[[राष्ट्रायेदम् Source: EB]]
[
॥ राष्ट्रायेदम् ॥
अन्तरात्मनिभ संस्कृतिर्युतम्। वेदवाङ्मयपुनीतदेहिनम्।
सर्वशास्त्रनुत भव्यजीवनम्। राष्ट्रपूरुषमहं प्रणमामि ॥
(नान्द्यन्ते)
(ततः प्रविशतः द्वौ विद्यार्थीनौ, तौ द्वौ कुर्च्योः उपविष्ठौस्तः नेपथ्ये हम्पी वैभवमुद्दिश्य गानं भवति तौ श्रुणुतः)
गीतम् (कल्याणी रागे)
प्राचीनान्ध्रावनि संस्कारिणी । भारतजनताहृदयस्पन्दिनी
पम्पातीरे शिल्पितहम्पी । एकाऽक्षतस्वप्नकथेवाऽभाति ध्रु.
विरुपाक्षार्थिक सम्भारेण । विद्यारण्याशीर्वादबलेन
हरिहर बुक्कोर्वीपति यत्नेन । रचिता पूर्वं साविज्ञानेन 1
प्रस्थर तक्षित जीवनरेखाः । स्मेराङ्कुरविलसित शिल्पाकाराः
चतुराननमानस शिल्पितभावाः । इमे हम्पीयौवनलास्याकाराः 2
स, रि, ग, म, प, द, नि सप्तस्वरशालिनी । श्रीकृष्णराय प्रतिभागायिनी
दिग्गजकविमण्डलकविताजीविनी । भारतसंस्कृति चरमदशा रूपिणी 3
वीणानिक्कण प्रचुरितसङ्गीता । कवितावनिताविरचित हेवाका
नूपुरपदचालन ध्वानितसकलाशा । पूर्वं रेजे मञ्जुलहम्पी लास्याकारा 4
अगणितवौभव तन्मयहम्पीहृदयम् । अधुना शिथिलित भीकरशकलाकारम्
शिल्पं सर्वं जीर्णं भद्रानद्याम् । कपिकुलसङ्केतस्थानं दैवायतनम् 5
आसुर शक्त्या चूर्णितशिल्पाकाराः । भारतजनहृदि मुद्रितभीमाकाराः
कथयति हम्पी प्रकृतिरहस्यं विगलितरूपा । पम्पा भद्रा रक्षित प्राकारा 6
चन्द्रकान्तः – (गीतावसाने) अरे सूर्य अहो सुन्दरम् अतिमधुरं गीतम् । अधुना अत्र गीतोत्पत्तिः कथम् ?
सूर्यकान्तः – अरे चन्द्र अद्य अधुना अस्मदीय विद्यापीठे राष्ट्र येदम्ति नाटकं प्रयोक्तुम्स्मदीय कक्ष्या विद्यार्थिनः अतीव उत्सुकाः भवन्ति । अत्र नाटक प्रदर्शनाय नाटक पुनश्चरणां कुर्वन्ति । तन्नाटकं द्रष्टुं त्वमपि एहि ।
चन्द्रकान्तः – सूर्य, नाटकमेतत् परम् आकर्षणात्मकं भविष्यतीति मे प्रतिभाति ।
सूर्यकान्तः – इदम्र्वाचीन-संस्कृतनाटकविश्वे अनुपमम् अपरूप नाटकम् इति केषाञ्चन मतम् ।
चन्द्रकान्तः – कोऽयम्स्य नाटकस्य कर्ता । अस्य नाटकस्य श्रवणेनैव ज्ञायते सर्वेषां, इदम्र्वाचीननाटकेषु अत्युत्तमं, देशभक्तिप्रचोदकम् इति ।
सूर्यकान्तः – सम्यगुदीरितं भवता । अस्य नाटकस्य कर्ता पण्डित ओगेटि परीक्षित् शर्मा । अयं गीर्वाणान्ध्रभाषाप्रवीणः । अयं संस्कृतभाषायां केवलं लिखति । विंशति तमे शताब्दे अयं साहित्ये सर्व शाखासु सृष्टिमकरोत् ।
चन्द्रकान्तः – हां श्रुतं मया अयं कविः ललित गीता लहरी इति गेय काव्यं विंशति सर्गात्मकं यशोधरा महाकाव्यं, एकोत्तरशत गीतात्मकं सप्तपदी इति अपरनाम्ना प्रसिद्धम् अक्षयगीत रामायणम् इति गेयकाव्यं, सप्तविंशतिनाटकपरिमितं परीक्षिन्नाटकचक्रम् इति नामकं विलिख्य प्रकाशितवान् इति ।
सूर्यकान्तः – अयं एकाकी संस्कृतभाषा प्रचाराय कटिबद्धः लेखिनीद्वारा नवीन सृष्टिं करोति ।
चन्द्रकान्तः – अरे सूर्य नवीन नाटक सृष्ठिं विलोक्य, शृत्वा च मम परमानन्दः भवति। संस्कृतभाषायां सहस्रवर्षेभ्यः, द्विसहस्रवर्षेभ्यः उत त्रिसहस्रवर्षेभ्यः प्राक् यानि नाटकानि वर्तन्ते तान्येव नाटकानि संस्कृताभाषा नाटकानीति आधुनिकेषु दिवशेषु प्रदर्शयन्ते । तानि नाटकानि वारंवारं दृष्ट्वा मे शिरोवेदना भवति यतः दृष्टमेव द्रष्टव्यमिति ।
सूर्यकान्तः – इयं नवीना सृष्टिः । एतावत्पर्यन्तं संस्कृत साहित्ये न केनापि सप्तविंशति नाटकानि लिखितानि । एवं कथने न काप्यतिशयोक्तिः विद्यते ।
चन्द्रकान्तः – सूर्य, अनेन कविना सप्तविंशति नाटकानि त्रिविधा विभक्तानि, पौराणिकानि, ऐतिहासिकानि, सामाजिकानीति ।
सूर्यकान्तः – एकैक नाटकस्य प्रदर्शनवेलायाः कालावधिः अर्ध घण्टायाः आरभ्य सार्थघण्टावादनपर्यन्तं भविष्यति ।
चन्द्रकान्तः – एहि गच्छावः नाटकं द्रष्टुम् ।
