[[आत्मार्पणम् Source: EB]]
[
॥ आत्मार्पणम् ॥
येनामवीराः स्थिरकीर्तिरूपाः । आत्मार्पणं राष्ट्रहिताय चक्रुः ।
निस्वार्थबुध्या भुवितानजस्रम् । प्रस्तौमि तानाशिषराययोद्धान् ॥
(नान्द्यन्ते)
(ततः प्रविशति वेत्रहस्तः शशाङ्कः)
शशाङ्कः – हञ्जे कौमुदि इतः एहि ।
कौमुदी – हाँ आगच्छामि । (इति पुस्तक हस्ता प्रविशति)
शशाङ्कः – प्रिये, अद्याहं विलम्ब्य गृहमागच्छेयम् ।
कौमुदी – विलम्बस्य कारणं किम् ?
शशाङ्कः – अद्य मित्रैःसाकं नाटकं द्रष्टुं गच्छामि ।
कौमुदी – एवं, किन्तन्नाटकम् ।
शशाङ्कः – आत्मार्पणं नाम नाटकम् ।
कौमुदी – (विहस्य) आत्मार्पणं नाम नाटकम् ।
शशाङ्कः – असन्दर्भे अपिच अस्थाने हासः कुतः ?
कौमुदी – अहं भावयामि, शाकुन्तलम् उत मृच्छकटिकम् नोचेत् उत्तर रामचरितम् इत्यादि नाटकानि द्रष्टुं गच्छसीति ।
शशाङ्कः – इदं नवीननाटकम् ।
कौमुदी – त्वं नवीननाटकानि द्रष्टुं मागच्छ ।
शशाङ्कः – नवीन नाटकेष्वपि कतिर्चित् नाटकानि अत्युत्तमानि सन्ति ।
कौमुदी – जानामि तत् । अधुना केचन पण्डितं मन्यमानाः ऐतिहासिक महापुरुषाणां जीवितानि कलुषितप्रायानीति चित्रणां विधाय येनकेनाप्युपायेन जगति प्रसिद्धाः भवितुं प्रयतन्ते । आधुनिक नाटकानि, चलचित्राणि दृष्ट्वा जनाः कामपि साधुवर्तनां ज्ञातुं समर्थाः भवन्ति । तस्मात् अहं नवीनलोकं नवीनचित्रणां च विगर्हामि ।
शशाङ्कः – अर्थात् आधुनिकेषु नाटकेषु चलचित्रेषु कोऽपि नवीनः सत् विषयः विद्यते ज्ञातुमिति ते अभिप्रायः ।
कौमुदी – आम् । स एव मे अभिप्रायः किन्तु कतिचित् नाटकानि अत्युत्तमानि विद्यन्ते ।
शशाङ्कः – आत्मार्पणानटक वीक्षणेन सामाजिकः देशभक्तिपूर्णमानसः, सर्वमपि देशहिताय त्यागं कर्तुं संसिद्धभावुकः भविष्यति ।
कौमुदी – आत्मार्पणं नाम नाटकस्य इति वृत्तः कः किञ्चित् विस्तरेण कथय मे ।
शशाङ्कः – प्रिये, एतादृश कथाश्रवणेन, कथाकथनेन मानवस्य शरीररक्तः अत्यौष्णिक्यं प्राप्य देशहिताय किमपि कार्यं कर्तुं प्रचोदयिष्यति श्रुणु । स्मामिभक्तः तानाजी हिन्दुसाम्राज्य प्रतिष्ठापकस्य श्री छत्रपति शिवाजी महाराजस्य आज्ञां शरिसि पुष्पमालामिव ऊढ्वा, परहस्त गतं पर्वतं स्वाधीनं कर्तुं आत्मार्पणं चकार । तन्नाटकं संस्कृतभाषायां आधुनिक महाकविः लिलेख ।
कौमुदी – तस्य आधुनिक महाकवेः नाम किम् ?
शशाङ्कः – तस्य नाम पण्डित परीक्षित् शर्मा ।
कौमुदी – (आश्चर्येण) पण्डित परीक्षित् शर्मा ।
शशाङ्कः – किं त्वं जानासि तम् ?
कौमुदी – हां जानाम्यहम् । तमुद्दिश्य बहु श्रुतं मया ।
शशाङ्कः – किमिति ?
कौमुदी – अयं गीर्वाणान्ध्रभाषाप्रवीणः महाकविः । अनेन ललित गीतालहरीति गेयकाव्यं, विंशति सर्गात्मकं यशोधरा महाकाव्यं, अक्षय गीत रामायणं, सप्तविंशति नाटकपरिमितं परीक्षिन्नाटकचक्रम् इति दृश्यकाव्यं च विलिखितम् ।
शशाङ्कः – तस्मिन् दृश्यकाव्यसञ्चये इदं आत्मार्पणं विद्यते । अयं विंशतितमेशताब्दे महाकविः । अयं स्वलेखिनीद्वारा गीर्वाणवाणीम् आधुनिक संस्कृतविश्वे विकिरति । अयं संस्कृताय जीवति ।
कौमुदी – अयम् अतीव प्रतिभासम्पन्नः ।
शशाङ्कः – प्रिये त्वन्मुखात् एनमुद्दिश्य बहु श्रुतम् । अधुना एतन्नाटकम् अत्र रङ्गमञ्चे विद्यापीठ छात्राः प्रदर्शयिष्यन्ति । तदेव नाटकं द्रष्टुं मित्रैस्साकं गच्छामि ।
कौमुदी – अहमपि तन्नाटकं द्रष्टुं इच्छामि । अस्य कवेः एकं नाटकमपि नाहं त्यक्ष्यामि । अहम् अवश्यं मम जीवने तस्य नाटकानि सर्वाणि दिदृक्षामि । अयम् अतीव रसज्ञः देशभक्तः कविः ।
शशाङ्कः – यदि एतन्नाटकं दिदृक्षसि तर्हि सज्जितवेषा भवः ।
कौमुदी – नाटक प्रारम्भाय वेला भवति । अहं सज्जित वेषा अस्मि । अहं त्वामनुसरामि गच्छ ।
शशाङ्कः – एहि । (इति तां हस्तेन धृत्वा गच्छति)
(रायगडस्य प्रासादगवाक्षात् पश्यन्ती, शिरोजान्, कङ्कतिकया प्रसादयन्ती जिजयामाता तिष्ठति, हठात् कोण्ढणादुर्गं विलोक्य एवं चिन्तयति)
जिजया – (मनसि) अहो निसर्गरमणीयोऽयं पर्वतः । अयं प्रभाते नीहारवृतः अभिषिक्तस्य स्फटिक शिवलिङ्गस्य शोभां प्रतनोति । अयं पर्वतः अनेक वृक्ष परीत सानुमण्डलैः मण्डितः बिल्वदल मण्डल मण्डित शिवमूर्तिरिव आभाति । एकदा अयम् अस्मदीयः । अधुना अयं परहस्त गतः आसीत् । किमर्थमयं पर्वतः अस्मदीयः न भवितव्यः । शैव शोभापरिवृतः अयं पर्वतः भारतीय हस्तगतः भवितव्यः । सद्यस्थितिः भारतीयानां लज्जास्पदं भवति । भवतु पुत्रकं शिवरायं प्रक्ष्यामि । (इति शिरोजन् संहृत्य वेणीभरं कृत्वा) कोऽत्र भोः । (इति आह्वयति)
