुणीकृतवर्णं सुवर्णाकाराः ॥ 2 ॥

पुष्करावर्तक घनगर्जननिस्वन प्रतिरव बिभीषिकाः
प्रलयसन्ध्या निटलेक्षण ताण्डवपदघट्टन शब्दसमीराः ॥ 3 ॥

आशुगवैरि सदाशन वासुकिपन्नग भीषणफूत्कारकाराः
परजनपन्नगखण्डन काञ्चनपक्षोल्लसितोद्धत गारुत्मतरूपाम् ॥ 4 ॥

महिषासुरमर्दिनि भयदकपर्दिनि करतल खरकरवालाकाराः
रण्भुवि शत्रृध्वंसनयाम्य भयङ्कर निर्दयकिङ्कर तुल्याः ॥ 5 ॥

हरहर भंभं घोषण जननीरञ्जन शात्रवभञ्जन निरताः
स्मरहर पुरहर शङ्करकरतल राजित भव्यपिनाकाकाराः ॥ 6 ॥

परिपन्थिसुमस्तक कन्दुक रुधिरार्णवखेलन चञ्चलविक्रान्ताः
आसेतुहिमाचल धरणीतल भावोद्वेगोद्वेल्लित कल्लोलाकाराः ॥ 7 ॥

(गीतान्ते नेपथ्ये कल्लोलः समरदुन्दिभिनादाः भवन्ति, जहि, मारय, ताडय, पातय, शूलय इति शब्दाः श्रूयन्ते, बहुविध क्रन्दनैः आक्रोशाः श्रूयन्ते)

(पुरुषोत्तमः सिंहासने उपविशति । मन्त्रिवर्यः अन्ये राजानः तत्रोपविशन्ति । सायुधरक्षकाः शृङ्घलाबद्धं अलक्ष्येन्द्रम् आनीय पुरुषोत्तमस्य समक्षं स्थापयन्ति ।)

पुरुषोत्तमः – अयि भटाः जगज्जेतारं अलक्ष्येन्द्रं निश्शृङ्घलं कुर्वन्तु । (भटाः तथा कुर्वन्ति) यूयं सर्वे गच्छथ । (सर्वे गच्छन्ति) बन्धो अलक्ष्येन्द्र उपविशतु भवान् । (इति आसनं दर्शयति, अलक्ष्येन्द्रः उपविशति)

अयि अलक्ष्येन्द्र भारतं जेतुं दुष्करमिति अधुना भवता अवगतं स्यात् इति मे प्रश्नः ।

अलक्ष्येन्द्रः – महाराज पुरुषोत्तम, मे शक्तिः अनन्ता, अहं ग्रीस् देशादारभ्य भारतपर्यन्तं सर्वत्र जयलक्ष्मी समालिङ्गितः अभवम् । किन्तु भारते तद् व्यतिरिक्तं जातम् ।

पुरुषोत्तमः – अलक्ष्येन्द्र, भारतीयाः योद्‌धारः, वीराः शूराः, दयान्तरङ्गाश्च । प्रथम कबले मक्षिकापातः आसीत् । भवान् मया निगृहीतोऽसि न मारितोऽसि जानासि किं अत्र हेतुः कः ।

अलक्ष्येन्द्रः – भवान् मां मारयितुं अशक्तो जातः ।

पुरुषोत्तमः – भवान् निगृहीतोऽपि निरस्त गर्वीन जातः । अलक्ष्येन्द्र, त्वं न जानासि तव रक्षणाय कारणं किमिति ।

सेनानी – भारतीयाः वचनपरिपालनार्थं प्राणानपि त्यक्ष्यन्ति । तेषाम् एतादृशी परम्परा विद्यते ।

पुरुषोत्तमः – भारतीयाः अतिथिसत्कारे निरताः इति मत्वा परदेशीयाः अस्य देशस्य सुवर्णरजतरत्नादीन् स्वदेशं नेतुं प्रयतन्ते । भारतीय धर्मं नाशनं विधाय भारतीयान् निर्बलान् विदधातुं प्रयतन्ते परदेशीयाः ।