सूर्यकान्तः – अपिच शुणु, इदं नाटकं भारतेतिहासस्य चरम हिन्दुसाम्राज्य स्थापयितॄणां मानसिक आन्दोलनास्थितिमुद्दिश्य कृतम् । तस्मिन् समये कथं ते देशमुद्दिश्य देशसमैक्यता सिद्ध्यर्थं राष्ट्रायस्वाहा राष्ट्रायेदं न मम इति धनकनकवाहन वस्तुचयं हिन्दुसाम्राज्यस्थापनाय केनमार्गेण समर्प्रितवन्तः तानुद्दिश्य कृतम् इदं नाटकम् ।
चन्द्रकान्तः – चरित्रहीनः मानवः, अज्ञात भारतेतिहासमानवः कीटकाऽपेक्ष्या अधमः नीचः इति मे मतिः ।
सूर्यकान्तः – छत्रपतिशिवाजीमहाराजः विजयनगरसाम्राज्यं श्रुत्वा विलोक्य च तेन उत्तेजितः हिन्दु साम्राज्यदिपम् अशामितं विधातुं स्वतः हिन्दुसाम्राज्य स्थापनाय प्रारभे । किन्तु तस्य महाराजस्य शक्तिः महाराष्ट्रपरिमिता आसीत् । तथापि तस्य राज्ञः भावना हिन्दुसाम्राज्यस्थापना एव ।
चन्द्रकान्तः – (प्रकोष्ठ घटिका यन्त्रं विलोक्य) अरे अतिक्रान्त वेला भवति एहि गच्छावः । (इति निर्गतौ)
(तुङ्गभद्रातीरं सन्ध्यासमयः प्रशीतल वातपोतकाः सञ्चरन्ति । ततः प्रविशति हरिहरबुक्करायौ, हरिहरः एकस्मिन् प्रस्थरे बुक्करायः अनस्यां शिलायाम्पविष्टौ भवतः संलापं च कुरुतः ।)
हरिहरः – अनुज बुक्कराय इदं तुङ्गभद्रातीरम् । अस्मिन्नेव तीरे आवाम्पविश्य भारतदर्शनं कुर्याव ।
बुक्करायः – अग्रज हरिहर, अत्रैवोपविश्य भारतदर्शनं केवल संस्मरणेन करिष्यावः ।
हरिहरः – अयमेव योग्यः प्रदेशः । तथैव कुर्याव । भारतदेशे अनेक प्रदेशाः सन्ति ।
बुक्करायः – सन्ति किन्तु तेषुतेषु प्रदेशेषु वैशिष्ट्यपूर्णाः भिन्नविभन्न भाषाः सन्ति ।
हरिहरः – भवन्तुनाम विभिन्नभाषाः, न कापिहानिः विद्यते तासाम्स्तित्वेन ।
बुक्करायः – भाषा वैविध्येन देशसमैक्यता न भवति ।
हरिहरः – भाषाः विभिन्नाः अपि साम्प्रदायस्तु एकः भवति ।
बुक्करायः – साम्प्रदायः एकः एव किन्तु प्रजासु तरतमभेदः भवति ।
हरिहरः – अरे सृष्ट्यां तरतमभेदः वर्तते । भाषायामपि गुणानुरूपेण वर्णेषु वर्गीकरणं सर्वत्र प्रपञ्चे दृश्यते ।
बुक्करायः – अग्रज जानामि तत् विषयम् । किन्तु त्वं सविस्तरं प्रतिपादय ।
हरिहरः – सर्वत्र प्रपञ्चे दृश्यमानभाषासु अचः, हलः, ऊष्माणः, तालव्याः, मूर्धन्याः अनुसासिकाः इति, अचः प्राणाः इति हलादयः शरीराणीति अचामभावे शरीरसदृश हलानां शवाकृतिः भवतीति पारमार्थिकभावना सन्दृश्यते । किन्तु विभिन्नत्वे विद्यमाने सति सर्वेवर्णाः मिलित्वा भाषास्वरूपं भाषासौन्दर्यं भावप्रकटनां कुर्वन्ति । यदि एकः वर्णः नष्टः भाषामृता भविष्यति । तस्मात् यथा सर्वे वर्णाः मिलित्वा भाषां प्रवर्धयन्ति तथैव सर्ववर्णाः विनावैरं विना तरतम भावं भाषा स्वरूप देशं प्रवर्धयन्तु इति ममाभिप्रायः ।
बुक्करायः – अधुना सङ्घशक्तिः आवश्यकी । सा शक्तिः कथं भविता इति प्रश्नः ।
हरिहरः – अरे सर्वत्र सृष्ट्यां भेदाः सन्ति । किन्तु इदं जगत् चलत्येव । पश्य पञ्चभूतेष्वपि तरतमभेदः विद्यते किन्तु ते सर्वे विनावैरं मिलित्वा यथाक्रमं ते तेषां कर्म कुर्वन्ति ।
बुक्करायः – सर्वे सर्वमपि भेदभावं सन्त्यज्य, वयं मरिष्यामः किन्तु राष्ट्रमिदम् अजरम् इति मत्वा स्वीय सर्व समारम्भान् राष्ट्राय स्वाहा राष्ट्रायेदं, न मम इति बुध्या समर्पणां करिष्यन्ति तर्हि देशः सौभाग्येन नर्तिष्यति ।
हरिहरः – अस्मदीय पूर्वजाः देशहिताय केवलं सर्वमपि चक्रुः ।
बुक्करायः – सर्वथा अस्मदीयपूर्वजाः राजानः कवयः शास्त्रकर्तारः देशसौभाग्यम् अवर्धयन् । तस्मादेव प्रपञ्चे विद्यमानानां सर्वेषां प्राणिनां दृष्टिः भारतोपरि विद्यते । तदर्थमेव ओतप्रोत ओघः इव सहस्रवर्षेभ्यः अस्मिन्देशे परदेशीयधाटयः आपतन्ति ।
हरिहरः – भारतवत् अन्यत्र मानवस्य जीवनसौकर्यं न भवति । अन्येषां देशाः भारतवत् सस्यशालिनः न भवन्ति ।
बुक्करायः – सर्वत्र तुषारसङ्घातधराभाति । तस्मात् कारणात् तत्र सस्यश्यामलतायाः अभावः भवति ।
हरिहरः – भारतवर्षे वसुन्धरा नदीनदैः विलसति ।
बुक्करायः – तस्मादेव अन्यदेशीयाः अत्राऽगच्छन्ति ।