प्रतिहारिणी – (प्रविश्य) नमस्ते मातः । (इति नमस्करोति)
जिजया – कुमारं शिवरायमाह्वय ।
प्रतिहारिणी – यथाज्ञाऽपयति देवी । (इति नमस्कृत्य गच्छति)
जिजया – (तत्र एकस्यां वितर्दिकायाम् उपविशति विचार मानसा)
(ततः प्रविशति शिवरायः)
शिवः – (तस्याः पादयुगलं प्रणिपत्य पीठान्तरे उपविशति) मातः किमर्थमाहूतोऽस्मि ।
जिजया – शिव इतः एहि पश्य । (इति दर्शयति कोण्ढण गडम्, शिवः तयासह गच्छति पश्यति)
शिवः – मातः, सुन्दरोऽयं पर्वतः ।
जिजया – तनय, अयं निसर्गरमणीयः पर्वतः ।
शिवः – अयं सत्यं रमणीयः पर्वतः ।
जिजया – अयं पर्वतः कुत्र विद्यते अधुना ।
शिवः – अयं परहस्तगतः विद्यते ।
जिजया – कथमयम् अस्मदीय हस्तगतः न भवेत् ।
शिवः – अवश्यं भवितव्यः ।
जिजया – शिव, मम एका कामना वर्तते ।
शिवः – का ते कामना मातः ?
जिजया – किं त्वं पूरयिष्यसि मदीय कामनाम् ।
शिवः – अहं ते पुत्रः, जगति यत् असाध्यं विद्यते तदपि साधयिष्ये त्वत्कृते मातः ।
जिजया – शिवराय शत्रृन् विजित्य एवं पर्वतम् उपायनमिव मे समर्पय ।
शिवः – मातः अयम् अधुना अजय्यं भवति अस्माकम् ।
जिजया – शिव अधुनैव उक्तवानसि यत् असाध्यं जगति विद्यते तत् साधयित्वा आनयेयं त्वत्कृते इति ।
शिवः – सत्यम् उक्तमानस्मि । किन्तु सः अधुना असाध्यः ।
जिजया – अरे शिव त्वं वीरोचितं न वदसि।
शिवः – मातः, अहं ते पुत्रः हिन्दुसाम्राज्यस्थापने उद्युक्तः ।
जिजया – अरे पुत्र, त्वं भीतिग्रस्तः कदा अभवः नाहं जाने । तव शैशवे स्तन्यपानेन समं अहं वीरगाथाः अश्रावयम् । त्वं सर्व महाभारतं, रामायणं, जानासि, किं ते ज्ञानेन प्रयोजनम् ? सत्यं त्वं भीरूः जातः ।
शिवः – (विनम्रो भूत्वा) मातः अहं सव्यसाची भूत्वा भीमो भूत्वा धर्मात्मा भूत्वा सत्यान्वेषणे परायणः । मातः धीरः समयं प्रतीक्ष्यते ।
जिजया – त्वं भीरुः भूत्वा एवं वदसि ।
शिवः – तथा मावद मातः । अहम् अधुनैव विजित्य आनयेयम् ।
जिजया – शिव त्वं कोण्ढणगडं स्वायत्तकरणे प्रयतस्व ।
शिवः – तथैव मातः अहं स्वयं करिष्यामि ।
जिजया – अचिरेणाऽयं पर्वतः अस्मदीय हस्तगतः भवितव्यः अस्ति ।
शिवः – मातः ससैन्यः सयोधः कोण्ढणं रोध्दुं अद्यैव गच्छेयम् ।
जिजया – अरे सुत त्वं अद्य गच्छ नोचेत् श्वः गच्छ किन्तु सः पर्वतः अस्मदीयः भवितव्यः अस्ति ।
शिवः – जननि, अवश्यं त्वत्कृते साधयिष्ये गडमेनम् ।
जिजया – शिव अहं समस्त भारतवर्षे हिन्दु साम्राज्यं दिदृक्षामि । त्वं कदा पूरयिष्यसि मे कामनाम् ।
शिवः – मातः यदि त्वदुपमिताः मातरः स्युः भारतवर्षे क्षिप्रमेव विना प्रयासं भारते हिन्दुसाम्राज्यं नर्तिष्यति । मातः अहम् अधुनैव कोण्डदेवैस्साकं मन्त्रणां विधाय युद्धाय कृतनिश्चयः भवेयम् । (इति नमस्कृत्य गच्छति)
जिजया – सर्व देवताः मम कुमारं रक्षन्तु भारतवर्षं पान्तु । (इति अन्तः गच्छति)
(यवनिका पतति)
**********************************************************************
.
** द्वितीयं दृश्यम्**
(शिवरायः इतस्ततः चरन् किञ्चित्कालं विचिन्त्य कोऽत्र भोः इति कथयति)
दौवारिकः – (प्रविश्य) एषोऽस्मि देवः ।
शिवः – अरे सत्वरमेणजङ्घम्ह्वय ।
दौवारिकः – यथाज्ञापयति देवः । (इति नमस्कृत्य गच्छति)
शिवः – (सिंहासने उपविशति)
(ततः प्रविशति एणजङ्घः)
एणजङ्घः – (प्रविश्य) प्रभो शिवराय नमांसि । (इति नमस्करोति)
शिवः – अरे एणजङ्घ त्वम् अनुपदमेव गत्वा मे शिक्षकं श्रीकोण्डदेवम् आनय ।
एणजङ्घः – यथाज्ञापयति प्रभुः । (इति गच्छति)
(ततः प्रविशति कोण्डदेवः)
कोण्डदेवः – शिवराय आशीर्वादान् वितरामि । (इति आशिषः ददाति)
शिवः – (आसनादवतीर्य) गुरुदेव नमांसि । (इति नमस्करोति)
कोण्डदेवः – अभीष्टं फलसिद्धिरस्तु ।
शिवः – धन्योऽस्मि देव । इतः उपविशन्तु । (इति आसनं दर्शयति, कोण्डदेवः उपविशति)
कोण्डदेवः – शिवराय अधुना हठात् अहम् आहूतोऽस्मि किं कारणं विद्यते ।
शिवः – कोण्डदेव, कोण्ढणगडं किजित्य मात्रे उपायनमिव देयं विद्यते । तं गडमुद्दिश्य चर्चां कर्तुं भवान् आहूतोऽस्ति ।
कोण्डदेवः – शिव पृच्छतु भवान् मां गडमुद्दिश्य ।
शिवः – कोण्डदेव गड मिमं जेतुम्धुना कियती सेना अवश्यकी भवति ।
कोण्डदेवः – शिव गड मिमं जेतुम् अधुना अशक्यम्ति मे प्रतिभाति ।
शिवः – कुतः ?
