2k-

विश्वास-प्रस्तुतिः

कुर्वाणोत्सारणं तस्य गृहजा सततं नृणाम् । 2001ab
नाज्ञासीत्सुखसुप्तस्य पृष्ठे पतितमन्तकम् ॥ 2001cd

मूलम्

ज्वरितः स हि निष्ठ्यूतज्वरः स्वपिति विज्वरः । 2002ab
विदित्वेति न विज्ञातः स्वपन्नेव मृतस्तदा ॥ 2002cd

सलोठने कोष्ठकेथ प्रयाते नृपतिः पुनः । 2003ab
न स मल्लार्जुनो नापि कोष्ठको न स लोठनः ॥ 2003cd

छद्मनोदयनं पार्श्वस्थितं मल्लार्जुनोवधीत् । 2004ab
तस्मै चुक्रोध माध्यस्थ्ये स्थापितस्तेन कोष्ठकः ॥ 2004cd

अनुनिन्ये न तं खिन्नं स सम्भृतबलस्ततः । 2005ab
अभिषेणयितुं क्रोधादधावत्सहलोठनम् ॥ 2005cd

कोष्ठको मल्लकोष्ठाद्यैर्मितैर्युक्तोपि सादिभिः । 2006ab
तीर्त्वा परोष्णीं तत्सेनां निर्ममाथाप्रमाथिनीम् ॥ 2006cd

हतेषु तेषु सङ्ग्रामे खशसैन्धवकादिषु । 2007ab
वधं प्राप्तः सिंहभूभृद्द्वेषान्न स नृपो हतः ॥ 2007cd

आरूढः कोट्टमूर्धानं[^2008-1] मानमूर्ध्नः परिच्युतः । 2008ab
भग्नप्रतापो भूयोपि समधत्त स कोष्ठकम् ॥ 2008cd

विसृज्य लोठनं तिष्ठन्निर्वैरमगमत्पुनः । 2009ab
अनिर्वाहितदेयेन तेन द्वैधं स डामरः ॥ 2009cd

बद्ध्वाधिकारिणः शुल्कं गृह्यताकारि राजवत् । 2010ab
तेन स्वनाम्ना भाण्डेषु द्रङ्गे सिन्दूरमुद्रणम्1 ॥ 2010cd

जतुसंहतयोः काचकलशीदलयोरिव । 2011ab
क्षणे क्षणे सन्धिभङ्गस्तयोः समुदपद्यत ॥ 2011cd

[page 240]

विश्वास-प्रस्तुतिः

निर्व्यूढशून्यैर्वाग्रौक्ष्यैर्विरागं लोहरेश्वरः । 2012ab
निन्ये लवन्यं सोप्येनं स्पर्धाबन्धैरनङ्कुशैः ॥ 2012cd

डामरेण ततो दत्त्वास्कन्दं तत्कटकान्तरम् । 2013ab
परार्ध्यायुधधुर्याश्वहरणात्सु–1रं कृतम् ॥ 2013cd

दत्त्वा द्व – – 2 रायत्यां विषमैर्हठपौरुषैः । 2014ab
एवं तं कोष्ठको मूढः सुखोच्छेदं व्यधाद्द्विषाम् ॥ 2014cd

तनयादानसम्बन्धाच्छ्वशुरं मुख्यमन्त्रिणाम् । 2015ab
अत्रान्तरे नृपो हन्तुं माञिकं स व्यचिन्तयत् ॥ 2015cd

आसीत्कठोरतारुण्यतरङ्गितमनोभवः । 2016ab
सुव्यक्तं स हि तन्मातुरौपपत्येन सम्मतः ॥ 2016cd

आहारावसरे तीक्ष्णाः कृतसञ्ज्ञाः क्षमाभुजा । 2017ab
दत्तप्रहरणाः प्राणैर्भुञ्जानं तं व्ययोजयन् ॥ 2017cd

धुन्वन्नसिपटं बद्धवीरपट्टो रटन्बहु । 2018ab
निर्लुण्ठयन्स तत्सेनां तां तामारभटीं त्व्यधात् ॥ 2018cd

अवाशिष्यत न द्रोहमध्यादिन्दाकरोप्यहो3 । 2019ab
राज्ञा विषमितस्तेन रसदानेन स स्वयम् ॥ 2019cd

दैवतोत्सारितारातिस्ततः सिंहमहीपतिः । 2020ab
सन्दधे कोष्ठकं सुज्जिं प्राहिणोद्विजयाय च ॥ 2020cd

मार्गस्य याममात्रेण गम्यस्यान्तिकमाप सः । 2021ab
यावत्तुरङ्गहरणात्कोष्ठकेनाकुलीकृतः ॥ 2021cd

अन्तर्भेदाकुलस्तावत्प्रत्यवस्थातुमक्षमः । 2022ab
गृहीतकोशः सन्त्यज्य कोट्टं4 मल्लार्जुनो ययौ ॥ 2022cd

राज्यभ्रष्टः स निर्लुण्ठ्यमानो मार्गेषु तस्करैः । 2023ab
अवनाहोन्मुखो रक्षन्कोशशेषं कथञ्चन ॥ 2023cd

भ्रष्टमष्टादशशरद्देश्यश्चाष्टमवत्सरे5 । 2024ab
राज्यात्तेन द्वितीयस्यां वैशाखस्यासितेहनि6 ॥ 2024cd

दाता शिखामृतरुचेरमृतं विलब्ध – – 7 ण्यकृत्समिति लूनशिराः कृतश्च । 2025ab
ईशेन यत्र तदकार्युपकर्तुरस्तु तत्रापरः क इव सन्निहितद्विजिह्वः ॥ 2025cd

मुक्ता इमा इति जलं नलिनेषु लीनं ज्ञातृत्वमेतदिति जाड्यमिनेषु लग्नम् । 2026ab
यज्ज्ञायते किमपि हन्त विमोहनी सा शक्तिः श्रियः स्फुरति कापि तदाश्रयायाः ॥ 2026cd

घ्नन्त्यद्भुतप्रहरणा विपिनेषु केपि घ्राणेन केचन दृशाथ रसज्ञयान्ये । 2027ab
ते केपि सन्ति तु नरेन्द्रगृहेषु हिंस्रा वाचैव ये विरचयन्ति किलोपघातम् ॥ 2027cd

ज्योतीरसाश्मन इवाश्रितमीश्वरस्य निर्दग्धुमिन्धनमिवाग्रगतं न शक्ताः । 2028ab
पश्चाद्भवेद्यदि स तत्प्रसृतावकाशाः कुर्युः खला रविकरा इव भस्मशेषम् ॥ 2028cd

कापिलं हर्षटं कोट्टं नीतवान्मण्डलेशिताम् । 2029ab
उदयैः कोटभृत्यानां सङ्ग्रहं कम्पनाधिपः ॥ 2029cd

कुर्वञ्शय्यां पुनर्नेतुम् मण्डलं तद्व्यलम्बत । 2030ab
दिनानि कतिचित्तत्र यावत्प्रकृतिदुर्जनैः ॥ 2030cd

विटैरसूयाविषमैः प्रसादावसरो नृपः । 2031ab
तावत्कलुषताम् तस्मिन्नुपजापैरनीयत8 ॥ तिलकम्॥[^2031-2] 2031cd

राजा भवन्परः कोस्तु स्वविचारदृढक्रियः । 2032ab
एषोपि शिशुवद्भूभृद्यत्र धूर्तैः प्रनर्त्यते ॥ 2032cd

शैशवे बालिशप्रायैः9 संस्तुतैर्जाड्यमर्पितम् । 2033ab
प्रौढावपि न वा यायाद्राज्ञः कार्ष्ण्यं मणेरिव ॥ 2033cd

भृत्यान्तरापरिज्ञानमात्रेण जगतीभुजाम् । 2034ab
निरागसो वज्रपातः कष्ठं राष्ट्रस्य जायते ॥ 2034cd

[page 241]

विश्वास-प्रस्तुतिः

कृत्ये व्यवसितेसाध्ये दास्यः स्याल्लक्ष्मकादिवत् । 2035ab
सुज्जिः प्रायोजिराजाप्तैर्निर्जेतुमिति लोहरम् ॥ 2035cd

निर्व्यूढाद्भुतकार्येथ तस्मिन्ब्रह्मास्त्रतुल्यया । 2036ab
अमोघया प्रहह्नुस्ते पापाः पैशुनविद्यया ॥ 2036cd

गाम्भीर्यालक्ष्यविकृतैः प्रीत्यालापैर्महीपतेः । 2037ab
प्रत्यायातः कलुषतां नाज्ञासीत्कम्पनापतिः ॥ 2037cd

प्रकृत्या तस्य निर्द्रोहतया शङ्कास्य तादृशम् । 2038ab
प्रियं कृतवतश्च स्यादविश्वासोथ वा कथम् ॥ 2038cd

प्रीतिरासीन्न नृपतेस्तत्कृत्यैरुचितैरपि । 2039ab
अप्रियप्रमदालापैर्विरक्तस्येव कामिनः ॥ 2039cd

जित्वा राष्ट्रद्वयं प्रादां हारितं नृपतेरिति । 2040ab
बहुमानेन दर्पाच्च स्वच्छन्दं स व्यवाहरत् ॥ 2040cd

पौरानगारहरणाद्यपकारैरङ्कुशाः । 2041ab
तद्बन्धवो बाधमाना विरागमनयञ्जनम् ॥ 2041cd

निजागःस्मरणात्कोष्ठेश्वरी न व्यश्वसीन्नृपे । 2042ab
न पितृव्येपि भूपालकोपाविष्कृतविक्रिये ॥ 2042cd

कोशं प्रजोपतापेन सञ्चिन्वन्सुज्जिना समम् । 2043ab
सम्बन्धकृच्चित्ररथो नाभूदभिमतः प्रभोः ॥ 2043cd

धन्योदयौ10 नृपः सुज्जिदाक्षिण्यालक्ष्यसौहृदः । 2044ab
अपुष्णाद्द्रविणैर्गूढं राजपुर्यां10 कृतस्थिती ॥ 2044cd

तौ चावालगतां11 शीतज्वरनष्टपरिच्छिदौ । 2045ab
मल्लार्जुनस्य साम्राज्यभ्रंशेपि विपुलश्रियः ॥ 2045cd

सुज्जिद्वेषात्पुरा दूतैराहूतो लक्ष्मकेण यः । 2046ab
आगच्छत्सञ्जपालः स प्राप राजपुरीं तदा ॥ 2046cd

सुज्जिचित्ररथाभ्यां तं रुद्धचेष्टेन भूभुजा । 2047ab
अविसृष्टप्रवेशाज्ञं दूतैर्मल्लार्जुनोभजत् ॥ 2047cd

तन्निमित्तं स केनापि सामन्तेन सहाध्वनि । 2048ab
सञ्जातकलहे शस्त्रक्षतो लक्ष्म्या व्ययुज्यत ॥ 2048cd

तथाभूतमपि स्वर्णं भूर्युरीकृत्य नाशकत् । 2049ab
यत्तन्मल्लार्जुनो नेतुं कार्यज्ञैस्तदपूज्यत ॥ 2049cd

सोस्वतन्त्रेण राज्ञा च सौजन्याद्रिल्हणेन च । 2050ab
दूतैः प्रच्छन्नमाहूतो रभसादाययौ ततः ॥ 2050cd

न न्यघ्नन्नत्र12 चेद्धन्युर्माममुत्रेति चिन्तयन् । 2051ab
अमित्रविषमे मार्गे पुरं[^2051-2] साहसिकोविशत् ॥ 2051cd

स कन्यकुब्जगौडादिमण्डलेषु महीभुजाम् । 2052ab
स्पर्धया लब्धसत्कारो भूपतेर्मन्त्रियन्त्रिताम् ॥ 2052cd

अनवाप्य निजे देशे सत्प्रियां दुःखितोभवत् । 2053ab
राजधान्यन्तिकैः पौरैः प्रसृतास्रु व्यलोक्यत ॥ 2053cd

भूलालोगणयित्वाथ मन्त्रिणो दत्तदर्शनः । 2054ab
भेजे स्वहस्तताम्बूलदानप्रक्रिययैव तम् ॥ 2054cd

निष्किञ्चनोपि सन्ख्यातिमात्रेणानुगतो जनैः । 2055ab
यातायातं नृपगृहे कुर्वञ्शत्रूनकम्पयत् ॥ 2055cd

व्याहारव्यवहारादि व्यालोक्यालौकिकाकृतेः । 2056ab
पुरुषान्तरवित्सुज्जिस्तस्य स्वैरमवेपत ॥ 2056cd

दध्यौ सोथ ध्रुवं राष्ट्रेखर्वसर्वङ्कषक्रियम् । 2057ab
नैवमेवाद्भुतं भूतमेतदृक्शान्तिमेष्यति ॥ 2057cd

तांस्तान्देशान्तरे वीरानुत्सिक्तान्दृष्टवान्स च । 2058ab
तं पर्यालोच्य विश्रान्तिं सोत्सेकानाममन्यत ॥ 2058cd

भवितव्यतया दर्पेणाथ नीतः स्वतन्त्रताम् । 2059ab
परिवादावहं सुज्जिस्ततो वत्तद्व्यवाहरत् ॥ 2059cd

स्वानुगैर्लुण्ठितं रूक्षमाचक्षाणं रुषा द्विजम् । 2060ab
प्रासैर्मडवराज्यस्थः स सृगालमिवावधीत् ॥ 2060cd

बाह्ये कुकर्मणा तेन विप्लाव्य जनमागतम् । 2061ab
तं प्रत्युग्रक्रियं लोको विरागं नगरेप्यगात् ॥ 2061cd

अत्रान्तरे बन्धुमेकं व्यधुः कमलियादयः । 2062ab
अगण्यप्रायमुत्सेकादुत्तमप्रक्रियास्पदम् ॥ 2062cd

मयि सत्यपरोपि स्यात्किमनुग्राहकः स्मयात् । 2063ab
अकारि चारणप्रायस्तादृक्कोपीति सुज्जिना ॥ 2063cd

[page 242]

विश्वास-प्रस्तुतिः

सञ्जातयौनसम्बन्धबन्धः कमलियादिभिः । 2064ab
अथास्याक्षिगतोत्यर्थं सामर्थ्याद्रिल्हणोप्यभूत् ॥ 2064cd

अल्पेन हेतुनोद्भूतं द्वैतं तेषां च तस्य च । 2065ab
खलपैशुनसेकैस्तत्प्रापाशु शतशाखताम् ॥ 2065cd

प्रकृत्योत्सिक्तमुत्सेकावहैः समुददीदिपत्13 । 2066ab
दुर्मन्त्रैर्विग्रहैकाग्र्ये साहदेविस्तमुल्हणः ॥ 2066cd

असम्नानां[^2067-1] सहास्माभिः क्षमते तमशीर्षिकाम् । 2067ab
कृतघ्नोयमिति स्वैरं मन्युं राज्ञ्यपि सोग्रहीत् ॥ 2067cd

बिभ्यत्तु भूपतिस्तस्माद्रिल्हणं बाह्यभृत्यवत् । 2068ab
मन्त्रस्वैरकथाद्येषु विस्रम्भेषु व्यवर्जयत् ॥ 2068cd

स तु धूर्तत्वदुर्लक्ष्यतादृक्षस्वामिवैकृतः । 2069ab
स्वेषां धैर्यं परेषां तु सन्त्रासं माययातनोत् ॥ 2069cd

समग्रशक्तिराकाङ्क्ष्यसंस्तवः पक्षयोर्द्वयोः । 2070ab
तस्य तु प्रययौ सञ्जपालो दानेन मित्रताम् ॥ 2070cd

सन्नद्धयोः प्रविशतोरन्योन्यस्पर्धया तयोः । 2071ab
क्षणे क्षणे राजधानी ययौ सम्भ्रमलोलताम् ॥ 2071cd

सुज्जिः सभूपानाक्षेप्तुं प्रतिपक्षान्युयुत्सया । 2072ab
महीमानोत्सवास्थाने सङ्क्षोभमुदपादयत् ॥ 2072cd

कृकाटिकान्यस्तहस्तो द्वाःस्थेनावेदितो हि सः । 2073ab
तं निर्भर्त्स्य शिलाक्षेपं क्रोधरूक्षाक्षरोकरोत् ॥ 2073cd

लिखितैरिव तान्सर्वैः सोड्ःउं रक्षणमीशितुः । 2074ab
मिथ्या तथ्यमिवोदीर्य सङ्ग्रथ्नद्भिः समर्थताम् ॥ 2074cd

उपावेशयदभ्यर्णे भूपतिः परिसन्त्व्य तम् । 2075ab
सत्यस्मिन्नास्ति नः किञ्चिदित्यन्तस्तु व्यचिन्तयत् ॥ 2075cd

चक्रे मडवराज्यस्थैरथ प्रायो द्विजातिभिः । 2076ab
न सुज्जेः कम्पनेशत्वमिच्छाम इति वादिभिः ॥ 2076cd

अन्विष्य विद्विषः शङ्कां मन्त्रविन्निशि रिल्हणः । 2077ab
सन्नद्धसैन्यमानिन्ये पञ्चचन्द्रं तदप्रियम् ॥ 2077cd

शशङ्के सञ्जपालाच्च तस्माच्च बहुसैनिकात् । 2078ab
सुज्जिरन्यानगणयन्नबुद्धास्य च तद्रिपुः ॥ 2078cd

आस्कन्दभीत्या निर्गत्य हयारोहैः समं गृहात् । 2079ab
व्यूढानीको निरुद्धातो जजागाराथ सोध्वनि ॥ 2079cd

भूपतिप्रातिलोम्येन वर्तमानस्तदाभवत् । 2080ab
कोष्ठेश्वरोपि सन्नद्धः सुज्जिना बद्धसौहृदः ॥ 2080cd

स्थितमप्रातिलोम्येन सोवधीन्मनुजेश्वरम् । 2081ab
इति द्वेष्योपि नितरां द्वेष्यतां नृपतेरगात् ॥ 2081cd

तथा स्थिते निशीथिन्यामाचख्युस्तस्य14 विद्विषः । 2082ab
दुध्रुक्षाहेतुतां राज्ञः स्वगुप्त्यै तेन या कृता ॥ 2082cd

अतथ्यं तथ्यवद्वस्तु तथ्यं वातथ्यवन्नृपः । 2083ab
यः पश्येन्मूढवत्सोर्थैस्त्यक्तोनर्थैः कदर्थ्यते ॥ 2083cd

रत्नज्योतिर्हुतवहधिया त्यज्यते दृष्टिपातः श्यावाक्षाणामितरविषयः स्वस्य सम्भाव्यते च । 2084ab
वस्त्वेकैकं यदिह न मृषा तन्मृषा यन्मृषा तत्तथ्येनेत्थं किमिव न जनैर्दृश्यते तत्त्वशून्यैः ॥ 2084cd

राजाथ तद्वधादन्यदजानन्दौस्थ्यभेषजम् । 2085ab
न्ययुङ्क्त तस्य तीक्ष्णत्वे न सञ्जपालं महौजसः ॥ 2085cd

स कापुरुषवद्धीरः प्रहर्तुं छद्मनाक्षमः । 2086ab
काङ्क्षन्नाक्षिप्य तं हन्तुं तत्र तत्रैक्षत क्षणम् ॥ 2086cd

मायाप्रयोगानन्योन्यमुद्दिश्य स्पृशतोर्द्वयोः । 2087ab
क्षणे क्षणेभजद्राष्ट्रं त्रासोल्लासविलोलताम् ॥ 2087cd

प्रत्याशङ्क्योदयं रात्रौ सुज्जौ जाग्रति पूर्ववत् । 2088ab
अव्यग्रयामिकग्रामं राजधामाप्यजायत ॥ 2088cd

राष्ट्रन्निर्वासने रिल्हणस्य सुज्जेरभीप्सिते । 2089ab
पार्थिवोप्यनुमन्ताभूदनीशः प्रत्यवस्थितौ ॥ 2089cd

स निर्यियासुरामन्त्र्य15 तत्खेदात्क्षुभिताः प्रजाः । 2090ab
सन्दर्श्य द्वारपतिना राज्ञो युक्त्या समर्थितः ॥ 2090cd

सम्मन्त्र्य नृपतिं मैत्रीप्रार्थिना सुज्जिना समम् । 2091ab
पीत्वा कोशं सञ्जपालः प्राप्तो रात्रौ व्यजिज्ञपत् ॥ 2091cd

[page 243]

विश्वास-प्रस्तुतिः

प्रेरणादुल्हणादीनां स्वोत्सेकाच्चैष वर्तते । 2092ab
राजन्सुज्जेरभिप्रायः16 स्पर्धिनोन्याननिच्छतः ॥ 2092cd

निर्द्रोहस्योपकर्तुश्च मते स्याद्यदि मे नृपः । 2093ab
निर्वास्य रिल्हणं वित्ररथं बद्ध्वा महाधनम् ॥ 2093cd

लोहरारब्धिनिर्नष्टानश्वान्कोशं च भूपतेः । 2094ab
नयेयं सम्भृतो हन्यां दुर्वृत्तमपि कोष्ठकम् ॥ 2094cd

कार्योपरोधान्निर्बन्धः सम्बन्धेष्वेव नास्ति मे । 2095ab
दाक्षिण्यं स्वामिनः कृत्ये यस्य प्राणास्तृणोपमाः ॥ 2095cd

मध्येथ प्रतिराजादिनिर्जयस्वीकृतोद्यमे । 2096ab
युवाविश्रान्तचित्तोयं नृपश्रीभोगभाग्भवेत् ॥ 2096cd

साहायकाय द्वारेशमुल्हणाश्रये । 2097ab
कार्यत्राते च मामीशमाकारयितुमिच्छति ॥ 2097cd

ब्रूते च मामुल्हणश्च त्वं चाहं चाविभेदिनः । 2098ab
मिलिता यत्र तत्रास्ति गण्यः को नु नृपास्पदे ॥ 2098cd

इहस्था नवदायादमेकमानीय कञ्चन । 2099ab
निदध्मोस्य पदे राज्ञो नानुतिष्ठेदिदं यदि ॥ 2099cd

गुणान्प्रसरणत्रासाद्बन्धायेव गिरा सृजन् । 2100ab
द्विजांशुभङ्ग्या राजाथ विनिश्वस्ताव्रवीद्वचः ॥ 2100cd

यथाह स तथैवैतन्न द्रोहो नासमर्थता । 2101ab
नौदासीन्यमथैतस्मिन्सम्भाव्यमभिमानिनि ॥ 2101cd

निष्प्रतिद्वन्द्वभावोस्य दुरुच्छेदो भवेदिति । 2102ab
इयमप्यन्यतस्तावदस्त्वपायधियः कथा ॥ 2102cd

किं तु दूये यदाकोपप्राथम्यात्तथ्यतोपि17 वा । 2103ab
निर्द्रोहस्य वधो ध्यातो योस्यासौ कार्य एव तत् ॥ 2103cd

अर्थोयमल्पसत्त्वानामग्रेस्माभिर्हि मन्त्रितः । 2104ab
नूनं तेनोपलभ्येत तानावर्जयता धनैः ॥ 2104cd

पुण्यैरपरिहार्यैः स्वैर्जाद्यैर्वा मादृशाममी । 2105ab
जानतामपि जायन्ते निर्गुणा भोगभागिनः ॥ 2105cd

बालिशान्गृह्णतां18 प्रायश्चित्तमेतन्महीभुजाम् । 2106ab
तन्मौर्ख्यस्य फलं मूढैरेतैर्यदनुभूयते ॥ 2106cd

दुर्गमो भूमिभृन्मार्गो विटैर्हट्टवृषैरिव । 2107ab
… … … … … … … … … … …19 ॥ 2107cd

तन्वाना व्रतवैमुख्यं रसनालौल्यशालिनः । 2108ab
परपिण्डोपहर्तारः खलाः कौलेयका अपि ॥ 2108cd

इत्थं खलोपतापेन प्रयुक्तं तद्भयात्पुनः । 2109ab
असंहार्यं कुकर्मेदं पश्चात्तापाय नो भवेत् ॥ 2109cd

इत्युदीर्य नृपः सुज्जेः सज्जो व्यापादसिद्धये । 2110ab
तमजागारयच्छश्वज्जागरं चाग्रहीत्स्वयम् ॥ 2110cd

बिभ्रन्मन्त्रस्रुतेः शङ्कां जिघांसुः सुज्जिरित्यपि। 2111ab
तथ्यं भृत्यवचो जानंस्तस्थौ दौःस्थ्येन पार्थिवः ॥ 2111cd

गत्वा स्वयं गृहान्यौनसम्बन्धं कुरुतं20 युवाम् । 2112ab
इत्युक्त्वा रिल्हणेनाथ स सुज्जिं समयोजयत् ॥ 2112cd

विश्वास्यापि तथा हन्तुं तं प्रसङ्गमनाप्नुवन् । 2113ab
उदताम्यद्दिवारात्रं तल्पोपर्यवशं लुठन् ॥ 2113cd

सञ्जपाले गृहाद्बन्धुनाशदुःखिन्यनागते । 2114ab
आशङ्क्य साहसासिद्धिमधिकं पर्यतप्यत ॥ 2114cd

निपत्य वीरशयने सुस्सलक्ष्मापसत्क्रियाम् । 2115ab
भ्रातरो यस्य कल्याणराजाद्या व्यस्मरन्युधि ॥ 2115cd

सेनानीः कुलराजः स ख्यातो व्यायामविद्यया । 2116ab
प्राणैरानृण्यमिच्छंस्तमपृच्छच्छोककारणम् ॥ युग्मम्॥[^2116-1] 2116cd

स संस्थापयितुं हन्तुं वाप्यशक्यं न्यवेदयत् । 2117ab
तस्याप्रतिसमाधेयं कम्पनाधीश्वराद्भयम् ॥ 2117cd

कियदेतन्निजप्राणमात्रलभ्यं महीभुजाम् । 2118ab
इत्याभाष्य स जग्राह साहसाध्यवसायताम् ॥ 2118cd

दिनद्वयमनायातो गृहेभ्यः कम्पनापतिः । 2119ab
न प्रातिभाव्यमभजत्तस्य मृत्योः श्रियोथ वा ॥ 2119cd

विस्रम्भभृत्यः शृङ्गारनामा चाप्यब्रवीत्प्रभोः । 2120ab
तं दृष्टवांस्तृतीयेह्नि शयनेवगणं स्थितम् ॥ 2120cd

<2116>.

–1) A1 2.

[page 244]

विश्वास-प्रस्तुतिः

शोभोपयोगिनो भर्तुर्नित्यं सततसेवकाः । 2121ab
कर्तुं साहसाचिव्यं विदूरेण तु पार्यते ॥ 2121cd

करे पिनाको मकराङ्कशत्रोः शोभाविशेषाय सदानुषक्तः । 2122ab
पुराहवे कार्मुककर्म तस्य तत्कालमाप्तेन तु मन्दरेण ॥ 2122cd

ताम्बूलहारकव्याजात्ततो राजा व्यसर्जयत् । 2123ab
कुलराजं तमव्याजधैर्यासंलक्ष्यविक्रियम् ॥ 2123cd

ध्रुवं मृत्युः पुनर्नाहमागन्ता तत्ततोस्य कः । 2124ab
आरब्धेति21 स निन्ये न ताम्बूलं स्वर्णभाजने ॥ 2124cd

व्यसनप्रशमं राज्ञः स्वदेहत्यागतोनुगाः22 । 2125ab
एवं कर्तुं यतन्तेन्ये निर्व्यूढौ स्खलिताः पुनः ॥ 2125cd

सगणोवगणो वास्तु निहतो नियतं मया । 2126ab
जागर्त्वतः परं देव इत्युदीर्य विनिर्ययौ ॥ 2126cd

गतस्य साहसासिद्धौ निहतो नियतं मया । 2127ab
… … … … … … … … … … … 23 ॥ 2127cd

व्रजन्स्वामिहितं कृत्वा पुनः पश्चान्निनाय सः । 2128ab
शस्त्रिणौ द्वौ मिषाच्छस्त्र्यौ बन्धस्थाने परामृशन्24 ॥ 2128cd

स्वयं गृहीत्वा ताम्बूलं राज्ञा प्रहित इत्यथ । 2129ab
द्वाःस्थेनावेदितः25 सुज्जेः पार्श्वं रुद्धानुगोविशत् ॥ 2129cd

ददर्शोच्चावचैस्तं च मितैः परिजनैर्युतम् । 2130ab
यूथनाथमिवात्यल्पैर्द्विपैररहितान्तिकम् ॥ 2130cd

गृहीतवन्दितस्वामिताम्बूलः सस्मितं स तम् । 2131ab
पृष्ट्वा[^2131-1] कृत्यादि नृपतेः सत्कृत्य व्यसृजत्क्षणात् ॥ 2131cd

जनप्रवेशाशङ्की स त्वरमाणस्तमब्रवीत् । 2132ab
कृतागाः कोपि कैवर्तशस्त्रभृन्मत्वमाश्रितः ॥ 2132cd

तस्याक्षेपपरान्भृत्यान्स्वान्निवार्याधुना तव । 2133ab
सम्मन्या वयमित्यग्रेलक्षयन्प्रकृतिक्षणम् ॥ 2133cd

सोत्सेकामिव तां वाचं स दर्पादवधीरयन् । 2134ab
तस्य रूक्षाक्षरं नाहं कुर्यामित्यब्रवीद्वचः ॥ 2134cd

स रोषादिव निर्गच्छन्मान्योसाविति वादिभिः । 2135ab
तं सान्त्वयित्वा तद्भृत्यै रुद्ध्वा व्यावर्तितः पुनः ॥ 2135cd

तेनावादि ततः कर्तुं विज्ञप्तिं वस्तुनोमुतः । 2136ab
सज्जयोरादिश द्वारप्रवेशं भृत्ययोर्मम ॥ 2136cd

अवशेनेव तेनाथ वीक्ष्य तौ सम्प्रवेशितौ । 2137ab
सहायलाभाद्दुध्रुक्षुः प्रजिहीर्षुरवर्तत ॥ 2137cd

याताद्य कुर्यां प्रातर्वो विधेयमिति तान्वदन् । 2138ab
दत्तपृष्ठो निदिद्रासुस्तल्पे सुज्जिर्जहौ वपुः ॥ 2138cd

मत्वाथ किञ्चिद्व्यावृत्तो निष्कृष्टक्षुरिको जवात् । 2139ab
प्राहरत्कुलराजोस्य[^2139-1] वामे पार्श्वे कृतत्वरः ॥ 2139cd

तस्य धिक्कुर्वतो द्रोहमधावत्क्षुरिकां प्रति । 2140ab
यावत्पाणिः प्रहरणं तावत्सर्वेपि ते व्यधुः ॥ 2140cd

विमर्शः[^2141-1] पश्यतां यावदाशङ्क्ये तत्र नोद्ययौ । 2141ab
स तावदेव सुचिरापेतश्वास इवाभवत् ॥ 2141cd

भयत्यक्ताभिमानेषु विद्रुतेष्वनुजीविषु । 2142ab
चकर्ष शस्त्रं तत्रैकः पिञ्चदेवः परं तदा ॥ 2142cd

प्रहरंस्तैस्त्रिभिस्तुल्यप्रतिप्रहृतिभिः क्षतः । 2143ab
भ्राम्यन्स्रुतासृक्तस्मात्स मण्डपान्निरवास्यत ॥ 2143cd

स्थितान्दत्तार्गले धाम्नि रुद्धद्वारतमोरयः । 2144ab
जिघांसवः सुज्जिभृत्यास्ततस्तान्पर्यवारयन् ॥ 2144cd

तमोरिप्रतिकुर्वाणा भज्यमानेरिभिर्व्यधुः । 2145ab
ते द्वारे तूलशय्यां तां प्रोत्सार्य शवमुद्धृतम् ॥ 2145cd

खड्गेषुशूलपरशुक्षुरिकाश्माभिवर्षिणः । 2146ab
तान्समभ्रमयन्मार्गैरनेकैस्ते26 विविक्षवः ॥ 2146cd

नैराश्यहेतोर्विशतां तेषां सङ्कटवर्तिभिः । 2147ab
पृष्टाच्छित्वा शिरः सुज्जेरङ्गनेक्षिप्यताथ तैः ॥ 2147cd

अस्रनिःसरणाभीक्ष्णशुक्लेक्षणपुटश्रुतिः । 2148ab
उत्तरौष्ठकचच्छन्नसन्नघ्राणपुटद्वयम् ॥ 2148cd

[page 245]