सेनानी – भारत चक्रवर्तिनां भाषणम् अलक्ष्येन्द्राणाम् अवमानस्पदं भवति ।

पुरुषोत्तमः – वयं जानीमः अत्र समक्षं सेनापतिं नहि किन्तु स्वय सेनापतिरूपे विद्यमानान् अलक्ष्येन्द्रान् पश्यामः इति ।

सेनानी – (साश्चर्यं) महाराज कथं भवन्तः जानन्ति ।

पुरुषोत्तमः – (विहस्य) भारतीयाः सुनिशित प्रज्ञावन्तः । ते चारेक्षणाः सन्ति । अस्माकं क्रौर्यं नास्ति । किन्तु पराक्रमः विद्यते । भारतीयाः परेषां जृम्भणेन तेषाम् उदरस्थं सर्वं जानन्ति ।

सेनानी – भवतां कुशाग्र बुद्धिः अस्मान् आश्चर्यपारवश्यान् चक्रे । (इति कृत्रिम श्मशृम् अपनयति)

पुरुषोत्तमः – भवन्तः अस्मान् न वञ्चयिष्यन्ति । अत्र युष्माकं न कापि भीतिः विद्यते, युष्मान् प्रापयितुम् अस्मदीया सेना सहायं करिष्यति ।

सेनानी – भारतीयाः शत्रुमपि मित्रवत् पश्यन्ति ।

पुरुषोत्तमः – सः तेषां जन्मतः सङ्क्रामित भावः । गच्छतु भवान् ।

सेनानी – महाराज आवयोः समागमः कदा कुत्र पुनः भविष्यति ।

पुरुषोत्तमः – आवयोः समागमः पुनः रणाङ्गणे भविष्यति ।

सेनानी – (ग्रीस् देशीय पद्धत्या प्रत्यालीढपादः नमस्कृत्य निर्गच्छति)

पुरुषोत्तमः – (घण्टां नादयति, ततः प्रविशतः भटौ, तौ कथयति राजा) सेनापतिरूपे समागतम् अलक्ष्येन्द्र अतिथिं ओदकान्तं सम्प्रेष्य समागच्छताम् ।

भटौ – (नामितपूर्वकायौ अर्थवृतौ अलक्ष्येन्द्रेण साकं गच्छतः)

पुरुषोत्तमः – (निश्वस्य विचारयन् इतस्ततः चरति हस्तौ पार्श्वभागे बध्वा)

(यवनिका पतति)

*******************************************************

.

षष्ठं दृश्यम्

(उद्यानवाटिकायां रजनी अलक्ष्येन्द्रश्च)

अलक्ष्येन्द्रः – रजनि त्वामेवाहं दिवारात्रं चिन्तयामि । भवती भुज लताभ्यां माम् आलिङ्गनं करोतु ।

रजनी – तमाल वृक्षोऽपमितं त्वां अहं मम भुजलताभ्यां यथा सुखं आलिङ्गनं करिष्यामि । (इति तस्य सकाशं गच्छति)

अलक्ष्येन्द्रः – रजनि, स्तब्ध । किं त्वं मम सहायं करिष्यसि ?

रजनी – कीदृशोऽयं सहायः विद्यते ।

अलक्ष्येन्द्रः – भवती पुरुषोत्तमस्य राजनीतिचतुरतां तस्य सक्षमाधिकारतां मे कथयतु, यस्मादहं सुखेन युद्धे जितः भविष्यामि ।

रजनी – नाहं जाने तस्य सक्षमपालनत्वं, किन्तु अहं तं एवं विचारयिष्यामि ।

अलक्ष्येन्द्रः – (सकौतुकम्) कासा ते विचारधारा ।

रजनी – अस्यां श्रावण पौर्णिमास्यां रक्षाबन्धन महोत्सवः भविष्यति ।

अलक्ष्येन्द्रः – कोवा तस्य अर्थः ।

रजनी – शृणु, यदा तस्यां पौर्णिमास्यां स्वसा सोदरस्य हस्ते रक्षाबन्धनं करोति तदा सोदरस्य कर्तव्यं भगिनी संरक्षणं, तस्याः अभिलाषापूरणं च इति भारतीय साम्प्रदायः ।