हरिहरः – न केवलं जीवनं यापयितुं, किन्तु ज्ञानसमुपार्जनार्थं मानवत्वं दैवत्वं च अभ्यस्तुम् अत्राऽगच्छन्ति ।
बुक्करायः – यदि ते अभ्यसन्ति भारतीयतां तर्हि समीचीनमेव । तथा अभूत्वा अस्मदीय संस्कृतिमूलभूतं देवायतव समुदायं, विद्यालयान् भस्मावशेषं विधाय सकलनवरत्नसञ्चयं सुवर्णराशिं च नीत्वा अस्मत् देशं शक्तिहीनं दरिद्रायुतं कुर्वन्ति ।
हरिहरः – सोदर त्वया सम्यक् वितर्कितम् । देशे बहवः एवं विषयमुद्दिश्य न चिन्तयन्ति ।
बुक्करायः – सर्वोऽपि स्वार्थीभूत्वा सङ्घशक्तिं विस्मृत्य विसृज्य च जीवति ।
हरिहरः – अस्मात् कारणात् अस्मिन् देशे परदेशीयानां प्रवेशः जातः ।
बुक्करायः – ते पाशविक जीवनाः । तेषाम्चारव्यवहारेण अस्मदीय परम्परा नष्टा भवति। वयं भारतीयाः पुनर्जन्मनि विश्वासिनः ।
हरिहरः – भवन्तु नाम तेषां विश्वासादयः । किन्तु ते तेषां विश्वासाय सर्वं देशं परावर्तयितुं प्रयतन्ते । प्रजासु देशभक्तिः क्षीणाभूत्वा पशुप्रायता अधिका भवति । तां भावनां निवारयितुं कः प्रयत्नः कर्तव्यः इति प्रश्नः ।
बुक्करायः – तस्मात् अहं चिन्तयामि हिन्दुमहासाम्राज्यस्थापना कर्तव्या इति ।
हरिहरः – गुप्तचक्रवर्तिनः स्वर्णयुगम् अकल्पयन् । स युगः भारतवर्षे स्वर्ण युगः जातः ।
बुक्करायः – हर्षचक्रवर्तीः अपि हिन्दुसाम्राज्यस्थापनाय बहुधा प्रायतत ।
हरिहरः – बोद्धजैनचार्वाकादिधर्माः हिन्दुधर्मवृक्षस्य विस्तृत शाखाः एव भवन्ति ।
बुक्करायः – तस्मात् भारतदेशीयसर्वधर्मैः मिलित्वा राष्ट्राय स्वाहा राष्ट्रायेदं न मम इति बुध्या अहर्निशं प्रयत्नः कर्तव्यः त्यागः कर्तव्यः ।
हरिहरः – भारतवर्षे सकल प्रदेशाः विभिन्नभाषाभूषिताः अपि आत्मरूप संस्कृत्या ते प्रदेशाः सम्बद्धाः इति प्रथमतः श्री आद्यशङ्कराचार्यवर्यैः प्रतिपादितम् । ते भारतं चतुर्मख ब्रह्मा इव विलोक्य चतुर्वेदमठान् संस्थाप्य धर्मसंस्थापनमकुर्वन् । ते क्रान्तदर्शिनः तेभ्यः नमांसि । शङ्करः शङ्करस्साक्षात् नात्र लेशोऽपि संशयः ।
बुक्करायः – तस्मात् मम एवं प्रतिभाति सर्वदा देशरक्षणा शास्त्रबलेन धर्म चिन्तनया परम्परागत शिक्षणया केवलं भवितव्या इति । साम्रज्य स्थापनाय तपश्शक्तिः आवश्यकी । सा शक्तिः अस्माकं कथं सम्प्राप्ता भविष्यति ?
हरिहरः – सोदर मम अधुना एका भावना विद्युदिव मनसि स्फुरति । पवित्र तुङ्गभद्रानदीतीरे साम्राज्यनिर्माणम् अवश्यं भवितव्यमिति ।
बुक्करायः – बहमनीसुल्तानाः दक्षिणदेशसम्पच्चयं देवायतनानि नेतुं नाशयितुं च प्रयन्तते ।
हरिहरः – यदि वयं तां शक्तिं न रोत्स्यामः तर्हि सर्वमपि दक्षिणभारतम् उत्तरभारतमिव ध्वस्त दैवायतनं भविष्यति । सर्वेऽपि अन्य धर्मानुयायिनः बलवत्तमेन आशारूपेण भारतं परिवर्तितुं प्रयतन्ते ।
बुक्करायः – यदि अन्य संस्कृतिः भारते स्थानं सम्पादयिष्यति तर्हिं भारतं सूकरपरीतम् अत्यन्तपाशविकं केवल भौतिकजीवनतत्परं भविष्यति । सर्वोऽपि देशः पशुदेशः भविष्यति । विचार्यमाणे देहः रक्तौष्णिक्येन प्रज्वलति । वयं कृतघ्नाः भवामः प्राचीनानाम् अस्मदीय महानुभावानाम् ।
हरिहरः – प्रारब्धमानं हिन्दुसाम्राज्यम् आगामिनां भारतीय सोदराणां महावीराणां मार्गदर्शकं स्फूर्तिदायकं च भविष्यति । तुङ्गभद्रा परिघा इव अस्मदीय साम्राज्यं रक्षिष्यति ।
बुक्करायः – तुङ्गा महोत्तुङ्गतरङ्गिणी भूत्वा आनन्देन शत्रृवेगात् साम्राज्यं रक्षिष्यति ।
हरिहरः – प्रथमतः साम्राज्य स्थापनायाः स्थलनिर्णयः कर्तव्यः ।
बुक्करायः – यदि समयः आसन्नः भविष्यति तदा अप्रयत्नेन स्थलनिर्णयः भविष्यति ।
हरिहरः – सोदर आवयोः भावनाः एकसूत्रबद्धाः इति भान्ति ।
बुक्करायः – अवश्यम् अस्मदीय मनोरथः फलिष्यति । एहि गच्छावः । तपस्सम्पन्नं महापुरुषं वेदमूर्तिं शोधयिष्यावः । जयहिन्द ।
हरिहरः – जयहिन्द । (इति सोदरम्लिङ्गति)
(यवनिका पतति)
************************************************************
.