विश्वास-प्रस्तुतिः

अक्ष्णोर्बम्भ्रम्यमाणस्य लोकस्य प्रतिबिम्बकैः । 2149ab
सम्भाव्यमानसंस्पन्दस्तोकप्रव्यक्ततारकम् ॥ 2149cd

स्थपुटस्याक्रमच्छेदाद्गलमांसस्य सन्धिषु । 2150ab
हरिद्रार्द्रैरिवाश्यानमेदोग्रन्थिभिरुल्बणम् ॥ 2150cd

धूलिध्वस्तकचश्मश्रु तदेतदिति निश्चयम् । 2151ab
परं भालतलस्थेन ददत्कुङ्कुमविन्दुना ॥ 2151cd

तद्वीक्ष्य तिर्यक्पतनव्यक्तसन्ध्यन्तरद्विजम् । 2152ab
उच्चलत्तुमुलाक्रन्दा भृत्याः क्वापि विदुद्रुवुः ॥ कुलकम्॥ 2152cd

तीक्ष्णान्प्रयुज्य क्ष्मापस्तु तिष्ठन्व्याकुलधीस्तदा । 2153ab
बहिर्वीक्ष्य जनक्षोभं साहसं निश्चिकाय तम् ॥ 2153cd

सुज्जौ हते क्षते कार्यमेतदिति द्रुतम् । 2154ab
सन्नह्य सैन्यस्यादिक्षत्स तन्मन्दिरचेष्टनम् ॥ 2154cd

मिथैव सुज्जिर्निस्त्रीर्ण इति श्रुतवता जनात् । 2155ab
स्वयमग्राहि भूपेन ततः समरसम्भ्रमः ॥ 2155cd

निःसंशयं हतं ज्ञात्वा सुज्जिं राजोपजीविनः । 2156ab
तत्र स्थितं शिवरथं सर्वद्वेष्यमबन्धयन् ॥ 2156cd

हिल्लात्मजन्मनः सुज्जिभ्रातृस्यालस्य कौशलम् । 2157ab
कलशस्याद्य27 निर्वर्ण्य वाणीयं पुण्यभागिनी ॥ 2157cd

आक्षिप्यमाणैर्भिक्ष्वाद्यैरन्ते वीरोचितं कृतम् । 2158ab
तेन त्वसंशथस्येन सदाचारान्न विच्युतम् ॥ 2158cd

राजौकस्येव तां वार्तां श्रुत्वा स ह्यपलायितः । 2159ab
हतस्य स्वामिनोभ्यर्णं जिहासुर्जीवितं ययौ ॥ 2159cd

द्वारं पदप्रहृतिभिर्भञ्जन्तं राजसैनिकाः । 2160ab
अपसार्य कथञ्चित्तं तीक्ष्णाः कृच्छ्रादरक्षिषु ॥ 2160cd

प्रविष्टेस्मिन्ननिर्व्यूढपीडिते मण्डपान्तरम् । 2161ab
लब्धप्राणा नृपाभ्यर्णं कुलराजादयो ययुः ॥ 2161cd

हठप्रविष्टो हतवान्स तत्रैकं महाभटम् । 2162ab
शरैरेव हतो दूरात्कथञ्चित्परिपन्थिभिः ॥ 2162cd

आयातं क्षुभिते देशे सञ्जपालं महीपतिः । 2163ab
रिल्हणं चोल्हणं हन्तुं प्राहिणोद्विहितत्वरः ॥ 2163cd

यातो मार्गात्पलाय्यायं परिशङ्क्येति रिल्हणः । 2164ab
क्षिप्तिकातटपर्ययन्तमटित्वा यावदाययौ ॥ 2164cd

पूर्वायातः सञ्जपालो गृहद्वाराद्विनिर्यतः । 2165ab
उल्हणस्य पथो रुन्धन्सुबहून्प्रहरन्रणे ॥ 2165cd

तावदेकस्य खड्गेन निकृत्ते दोष्णि दक्षिणे । 2166ab
त्वङ्मात्रशेषे छिन्नास्थिस्नायुग्रन्थिरजायत ॥ तिलकम्॥28 2166cd

अगण्यप्रायतां प्राप्ते वंशे यत्कौशलादसौ । 2167ab
दिगन्तरेषु स्वस्मिंश्च देशे प्राप प्रथां पुनः ॥ 2167cd

फलकाले समासन्ने शौर्यप्रतिभुवाभजत् । 2168ab
स तेन दोष्णा वैकल्यं धिगिच्छां विधुरां विधेः ॥ 2168cd

स प्राग्वदुदयावाप्तौ भवेदविकलो यदि । 2169ab
फलेन तस्य जानीयादिच्छां लोकोयमग्भुताम् ॥ 2169cd

पीतामृतस्य क्षतविग्रहत्वं न प्राभविष्यद्यदि नाम राहोः । 2170ab
अज्ञास्यादिच्छां तदमुष्य लोकः सामर्थ्यभाजः सुचिरप्ररूढाम् ॥ 2170cd

वृष्टः शीलाभिधो वृद्धः पितृव्यः साहदेविना । 2171ab
सस्पृहं निहतः साधु – –1 जातव्रणार्तिना ॥ 2171cd

तस्यार्त्या विशतो वेश्म जज्जलाख्योग्रगो हतः । 2172ab
मान्योनुगो गेहे रिल्हणोग्निमदापयत् ॥ 2172cd

बालं तनयमालोक्य निषण्नस्याङ्गनस्थितेः । 2173ab
तस्यानिर्गच्छतो गेहे रिल्हणोग्निमदापयत् ॥ 2173cd

आनीयमानो धूमान्धो बद्ध्वा मुख्यैः स सैनिकैः । 2174ab
गृहद्वारे हतः कैश्चित्प्राकृतैर्व्रणविक्लवः ॥ 2174cd

तस्य प्रधानप्रकृतिक्षयहेतोर्महीपतिः । 2175ab
मुण्डमप्यवलोक्यासीदशान्तक्रोधविक्रियः ॥ 2175cd

व्यापाद्यमानाः साकोपं भूपतिप्रेरितैर्भटैः । 2176ab
उच्चावचाः सुज्जिभृत्याः कृत्यं सत्त्वोचितं व्यधुः ॥ 2176cd

are missing; the lacuna not indicated in A; C supplements सम्यग्जा॰.

[page 246]

विश्वास-प्रस्तुतिः

अनुजो लक्ष्मकः सुज्जेर्बद्ध्वा नीतः स विक्रियाम् । 2177ab
नृपं वीक्ष्यादयैः कैश्चिद्राजधान्यङ्गने हतः ॥ 2177cd

भ्राता पितृव्यजस्तस्य सङ्गटाख्यो नृपाङ्गने । 2178ab
अटन्नट इव प्राणानौचित्येनामुचत्कृती ॥ 2178cd

प्रविष्टः शरणं बाणवंश्यैः पापैः प्रमापितः । 2179ab
उन्मत्तो मुम्मुनिस्तस्य भ्राता कैश्चित्स्वमन्दिरे ॥ 2179cd

सुज्जिस्यालस्तु शृङ्गारवृत्त्या भङ्गुरया हतः । 2180ab
महाकुलीनो विचस्न्नौचित्येन च चित्रियः ॥ 2180cd

सङ्गिकाख्यः प्रतीहारो व्रणितः शनकैर्हतः । 2181ab
अन्येपि संश्रिताः सुज्जेस्तत्र तत्र प्रमिम्यिरे ॥ 2181cd

जात्यवाजिजवप्राप्तप्राणाः कोष्ठेश्वरान्तिकम् । 2182ab
आसाद्य वीरपालाद्या द्वित्रा मृत्युभयं जहुः ॥ 2182cd

व्रजञ्शरदियो29 दुष्टोत्थानरुद्धतुरङ्गमः । 2183ab
प्रपेदे सङ्गटभ्राता बन्धनं सुभटामठे ॥ 2183cd

सूनुश्च सज्जलः सुज्जेः श्वेतिकश्चाग्रजात्मजः । 2184ab
उल्हणस्य तनूजश्च कारागारं प्रपेदिरे ॥ 2184cd

इत्थं राजन्यमात्ये30 च प्राप्ते पिशुनवश्यताम् । 2185ab
नवमेब्दे शुचेः शुक्लपञ्चम्यां विप्लवोभवत् ॥ 2185cd

कार्ये क्वापि विपर्यस्तसत्त्वं संस्मृत्य मन्त्रिणम् । 2186ab
तमद्यापि नृपस्तादृग्भृत्योपेतोनुतप्यते ॥ 2186cd

वेतालोत्थापनाच्छ्वभ्रलङ्घनाद्विषचर्वणात् । 2187ab
व्यालाश्लेषाच्च विषमं सत्यं राजोपसेवनम् ॥ 2187cd

अनात्मायत्तनिस्तीर्णगुणानां चक्रवर्तिनाम् । 2188ab
शकटानामिवाग्रस्थो विश्वस्तः को न भज्यते ॥ 2188cd

अयुक्तं नृपतिः सुज्जिवधं मेने प्रजाः पुनः । 2189ab
युक्तं ज्ञात्वा तमुद्रिक्तशक्तितां विविदुः प्रभोः31 ॥ 2189cd

भेजे राजा सञ्जपालं कम्पनाधिपतिं ददत् । 2190ab
कुलराजे च नगराधीकारित्वं समार्पयत्32 ॥ 2190cd

त्यक्त्वा मल्लार्जुनं[^2191-1] धन्योदयौ नगरमागतौ । 2191ab
प्राग्वत्पुनर्जजृम्भाते प्रियौ विश्वम्भराभुजः ॥ 2191cd

इतराश्रयविच्छेदा वीतपारिप्लवस्थितिः । 2192ab
श्रीः सर्वाकारमकरोत्स्थिरं चित्ररथे पदम् ॥ 2192cd

अद्भुतैश्वर्यधुर्योपि राष्ट्रं दण्डेन पीडयन् । 2193ab
शमं नेतुमशक्योभूत्स भूपस्याप्यनङ्कुशः ॥ 2193cd

गन्धर्वानाभिधे ग्रामे टिक्कं हत्वा व्यसर्जयत् । 2194ab
पारेविशोकं कोट्टेशस्तच्छिरः पार्थिवान्तिकम् ॥ 2194cd

निसर्गद्वेषिणा प्राप्तप्रतापे नितरां नृपे । 2195ab
तदानीं तप्यमानेन दूतेनाप्यायितोसकृत् ॥ 2195cd

कोष्ठेश्वरेण रभसादल्पैः परिजनैर्युतः । 2196ab
निशि लोठनदेवः स हाडिग्रामं ततोविशत् ॥ 2196cd

महाकथितकन्योन्यैः संरब्धे राज्ञि सर्वतः । 2197ab
बद्धसन्धिर्लवन्यस्तं विससर्ज यथागतम् ॥ 2197cd

उच्चलादिवदादातुं राज्यं स रभसं भजन् । 2198ab
निर्व्यूढिशून्यदार्द्योगान्मूढो लोकस्य हास्यताम् ॥ 2198cd

तीक्ष्णप्रयुक्तिभिः सैन्यभेदैरन्यैश्च कोष्ठकम् । 2199ab
उपायैर्नृपतिस्तैस्तैस्ततो हन्तुं व्यचिन्तयत् ॥ 2199cd

प्रतिद्वन्द्वीव तीक्ष्णानां पाटिताक्षः क्षमाभुजम्[^2200-1] । 2200ab
न सम्प्रासादयत्क्रुद्धः[^2200-2] प्रतियोद्धुं त्वचिन्तयत् ॥ 2200cd

स्वैः स्वैः प्रदेशैरादिश्य प्रवेष्टुं पृतनापतीन् । 2201ab
स्वयमुच्चावचैः सैन्यैरवचस्कन्द तं पुनः ॥ 2201cd

स भूपं रभसायातं ज्ञात्वाल्पपृतनं बली । 2202ab
प्राप्तश्छलयितुं तस्थौ प्रतापैः परिहारितः ॥ 2202cd

लग्ने रणे चित्ररथः पृथुसैन्योपि दैवतः । 2203ab
तस्य सैन्यैकदेशेन निन्ये जयविपर्ययम् ॥ 2203cd

भङ्गेनामङ्गलोङ्कारकल्पेन33 किल तेन सः । 2204ab
ततः प्रभृत्यभूद्भ्रश्यदवष्टम्भो दिने दिने ॥ 2204cd

रिल्हणादीन्योधयित्वा व्यूढव्यस्ताखिलानुगः । 2205ab
लवन्यो न्यपतत्सायं कम्पनाधिपतेर्बले34 ॥ 2205cd

[page 247]

विश्वास-प्रस्तुतिः

ऊनैः शतादपि भटैर्युतो विद्रुतसैनिकः । 2206ab
सेहे35 तत्सैन्यरोषं स गजक्षोभमिवाचलः ॥ 2206cd

किं वाच्यः स नरव्याघ्रः प्रवृद्धिं याति सङ्गरे । 2207ab
निजवर्मतनुत्रादि यस्य मानि[^2207-1] न वर्ष्मणि ॥ 2207cd

मन्दीकृतारिसंरम्भमवष्टम्भेन तादृशा । 2208ab
तं त्रिल्लकादयः प्रापुर्लवन्याः सैन्यशालिनः ॥ 2208cd

तैः सजातीयदाक्षिण्यात्तटस्थैरपि सङ्कटे । 2209ab
तस्येषदुपयोगोभूत्स्ववीर्यापास्तविद्विषः ॥ 2209cd

काले सन्नहनं रात्रिजागरः सामतो बलैः । 2210ab
समये ग्रहणत्यागतत्तद्युक्तिविकपनम् ॥ 2210cd

लब्धभूम्यपरित्यागो जिगीषोरीदृशैर्गुणैः । 2211ab
चलेयुररयोप्यस्य का वैर्याक्रमणे स्तुतिः ॥ 2211cd

अविश्वसन्भिन्नभृत्यस्तादृक्संरम्भपीडितः । 2212ab
पलायनोन्मुखः शैलात्कोष्ठकोथ व्यगाहत ॥ 2212cd

मार्गेष्वकालप्रालेयपातरुद्धेषु वाजिनाम् । 2213ab
गन्तुं तस्योद्यमं जघ्नुः पृष्टलग्ना विरोधिनः ॥ 2213cd

अवमानोपतप्तोथ परिमेयपरिच्छदः । 2214ab
स ययौ जाह्नवीं स्नातुं राज्ञा राष्ट्रादपाकृतः ॥ 2214cd

सोमपालोथ भूपालनाम्ना पुत्रेण खेदितः । 2215ab
दीर्घद्वैराज्यदुःखार्तः शरणं नृपतिं ययौ ॥ 2215cd

पुत्रौ दत्तवतो नीविं नागपालस्य तस्य च । 2216ab
अभयं प्रतिशुश्राव भूभृदाश्रितवत्सलः ॥ 2216cd

बृहद्राजस्य जिह्मोयं दौस्थ्यहेतुरभूदिति । 2217ab
स तदापदि नास्मार्षीदव्याजौदार्यधुर्यधीः ॥ 2217cd

साहायकाय स्वं सैन्यं दत्तवांस्तं महीपतिः । 2218ab
भूयः प्रतिष्ठामनयद्दर्पप्रशमनाद्द्विषाम् ॥ 2218cd

स्नात्वा द्युनद्यां व्यावृत्तः कोष्ठकोत्रान्तरे पुनः । 2219ab
मल्लार्जुनं गृहीत्वाभूद्वैराज्योत्थापनोद्यतः ॥ 2219cd

अकोपरागे प्राप्तः स कुरुक्षेत्रमवाप तम् । 2220ab
लवन्यं कार्यतस्त्यक्तपूर्ववैरो नृपात्मजः ॥ 2220cd

आहूतो लोठनः पूर्वमायातस्तेन डामरम् । 2221ab
निशम्य तं सङ्घटितं36 खिन्नः प्रायाद्यथागतम् ॥ 2221cd

विजयेशाग्रतः पीतकोशोपि नृपतिद्विषः । 2222ab
प्रविविक्षूनुपैक्षिष्ट सोमपालो दुराशयः ॥ 2222cd

आराधनाय भूभर्तुस्तत्पुत्रः कोष्ठकं पुनः । 2223ab
प्राप्तं स्वविषयैस्तैस्तैष्ठक्कुरैर्निरलुण्ठयत् ॥ 2223cd

अत्रान्तरे चित्ररथं संवृद्धायासदुर्ग्रहम्37 । 2224ab
अनिच्छन्तोवन्तिपुरे प्रायं चक्रुर्द्विजातयः ॥ 2224cd

उपेक्ष्यमाणास्ते दर्पात्तेनागणितभूभुजा । 2225ab
ज्वलितो ज्वलने देहान्वहवो जुहुवुः शुचा ॥ 2225cd

चरके धर्मधेनूनामुत्तब्धेपि तदाश्रितैः । 2226ab
वह्निं गोपालकोप्येकः कारुण्यप्रवणोविशत् ॥ 2226cd

भट्टस्योद्भटवंशस्य पृथ्वीराजस्य नन्दनः । 2227ab
युवा विजयराजाख्यः सानुजो गाढदुर्गतः ॥ 2227cd

देशान्तरं जिगमिषुर्विषमं वीक्ष्य तत्र तत् । 2228ab
व्याजहारानुजन्मानं कारुण्यास्रुकणान्किरन् ॥ 2228cd

उपेक्ष्यमाणा दाक्षिण्यस्तम्भितेन महीभुजा । 2229ab
विशः सचिवपाशेन विवशाः पश्य नाशिताः ॥ 2229cd

छन्दानुवृत्त्यामात्यानां38 यत्र क्ष्माभृदुपेक्षते । 2230ab
कस्तत्रान्यस्तु दीनानामापच्छमयिता विशाम् ॥ 2230cd

यद्वा न्यायोयमन्योन्यस्पर्धया यदुपप्नुतम् । 2231ab
शमिता दण्डयेच्छाम्यं शमितारं परोथ वा ॥ 2231cd

विशृङ्खलं नयेच्छय्यां दार्ढ्यसारं विघट्टनैः । 2232ab
कदाचिल्लोहमश्मानमश्मा लोहं कदाचन ॥ 2232cd

दोषेणैकेन न द्वेष्यो राजा सर्वगुणोज्ज्वलः । 2233ab
वधाच्चिन्नरथस्यान्यद्विधेयं नावभाति मे ॥ 2233cd

धर्मः सर्वोपकार्येकक्षुद्रक्षपणमुच्यते । 2234ab
जघानाजगरं सोपि जन्तूनामन्तकं जिनः ॥ 2234cd

[page 248]

विश्वास-प्रस्तुतिः

दुर्वृत्तदमनेस्माभिः39 कृते तेजस्विनो जनात् । 2235ab
भूयोप्यधिकृतो बिभ्यन्न कश्चित्पीडयेत्प्रजाः ॥ 2235cd

कायस्यास्य परित्यागादनन्ता जन्तवो यदि । 2236ab
सुखिनः स्युरसौ भ्रातर्वणिज्या ज्यायसी न किम् ॥ 2236cd

संशुश्रुवांसं स तथेत्यथ तं कोशपीथिनम् । 2237ab
विधायानुससारैत्य हन्तुं चित्ररथं तदा ॥ 2237cd

कालेस्मिन्धर्मदौर्बल्यकलुषेपि कलेः किल । 2238ab
प्रभावो भूमिदेवानां द्योततेद्याप्यभङ्गुरः ॥ 2238cd

ब्राह्मणैरपरिक्षीणपूर्णपुण्यो न कश्चन । 2239ab
धैर्यमारभते भ्रष्टदुष्टोत्पाटनपाटवैः ॥ 2239cd

द्विजानुद्वेजयन्सुज्जिर्द्विजादेवासदद्वधम् । 2240ab
विप्रेणैव हतश्चित्ररथो विप्रावमानकृत् ॥ 2240cd

द्विजोत्थापितयाक्रान्तचित्तोसौ कृत्यया ध्रुवम् । 2241ab
दध्यौ तस्य वधं प्राणान्विना कारणमुत्सृजन् ॥ 2241cd

कृशानुसादकृषत विप्रा देहान्यदैव ते । 2242ab
तद्वेषस्तुल्यसङ्घर्षे तदैवासीद्धतानुगः ॥ 2242cd

अनासादयतश्चित्ररथं पृथुबलान्वितम् । 2243ab
गणरात्रमभूद्धन्तुर्दिवारात्रं प्रजागरः ॥ 2243cd

स ह्यपर्यन्तसामन्तसीमन्तितपथो व्रजन् । 2244ab
अभूददृश्यो दृश्यश्च जनसंवाधमध्यगः ॥ 2244cd

तेन साश्चर्यनैश्चल्यनिष्ठुरेणैकदा जवात् । 2245ab
सोनुसस्रे व्यतिक्रान्तनिःश्रेणिर्नृपवेश्मनि ॥ 2245cd

विलम्बितस्य स्तम्भाग्रे40 कृपाण्या मूर्ध्न्यथास्य सः । 2246ab
सामन्तमध्यगस्यैव प्राहरत्तीव्रसाहसः ॥ 2246cd

मुमूर्षोरिव तत्रास्य वैह्वल्यगलितस्मृतेः । 2247ab
उद्भ्रान्तचक्षुषो वर्चश्च्यवनं समपद्यत ॥ 2247cd

प्रमापितोयं राज्ञेति ज्ञात्वा सत्त्ववहिष्कृताः । 2248ab
वित्रस्तास्तं तथाभूतमत्यजन्ननुजीविनः ॥ 2248cd

तं वीतजीवितं ज्ञात्वा न तीक्ष्णः प्राहरत्पुनः । 2249ab
प्राप्तं द्वितीयनिःश्रेण्या भ्रातरं निषिषेध च ॥ 2249cd

न पलायिष्ट निर्विघ्नसर्वमार्गोपि घातितः । 2250ab
राज्ञा चित्ररथः शश्वदित्युच्चैः प्रोच्चकार सः ॥ 2250cd

प्रनष्टं41 भृष्टमांसादिराज्यभोगपुरःसरैः । 2251ab
सर्वैः कापुरुषैस्त्रासादथ चित्ररथानुगैः ॥ 2251cd

ज्यायांल्लोठरथस्तस्य भ्राता भीत्या पलायितः । 2252ab
शरणं नर्तकीमेकां ययौ वक्त्रार्पितस्तनः ॥ 2252cd

तादृक्प्रवेशितश्चित्ररथोभ्यर्णं महीभुजा । 2253ab
मा भैषीः42 प्राहरत्कस्त्वामित्युक्त्वाश्वासितः स्वयम् ॥ 2253cd

नृपाज्ञया को निहन्ता द्वारेशस्येति वादिभिः । 2254ab
तीक्ष्णोन्विष्टो भटैः सोहमित्युक्त्वा स्वं न्यदर्शयत् ॥ 2254cd

धीरो योधान्स्वधैर्यात्तलङ्घनश्लाघ्यविक्रमः । 2255ab
त्रिंशद्विंशान्स हत्वाथ प्रहृत्य चरणे हतः ॥ 2255cd

परित्राणाय साधूनां विनाशाय च दृष्कृताम् । 2256ab
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे43 ॥ 2256cd

लब्धा लिखिततत्कृत्यकारणा पत्रिका करात् । 2257ab
तस्यान्तसमयाशंसा श्लोकेनानेन पावनी ॥ 2257cd

अरुच्युन्माददीनत्वयुतश्चित्ररथस्ततः । 2258ab
रूढव्रणोपि लालाटसन्धिवेधादजायत ॥ 2258cd

स मासान्प्रञ्चषान्याप्य निराप्यायकृशाकृतिः । 2259ab
विवेष्टमानोवर्तिष्ट शयनीयतलेन्वहम् ॥ 2259cd

मल्लार्जुनं पुरस्कृत्य कोष्ठकोi विप्लवोन्मुखः । 2260ab
तन्मध्ये तरुसम्बाधं गिरिदुर्गमगाहत ॥ 2260cd

मा44 मामभ्रमयं भ्राम्यन्स्वयूथ्यग्रसनोद्यमात् । 2261ab
अविस्मृतापदं लोकं पुनर्द्वैराज्यशङ्किनम् ॥ 2261cd

अकाण्डाम्बुदजाद्येन पीडिताङ्ग इवाभजत् । 2262ab
परचक्रोदयेनाशु लोकः शिथिलशक्तिताम् ॥ 2262cd

तरुदुर्गं तदकृशक्रोशव्याप्यथ45 सर्वतः । 2263ab
व्याप्तोपान्तवनग्रामैः सचिवैः स न्यरोधयत् ॥ 2263cd

[page 249]

विश्वास-प्रस्तुतिः

सञ्जपाले यवनकैः स्कन्धावारं46 निबध्नति । 2264ab
अनुचक्रुर्द्विषोस्पन्दान्निवातस्तिमितांस्तरून् ॥ 2264cd

धन्योपि शिलिकाकोट्टपर्यस्तकटकोभवत् । 2265ab
गन्धद्वेषी गजरिपुः सिन्धुरस्येव47 वैरिणः ॥ 2265cd

आवासितबलो राज्ञा गोवासे रिल्हणोकरोत् । 2266ab
अटवीं पर्यटन्घूकानिवार्को ब्रुडितानरीन् ॥ 2266cd

तीव्रशक्तेर्नृपस्यैवमारम्भैः स्तम्भितोभजत् । 2267ab
कोष्ठेश्वरस्त्रिचतुरान्मासान्सञ्चारशून्यताम् ॥ 2267cd

क्लिष्टे देशान्तरे राष्ट्रानन्तरैर्न्यक्कृतो नृपैः । 2268ab
भिन्नस्ववर्गो भूभर्तृभृत्यव्यर्थीकृतोद्यमः ॥ 2268cd

वालिशत्वादकुशलो48 ज्ञातुं वृत्तिं महीभुजाम् । 2269ab
स विस्मृतागाः सन्धातुमैच्छच्छिन्नपदो नृपम् ॥ 2269cd

उज्जिहीर्षोः प्रभोर्मन्युं वाच्यम् तद्वञ्चनाद्विदन् । 2270ab
भक्त्येकाग्रः सञ्जपालस्तस्येच्छां तामपूरयत् ॥ 2270cd

तथार्तोपि रिपुं राज्ञः सन्धित्सुर्न्यग्रहीन्न सः । 2271ab
पृथ्वीहरप्रसूतानां निर्द्रोहत्वं न कौतुकम् ॥ 2271cd

तेन प्रहिण्वता राजवैरिणं स्वकराङ्गुलिम् । 2272ab
छिन्दतापि महीभर्तुर्मन्युश्छेत्तुं न पारितः ॥ 2272cd

कण्ठबद्धशिरःशाटः शीर्षेणोपानहं वहन् । 2273ab
भुक्तोवेलोपि भूपालं कर्तुं नाशकदक्रुधम् ॥ 2273cd

अस्वीकृततद्वित्रभूभृल्लाञ्छनः स हि राजवत् । 2274ab
तत्तत्प्रत्युक्तभूपाज्ञः सर्वं गर्वाद्व्यवाहरत् ॥ 2274cd

शुश्राव बद्धं तनम्ध्ये यातं मल्लार्जुनं नृपः । 2275ab
अनुबध्नाति भव्यानामुदयेभ्युदयान्तरम् ॥ 2275cd

नीयमानः स हि स्कन्धमधिरोप्यानुजीविभिः49 । 2276ab
अजाङ्घिकतया मार्गोल्लङ्घनायासनिःसहः50 ॥ 2276cd

ततस्ततो भयस्थानान्निस्तीर्णो लोहराश्रितम् । 2277ab
सावर्णिकाभिधं ग्रामं प्राप्तो विन्यस्तरक्षिणा ॥ 2277cd

निरुद्धो जग्गिकाख्येन ठक्कुरेण महीपतिः । 2278ab
प्रियङ्करं तं च भृत्यं शुश्रावान्तिकमागतम् ॥ 2278cd

बद्धप्रायोरिणा दुर्गान्निर्गतः स कथञ्चन । 2279ab
बद्धस्तेन पुनः शक्तिः51 कस्य भाव्यर्थलङ्घने52 ॥ 2279cd

गङ्गा द्युमार्गलुठिता जठरात्कथञ्चिदेकस्य संहृतवतो निसृता महर्षेः । 2280ab
ग्रस्तापरेण कृतसागरगर्तपूर्तिः शक्तो न कोपि भवितव्यविलङ्घनायाम् ॥ 2280cd

जग्गिके53 बद्धसम्प्राप्तिपर्यन्तोपान्तरक्षिणि । 2281ab
राज्ञोदयद्वारपतिः प्रायोजि प्राज्यबुद्धिना ॥ 2281cd

तं विना धैर्यगाम्भीर्यशौर्यधुर्यं महाधियम् । 2282ab
सङ्कटे न ह्यवष्टम्भो राज्ञाज्ञाय्यन्यमन्त्रिणाम् ॥ 2282cd

स ह्यतिक्रम्य साबाधान्मार्गानुभयवेतनैः । 2283ab
तमोरिस्थितमद्राक्षीत्तं क्षमापतिविद्विषम् ॥ 2283cd

निष्ठाशून्येन धैर्यसम्भावनावहः । 2284ab
स्तुवन्त तं बहिः प्राप्तं तत्तदुक्त्वाब्रवीत्पुनः ॥ 2284cd

सर्वतो ज्यायसीं भर्तृभक्तिं यो बहु मन्यते । 2285ab
भवान्धुर्यो मतिमतामाहृतो लोभनातुरैः ॥ 2285cd

कृता रक्षामणिसमं सहायं त्वादृशं विना । 2286ab
हानिर्मे दुर्नरेन्द्रस्य बाल्ये राज्ये बहुच्छलैः ॥ 2286cd

दुष्प्रेक्ष्यमाणां भवत्येव नियमाद्राजभास्वताम् । 2287ab
भाग्यान्तहेमन्तदिने जननेत्रविलङ्घ्यता ॥ 2287cd

शोभते रुधिराताम्रमण्डलाग्रो यथोदये । 2288ab
तथा वोस्तमये भास्वानिव वन्ध्यः स भूपतिः ॥ 2288cd

धन्योवतारो यस्यासीत्क्षुभ्यत्पौराङ्गनाजनः । 2289ab
उदयेस्तमयेप्युग्रे रागव्यग्राप्सरोगणः ॥ 2289cd

पदे प्रयोगं लब्ध्वार्थं किञ्चित्कृत्वा कुलीनवत् । 2290ab
अहं कविरिव प्रौढः प्राप्तो निर्व्यूढिमूढताम् ॥ 2290cd

सत्यङ्कारोधुना भूत्वा विधत्तां स्वान्तसुस्थितिम् । 2291ab
साध्यत्वानतिवृत्तेन वरेणैकेन मे भवान् ॥ 2291cd

[page 250]

विश्वास-प्रस्तुतिः

इत्युक्त्वा प्रत्ययोत्पत्त्यै संस्प्रष्टुं स्फाटिकं ततः । 2292ab
सपीठं पुरतो द्वारपतेर्लिङ्गमुपानयत् ॥ 2292cd

अच्छलाहवसम्मर्दप्रासशूलेषुवर्षिणः । 2293ab
योधान्योद्धुम् वरं भावं54 मानवान्नूनमिच्छति ॥ 2293cd

इति सम्भाव्य संस्पृष्टशिवलिङ्गः स वाञ्छितम् । 2294ab
वरं तस्योररीचक्रे स च भूयो जगाद तम् ॥ 2294cd

आकृष्टदृष्टिरहतः क्ष्माभुजोन्तिकमक्षतः । 2295ab
यथेदृगेव प्राप्तोषि तथा त्वामर्थयेधुना ॥ 2295cd

कार्पण्योपहतं तस्य वचः श्रुत्वा त्रपाजडाः । 2296ab
सर्वेप्युर्वीमुखास्तस्थुर्वृष्ट्यार्द्राः पल्लवा इव ॥ 2296cd

अन्तक्षणस्ततो भिक्षो स्मर्यमाणः सचेतसाम् । 2297ab
विकासहेतुतां प्राप स्वस्थस्य मनसः पुनः ॥ 2297cd

मनुष्यवाह्यमारूढः पत्त्रं निन्ये स निस्त्रपः । 2298ab
तेन स्वपालितांलोकानपि पश्यन्नविक्रियम् ॥ 2298cd

अहीनाहारनिद्रादिवैवश्यः पशुवत्पथि । 2299ab
कृष्यमाणः स केनापि न विकल्पेन पस्पृशे ॥ 2299cd

पश्यन्नानीयमानं तं गोप्तृभिस्तादृशं जनः55 । 2300ab
दयार्द्रहृदयश्चासीन्नाभ्यनन्दच्च भूभुजम् ॥ 2300cd