कोण्डदेवः – शिव, तस्मिन् गडे नररूपराक्षसः एकः उदयभानुरिति राजपुत्रः अस्ति इति , दिग्गज समानः गजः अस्तीति, तौ द्वौ कल्लोलरूप सैन्यमपि एकनिमेषे नाशनं करिष्यतः इति जनाः कथयन्ति ।
शिवः – कोण्डदेव, अस्मत्सकाशे अधिक सेना नास्ति । कतम्ल्प सैन्येन तं बलवन्तं शत्रृं जेष्यामः । (इति इतस्ततः चरन् आस्ते)
कोण्डदेवः – बाल,शिवराय अधुना शत्रृः बलवान्, वयम् अल्पसैन्य समायुक्ताः अधुना गड जयाय समयः न भवति । पश्य दीपः शक्तिसम्पन्नोऽपि वायुबलेन प्रताडितः निर्वाणदशां प्राप्नोति ।
शिवः – देव, यदि दीपः बृहद्भानुः भविष्यति तर्हि वायुबलेन प्रताडितः सर्वमपि अरण्यं दग्धपटलं करिष्यति । तस्मात् अधिकसैन्यसमाविष्टेन वयं शत्रुं विजेष्यामः इति मे आत्मा कथयति ।
कोण्डदेवः – सत्वरं सैन्यवृद्धिं विधाय गन्तव्यमिति मे अभिप्रायः ।
शिवः – अल्पकालेन गडः जेतव्यः वर्तते । सैन्यवृद्धिकरणे अतीव वेला भविष्यति । तस्मात् अल्पसैन्येन, बुद्धिबलेन च शत्रुः विजेतव्यः ।
कोण्डदेवः – सैन्यबलबुद्धिबलौ अपेक्ष्येते राजकीयेषु ।
शिवः – देव, यदा अल्पबलेन शत्रृविजयः भवितव्यः तदा चाणक्य बुद्धिचातुर्यता कामन्दकनीतिः, शुक्रनीतिः, महाभारते कश्चन घटनाः मे दुष्टिपथं चित्ररूपेण समाक्रामन्ति ।
कोण्डदेवः – कथमिति निवेदयतु भवान् ।
शिवः – कौटिल्यः यथा शत्रृवंश निर्मूलनं चकार तथा अहमपि बुद्धिबलेन शत्रृं विजेष्यामि । इयं राजनीति परम्परा भारतस्य ।
कोण्डदेवः – पूर्वजाः धर्मयुद्धम् अकुर्वन्, तद्वत् कर्तव्यं भवता इति मे मतिः ।
शिवः – कोण्डदेव, धर्मयुद्धं विधाय महाराणा प्रतापः पञ्चविंशति वर्षाणि भारतदेश स्वातन्त्र्यसम्पादनार्थं सकुटुम्बीकः अरण्यवासं चकार । अन्ततः वीरमरणं पेदे । तस्मात् अहम् अस्मदीय पूर्वजेभ्यः जयापजय सन्दर्भान् परामर्श्व यथास्थिति राजकीयेषु तत्परो भवेयम् ।
कोण्डदेवः – किं कर्तव्यमिति भवताम्भिप्रायः ।
शिवः – देव, अधुना धर्मयुद्धस्य स्थानं नहि । यदा शत्रुः वञ्चकः भवति तदा कौटिल्य बुद्ध्या वञ्चनया सः यमसदनं प्रापणीवः भवति । न तु धर्मेण ।
कोण्डदेवः – शिव, अहं वृद्धः त्वं बालः, आवयोर्मध्ये वयोन्तरं विद्यते । न केवलं वयोन्तरं, भावनान्तरमपि विद्यते । तव कथनं हेतुपुरस्सरं भवति मे । शिष्यादिच्छेत् पराजयम् इति लोकोक्तिः अद्य सार्थकतां पेदे अस्मिन् सन्दर्भे ।
शिवः – देव यूयं मे गुरवः सर्व विषयेषु शिक्षणदातारः । अहं सर्वदा तव शिष्यः एव ।
कोण्डदेवः – (आश्चर्येण) शिव, अधुना ते प्रयत्नः कः । सुस्पष्टं कथयतु भवान् ।
शिवः – देव बलवन्तं शत्रुं सर्वोऽपि वीरः अश्वत्थामभावं प्राप्य अर्थ रात्रौ नाशयिष्यति चेत् सर्वं सुकरं भविष्यति । तदेव अधुना आचरणीयं विद्यते ।
कोण्डदेवः – (अवनतमुखः) शिवराय, तव कल्पनेयं, वैद्युतायमाना प्रतिभा, अन्येषां कथं भविष्यति । शतं जीव शिवप्रभो ! (इति आशीर्वचनानि दत्वा प्रयाति)
शिवः – (गुरुं नमस्कृत्य गच्छति)
(यवनिका पतति)
***********************************************************
.