अलक्ष्येन्द्रः – तस्मात् त्वया किं क्रियते ।

रजनी – अहं तस्मिन् दिवसे महाराजपुरुषोत्तमस्य समीपं गत्वा तस्य हस्ते रक्षाबन्धनं विधाय अहं तं विचारयेयम्; अयि भोः अहं अधुना ते स्वसा, मम रक्षणा त्वया कर्तव्या इति ।

अलक्ष्येन्द्रः – ततस्ततः ।

रजनी – तदा महाराजः का ते कामना कथयस्व । अहं अनुपदं पूरयेयं इति मां विचारयिष्यति ।

अलक्ष्येन्द्रः – ततस्ततः ।

रजनी – तदाहम् अलक्ष्येन्द्रं कामयामीति, तं भवान् युद्धे माजहि इति राजानं प्रक्ष्यामि । तदा सः भारतीय परम्परानुयायी अवश्यम् अङ्गीकरिष्यति मदीया कामनाम् । तदा त्वं तं विजेष्यसि ।

अलक्ष्येन्द्रः – साधु भावितं त्वया एहि एकं चुम्बनं देहि । (इति शनैः शनैः द्वावपि सन्निहितौ भवतः)

(यवनिका पतति)

*******************************************************

.

सप्तमं दृश्यम्

(तारा-पुरुषोत्तमौ संलपन्तौ आस्तां, तारा वस्त्र ग्रन्तिनासह भूमौ उपविष्टा अस्ति । पुरुषोत्तमः इतस्ततः चलन् आलोचना परः आस्ते)

पुरुषोत्तमः – पुत्रि तारे त्वया साधु समुदीरितम् । अवश्यं ते भ्राता युद्धे मरणं प्राप्स्यति । त्वमेव जयशालिनी भविष्यसि । अम्भि सदृशानाम् अस्तित्वात् भारतं सर्वदा सङ्कटे पतितं भवति । देशद्रोहिणः अस्मदीय देशवासिनः एव । पराः यदा योध्दुं समायान्ति तदा ते अस्मद्वेशीयानां ऐक्यताभावं प्रजनयन्ति । तस्मात् तदा तदा पराणां चमूधाटी भारत हिताय हेतुः भवति ।

तारा – महाराज अहमपि भवतां सेनायां प्रविश्य सैनिकानां हितोपदेशं कुर्यां, क्षतगात्राणां उपचारादिकं करिष्ये । तादृशि कर्मणि माम् आदिशन्तु भवन्तः ।

पुरुषोत्तमः – पुत्रि, अहं सुप्रीतः सुप्रसन्नोऽस्मि त्वदीयं भावनाया । त्वं कुत्रापि मा गच्छ । पुरुषोत्तमे जीवतिसति नारीणां युद्धप्रवेशः न भवति । ये पुरुषाः वेषभूषादिभिः रथ्यांसु हिण्डमानाः सन्ति तान् सर्वान् अहं युद्धे आनेतुं इच्छामि । किन्तु भवादृशीनां भगिनीनां युद्धभूमि प्रवेशः मा भवतु । पुरुषाणाम् अभावे स्त्रीणां युद्धभूमि प्रवेशः अनिवार्यः भवति, नत्वन्यथा । त्वम् अत्रैव ससुखं अन्तःपुरे निवस । अपिच करणीयानि अनेकानि सन्ति तानि कुरुष्व । गच्छ पुत्रि अन्तः गच्छ । (तारा अन्तः गच्छति)

दौवारिकः – (प्रविश्य नमस्कृत्य) अयि महाराज कापि सुन्दरी रजनी नाम्नी भवन्तं द्रष्टुं द्वारि तिष्ठति ।

पुरुषोत्तमः – तां अनुपदं प्रवेशय, गच्छ ।

दौवारिकः – यथाज्ञापयति देवः । (इति नमस्कृत्य गच्छति)

(ततः प्रविशति रजनी)

रजनी – (महाराज प्रणमामि । (इति यूनानि पद्धत्या प्रणमिति)