उवाच चानुकम्प्येस्मिञ्जन्मज्येष्ठस्य भूपतेः । 2301ab
नैतावद्भाति नैर्घृण्यमनुजे पितृवर्जिते ॥ 2301cd

असेचनकमेतस्य मेचकाब्जदृशो वपुः । 2302ab
क्लेशगर्ह्यमनिस्त्रिंशचेताः कः कर्तुमर्हति ॥ 2302cd

पूर्वापरानुसन्धानवन्ध्यस्तं दृष्ट्यांस्तदा । 2303ab
विस्मृतागा नृपं तत्तदित्युपालभताध्वनि ॥ 2303cd

गणना काथ वा बालबालिशादौ56 विधीयते । 2304ab
न चित्तवृत्तेरैकाग्र्यं महतामपि सर्वदा ॥ 2304cd

श्रोतॄणां द्यूतपाञ्चालीकेशकृष्ट्यादि शृण्वताम् । 2305ab
पाण्डवेभ्योधिकः क्रोधो धार्तराष्ट्रेषु जायते ॥ 2305cd

कुरूणां क्षतजापाने भग्नोरोर्मूर्धताडने । 2306ab
श्रुते पाण्डवविद्वेषस्तेषामेव च दृश्यते ॥ 2306cd

परावरज्ञः कार्याणां न कश्चिन्मध्यमं विना । 2307ab
तटस्थेनुभवाभेदस्तत्र तत्र कथं भवेत् ॥ 2307cd

स पौरान्रोद्ययन्नङ्के छिन्नाङ्गुल्यङ्कमुद्वहन् । 2308ab
युग्याधिरूढो मृत्पात्रं सायं नगरमासदत् ॥ 2308cd

न्यधत्ताश्वयुजाशुक्लपञ्चदश्यां महीपतिः । 2309ab
एकादशेशब्दे तं रक्षियुतं नवमठान्तरे ॥ 2309cd

त्यक्ताहारस्य च निशाः पञ्चषास्तस्य ताम्यतः । 2310ab
पार्श्वं जगाम कारुण्याच्चरणस्पर्शनार्थिनः ॥ 2310cd

अवादीदर्थितं तस्मै प्रतिश्रुश्रुवुषेभ्यम् । 2311ab
द्रोहावेकान्ततो वध्यौ स चित्ररथकोष्ठकौ ॥ 2311cd

राजा निर्जग्मुषः स्वोर्वीं कोष्ठकस्याथ बन्धनम् । 2312ab
विधित्सुः पञ्चषानाप्तान्रिह्लणादीनचूचुरत् ॥ 2312cd

सर्वेषु गलितौजःसु स्वयं राज्ञ्युद्यमस्पृशि । 2313ab
अथ तं रिल्हणो दोर्भ्यां झषं ग्राह इवाग्रहीत् ॥ 2313cd

हृतशस्त्रः स बलिनस्तस्य दोष्पञ्जरान्तरे । 2314ab
तस्थावचेष्टो निद्रान्धो भूतेनेवासनीकृतः ॥ 2314cd

भ्रातृव्यो भिःखराजाख्यः57 कुलराजस्य कोपनः । 2315ab
भूभृद्भक्त्या कृपाण्यास्य निर्विभेद कृकाटिकाम् ॥ 2315cd

परश्वधेन मूर्ध्न्येनं पृथ्वीपालश्च ताडयन् । 2316ab
राजबीजी स च क्रोधान्न्यषिध्यत महीभुजा ॥ 2316cd

कृकाटिकास्थिसञ्जातमर्मवेधोपचेष्टितः । 2317ab
विवेष्टमानोवर्तिष्ट क्षितौ स रुधिरोक्षितः ॥ 2317cd

महाबलैः कमलियप्रमुखैस्तस्य सोदरः । 2318ab
चतुष्कः पातितोप्युर्व्यां गण्डशैल इव द्विपैः ॥ 2318cd

विलोक्य वैकल्यहतौ बद्धौ तौ स्वामिनौ58 तथा । 2319ab
कृष्टासिधेनुरुत्तस्थौ द्विजन्मा मल्लकाभिधः ॥ 2319cd

उच्चावचेषु प्रहरन्स भूपालोपजीविषु । 2320ab
अतर्क्यमाणस्तुमुलं राज्ञैवालक्ष्यतापतत् ॥ 2320cd

[page 251]

विश्वास-प्रस्तुतिः

नृपान्तिकादापततस्तांस्तान्घ्नन्तं महाभटान् । 2321ab
अधावत्सासिधेनुस्तं कुलराजो महौजसम् ॥ 2321cd

प्रतिप्रहृतिषु क्षिप्रापतत्पाणिमपारयन् । 2322ab
निहन्तुं संरुरोधेव भित्तौ व्यायामवित्स तम् ॥ 2322cd

अपयातुमवस्थातुं प्रहर्तुं वाप्यशक्नुवन् । 2323ab
तस्थौ च बहुसन्धानः संस्तभ्यैनमविक्षतम्59 ॥ 2323cd

चरणास्फालनोत्फालदोःशब्दमुखरोन्तिकम् । 2324ab
धाविते पद्मराजेथ मल्लकोक्षिपदीक्षणम् ॥ 2324cd

प्राहरत्कुलराजोस्य लब्धरन्ध्रोथ वक्षसि । 2325ab
प्रहृत्य गच्छतः पाणेः स तस्याङ्गुष्ठमक्षिणोत् ॥ 2325cd

तौ बिज्जराजे60 दर्पोष्णनिबिडे प्रहरत्युभौ । 2326ab
तस्मिन्प्रतिप्रहरति क्षिप्रं प्राहरतां ततः ॥ 2326cd

स त्रीनप्यभियोक्तॄंस्त्यक्त्वा दृक्पथमागतम् । 2327ab
चतुष्किकाद्वारगतं राजानं समुपाद्रवत् ॥ 2327cd

लक्षीभूते नृपे शीघ्रमनुधावन्ससम्भ्रमम् । 2328ab
चकार कुलराजस्तं स्फिगस्थिक्षतिनिर्जवम् ॥ 2328cd

ततः सर्वैर्वृतो योधैः क्लीबाकीबान्स सत्वरम् । 2329ab
हत्वाभजद्वीरशय्यां रक्तस्यन्दोत्तरच्छदाम् ॥ 2329cd

जीवद्व्यापद्गतस्वामिवीक्षितः श्लाघ्यविक्रमः । 2330ab
स एवास्पृहणीयान्तक्षणो वीरेष्वगण्यत ॥ 2330cd

बहिः कोष्ठकभृत्येषु विद्रुतेष्वदरिद्रताम् । 2331ab
परं जनकचन्द्राख्यो धैर्येणोवाह डामरः ॥ 2331cd

निरायुधो राजभृत्याद्भृत्वैकस्मात्परश्वधम् । 2332ab
स ह्ययुद्धाग्रदूतत्वं नयन्भूरीन्यमान्तिके ॥ 2332cd

यियासोस्तस्य चण्डांशुमण्डलं परशुः करे । 2333ab
सुष्म्णासंविभागार्थी शशिखण्ड इवाविशत् ॥ 2333cd

नाद्राक्ष्म नाश्रौष्म वापि बद्धे भर्तरि यत्तदा । 2334ab
कोष्ठकस्य वधूरन्वतिष्ठन्मानवती सती । 2334cd

जीवन्भूयोपि लभेत त्वया स पतिरित्यसौ । 2335ab
बधूनामवधीर्योक्तिं प्राविशद्यद्दुताशनम् ॥ 2335cd

सप्तर्षियोषिदाश्लेषतर्षकिल्विषदूषितः । 2336ab
तस्याः सतीलोकगायाः पादाभ्यां पावितोनलः ॥ 2336cd

वसन्तस्य सुता धन्योदयभ्रातुः पुपोष सा । 2337ab
शुचिवंशाभिमानेन न डामरवधूव्रतम् ॥ 2337cd

लवन्यललनाः कुर्युर्वैधव्येपि धनेच्छया । 2338ab
ग्रामकार्यिकुटुम्ब्यादीन्नितम्बाभोगभागिनः ॥ 2338cd

मतिव्यामोहनिर्व्यूढवैक्लव्यस्याभिमानिनः । 2339ab
तयानुगाभ्यां च कृतं कोष्ठकस्योच्चकैः ॥ 2339cd

रूढव्रणोपि क्रिमिसाद्भूतः कैरपि किल्विषैः । 2340ab
निष्प्राणो गणरात्रेण कारायां कोष्ठकोभवत् ॥ 2340cd

अथ चित्ररथः शोषकृशः कलुषितं नृपम् । 2341ab
श्रुत्वा मल्लार्जुनेनाभूद्भयादत्यन्तदुःस्थितः ॥ 2341cd

पत्नी तस्यैकभार्यस्य प्रिया सूर्यमती सती । 2342ab
परलोकातिथिः पूर्वं विभवप्रतिभूरभूत् ॥ 2342cd

देहे याप्यहताप्याये गेहे गतपरिग्रहे । 2343ab
पत्यौ वैमत्यकलुषे नेषदप्येष पिप्रिये ॥ 2343cd

तीर्थस्थितस्य न स्यान्मे सागसोप्यप्रियं नृपात् । 2344ab
इति सञ्चिन्त्य स प्रायान्मिषान्मर्तुं सुरेश्वरीम् ॥ 2344cd

अथ नानार्थभूयिष्ठां धाधीशाधिकश्रियः । 2345ab
स्थानात्ततस्ततस्तस्य पार्थिवोपाहरच्छ्रियम् ॥ 2345cd

कनकांशुकसन्नाहवाजिरत्नायुधादिभिः । 2346ab
स्वा स्वा प्रकाशिता लक्ष्मीः स्पर्धयेवाधिकाधिका ॥ 2346cd

लोहरद्रोहधर्मोष्मशोषितो राजपादपः । 2347ab
तल्लक्ष्मीशैलतटिनीसेकेनाप्यायितोभवत् ॥ 2347cd

विप्लवे चिरनष्टेपि श्रीकल्याणपुरं न यः । 2348ab
वनवासोचितत्रासः शाल्वः सौभमिवात्यजत्61 ॥ 2348cd

श्वेतच्छत्त्रांशुपृक्तेव चिन्तापाण्डुरवर्तत । 2349ab
बन्दीकृता नरेन्द्रश्रीर्निर्निद्रा यस्य मन्दिरे ॥ 2349cd

[page 252]

विश्वास-प्रस्तुतिः

राज्ञा प्रयुक्तं विज्ञाय विजयः स भवोद्भवः । 2350ab
तीक्ष्णमानन्दनामानमवधीत्तेन चावधि ॥ तिलकम्॥62 2350cd

इत्थं स पप्रथे तादृक्प्रजापालनशालिनः । 2351ab
सर्वोत्साहमयोनेहा जयसिंहमहीभुजः ॥ 2351cd

तीर्थस्थिते चित्ररथे पादाग्रग्रहणैषिणौ । 2352ab
शृङ्गारजनकावास्तां तद्भृत्यौ व्यक्तचक्रिकौ ॥ 2352cd

प्रचुरोत्कोचदानेन स्वीकृत्य नृपतिं ययौ । 2353ab
शृङ्गारो भग्नजनकः स्वामिश्रीभोगभागिताम् ॥ 2353cd

चिरप्रचलितं द्वारमुदये निदधे पुनः । 2354ab
मेघकालः सरित्परं प्रतीर इव पार्थिवः ॥ 2354cd

अवश्यभोग्यदुष्कर्मदत्तमर्मव्यथश्चिरम् । 2355ab
कथाशेषोभवच्चित्ररथो मासैरथाष्टभिः ॥ 2355cd

हास्यावहोप्यविकृतो विकृतोनपास्यो दुर्गन्धिरप्यतिजडोपि गृहीतवाक्यः । 2356ab
पूर्वानुभावजयिनो भवति प्रभावाद्यस्य स्तुमस्तमतिसंस्तवमप्रतर्क्यम् ॥ 2356cd

निन्द्यैराद्यूतनाद्यैर्यश्चेष्टितैः प्रागभीष्टताम् । 2357ab
बाल्ये दुर्ललितस्वागाद्भूभर्तुश्चित्रचेतसः ॥ 2357cd

विसृज्यमानः सम्प्राप्तसाम्राज्येन दिवानिशम् । 2358ab
क्लमात्स्वीकृत्य ताम्बूलं तेन चित्ररथान्तिकम् ॥ 2358cd

दूत्यैः कृत्यान्तरज्ञत्वं प्राप्तवाचाप्ततां गतः । 2359ab
तदन्ते घटयन्राज्ञस्तद्भृत्यान्कोशदर्शकान् ॥ 2359cd

तदा सर्वोन्नताशेषमन्त्रिशून्ये नृपास्पदे । 2360ab
सज्जकस्यात्मजः प्राप शृङ्गारो मुख्यमन्त्रिताम् ॥ चक्कलकम्॥[^2360-1] 2360cd

तस्य वैधेयताभ्यस्तकुदृष्टेरपि दुष्कृतम्[^2361-1] । 2361ab
नायुः[^2361-2] पात्रार्पणात्तुच्छत्वागित्वेनापि सम्पदः ॥ 2361cd

योषित्कशिपुभोग्येन धन्यम्मन्योपि सोभवत् । 2362ab
धान्यदानवदान्यत्वं63 गुरूणामाजगाम यत् ॥ 2362cd

पीठं कृतवतो रूप्यं64 संयोज्य रजतैर्निजैः । 2363ab
विद्यमानं सुरेश्वर्यां सायुज्यं तस्य युज्यते ॥ 2363cd

उर्वीशैरपि नार्वाग्भिर्योनुगन्तुमशक्यत । 2364ab
आषाढ्यामाद्यसम्भारो निबिडद्रविणव्ययः ॥ 2364cd

नन्दिक्षेत्रे स तत्राद्यैः प्रणीतश्चप्पकादिभिः । 2365ab
तेन कालानुसारेण पोषितः पञ्चषाः समाः ॥ 2365cd

नर्माङ्गतायां निःसारो ज्ञातो यः सोधिकारभाक् । 2366ab
अचिन्त्यकृत्यकार्यासीत्स्वामिस्नेहप्रभावतः ॥ 2366cd

केलीसज्जैर्युवतिकरजैः कण्ठभूषादशायां यस्याज्ञायि त्रुटनमसकृत्क्ष्माधरेष्वासकृष्टौ । 2367ab
सोप्यादिष्टस्त्रिपुररिपुणा प्राप भङ्गं च भोगी शक्त्याधायी क्वचन न परो भर्तुराज्ञाप्रभावात् ॥ 2367cd

तं च रिल्हणधन्यौ च समाश्रित्येतरेतरम् । 2368ab
कार्यं जनकशृङ्गारावुत्कोचेनापजह्रतुः ॥ 2368cd

कदाचिज्जनकं बद्ध्वा सार्धं भूषणमौक्तिकैः । 2369ab
सपुत्रदारं शृङ्गारो65 बाष्पबिन्दूनमोचयत् ॥ 2369cd

स तं च जातु निर्विद्य मानहीनमकारयत् । 2370ab
रूक्षरक्ष्यार्पितोत्कचधनाभ्यर्थितमैथुनः66 ॥ 2370cd

अङ्गुष्ठनखनिर्घर्षनर्तितानामिकोर्मिकः । 2371ab
वदन्वामोत्तरौष्ठाग्रोदञ्चनैः कुञ्चितेक्षणः67 ॥ 2371cd

भ्रूभङ्गोद्वेलितवलीनिम्नोन्नतललाटभूः68 । 2372ab
पुनरेकस्तयोर्लब्धकार्यो लोकमहासयत् ॥ तिलकम्॥69 2372cd

अव्यक्ताक्षरवाग्रौक्ष्यमीलिताक्षो रटन्बहु । 2373ab
हसन्सकरतालं च सम्पद्यन्यो व्यभाव्यत ॥ 2373cd

सोल्लेखप्रतिभोन्नीततत्त्वानां70 हास्यवस्तुनि । 2374ab
कथाशरीरं पर्याप्तं नेदृशां71 किमचेतसाम् ॥ 2374cd

सर्वस्मिन्वस्तुतोवाचि काले विगतयोग्यते । 2375ab
जाने तृणनृणां तुल्ये शृङ्गारोर्हत्यगर्ह्यताम् ॥ 2375cd

यः सर्वकषनिष्कम्पशेमुषीकः क्षमापतिः । 2376ab
धुर्यतां धर्मचर्याभिर्गतः सुकृतशालिनाम् ॥ 2376cd

[page 253]

विश्वास-प्रस्तुतिः

लब्धबोधिरिवारेर्यश्चक्रे व्यापद्युपक्रियाम् । 2377ab
दावप्रदस्य दग्धाङ्गोल्लाघत्वमिव चन्दनः ॥ 2377cd

गुरुसूरिद्विजानाथप्रभृत्युचितायापि यः । 2378ab
प्रतिपत्त्या संविभेजे संविभाग्यकुटुम्बकम् ॥ 2378cd

प्रासादान्विजयेशादिदेवव्रातस्य शुद्धधीः । 2379ab
सुधादानेन निन्ये च धन्यः कैलासतुल्यताम् ॥ 2379cd

मठदेवगृहारामह्रदकुल्यादियोजने । 2380ab
जीर्णोद्धृतिव्यसनिनस्तस्य चिन्ता निरन्तरा ॥ 2380cd

सकृद्दर्शितविद्वेषकार्यः सब्रह्मचारिणाम्[^2381-1] । 2381ab
स क्रौर्यधाम पर्याप्तमीदृगप्युच्यते जडैः ॥ 2381cd

विश्वाप्यायनसप्तसिन्धुभरणब्रह्मादिसम्प्रीणनप्रायं कृत्यमुदात्तमेकसमयोपात्तेन दुष्कर्मणा । 2382ab
स्वःसिन्धोर्लघुतां गतं सगरजश्रेणीचितास्पर्शना72 – ता73 येन जनाः श्मशानमिव सा योग्या किलास्थ्नां स्हितौ ॥ 2382cd

तदन्तरे74 शिवरथो द्विजः प्रचुरचक्रिकः । 2383ab
कायस्थपाशः पाशेन गलं बद्ध्वा व्यपद्यत ॥ 2383cd

इत्थं पृथ्वीपतिः कृत्वा तत्तत्कण्टकपाटनम् । 2384ab
अपेतविघ्नं सौजन्यनिघ्नो व्यधित मण्डलम् ॥ 2384cd

विपक्षावरणापायप्रायेण पृथ्वीभुजः । 2385ab
तैक्ष्ण्यमायान्ति जीमूतमुक्ता रविकरा इव ॥ 2385cd

परिणाममनोज्ञत्वं राजरत्नं त्वयं नृपः । 2386ab
माधुर्याधिक्यमुत्पाको द्राक्षाद्रुम इवाययौ ॥ 2386cd

प्रावर्तयत सातत्यात्क्रतून्विततदक्षिणान् । 2387ab
विवाहतीर्थयात्रादीन्महितांश्च महोत्सवान् ॥ 2387cd

संविभेजे स्वसम्भारैः स क्रिया धर्मचारिणाम् । 2388ab
तेजोभिः कुलशैलानामोषधीरिव चन्द्रमाः ॥ 2388cd

प्रतिज्ञातं सुतोद्वाहप्रतिष्ठादौ पुरौकसाम् । 2389ab
तेनौपयिकसामग्रीदानमव्यग्रचेतसा ॥ 2389cd

दारूणामाकराः कशवृद्धये75 ये धराभुजाम् । 2390ab
नवीचक्रे पुरं सर्वं स्वाधीनान्स विधाय तान् ॥ 2390cd

मज्जतो राजकार्येषु तत्त्वविद्भिर्हरार्चने । 2391ab
विस्मितैर्वीक्ष्यते तस्य काष्ठा मुनेरिव ॥ 2391cd

प्राह्णादारभ्य साहाह्नपर्यन्तः चास्य दृश्यते ॥ 2392ab
न तत्कृत्यं गता यत्र नाध्यक्षत्वं विचक्षणाः । 2392cd

अविचारान्धतमसे विद्या व्यद्योततान्तरा । 2393ab
जयापीडादिमेघश्रीसौदामन्या विलोलया ॥ 2393cd

तेन श्रियं तु विश्राण्य स्थास्नुं रत्नप्रभामिव । 2394ab
गुणवैचित्र्यचित्रस्य प्रकाशोनश्वरः कृतः ॥ 2394cd

तूरयो येन – – –1 विक्षतक्षेत्रसम्पदाम् । 2395ab
ग्रामाणामाग्रहार्थेन्दु76 सान्वयाः स्वामिनः कृताः ॥ 2395cd

विदुषां विततोत्सेधसौधास्तद्विहिता गृहाः । 2396ab
व्याप्ताः सप्तर्षिभिर्द्रष्टुमुत्कर्षमिव मूर्धसु ॥ 2396cd

प्रतिभाप्रभवे प्रज्ञोपज्ञे च पथि पान्यता । 2397ab
सार्थवाहं तमालम्ब्य विर्दोषा विदुषां स्थिता ॥ 2397cd

आसीद्यथार्यराजस्य शयानस्याप्यतिप्रियः[^2398-1] । 2398ab
कामं लिङ्गाभिषेकाम्भःसङ्क्षोभप्रभवो ध्वनिः ॥ 2398cd

निद्राणस्य तथा वेणुवीणादिपरिहारिणः । 2399ab
दयितं तस्य निर्द्वेषविद्वज्जल्पविकल्पनम् ॥ 2399cd

काले श्रीललितादित्यावन्तिवर्मादिभूभुजाम् । 2400ab
सिद्धं न यत्प्रतिष्ठादि निष्ठां तदधुना गतम् ॥ 2400cd

मठदेवगृहेष्वेव[^2401-1] स्वकालप्रभवेषु यत् । 2401ab
सर्वेष्वेव कृता तेन निर्व्यपाया व्यवस्थितिः ॥ 2401cd

रत्नदेव्या दृढारूढभर्तृवल्लभताभुवः । 2402ab
सर्वप्रतिष्ठाप्रष्ठत्वं विहारः प्रथमं गतः ॥ 2402cd

रिल्हणोथ गुणग्रामबान्धवो धर्मपद्धतौ । 2403ab
बभूव पूर्वपथिकः समस्तामात्यसन्ततेः ॥ 2403cd

[page 254]

विश्वास-प्रस्तुतिः

तपोधनांल्लब्धवर्णान्धर्मवृद्धांश्च77 शुद्दधीः । 2404ab
विस्रम्भभवनस्योपि शक्तस्त्यक्तुं न यः कश्चित् ॥ 2404cd

कृष्णाजिनोभयमुखीदानमुख्यैः सुकर्मभिः । 2405ab
धर्मकन्याविवाहैश्च यस्याशून्यत्वमायुषः ॥ 2405cd

सर्वेषामाहिताग्नीनां निष्प्रत्यूहा महात्मना । 2406ab
सर्वयागोपकरणैर्येन विश्राणितैः क्रियाः ॥ 2406cd

भोगान्बुभुजिरे भव्यान्सत्त्रे सूत्रितविस्मये । 2407ab
यस्य वर्णाश्चतुःषष्टिः कुदृष्ट्यस्पृष्टचेतसः ॥ 2407cd

अग्रहारगणोदग्रैर्विततैर्मठसेतुभिः । 2408ab
पुरे परिष्कृते येन द्वयोः प्रवरसेनयोः ॥ 2408cd

आद्ये प्रवरभूभर्तुः पत्तने प्रत्तविस्मयः । 2409ab
प्राप्तः प्रतिष्ठाप्रष्ठत्वं यत्कृतो रिल्हणेश्वरः ॥ 2409cd

लोकान्तरगतां कान्तां कृतिनोद्दिश्य सुस्सलाम् । 2410ab
भलेरकप्रपास्थाने78 विहारस्तेन कारितः ॥ 2410cd

मार्जार्यास्तिर्यगुचितस्नेहविस्मृत्यपोहतः । 2411ab
मृतामनुमृतायास्तन्नाम्ना यः ख्यातिमागतः ॥ 2411cd

तद्भर्तुरीर्ष्याकालुष्ये तस्या दूराग्रगा पुरः । 2412ab
प्रदेशे मानुषीवासीत्प्रिया क्रीडाविडालिका ॥ 2412cd

तीर्थप्रस्थानदिवसादारभ्यास्था विराविणी । 2413ab
उत्सृजन्त्याहृतं79 भोज्यं सा शुचा जीवितं जहौ ॥ 2413cd

आरोहति परां काष्ठां प्रतिष्ठाविधाध्वना । 2414ab
दिद्दा नृपतिपत्नीषु मन्त्रिस्त्रीषु तु सुस्सला ॥ 2414cd

श्रीचङ्कुणविहारं या यातं नामावशेषताम् । 2415ab
अश्मप्रासादवेश्मादिकर्मणा निर्ममेधुना ॥ 2415cd

अरघट्टप्रबन्धान्धुच्छात्त्रशालादिकर्मभिः । 2416ab
तस्याः सम्पूर्णतां पुण्यप्राकारा निखिला गता ॥ 2416cd

पूर्वराजकुलाखण्डस्थण्डिलव्यापिनाखिलम् । 2417ab
तद्विहारेण नगरं नीतं नेत्राभिरामताम् ॥ 2417cd

प्रापि प्रतिष्ठयेवाशु यक्ष्मक्षपितया तया । 2418ab
विपत्तिः श्रीसुरेश्वर्यां प्राज्यसायुज्यदूतिका ॥ 2418cd

मठाग्रहारा धन्येन बल्लभाभिधया कृताः । 2419ab
नाभीष्टं लेभिरे नाम ख्यातिः पुण्यैर्विना कुतः ॥ 2419cd

अग्रहारमठांस्तद्वदुदयः कम्पनापतिः । 2420ab
कृत्वापि स्वाभिधामेव तत्सम्बद्धां सदाशृणोत् ॥ 2420cd

उदयद्वारपतिना सह ब्रह्मपुरीगणैः । 2421ab
कृते प्रष्टे मठे शोभां लेभे पद्मसरस्तटः ॥ 2421cd

शृङ्गारतन्त्रपतिना श्रीद्वारेप्यजन्मना । 2422ab
प्रत्यष्टापि मठोद्यानदीर्घिकाद्यनघात्मना ॥ 2422cd

स्नानकोष्ठमठब्रह्मपुरीसेत्वादिकर्मणा । 2423ab
सोलञ्चकारालङ्कारो बृहद्गञ्जाधिपो धराम् ॥ 2423cd

बुधः सस्दौषधीशान्तिहेतोर्जातः कलावतः । 2424ab
यः कविर्दानवत्त्वं च ख्यातस्त्यागेन योजयत् ॥ 2424cd

नृसिंहसेवी निर्हिंसहिरण्यकशिपुप्रदः80 । 2425ab
वराजसमये दत्तगौश्च योपूर्ववैष्णवः ॥ 2425cd

भट्टारकमठाभ्यर्णे पूर्णवार्धाविव प्रहिः । 2426ab
मठः शृङ्गारभट्टस्य ख्यात्यानौचित्ययोज्झितः ॥ 2426cd

सान्धिविग्रहिको दार्वाभिसारोर्वीभुजोकरोत् । 2427ab
अष्टमूर्तेर्जट्टनामा प्रतिष्ठां पुण्यकर्मठः ॥ 2427cd

पुष्पाकरप्रणयभूः सुभगा विभूतिरेकस्य हन्त करवीरतरेर्द्रुमेषु । 2428ab
पुष्पाणि यस्य सफलीकुरुते स्वयं तत्प्रादुर्भवत्किमपि लिङ्गमनङ्गशत्रोः ॥ 2428cd

विभूत्या संविभक्तेषु भूभुजाखिलमन्त्रिषु । 2429ab
उत्कर्षकोटिं81 भुट्टाख्यः परं जल्हानुजोर्हति ॥ 2429cd

स्वयम्भूः प्रकटीभूय पूजां स्वीकुरुते स्वयम् । 2430ab
ज्येष्ठरुद्रो वसिष्ठस्य यस्य वा बालकेश्वरः ॥ 2430cd

सविहारमठोदग्रवेश्मभिः कलुषोज्झितम्[^2431-1] । 2431ab
तेन तत्र कृतं भट्टपुराख्यं पुटभेदनम् ॥ 2431cd

[page 255]

विश्वास-प्रस्तुतिः

नगरेपि हरः प्रत्यष्ठापि भुट्टेश्वराभिधः । 2432ab
सरश्च मडवाग्रामे धर्मविभ्रमदर्पणः ॥ 2432cd

नीत्वा प्रतिष्ठां वैकुण्ठमठादि स्वविहारभूः । 2433ab
रत्नादेव्या दृढं चक्रे स्वार्थग्रथनसुस्थिरा ॥ 2433cd

रत्नापुरे बहुद्वारमहार्धे निरघो मठः । 2434ab
धत्ते सुकृतसंहस्य स्फीनवीतंसविभ्रमम् ॥ 2434cd

मृत्युञ्जयो राजतेस्याः सुधाधौतान्भजन्गृहान् । 2435ab
जनस्यानित्यतोच्छित्त्यै श्वेतद्वीपं सृजन्निव ॥ 2435cd

गोकुलानां विधातारो गोकुले विहिते तया । 2436ab
गणिताः शूरवर्माद्याः सतृणाभ्यवहारिणः ॥ 2436cd

गवामव्याहतस्वैरसञ्चारचरकाञ्चिते । 2437ab
तत्र वैतस्ततोयाढ्ये यदपोढामयं वपुः ॥ 2437cd

मुकुन्दस्तत्र साश्चर्यसौन्दर्यौदार्यमन्दिरम् । 2438ab
अश्वा गोवर्धनधरः सिद्धो ना विश्वकर्मणः[^2438-1] ॥ 2438cd

मठ – – – कृत्वा सा नन्दिक्षेत्रेकरोत्क्षितिम् । 2439ab
– – जयवनाद्येषु स्थानेषु च मनोरमान्[^2439-1] ॥ 2439cd

दार्वाभिसारेप्युर्वीसुन्दरौदार्यमन्दिरम्8283 । 2440ab
स्वनामाङ्कं पुरं चक्रे तया शक्रपुरोपमम् ॥ 2440cd

उद्दिश्योपरतान्मान्यमहत्तरमुखानपि । 2441ab
प्रतिष्ठा विविधाश्चक्रे सा राज्ञ्याश्रितवत्सला ॥ 2441cd

एवं सर्वाङ्गमामुक्तालङ्कृतेरथ स क्षितेः । 2442ab
विशेषकामं भूभर्तृवृषा स्वमकरोन्मठम् ॥ 2442cd

अनुत्सिक्तेन यो दत्तभूरिग्रामो महीभुजा । 2443ab
तज्ज्ञैरारोपितः ख्यातिं मुख्यः सिंहपुराख्यया ॥ 2443cd

व्यधात्कारपथेशस्य दौहित्रः सिन्धुजान्द्विजान् । 2444ab
निविडान्द्रविडांश्चात्र प्राक्सिद्धच्छन्नमध्यगान् ॥ 2444cd

किं वा मठादिनिर्माणस्तुत्या तस्य व्यधत्त यः । 2445ab
भूयः सग्रामनगरं84 कृत्स्नं कश्मीरमण्डलम् ॥ 2445cd

जीर्णारण्यसधर्मायं कालदौरात्म्यतो भवन् । 2446ab
देशो धनजनावासैस्तेन भूयोपि योजितः ॥ 2446cd

आरम्भात्प्रभृति क्ष्मापे दीक्षितेभीष्टदत्तिषु । 2447ab
शिल्पिप्रायैरपि प्रायो मठदेवगृहाः कृताः ॥ 2447cd

सत्कोशांशुकरत्नादौ निरसूयेन भूभुजा । 2448ab
साधारणीकृते पौरास्तांस्तांश्चक्रुर्महोत्सवान् ॥ 2448cd

अकाण्डतुहिनापातोदीपाद्यैरप्युपद्रवैः । 2449ab
नष्टेषु शालिषु क्षीणं85 सुभिक्षं तत्र न क्षणे ॥ 2449cd

अद्भुतं चाभवद्वाचः श्रुता यन्निशि रक्षसाम् । 2450ab
केत्वाद्युत्पातजातं राज्ञा निन्येन्तकान्तिकम्[^2450-1] ॥ 2450cd

कोष्ठेश्वरानुजश्छुड्डनामा विहितविप्लवः । 2451ab
आहवैर्गूढदण्डैश्च राज्ञा निन्येन्तकान्तिकम्86 ॥ 2451cd

चक्रे विक्रमराजादीन्भूपानुन्मथ्य पार्थिवः । 2452ab
प्रयोहं गुल्हणादीनां राज्ञां वल्लापुरादिषु ॥ 2452cd

प्रजेशान्कान्यकुब्जादावजर्येण87 नृपार्यमा । 2453ab
स व्यधाद्भव्यभूभोगवैभवानभिमानिनः ॥ 2453cd

विद्योतमाने निश्चाद्यैस्तत्रैवमेकदा । 2454ab
भेजे जीवितदारिद्र्यं दरद्राजो यशोधरः ॥ 2454cd

स भूम्यनन्तरोप्यन्तराज्ञो राज्ञोतिसेवया । 2455ab
विपत्तौ प्रकृतिक्रान्तसन्तानश्चिन्त्यतामगात् ॥ 2455cd

निकृत्यास्य निजामात्यो विड्डसीहाभिधो यतः । 2456ab
सम्भुज्य दयितां राज्यमप्रौढतनयेग्रहात् ॥ 2456cd

वशीकृत्य शनैर्देशं नाममात्रनृपं शिशुम्88 । 2457ab
उच्छेत्तुमैच्छद्यावत्तं स जिघृक्षुः स्वयं क्षितिम् ॥ 2457cd

अन्योमात्यः पुरस्कृत्य यशोधरसुतं परम् । 2458ab
तावत्तेन समं भेजे पर्युकाख्यो विपर्ययम् ॥ युग्मम्॥89 2458cd

2438– 2439.