तृतीयं दृश्यम्
(तानाजी पुत्रस्यरायोबस्य विवाहसमारम्भे वर्तते, सर्वे बान्धवजनाः समागत्य तत्र स्वीय आसनेषु उपविष्टाः, रायबा नूतन वस्त्रधारणं विधाय ललाटे कुङ्कुमरेखाञ्चितः सुन्दर उष्णीषेन मण्डितशिरः आस्ते । तानाजी स्वीय बन्धुभिः साकम् उपविष्टः आस्ते)
तानाजी – तनय सर्वेऽपि समागताः किन्तु शिवप्रभुः नागतः एतावत्पर्यन्तम् ।
रायबा – पितः तदेव अहमपि चिन्तयामि ।
शेलारमामा – महाराजः कस्मिन् कर्मणि रतः न कोऽपि जानाति । राजा कदा कुत्र गमिष्यति किं करिष्यति देवो जानाति नान्यः ।
सूर्याजी – प्रभुः समागमिष्यति ते हठात् आश्विको भूत्वा अस्मत् गेहं पावयिष्यन्ति इति मे मनः कथयति ।
तानाजी – पत्रं प्रेषितं मया किन्तु सः पत्रधारकोऽपि न समागतः । कारणं किं स्यात् । (इति विचारयति)
रायबा – पितः बहुसमयः अस्ति । द्विहोरा परिमितसमयः अस्ति । प्रभुः हठात् ॠक्षपातमिव आगमिष्यति ।
तानाजी – मे शङ्का भवति यत् ते किमपि कार्यान्तरे निमग्नाः इति । नोचेत् ते प्रथमतः अस्मद्गेहम् आगत्य अनन्तरम् अन्यत्र गमिष्यन्ति । जानाम्यहं शिवप्रभूनां चित्तवृत्तिम् । ते सर्व सैनिकान् स्वीय बान्धवानिव पश्यन्ति । ते सामाजिक वादिनः ।
शेलारमामा – अयं प्रभुः हिन्दुसाम्राज्यस्थापनाय प्रयतते । राज्ञाम् अनेकानि राजकारणानि सन्ति । ते अवश्यं आगमिष्यन्ति लग्नवेलायाम् उत लग्नानन्तरं वा इति मे अभिप्रायः ।
सूर्याजी – अस्मिन् विषये विचारः नहि कर्तव्यः । (इतस्ततः विलोक्य किञ्चित् श्रुत्वा) कोऽपि आश्विकः समायाति । (अश्व धावन खुरान्यासस्य ध्वनयः भवन्ति)
तानाजी – (अस्तव्यस्त अश्व खुरन्यास ध्वनिम् आकर्ण्य) एते अश्व पद खुराघाताः नहि शिवाजी महाराजस्य घोट्टाणस्य, किन्तु कस्यापि सैनिकस्य अश्व पटघट्टनाः भवन्ति ।
रायबा – भवतु नाम कोऽपि वार्ताहरः महाराजसकाशात् कामपि वार्ताम् आनयतीति मे ऊहः ।
शेलारमामा – (इतस्ततः विलोक्य) अयम् अस्मदीय मावलः समागच्छति, यः रायबालग्नपत्रिकां शिवाजी महाराजाय दातुं गतः ।
सूर्याजी – अयं शरवेगेन समागतः ।
तानाजी – एतावत्पर्यन्तं शिवाजी महाराजस्य अनुपस्थितित्वात्, अस्य पत्रधारकस्य आगमनेन शिवाजीमहाराजः नागमिष्यति इति संसूच्यते । (नेपथ्ये अश्वः स्तब्धः इव खुरानां ध्वनिविशेषाः हेषाश्च भवन्ति)
(ततः प्रविशति मावलः)
मावलः – (तानाजिनं नमस्कृत्यपत्रं दत्वा गच्छति)
तानाजी – (पत्रं गृहीत्वा सर्वसमक्षं वाचयति)
अयि स्वामि भक्ताग्रेसर, भारतीय सोदर, मराठा योद्धः नमस्ते । ते चिरञ्जीवस्य रायबास्य शुभविवाहः भवतीति पठित्वा परमानन्देन आत्मानं व्यस्मरम् । सर्वदा सर्वत्र भवतः कुटुम्बस्य मे शुभकामनाः सन्ति इति कथने पुनरुक्तिः भविष्यति । भगवान् सर्वशक्तिमान् शिवः शुभं कुर्यात् इति मम शुभकामनां प्रेषयामि ।
महायोद्धः तव पुत्रस्य विवाहाय नाहम् उपस्थितः भवितुं शक्नोमि यतः अत्र मम अनुपदाचरणीयकोण्ढणगडस्य विवाहस्य शुभमुहूर्तः अत्यसन्नः अस्ति । तदर्थं तत्रोऽपस्थितिः ममात्यावश्यकी। त्वं तव पुत्रस्य शुभविवाहं कुरु । अहम् अत्र कोण्ढणगडस्य शुभविवाहं करिष्यामि । गडस्य विवाहानन्तरम् अहं त्वत्सकाशं समागमिष्यामि । शुभं भूयात् ।
एवं
शिवप्रभुः
तानाजी – (किञ्चित्कालम् आश्चर्येण चिन्तयाच स्थगितः भूत्वा) अयि बान्धवाः अन्यस्मिन् शुभमुहूर्ते अयं विवाहः भविष्यति । यतः शिवप्रभुः नागतः ततः अयं विवाहः अधुना न भविता । यत्र शिवरायस्य उपस्थितिः न भवति तत्र कार्यस्य माहात्म्यं न भवति । तस्मात् राज्ञः विना अयं विवाहः न भवति । यूयं सर्वेऽपि अत्रैव तिष्ठत, अहं शिवरायसमीपं गत्वा कल्याणं वरिष्ठं श्रेष्ठतरञ्च । ततः अहमपि तस्मिन् देशकल्याणे भागं गृहीत्वा प्रत्यागच्छेयम् । (इति गच्छति)
शेलारमामा – शिवरायः कस्मिन् अपि सङ्कटे संलग्नः इव आभाति । हठात् किमापतितं वयं न जानीमहे ।
सूर्याजी – महाराजाः सर्वदा आलोचनापराः । ते सर्वदा कार्यरताः भवन्ति । ते कस्मिन् समये किं करिष्यन्ति, कुत्र गमिष्यन्ति न कोऽपि जानाति । तेषां आलोचनाशक्तेः अवधिः नास्ति । वयम् अत्रैव पुनः मिलिष्यामः । नमस्ते । (सर्वेऽपि नमस्ते नमस्ते इति कथयन्तः गच्छन्ति)
(यवनिका पतति)
*************************************************************
.
चतुर्थं दृश्यम्
(जिजयामाता शिवरायश्च उपविष्ठौ सम्भाषयन्तौ)
जिजया – तनय, कोण्डदेवः किमवादीत् कोण्ढणगड प्रस्थानमुद्दिश्य ।
शिवः – अधुना जेतुं दुष्करमिति अवादीत् ।
जिजया – दुष्करं जेतुमिति अहमपि जानामि, किन्तु किमपि मार्गं जगाद किम् इति मे प्रश्नः ।
शिवः – सैन्यम् अधिकसङ्ख्यापरिमितं विधाय यदि गम्यते तर्हि जय्यं भवेदिति जगाद ।
जिजया – शत्रुः अतीव बलवान् किम् ?
शिवः – शत्रुः बलवानिति, तस्मिन्गडे नररूपराक्षसः एकः उदयभानुनामकः राजपुत्रः अस्ति इति, तस्य सकाशे दिग्गजसमानः गजः अस्तीति, तौ द्वौ कल्लोलरूप सैन्यमपि एकनिमेषे नाशनं करिष्यतः इति जनश्रुतिम् अकथयत् ।
जिजया – तस्मात् त्वया किं क्रियते ?