द्वितीयं दृश्यम्
(विद्यारण्यः तुङ्गभद्रायां स्नात्वा विरूपाक्षदर्शनार्थं विरूपाक्षालयम् आगच्छति (नेपथ्ये अयं मन्त्रः पठ्यते) शन्नो मित्रश्यं वरुणः । शन्नो भवत्वर्यमा । शन्नो इन्द्रो बृहस्पतिः । शन्नो विष्णुरुरुक्रमः । नमो ब्राह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मा मवतु । तद्वक्तारमवतु । अवतुमाम्। अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ।)
विद्यारण्यः – अहो इदं तुङ्गभद्रातीरं परब्रह्मणः भूतल निवास स्थानम् । तुङ्गास्नानं विरूपाक्षदर्शनम् अस्मिन् प्रदेशे जीवनम्, एतस्मात् अन्यत् किमपेक्ष्यते भौतिक प्रपञ्चे । अयं विरूपाक्षः अतीव शक्तिसम्पन्नः । अस्य सर्व आगराणि घनकनकवाहन वस्तुचयैः सम्पूर्णानि । परदेशीयाः अस्मत् गृहं प्रविश्य गृहं ज्वालयन्ति । अस्मत् गृहं कलुषितप्रायं कुर्वन्ति । भारतीय संस्कृतिप्रतीकान् देवालयान् नाशयन्ति । सम्पच्चयं मुष्णन्ति । यदि एतादृशी परिस्थितिः तर्हि विरूपाक्षस्य सर्वसम्पत् नाशनं भविष्यति । तस्मात् अनेनधनेन भारतीय संस्कृतिसंरक्षणार्थम् एकं महासाम्राज्यं संस्थाप्य परदेशीय धाटिभ्यः देशं रक्षितुं प्रयतिष्यामहे ।
(एकत्रोपविश्य) अहं तु सन्यासी धर्मसंस्थापकः । न मे शक्तिः विद्यते राज्यं पालयितुम्। राज्य पालनार्थं क्षात्र शक्तिः अपेक्षनीया । रजोशक्तिः पालनदक्षा भवति । सन्यासिनां राजसं कुतः । उत्तरभारते देवालयाः धर्म संस्थापनाश्च नाशनं प्राप्ताः परदेशीयानां पाशविक शक्त्या । चाणक्य सदृशाः चन्द्रगुप्तसहाय्येन स्वर्णयुगं संस्थापयामासुः । आदिशङ्करः धर्मतः भारतं सर्वम् एकमिति प्रचारयामास । तथापि सर्वोऽपि जनः आत्मानं प्रभुं सर्वशक्तिवन्तं मनुते । यदि सर्वैरपि मिलित्वा स्थीयते तर्हि देशः क्रियाशक्तिसम्पन्नः भविष्यति । यदि शक्तिसम्पन्नाः हिन्दुभावसम्पन्नाः राजानः स्युः तेषाम्हं साहाय्यकः मार्गदर्शी च भवेयम् । भारतराष्ट्र हिन्दुसाम्राज्यं संस्थाप्य भारत संस्कृति परम्परां परिरक्षयेयम् । (इति देवालयस्य प्राङ्गणे उपविशति चिन्तया) अहो तदानीम्हं शान्त्या वेदभाष्यं विलिखेयम् । अस्मदीय पूर्वजाः अनेक कष्टानि अनुभूय अस्माकं बृहत्तमं संस्कृति दत्वा तद्रक्षणे अस्मान् नियुज्य गताः । संस्कृतिरक्षणम्स्मदीय कर्तव्यं भवति । सर्वदा बुद्धिबलेन वाणिज्य बलेन, कृषि बलेन देशं सर्वसम्पन्नं सुसपन्नं कर्तव्यम् । अधुना क्षात्रमन्त्रशक्ती अपेक्षेते । (इति मौनेन उर्ध्वमुखः शून्ये पश्यति)
(ततः प्रविशतः हरिहर बुक्करायौ)
हरिहरः – (विद्यारण्यस्वामिनं विलोक्य सोदारेण बुक्करायेन) सोदर एनान् विद्यारण्य स्वामिनः पश्य ।
बुक्करायः – परमं भाग्यम् इदम् । (इति द्वावपि तस्मै प्रणमतः)
विद्यारण्यः – मनोरथ सिद्धिरस्तु । (इति आशिषः ददाति)
हरिहरः – अयि भोः स्वामिनः तत्र भवतां सम्बन्धः अस्माकम् अपेक्षणीयः सर्वदा ।
बुक्करायः – अयं समावेशः मङ्गलमयः भवतु इति भवद्भ्यः आशिष कामयामहे ।
हरिहरः – महात्मन् वयं पवित्र भारतवर्षं परेषां चमूभ्यः संरक्षितुं हिन्दुसाम्राज्यं च संस्थापयितुम् उद्युक्ताः ।
बुक्करायः – तादृश साम्राज्य स्थापनाय ब्राह्मीमयमूर्तिः आवश्यकः ।
हरिहरः – यदि यष्मादृशानां सहायः भवति तर्हि हिन्दुसाम्राज्यस्थापना अचिरादेव भविष्यति ।
विद्यारण्यः – युष्मदीय भावना अस्माकं मान्या भाति । जगति सर्वेपि, न केवलं जगति, खगोलेऽपि परस्पराकर्षण सञ्जाताजीवनाः भवन्ति ।
हरिहरः – अस्मदीय सकाशे न किमपि धनं विद्यते साम्राज्यस्थापनाय ।
बुक्करायः – साम्राज्य स्थापनाय धनमावश्यकं भवति ।
हरिहरः – कायशक्तिः अस्मत्सकाशे विद्यते । अधुना अपेक्ष्यते मे धनशक्तिः ।