–1) The last two of verse 2438 and the following verse are found in the above, mutilated form in A at the foot of fol. 290, having been added subsequently by A1; C reads: मठप्रतिष्ठां कृत्वा सा नन्दिक्षेत्रेऽकरोत् स्थितिं । विहारान् यवनाद्येषु स्थानेषु च मनोरमान्.

[page 256]

विश्वास-प्रस्तुतिः

काश्मीरान्पृष्ठतः कृत्वा द्वैराज्यं तत्र कुर्वति । 2459ab
उत्सृज्य सञ्जपालादीन्सर्वकार्यभरक्षमान् ॥ 2459cd

देवाकप्रतिपत्त्यान्याभिधमौग्ध्यनिरुद्धधीः । 2460ab
सर्वाधिकाराद्यारोपान्मन्यमानोभिमानिताम् ॥ 2460cd

पर्युकाजर्यतः साञ्जेरप्रौढमनुजं90 निजम् । 2461ab
प्रहिण्वतोनुमन्त्रित्वं मन्त्रज्ञोप्यभजन्नृपः ॥ तिलकम्॥91 2461cd

अपूर्वमण्डलारब्धावाटोपाद्धामशालिनः । 2462ab
क्व सर्वङ्कषनिष्कम्पप्रतिभाः कार्यवेदिनः ॥ 2462cd

क्व बालबालिशप्रायो92 नष्टव्यवहृतिर्जनः । 2463ab
धिक्परीपाकविषमं स्वाच्छन्द्यं मेदिनीभुजाम् ॥ युग्मम्॥93 2463cd

कार्यापेक्षविपक्षैः स्वैरिच्छन्त्युद्रिक्तताच्छिदाम् । 2464ab
सैन्यक्ष्मादुर्गकोशादेर्न – शन्त्यन्तरज्ञताम्[^2464-1] ॥ 2464cd

प्रक्रियामात्रतो मन्त्रं गृह्णन्ति क्षित्यनन्तराः । 2465ab
कृतसाहायकैरेव चिन्त्या मित्रमुखा द्विषः ॥ 2465cd

युक्त्यारब्धविधौ तत्र वैरिसाहायकग्रहे । 2466ab
क्व वैधेया बकप्रायाः94 कार्यसन्दर्भवेदिनः ॥ 2466cd

दरद्राजद्रुमोन्योन्यभेदकूलक्षयाच्च्युतः95 । 2467ab
क्रष्टुं नाशक्यताप्रौढैः स्रोतोभिरिव मध्यगः ॥ 2467cd

पर्युकात्सङ्कटे कार्ये तं तमुत्कोचमिच्छतः । 2468ab
स दुग्धघातमादातुमप्यासीदलसक्रमः ॥ 2468cd

पर्युकेण समं विड्डसीहः सन्धिं निबद्धवान् । 2469ab
यथागतं गते सौज्जौ96 कश्मीरेन्द्रेग्रहीद्रुषम् ॥ 2469cd

सर्वाधिकारप्रवगाचिरसञ्चारभूरुहः । 2470ab
प्रसङ्गे तत्र शृङ्गारो मृत्युसौहित्यकार्यभूत् ॥ 2470cd

आ लक्ष्मकान्तात्सर्वाधिकारोस्थादद्वितीयया । 2471ab
वृत्त्या ततस्तु शतधा निर्झराम्भ[^2471-1] इवाभवत् ॥ 2471cd

अन्येप्यमात्याः साम्मत्याद्भर्तुर्माहात्म्यभागिनः । 2472ab
प्रमयं समये तस्मिन्दैवात्किमपि लेभिरे ॥ 2472cd

प्रशंसामानृशंसस्य किं विदध्मो धराभुजः । 2473ab
मृतामात्यार्भकापत्यं97 निधत्ते यः पितुः पदे ॥ 2473cd

प्रवर्तिता त्वमात्यानां भृत्यैः पद्धतिरद्भुता । 2474ab
निर्वैलक्ष्याः प्रभोर्लक्ष्मीं जह्रुः स्वगृहिणीमिव ॥ 2474cd

भूभर्तुः प्राभृतीकृत्य मृतस्य स्वामिनः श्रियम् । 2475ab
सन्तानस्य विभूत्यर्थं कृत्वा कार्यं हि तेहरन् ॥ 2475cd

गञ्जाधिपे विश्वनाम्नि विपन्ने रक्षिता परम् । 2476ab
एकेन सहजाख्येन सहायानां महार्घता ॥ 2476cd

नाध्यारुरोहाधिकारं पार्थिवेनार्थितोपि यः । 2477ab
स्वामिसूनोष्टिष्टनाम्नो बुद्ध्यै साहायकं व्यधात् ॥ 2477cd

निष्ठायामप्रतिष्ठत्वं दृष्ट्वापि प्रभविष्णुभिः । 2478ab
धिक्परम्परया भृत्याः प्रावर्ध्यन्तेधिकाधिकम् ॥ 2478cd

आसीदाचमनोपयोगि कलशे स्रष्टुर्जगल्लङ्घनक्लान्ताङ्घ्रिक्लमहार्यथासुररिपोस्त्रैस्रोतसं यत्पयः । 2479ab
शम्भुस्तन्निदधे स्वमूर्धनि जडेप्येकप्रयुक्तादृतौ स्युः सर्वेप्यवशा गतानुगतया गाढादराः स्वामिनः ॥ 2479cd

सुज्जिनिर्वासनप्राप्तप्ररोहो98 दुर्नयद्रुमः । 2480ab
साज्जिजाद्धकृताप्यायः क्रमेणासीत्फलोन्मुखः ॥ 2480cd

द्वित्राः समाः समन्युः स विड्डसीहस्ततोभवत् । 2481ab
अकुण्ठराज्याद्युत्कण्ठं दूतैरकृत लोठनम् ॥ 2481cd

दूरादखण्डितोत्थानः99 शूरमाश्रित्य भूपतिम् । 2482ab
जीवन्कृषिवणिज्यादिकर्मणा100 स सबान्धवः ॥ 2482cd

दरदां मन्त्रिणां जातज्ञातेयैरभियोगभाक् । 2483ab
चक्रेलङ्कारचक्राद्यैर्डामरैः सह चक्रिकाम् ॥ युग्मम्॥101 2483cd

सोप्यद्रिदुर्गस्वाम्यस्य102 प्रथमप्रस्हितौ सुहृत् । 2484ab
क्षुद्रो जनकभद्राख्यः पार्श्वं लिप्सोर्व्यपद्यत ॥ 2484cd

कर्णाढकादावभवत्स्थाने स्थाने विलोक्य तम् । 2485ab
प्रस्थितं कस्यचिद्द्रोहे बुद्धिः कस्यापि साधुता ॥ 2485cd

[page 257]

विश्वास-प्रस्तुतिः

तं तथा विपुलारम्भमपि शाद्यादसम्भ्रमम् । 2486ab
प्रविविक्षुमुपैक्षिष्ट कौसीद्यानुद्यमो नृपः ॥ 2486cd

पोषिते प्रेषितश्रीकैरुत्पिञ्जे विप्लवैषिभिः । 2487ab
अथोदयद्रारपतिः प्रैषि विश्वम्भराभुजा ॥ 2487cd

सङ्गृह्णता चमूस्तेन103 पुरे शङ्करवर्मणः । 2488ab
प्राप्तोलङ्कारचक्रस्य पार्श्वमश्रावि लोठनः ॥ 2488cd

अपि विग्रहराजाख्यः सूनुः सुस्सलभूपतेः । 2489ab
भोजः सल्हणजन्मा104 च श्रुतौ तेन सहागतौ105 ॥ 2489cd

अथोपह – – त्थान106 एव तेषां स सत्वरः । 2490ab
मार्गं बहुदिनोल्लङ्घ्यमेकेनाह्ना व्यलङ्घयत् ॥ 2490cd

सयूथ्यकन्थाग्रथनासिद्धेर्यातो विधेयताम् । 2491ab
तदास्कन्दहतस्पन्दः स पलायिष्ट डामरः ॥ 2491cd

सिन्धोर्मधुमतीमुक्ताश्रिया अन्तःस्थितं107 ततः । 2492ab
शिरःशिलाभिधं कोट्टमथ तैरधिशिश्रिये ॥ 2492cd

गहने ब्रुडितः कोट्टे स्थितः किं वा स इत्यसौ । 2493ab
न निश्चिकाय द्वारेशो भ्राम्यन्दीर्घासु भूमिषु ॥ 2493cd

अथोपालब्धतस्द्दुर्गारोहणेस्मिन्नशङ्क्यत । 2494ab
दैवेनापि न भूभर्तुः प्रभावो निष्पराभवः ॥ 2494cd

उत्थानोन्मुख्यतां सर्वेप्युत्पिञ्जे तत्र दस्यवः । 2495ab
पाल्वलास्तिमयो वर्षपृथक्कृत इवाभजन्108 ॥ 2495cd

तैस्त्रिल्लकादिभिर्गूढवैकृतैरथ लोठनः109 । 2496ab
पार्थ्वीहरिः110 पुनश्चक्रे मायाचतुरचाक्रिकः111 ॥ 2496cd

पुरग्रामादिदग्धारमसाध्यमथ धावताम् । 2497ab
पदे पदे कृच्छ्रगतं स्वपक्ष्यास्तमरक्षिषु ॥ 2497cd

दिक्चक्रे नियतेर्भ्राम्यन्दृश्यादृश्यः स सर्वतः । 2498ab
कल्पात्ययोदयी ब्रह्मपुत्रः केतुरिवाभवत् ॥ 2498cd

श्रान्तैरमात्यैर्निर्बन्धे सन्धौ कालानुरोधतः । 2499ab
मेने मडवराज्योर्वी हारितेवाखिला जनैः ॥ 2499cd

असंवृत्तप्रतीकारतयारोहत्सु वैरिषु । 2500ab
तदन्तरेथ सम्मन्त्र्य धन्यं प्रास्थापयन्नृपः ॥ 2500cd

तत्स्कन्धारोपिते112 कार्ये व्रीडां गच्छेत्तटस्थताम् । 2501ab
विपर्यासमथ द्वाराधीश इत्यभ्यधाज्जनः ॥ 2501cd

भिक्षुर्मल्लार्जुनस्त्वासीदेक एव त्रयस्त्वयी । 2502ab
संहता हन्त दुःसाधा दध्युश्चेत्यखिलाः प्रजाः ॥ 2502cd

द्वाराधिपस्त्वहेवाकव्यवहारो महीपतेः । 2503ab
सिद्धिं स्वस्याप्रसिद्ध्यापि वाञ्छन्हृद्योद्यमोभवत् ॥ 2503cd

एकाकी यः किल न भजते मूढतां भर्तृकार्ये नौदासीन्यं श्रयति च रुषा वह्वधीने च तस्मिन् । 2504ab
निर्हेवाकव्यवहृतितया साध्यसिद्धिं किलेच्छंस्तादृङ्मन्त्री प्रभवति परं नाल्पपुण्यस्य राज्ञः ॥ 2504cd

पञ्चचन्द्रे मृते तस्यानुजं राजोपवेशने । 2505ab
न्यधाद्यं षष्ठचन्द्राख्यं सोप्यारब्धै विनिर्ययौ ॥ 2505cd

द्विबाहुकादयो मुख – – –1ः सह गायकैः । 2506ab
धन्यमेवान्वयुर्बाह्याश्चान्ये राजोपजीविनः ॥ 2506cd

धन्यादिषु तिलग्रामं कोटसिन्धुतटाश्रयम् । 2507ab
अथ – – –1द्वारेशो द्रङ्गस्थः पृष्ठपद्धतीः ॥ 2507cd

हठप्रवेशायोग्याजिमुख्यहेवाकवर्जितः । 2508ab
शोषयन्द्विषतो धैर्यगम्भीरं स व्यवाहरत् ॥ 2508cd

कुठारिकादिभिः कारुवृन्दैर्मन्दिरपद्धतीः । 2509ab
धन्यो मधुमतीतीरे नगरस्पर्धिनीर्व्यधात् ॥ 2509cd

निर्ध्वान्तं द्रुमसम्बाधं सनिकेता वनस्थलीः । 2510ab
कटकं सर्वभोगाढ्यं शक्तः परिवृढोकरोत् ॥ 2510cd

देशे भूरितुषारोग्रहिमर्तौ भाग्यसम्पदा । 2511ab
भूभर्तुरभियोग्यैव भूरभूद्भानुभूषिता ॥ 2511cd

भुवनाद्भुतसम्भारप्रेषणं विजयैषिणः । 2512ab
द्वैराज्यमीलिताज्ञेपि काले राज्ञो न खण्डितम् ॥ 2512cd

[page 258]

विश्वास-प्रस्तुतिः

उथान एवोपहतिं113 भये यास्यत्यगात्परम् । 2513ab
भारोढिपीडितग्राम्याक्रन्दः क्षान्तिचरूपमाम्114 ॥ 2513cd

दीर्घप्रवासनिर्वेदाच्चलितान्दर्शयन्नुषम्115 । 2514ab
स्थास्नूंश्च तोषयन्दायैः स्थैर्यं निन्ये नृपश्चमूः ॥ 2514cd

इत्थं त्रिचतुरान्मासांस्तिष्ठद्भिरपि निष्ठुरैः । 2515ab
नैवादातुमशक्यन्त कटकैः कोट्टसंशयाः116 ॥ 2515cd

तेषां हि वीवधासारनिरोधादीनि दृप्यताम् । 2516ab
अप्रियाणि न जातानि दैन्यदायीनि कानि चित् ॥ 2516cd

चिकीर्षवस्तुषारान्ते स्वविभूतिप्रकाशनम् । 2517ab
तस्थुरङ्कुरितोल्लासाः पर्वता इव डामराः ॥ 2517cd

कृषिं कृषीबलैर्वेदपाठमुत्सृज्य च द्विजैः । 2518ab
उत्पिञ्जसज्जैर्ग्रामेषु सर्वतः शस्त्रमादधे ॥ 2518cd

प्रतीक्षमाणाः प्रालेयप्रलयं मार्गभूभृताम् । 2519ab
दारदास्तुरगानीकैः सज्जैस्तस्थुर्जिगीषवः ॥ 2519cd

मिहिकासंहतेः117 कालतूलतल्पाकृतेर्दधत् । 2520ab
पातभीतिं जनो राजसेना शश्वदवेपत ॥ 2520cd

इत्थं प्रत्यर्थिसामर्थ्यपरमार्थापरीक्षणात् । 2521ab
क्ष्माभृन्मिथ्यैवमारेभे सन्देहं च जयेभजत् ॥ 2521cd

वैदग्ध्यदिग्धमनसामयमेक एव कोप्यस्ति वञ्चनविधेरुचितः प्रकारः । 2522ab
येनात्मना किल विशङ्कितशक्तयस्ते मुग्धेपि वैरिणि विचारहतोद्यमाः स्युः ॥ 2522cd

प्रवादमात्रसाराद्यस्त्रसेत्परिकरादरेः । 2523ab
स्वयैव तस्य विघ्न्येत सिद्धिश्चिन्तान्धया धिया ॥ 2523cd

विध्येदाशु शिलीमुखैः प्रवितरेत्पत्त्रैरवस्कन्दनं बध्नीयात्तदिदं गुणैः परिकरैर्मिथ्या प्रसिद्धैरिती । 2524ab
स्याच्चेदम्बुरुहं द्विपस्य भयकृच्चिन्तासहैः साहसं प्रयूहेत ततो निजैरपघनैरप्येतदुन्मूलने ॥ 2524cd

लोठनाद्यैर्हि कर्णाहान्निस्तीर्णैस्तैः118 कथञ्चन । 2525ab
प्राप्तोलङ्कारचक्रेग्रे राज्यमज्ञायि निर्जितम् ॥ 2525cd

मिथैव ग्रथिता कन्था स्वयूथ्यैः कथमन्यथा । 2526ab
तस्मिन्नमन्दमास्कन्दं धावन्द्वाराधिपो ददौ ॥ 2526cd

प्रत्यवस्थित्यसामर्थ्यात्ततः कोट्टं व्यसर्जयत् । 2527ab
स राजबीजिनस्तांश्च परेद्युः स्वयमन्वगात् ॥ 2527cd

कोट्टाद्रिः सलिलस्यान्तः कृशोधः119 पृष्ठदैर्घ्यभाक् । 2528ab
स तैर्वैसारिणग्रासव्यग्रो120 बक इवैक्ष्यत ॥ 2528cd

निःसामर्थ्यं तद्विलोक्य गजागारमिवागजम् । 2529ab
तत्यजुर्विजयाशंसां भयं चोदवहन्हृदि ॥ 2529cd

ततः शरैर्दृषद्वैषैर्बाध्याश्चेतो121 विरोधिनः । 2530ab
अर्णसो रक्षणमितो रक्ष्या यन्त्रोपला इतः ॥ 2530cd

इत्थं स तैरभिदधद्धैर्यादादाय122 डामरः । 2531ab
मेने स्वगुप्तिमात्रार्थी न युद्धे बद्धनिश्चयः ॥ युग्मम्॥123 2531cd

ततः कन्दलितास्कन्दे तिलग्रामे द्विषद्बले । 2532ab
प्रतीकाराक्षमे दस्यौ ते चिन्ताक्षामतां दधुः ॥ 2532cd

विस्रवाविस्रुतप्रज्ञासौष्ठवो लोठनः पुनः । 2533ab
डामरं कृत्यसम्पूर्णमगूढं तमगर्हत ॥ 2533cd

भोजस्तूद्विजितं124 यन्नो द्रोहो रोहेदिति ब्रुवन् । 2534ab
रुद्ध्वा पितृव्यं तं व्याजस्तुत्या नित्यमुपाचरत् ॥ 2534cd

विमुखे लोठनेकुण्ठशाद्यस्तस्य तु सान्त्वनैः125 । 2535ab
मेने मन्त्रज्ञतां किञ्चित्सोवर्तिष्ट126 च संविदि ॥ 2535cd

हन्यान्मां भूभृदित्येष यातेष्वेतेषु सन्त्यजेत् । 2536ab
नास्मानुक्त्वेत्यरौत्सीत्स पितृव्यं गमनार्थनात् ॥ 2536cd

त्वय्यास्मासु च सर्वेषु वेष्टितेषूत्कटा द्विषः । 2537ab
पृष्ठकोपमसम्भाव्य कुतश्चिन्निश्चलोद्यमाः ॥ 2537cd

[page 259]

विश्वास-प्रस्तुतिः

यद्यद्विदध्युः सिद्ध्येत्तदेकं त्यज मामितः । 2538ab
अन्यांल्लवन्यानानीय दरदो वा जवेन127 वः ॥ 2538cd

बन्धनं त्वपनेष्यामि युक्तमित्युक्तवांश्च तम् । 2539ab
डामरं विदधे किञ्चिदिव साम्मत्यमाश्रितम् ॥ 2539cd

विमोक्ष्यामि क्षपायां त्वामद्य श्वो128 वेति तं ब्रुवन् । 2540ab
स त्वसङ्क्षीणदाक्षिण्यो129 विप्रलेभे प्रतिक्षणम् ॥ 2540cd

अध्वरोधे सुदूरस्थैर्यथावदकृतेरिभिः । 2541ab
बाह्यग्रामाहृतैरन्नैस्ते स्वहान्यत्यवाहयन् ॥ 2541cd

दुरुदर्कमथाशङ्क्य समयं ते व्यजिज्ञपन् । 2542ab
धन्यादयोहितैः सन्धिर्विधेय इति भूपतिम् ॥ 2542cd

तैस्तैर्निमित्तैः सन्धानमविधेयं विदन्नृपः । 2543ab
तानादिदेश कर्तव्यं कोट्टाट्टालकवेष्ठनम् ॥ 2543cd

सन्दिदेश च दायादा वञ्चेरन्ख्यातिमागताः । 2544ab
निजास्पदे ताञ्जहति दत्तोत्कोचेथ डामरे ॥ 2544cd

भूत्वा कठोरेप्यारम्भानिष्ठा130 निःसौष्ठवा131 ध्रुवम् । 2545ab
क्रियातिपत्त्युपालम्भैर्यास्यामोनुशयं132 विशाम् ॥ 2545cd

नात्यक्षद्धर्षदेवश्चेत्सप्ताहान्युद्यमं ततः । 2546ab
दुग्धप्रवाहं प्राप्स्यत्स[^2546-1] श्रुत्वेत्यन्योपि तप्यते ॥ 2546cd

प्राप्तव्यं प्राप्तवान्सर्वो निजैः कृत्यैः शुभाशुभैः । 2547ab
क्रियातिपत्तिर्लोकेत्र[^2547-1] त्रैलोक्यं तु मुखेर्प्यते ॥ 2547cd

पादेषु पक्षेषु च सत्सु नोर्व्यां न व्योम्नि वा पक्षपिपीलिकस्य । 2548ab
पङ्खन्धवच्चङ्क्रमणं तु गर्ते133 किं सम्पदा स्यान्नियमे गतीनाम् ॥ 2548cd

सहस्रपादस्य गत्रेनिमित्तमनूरुभावेप्यरुणः प्रजातः । 2549ab
तस्याभविष्यद्यदि पादयुग्मं ततोधिकं तत्किमिवाकरिष्यत् ॥ 2549cd

उपेक्ष्य साक्षितां तस्मात्कृत्स्नं कोट्टं विवेष्ट्यताम् । 2550ab
प्रयातु तत्रैवास्माकं तेषां च पुरुषायुषाम् ॥ 2550cd

अविश्रान्तो वातो दहन इव सोयं जनयति प्रसक्तिं सातत्याद्दलयति कुलाद्रीनपि जलम् । 2551ab
प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा फलावाप्तिं लोके प्रतिकलमसम्भाव्यविभवाम् ॥ 2551cd

क्रूरां नरपतेराज्ञां श्रुत्वा धन्यादयस्ततः । 2552ab
कोट्टप्रतोलीं कूलं तं त्यक्त्वाप्यारुरुहुर्जवात् ॥ 2552cd

कथं युद्धं विधास्यन्ति कथं स्थास्यन्ति वेति तान् । 2553ab
शरान्किरन्तः कोट्टस्था यावर्प्रैक्षन्त134 कौतुकात् ॥ 2553cd

अधः सोप्यूर्ध्वगान्युद्धरिनिष्पीड्य135 निविडैर्व्यधात् । 2554ab
धन्यः प्रदेशं तावत्तं निकेतैः पत्तनोपमम् ॥ युग्मम्॥136 2554cd

अविश्रान्तैस्ततः सङ्ख्यैरसङ्ख्येयश्चमूक्षयः । 2555ab
प्रतिक्षणं प्रववृते सन्ययोरुभयोरपि ॥ 2555cd

परेद्युः शारदां दृष्ट्वा सम्प्राप्तो गर्गनन्दनः । 2556ab
सङ्क्रन्दनपुरीपौरवृद्धिं योधैर्हतैर्व्यधात्137 ॥ 2556cd

अलङ्काराभिधो बाह्यराजस्थानाधिकारभाक् । 2557ab
अधृष्योमानुषैर्युद्धैर्विरुद्धान्बहुधावधीत् ॥ 2557cd

क्व भूधरचरैः स्पर्धा वसुधातलचारिणाम् । 2558ab
तथापि पृतनायन्त्रानन्त्यं चिन्त्यमचिन्त्यकृत् ॥ 2558cd

अल्पीयांसः कोट्टनिष्ठा भूयिष्ठाः कटकाश्रयाः । 2559ab
अतः पूर्वे बहून्घ्नन्तोप्यासन्कृत्याल्पया क्षताः ॥ 2559cd

श्लिष्टद्वाराररिपटं द्वित्रैः पीडितमाहवैः । 2560ab
मीलिताक्षमिव त्रासात्ततो दुर्गमजायत ॥ 2560cd

गोप्तृभेदान्तरद्वैधमुखच्छिद्रानुसारिणः । 2561ab
धन्यादीन्वीक्ष्य विश्वासं कोट्टस्था नोपलेभिरे ॥ 2561cd

निद्राच्छेदार्थमन्योन्यं क्रोशन्तो नास्वपन्निशि । 2562ab
स्वपन्तोह्नि तु निःशब्दशून्यं कोट्टमदीदृशन् ॥ 2562cd

[page 260]

विश्वास-प्रस्तुतिः

निशासु तत्तत्पृतना यामतूर्यरवैरपि । 2563ab
चटकाः कोटरगता मेघशब्दैरिवात्रसन् ॥ 2563cd

अहर्निशं भ्रमन्तीभिर्नौभिः संरुद्धपाथसः । 2564ab
तान्समभ्रमयन्सर्वप्रकारं[^2564-1] राजसैनिकाः ॥ 2564cd

ते रुद्धपाथसस्तर्षशोषं138 कञ्चिद्दिषेहिरे । 2565ab
निःसञ्चारास्तु सङ्क्षीणे भोक्तव्ये क्लैव्यमाययुः ॥ 2565cd

बुभुक्षवः क्ष्मापयोग्यान्भोगान्भोग्येर्जितांस्ततः । 2566ab
कदन्नरिनृपदायादा अशनाशंसनं139 व्यधुः ॥ 2566cd

दूरे स्पर्धास्तु निस्तीर्णाः क्षुधितास्तेधिकं व्यधुः । 2567ab
भूर्भर्तुर्भोगभागिभ्यो भृत्येभ्योप्यन्वहं स्पृहाम् ॥ 2567cd

व्यूहेष्वस्मासु पर्याप्तमकार्यमिति भाषिणम् । 2568ab
भोजं व्यधान्मध्यशृङ्गे दुर्गस्याथ स तं पृथक् ॥ 2568cd

एकस्य वार्द्धकाद्वेश्यापुत्रत्वादपरस्य च । 2569ab
जानन्नयोग्यतां मेने द्वैराज्यार्हं तमेव सः ॥ 2569cd

विनामुं चानयोः सम्यक्संरम्भेरन्न वैरिणः । 2570ab
इति मिथ्या प्रथां निन्ये तद्विनिःसरणं बहिः ॥ 2570cd

कान्तालङ्कारचक्रस्य काङ्क्षन्ती क्षयमित्वरी । 2571ab
चक्षूरागात्षष्ठचन्द्रे सान्द्रस्नेहार्द्रतां गता ॥ 2571cd

बहिराभ्यन्तरं भेदं नयन्ती मन्त्रमाययौ । 2572ab
साल्हणेः कर्णसरणिं सर्वमन्विष्यतोन्वहम् ॥ युग्मम्॥140 2572cd

रागध्वान्तान्वितधियः प्रतिभेदभयेन सः । 2573ab
तस्य प्रकाशयन्नेनां141 गन्तुं तु प्रार्थनां व्यधात् ॥ 2573cd

क्षमावाञ्शिक्षितोपेक्षो मैत्रीस्थैर्ये मुदं भजन् । 2574ab
नागः सागस्यपि दधे बोधिसत्त्व इव क्रुधम् ॥ 2574cd

प्रियामन्युः सरागेण मृथुहेतुर्महानपि । 2575ab
हृदि विस्मर्यते पृष्ठे शरभेणेव वारणः ॥ 2575cd

अथ प्रस्थापितो भोजः सुप्तारिशिबिरान्तरात्142 । 2576ab
यातप्रायोप्यलङ्कारतनयेनानुयायिना ॥ 2576cd

द्रोहेच्छया भयाद्वापि ध्वस्तसत्त्वेन सत्वरम् । 2577ab
व्यावृत्यारोपितो भूयः कोट्टस्थस्यान्तिकं पितुः ॥ युग्मम्॥143 2577cd

निर्भर्त्स्य144 पुत्रं गन्तासि श्वो निशीत्यभिधाय तम् । 2578ab
छन्नमस्थापयत्सोह्नि यात इत्यखिलान्वदन् ॥ 2578cd

प्रोच्चल्यानिश्चयादेकः प्रायाद्वौ श्वः प्रयास्यतः । 2579ab
बोधितैरथ धन्याद्यैरजागार्यखिलैर्निशि ॥ 2579cd

प्रस्थास्नुः स निशीथेथ कोट्टाट्टालाद्व्यलोकयत् । 2580ab
जाग्रतः कटके सर्वान्परितो दीपितानले ॥ 2580cd

प्रकाश्य वह्निना दुर्गं प्रतोलीनिर्गतो यथा । 2581ab
पिपीलकोप्यलक्ष्यत्वं नोन्मुखानां द्विषां व्रजेत् ॥ 2581cd

ज्वालाप्रकाशचाञ्चल्याद्विलोला145 इव रक्षिताः । 2582ab
न्यषेधन्मूर्धकम्पेन साल्हणिं साहसाद्गृहाः ॥ 2582cd

तद्गन्तुमक्षमं146 क्षिप्रं क्षपाप्राह्णे स डामरः । 2583ab
अधोवातीतरच्छ्वभ्रमालिङ्गितवटाकरम् ॥ 2583cd

क्षेमराजाभिधानेन डामरेशेन सोन्वितः । 2584ab
शिलां वितर्दिकातुल्यामध्यास्त श्वभ्रमध्यगाम् ॥ 2584cd

आरुह्यासनमात्रे तां पर्याप्तां पातभीतितः । 2585ab
निर्निद्रौ पञ्चरात्रीस्तावत्यवाहयतामुभौ ॥ 2585cd

निर्वर्तितप्राणयात्रौ करस्थैः सक्तुपिण्डकैः । 2586ab
तत एव व्यजहतां विष्ठां नीडादिवाण्डजौ ॥ 2586cd

अव्यक्तव्याकृती चित्रासूत्रिताविव तौ स्थितौ । 2587ab
वीक्ष्यारिकटके लक्ष्मीं पृष्ठाद्विस्मयमीयतुः ॥ 2587cd

तयोराश्रीयत स्फीतशीतविस्मृतिकारिणा । 2588ab
जयसिंहप्रतापाग्निसन्तापेनोपकारिता ॥ 2588cd

षष्ठेह्नि तत्र निःशेषीभूतभोक्तव्ययोरथ । 2589ab
क्षतक्षार इवारम्भि तुषारं वर्षितुं घनैः ॥ 2589cd

अगृह्यतोचिते दन्तवीणावाद्योद्यमे तथा । 2590ab
शीतासादितसादेन पाणिपादेन147 सुप्तता ॥ 2590cd

[page 261]

विश्वास-प्रस्तुतिः

तावचिन्तयतामद्य क्षुच्छीतामिहतौ ध्रुवम् । 2591ab
पतिष्यावोरिकटके पाशबद्धाविवाण्डजौ ॥ 2591cd

कं पूत्कुर्वः कस्य वावां विदितौ यो विनिर्हरेत् । 2592ab
ततः पङ्कान्तरामग्नौ यूथपः कलभीविव ॥ 2592cd

विषमस्थावथेत्थं तौ नक्तमभ्यर्थ्य डामरः । 2593ab
आरोप्य रज्ज्वावसथे शून्ये स्थापयति स्म सः ॥ 2593cd

कृतशीतप्रतीकारौ पलालानलसेवनैः । 2594ab
दुःखं व्यस्मरतां तत्र निद्रया चिरलब्धया ॥ 2594cd