शिवः – मातः यदा शत्रुः बलवान् भवति तदा बुद्धिबलेन सः जेतव्यः इति निश्चितः तदर्थमहं मार्गं तर्कयामि ।
जिजया – तनय, ते जीवनं ते साहसं धैर्यं च उत्तरदायिनां मार्गदर्शके भूयास्ताम्, अपिच दीपस्तम्भसमानं विराजताम् इति, सर्वदा सर्वेश्वरमहं प्रार्थयामि ।
शिवः – मातः मे अनुचराः सर्वे अत्यन्त देशभक्तिसम्पन्नाः । सत्वरमेवाहं तेषां सहायेन नूनं सिषात्से ।
(ततः प्रविशति दौवारिकः)
दौवारिकः – (प्रविश्य नमस्कृत्य) महाराज तानाजी महोदयाः द्वारि तिष्ठन्ति ।
शिवः – अनुपदं प्रावेशय ।
दौवारिकः – यथाज्ञापयति प्रभुः । (इति गच्छति)
(ततः प्रविशति दीर्घश्मश्रुः महोन्नतः पीनवक्षः बलवान्, नूतन वस्त्रालङ्कृतः कुङ्कुमरेखाचित्रित ललाटतटः खङ्गद्वितीयः तानाजी)
तानाजी – (प्रविश्य) जयोऽस्तुते शिवराय । (इति नमस्करोति) (जिजयां विलोक्य) नमस्ते मातः । (इति नमस्करोति)
शिवः – (पीठादवतीर्य) मित्रोत्तम कथं हठात् समागतोऽसि ।
तानाजी – प्रभो भवतां पत्रं माम् अत्राऽनयत् । भवन्तं द्रष्टुम् अनुपदमेव समागतोऽस्मि ।
शिवः – परिसमाप्त तनयविवाहः समागतोऽसि ?
तानाजी – प्रभो भवतां पत्रं तनयस्य विवाहं प्रलम्बयितुं दिदेश ।
शिवः – ताना, सुतस्य विवाहः न कृतः किम् ?
तानाजी – नहि कृतः ।
शिवः – किमत्र कारणम् ?
तानाजी – कोण्ढणगड विवाहानन्तरं रायबा विवाहः भविष्यति ।
शिवः – ताना मम मातुः चिककामना इयमस्ति । कोण्ढणगडः अस्मदीय हस्तगतः भवितव्यः इति । तदर्थम् अहं भवदीय पुत्रस्य विवाहाय अनुपस्थितः अभवम् । मम अधुना कोण्ढणगडस्य कल्याणाय गन्तव्यं विद्यते । तदर्थम्हं स्वयं ससैन्यः गडं जेतुं जिगमिषामि ।
तानाजी – एनं विषयं भवान् प्रथमतः नोक्तवान् महाराज ।
जिजया – ताना, शिवोऽपि प्रथमतः न जानाति । दिवसद्वयात् प्रागेव मया इयं कामना प्रकटीकृता यदा तवपुत्रस्य विवाहपत्रम् अस्मदीय हस्तगतम् ।
तानाजी – गडमेनमुद्दिश्य पूर्वमेव मम मनसि विचारधारा समजनि । किन्तु अहं शिवरायाय नोक्तवान् यतः शिवप्रभुः कार्यान्तरे निमग्नः आसीत् ।
शिवः – मित्रोत्तम त्वं जानासि, कदा कीदृशी भावना मे मनसि जायते इति ।
तानाजी – शिवराय अधुना भवान् स्वतः गडं जेतुं यियतिषते । तत् मह्यं न रोचते । अहं स्वतः तं गडं विजित्य भवतः पादार्पितङ्करिष्ये ।
शिवः – ताना, त्वं प्रथमतः कुमारस्य विवाहं कुरु । अनन्तरं गडञ्जेतुं प्रयतस्व ।
तानाजी – प्रभो अधुना विवाहस्य सुमुहूर्तः व्यतीतः । अन्यस्मिन् शुभसमये विवाहः भविता । अधुनाहं कोण्ढणगडस्य विवाहं कारयितुं गच्छेयम् । प्रथमतः कोण्ढणगडविवाहः अनन्तरं कुमारस्य विवाहः ।
शिवः – ताना, अहं स्वयं गत्वा साधयिष्यामि गडम् अत्र ते सहायः मास्तु । त्वं कुमारविवाहम्त्र प्रथमतः कुरु । अहं तत्र गड विवाहं करिष्यामि ।
जिजया – ताना ते स्वामिभक्तिः सूर्यरश्मिवत् परम पवित्रा । त्वं तनयविवाहं प्रथमतः विधाय अनन्तरं गडप्रस्थानं कुरु ।
तानाजी – मातः, कुमार विवाहात् मे कोण्ढणगड विवाहः बलवत्तरः श्रेष्ठतरः प्रतिभाति । तस्मात् अहं कोण्ढणगड विवाहं परिसमाप्य कुमारविवाहं करिष्ये । अस्मिन् कर्मणि भवती मां नियोजयतु इति देशभक्तस्य अपि च स्वामिभक्तस्य विज्ञप्तिरियम् । (इति मुकुलित हस्तः जितया पुरतः तिष्ठति)
जिजया – ताना त्वं शिवरायम् अपृच्छस्व । सः भवतः प्रभुः ।
तानाजी – शिवराय, देशे हिन्दुसाम्राज्यस्थापनार्थम् इदं मे शरीर समिधं समरवैश्वानरे पातयितुं मे आज्ञां प्रयच्छतु भवान् इति मे चरमाभिलापः । (इति नमस्करोति)
शिवः – (उत्थाय) मित्रोत्तम ते स्वामिभक्त्या अहं तुष्टोऽस्मि तथैव त्वमेव गत्वा विजयश्रिया समालिङ्गितः प्रत्यागच्छ । शिवास्ते पन्थानः सन्तु । (इति हस्तमुद्यम्य आशीषः ददाति)
तानाजी – (मातापुत्रौ नमस्कृत्य गच्छति)
शिवः – मातः, यदि एतादृश देशभक्ताः स्वामिभक्ताः देशे सर्वत्रस्युः, अचिरादेव विजयनगर हिन्दुसाम्राज्य प्रतिष्ठापकानाम्; हरिहर बुक्कराय विद्यारण्यादीनां, हिन्दुसाम्राज्यरचनां, अहं सर्वत्र भारतवर्षे, मे जीवन सर्वव्यापिनीं फलमयीं विधाय, भारतवर्षं परधाटीभ्यः रक्षयित्वा, हिन्दु साम्रज्यं सत्यं स्थापयिष्यामि ।
जिजया – तनय, सर्वथा अस्माभिः प्रयत्नः कर्तव्यः । बलीयसी केवलमीश्वरेच्छा ।
(यवनिका पतति)
*********************************************************
.