बुक्करायः – न केवलं मेधाशक्तिः किन्तु लक्ष्मीकटाक्षश्च अपेक्ष्यते ।
विद्यारण्यः – अयि सोदरौ, भवतोः भावनया अहं परं सन्तुष्टः अस्मि । आवयोः भावनातरङ्गाः समानमार्गे एकसूत्रे प्रवहन्ति । शृण्वन्तः भवन्तः । यदि परदेशीय शक्तयः आगत्य दक्षिण हिन्दुस्थानं नाशयिष्यन्ति तर्हि सर्वविरूपाक्ष धनसम्पत्तिः नष्टा भविष्यति । तस्मात् तदपेक्ष्या हिन्दुसाम्राज्यस्थापनाय तदीय सर्वधनम् उपयुज्येत तर्हि देशरक्षणं भविष्यति । अस्मिन् विषये सर्वोऽपि पौरः तनमनधनचयं राष्ट्राय स्वाहा राष्ट्रायेदं न मम इति वदन् अर्पयति तर्हि हिन्दुसाम्राज्य स्थापना भविष्यति । नोचेत् देशः सङ्कटे पतिष्यति ।
हरिहरः – कुत्र कदा सम्राज्यस्थापनायाः कोणशिला समारम्भः भविष्यति, भवन्तः सूचयन्तु ।
विद्यारण्यः – अयि सोदरौ शृणुताम् । अहं कथयामि एकां वृत्तघटनाम् ।
हरिहरः – केयं घटना स्वामिन् ।
बुक्करायः – कुतूहलयति आवाम् ।
विद्यारण्यः – अद्य प्रातः मयि तुङ्गायां स्नातुं गच्छति सति तत्र विरूपाक्ष देवालयानुत्तरेण एकः शशकः एकः कुक्कुरः कलहायमानौ आस्ताम् ।
हरिहरः – ततस्ततः ।
विद्यारण्यः – कुक्कुरः शशकयोर्मध्ये महान् कलहः सञ्जातः ।
हरिहरः – ततः किमभूत् ।
विद्यारण्यः – अन्ततः सः अल्पप्राणी शशकः तं कुक्कुराधमं द्रावयामास ।
बुक्करायः – ततस्ततः ।
विद्यारण्यः – ततः किं यत् भवितव्यं तत् वृत्तम् ।
हरिहरः – किमत्राश्चर्यं भोः ।
विद्यारण्यः – भवद्भ्यां न ज्ञातम् अत्र विद्यमानरहस्यम् ।
बुक्करायः – नहि ।
विद्यारण्यः – शृणुतां भवन्तौ । कुक्कुरः बलवान् शशकः अल्पप्राणी । सहजतया कुक्कुरः शशकं द्रावयित्वां तं व्यापाद्य भक्षितुं समर्थः । किन्तु अत्र व्यत्यस्तं जातम् । अनया घटनया स्पुरति मे मनसि एतत् स्थलं हिन्दुसाम्राज्यस्थापनाय योग्यं भविता इति । अपिच वयं पाशविक शक्तीः सुनायासेन जेष्यामः । अनया हिन्दुसाम्राज्य स्थापनया वयं दक्षिणभारतं रक्षिष्यामः । इयं हिन्दुसाम्राज्य स्थापना अस्मदनन्तरम् आगतानां योद्धानां भारतवासिनां स्फूर्तिदायिनी भविष्यति । तस्मात् यत्र कुक्कुरः पलायितः शशकेन तत्रैव साम्राज्यस्थापना कर्तव्या शुभमुहूर्ते उत्तरायण पुण्यकाले रथसप्तमी दिवसे ।
हरिहरः – स्वामिन् अस्यां कथायां भविष्यमाणं सर्वं भवद्भिः संसूचितम् ।
बुक्करायः – आवयोः, श्रवणमात्रेण एतादृशीभावना जाता यत् हिन्दु महासाम्राज्यस्थापनया केवलं शात्रवः पराजिताः इति ।
विद्यारण्यः – वेदोक्तरीत्या प्रथमतः भूमिपूजा कर्तव्या । अनन्तरं श्री विरूपाक्षस्य महन्यासपूर्वक रुद्राभिषेकः कर्तव्यः इति मे सङ्कल्पः तस्मात् त्वर्यताम् ।
हरिहरः – सर्वमेतत् सर्व ग्रामीणानां समक्षं भविता ।
बुक्करायः – अधुना अस्माकं सङ्घशक्तिः विद्यते ।
हरिहरः – मन्त्रशक्तिः अपि विद्यते । अधुना केवलं लक्ष्मीशक्तिः अपेक्षणीया विद्यते ।
विद्यारण्यः – अयि बुक्करायहरिहरौ गृह्णीतां विरूपाक्ष धनागार कुञ्चिकाः । (इति तयोः निकटे निक्षपति)
हरिहरः – श्री विरूपाक्षस्य सर्वं धनं साष्ट्रसंरक्षणार्थं केवलं आवां व्ययी कर्तुं प्रयतिष्यावः ।
विद्यारण्यः – सर्वैरपि मन्त्रोयम्च्चारणीयः पवित्रबुध्या यत् राष्ट्राय स्वाहा राष्ट्रायेदं न मम इति ।
(सर्वेऽपि राष्ट्राय स्वाहा राष्ट्रायेदं न मय इति एक स्वरेण उच्चरन्ति हस्ते हस्तं निक्षिप्य)
हरिहरः – जय विरूपाक्ष । (इति विद्यारण्यस्वामिने नमस्करोति)
बुक्करायः – जय विरूपाक्ष । (इति विद्यारण्य स्वामिने अग्रजाय हरहराय च नमस्करोति)
विद्यारण्यः – सर्वेषां सन्मङ्गलानि भवन्तु । (इति आशिषः प्रयच्छति)
(यवनिका पतति)
********************************************************
.