ततोप्यभ्यधिका व्यापद्भेजे लोठनविग्रहौ । 2595ab
अचक्षुष्यौ जनात्स्निग्धां गिरिमप्यापतुर्न यौ ॥ 2595cd

यवकोद्रवपूपादि तयोः सतुषमश्नतोः । 2596ab
गात्रैर्वस्त्रैश्च वैवर्ण्यं शुद्धिवन्ध्यतया दधे ॥ 2596cd

धन्योलङ्कारचक्रस्य क्षीणभोज्यस्य148 सर्वतः । 2597ab
स्वीचकारान्नदानेन तुल्यौ होलयशस्करौ ॥ 2597cd

ततः स दूतैर्विक्रेतुमङ्गीचक्रे नृपद्विषः । 2598ab
बुभुक्षाक्षुभितो भृत्यभेदभीतश्च डामरः ॥ 2598cd

दुस्तरव्यापदुद्रेकद्रुतसत्त्वतयात्यजत् । 2599ab
पापोपलिप्तच्चित्तमधर्माकीर्तिसाध्वसम् ॥ 2599cd

भूपतेर्विद्विषच्छेषस्थापनात्स्वस्य रक्षणम् । 2600ab
ख्यातिशुद्धै चिकीर्षुश्च कुशकाशावलम्बनम् ॥ 2600cd

भृत्यस्योदयनाख्यस्य धिया प्रच्छादितं तथा । 2601ab
ररक्ष साल्हणिं भोजं द्वौ तु दातुं स तत्वरे ॥ 2601cd

तं विना च तयोर्भूपाद्दण्डं जानन्नसाम्प्रतम् । 2602ab
अबाधं स्वस्य चाशेषकृत्यं युक्तममन्यत ॥ 2602cd

भोज्याभावकृतां149 तस्य व्यापदं तच्च मन्त्रितम् । 2603ab
तदा नाज्ञासिषुर्धन्यादयः सन्धिं विधित्सवः ॥ 2603cd

मिषाच्चिचलिषा तेषां कस्माच्चिदभवत्ततः । 2604ab
किं पुनस्तेन दायादद्वये दातुं प्रतिश्रुते ॥ 2604cd

देयाविश्राणनानीकोत्थानादिपणसिद्धये । 2605ab
भ्रातृव्यमनयद्धन्यः कल्याणमवकल्यताम् ॥ 2605cd

प्रबन्धं निर्बध्नन्नरिमुपचरञ्छादितरुषं महाहिं सम्मृह्णन्नयकुटिलचेष्टं व्यवहरन् । 2606ab
स भूमिः सिद्धीनां दधदुचितकर्तव्यपरतां भवेद्योनिर्व्यूढावपि सुदृढसंरम्भरभसः ॥ 2606cd

दुःखैर्दीर्घप्रवासोत्थैरपसारितसौष्ठवाः । 2607ab
तदा संरम्भशैथिल्यं भूभृद्भृत्याः प्रपेदिरे ॥ 2607cd

स सत्यं सचिवोप्राप्यः सङ्ग्रहीतुं प्रगल्भते । 2608ab
कथाशरीरमिव योनिर्व्यूढौ कार्यमाकुलम् ॥ 2608cd

सन्धिं निबद्धं विज्ञाय सैनिकाः स्वगृहोन्मुखाः । 2609ab
उपेक्ष्य स्वामिदाक्षिण्यं क्षणादेवप्रतिस्थिरे ॥ 2609cd

तद्विक्रीतमवाप्यान्नं लवन्यः कार्यमन्थरः । 2610ab
धन्याद्याः स्वल्पसैन्यत्वादासन्कृच्छ्रगतासवः ॥ 2610cd

प्रतोलीकीलितदृशः[^2611-1] प्रार्थितागमनाशया । 2611ab
तदहः सोभियोक्तॄंस्तानददत्तावतापयत् ॥ 2611cd

रथाङ्गाक्रन्दिनी रात्रिस्तेषां कृच्छ्रेण धियः । 2612ab
विना जीवितसन्न्यासमन्यत्कार्यमपश्यताम् ॥ 2612cd

प्रयत्नसम्भृते कृत्ये नष्टे मन्दतया धियः । 2613ab
अस्मत्सम्भावनादूरीकृतवाक्यादरं प्रभुम् ॥ 2613cd

नष्टानुशोचनव्याजात्तत्तद्युक्त्युपहासिनः । 2614ab
सदयं नो ध्रुवं दुःस्थीकरिष्यन्त्यन्यमन्त्रिणः ॥ 2614cd

सद्यो यात्रातारतम्यात्ताभ्यन्तो नस्त्रपार्षणम् । 2615ab
कार्यनिष्ठामपश्यन्तः150 कुर्युर्वेत्यपरेब्रुवन् ॥ 2615cd

मायामेतां विहितवांस्तैः सम्मन्त्र्य नृपाहितैः । 2616ab
सिद्धसाध्योधुना दस्युर्हसन्नस्मान्ध्रुवं स्थितः ॥ 2616cd

अल्पेतरांस्तु सङ्कल्पानेवं तेषां वितन्वताम् । 2617ab
दत्तानन्ततनुज्यानिःप्रभाता सा विभावरी ॥ कुलकम्॥ 2617cd

प्राह्णेथ राजस्थानीयोलङ्कारः साहसोत्सुकः । 2618ab
डामरं कोट्टमारुह्य निन्ये नयभयैर्वशम् ॥ 2618cd

एकाहं गमने सोढविलम्बस्तत्र वासरे । 2619ab
लोठनं151 क्षीणदाक्षिण्यः स गच्छेत्यब्रवीत्स्फुटम् ॥ 2619cd

[page 262]

विश्वास-प्रस्तुतिः

उपन्यास्यंस्ततस्तस्य152 म्लानिप्रक्षालनक्षमम् । 2620ab
मानिनः केपि कर्तव्यं कीर्तिव्ययनिबर्हणम् ॥ 2620cd

कालः सोयं सकलजनतालोचनध्वान्तदायी नित्यालोकप्रकटनपटुः किन्तु सत्क्षत्रियाणाम् । 2621ab
अभ्रश्यामाद्भुतमसिलता स्वर्वधूसङ्गतापि व्यक्तं सक्तिं दिशति रभसान्मण्डलेनोष्णभानोः । 2621cd

सम्प्राप्नुवन्ति ननु मण्डलमेकमेव क्ष्मापा जये समरसीम्नि वपुस्तु हित्वा । 2622ab
चण्डांशुमण्डलमथाभिमतानि कामं प्रेमार्द्रनिर्जरवधूक्रुचमण्डलानि ॥ 2622cd

नास्मिन्सन्ततवेष्टनोल्बणतलैस्तल्पैरुदेति व्यथा ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा जन्यते । 2623ab
क्रन्दद्बन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते नन्वेतन्मरणं सुखस्य सुभगा काप्येव सम्प्राप्तिभूः ॥ 2623cd

मार्गैः खड्गलतावितानगहनैर्यातः पिता ते दिवं भ्रातृभ्यामसिधेनुकण्टकवने भ्रान्त्वार्जिता सद्गतिः । 2624ab
वंशक्षुण्णमिमं निषेव्य रभसादध्वानमुन्नद्धया वृत्त्या व्योम्नि विशार्कमण्डलमिह स्वान्तं च तेजस्विनाम् ॥ 2624cd

साम्राज्यं विधिनोपनीतमसकृत्क्लैव्येन यद्धारितं तत्रापि प्रशमोचिते वयसि यत्सञ्चेष्टितं बालवत् । 2625ab
प्रायश्चित्तममुष्य लब्धमधुना तद्वेधसापादितं मा भूद्राज्यमिवैतदप्यसुलभं कर्तव्यमूकस्य ते ॥ 2625cd

राज्यं प्राप्तमपि प्रनष्टमसमोच्छिष्टाशनैर्यापितः कालः सर्वजनक्षयस्य विषये याता स्थितिर्हेतुताम् । 2626ab
इत्यासीत्किमिवोचितं प्रभवतो भिक्षाचरक्ष्मापतेर्निर्व्यूढं तु तदस्य देहविरतौ येनैष सर्वोन्नतः ॥ 2626cd

स तथोत्तेजितोप्योजो नाददे तेजसोज्झितः । 2627ab
न ज्वलत्यग्निसङ्गेपि निर्वीर्यं वानरेन्धनम् ॥ 2627cd

शान्ताहन्तस्तु153 संवृत्तनिद्राभङ्ग इवार्भकः । 2628ab
ऐच्छदुद्यद्भयोद्वेगो रोदितुं प्रसृताधरम् ॥ 2628cd

डामरेणार्पितं नेतुम् प्रवृत्तास्तं नृपाश्रिताः । 2629ab
तादृशं वीक्ष्य कारुण्याद्धैर्याधानार्थमभ्यधुः ॥ 2629cd

मा विषीद न देवस्य154 दयाचन्द्रोदयोज्ज्वले । 2630ab
हृदि प्ररोहति स्वैरं विकारतिमिरान्धता ॥ 2630cd

स सौजन्यसुधासिन्धुः स स्थिरत्वसुराचलः । 2631ab
स प्रपन्नार्तिसन्तापच्छेदचन्दनपादपः ॥ 2631cd

पुण्यां शुद्धां च संलक्ष्य शरदीव द्युवाहिनीम् । 2632ab
मूर्तिं तस्योल्बणं चेतः समाधास्यत एव ते ॥ 2632cd

निष्कलङ्कैर्वशपूर्वैर्निर्विशेषं सभाजयन् । 2633ab
चारित्रं लाघवभुवो ह्रियस्त्वां सोपनेष्यति ॥ 2633cd

अपकर्तॄन्विपन्मग्नान्दयमानः परानपि । 2634ab
क्षमापरीक्षाहेतुत्वात्स वेत्ति ह्युपकारिणः ॥ 2634cd

उक्त्वेति हृष्टस्तैर्लोलस्थूलकूर्चो गृहात्ततः । 2635ab
व्यालम्बकम्बलो गोष्ठाद्वृद्धोक्ष इव निर्ययौ ॥ 2635cd

निर्भूषणं म्लानजीर्णवस्त्रशस्त्रं निरीक्ष्य तम् । 2636ab
युग्याधिरूढमायान्तं धन्यो ह्रीनम्रतां दधे ॥ 2636cd

दीर्घास्पन्देक्षणं रूक्षघनकूर्चासविग्रहम्155 । 2637ab
व्यलोकयदथोलूकमिव नष्टं गुहागृहात् ॥ 2637cd

रेजे शैलश्चलद्भिस्तैः शिबिरोद्दीपितानलः156 । 2638ab
भूपप्रतापस्वर्णस्य कषाश्मत्वमिवागतः ॥ 2638cd

स्कन्धावारे157 गते वर्षत्तुषारं प्रसभं नभः । 2639ab
अमर्त्यभावे भूभर्तुर्विशां चिच्छेद संशयम् ॥ 2639cd

प्राक्चेत्पतेद्धिमं158 तावन्म्रियेरन्व्रुडिताः क्षणात् । 2640ab
पिष्ठातकान्तर्गर्ताटाः प्रविष्टा इव सैनिकाः ॥ 2640cd

एवमेकान्नविंशेब्दे दशम्यां शुक्लफाल्गुने[^2641-1] । 2641ab
न्यूनाब्दषष्टिदेशीयोव् निबद्धो लोठनः पुनः ॥ 2641cd

दीर्घप्रवासादायातं सत्कर्तुं कटकं पुनः । 2642ab
निर्ममो हर्म्यमुत्तुङ्गमारुरोह महीपतिः ॥ 2642cd

[page 263]

विश्वास-प्रस्तुतिः

यथोचितं दानमानसम्भाषणविलोकनैः । 2643ab
सन्तोष्य व्यसृजत्सैन्यं धन्यादीन्प्रैक्षतागतान् ॥ 2643cd

तेषां पुनश्च दोर्द्वन्द्वमूले क्षिप्रकरं भटैः । 2644ab
न्यस्तेनानासिकं वासःप्रान्तेनाच्छादिताननम् ॥ 2644cd

निर्भूषणश्रोत्रपालिप्रविष्टैः श्मश्रुलोमभिः । 2645ab
बलक्षरूक्षैः159 प्रव्यक्तकार्श्यक्लेशं कपोलयोः ॥ 2645cd

उच्चावचोक्तिमुखरे पौरलोकेन्तरान्तरा । 2646ab
व्यापारयन्तं नेत्रान्तौ दीनस्तिमिततारकौ ॥ 2646cd

कातर्यदैन्यभीक्लान्तिक्षुदलक्ष्मीकटाक्षितम् । 2647ab
वेपमानविनिद्राङ्गं मां शीतेनार्दितामिव ॥ 2647cd

भ्रान्तामिव क्ष्मां पर्यस्तानिवाद्रीन्पतितामिव160 । 2648ab
विदन्तं च दिवं शोष – – – –2रदच्छदम् ॥ 2648cd

दैविको वान्तरायोस्तु161 ध्वान्तं वोग्रं प्रवर्तताम् । 2649ab
राजौकोभ्यर्णतां यातं वाता वा जरयन्त्विदम् ॥ 2649cd

सर्वापकारकृद्राज्ञः स्थास्यामि पुरतः कथम् । 2650ab
पदानि सन्निरुन्धानं निर्ध्यायेति पदे पदे ॥ अन्तर्युगलम्॥ 2650cd

बहुलोकावृततया स्तोकसंलक्ष्यमैक्षत । 2651ab
प्रतीहारैरथावेद्यमानं लोठनमङ्गने ॥ कुलकम्॥ 2651cd

भ्रूसञ्ज्ञया वितीर्णज्ञो राज्ञा तामारुरोह सः । 2652ab
सभां पारिप्लवाम्भोजामिव प्रेक्षकलोचनैः ॥ 2652cd

दृष्ट्या निर्दिष्टपार्श्वोर्वीस्थितिः पृथ्वीभुजस्ततः । 2653ab
अस्प्राक्षीत्क्षितिनिक्षिप्तजानुर्मूर्ध्नाङ्घ्रिपङ्कजे ॥ 2653cd

हस्ताम्बुजाभ्यामालम्ब्य ललाटतटमानतम् । 2654ab
सम्राट्सम्भ्रमनम्रस्य तस्योदनमयच्छिरः ॥ 2654cd

रत्नौषधीजुषोः स्पर्शः पाण्योस्तापं स चेतसः । 2655ab
दौर्भाग्यमहरद्देहाच्चास्य162 श्रीखण्डशीतलः ॥ 2655cd

पुण्यानुभावात्कारुण्यभाजो भूभर्तुरञ्जसा । 2656ab
विस्रम्भसम्भावनया स क्षणात्पस्पृशे हृदि ॥ 2656cd

मा भैषीरिति दृप्तोक्तिः सुखं सम्प्राप्स्यसीति वाक् । 2657ab
अगाम्भीर्येण भग्नेव मन्युर्न त्वयि सोधुना[^2657-1] ॥ 2657cd

इत्युक्ते पूर्ववैराणां भवेदुद्घाटनं कृतम् । 2658ab
बान्धवो नस्त्वमित्यस्मिन्परीहास इव क्षणे ॥ 2658cd

क्लिष्टोसीति स्वप्रत्तापप्रभावाभाषणं भवेत् । 2659ab
ध्यात्वेति भूभृद्दृष्ट्वास्य नाप्यायं तु गिराकरोत् ॥ तिलकम्॥ 2659cd

अभयार्थनया पादौ स्प्रष्टुं नमयतः शिरः । 2660ab
संस्पर्शं मौलिषु पुनर्विग्रहस्याङ्घ्रिणाकरोत् ॥ 2660cd

का योग्यता सत्क्रियायां ममेति वदता बलात् । 2661ab
अजिग्रहत्पितृव्येण ताम्बूलं स्वकरार्पितम् ॥ 2661cd

नम्रं द्वारेशमूचेभूच्छ्रमो व इति सस्मितम् । 2662ab
धन्यं षष्ठं च पस्पर्श प्रष्ठं सव्येन बाहुना ॥ 2662cd

दाक्ष्यदाक्षिण्यगाम्भीर्यविनयाद्यैर्विभाव्य तम् । 2663ab
भूभृद्गुणैः परीतं स्वं लोठनोमन्यतावरम् ॥ 2663cd

आदिश्य सान्त्वनं धन्यमुखेनाथ[^2664-1] त्रपानतम् । 2664ab
पितृव्यं प्राहिणोद्वेश्म भ्राजिष्णु विनयाञ्जलिः ॥ 2664cd

अभियोगे य एवास्य नीतौ विन्यस्यतो दृशम् । 2665ab
मुखरागः स एवाभूत्फलावाप्तावविप्लुतः ॥ 2665cd

नायाति वाडवशिखिक्वथनेन तापं शैत्यं हिमाद्रिपयसा विशता न चाब्धिः । 2666ab
कश्चिद्गभीरमनसां सततं विषादकाले प्रमोदसमये च समोनुभावः ॥ 2666cd

प्रीतिस्थैर्यैर्ज्ञातियोग्यैश्चोपचारैरकृत्रिमैः163 । 2667ab
क्रमाद्राजाहरल्लज्जां पौरुषभ्रंशजीवयोः ॥ 2667cd

दायादोष्टद्वयादेव राष्ट्रे कृष्टेपि मन्त्रवित् । 2668ab
भोजेनोत्पिञ्जसर्पस्य164 दन्तं सोन्तरचिन्तयत् ॥ 2668cd

प्रवासायासभीत्या स्वैस्त्यक्तसंरम्भसम्भ्रमैः । 2669ab
जिगीषुर्विद्विषच्छेषैश्चक्रे यन्निष्प्रजागरः ॥ 2669cd

साल्हणिः165 स तु निस्तीर्णः165 श्वभ्राच्छून्यगृहे वसन् । 2670ab
पितृव्यविग्रहोदन्तमुपलेभे न कञ्चन ॥ 2670cd

[page 264]

विश्वास-प्रस्तुतिः

राजगृह्यम् त्वलङ्कारं डामरान्तिकमागतम् । 2671ab
पृष्ठाद्वीक्ष्याभवद्रोहद्द्रोहसम्भावनस्तदा ॥ 2671cd

ददर्श च क्रमाद्दूरतया दुर्लक्ष्यविस्तृति166 । 2672ab
स्कन्धावारं167 बद्धमालं मार्गे नगरगामिनि ॥ 2672cd

अज्ञातेन विदूरत्वात्पितृव्येणाश्रितं ततः । 2673ab
युग्यं चासौ धन्यषष्ठयुग्ययोरन्तरैक्षत ॥ 2673cd

अचिन्तयच्च को हेतुः कटकप्रस्थितेरितः । 2674ab
युग्यारूढश्च कोथ स्यात्तृतीयो धन्यषष्ठयोः ॥ 2674cd

पृष्टस्तेनावदत्कश्चित्पामरोथ168 प्रमोदभाक् । 2675ab
सन्धिर्निबद्धो नगरं गतौ लोठनविग्रहौ ॥ 2675cd

सन्देहौजहतद्रोहो169 भयमुन्मुखतां भजेत्170 । 2676ab
ज्जातिस्नेहेन तस्यासीन्मुहूर्तमपहस्तितम् ॥ 2676cd

सैन्ये गते शून्यतया मिलितैर्विहगैः सरित् । 2677ab
रुवद्भिस्तेन तौ नीतौ क्रन्दन्तीव व्यकल्प्यत171 ॥ 2677cd

लवन्य एव मे दध्याद्ध्यात्वेहस्थमवेत्य ते । 2678ab
पुनर्नयेयुर्धन्याद्याः क्रमाद्दध्यावथेति सः ॥ 2678cd

स्वं नेतुं पार्थिवचमूं प्रत्यावृत्तां निनादिनीम् । 2679ab
श्रुतेन्तरान्तरा घोषे निर्झराणामशङ्कत ॥ 2679cd

अथाजायत जीमूतवितीर्णतिमिरं जगत् । 2680ab
वन्ध्यं मध्यन्दिनेनेव निशीथव्यथितश्रिया ॥ 2680cd

राधमासावधि दधुस्ततः प्रभृति वारिदाः । 2681ab
दीक्षां क्षोण्यां तुषारौधसत्त्रासूत्रणकर्मणि ॥ 2681cd

विस्रब्धघात्यभव्योहं निर्ब्रह्मण्यो ह्रियोज्झितः । 2682ab
निन्दन्स्वमिति भोजाग्रे ततो दस्युरुपाविशत् ॥ 2682cd

समयापेक्षयाक्षोभो मन्युं संस्तभ्य172 साल्हणिः । 2683ab
सान्त्वयन्निव नास्त्यागस्तवात्रेति जगाद तम् ॥ 2683cd

ऊचे च संश्रितापत्यज्ञात्याद्यापद्रतं त्वया । 2684ab
त्रातुमेतत्कृतं तत्र गर्हा नार्हसि कस्यचित् ॥ 2684cd

तत्र द्रोहस्पृहा स्याच्चेन्नानृशंस्यं भवेन्मयि । 2685ab
परवत्ताभवत्तस्मादियं कालानुरोधतः ॥ 2685cd

राज्ञश्च हर्षभूभर्तृवंश्या इव न वा वयम् । 2686ab
उच्छेद्याः किं तु संयम्या राजधर्मानुरोधिनः । 2686cd

स्वस्याख्यातिस्तयोर्बाधा राज्ञश्चामार्गगामिता । 2687ab
शेषं मां173 रक्षता हन्त निषिद्धा धीमता त्वया ॥ 2687cd

इत्युक्तवन्तं तं त्यक्तलज्जाभार इवावदत् । 2688ab
साक्षी त्वमेवं174 सर्वत्र ममेति सततं स्तुवन् ॥ 2688cd

क्षणेन च प्रहिणु मामधुनेत्यभिधायिनम् । 2689ab
तमेव हिमवृष्ट्यन्ते कर्तास्मीत्युक्तवान्ययौ ॥ 2689cd

तवयि दस्युर्विपर्यस्येन्मन्युं175 जानन्नभोजनम् । 2690ab
भोजस्तत्रेति केनापि कथितो व्यधिताशनम् ॥ 2690cd

स्पृशंश्चान्नं चिरात्प्राप्तमिदं विक्रीय ताविति176 । 2691ab
ध्यायञ्ज्ञात्योर्देहमांसं तयोर्भुक्तममन्यत ॥ 2691cd

दस्युस्तु हिमवृष्ट्यन्ते त्वां प्रहेष्यामि निश्चयात् । 2692ab
श्वो वाद्य वेति177 कथयन्द्वौ मासौ न मुमोच तम् ॥ 2692cd

मां ज्ञात्वेह स्थितं राज्ञः178 कृतारब्धेर्हिमात्यये । 2693ab
विक्रीणात्येष मत्वेति भोजोधाद्गमने त्वराम् ॥ 2693cd

मिषं यं यं निषेधाय गमानायोदपादयत् । 2694ab
दस्युस्तं तं समुच्छेद्य सापराधं व्यधत्त तम् ॥ 2694cd

तेजोनाम्नो179 बलहरात्सञ्जातो180 भाद्रमातुरः । 2695ab
अभ्यधाद्बाल्यमाशास्य181 लम्बकम्बलकावृतः ॥ 2695cd

तेजोविस्फूर्जितां तत्तद्वीरोत्कर्षकषोपले182 । 2696ab
द्वैराज्ये सौस्सले सैन्ये पोङ्क्तिपावनतां गतः ॥ 2696cd

पितुराप्ततया राज्ञा वर्धितस्तदनन्तरम् । 2697ab
एवेनकादिविषयाधीकारित्वं क्रमाद्भजन् ॥ 2697cd

[page 265]

विश्वास-प्रस्तुतिः

विमुखे राज्ञि नागेन खूयाश्रमभुवा कृते । 2698ab
तं राजवदनो नाम विजिघृक्षू ररक्ष तम् ॥ चक्कलकम्॥ 2698cd

आनृशंस्थं भृत्यभावादलवन्यतयास्य च । 2699ab
प्रत्यवस्थित्यसामर्थ्यं राज्ञि सर्वे शशङ्किरे ॥ 2699cd

अतोलङ्कारचक्रेण कुर्वतोत्यर्थमर्थनाम्183 । 2700ab
द्वैराज्येच्छो राजबीजी तदा न स समर्प्यत ॥ युगलकम्॥ 2700cd

नीतः प्रत्यक्षतां दूरस्थितेप्युदयने स तम् । 2701ab
विमृष्टव्ति दध्रुक्षुस्त्यक्तुमेनं न सोशकत् ॥ 2701cd

राज्ञा कर्तुं विनियमं भोजस्य प्रहितो धनैः । 2702ab
प्राप184 द्रङ्गामलङ्कारो विषयाधिकृतस्ततः ॥ 2702cd

तत्पार्श्वमुद्यतं गन्तुं मां समुत्सृज्य185 यासि चेत् । 2703ab
त्यक्ष्यामि तदसूनेवमूचे भोजस्तु डामरम् ॥ 2703cd

श्वस्त्वां प्रभाते द्रक्ष्यामीत्येतावत्तत्र जल्पति । 2704ab
कोट्टादनुक्त्वैव निशस्तुर्ययामे विनिर्ययौ ॥ 2704cd

घनवर्षेप्यमर्षेण मार्गान्वेषी गवेषणम् । 2705ab
यावच्चक्रे क्षपान्ते तं तावच्छुश्राव निर्गतम् ॥ 2705cd

असाध्यप्रतिषेधोथ तमह्न्यनुजगम सः । 2706ab
प्रस्थितं शारदादेवीस्थानं यावन्मितानुगः ॥ 2706cd

एकसार्थगतौ ज्ञाती विना तौ ज्ञातियोषिताम् । 2707ab
दाक्षिण्यादक्षमः स्थातुमग्रे सागा भवन्निव ॥ 2707cd

प्रवयाः पञ्चषान्वारान्व्यधादारब्धिमेष तु । 2708ab
युवाप्यकल्यः कौलीनमिति स्वस्य च चिन्तयन् ॥ 2708cd

दुराण्डगमने खण्डितेच्छः संश्रित्य दारदान् । 2709ab
संयुयुत्सुर्मधुमतीरोधसा मार्गमग्रहीत् ॥ तिलकम्॥ 2709cd

क्वापि श्यानाश्मसूच्यश्रिमृत्युदंष्ट्राङ्कुरोत्कटान् । 2710ab
क्वचिद्रुद्धप्रकाशाभ्रकालपाशान्धकारितान् ॥ 2710cd

प्रभ्रश्यद्धिमसङ्घातगजव्यूहोल्बणान्क्वचित् । 2711ab
क्वापि निर्झरफूत्कारनाराचक्षतविग्रहान् ॥ 2711cd

क्वचित्सुस्पर्शपवनस्पष्टस्फुटदसृग्धरान् । 2712ab
क्वाप्यातपक्षतहिमज्योतिर्निहतदृक्पथान्186 ॥ 2712cd

दूरावरोहं[^2713-1] प्रसृते स्फुटमप्रसृते विदन् । 2713ab
ऊर्ध्वावरोहमसकृन्मन्यमानोप्यधोगतेः ॥ 2713cd

तुषारकालविषमान्षट्सप्तान्पथि वासरान् । 2714ab
उल्लङ्घ्य स दर्द्राष्ट्रसीमान्तग्राममासदत् ॥ कुलकम्॥ 2714cd

मूढार्पितात्मसामग्रीहताकिञ्चन्यलाघवम् । 2715ab
तं दुग्धघाट्टकोट्टेशः187 प्रणम्यानयदर्च्यताम् ॥ 2715cd

दूरस्थितो विड्डसीहस्तद्दूतोक्ततदागमः[^2716-1] । 2716ab
प्रक्रियां प्राहिणोच्छत्त्रवादित्राद्यां[^2716-2] नृपोचिताम् ॥ 2716cd

आदिष्टदिष्टवृद्धिश्च राष्ट्रे कोट्टाधिपेन सः । 2717ab
अवारयत्स्वकोशस्य स्वामित्वं राजबीजिनः ॥ 2717cd

राजायमानो भोजोथ राजवासगतोर्चितुम्[^2718-1] । 2718ab
आनिन्ये राजवदनापत्येनाभ्येत्य पस्क्ष्यताम् ॥ 2718cd

स पित्रैकान्ततो राज्ञो भिन्नेन प्रहितोन्तिकम् । 2719ab
तेनाज्ञाय्यरिनीत्युग्रपाशाग्रस्थापनोपमः ॥ 2719cd

कार्यगौरवविश्वासभावव्यतिकरोचितम् । 2720ab
सस्न्दिश्य प्राहिणोत्तं स न स्वीकुर्वन्न चोत्सृजन् ॥ 2720cd

किमाप्तोहं किमेकान्तभिन्नो राज्ञः शनैरिति । 2721ab
मां ज्ञास्यसीति तं दूतैः स राजवदनोवदत् ॥ 2721cd

तस्य दार्ढ्यं दर्शयितुं गोत्रिवैरिमिषान्नृपे । 2722ab
ब्रुवाणेथ विदोषत्वं नागाद्यैरग्रहीद्रणम्188 ॥ 2722cd

सामग्र्यूनः189 शनैः स्थैर्यं ततः साम्यमथ क्रमात् । 2723ab
आधिक्यं चादधे तेषां विग्रहैर्धैर्यनिष्ठुरः ॥ 2723cd

तथा प्रतिष्ठां स माप तस्यापूर्वस्य भूमिजाः । 2724ab
दास्यमेत्य यथा व्रीडां नागुर्नागस्य बान्धवाः ॥ 2724cd

स हि त्यागक्षमास्तम्भालोभादिगुणभूषितः । 2725ab
अभिगम्योभवन्नित्याभ्यस्तभूतिरिवोन्मिषन् ॥ 2725cd

[page 266]

विश्वास-प्रस्तुतिः

स्थैर्यं पृथ्वीहरादीनां साश्रयाणां न कौतुकम् । 2726ab
आडम्बरो निरालम्बस्यास्य स्तुत्यस्तु विस्तृतः ॥ 2726cd

ग्रथयन्पृथुलान्व्यूहांश्चौराटविकघोषिकैः । 2727ab
क्रान्तग्रामोथ तस्थौ स भोजादीन्प्रतिपालयन् ॥ 2727cd

जहुरन्योन्यसङ्घर्षसेर्ष्यामात्यमतेन वा190 । 2728ab
ततो लुण्ठिप्रियत्वाद्वा नीतिमन्येपि डामराः ॥ 2728cd

उद्घातध्वंसितां विलवेच्छा लोठनबन्धने । 2729ab
योधात्तेषां तदानीं सा जगाम शतशाखताम् ॥ 2729cd

त्रिल्लको जयराजश्च राज्ञा संवर्धितावपि । 2730ab
अकार्ष्टां नैव तपसा विवशौ चक्रमीलनात् ॥ 2730cd

यो घूकानामिव श्वभ्रमामयानामिव क्षयः । 2731ab
दैत्यानामिव पातालं यादसामिव सागरः ॥ 2731cd

आश्रयः सर्वदस्यूनां त्रिल्लोको माययोल्वणः । 2732ab
स देवसरसाधीशं सम्बध्नन्विप्लवं व्यधात् ॥ युग्मम्॥ 2732cd

काङ्क्षन्तोथ तदाक्षेपं क्षोणीत्राणार्थिनो द्विजाः । 2733ab
प्रायं नृपतिमुद्दिश्य चक्रिरे विजयेश्वरे ॥ 2733cd

अकालदस्युनिर्माथं जानतोभ्यर्थनां191 न ते । 2734ab
राज्ञोगृह्णंस्ततः सोभूद्दाक्षिण्यात्तत्सभानुगः ॥ 2734cd

प्रस्थातुं पार्थिवे सज्जे ज्यायान्यो विप्लुतेष्वभूत् । 2735ab
स जातोत्पातपिटको जयराजो व्यपद्यत ॥ 2735cd

भाग्यवानेकतोजातदस्युवैविक्त्यमीशिता । 2736ab
ततो मडवराज्यं स विप्रप्रीत्यै विनिर्ययौ ॥ 2736cd

अमात्यदत्तवैमत्यैः स्वशाद्यमठरैरथ[^2737-1] । 2737ab
द्विजैर्निषिद्धोलङ्कारो मन्त्रैi राज्ञोज्झितोन्तिकात् ॥ 2737cd

स व्यवस्थापने दुःस्थदस्यूनां सोद्यमः सदा । 2738ab
सेर्ष्याणां प्रत्यभात्तेषां तद्दोषपरिपोषकः ॥ 2738cd

त्रिल्लकोन्मूलनं कुर्यां कृत्वा द्वैराज्यभञ्जनम् । 2739ab
प्रतिज्ञायेति नृपतिर्विप्रान्प्रायान्न्यवीवरत् ॥ 2739cd