पुरुषोत्तमः – सुस्वागतं भगिनी ।

रजनी – (चकिता) धन्यास्मि महाराज ।

पुरुषोत्तमः – काऽसि वासु ।

रजनी – अहं पारसीका अस्मि ।

अलक्ष्येन्द्रः – भवान् कारणं आरोपयति ।

पुरुषोत्तमः – भवता अहम्भावेन भण्यते, किन्तु न वीरोचितरूपेण ।

अलक्ष्येन्द्रः – कारणं किमिति भवताम् आरोपः ।

पुरुषोत्तमः – भवतः प्रेमिका रजनी मम सकाशं आगत्य मम हस्ते रक्षाबन्धनं विधाय, भवन्तं न हन्तुं वरमभिलषितवती आसीत् । अहं दत्तवचनः अभवम् । पश्येदं रक्षाबन्धनम् । (इति हस्तमुद्यम्य रक्षाबन्धनं दर्शयति)

अलक्ष्येन्द्रः – एतस्मात् कारणात् भवान् मां न हतवानस्ति ।

पुरुषोत्तमः – हा सत्यमेव । भवान् चिन्तयतु किमर्थं ग्रीस् देशात् अत्रागतवान् इति । वयं न कदापि भारतदेशं विहाय अन्यदेशाक्रमेण उद्यताः दत्तचित्ताः अभवाम । किमर्थं एतादृशी भावना भारतीयेतराणाम् ? इदं भारतं जेतुं सुकरं न भवति । मया त्वं निर्जितोऽसि किन्तु न मारितोऽसि । यदि त्वं पुनः मया सह योत्स्यसि, तव मरणमेव शरण्यं भवदति । यदि अहं भवता निर्जितः भवेयम् तदा भारताक्रमणं ते असम्भवं भविष्यति । सर्वत्र देशे विक्रमसिंहाः राजानः बहवः सन्ति । ते सर्वेऽपि परवीर भयङ्कराः । यदि त्वं तैस्साकं योध्दुं प्रयतिष्यसे तर्हि तव अस्तित्वस्य संशयः भवता । तस्मात् भवान् अनुपदमेव भारतं सन्त्यज्य तव जन्मभूमिम्प्रति निवर्तस्व प्रियया रजन्यासाकम् । मा भवतु अत्याशावान् । अत्याशा विनाशाय कारणं भवति ।

अलक्ष्येन्द्रः – महाराज पुरुषोत्तम भवतां स्नेहेन महापुरुष लक्षणं अद्य मया अवगतम् । भारतदेशः भूतलस्वर्गः । भवान् देवेन्द्रः । मे गर्वभङ्गः सञ्जातः । मे कामना कुण्ठिता आसीत् । नाहं निवसेयमत्र । मे अनुचरः । निहताः अत्र महति सम्पराये । किं अनया जैत्रयात्रया प्रयोजनम् । मम जीवने अद्यैव प्रथमतः एकं महापुरुषम् अपश्यम् । भारतमिदं महापुरुषाणाम् आयतनम् । सत्यमेव एतादृश महापुरुषैः सर्वत्र भारते भवितव्यम् । मम भारते एकः सुहृत् विद्यते । एहि राजन् एहि, मे सौहार्दं पूर्णमालिङ्गनं ददातु भवान् ।

(इति हस्तौ प्रसारयति)

पुरुषोत्तमः – (हस्तौ प्रसार्य आगत्य तमालिङ्गति) अलक्ष्येन्द्र भवान् अधुना मे आप्तमित्रं जातः ।

अलक्ष्येन्द्रः – महाराज शत्रृः अपि भारतवर्षे स्वागतं प्राप्नोति, परमानन्दं च अनुभवति । अहं मे मातृभूमिं गत्वा भारतदेशोत्कर्षां सर्वेभ्यः जनेभ्यः कथारूपेण प्रवक्ष्यामि नमोवः ।

पुरुषोत्तमः – मे सुहृद अलक्ष्येन्द्र, तव समस्त सन्मङ्गलानि भवन्तु । सुखेन ते बन्धुजनं समागच्छतु भवान् । (इति हस्तमुद्यम्य आशिषः ददाति)

अलक्ष्येन्द्रः – (तथैव हस्तमुद्यम्य प्रयाति)

(नेपथ्ये)

“सर्वेऽत्र सुखित्रः सन्तु । सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु । माकश्चित् दुःखितो भवेत् ॥”

(यवनिका पतति)

*******************************************************

.

]