तृतीयं दृश्यम्
(तुङ्गभद्रा नदीतीरे एकस्मिन् ग्रामे ग्रामीणाः रामः, कृष्णः, शिवः, गणपति प्रभृतयः ग्रामाध्यक्षेण भाषणं कुर्वन्तः सन्ति)
ग्रामाध्यक्षः – अयि राम् भारतवर्षं सर्वमपि नाशयितुं एते पाशविकाः प्रयतन्ते ।
रामः – प्राभो, कः भारतं नाशयिष्यति । भारतं नाशयितुं भौतिकशक्तिः अशक्ता भविष्यति ।
ग्रामाध्यक्षः – तथा मावद अन्यदेशीय पाशविकाः सर्वथा प्रयतन्ते ।
रामः – एभिः न किमपि क्रियते । ते केवलं मक्षिकाः मशकाः ।
कृष्णः – अरे त्वं न जानासि । उत्तरभारते देवायतनानि सर्वाणि परदेशीय चमूधाटिभिः नाशयितानि उर्वर्यां स्थापितानीति किंवदन्ती प्रचलति ।
शिवः – एतदपि श्रुतम् । सौराष्ट्रे सोमनाथं स्थल शयनम् अकुर्वन् इति केचन यात्रिकाः कथयन्ति ।
गणपतिः – नलन्दा तक्षशिला इत्यादि विद्यासंस्थाः बहुमास पर्यन्तं वैश्वानरं अतर्पयन् इति कोऽपि परिव्राजकः जगाद ।
ग्रामाध्यक्षः – अनेके विषयाः संश्रूयन्ते अस्माभिः । न किमपि प्रतिरोध्दुम् अस्माभिः क्रियते ।
गणपतिः – अधुना अस्माभिः श्रुतम् । इतः पूर्वं न किमपि श्रुतं अस्माभिः ।
शिवः – वयं अस्मदीय ग्रामे एवं विचारयामः, एवमेव सर्वत्र भारतवर्षे सर्वोऽपि यदि चिन्तयेत् तर्हि सर्वत्र हिन्दुसाम्राज्यस्थापना विषयकविप्लवः भविष्यति ।
कृष्णः – केषाञ्चन जीवितमुद्दिश्यैव चिन्ता, अन्येषां धनचिन्ता ।
रामः – साधूक्तं न कोऽपि चिन्तयति हिन्दुसङ्घटनामुद्दिश्य । अस्मदीय देशे यदि हिन्दूनां सङ्घटना भवति तर्हि भारतं नाशयितुं कस्य समीपे शक्तिः भविष्यति ।
ग्रामाध्यक्षः – अयि राम एते पाशविकाः भारतीय सम्पद्भ्यः मोहिता सर्व सम्पच्चयं गृहीत्वा भारतं नाशनं कृत्वा गच्छन्ति ।
रामः – सर्व सम्पच्चयं चोरयित्वा ते अस्मात् देशात् नयन्ति ।
कृष्णः – तथा करणमयोग्यम् । ते अस्माभिस्साकं सुखजीवनं यदि कुर्युः तर्हि तान् स्वागतपूर्वकं वयं आह्वयिष्यामः ।
शिवः – स दुरात्मा सोमनाथस्य लिङ्गं नीत्वा स्वप्रासादस्य सोपानमार्गे निक्षिप्तवानिति प्रजानुमेयः ।
गणपतिः – ते सोमनाथपुरोहिताः तान् पशून् करुणान्तरङ्गाः अतिदया दाक्षिणाभ्यां प्रार्थयामासुः तल्लिङ्गं प्रतिग्रहीतुं, किन्तु ते दुष्टाः निर्दयाः भूत्वा तान् ब्राह्मणान् अताडयन् ।
ग्रामाध्यक्षः – ते पाशविकशक्तिशालिनः न श्रोष्यन्ति । तेषां जीवनं पशुप्रायं स्वार्थयुतं भवति ।
रामः – मूर्खाः नाशने तप्तराः न किन्तु सहृदयेन जीवितुं, शक्ताः ।
कृष्णः – ते रक्तपायिनः जलूकाः । ते क्रौर्यस्य प्रतिरूपाः । न तेषां बुद्धिबलं विद्यते ।
शिवः – ते भारतावनै जनान् हत्वा भारतात् धनलक्ष्मीं अमुष्णन् ।
गणपतिः – सर्वत्र देशे एवमेव पचलति । ग्रामाधिपाः महाराजानः किं कुर्वन्ति ? ते स्वपन्ति किम् ?