पञ्चमं दृश्यम्
(रायबा, शेलारमामा, सूर्याजी, तानाजी एकत्र उपविश्य सम्भाषन्ते)
शेलारमामा – अरे ताना किं सुखेन सन्ति शिवरायाः ।
तानाजी – हां शिवरायाः जिजयामाता सर्वेऽपि सकुशलं सन्ति ।
सूर्याजी – अधुना ते कस्मिन् कर्मणि निरताः ।
तानाजी – वयं सर्वे जानीमहे । ते कोण्ढणकल्याणकरणे निमग्नाः इति ।
शेलारमामा – राजा स्वयं कोण्ढणं जेतुं जिगमिषति ।
तानाजी – स्वयं गन्तुं प्रयतन्ते । किन्तु अहं गत्वा तान् एवम् अवोचम्, अयि देव शिवराय भवताम् अनुचराः योद्धारः बहवः सन्ति, कोण्ढणगड प्रस्थानं युष्माकं न योग्यम् इति ।
सूर्याजी – साधु समुदीरितं भवता ।
शेलारमामा – तस्मात् वयं सर्वे गत्वा कोण्ढणं जित्वा महाराजाय उपायनमिव दास्यामः ।
तानाजी – इदम् उपायतं महाराजाय नही मातृमूर्त्यै जिजयादेव्यै प्रदातव्यं विद्यते ।
सूर्याजी – एतावत्पर्यन्तम् आधुनिक भारत इतिहासे एतादृशः वीरः शिवाजी सदृशः न दृष्टः केनापि । अहो किं तस्य बुद्धिचातुर्यम् ।
शेलारमामा – कदा एते कुत्र गच्छन्ति किं कर्तुमिच्छन्ति सर्वज्ञः शिवः एव जानाति ।
तानाजी – शिवरायः भारतराष्ट्र चिन्तना वेलायां निद्रां भोजनमपि सन्त्यजति । यदि ते निद्रिताः भवेयुः तर्हि स्वप्नेऽपि भारतमुद्दिश्य, हिन्दु राष्ट्रमुद्दिश्यैव चिन्ता प्रचलिष्यति इति मे वितर्कः ।
रायबा – पितः यदि भवन्तः कोण्ढणं जेतुं गच्छन्ति तर्हि अहमपि भवद्भिः साकम् आगमिष्यामि ।
तानाजी – चिरञ्जीव, वयं सर्वे अस्मिन् कर्मणि शक्ताः, तव उपस्थितिः तत्र अनावश्यकी भाति मे ।
रायबा – अस्मिन् सन्दर्भे ममापि यदि भागः स्यात् तर्हि अहमपि आत्मानं कृतकृत्यं मन्ये ।
तानाजी – (अतीव सन्तुष्टः) तनय, भवदीय कामना अतीवानुरूपा भारतीयस्य । तनय त्वं विवाहार्थं नूतन वस्त्रधारणं विधाय वर्तसे अधुना अस्मिन् वेषे तत्रागमनं मे सम्यक् न प्रतिभाति । त्वं गृहे स्थित्वा शत्रृभ्यः स्त्रीगोब्राह्मण रक्षणां कुरु ।
सूर्याजी – यदि सर्वोऽपि वीरः कोण्ढणं गच्छिति तर्हि अत्र ग्रामरक्षकः कः भविष्यति । तस्मात् रायबा तव निश्चयात् त्वं विरम । त्वम् अत्रैव तिष्ठ ।
शेलारमामा – अस्मदीय महाप्रस्थानं कदा भविष्यति ।
तानाजी – श्वः प्रभाते वयं सर्वे कोण्ढणगडस्य समीपे विद्यमान अरण्ये मिलिष्यामः । सर्वैरपि यानि यानि परिकराणि युद्धाय उपयुक्तानि भविष्यन्ति तानि सर्वाणि आनीतव्यानि विद्यन्ते । प्रथमतः तत्र दुर्गस्य स्थितिं ज्ञातुं यं कमपि वार्ताहरं प्रेषयन्तु ।
शेलारमामा – सर्वं वयं संसिद्धं कुर्याम ।
सूर्याजी – अहं सर्वव्यवस्थां करिष्यामि ।
तानाजी – अयि भोः मित्रवर्याः, सर्वदा यूयं स्मरन्तु इमां भावनां या मया कथ्यते ।
शेलारमामा – केयं भावना ।
तानाजी – वयं एकाकिनः भृत्वा अस्मिन् धरातले समागतवन्तः । पुनः एकाकिनः भूत्वा परलोकं गच्छेम । वयं सर्वे यदाकदापि मरिष्यामः । किन्तु देशः स्थिरः । विना च स्वार्थम् अस्माभिः व्यवहर्तव्यः । वयं देशहिताय सर्वत्यागं कर्तुं संसिद्धमनस्काः भवेम । युद्धवेलायां एनां भावनां मा विस्मरन्तु इति इयं मे चरमाज्ञा भवति। श्वः पुनर्मिलनं भविष्यति । शुभं भूयात् ।
(यवनिका पतति)
*****************************************************
.
षष्ठं दृश्यम्
(शिवाजी कोण्डदेवौ भाषयन्तौ स्तः)
कोण्डदेवः – शिवराय, ताना स्वकुमारस्य पाणिग्रहणाख्यं कर्म विसृज्य कोण्ढणगडसाधनाय गतः इति श्रुत्वा अहं पुलकितगात्रः अभवम् ।
शिवः – देव, प्रथमतः अहं स्वयं गन्तुं उद्युक्तः अभवम् । किन्तु तेन प्रार्थितः अहम् तम् अस्मिन् कर्मणि नियोजितवानस्मि ।
कोण्डदेवः – शिव ते मित्रं अतीव स्वामिभक्तः देशभक्तश्च ।
शिवः – देव, अस्मदीय महाराष्ट्रदेशे सर्वे नागरिकाः राष्ट्रभक्ताः तस्मादेवाहं विजयनगरमहाराजानां हिन्दुसाम्राज्य स्थापकानां कामनां परिपूर्णतां प्रापयितुं प्रयतामि । इतः परं भाविभारतराष्ट्रं महाराष्ट्रात् स्वातन्त्र्य स्फूर्तिं लभतु इति सर्वेशं प्रार्थयामि ।
कोण्डदेवः – श्रीविद्यारण्यस्वामिनां हरिहरबुक्करायादीनां हिन्दु साम्राज्य वैभव स्थापना भावना अविछिन्ना अखण्डिता भूत्वा सततं भारते विराजतु इति अहं भावयामि ।
शिवः – देव, अहं सत्यं पूर्वजानां भावनां परिपूर्णतां प्रापयितुं दिवा सात्रं प्रयतिष्ये ।
कोण्डदेवः – शिव, त्वं सत्यं तानाद्वितीयः ते बौद्धिकप्रतिभया त्वम् असाध्यं साधयिष्यसि इति मे मतिः ।
शिवः – महतां आशीर्वचनबलेन सर्वं साध्यं भवति गुरुदेव ।
कोण्डदेवः – शिव, ताना कदा गमिष्यति कोण्ढणम् ।
शिवः – अद्य सायं गमिष्यति ।
कोण्डदेवः – कैः साकम् ।
शिवः – शेलारमामा, सूर्याजी, मावलसहितः गमिष्यति ।
कोण्डदेवः – शिव कोण्ढणगड विजयानन्तरं वार्तां प्रेषितुं व्यवस्था परिकल्पनीया इति कथितं किम् ?