त्रस्तोथ त्रिल्लकस्तैस्तैरप्रियैरुदवेजयत् । 2740ab
अनुद्भिन्नमुखो गूढामयो रोगान्तरैरिव ॥ 2740cd

जयराजानुजं राज्ञा यशोराजं निवेशितम् । 2741ab
तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥ 2741cd

त्रातुं तं देवसरसं दृप्तारात्याश्रितं गतः । 2742ab
सञ्जपालोल्पसैन्यत्वात्सन्दिग्धविजयोभवत् ॥ 2742cd

ज्ञातोदन्तस्ततोभ्येत्य रिल्हणो रणमुल्बणम् । 2743ab
जयलक्ष्मीकटाक्षाणां प्रथमातिथितामगात् ॥ 2743cd

म्नन्दरेणाथ तेनारिवारिराशौ विलिडिते । 2744ab
कल्योभूत्सञ्जपालाब्दस्तुच्छारातिजलाहृतौ192 ॥ 2744cd

जितेपि राजके स्वोर्व्यां विनानुग्राहकं क्षमः । 2745ab
न बभूव यशोराजः शून्ये बाल इवासितुम् ॥ 2745cd

प्रतीक्षमाणो193 द्वैराज्यपर्याप्तिं क्ष्माभुजेकरोत् । 2746ab
त्रिल्लकः कालहरणं तैस्तैर्मायानतिक्रमैः ॥ 2746cd

यथाकालं ततो गूढोपोढान्मण्डलकण्टकान् । 2747ab
स्वपक्षसूचीविशिखान्दिक्षु श्वाविदाक्षिपत् ॥ 2747cd

अथ पार्थीहरिर्योभूच्चतुष्को लोष्टकानुजः194 । 2748ab
राज्ञा भ्रात्रा समं बद्धः कारागारात्पलायितः ॥ 2748cd

स तेन निजजामात्रा रक्षितः स्वोपवेशने । 2749ab
असङ्ख्यडामरयुतः शमालां सम्प्रवेशितः ॥ युग्मम्॥ 2749cd

आकर्ण्य कुररस्वेव195 निनादं तस्य भेजिरे । 2750ab
व्यक्ततां दस्यवो गूढा ह्रदस्थाः शफरा इव ॥ 2750cd

दृप्यन्तं राजवदनं षष्ठचन्द्रोथ गग्गजः196 । 2751ab
रुरोध प्रलयोद्वृत्तं वेलाद्रिरिव वारिधिम् ॥ 2751cd

वर्धमानक्षीयमाणसंहती तौ त्यजायताम् । 2752ab
घर्मे सजम्बालहिमौ तुषाराद्रितटाविव ॥ 2752cd

षस्ष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ ततः । 2753ab
दूरविप्रकृतौ राजमन्दिरावाप्तवेतनौ ॥ 2753cd

ज्ञातनिवृत्त्यपर्याप्ती धुर्यकार्यवशप्रियात् । 2754ab
प्रतीक्ष्यादग्रजाद्राज्ञः शङ्कितावशुभागमम् ॥ 2754cd

[page 267]

विश्वास-प्रस्तुतिः

कटकाद्विद्रुतौ राजवदनान्तिकमागतौ । 2755ab
श्वशुर्यावपि भूभर्तुरागतौ प्रतियोगिताम्197 ॥ 2755cd

शैलप्रस्थानपथिकैरसङ्ख्यैरथ खाशकैः । 2756ab
स पूर्वराजकोशार्थी भूतेश्वरमलुण्ठयत् ॥ 2756cd

तस्कराक्रान्त्यशरणं बलवन्निहताबलम् । 2757ab
अराजकमिवाशेषं राष्ट्रं कष्टां दशामगात् ॥ 2757cd

उदयं कम्पनाधीशं198 रिल्हणं च ततो नृपः । 2758ab
चतुष्कयुद्धमादिश्य नगरं विवशोविशत् ॥ 2758cd

पार्थ्वीहरिस्तु दुःसाधो महाव्याधिरिवौषधैः । 2759ab
स्तम्भितोभूत्तयोः सैन्यैः संहन्तुं न त्वशक्यत ॥ 2759cd

कालापेक्षां स्वपक्ष्याणां दुर्बुद्धिं वानुरुन्धतः । 2760ab
आसीन्मन्दप्रतापत्वं रिल्हणस्यापि तत्क्षणम् ॥ 2760cd

विड्डसीहस्तु विज्ञातभोजोदन्तो व्यसर्जयत् । 2761ab
दूतानानेतुमुर्वीशान्सुवहूनुत्तरापथे ॥ 2761cd

अपि वित्तेशवनितारहोवैयात्यवेदिभिः । 2762ab
अपि किम्मानुषपुरीगीतोद्गारिदरीगृहैः ॥ 2762cd

अप्यौष्ण्याद्वालुकाम्भोधेः शीतावेदिभिरेकतः । 2763ab
अपि शृङ्गानिलैः प्रीतान्कुर्वाणैरुत्तरान्कुरून् ॥ 2763cd

हिमाद्रिकच्छैर्म्लेच्छेशाः प्रधावन्तोधिशिश्रियुः । 2764ab
दिशस्तुरङ्गै रुन्धन्तःस्कन्धावारं199 दरत्पतेः ॥ तिलकम्॥ 2764cd

राज्ञां सङ्घटनं यावद्व्यधादेवं दरन्नृपः । 2765ab
दिग्भ्यो भोजान्तिकं तावत्तत्सामन्ताः प्रपेदिरे ॥ 2765cd

स पिप्रिये तानज्ञातालापान्वीक्ष्य गिरिव्रजात् । 2766ab
प्रीतिप्ररूढप्रणयानवरूढान्कपीनिव ॥ 2766cd

जयचन्द्रादयो राजवदनप्रहिता अपि । 2767ab
कीराः काश्मीरकाः200 पार्श्वमभजन्राजबीजिनः ॥ 2767cd

अभ्यर्णस्थान्बलहरप्रमुखांश्च विदूरगान् । 2768ab
अपुष्णात्साल्हणिः स्वर्णैः परां कोशेशतां भजन् ॥ 2768cd

ततः सुजनितोत्पिञ्जतया निश्चेद्यचक्रिकः । 2769ab
भोजेन राजवदनः समगंस्तापसाध्वसम् ॥ 2769cd

तयोरकृतकर्तव्यविशेषेणेतरेतरम् । 2770ab
जातसौष्ठवयोः क्षिप्रमविश्वासो व्यशीर्यत ॥ 2770cd

अभ्यमित्रीणतां तस्यानिच्छतो दरदं विना । 2771ab
मदात्साहायकायैच्छन्मितानेव स तान्हयान् ॥ 2771cd

स्युश्चेत्सोढाग्रिमाटोपाः कटकस्यास्य नो द्विषः । 2772ab
तत्साम्यमुन्मिषेद्यद्वा भङ्गो भूयोपि योगभित् ॥ 2772cd

तस्मात्सर्वाभिसारेण रणमेकं ममेच्छतः । 2773ab
विजयावजयावाप्तिरेकाहान्तरिता मता ॥ 2773cd

व्याजहारेपि यद्भोजस्तदेषोथ हसन्स्मयात् । 2774ab
निन्ये तद्दारदं सैन्यमुपेक्ष्यागामिनश्चिमूः201 ॥ तिलकम्॥ 2774cd

सङ्कटान्ते वितीर्णानुयात्रस्तेषां प्रसर्पताम् । 2775ab
स राजबीजी शुश्राव दरद्राजमथागतम् ॥ 2775cd

तत्सङ्गमाय व्यावृत्ते तस्मिन्कोट्टान्तिकं पुनः । 2776ab
प्रावेशयद्बलहरो मातृग्रामं स तद्बलम् ॥ 2776cd

विशस्ततो वीक्ष्य वाहैर्भ्रान्तवातमृगा इव । 2777ab
निसर्गधीरधिर्गार्गिर्न धैर्यात्पर्यहीयत ॥ 2777cd

तस्य सर्वेपि नीलाश्वडामराः स्वे च सैनिकाः । 2778ab
विपक्षैः सह बद्धैक्याः सैन्यान्दुध्रुक्षवो ययुः ॥ 2778cd

स तथा विषमस्थोपि प्रस्थित्यै प्रार्थितो निजैः । 2779ab
म्लानाननः प्रभुं द्रष्टुं न क्षमोस्मीत्यभाषत ॥ 2779cd

स सूर्यवर्मचन्द्रस्य न जातः कश्चिदन्वये202 । 2780ab
उपयोगाय यो नागान्मल्लाभिजनजन्मनाम् ॥ 2780cd

भोजं सभाजयित्वाथ विड्डसीहः सपार्थिवः । 2781ab
सारैः समं स्वसामन्तैर्विजयाय व्यसर्जयत् ॥ 2781cd

ततो म्लेच्छगणाकीर्णा व्रजन्संवाहयंश्चमूः । 2782ab
प्रयाणमात्रान्तरितः पृष्ठे तस्य बभूव च ॥ 2782cd

प्रादुष्कृतजगत्क्षोभे बले तत्रानुयायिनि । 2783ab
उत्साहात्साल्हणिर्मेने कृत्स्नां हस्तगतां महीम् ॥ 2783cd

[page 268]

विश्वास-प्रस्तुतिः

वाजिभिस्तर्जिते203 म्लेच्छराजैश्च बलमूर्जितम् । 2784ab
स्थाने समुद्रधाराख्ये विबन्धाथ तत्पदम् ॥ 2784cd

स राजवदनस्तादृग्दुर्जयाग्र्यबलोज्ज्वलः । 2785ab
मृत्युदन्तान्तरे दिष्टं षष्ठचन्द्रममन्यत ॥ 2785cd

ततः प्रावृट्पयोवाहकृतोदीपपरिप्लुता204 । 2786ab
सञ्जायते स्म वसुधा बलन्नीलोत्पलोपमाम् ॥ 2786cd

धरित्रीपानपात्रेम्भःसीधुपूर्णे205 दधुर्द्रुमाः । 2787ab
मग्ना लक्ष्यशिखामात्रा बलन्नीलोत्पलोपमाम् ॥ 2787cd

षष्ठस्य सङ्कटं जानभूभृच्छेषैर्बलैः समम् । 2788ab
अथोदयद्वारपतिं तं च धन्यं व्यसर्जयत् ॥ 2788cd

वाहिनीरुद्धमार्गौ तौ पदवीमनुसस्रतुः । 2789ab
मार्गे धनञ्जयस्येव शैनेयपवनात्मजौ ॥ 2789cd

लम्बाब्बुदेम्बेरे दूरं वारिपूर्णे च भूतले । 2790ab
स्यूतेव विद्युद्ददृशे भिन्नद्योतननिःस्वना ॥ 2790cd

शोभाभावोदितागर्हपरिवर्हावहिष्कृतः । 2791ab
तत्राविभक्तकटकः पार्थिवः समजायत ॥ 2791cd

अनास्थो राजवदने सत्त्वावष्टम्भयोः पुरा । 2792ab
अत्रापरो न निक्षेप्यो राजबीजीति दारदान् ॥ 2792cd

त्रिल्लकः सन्दिशन्दूतैर्वृद्धिं पार्थ्वीहरिं नयन् । 2793ab
तयोरेकस्य सामर्थ्यादैच्छत्तं हस्तपातिनम् ॥ युग्मम्॥ 2793cd

अभित्तिलिखितालेख्यकल्पं बलहरस्य तत् । 2794ab
तादृग्विलोक्य सामर्थ्यमथ राज्ञश्च सर्वतः ॥ 2794cd

विभक्ताशेषसैन्यस्य तत्र तत्रारिसङ्कटे । 2795ab
ज्ञात्वाप्रतिसमाधेयच्छिद्रमुन्मुद्रदुर्नयः ॥ 2795cd

अकृशश्वाविदाचारश्चिरं स्वाङ्गैः स गोपितम् । 2796ab
बहिर्दुर्धर्षमत्याक्षीद्द्वितीयमपि कण्टकम् ॥ तिलकम्॥ 2796cd

ध्वान्तेम्बुधरजालान्ध्यमहावाते रजोभरः । 2797ab
स्वपक्षभेदयोर्ज्ञातकर्णेजपमहोद्यमः ॥ 2797cd

कुलच्छेदकृतो राज्ञस्तत्र तत्रातिसङ्कटे । 2798ab
अशान्तजागरोथर्थमनर्थपरिपोषकः ॥ 2798cd

सोथ शूरपुरेकस्माद्बहुभिः सह डामरैः । 2799ab
तेन सम्पूरितः पृथ्वीहरजो प्रावृट्पूर्णस्य लक्ष्यताम् ॥ तिलकम् ॥ 2799cd

तस्य सङ्घटतः कन्यां प्रयातं वैकृतं चिरात् । 2800ab
पालीभङ्गे तटस्येव प्रावृट्पूर्णस्य लक्ष्यताम् ॥ 2800cd

निद्राणोपेन्द्रजठरप्रसादनिसृतं जगत् । 2801ab
समेतमिव तत्सैन्यं प्रत्यभाज्जलदागमे ॥ 2801cd

यावद्भिः पार्यते नेदृक्सङ्ख्यातुमपि तद्बलम् । 2802ab
भर्तव्यकल्पैः सुस्वल्पयोधमध्यगतैरपि ॥ 2802cd

तावद्भिरनुगैः पिञ्चदेवद्रङ्गाधिपो युधि । 2803ab
तद्योधान्याम्यहरितः206 सरितश्चातिथीन्व्यधात् ॥ युग्मम्॥ 2803cd

तटोज्ज्वलैश्चिताचक्रैर्विम्बितैस्तटिनीजले । 2804ab
मृतानामपि संस्कारः क्रियमाण इवाभवत् ॥ 2804cd

इति विस्मृतमृत्युः स कुर्वन्नेकाहमाहवम् । 2805ab
कथञ्चिदाप्तैरन्येद्युर्भग्नसारोपसारितः ॥ 2805cd

पुरे स शून्ये सैन्यानि सङ्गृह्णंस्तत्र सर्वतः । 2806ab
द्वित्रैरहोभिर्नगरं सुखग्राह्यममन्यत ॥ 2806cd

इच्छां पद्मपुरास्कन्दे मन्दत्वं त्रिल्ल्लोकनयत् । 2807ab
पृष्ठस्थयोर्यशोराजकम्पनाधीशयोर्भयात् ॥ 2807cd

न भृत्यैस्तद्विधः सिद्धश्चास्यैकस्मिन्नसम्मते । 2808ab
विधेयान्यलवन्यस्य डामरे होलडौकसि207 ॥ 2808cd

द्वैराज्ये सुस्सलस्यापि नैवादृश्यत तादृशः । 2809ab
अनर्थो यादृगुत्तस्थौ तत्सुतस्य समन्ततः ॥ 2809cd

चतुष्कमवधीर्याथ राञ्जा पादगदोपमम् । 2810ab
रिल्हणः प्रैषि तं208 ग्रीवागण्डतुल्यं व्यपोहितुम् ॥ 2810cd

प्रस्थितस्तत्प्रमाथाय शमालैः सोन्वबध्यत । 2811ab
व्रजन्प्राग्ज्योतिषं हन्तुं पार्थः संशप्तकैरिव ॥ 2811cd

अधावच्चाभ्यमित्रीणस्तान्व्यावृत्य निपातयन् । 2812ab
पद्माकरोन्मुखः पृष्ठलग्नान्भृङ्गानिव द्विपः ॥ 2812cd

[page 269]

विश्वास-प्रस्तुतिः

रणश्रान्तेन गमिता त्रियामा तेन रामशे209 । 2813ab
गर्जत्कुल्यार्पितारातिपृतनानादसंस्क्रिये210 ॥ 2813cd

तं211 कल्याणपुरं प्राह्णे विशन्तं सोग्रमागतः । 2814ab
रुरोधाभ्येत्य भूयोपि बलैर्मरितदिङ्मुखः ॥ 2814cd

आपतत्रेव चारातिपदातीन्सम्मुखागतान् । 2815ab
दृष्टनष्टान्व्यधाच्छागानिवाग्रेजगलो गिलन् ॥ 2815cd

उद्वृत्तमारुतस्येव तस्यापाते पदातिभिः । 2816ab
तत्यजे रिल्हणः पर्णैर्हेमन्त इव पादपः ॥ 2816cd

पश्यतस्तस्य ते विद्रवन्तो जिह्मा न जिह्रियुः । 2817ab
देहस्पृहापारमित्यै कस्यौचित्यमनत्ययम् ॥ 2817cd

आप्तैरथापसृत्य स्वैरर्थितो रिल्हणोब्रवीत् । 2818ab
नयन्प्रजासृजा साम्यं212 स्वामिभक्तिस्मृतेः स्मितम् ॥ 2818cd

ही213 – – वाविशेषेपि जन्तोर्जन्तोर्यदीशिता । 2819ab
भृत्यभावेपि यो लुप्तकृत्यो धिक्तस्य जीवितम् ॥ 2819cd

जातं वक्त्रसरः श्मश्रुराजिनीलाब्जभाजनम्214 । 2820ab
जराकैरवगौरं च राज्ञः पादान्प्रपद्य यान् ॥ 2820cd

म्लायत्सु तेषु भ्रूभङ्गभृङ्गभ्राजिष्णुभिर्भवेत् । 2821ab
कथं लक्ष्मीविलासैस्तदखण्डैरविडम्बितम् ॥ युग्मम्॥ 2821cd

एषा कापुरुषासेव्या धीराणां नैव पद्धतिः । 2822ab
यदायासलवत्रासात्सौख्यवैमुख्यभागिता ॥ 2822cd

वस्त्रापासन एव शीतजनितस्त्रासोथ तीर्थाम्बुभिः स्नाने ह्लादसुकोपलब्धिरसभब्रह्मानुभावोपमा । 2823ab
वैह्वल्यं215 समरे वपुर्विजहतामेवं किलोपक्रमे कैवल्याख्यसुखोपलम्भपरमा216 पश्चात्पुनर्निर्वृतिः ॥ 2823cd

एवमुक्त्वा परानीकमेकाकी स व्यगाहत । 2824ab
गृह्णञ्शरान्हरिप्रोथश्वाससन्दिग्धशूत्कृतान् ॥ 2824cd

स्वर्णत्सरुप्रभाजालहरितालोज्ज्वलोभजत्217 । 2825ab
खड्गप्रट्टनटस्तस्य रणरङ्गोत्तरङ्गताम् ॥ 2825cd

तत्खड्गस्य घ्नतः खड्गाञ्जीवैर्जालच्छलाद्भुवम् । 2826ab
उत्थाय लग्नं शत्रूणां तृणैस्तृणमणेरिव ॥ 2826cd

आजौ तमनुजग्मुस्ते यैरगण्यन्त वैरिणः । 2827ab
तिर्यञ्चोलक्ष्यतां यातास्तेषां प्राणास्तृणान्यपि ॥ 2827cd

सम्प्रविष्टो मुखान्मृत्योः कैश्चिन्मार्गैः स निर्गतः । 2828ab
तिमेः सम्मीलितास्यस्य श्रोत्ररन्ध्रैरिवोदकम् ॥ 2828cd

शश्वत्कुर्वन्परावृत्तीः श्रमशान्त्यै विनिर्गतः । 2829ab
प्रक्षीणभूयिष्ठबलो लब्धोत्सेको रिपावभूत् ॥ 2829cd

पृष्ठतोथ पपाताथ चतुष्कः पुष्कलैर्बलैः । 2830ab
साहायकागतं प्राक्स यं स्वं कञ्चिदमन्वत ॥ 2830cd

तस्योभयमुखस्यारिसैन्यस्याहेरिवेक्षणात् । 2831ab
न संरम्भः[^2831-1] शिखण्डीव परं ताण्डवितोभवत् ॥ 2831cd

तौ व्यूहावश्च पर्यायैर्मुखपृष्टं प्रदर्शयन् । 2832ab
सोक्षिणोद्युधि मन्थाद्रिर्मथनेब्धितटाविव ॥ 2832cd

कीलनिश्चलयोर्भ्राम्यन्नसकृद्वान्तरे द्वयोः । 2833ab
कुविन्द इव – – –1 तुरङ्गमत्वरान्वितः218 ॥ 2833cd

भासः प्रत्यग्रहीत्तस्य तमेकपृतनारयम्[^2834-1] । 2834ab
एकतोम्भोभरं द्वीपस्येव कूलविलोद्गमः ॥ 2834cd

तेन वैरिचमूश्चक्रे लुलितायुधकुण्डला । 2835ab
क्रीडता चण्डवेगेन पुरुषायितुमक्षमा ॥ 2835cd

त्रासपाण्डून्द्विषां वक्त्रकुम्भान्स्वेदाम्भसाचितान् । 2836ab
स कुर्वन्भूभुजं219 जाने भूयो राज्येभ्यषेचयत् ॥ 2836cd

स च पार्थ्वीहरिश्चास्तामन्योन्यस्य क्षपाक्षणे । 2837ab
सज्जौ मान्त्रिकवेतालाविव रन्ध्रगवेषिणौ ॥ 2837cd

साहायकागतान्साक्षीकृत्य220 क्ष्मापतिसैनिकान् । 2838ab
अन्येद्युः सोकरोच्छत्रुं वनमार्गावगाहिनम् ॥ 2838cd

पर्यस्तशौचान्सञ्चिन्त्य त्रिल्लकादीनथाययौ । 2839ab
सञ्जपालस्तृतीयस्मिन्दिवसे रिल्हणान्तिकम् ॥ 2839cd

[page 270]

विश्वास-प्रस्तुतिः

नृपप्रतापग्रपितः स ताभ्यां पर्यशोष्यत । 2840ab
वनान्तः शुचिशुक्लाभ्यां घुणक्षीण इव द्रुमः ॥ 2840cd

चितानल इवासारैर्युद्धैः शममनाश्रितः । 2841ab
उदयेन शनैर्निन्ये चतुष्कोपि मितोष्मताम् ॥ 2841cd

दारदं – बलं221 दृप्यद्धेमसन्नाहवाहिभिः222 । 2842ab
हयैरवरुरोहाद्रिकुहरादाहवोन्मुखम् ॥ 2842cd

तुरुष्कलोकेनाक्रान्तान्देशांस्तद्वशमीयुषः । 2843ab
शङ्कमानैर्जनैर्ज्ञाता कृत्स्ना म्लेच्छावृतेव भूः ॥ 2843cd

प्रयाणमात्रान्तरिते धन्ये द्वारपत्रावपि । 2844ab
साहसं निःसहायस्य तत्खड्गैरग्रतोभवत्223 ॥ 2844cd

ज्वलत्कनकसन्नाहं तत्सैन्यं स द्विषोरुधत् । 2845ab
कचज्ज्वालावलिं दावं सनिर्झर इवाचलः ॥ 2845cd

विधूय जयचन्द्रादीनग्रप्रस्थानरोधिनः । 2846ab
बलबाहुल्यदृप्तास्ते व्यगाहन्ताद्दवावनिम् ॥ 2846cd

तेषां हयसहस्राणि त्रिम्शद्विंशत्तुरङ्गमैः । 2847ab
रंहसा प्रतिजग्राह निजग्राह च गर्गजः ॥ 2847cd

तस्यासुहृद्भिर्ददृशे पौरुषं तदमानुषम् । 2848ab
एकैकस्याग्रतो यत्स वैश्वरूप्यमिवादधे ॥ 2848cd

अश्ववङ्काग्रविन्यस्तवक्त्रास्ते विद्रुताः क्षणात् । 2849ab
जगाहिरे कापुरुषा गिरीन्किम्पुरुषा इव ॥ 2849cd

अभूमिज्ञतया शाद्याच्चैष जातः पराभवः । 2850ab
श्वस्तदस्मान्पुरस्कृत्य जयं प्रत्याहरिष्यथ ॥ 2850cd

इत्युक्ता राजवदनजयचन्द्रादिभिर्निशि । 2851ab
तथेति मिथ्याकथयन्दारदा विद्रवोन्मुखाः ॥ युग्मम्॥ 2851cd

प्रवेश्य धन्यद्वारेशौ दूरं बलहरो बली । 2852ab
ऐच्छत्सन्नभिसन्धातुं रुद्ध्वा पाश्चात्यपद्धतीः ॥ 2852cd

स्कन्धावारेण224 सार्धं च दरदां राजबीजिनम्225 । 2853ab
विधातुं विदधे बुद्धिं तं ततस्तारमूलके ॥ 2853cd

चिकीर्षति ततस्तस्मिन्मत्तेष्वन्धेषु दस्युषु । 2854ab
उत्सेहे साल्हणिः कृत्स्नं राज्यं निश्चित्य[^2854-1] निर्जितम् ॥ 2854cd

जयाभावेप्यनन्तेदृक्सामन्तसहितस्ततः[^2855-1] । 2855ab
भव्योस्मि भवितेत्येवं विचिन्त्योत्सिषचे च सः ॥ 2855cd

पद्मोन्माथाद्द्विरदनैरप्रियैः पद्मबन्धोरिन्दौ स्पर्धिन्युदयति वपुः खण्डशः स्वं म्रियेत । 2856ab
तापस्त्यज्येत च रुचिरताभागिभिः[^2856-1] सूर्यकान्तैर्भद्राभद्रं व्यसनसमये सम्भवेदप्रतर्क्यम् ॥ 2856cd

यो डामरतया भिक्षोः शश्वत्कृच्छ्रेप्युपेक्षणम् । 2857ab
टिक्कादीनां च कौटुम्ब्याद्भूभर्तुर्द्रोग्धृमूर्धनि ॥ 2857cd

अलवन्यतयानन्यसामान्याश्चर्यवर्धनात् । 2858ab
ततः कृच्छ्रोपयोगाच्च विश्वासस्येव मूर्धनि ॥ 2858cd

तौ नागराजवदनौ व्यसनावसरे तदा । 2859ab
चित्रं स्वकार्यतात्पर्याद्भुतादरतां गतौ ॥ तिलकम्॥ 2859cd

स्वयं विधेयं नागोन्यकृतं तं वीक्ष्य विप्लवम् । 2860ab
अदूरमर्थमन्येन कृतं कविरिवाशुचत् ॥ 2860cd

क्ष्माभृद्विपक्षं स्वं पक्षीकर्तुं कॢप्ताननं ततः । 2861ab
सन्त्यज्य[^2861-2] राजवदनं मां भजस्वेत्यभाषत ॥ 2861cd

सम्प्राप्तं वः प्रतीक्षध्वं226 तेजोबलहरात्मजम्227 । 2862ab
युग्याधिरूढं किं नरीसेवतां[^2862-3] यामिको यथा ॥ 2862cd

इति ते सन्दिशनतं च व्यसजन्स विहाय तम् । 2863ab
काम्धेनुसमं नागं छागाश्लेषाद्विधि– यत्228 ॥ 2863cd

सर्वः स्वकार्यतात्पर्यात्प्रवर्तेत प्रियाप्रिये । 2864ab
स्नेहवैरेन्यदीये तु न किञ्चिदधिगच्छति ॥ 2864cd

ज्योतिस्तर्जितकान्ति दन्तयुगलं वाच्यं सुधादीधितेर्दानास्वादधिया प्रिया मधुलिहां कुम्भस्थली कुम्भिनः । 2865ab
वासस्वैuष229 विरोधभाक्सरसिजस्येत्यत्र नेन्दो रतिस्तस्याप्यायकृतो हितोयमिति नाप्यस्य द्विरेफा द्विषः ॥ 2865cd

[page 271]

विश्वास-प्रस्तुतिः

प्रतिष्ठालोठनं कर्तुं ततो बलहरस्य सः । 2866ab
आजन्म वैरं संरेभे तेन भूभृद्धितेच्छया ॥ 2866cd

स तथा दारदान्भग्नानभिन्नो भूभुजैष वः । 2867ab
सभोजान्राजाजवदनो हन्यादित्यभ्यधान्निजैः ॥ 2867cd

दरद्राजानकानीतनेतारौ कम्पनापती । 2868ab
प्रख्यातक्षेमवदनमत्ता – –1भिधावुभौ ॥ 2868cd

त्रस्यन्नोजसनामा च कोट्टेशो मन्त्रितं रहः । 2869ab
ब्रुवाणास्तद्व्यहस्यन्त भोजेनान्तरवेदिना ॥ 2869cd

स्फाटिकेनेव सैन्येन तेनाग्रे रुद्धमप्यथ । 2870ab
सिधक्षु230 राजार्कमहो विड्डसीहेन्धनेपतत्231 ॥ 2870cd

पार्थिवानर्थदुश्चिन्तामययक्ष्मपरिक्षतः । 2871ab
स यत्कृष्णक्षपाक्षीणसोमसाम्यं समाययौ ॥ 2871cd

रोगग्रस्ते रणप्रष्ठे पृष्ठगोप्तरि भर्तरि । 2872ab
तथाभियोज्ये स्थाने च भयजर्जरतां गते ॥ 2872cd

आहारस्थं बलहरं विहाय निखिलास्ततः । 2873ab
पलायिषत232 तेन्येद्युर्विगाह्य हरिभिर्गिरीन् ॥ युग्मम्॥ 2873cd

दृष्ट्वा बहुमतं प्रातरागन्तारः पुनर्वयम् । 2874ab
कथयित्वेति सम्प्रार्थ्य साल्हणिं सह तेनयन् ॥ 2874cd

प्राक्पीतकोशो233 वैवश्यात्स तेषामनुगोभवत् । 2875ab
भ्रष्टकार्यस्तु वैह्वल्यं श्वभ्रे मज्जन्निवादधे ॥ 2875cd

मुहुः सर्वशिरोद्रिक्तरक्तपूर्णमिव234 ज्वलत्235 । 2876ab
अवरोहदनच्छाम्बुसोपानाश्मनिभं मुहुः ॥ 2876cd

ज्ञातेन पतितेनेव मुहुर्व्योम्ना महीसमम् । 2877ab
व्रजतस्तस्य वैलक्ष्यादलक्ष्याक्षमभून्मुखम् ॥ 2877cd

दध्यौ च धिङ्नो ये शश्वत्प्रबहवं वयमीदृशम् । 2878ab
राज्ञो दृष्ट्वाप्यनात्मज्ञा जानीमो मर्त्यधर्मताम् ॥ 2878cd

प्रतिभाप्रौढनिर्भाततत्त्वानां नान्यथा शिरः । 2879ab
महाकवीनामेतादृक्प्रतापानलवर्णने ॥ 2879cd

राज्ञः प्रतापशिखिनः कणाः क्षोणौ न सन्ति चेत् । 2880ab
तत्कस्माद्वयमायाताः पदन्यासेप्यधीरताम् ॥ 2880cd

अनेकशोङ्गैर्वीराणां पीतधाराम्बुडम्बरे । 2881ab
शोषाः प्रादुष्कृतो न स्यात्तज्ज्वालासञ्ज्वरं विना ॥ 2881cd

किमन्तरेण तद्धूममालान्ध्यं प्रोन्मिषदृशः । 2882ab
मार्गामार्गविभागस्य परिज्ञाने विमूढता ॥ 2882cd

मधुमत्यास्तटेन्यस्मिन्विवर्ज्य दरदः स्थितान् । 2883ab
वीचीजवनिकाच्छन्नः सोवाप्याथ तटेवसत् ॥ 2883cd

क्रमादुत्खातखेदस्तैर्नीत्वा स्वशिबिरान्तरम्236 । 2884ab
तत्रैष्यतेति सन्धातुं रोहद्द्रोहस्पृहातुरैः237 ॥ 2884cd

नृपं तेषां ह्यगण्यार्थवर्षिणं नयनैपुणात् । 2885ab
उपजीवितुमिच्छाभूत्तद्रक्षणवणिज्यया ॥ 2885cd

नानेहा विग्रहस्यायं प्रत्यासन्नो हिमागमः । 2886ab
मधुमासि विधास्यामः पुनरारब्धिमुत्तमाम् ॥ 2886cd

कालक्षेपेक्षमत्वं चेद्भुट्टराष्ट्राध्वनाधुना । 2887ab
त्वान्तर्निदध्मो बलिनस्त्रिल्लकस्योपवेशने ॥ 2887cd

राजानं राजवदनः श्रितस्तैरित्यसावतः । 2888ab
उक्त्वैष्यत स्वराष्ट्रान्तर्युक्त्या बन्द्धुं नराधमैः ॥ तिलकम् ॥ 2888cd

अपि राजपुरीयाणां कौटिल्यं तैर्हि जीयते । 2889ab
दैर्घ्यं निदाघघस्राणां238 वियोगदिवसैरिव ॥ 2889cd