ग्रामाध्यक्षः – ग्रामाध्यक्षाणां मध्ये, महाराजानां मध्ये अनन्त मनोवैषम्यानि सन्ति । सर्वभारतं न केषामपि दृष्टिपथं समायाति ।
कृष्णः – एकस्मात् प्रदेशात् प्रदेशान्तरं गन्तुं सर्वेषा दुष्करं भवति । कथं एका भावना सर्वव्याप्ता भविष्यति ।
शिवः – सर्वत्रापि राजानः स्वीय राज्यं इति केवलं चिन्तयति न किन्तु भारतराज्यमिति ।
ग्रामाध्यक्षः – भवता निगदितं साधुरेव । किन्तु पश्य भारतीयानां एकात्मता भवितुं कस्याश्चन शक्तेः आविर्भावः आवश्यकः ।
शिवः – एकवारं सर्वत्रभारते युगपत् एकविषयमुद्दिश्य कथनम् अतीव दुष्करं भवति ।
रामः – अश्वयानेन वार्ताहरान् सर्वत्र सम्प्रेष्य सङ्घटना मन्त्राः प्रसारयितव्याः ।
कृष्णः – एतत् दुष्करं भविष्यति ।
गणपतिः – दुष्करं भवतीति मावद । कुरु । कारय दर्शय । चन्द्रगुप्तः कथं सुवर्णयुगं कृतवान् । हर्षवर्धनः कथं विशाल साम्राज्यं संस्थापयामास ।
रामः – सर्वेण देशभक्तेन भवितव्यम् ।
कृष्णः – अस्मत् देशे अन्तश्शत्रवः सन्ति । ते स्वार्थाय परानाश्रयन्ति देशं नाशयन्ति ।
शिवः – यदि यः कश्चन राजा हिन्दुसाम्राज्यं स्थापयितुं शक्तः भवेत् वयं सर्वे तेषांराज्ञां सैनिकाः भवेम ।
गणपतिः – यदि तुङ्गभद्रा समीपे हिन्दु साम्राज्य स्थापना भविष्यति तर्हि वयं साम्राज्याय मनोवाक् कायकर्मभिः सर्वं देशहिताय त्यागं कुर्याम इति मे चेतः परं नर्तते ।
ग्रामाध्यक्षः – साम्राज्य स्थापानाय सैनिकबलमत्यावश्यकं भवति । वयं ग्रामीणाः सर्वे सैनिकाः भविष्यामः ।
रामः – वयं सर्वे चिक्रोडभक्तिः इव अस्मदीयं सर्वं तनमनधनानि च मातृभूमिकृते अर्पणं कुर्याम ।
कृष्णः – राजा उत, शासकः सर्वदा स्वार्थरहितः भूयात् ।
ग्रामाध्यक्षः – वयं सर्वे श्वः प्रभाते हरिहरस्य समीपं गत्वा सर्वं भणिष्यामः ।
गणपतिः – धनमूलमिदं जगत् प्रथमतः वयं सर्वे मिलित्वा धनसञ्चयं कुर्मः । अनन्तरं तत् धनसञ्चयं गृहीत्वा हरिहर समीपं गच्छेम ।
शिवः – हरिहरः अनेन धनेन किं करिष्यति । प्रथमतः भारतीयेषु आत्मशक्तिः यदि श्यात् तया शक्त्या आत्मसकाशे विद्यमान परिकरैः धनसञ्चयैः वयं देशं रक्षिष्यामः ।
ग्रामाधिपः – यथा श्रीरामचन्द्रस्य वशिष्ठः आसीत्, चन्द्रगुप्तस्य चाणक्यः आसीत् तद्वत् हरिहरस्यापि एकः प्रज्ञाचक्षुः वेदपारगः भवितव्यः ।
गणपतिः – वयं सर्वे हरिहरेण बुक्करायेन सार्थं भाषयिष्यामः । अस्मदीय भाषणेन अत्र न किमपि प्रयोजनं भवति । उत्तिष्टत गच्छामः । (इति सर्वे उत्थाय गच्छन्ति)
(यवनिका पतति)
*******************************************************
.
चतुर्थं दृश्यम्
(नेपथ्ये विद्यारण्यसाहायेन हरिहरः हिन्दुसाम्राज्यस्थापनां कुर्यात्,बुक्करायः तयोः दोहदं कुर्यात्, हरिहरः राजाभूयात्, विद्यारण्यः मन्त्रित्वं प्राप्नुयात्, हिन्दुसाम्राज्यं शरदां शतं जीवेत् । बुक्कराय हरिहर विद्यारण्याः प्रविशन्ति)
हरिहरः – स्वामिनः श्रुतं किं भवद्भिः जनानुरागः प्रजानुमोदश्च ।
विद्यारण्यः – सर्वत्र हिन्दूसाम्रज्यस्थापना कर्तव्या इति घोषणा संश्रूयते ।
(ततः प्रविशति ग्रामाध्यक्ष, राम, कृष्ण शिव, गणपति प्रभृतयः)
ग्रामाध्यक्षः – अयि विद्यारण्य हरिहर बुक्कराय महानुभावाः वयं सर्वे युष्मदीय आज्ञाशिरोधारकाः हिन्दुसाम्राज्य स्थापने सहायकाः ।
गणपतिः – वयं तनमनधनसपरिवारं देशरक्षणाय समर्पयितुम् उद्युक्ताः ।
विद्यारण्यः – अयि देशभक्ताः वयं सर्वे मिलित्वा हिन्दुदेश संरक्षणार्थम् । भारतीय संस्कृति रक्षणार्थं प्रयतिष्यामः । यदि भारते प्राचीन परम्परा, वैदिक साम्प्रदायः सङ्गीत कलानृत्य साहित्यादयः भ्रष्टाः भविष्यन्ति, तर्हि भारतनाशनमेव भविष्यति । तस्मत् तत् रक्षणार्थं वयं विरूपाक्ष देवायतनसर्वसम्पदा हिन्दुसाम्राज्यं संस्थापयिष्यामः ।
(सर्वे जय विरूपाक्ष जय विरूपाक्ष इति मुक्तकण्ठं गर्जनां कुर्वन्ति)
बुक्करायः – सोदर अस्मिन् शूभमूर्ते साम्राज्यस्थापनावश्यकानि कानि अपेक्षितानि सन्ति सविस्तरं कथयतु ।
हरिहरः – देशरक्षणार्थं पदातयः पञ्चलक्षपरिमिताः आवश्यकाः । त्रिलक्षपरिमितम् आश्विकदलम् । द्विलक्ष परिमितं गजबलम् संहत्य दशलक्ष परिमितं सैन्यमावश्यकम् भवति।