शिवः – स एव अवोचत् यत् कोण्ढणग़ड विजयानन्तरम् अनेक फिरङ्ग्यः वाद्यन्ते भगवाध्वजाविष्करणं क्रियते, अनन्तरं पर्वते वीतिहोत्रः प्रज्वाल्यते । सा एव अस्मदीय विजयस्य निस्तन्त्री वार्ता इति उक्त्वा गतः ।
कोण्डदेवः – शिव, साधूक्तं तेन । वयं द्रक्ष्यामः कोण्ढणगडं पुनः अस्मदीय राज्ये इति महानानन्दः भवति मे ।
शिवः – देव वयं द्रक्ष्यामः सर्वं सुखान्तम् ।
(ततः प्रविशति दौवारिकः)
दौवारिकः – (प्रविश्य) नमो नमः कोण्डदेवाय, शिवरायाय । (इति नमस्करोति)
शिवः – किं रे को विशेषः ।
दौवारिकः – देव शिवराय, जिजयामाताः भवन्तम् आह्वयति ।
शिवः – आगच्छाम्यहं त्वं गच्छ ।
दौवारिकः – यथाज्ञापयति देवः । (इति गच्छति)
शिवः – देव कतिपय दिवसानन्तरं वयं कोण्ढण विजयवार्तां श्रोष्यामः ।
कोण्डदेवः – शिव गच्छामः एहि । (इति गच्छतः)
(यवनिका पतति)
ॉ
*****************************************************
.
सप्तमं दृश्यम्
(तानाजी, शेलारमामा, सूर्याजी इत्यादिवीरैः परिवेष्ठितः कोण्ढणगड गमनोन्मुखः चर्चां करोति)
तानाजी – अयि बान्धवाः अद्य सायम् अस्माभिः सर्वैरपि सायुधैः कोण्ढणगडं प्रति गन्तव्यं विद्यते ।
शेलारमामा – पर्वतारोहणे उपयुक्त परिकरान् गृहीत्वा गन्तव्यं वर्तते ।
सूर्याजी – अहं सुदीर्घ रज्जुं एकम् आनायिष्यामि ।
तानाजी – नकुल कुलोत्पन्नं घोरपडिम् एकम् अहम् आनयेयम् । तस्य कृते मधु भाण्डमपि एकं आनयिष्यामि । सर्वैणापि खङ्गद्बयेन भवितव्यम् । तत्र नररूपराक्षसः अस्ति । तस्य हनन कर्मणि उपयुक्तानि आयुधानि गृहीत्वा गन्तव्यमस्ति ।
सूर्याजी – भगवाध्वजः गृहीतव्यः वर्तते ।
तानाजी – अयि बान्धवाः अयं गडः अत्यन्तदुर्भेद्यः इति जनाः कथयन्ति । कथं तत्र गन्तव्यम् इति प्रथमः प्रश्नः ।
सूर्याजी – तत्र गडसान्निध्ये बहवः मत्स्यग्राहकाः सागरीयाः सन्ति ।
शेलारमामा – प्रथमतः तैः साकं मैत्री कर्तव्या ।
तानाजी – तेभ्यः अतीव रोचते ताम्बूलपत्रं सुधाचूर्णं मादकता औषधं च ततः यदि तेभ्यः एतत् वस्तु जालं प्रयच्छेम सर्वं सुकरं भवत्येव ।
सूर्याजी – ताम्बूलपत्रबन्धनानि सुधाचूर्णं अपिच मादकता द्रव्यम् औषधं च जालम् अहम् आनयेयम् ।
शेलारमामा – ताना, अहम् इतःपूर्वं वार्ताहरमेकं वृत्तान्त समाहरणाय प्राहिणम् । सः अधुना आगमिष्यति तदुक्तिमनुसृत्य वयं व्यवहारिष्यामः ।
तानाजी – तत्र कियत् सैन्यं विद्यते वयं न जानीमहे ।
सूर्याजी – वयं बह्वल्पसैन्य समेताः
(ततः प्रविशति भटः)
भटः – (प्रविश्य) वार्ताहरः समायातः द्वारि तिष्ठति ।
शेलारमामा – अन्तः प्रेषय तम् ।
भटः – तथैव । (इति गच्छति)
(ततः प्रविशति वार्ताहरः)
शेलारमामा – अस्ति कोऽपि विशेषः ? कथय वार्ताम् ।
वार्ताहरः – सर्वमपि विदितमासीत् देव ।
तानाजी – अरे गडाधिपः कः ?
वार्ताहरः – उदयभानुः ।
तानाजी – सः कीदृशः इति तत्रत्यानां भावना ।
वार्ताहरः – सः सिंहबलः ।
तानाजी – तस्मिन् पर्वते आहत्य कियत् सैन्यं विद्यते दुर्गरक्षणे ।
वार्ताहरः – सहस्राऽधिकं सैन्यं विद्यते इति मत्स्यग्राहकैः कथितम् ।
तानाजी – गडस्य कस्मात् प्रदेशात् अन्तःगन्तुं सुलभः भवति।
वार्ताहरः – पर्वतानुत्तरेण गडप्रवेशः भवितुं सुकरमिति तैः प्रोक्तम् ।
तानाजी – तेषां सकाशे के के परिकराः विद्यन्ते ।
वार्ताहरः – तेषां सान्निध्ये मत्तगजेन्द्रः एकः विद्यते । सः शत्रृदर्शनेन उद्धतः भूत्वा शत्रृन् शुण्डाग्रेण गृहीत्वा आकाशे उत्क्षिपतीति प्रोक्तम् ।
तानाजी – तत्र बालाः स्त्रियः विद्यन्ते किम् ।
वार्ताहरः – तत्र बालाः विद्यन्ते । तत्र बह्व्यः स्त्रियः वर्तन्ते । ताः सर्वाः तस्य नाररूप राक्षसस्य भार्याः । सः सर्वदा मद्येन उन्मन्तः भवति ।
तानाजी – गडे सर्वत्र रक्षणा विद्यते किम् ?