तथा यातमुपालेभे दूतैर्बलहरोथ तम् । 2890ab
प्रहौ निहितवांस्त्वस्मीति त्रोटितवटाकरः ॥ 2890cd

उत्साहादाहवस्थोपि स तथा गार्गिमग्निमम्239 । 2891ab
आयान्तं च नृपानीकमुसाहाम्न240 व्यचिन्तयत् ॥ 2891cd

अकस्माद्विद्रुतदरद्राजभोजादिवार्तया । 2892ab
न व्यदीर्यत यद्धैर्यपर्याप्तेस्तत्किलाङ्कनम् ॥ 2892cd

आडम्बरालम्बनस्य भेदेप्यच्छिन्नविग्रहः । 2893ab
यदयुद्धोद्धतं सिध्येत्तत्कस्यामानुषं विना ॥ 2893cd

[page 272]

विश्वास-प्रस्तुतिः

कालानुरोधात्सन्धितुसू धन्यद्वाराधिपावथ । 2894ab
सोयोजयद्विलम्बेन भोजप्रत्यागमाशया ॥ 2894cd

ततोलङ्कारचक्रः स नेतुं साल्हणिमाययौ । 2895ab
ज्ञातेयाद्दारदानेत्य241 प्रार्थिता परिपन्थिनी ॥ 2895cd

बुद्ध्वा तदनुबन्धेपि द्रोहनिर्बन्धिनीः सभाः । 2896ab
अग्रहीन्मार्गसेत्वग्रे निधनाद्व्यवसायिताम् ॥ 2896cd

भृत्यैः सह युवप्रायैर्वीक्ष्य तं मर्तुमुद्यतम् । 2897ab
दरातुरं दरद्राजसैन्यं तद्दैन्यमाययौ ॥ 2897cd

व्यपोहन्ती बलहरी बाहुभिः कलहं सरित् । 2898ab
कल्लोलास्फालनोल्लापैर्निनिन्देव दरद्बलम् ॥ 2898cd

ह्रेषितः स्वावरोधैश्च सेर्ष्यैश्च म्लेच्छपार्थिवैः । 2899ab
सैन्यैः कदनभीतैश्च विड्डसेहोथ तं जहौ ॥ 2899cd

पुरःसरैर्भग्नसेतुपालैः पारं परं ततः । 2900ab
विद्राव्य तानि242 स प्राप भिन्दंस्तूर्यरवैर्दिशः ॥ 2900cd

असामर्थ्ये वरूथिन्याः243 स्वस्य चार्थितसन्धिना । 2901ab
आनीतो विड्डसीहेन दूतः प्रोक्तोथ भूपतेः ॥ 2901cd

अमानुषानुभावेन तावत्त्वत्स्वामिना244 भवेत् । 2902ab
प्रातिसीमिकसामन्तबुद्ध्या स्पर्धासु धीवरः ॥ 2902cd

अश्रद्धेयानुसन्धान एव यान्तौ245 यमान्तिकम् । 2903ab
जयराजोस्मि वामुष्य प्रभावावेदकौ दिवि ॥ 2903cd

तेन दिव्यानुभावेन निर्जयोपि जयो मम । 2904ab
पान्थस्य कूलविभ्रंशात्तीर्थे पतनमुन्नतिः ॥ 2904cd

अथाग्रतः पुरे स्थित्वा कञ्चित्कालं निजेविशत् । 2905ab
यमराष्ट्रमसत्कीर्तिलसद्वन्दनमालिकम्246 ॥ 2905cd

अबुद्ध्वा भोजमायान्तं सन्धिं तत्रैव वासरे । 2906ab
सार्धं द्वारेशधन्याभ्यां स राजवदनोप्यगात् ॥ 2906cd

अश्वागतं तं व्यावृत्य षष्ठं प्रष्ठं मनस्विनाम् । 2907ab
आदाय तावथाभ्यर्णं247 प्राविक्षातां क्षमापतेः ॥ 2907cd

अहङ्काराद्विमोहाद्वाविमर्शेन248 बहिष्कृतौ । 2908ab
उपेक्षामक्षते भोजेभजता249 राजबीजिनि ॥ 2908cd

आहूतस्तु हठोत्कण्ठाभाजापि प्रभुणासकृत् । 2909ab
अनिःशेषीकृतारातिर्न व्यावर्तत रिल्हणः ॥ 2909cd

प्रभोः पुरस्तात्कार्यन्ते तेन स्थातुमशक्यत । 2910ab
प्रसादाकाङ्क्षिणा सूदेनेव भोक्तुं न हि क्वचित् ॥ 2910cd

द्विधा कृता येन युद्धे पृथ्वीहरसुतद्वयी । 2911ab
मगधेन्द्राकृतिर्भीमेनेव कार्याक्षमाभवत् ॥ 2911cd

मातृकुक्षिमिव स्वोर्वीं तेनाजौ लोष्ठकः250 कृतः । 2912ab
खाण्डवे खन्डितः सर्प इव गाण्डीविनाविशत् ॥ 2912cd

भजंश्चतुष्कः251 सङ्कोचं दुर्भेदं त्रिल्लकालयम् । 2913ab
स्वकायकर्परं दर्पोज्झितः कूर्म इवाविशत् ॥ 2913cd

निःशेषीकृतकार्यः स शौर्येणैव महीपतेः । 2914ab
पार्श्वं पादनखज्योतिःपट्टबन्धाप्तये ययौ ॥ 2914cd

प्रतापैर्नृपतेरित्थं विप्लवः शोषितोप्यभूत् । 2915ab
अमात्यमतिदोषेण भूयः प्रादुष्कृताङ्कुरः ॥ 2915cd

दण्डार्हो राजवदनो दानेनाप्यायितो यतः । 2916ab
निर्भयं भोजमायान्तं प्रतिजग्राह तं पुनः ॥ 2916cd

उत्कोचपरिणामात्तं सोथ स्थापयति स्म तम् । 2917ab
दिन्नाग्रामाभिधे स्थाने खाशकानां निवेशने ॥ 2917cd

इत्येनमब्रवीच्छ्वश्चेदायास्यो नानुगामिनः । 2918ab
मितानुयायी द्वारेशः प्रायास्यद्गोचरान्मम ॥ 2918cd

सोत्कम्पः साहसस्रोतःपातेनीयत252 नौरिव । 2919ab
त्रिल्लकेनापि स स्थैर्यं नीतिरज्जुप्रसारणात् ॥ 2919cd

व्यसनोल्लासवैवश्यं विशां पत्युर्व्यचिन्तयत् । 2920ab
येनाव्यवस्थाप्राथम्यं स जाल्मः पुनरग्रहीत् ॥ 2920cd

अलङ्कारादिभिः स्वास्थ्ये स्थाप्यमानोपि मन्त्रिभिः । 2921ab
अत्यजन्नैव253 कौटिल्यमजितात्मेव253 दुर्ग्रहम् ॥ 2921cd

[page 273]

विश्वास-प्रस्तुतिः

गदं वैद्य इवापाकं तमवज्ञाय पार्थिवः । 2922ab
पक्वगण्डानिवारेभे रिपून्पाटयितुं परान् ॥ 2922cd

आगन्तव्यं त्वया पश्चाद्यात्स्वस्मासु प्रकम्पताम् । 2923ab
भोजमुक्त्वेत्यलङ्कारचक्रोगाद्विप्लवोद्यतः254 ॥ 2923cd

तं जयानन्दवाडाख्यो255 दस्युरानन्दवाडनः255 । 2924ab
अन्वयुर्विक्रमोदग्राः परेपि क्रमराज्यजाः ॥ 2924cd

अग्रस्थितो राजगृह्योलङ्कारः स्वल्पसैनिकः । 2925ab
वालुकासेतुकल्पस्तैर्जज्ञे256 सिन्धुरथैरिव ॥ 2925cd

स तु रामचराद्याजिक्षोभसम्भावनां257 विशाम् । 2926ab
उदपादयदेकाकी कुर्वन्बहुभिराहवम् ॥ 2926cd

आपानरभसक्षुभ्यद्रक्षःसम्भ्रमदक्षिणम् । 2927ab
रणं जगाम गञ्जात्वमञ्जसास्नपरिस्रुतः ॥ 2927cd

स तूलकूटमिव तत्कटकं विकटं द्विषाम् । 2928ab
किमन्यत्प्रैरयत्क्वापि प्रभञ्जन इवाञ्जसा ॥ 2928cd

ग्रासाय गृध्रकङ्कादिपत्त्रिव्रातस्य258 तत्यजे । 2929ab
आनन्दवाडसूनुः258 स हत्वा तेनेषुणा रणे ॥ 2929cd

भोजस्योत्थातुकामस्य जिघृक्षोः क्ष्माभुजश्च तत् । 2930ab
पङ्कप्रधावत्क्रकरव्याधन्यायो व्यवर्धत ॥ 2930cd

अनड्डयनसामर्थ्यः श्राम्यति क्रकरो यथा । 2931ab
धावन्पङ्के प्तन्व्याधोप्यनुधावत्यथान्वहम् ॥ 2931cd

प्रसङ्गे साहसस्यैवं भोजः क्लैव्यमगात्सदा । 2932ab
तं प्राप्तुमिच्छुर्भूपोपि259 मतिमोहं मुहुर्मुहुः ॥ युग्मम्॥ 2932cd

दिन्नाग्रामस्थिते भोजे स राजवदनोप्यगात् । 2933ab
पुनः किं चौरचण्डालाः श्रेयसीत्युक्तिमीशितुः ॥ 2933cd

डामरा भग्नसङ्घाता भूयः पूर्वाधिकां ततः । 2934ab
कन्यां ते ग्रन्थयामासुर्मुहुर्यां शौर्यशालिनः ॥ 2934cd

ते द्वारपतिमायातं सोढुं शेकुर्न केवलम् । 2935ab
अशक्यैराहवैर्यावत्तात्पर्यादुदवेजयन् ॥ 2935cd

तेषां त्राणार्थमन्येषामुत्थानार्थमथाययौ । 2936ab
कृष्टोलङ्कारचक्रेण नीविं दत्त्वा स साल्हणिः ॥ 2936cd

तेषां परेद्युः पार्श्वं स यियासुरसकृद्यदा । 2937ab
हायाश्रमं श्रान्तसैन्यो द्वारेशोबुद्ध तं तदा ॥ 2937cd

अजानन्निव तेषां स व्याजसन्धिं निबद्धवान् । 2938ab
मिषात्कुतोप्यगात्तिर्यक्स्थितं सत्तारमूलकम्260 ॥ 2938cd

तस्मिंस्तत्र स्थिते दूरात्कुतस्त्यामपि पूत्कृतिम् । 2939ab
श्रुत्वा भोजोवदत्सायं किमपि व्याकुलीभवन् ॥ 2939cd

निजैर्विहस्यमानोपि त्रासात्तस्मादहेतुकात् । 2940ab
व्यरंसीत्सम्भ्रमान्नासौ चक्रे सज्जांस्तु वाजिनः ॥ 2940cd

त्रस्तोलङ्कारचक्रोथ दशग्राम्यग्रतो द्रुतम् । 2941ab
क्व राजपुत्र इत्येवं कथयित्वा पलायितः ॥ 2941cd

उदतिष्ठत्ततो ग्राममध्यात्तूर्यध्वनिर्महान् । 2942ab
आस्कन्दावेदकः सेनानिनादश्च क्षपामुखे ॥ 2942cd

अलक्षितो ध्वान्तमध्ये भेजे भोजः पलायनम् । 2943ab
श्वः कर्तव्येष्वलङ्कारचक्रो युद्धाय सन्दधे ॥ 2943cd

दत्तो द्वाराधिपेनाग्निर्गिरिवर्त्म प्रकाशयन् । 2944ab
ध्वान्तध्वस्तात्मनां[^2944-1] तेषां तदाभूदपकारकः ॥ 2944cd

द्वाराधिपस्य क्षाम्यन्तः[^2945-1] सन्धिं भोजप्रतीक्षया । 2945ab
श्रुत्वा तमथ वृत्तान्तं भङ्गं ते डामरा ययुः ॥ 2945cd

असन्त्यजन्नपत्यादिबन्धं धीरोच्चलाश्रयात् । 2946ab
आजिं स भोजोलङ्कारचक्रेणामङ्गलावहम् ॥ 2946cd

…………………………………………[^2947-1] । 2947ab
भोजस्तत्राप्यभूत्तर्षान्नाहारादिसुखान्वितः ॥ 2947cd

बाणाग्निजस्त्रिपुरनिर्दहने प्रतापः पाथोनिधेः प्रमथने वडवाग्निजन्मा । 2948ab
आसाद्य मन्दरनगेन समागमं हि न कापि पन्नगपतेः सुखसख्यमासीत् ॥ 2948cd

[page 274]

विश्वास-प्रस्तुतिः

क्षुत्पिपासश्रमं हन्तुम् प्राप्तः स्वविषयावनौ । 2949ab
अलङ्कारात्मजैर्भूयो बन्द्धुं भोजोभ्यलष्यत ॥ 2949cd

पितुर्मतेन बुद्ध्या वा स्वया तत्तद्विधित्सतः । 2950ab
सोभिसन्धाय निर्यातः प्रापाथ विषयान्तरम् ॥ 2950cd

ततो बलहरेणैव कृत्यं निश्चित्य कार्यवित् । 2951ab
अनास्थोन्यलवन्येषु दिन्नाग्रामं पुनर्ययौ ॥ 2951cd

द्वाराधिपोहितोद्धारधीरोप्यत्रान्तरेक्षमः । 2952ab
चक्षूरोगेण भग्नाभियोगोकस्माद्व्यधीयत ॥ 2952cd

भोजाय दातुमैच्छद्यो डामरस्ते सुते ददौ । 2953ab
पर्माण्डये गुल्हणाय राजजाय च निर्जितः ॥ 2953cd

रोगोच्छण्डतया दण्डप्रयोगावसरे कृते । 2954ab
तत्र साम प्रयुज्यैव द्वारेशो विवशोविशत् ॥ 2954cd

अभियोगक्षणे तस्मिन्ययौ भारसहः क्षयम् । 2955ab
द्रुनामकामयक्षामः षष्ठचन्द्रोपि गर्गजः ॥ 2955cd

तत्रामयाविन्येवात्तोद्रेकौ तदनुजौ निजौ261 । 2956ab
चक्राते वसुधां दुःस्थानास्कन्दाद्यैरुपद्रवैः ॥ 2956cd

त्रिल्लकः प्रबलैरन्यैः सहाभेदं प्रवर्धयन् । 2957ab
नाग्रहीद्विग्रहैकाग्रः सान्त्वनामपि भूपतेः ॥ 2957cd

षष्ठे निष्ठां गते रोगमग्रे द्वारपतावपि । 2958ab
नियुक्तः क्ष्माभुजा धन्यो262 निरगात्तारमूलकम् ॥ 2958cd

भोजश्च्युतोमुतोन्येषां बलिनां गोचरे पतेत् । 2959ab
प्राप्तप्रतिष्ठो निस्तीर्णो देशाद्वासाध्यतां व्रजेत् ॥ 2959cd

इति सञ्चिन्त्य सामाद्यैरुपायैस्तं जिघृक्षुणा । 2960ab
क्ष्माभुजामन्दसंरम्भो विदधे सोभियोगभाक् ॥ युग्मम्॥ 2960cd

अज्ञातोर्कवैषम्या दुर्नीतिः सा महीभुजम्[^2961-1] । 2961ab
व्यावृत्याबाधताच्छिन्नपुच्छाकृष्टेव पन्नगी ॥ 2961cd

बलिनं राजवदनं नृपं चावेत्य निर्बलम् । 2962ab
आभ्यन्तराश्च बाह्याश्च विक्रियां यत्क्रमाद्ययुः ॥ 2962cd

छिद्रान्तराणि सुलभानि सदैव हन्त पातालरन्ध्रसरणेरिव दण्डनीतेः । 2963ab
बह्वीभवन्प्रसरमन्तरसम्प्रविष्टो यात्यप्रतर्क्यनियमात्पतनं भजेद्वा ॥ 2963cd

भोजत्यागोर्थिनो राज्ञा क्षीणार्थोसौ व्रजेदितः । 2964ab
उक्त्वेत्यमुं बलहरस्तस्य वृत्तिमकारयत् ॥ 2964cd

तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः । 2965ab
युक्त्यन्तराणि संलेभे प्रयोक्तुं नीतिकौशलात् ॥ 2965cd

तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः । 2966ab
कुर्ग्वन्गतागतं धन्यो जनस्यावाप हास्यताम् ॥ 2966cd

शश्वद्व्यावर्तमानस्य[^2967-1] राजकार्यस्य नावधिम् । 2967ab
अरघट्टघटीयन्त्रगुणस्येवाससाद सः ॥ 2967cd

तस्य चक्र इवोद्भ्रान्ते कर्तव्ये तैक्ष्ण्यभागपि । 2968ab
भेत्तुं प्ररोढुं वाप्यासीन्नयो बाण इवाक्षमः ॥ 2968cd

नीतराजद्वयो व्यग्रः शेषस्यैकस्य विग्रहे । 2969ab
चतुरङ्ग इव क्रीडन्विवशोभूद्विशां पतिः ॥ 2969cd

बद्धलक्ष्यः प्रदानार्थं ततश्च छद्मना परान् । 2970ab
भञ्जतो वाजिपत्त्यादि नाप्यासीन्नाप्यजीगणत् ॥ 2970cd

दस्युषु स्यूतसङ्गेषु[^2971-1] शीतापायप्रतीक्षिषु । 2971ab
नागाद्बलहरः स्वेषामुन्मूलनमशङ्कत ॥ 2971cd

सामर्थ्याशिथिलामित्रभावे सूत्रितविप्रिये । 2972ab
तस्मिन्धावति धन्ये च शश्वत्सोवेपताकुलः ॥ 2972cd

सम्मन्त्र्य सार्धं भोजेन धन्यं समदिशत्ततः । 2973ab
बद्ध्वार्पयत नागं मे भोजं दास्यामि वस्ततः ॥ 2973cd

भूरिकार्यकृतं स्वस्य बन्धनार्थावहां263 रिपोः । 2974ab
धन्यो व्यसनवैवश्याद्धियं नाबुद्ध तस्य ताम् ॥ 2974cd

पार्थिवाः स्वार्थसंसिद्धित्वराविरतसत्त्वया । 2975ab
धियाविशुद्धं यत्किञ्चित्कुर्वन्तीति न नूतनम् ॥ 2975cd

काकुत्स्थोपि264 प्रियाप्रार्थी व्यग्रः सुग्रीवसङ्ग्रहे । 2976ab
वीरोविधेयं स्वार्थान्ध्याद्वधं व्यधित बालिनः ॥ 2976cd

[page 275]

विश्वास-प्रस्तुतिः

संहृत्य सत्यनित्यत्वं राज्यगर्वाशुद्धधीः । 2977ab
आचार्यं पाण्डवो राजा धर्मनिघ्नोप्यघातयत् ॥ 2977cd

आ भिक्षुविग्रहान्नित्यद्रोग्धुर्नागस्य विग्रहः । 2978ab
स्वार्थापेक्षी तटस्यास्य तत्कालं न विगर्हितः ॥ 2978cd

अगृहीत्वा तु भूभर्त्रा कञ्चिद्भोजार्पणे पणम् । 2979ab
सोवाष्टम्भीत्यभूत्तस्मिन्मन्युर्मतिमतां265 मनाक् ॥ 2979cd

यथा तत्कृत्यमायत्यां हितं जातं तथैव चेत् । 2980ab
विचार्याकारि राज्ञा तच्छेमुषीयममानुषी ॥ 2980cd

विभिन्न इव भोजस्तु नागं समदिशद्यथा । 2981ab
दित्सुर्बलहरो[^2981-1] राज्ञे त्वदर्पणपणेन माम् ॥ 2981cd

बन्धमश्रद्दधानोस्य राज्ञस्त्रासादसौ श्रयेत् । 2982ab
स विदन्नथ माध्यस्थ्यमिति तं हि तथावदत् ॥ 2982cd

षष्ठचन्द्रे गते निष्ठां जयचन्द्रेण पार्थिवः । 2983ab
सङ्गृहीतेन तं नागं पार्श्वं प्रावेशयत्ततः ॥ 2983cd

पक्षीखृतः क्ष्माभुजायं हन्यादस्मान्भयादिति । 2984ab
चलन्तमपि तं भोजस्तन्मन्त्रिणमबोधयत्266 ॥ 2984cd

तथेति जानन्नपि तं कृष्टोस्म्येतैरनीशताम्[^2985-1] । 2985ab
यातः किमपि हन्तेति दूतैर्नागोप्यभाषत ॥ 2985cd

नियतं नियतिस्रोतोगर्भे जन्तोर्निमज्जतः । 2986ab
कथ्यमानं तटस्थेन श्रोतुं न श्रवणौ क्षमौ ॥ 2986cd

नागे बद्धे तत्कुटुम्बैर्भीतैरेत्य समाश्रितः । 2987ab
मायाशाली बलहरो दुर्दर्शः समपद्यत ॥ 2987cd

भोजनिष्क्रयविक्रेयं267 तमादाय ययौ ततः । 2988ab
रिल्हणेन समं धन्यो धावन्बलहरान्तिकम्()268 ॥ 2988cd

सान्तर्हासोमोहयत्तौ269 प्राङ्नागं दत्त मे ततः । 2989ab
भोजं दास्यामि व इति ब्रुवन्भ्रामयति स्म सः ॥ 2989cd

बद्धमूलतया दूरं दुर्धर्षो योद्धुमागतम् । 2990ab
सर्वं तच्च तयोः सैन्यं निन्ये कृत्यविधेयताम् ॥ 2990cd

वर्षयुद्धापकर्षादि – खिन्नौ270 तौ ततोभ्यधात्[^2991-2] । 2991ab
इतोपसृतयोः कुर्यां युवयोर्मतमित्यसौ । 2991cd

एकप्रयाणान्तरिते स्थितयोः पथि चाकरोत् ॥ 2992ab
कार्यान्तःपातवैवश्ये तयोर्मतिविमोहनम् । 2992cd

काचिद्बलहरस्यासीत्पर्याप्तिर्धैर्यसत्त्वयोः । 2993ab
निश्चोद्याद्यतने काले वीराणां विरलैव या ॥ 2993cd

तथा हारितमार्गाय साहसात्पार्श्वमीयुषे । 2994ab
द्रुह्यति स्म न धन्याय लोभाद्भोजाय नापि यः ॥ 2994cd

मतिमोहेन271 नागं चेद्दद्युर्मे सचिवास्ततः । 2995ab
कुर्यां तं स्वपदेभ्यर्थ्य चकारेति च चेतसि ॥ 2995cd

नागासान्निध्यलब्धर्द्धिदार्ढ्यार्थं गूढवैकृतः । 2996ab
भ्रातृव्योपातयन्नागं धन्याद्यैर्लोष्ठकाभिधः ॥ 2996cd

सचिवैर्निहते नागे निर्हेत्वहितमोहितैः । 2997ab
दुर्मन्त्रितं नरपतेः स्वैः परैश्च व्यगर्ह्यत ॥ 2997cd

स्वजातीयवधक्रोधाद्विरुद्धैः सर्वडामरैः । 2998ab
नागानुगैश्चाश्रितोभूत्ततो बलहरो बली ॥ 2998cd

देहिनो व्यसनापातवैवश्याद्भमतोपथि । 2999ab
अकार्यं कुर्वतः कार्यं सिद्धः संसाधयेद्विधिः ॥ 2999cd

उद्यद्दुःसहवित्ततानवतया बद्धावधाने मनस्युन्मार्गभ्रमणेवशस्य रभसाच्छ्वभ्रे परिभ्राम्यतः । 3000ab
अन्योपाहितकोशपृष्ठलुठनात्सन्दर्शिताङ्गक्षतेर्जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुलोम्यो विधिः ॥ 3000cd

तथा निरनुसन्धानं नागं धीसचिवैर्हतम् । 3001ab
नाबुद्ध भोजः सञ्जातत्रासस्त्वेवं व्यकल्पयत् ॥ 3001cd

लब्धवर्णस्य नावर्णावहं कर्मेदमीशितुः । 3002ab
अलब्धपणबन्धस्य वाञ्छिताप्त्यै विशङ्क्यते ॥ 3002cd

यश्च272 युद्धमिति व्यग्रं273 हर्षादाद्यामवापि यः । 3003ab
भोजमन्यकरस्थोयमशक्यो ह्यन्यथा मम ॥ 3003cd

<2985>.

–1) Emended; A ॰स्मीत्येतैर॰.

[page 276]

विश्वास-प्रस्तुतिः

उक्त्वेति मोहयन्धन्यमुख्या – – स्मि274 सन्दिशेत्275 । 3004ab
इति मां राजवदनः स्थितस्तन्नूनमन्यथा ॥ युग्मम्॥ 3004cd

आ भिक्षुविप्लवाद्द्रोहसुभिक्षस्यानुबन्धिनः । 3005ab
किं राजवदनोप्येष लोभात्सम्भाव्यते न भूः ॥ 3005cd

अथाविशङ्किनस्त्रासव्युदासायास्य खाशकाः । 3006ab
रक्तार्द्रकृत्तिस्रस्ताङ्घ्रि कोशपानं प्रचक्रिरे ॥ 3006cd

प्रादुष्कृतभियः क्षिप्ररक्षिणोमुष्य तिष्ठतः । 3007ab
विश्वासार्थं बलहरो विरलः पार्श्वमाययौ ॥ 3007cd

अमात्यातिजाड्येन नष्टे कृत्येथ कृत्यवित् । 3008ab
स्वयमुत्तम्भने नीतः संरेभेसम्भ्रमो नृपः ॥ 3008cd

चैत्रः पादपमण्डलस्य तटिनीतोयस्य वर्षागमः सत्कारो गुणगौरवस्य नयनप्रेम्णोन्तिकासेवनम् । 3009ab
ऐश्वर्यस्य महोद्यमो जयविधेर्गाढाविषादग्रहः कर्तव्यस्य च सिंहदेवनृपतिर्म्लानौ न तत्त्वावहः ॥ 3009cd

प्रवाहेणेव कृत्यस्य हठेन हरतोन्तरे । 3010ab
प्रातिलोम्यं श्रितवता पारं गन्तुं न पार्यते ॥ 3010cd

अतो धूर्तो नृपो मुग्ध इति ज्ञातोरिभिर्मुधा । 3011ab
मौग्ध्यं रदर्शयंस्तेषां यततेस्माभिसन्धये ॥ 3011cd

स हि यत्तत्प्रदानेन भजन्भोजान्तिकस्थितीन् । 3012ab
तस्याशिश्वासपात्रत्वं मन्त्रस्तस्याभितोनयत् ॥ 3012cd

गन्धेन वासितोत्सङ्गाः कुरङ्गार्यङ्गजन्मना । 3013ab
प्रज्वलन्त्यो विभाव्यन्ते तटिन्योपि कवाटिभिः ॥ 3013cd

नीडस्यान्तः सरन्ध्रस्य सर्वतो हि भयं स्पृशन् । 3014ab
जाले द्वाराग्रबद्धे च निर्गमे पतनं विदन् ॥ 3014cd

ताम्येद्यथा खगो भोजस्तथान्तःस्थेष्वविश्वसन् । 3015ab
बहिर्भूपेन रुद्ध्वाध्वा प्रस्थानेप्यभजद्भयम् ॥ युग्मम्॥ 3015cd

तदा स दौस्थ्यातिथितां प्राप्तः प्रैक्षत न क्षणम् । 3016ab
मनोविनोदनं किञ्चित्कृत्यं लोकद्वयोचितम् ॥ 3016cd

उग्राभिषङ्गमनुषङ्गि परस्य दुःखं हन्ताश्लथं व्यथयति प्रसभार्द्रभावम् । 3017ab
बद्धः सरोजकुहरे विरहार्तनादैश्चक्राभिधस्य मधुपोधिकमेति दैन्यम् ॥ 3017cd

रणे पूर्णव्रणाश्यानशोणितो लूनकुन्तलः । 3018ab
फेणोद्गार्याननः क्रन्दंस्तेनैकः प्रेक्ष्यत द्विजः ॥ 3018cd

स पृष्टो विप्लुतैर्नीतं276 सर्वस्वं तथा । 3019ab
स्वं डामरैर्निवेद्यैनं निनिन्द त्रातुमक्षमम् ॥ 3019cd

स्वदौस्थ्यार्तमनास्तस्य दुःखेन व्यथ्तोन्वहम् । 3020ab
घट्टितार्द्रव्रण इव प्राह स्मेति स सान्त्वयन् ॥ 3020cd

गर्हार्होस्मि न ते ब्रह्मन्योनुग्राह्योहमीदृशः । 3021ab
विषमे वर्तमानश्चेत्यथ सोपि तमब्रवीत् ॥ 3021cd

दुर्ग्रहेणामुना ब्रूहि कोर्थः पार्थिवपुत्र ते । 3022ab
सारासारविदो277 यूनः कूले जातस्य मानिनः ॥ 3022cd

प्राणान्सस्न्देहमारोप्य प्रणम्य प्राकृताशयान् । 3023ab
पीडयित्वा विशः क्लेशैः कार्यं किमिव पश्यसि ॥ 3023cd

यश्च ते प्रतिभात्येव जेतव्यो विदितो न किम् । 3024ab
अग्निशौचः स सारङ्गः परशौर्याग्निमज्जने ॥ 3024cd

यत्र शस्त्रशलाकापि विकला तद्विधीयते । 3025ab
इन्दीवरदलद्रोण्या घटनं स्फाटिकाश्मनः ॥ 3025cd

पृथ्वीहरावतारादिप्रत्यनीकिजितः परे । 3026ab
के नामास्य न सङ्घर्षे क्षुद्रप्राया दरिद्रति ॥ 3026cd

किं दृप्या278 एव बुद्ध्वापि कृत्यं द्वैराज्यजीविनाम् । 3027ab
भृत्याशयाः फणिग्राहिगृहीता इव भोगिनः ॥ 3027cd

जातैः क्ष्मावलयोद्वहे फणिकुले धिग्भोगिडिम्बैर्मुदा279280 व्यालग्राहिविकासितास्यकुहरैर्ग्रासस्य[^3028-3] हा गृह्यते । 3028ab
एतान्भिक्षयितुं न तु प्रथयितुं ते जीविकायै जनत्रासार्थं ननु कारयन्ति हि दृतेर्निर्मज्जनोन्मज्जनम् ॥ 3028cd

इत्युक्तवन्तं तं सान्त्वयित्वा भोजो व्यसर्जयत् । 3029ab
तदैव281 चाशु व्याकोशविवेकः समपद्यत ॥ 3029cd

[page 277]

विश्वास-प्रस्तुतिः

भव्यात्मत्वं प्रशममहिमोल्लासते हन्त हेतुर्भावानां तु ध्रुवमपरथा मार्दवं क्रूरता वा । 3030ab
स्पृष्टं282 पादैरमृतमहसः स्यात्कठोरं हिमांशोर्याति ग्रावाप्यहह रभसादार्द्रतां चन्द्रेaकान्तः ॥ 3030cd

राजन्याभिजने जातोप्यलज्जत्वमशिक्षितः । 3031ab
सोन्तरं स्वस्य राज्ञश्च मुहुर्महदचिन्तयत् ॥ 3031cd

गुणैः शौर्यनयत्यागसत्यसत्त्वादिभिः प्रभोः । 3032ab
पूर्वेप्युर्वीभुजः खर्वाः क्षुद्राः स्पर्धासु के वयम् ॥ 3032cd

तस्य प्रभावदीप्तेपि समये क्षान्तिशीतला । 3033ab
शक्तिः क्षयजडत्वेपि मुग्धानां नो महोष्मता ॥ 3033cd

क्ष्वेडाग्नितापनिविडोरगसङ्गमेपि तुङ्गस्य चन्दनतरोरपि शीतलत्वम् । 3034ab
काले हिमर्तुपरिपिञ्जरसञ्ज्वरेपि निम्नस्य कूपकुहरस्य महोष्मयोगः ॥ 3034cd

कुतोपि पर्ययात्कार्यं सुप्तं नृपममुं विना । 3035ab
प्राप्य कस्य पुनः प्राप्यमप्यशुद्ध्या न बाधितम्283 ॥ 3035cd

भ्रष्टं निर्झरवारि शुभ्रमचलैः स्त्रीयेन भूयः क्वचिल्लभ्यं लभ्यमथाभ्रतः कलुषतादृष्टं प्रकृष्टं न तत् । 3036ab
निर्यन्निर्भरनिम्नगाम्बु नभसः प्राप्येत नित्यं दधत्प्रालेयत्वमुपेत्य शुद्धिमधिकां नाद्रेर्हिमाद्रेर्नगैः ॥ 3036cd