बुक्करायः – विरूपाक्ष देवालयनवीनकरणम् । सकल मणिगण वस्तुचय संरक्षणं च कर्तव्यम् ।
ग्रामाध्यक्षः – हरिहर, बहुकालानन्तरम् अस्माकं समीचीन सदवकाशः सम्प्राप्तः । श्रीविरूपाक्षः श्रीविद्यारण्यस्वामिनां दुढविश्वासमार्गरूपेण भवतां दृढ सङ्कल्पेन च हिन्दुसाम्राज्य स्थापनाय मार्गमादिदेश । अहं ते चमूनायकः भवितुमुत्सहे । अहं सर्व सैन्यविन्यासं सर्वसंरक्षणं चतुर्विधोपायशिक्षणां च सेन्येभ्यः शिक्षयिष्यामि । अयं मे भारः ।
हरिहरः – सर्वमपि केवलं देशभक्त्या करणीयमिति सर्वं चमूपतीनां निवेदनीयम् अस्ति ।
नायकः – भवतः आज्ञां पालयिष्यामि ।
बुक्करायः – सोदर हरिहर अहं त्वाम् अनुसरन् राज्य व्यवहारादीन् पश्येयम् ।
नायकः – हरिहर प्रथमतः गजशालां वाजिशाला निर्माय सैन्य प्रशिक्षणादिकं च कर्तव्यं विद्यते । तस्मात् तस्मिन् कर्मणि निरतो भवेयम् ।
हरिहरः – भवान् तस्मिन् कर्मणि निरतो भूयात् ।
नायकः – (गच्छति)
बुक्करायः – हरिहर, एतावत्पर्यन्तं स्वप्ननिरूपिताः भावनाः अधुना कार्यरूपे दर्शयितव्याः ।
हरिहरः – सोदर बुक्कराय, अन्यदेशीय चमू अवरुन्धनं विधाय सर्व देशः चारेक्षणैः रक्षयितव्यः अस्ति । आवां राजानः इति विस्मृत्य वयं केवलं देशभक्ताः इति भावनया सामान्य मानव जीवनं निर्वहन्तः देशरक्षणे निरताः भवेम ।
बुक्करायः – सोदर, भवतः आज्ञा मया शिरसा ध्रियते।
हरिहरः – अयि विद्यारण्यस्वामिनः तत्र भवन्तः वेदभाष्यं विनावरोधं प्रशान्त मनसा विलिखन्तु ।
विद्यारण्यः – अयि सोदरौ । श्वः रथसप्तमी । तस्मिन् दिवसे प्रथमतः भूमिपूजनं कोणशिला समारम्भः महन्यासपूर्वकं रुद्राभिषेकश्च कर्तव्यः । तदर्थं सर्वसमारम्भं कारयन्तु । तदनन्तरं अहं वेदभाष्यलिखने बद्धचित्तः भवेयम् ।
हरिहरः – अयि विद्यारण्यमहर्षे श्रीरामचन्द्रस्य वशिष्टमहर्षिः इव, भवन्तः अस्माकं मार्गदर्शकाः अपि च अस्मदीय कुलगुरवः । सत्वरं कारयन्तु भूमिपूजनं रुद्राभिषेकं च ।
विद्यारण्यः –मां अनुसरन्तु भवन्तः । (इति सर्वे गच्छन्ति)
(यवनिका पतति)
************************************************************
.
पञ्चमं दृश्यम्
(नेपथ्ये “भूमिर्भूम्ना द्यौर्वारीणान्तरिक्षं महित्वा,” इति भूसूक्त मन्त्रघोषाः तदनन्तरं “नमस्तेस्तु भगवन् विश्वेश्वराय, महादेवाय, त्र्यम्बकाय, त्रिपुरान्तकाय, त्रिकाग्निकालाय, कालाग्निरुद्राय नीलकण्ठाय, मृत्युञ्जयाय, सर्वेश्वराय, सदाशिवाय, श्रीमन्महादेवाय नमः” इति रुद्राभिषेक घोषणाश्च संश्रूयन्ते)
(ततः प्रविशन्ति हरिहर बुक्कराय विद्यारण्यस्वामिनः अन्ये च पौराः, हरिहरः सिंहासने उपविशति, बुक्कराय विद्यारण्यदयः पार्श्वे विद्यमान पीठेषु उपविशन्ति, तदितराः उभयतः श्रेण्यां तिष्ठन्ति, तत्र पीठोपरि न्यस्तं खङ्गं श्रीविद्यारण्यः गृहीत्वा हरिहर कटि प्रदेशे बध्नाति, अपि च शिरोवेष्टनं गृहीत्वा हरिहरस्य शीर्षे निक्षिपति, अन्येच मन्त्राक्षतान् पुष्पाणि च गृहीत्वा हरिहरोऽपरि विकिरन्ति ।)
विद्यारण्यः – “ध्रुवन्ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ।” (इति हरिहर बुक्कराय नायकानां उपरि मन्त्राक्षतपुष्पाणि विकिरति विद्यारण्यः । सर्वेऽपि पुष्पाक्षतान् विकिरन्ति । एकैकशः सर्वे अन्तः गच्छन्ति वैश्वानरसान्निध्यं, मन्त्रोच्चारणं कुर्वन्ति) चित्तञ्च स्वाहा । चित्तायेदं न मम । चित्तिश्च स्वाहा । चित्या इदं न मम । आकूञ्च च स्वाहा । आकूतायेदं न मम । राष्ट्राय स्वाहा । राष्ट्रायेदं न मम । (वैश्वानरे हवीषि समिधश्च निक्षिपन्ति)
विद्यारण्यः – हिन्दुसाम्राज्यम् ।
सर्वे – वर्धताम् ।
विद्यारण्यः – श्रीविरूपाक्षः ।
सर्वे – जयतु ।
विद्यारण्यः – हरिहरः ।
सर्वे – जयतु ।
विद्यारण्यः – बुक्करायः ।
सर्वे – जयतु ।
विद्यारण्यः – शतमानं भवति शतायुः पुरुषः शतेन्द्रिय आयुष्वेन्द्रिये प्रति तिष्ठतु । ॐ शान्तिः शान्तिः शान्तिः । (सर्वे मङ्गलवाद्याः भवन्ति ।)
(यवनिका पतति)
****************************************************
.
]