वार्ताहरः – दक्षिणतः कापि रक्षणा न कदापि भवतीति तैरुक्तम् ।
तानाजी – कुतः ?
वार्ताहरः – गडस्य दक्षिणभागः अत्यन्तोन्नतः । तत्र कोऽपि प्रवेष्टुं शक्तः न भवति यतः सर्वमपि प्रस्थरैः निम्नोन्नतं भाति तत्र । पर्वतस्य पश्चात् गम्भीरा सानुः विद्यते । यः कोऽपि तत्र पर्वतात् भ्रष्टः भवति सः अनुपदमेव तस्मात् सानोः पातालं प्रवेक्ष्यति ।
शेलारमामा – त्वया प्रथमतः कथं मत्स्यग्राहकैः साकं सम्बन्धः कृतः ।
वार्ताहरः – अहम् एकः कृषीवलः इति उक्त्वा तेभ्यः पूगीफलानि, नागवल्लीदलानि मादकता औषधं वितीर्य तैस्साकं विश्वासपूर्वकं सख्यम् अकरवम् ।
सूर्याजी – वयं सर्वे मिलित्वा रात्रौ पर्वतसमीपं गच्छावः । तस्मात् त्वम् अस्माकं मार्गदर्शको भव ।
तानाजी – सर्वैरपि निश्शब्दगत्या गन्तव्यम् । (इति सर्वे शनैः शनैः गच्छन्ति)
(यवनिका पतति)
*****************************************************
.
अष्टमं दृश्यम्
(नेपथ्ये फिरङ्गीनां शब्दाः जयमङ्गल वाद्यविशेषाः भवन्ति पर्वते वन्हिश्च प्रज्वलति)
(ततः प्रविशतः जिजया शिवरायौ)
शिवः – मातः किं श्रुणोसि वाद्यविशेषाणां ध्वनीः । इतः पश्य कोण्ढणगडे वन्हिः प्रज्वलति ।
जिजया – हां पश्यामि पर्वतः वन्हिमान् जातः ।
शिवः – मातः किं जानासि कोऽयमग्निः ?
जिजया – दावाग्निः इति मे मतिः ।
शिवः – नहि मातः अयं वन्हिः जयसूचकः ।
जिजया – अहो अयं जयसूचकः वन्हिः ?
शिवः – हां कोढण्णगडः अस्मदीयहस्तगतः अस्ति । तदर्थम् अयं जय सूचकः वन्हिः ।
जिजया – विदितं कुमार ।
शिवः – ताना अनेन प्रयोगेन निस्तन्त्री वार्तां प्रेषयामास ।
जिजया – अद्य मे महानानन्दः ।
शिवः – मातः श्रुणु इमाः फुरङ्गी ध्वनीः । ताना शत्रून् विजित्य भगवाध्वजारोहणं कृतवान् ।
जिजया – शिव, मे कामना परिपूर्णा अद्य प्रभृति कोण्ढणगडः शिवरायराज्ये विराजते । अहो निरवधिः मे आनन्दस्य ।
शिवः – मातः अहं कोण्ढणगडं गत्वा वीरसत्कारं करिष्ये ।
जिजया – सत्वरं गच्छ वीरसत्कारं कुरुष्व ।
शिवः – (नमस्कृत्य गच्छति)
(यवनिका पतति)
****************************************************
.
नवमं दृश्यम्
(भीकरारण्ये कोण्ढणगडसमीपे सूर्याजी शेलारमामा प्रभृतयः वर्तन्ते ततः प्रविशति शिवाजी)
सूर्याजी – शिवमहाराजाय जयोऽस्तु । (सर्वे अनुचराः शिवाजीमहाराजाय दयोऽस्तु इति बृवन्ति)
शेलारमामा – प्रभो कोण्डणगडः अस्मदीयहस्तगतः । वयम् अल्पसैन्येनकेवलं शत्रुं जितवन्तः ।
शिवः – (श्रृण्वन्) शान्तमयेन गत्या इतस्ततः चलन् सर्वासुदिक्षु कमपि शोधयति ।
सूर्याजी – सर्वेऽपि निहताः युद्धे ।
शेलारमामा – ताना गतदक्षिण हस्तः, वामहस्तेन खङ्गं गृहीत्वा विद्युदिव आकाशे स्फुरन् प्रयुध्य शत्रृम् उदयभानुं निहतवान् ।
शिवः – शनैः शनैः चलन् । (तानाशवसमीपं गत्वा आपादमस्तकं तं विलोक्य करुणयागिरा)
अहो ताना, मे मित्रम् । मे अनुचर । त्वं स्वामिभक्तोऽसि । राजाज्ञा धारकोऽसि । देश भक्तोऽसि । निस्वार्थी असि । स्वगृहे वैवाहिक मङ्गलकार्यं विसृज्य देश वैवाहिक मङ्गलकार्यं कर्तुं समागतोऽसि । त्वं मे दक्षिणहस्तः । मे हस्तात् स्रस्त वज्रायुधोऽसि । त्वं मे हृदयम् । मे पञ्चप्राणसमवायः । स्वल्पसैन्यैः अनन्तसैन्यपरीतं कोण्ढणगडं अल्पसैन्येन जितोऽसि । त्वं पुरुष सिंहोऽसि । त्वं कालातीतोऽसि । ते जीवितं सार्थकं बभूव । अयि अनुचराः, कोण्ढणगडः हस्तमागतः किन्तु सिंहपञ्चत्वं गतः। अध्य प्रभृति अस्य गहस्य नाम इतिहासे सिंहगडः भविष्यति ।
(आश्चर्य व्यथाभ्याम्) ताना अयं ते आत्मा देशरूपपरब्रह्मणे समर्पितः । सोऽयमात्मा ब्रह्मानन्दमनुभवति । राष्ट्राय समर्पितोऽयमात्मा पुनर्जन्म राहित्यं भजते । अयं ते आत्मा सायुज्यं प्राप्तः । (इति अधोमुखः भूत्वा वीरासने उपविश्य हस्तं मुखोपरि विन्यस्य अश्रु बिन्दून् त्यजति । (सर्वोऽपि हस्तौ निबध्य विषण्णवदनः आस्ते)
(नेपथ्ये)
“न जायते, म्रियते वा कदाचित् । नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो । न हन्यते हन्यमाने शरीरे ।”
(यवनिका पतति)
*******************************************************
]