तदर्थमेव ग्रथितो योनर्थोग्रथितात्मनः । 3037ab
स तेन स्वस्थतां नेतुमर्थितो न स्पृशेद्रुषम् ॥ 3037cd

प्लोषाय योस्य दववह्निमदादमुष्मिन्स्वस्थे स तेन शिखिना ग्लपितः समीपम् । 3038ab
अभ्येति चन्दनतरोर्दववह्निदाहशान्त्यै यदि प्रियकृदेष न तस्य किं स्यात् ॥ 3038cd

समग्रदुर्गतावर्हदपकर्तेव284 भूपतिम् । 3039ab
लोकनाथं तमुद्धर्तुं धीरं धन्यः पुनः पुनः ॥ 3039cd

राजप्रसादनोपायान्वेषी बलहरान्तिकम् । 3040ab
राजदूतमथायान्तमेकदैकं285 व्यलोकयत् ॥ 3040cd

दरद्देशं व्रजन्दृष्टवान्प्राक्प्रज्ञातमन्तिकम्286 । 3041ab
स नमन्तं तमानीय ततः स्मेर इवाब्रवीत् ॥ 3041cd

राज्ञः किमन्यसन्धानैः सन्धिं बध्नात्वसौ287 मया । 3042ab
प्राज्ञ्जैर्हि भिषजा भोज्यमातुराय समर्प्यते ॥ 3042cd

ततस्याश्रद्दधानस्य नर्मस्मेरस्य जानतः । 3043ab
प्रत्ययोत्पादनं तैस्तैरालापैः किञ्चन व्यधात् ॥ 3043cd

निर्दम्भभाषितैरूढविस्रम्भः स कथान्तरे । 3044ab
अथाभिगम्य राजानं स्तुवन्भोजमभाषत ॥ 3044cd

राजपुत्राभिजातस्य पादच्छायास्य लभ्यते । 3045ab
स्वर्णाद्रेरिव कल्याणप्रकृतेः पुण्यभागिभिः ॥ 3045cd

अनुवृत्त्यातिमृद्व्यापि तस्यापोह्येत288 वैकृतम् । 3046ab
ज्योत्स्नयेव शरद्भानुपरितापौष्ण्यमम्भसः ॥ 3046cd

अपि स्मरसि चारत्वे289 नियुक्तोस्मि महीभुजा । 3047ab
विशतस्ते दरद्देशमभूवं पुरतः पुरा ॥ 3047cd

ततो निवृत्तो वृत्तान्तं मुख्यमाख्याय तावकम् । 3048ab
कालं क्षेप्तुं कथां290 दैर्घ्यं नयन्मध्ये तमभ्यधाम्291 ॥ 3048cd

क्षुत्तृडध्वक्लमश्रान्तान्देव292 त्वामवलोक्य माम् । 3049ab
निन्दतः स्वानुगान्भोजो[^3049-2] निर्भर्त्स्यैवं तदाब्रवीत् ॥ 3049cd

स दैवतमिवास्माकं कुलालङ्करणं प्रभोः । 3050ab
वयं त्वसुकृतो यस्य नाप्नुमः पादसेवनम् ॥ 3050cd

गण्याः पर्यन्तनिःसारास्तत्सम्बन्धादिमे वयम् । 3051ab
चन्दनभ्रान्तिकृत्काष्ठं यत्स्यात्तद्गन्धवासितम् ॥ 3051cd

तच्छ्रुत्वैव दयार्द्रत्वं त्वयि यातः स लक्षितः । 3052ab
पृच्छन्पितेव किं गर्भरूपो वक्तीति मां पुनः ॥ 3052cd

तन्निशम्यैव भोजस्य द्रवीभूतमभून्मनः । 3053ab
सोन्तर्बाष्पोप्यपश्यत्तं[^3053-2] सान्त्वयन्तमिवाग्रतः ॥ 3053cd

[page 278]

विश्वास-प्रस्तुतिः

सुव्यक्तमात्रासम्बोधमुग्धत्वेन विहीयते । 3054ab
तत्त्ववित्कारणाज्ञानादन्तःकरणवेदनम्293 ॥ 3054cd

अश्रद्दधानस्तामिच्छां भोजस्याकृच्छ्रवर्तिनः । 3055ab
प्रतिदूतीकृते तस्मिन्धन्यो न प्रत्ययं दधे ॥ 3055cd

दोविताभूद्यथा नागवृत्तान्ते न भवेत्तथा । 3056ab
महीभुजं मोहयितुं मायया दीव्यते मया ॥ 3056cd

मा भूद्भिन्नोयमित्येवमुक्त्वा बलहरं रहः । 3057ab
व्याजार्जवेन भोजस्तु सन्धिबन्धाय तत्वरे ॥ युग्मम्॥ 3057cd

तत्कालयोग्यसाचिव्यश्चक्रिकाचतुरस्तथा । 3058ab
तेनाशु दौशिकापत्यमेको दूत्ये न्ययोज्यत ॥ 3058cd

स बालकतया नित्यस्वतन्त्रश्चक्रिकां स्वयम् । 3059ab
आचरेदिति नाशङ्कां भोजे बलहरोभजत् ॥ 3059cd

पार्थिवः प्रार्थितः सन्धिदूतमाप्तं प्रतीक्षते । 3060ab
प्रत्यागतेन तेनेति ततो भोजोभ्यधीयत ॥ 3060cd

तत्रासन्निहितान्याप्तः स्त्रीत्वादप्रतिभामपि । 3061ab
धात्रीं नोनाभिधानां स्वां राज्ञोभ्यर्णं व्यसर्जयत् ॥ 3061cd

मृतेन पित्रा मात्रा च हीनं294 तमनुयातया । 3062ab
मातृकृत्यं ययात्रासीछैशवे माननीयया ॥ 3062cd

पत्युः प्रीत्यै विसन्धानध्वंसाकल्पादिकल्पनात् । 3063ab
सखीकृत्यं सपत्नीनां यया शान्तेर्ष्यया कृतम् ॥ 3063cd

ह्रासोल्लासे295 हि कार्याणां योग्यकृत्याप्तनिश्चयात् । 3064ab
न यां सुक्षत्रियां क्ष्माभृत्सम्भ्रान्तां जातु वीक्षते ॥ 3064cd

श्वशुरेण प्रजाभिश्च कृतं राज्ञोभिषेचने । 3065ab
आशास्यं या296 महादेवीपट्टबन्धं समादधे ॥ 3065cd

अपत्यप्रियताभोगलोभभर्तृप्रसादनैः । 3066ab
प्रेर्यमाणाप्यकार्येषु बुद्धिर्यस्या न धावति ॥ 3066cd

स्वत्रान्यत्र च सन्धाने जाते भर्तुरभिन्नधीः । 3067ab
भाग्योदयेष्वनुत्सिक्ता या चाखण्डितसद्व्रता ॥ 3067cd

आ बाल्याद्भावविद्भर्तुः कुसृत्यनुसृतौ न सा । 3068ab
कार्यमध्यं विगाहेन मानाभिजनरक्षिणी ॥ 3068cd

इति कल्हणिकादेव्या माध्यस्थ्ये स धियं व्यधात् । 3069ab
प्रस्थानपदयात्रां सा सीमान्तप्रापणावधिः297 ॥ कुलकम्॥ 3069cd

गुप्त्यै लग्नकवित्तादि परार्ध्यं मध्यपातिनाम्298 । 3070ab
पाथेयार्थं पृथुस्वर्णभाजि कोशादि चात्मनः ॥ 3070cd

प्रापयामास299 किं चाष्टौ प्रकृष्टाभिजनोद्भवान् । 3071ab
पालनार्थं राजपुत्रान्देवी यत्सर्वसंविदम्300 ॥ युगलकम्॥ 3071cd

वाचकं तद्गृहीत्वा तामागमत्पार्थिवेन सः । 3072ab
धात्रीं स कारयन्धन्यो बद्धेच्छासिद्धिनिश्चयाम् ॥ 3072cd

विहितप्रत्ययस्तस्याः सद्यः स्यात्तु महीपतिः । 3073ab
राजधर्मस्य च वसन्नासीद्दोलाकुलाशयः ॥ 3073cd

स हि दध्यौ निर्विरोधो वैराग्येणाथ मायया । 3074ab
सङ्कटान्मोचितव्योसौ301 यायात्कालेन विक्रियाम् ॥ 3074cd

अनिःशेषितजीमूतजालमाविर्भवन्रविः । 3075ab
अनूनक्लेशशेषं च विवेको न स्फुरेच्चिरम् ॥ 3075cd

मुग्धान्निरनुसन्धाननागबाधादवेत्य302 नः । 3076ab
स्वार्थस्य सिद्धये माया तेनेयं निरमायि वा ॥ 3076cd

लब्धलक्षेपरिक्षीणे शक्ते303 यूनि गणाश्रिते । 3077ab
क्षत्रधर्मस्थिते नेदृग्विवेकः क्वापि लक्ष्यते ॥ 3077cd

अवल्लि कुङ्कुमं पुष्पमपुष्पं क्षीरिणः फलम् । 3078ab
अकालपर्ययापेक्षं वैराग्यं वा महात्मनाम् ॥ 3078cd

न त्याज्यो राजपुत्रोसावेवं मायानिधिर्यदि । 3079ab
एवंविवर्तश्चेत्तस्मिन्नदृष्टे किं दृशोः फलम् ॥ 3079cd

राज्ञी राजात्मजाश्चैते प्रतिष्ठाभङ्गशंसिनः । 3080ab
ऋजुप्रभावात्सुस्पष्टमन्यत्कार्यं न मन्यते ॥ 3080cd

अटन्ती304 कुटिलं स्पष्टं सरित्सर्वैर्न304 लक्ष्यते । 3081ab
कान्ताकुन्तलविष्यन्दी तोयबिन्दुरिव क्रमः ॥ 3081cd

[page 279]

विश्वास-प्रस्तुतिः

इति ध्यात्वा राजधर्मं सत्यप्रज्ञोचितं व्यधात् । 3082ab
धन्यरिल्हणयोः कार्यं श्रुतावन्यान्विसर्जयन् ॥ 3082cd

स्वस्यैवार्थस्य दार्ढ्याय साल्हणिस्त्वां305 दिदृक्षते । 3083ab
समागमायेत्युक्त्वाथ धन्यो दूतैरनीयत ॥ 3083cd

मा भैषीदेष सन्धित्सुः306 सैन्यादिति मितानुगः । 3084ab
अवर्तिष्ट तटिन्याः स द्वीपान्तस्तत्प्रतीक्षया ॥ 3084cd

सरित्सा जानुदघ्नाम्भा भूत्वा घर्मद्रुते हिमे । 3085ab
गगनालिङ्गिभिर्भीमा तरङ्गैः समपद्यत ॥ 3085cd

अवाप्ता चेर्ष्ययालङ्घ्यभावं यान्त्यपि दन्तिनाम् । 3086ab
रुद्धः सिन्ध्वाभवत्सोथ द्विषां रन्ध्रैषिणां वशे ॥ 3086cd

सिन्धोरुभयतस्तोयैर्व्याप्ततीरभुवोन्तरे । 3087ab
ते दिण्डीरोपमां307 प्रापुः पिण्डिताः पाण्डुवाससः ॥ 3087cd

खाशकानां308 सहस्राणि भोजस्य पतितं309 बले । 3088ab
स्थितवन्ति निहन्तुं तं तथास्थितमचिन्तयन्310 ॥ 3088cd

दृग्भ्यां सम्भ्रमदीनाभ्यामघशान्तये स्पृशन्निव । 3089ab
कर्णे सल्हणसूनुस्तान्सन्तर्ज्यावृजिनोब्रवीत्311 ॥ 3089cd

निर्दम्भस्य विस्रम्भाद्धावतो विहिते वधे312 । 3090ab
निरत्ययो निपातः स्यान्नियतं निरये पुनः ॥ 3090cd

हतेस्मिन्बहुभृत्यस्य न च शक्तिश्चयः प्रभोः । 3091ab
नैकपक्षक्षये तार्क्ष्यरंहः संहारमर्हति ॥ 3091cd

अपि वा वाच्यता राजामेवं विस्रब्धबाधनात्313 । 3092ab
तुल्यस्तुल्येन कर्तव्यं किमनुध्याय बध्यते ॥ 3092cd

यथायं वृत्तयेनन्यकर्मा भूपं314 निषेवते । 3093ab
तथा ममापि यत्नोयं तत्सेवासादने यतः ॥ 3093cd

युक्तमित्यादि तेनोक्ता अपि निश्चलनिश्चयाः । 3094ab
ते न्यषिध्यन्त निर्बन्धात्प्रतिज्ञायात्मनो वधम् ॥ 3094cd

रात्रौ तथैवादरिद्राश्छिद्रं तद्रक्षितुं ततः । 3095ab
कारिताः कोशपानं ते तमर्थं सोपि बोधितः ॥ 3095cd

तेनावेदितनिर्व्याजतया धीरो महीपतिः । 3096ab
अनुध्यायाथ सन्दिग्धं सन्धिसिद्धिममुन्धधीः ॥ 3096cd

अज्ञातनिश्चयः सिद्धेर्विनान्तःकरणं परैः । 3097ab
अथ प्रास्थापयद्देवीं सामात्यां315 तारमूलकम् ॥ 3097cd

राजधर्मविधेयत्वादवार्यक्रूरशङ्किनी । 3098ab
प्रस्थानप्रार्थनां भर्तुः सा स्वीकृत्य ततोब्रवीत् ॥ 3098cd

असामान्येष्वमात्येषु कुसृत्यालोकनात्सकृत् । 3099ab
आर्यपुत्र विचार्योस्ति316 विस्रम्भः किं विरोधिनाम् ॥ 3099cd

यद्वा निर्मानुषोन्मेषं317 शेमुषीत्वं विगाहितुम् । 3100ab
प्रथते नु कथङ्कारं मूर्तत्वं मर्त्यधर्मिणाम् ॥ 3100cd

देहोपकरणत्वं ते प्राणैर्मम विचिन्त्यते । 3101ab
सतीधर्मस्तु सहते राजधर्मस्य नोचितम् ॥ 3101cd

व्यञ्जितास्यसदाचारं कलिकृत्यं द्विषि त्वयि । 3102ab
प्रारब्धो देव भोजेन हिमाद्रौ हिमविक्रयः ॥ 3102cd

न गृह्णाति शमं वेत्ति स्वस्यान्यस्य न चान्तरम् । 3103ab
निर्व्यूढमददोषोद्य प्रायेण प्राकृतो जनः ॥ 3103cd

पुत्रमन्त्र्यविरोधादिबुद्ध्यशुद्ध्या प्रधावति । 3104ab
साध्वाचारोपि भूपालः क्रुध्यन्विस्रब्धबाधने[^3104-1] ॥ 3104cd

समयालङ्घनामोघगिरा देवेन पीयते । 3105ab
लोकत्रयैकपात्रेस्मिन्यशो नूनं मया सह ॥ 3105cd

त्रातव्यसङ्क्षयोपेक्ष्यप्राणायास्त्वन्यदाशयः । 3106ab
ममैवास्वादयन्त्यादादात्मम्भरिपुरास्थितिः[^3106-1] ॥ 3106cd

इत्युक्त्वा विरतां सत्यसन्धः साध्वीं धरापतिः । 3107ab
शान्तशङ्कामकृत्वा तां समामन्त्र्य318 न्ययोजयत् ॥ 3107cd

भङ्गं सर्वानयं त्रातुं प्रयोक्तुं वेतनं नृपः । 3108ab
संरम्भे किमयं ध्यायत्यन्तः सर्वेप्यचिन्तयत् ॥ 3108cd

[page 280]

विश्वास-प्रस्तुतिः

उपायेषु प्रयुक्तेषु देवीसम्प्रेषणावधि । 3109ab
नान्यदस्य प्रयोक्तव्यं यदवाशिष्यत क्वचित् ॥ 3109cd

सवपक्षभेदाद्भूभर्तुः सबलत्वाबलत्वयोः । 3110ab
परीक्षकत्व्वाद्ये केचिन्माध्यस्थ्येनावसन्क्वचित् ॥ 3110cd

तेप्यल्पे वा महान्तो वा क्षीणदाक्षिण्यशृङ्खलाः । 3111ab
भोजगृह्यैः सहाबध्नन्कन्थां सर्वेपि डामराः ॥ 3111cd

ते ह्यच्छिन्नतटस्थत्वाद्वैराज्येस्माभिरीदृशः । 3112ab
भोजः सञ्जात इत्याशु माध्यस्थ्यं परिजह्रिरे ॥ 3112cd

त्रिल्लको भोजसविधं तनूजं प्राहिणोद्द्रुतम् । 3113ab
प्रावेशयच्छमालां च चतुष्कं पुष्कलैर्बलैः ॥ 3113cd

ये भिक्षुविप्लवेप्यासन्नाजदाक्षिण्यरक्षिणः । 3114ab
विरोधिसविधं प्रापुस्तेपि नीलाश्वडामराः । 3114cd

लहराद्देवसरसाद्धोलडातश्च319 डामराः । 3115ab
त्रयो नीलाश्वतश्चैका डामरी पर्यशिष्यत ॥ 3115cd

न व्यरंसीद्धिमं तत्तल्लवन्ये साल्हणेर्बले320 । 3116ab
पतत्प्रावृट्प्रमत्तौघघोषोम्भोधाविवोद्गतः320 ॥ 3116cd

भोजस्तु देवीमायान्तीं321 श्रुत्वा बलहरं ततः322 । 3117ab
ध्रुवं सन्धित्सया बद्ध इति सुव्यक्तमभ्यधात् ॥ 3117cd

एतावन्ति दिनान्यासीत्पुंसो भ्रमयिता पुमान् । 3118ab
सम्बन्धिनीनां माध्यस्थ्ये स्वकुल्यात्कोन्यथा भवेत् ॥ 3118cd

कुलचूडामणिः प्रेम्णा स यत्रैवं प्रवर्तते । 3119ab
किं स्यादगण्यप्रायाणां कार्कश्यं तत्र मादृशाम् ॥ 3119cd

यच्च मायामिमां ब्रूथ तत्तथास्त्वस्मि वञ्चितः । 3120ab
विश्वास्यैव भविष्यामि नाकीर्तीनां निकेतनम् ॥ 3120cd

मा च भूद्विजयाशा वः समेता निखिला इति । 3121ab
अद्राक्ष्म चेदृशान्व्यूहानवारुक्षाम323 वोन्नतेः ॥ 3121cd

युक्तियुक्तमिदं चान्यच्चोक्तवान्बहु निश्चयात् । 3122ab
नाशक्यतान्यथा कर्तुं भोजो बलहरादिभिः ॥ 3122cd

द्वित्राहान्तरितेमित्रप्रमाथेपरथा कथम् । 3123ab
फलकालेसि संवृत्तमिति तं चावदन्नृपाः ॥ 3123cd

तारमूलस्थितौ324 राज्ञ्यां ससैन्यौ धन्यरिल्हणौ325 । 3124ab
राजपुत्रैः सह ततः पाञ्चिग्रामवापतुः ॥ 3124cd

प्राप्ताववेत्य तौ नद्यास्तीरेवाचि कृतस्थिती । 3125ab
परस्मिन्कूलगहने भोजोप्येतावुपाविशत् ॥ 3125cd

अश्रान्तं विशतो दिङ्मुखेभ्यस्तत्कटकं भटान् । 3126ab
पश्यन्तः केपि सन्धिं न श्रद्दधुर्नृपतेर्बले ॥ 3126cd

हठप्रविष्टान्निर्यातुमक्षमानल्पसैनिकान् । 3127ab
धन्यादीन्राजवदनो हन्तुं शश्वदचिन्तयत् ॥ 3127cd

छित्त्वा सुय्यपुरात्सेतुं राज्ञः सैन्यं जिघांसवः । 3128ab
महापद्मसरोनौषु निभृतं केचनावसन् ॥ 3128cd

अन्ये तत्साहसोदन्तान्वेषिणः पतनोन्मुखाः । 3129ab
स्वैः स्वैर्मार्गैस्तत्र तत्र तस्थुर्भूभृदसम्मताः ॥ 3129cd

आस्कन्दं भाङ्गिलेयाद्याः पुरे शङ्करवर्मणः । 3130ab
शमालाक्षिप्तिकावाप्तिं326 डामराः समचिन्तयन् ॥ 3130cd

प्राप्यं महासरित्कूलं त्रिल्लकाद्यैरगण्यत । 3131ab
नीलाश्वडामरैर्वीशा[^3131-1] कार्या च नगरान्तरे ॥ 3131cd

किमन्यद्राजगृह्ग्याणां समं सर्वे जिघांसवः । 3132ab
कारण्डवानां योयान्तर्वेष्टितानामिवाभवन्327 ॥ 3132cd

सन्दिग्धशिक्षितं कार्यं सर्वतः समतां तदा । 3133ab
प्राप वृष्टेरवग्राहग्रहयोगान्तरस्थितेः ॥ 3133cd

पदे पदे राजचमूपथायोत्थानमिच्छतः । 3134ab
छिन्दन्बलहरस्येच्छां भोजो व्यग्रत्वमग्रहीत् ॥ 3134cd

क्षणे क्षणे विसन्धानध्यायिना तेन कश्चन । 3135ab
बध्यमानास्वन्तरायः328 संविधासु वयधीयत ॥ 3135cd

घटनामुद्ययौ यो यो विरोधः कटकद्वयात् । 3136ab
सत्त्वैकाग्रः स्वयं भोजस्तं तं त्वरितमच्छिनत् ॥ 3136cd

[page 281]

विश्वास-प्रस्तुतिः

दूत्ये च कल्यकत्वे वा येरुवन्राजरञ्जकः । 3137ab
भयेन प्रययुस्ते यद्वैकल्यं कार्यसङ्कटे ॥ 3137cd

कर्णे329 तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया330 वदन्ति करुणं331 यस्मात्त्रपावान्भवेत्332 । 3138ab
श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न333 मर्मान्तकृद्ये334 केचिन्ननु335 शाद्यमौग्ध्यनिधयस्ते भूभुजो रञ्जकाः ॥ 3138cd

भण्डस्ताण्डवमण्डपे कटुकथावीथीषु336 कन्थाकविर्गोष्ठश्वा स्व्गृहाङ्गने शिखरिभूगर्ते337 खटाकुः स्फुटम् । 3139ab
पिण्ण्डीशूरतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥ 3139cd

शूरोद्रेकविपर्यसाच्छान्तोष्मक्ष्माभृतस्ततः । 3140ab
वासरः शरणीचक्रे तुङ्गस्योत्तुङ्ङमञ्जसा338 ॥ 3140cd

भानुर्दत्तपदोनूरोर्भ्रातुर्गोवलयान्तरे । 3141ab
क्ष्माभृच्छिरोर्पितकरो रक्तमण्डलतां दधे ॥ 3141cd

अहस्त्रियामामुखयो – –1 मध्यस्थया दधे । 3142ab
सन्ध्यया वन्दनीयत्वं जनस्य339 व्यञ्जिताञ्जलेः ॥ 3142cd

कवाटिदन्तैर्विस्फोटाश्चन्द्रकान्तैः सिरोद्गमः । 3143ab
श्वयथुः पयसां पत्या दधे राज्ञ्युदयोन्मुखे ॥ 3143cd

सदैन्येष्वरविन्देषु हीनद्वन्द्वोपजीवनैः । 3144ab
कवाटिनां घटेष्वेव षट्पदैर्घटितं पदम् ॥ 3144cd

अदृष्टकार्यपर्यन्तास्ततस्ते विषमस्थिताः । 3145ab
सरित्तटे सकटकाः पर्यतप्यन्त मन्त्रिणः ॥ 3145cd

न किञ्चित्प्रत्यभात्सर्वं340 लघु भ्रान्तं च जानताम् । 3146ab
ओघेन ह्रियमाणानामिवैषामवलम्बनम् ॥ 3146cd

तीरे परस्मिन्सरितो वसन्बलहरः पुनः । 3147ab
रुद्धः कन्दलितास्कन्दबुद्धिः341 साल्हणिनासकृत्342 ॥ 3147cd

कार्यातिपातादायातं मन्त्रिणां तन्मितं बलम् । 3148ab
तस्य प्रवर्धमानस्य सुखोच्छेदं बभूव यत् ॥ 3148cd

तितस्तासिन्धुसम्भेदयात्रायां नगरे यथा । 3149ab
तथा तथापतन्रात्रौ343 लोकोश्रान्तो व्यवर्तत ॥ 3149cd

लेखैर्डामरसंहारखण्डनाय विसर्जितैः । 3150ab
सान्यैरग्रथिता बाह्यैर्नानाग्रैः राजवीजिनः ॥ 3150cd

शाद्यान्वितैरनुसरैस्तुमुलोत्पादनैरपि । 3151ab
धीरो धैर्यान्निश्रयाद्वा स्वैः स क्रष्टुं न पारितः ॥ 3151cd

सामन्तानामागतानामविस्रम्भादसम्भ्रमम् । 3152ab
न्यक्कृतोयं निपत्याशु कुर्यादत्याहितं रुषा ॥ 3152cd

कृते च कदनोङ्कारेनेन – –1समुन्मिषेत् । 3153ab
द्विजानामिव दस्यूनां समूहस्तेन सर्वतः ॥ 3153cd

इति निर्धाय दुध्रुक्षुरिव344 भोजः क्षपात्यये । 3154ab
कुर्मः साहसमित्युक्त्वा निन्ये बलहरं समम् ॥ तिलकम्॥ 3154cd

एषां मदर्थायातानां345 सामन्तानां सभोजनः[^3155-2] । 3155ab
दाक्षिण्यादिति नाभोजि तेनाप्यभिजनस्पृशा ॥ 3155cd

तथा स्वमत्यावैमत्यं[^3156-1] तमज्ञात्वा तु मन्त्रिणः । 3156ab
निष्प्रत्ययास्तेन जातममन्यन्त नयात्ययम् ॥ 3156cd

पक्षिपक्षस्फुटास्फालशफरस्फुरितेप्यधात् । 3157ab
तेषामासविधास्कन्दः346 प्रधावदहितभ्रमम् ॥ 3157cd

कूले परस्मिन्कूलिल्न्याः स्वाभिसन्धाननिर्वृतैः । 3158ab
समभाव्यत तैर्नान्यो रथाङ्गेभ्योभिषङ्गभाक् ॥ 3158cd

मरुत्काकुत्स्थदूतस्य347 कपेस्तीर्णाम्बुधेः पिता । 3159ab
ततान तेषां दूतानां सरित्पारगतौ – –2 ॥ 3159cd

[page 282]

विश्वास-प्रस्तुतिः

कीर्णकर्णज्वरांश्चारीन्पीत्कृतैस्तीरभूरुहाम् । 3160ab
आश्रित्योन्निद्रकेणेत्थं निन्युस्ते तां निशीथिनीम् ॥ 3160cd

क्षपान्ते क्ष्माधरोत्तंसहेमतामरसभ्रमम् । 3161ab
उद्गच्छतो रवेर्यावच्चिच्छिदुर्न करच्छटाः ॥ 3161cd

चक्राह्वविरहालोकसशोकानामिवागलत् । 3162ab
कुट्मलाक्षिपुटाद्यावन्नैशं नाम्भश्च वीरुधाम् ॥ 3162cd

मितपत्तियुत्तस्तावत्तरुकच्छाद्विनिर्गतः । 3163ab
– – –1स्त्वरयन्युद्धवाहान्मूर्ध्न्यङ्घ्रिणा348 स्पृशन्349 ॥ 3163cd

रोद्धुकामाण्डामरीयान्वीरान्दृष्टेर्विलोकितैः । 3164ab
सर्वतो धावतः कुर्वन्योधान्प्रतिहतौजसः ॥ 3164cd

पारश्वधी चारुवेषो युवा सम्मुखमापतन् । 3165ab
युग्याधिरूढस्तैः प्रैक्षि सम्प्राप्तः सरितस्तटम् ॥ कुलकम्॥ 3165cd

अदृष्टपूर्वं तं दृष्ट्वा श्रीखण्डोल्लिखितालकम् । 3166ab
कुड्कुमालेपिनं चैते भोजोयमिति मेनिरे ॥ 3166cd

अतिवाह्य निशां राजवदनं तं विमोहयन् । 3167ab
प्रातश्च तरसामन्त्र्य स तथा सम्मुखोह्यभूत् ॥ 3167cd

प्रविष्टयुग्यं तोयान्तः पाराद्धावितवाजिनः । 3168ab
धन्यादयस्तमभ्येत्य मुदिताः पर्यवारयन् ॥ 3168cd

उदभूत्तुमुलः शब्दस्ततः कटकयोर्द्वयोः । 3169ab
एकत्राक्रन्दमुखरः350 परत्रानन्दनिर्भरः ॥ 3169cd

नादमाकर्ण्य सङ्ग्रामबुद्ध्या दिग्भ्यः प्रधावितैः । 3170ab
तं परैर्मिलितं351 वीक्ष्य मूर्ध्नताद्धत डामरैः ॥ 3170cd

तस्याभिनन्दनालापप्रमुखा प्रक्रियाभवत्352 । 3171ab
अदैन्यशुद्धधान्यादिष्वनुज्झितनिजक्रमा ॥ 3171cd

प्लवमानं पवित्रेयं पृथिवी स्थैर्यशालिना । 3172ab
अथेत्थं स्तुवता तत्तत्स धन्येनाभ्यधीयत ॥ 3172cd

राजपुत्र पवित्रेयं पृथिवी स्थैर्यशालिना । 3173ab
त्वया स्तुवता तत्तत्सस् धन्येनाभ्यधीयत ॥ 3173cd

गवां जयति सर्वासां निर्विकारतया वसन् । 3174ab
विक्रियोपहतं गौस्ते क्षीरं –1 क्षीरवारिधेः ॥ 3174cd

कस्य पुंस्कोकिलस्येव त्वां विनाधममध्यतः । 3175ab
निर्गत्य निजकुल्यानां सिद्धं मध्यावगाहनम् ॥ 3175cd

सदाचारस्य भवता प्रथमं प्रहते पथि । 3176ab
न तच्चित्रं सञ्चरामश्चरमं चेत्ततोधिकम् ॥ 3176cd

इत्यादिप्रसृतालापदत्तोल्लापदत्तोल्लापोधिरोह्य353 सः । 3177ab
जयोत्तरङ्गं तुरगं स्तुवद्भिस्तैरनीयत ॥ 3177cd

लवन्याः कतिचित्क्रोशन्विक्रोशन्तस्तदा354 ययुः । 3178ab
स्वकुल्यैर्नीयमानं तं काका इव पिकान्तिकम् ॥ 3178cd

स एवमेकविंशेब्दे ज्यैष्ठस्य355 दशमेहनि । 3179ab
त्रयस्त्रिंशद्वर्षदेश्यः समगृह्यत भूभुजा ॥ 3179cd

राज्ञी कृतप्रणामं तं प्रियं पुत्रमिवागतम् । 3180ab
अभ्यनन्दच्छ्रान्तभृत्यमस्याहारमकल्पयत् ॥ 3180cd

इन्दुवंशाविसंवादिगुणग्राममवेक्ष्य तम् । 3181ab
प्रागदृष्टवती मेने वञ्चिते सा विलोचने ॥ 3181cd

गुणैरशाद्यदाक्षिण्यमाधुर्याद्यैरकृत्रिमैः । 3182ab
तस्य विशदशीलं स क्षमापतिममन्यत ॥ 3182cd

मुखरागो356 मनोवृत्तेर्द्वारौज्ज्वल्यं गृहश्रियः । 3183ab
भर्तृस्वभावस्याचारो योषितामनुमापकः ॥ 3183cd

दिनक्षयव्यञ्जिताध्वक्लमं357 प्रस्थातुमुत्सुकम् । 3184ab
राज्ञोभ्यर्णं विशेत्येनं358 दाक्षिण्यात्कोपि नाब्रवीत् ॥ 3184cd

कथञ्चिद्रुद्धमाध्यस्थवैमत्यैः सचिवैरथ । 3185ab
स त्वादिक्षन्नरपतिराशान्तेर्ष्योभ्यधीयत359 ॥ 3185cd

राज्ञोभ्यर्णं विशेत्युक्तेरुपोद्घातोपमं360 वचः । 3186ab
तत्तस्य श्रोत्रशुष्कुल्यां – –1 शङ्कुक्रियां व्यधात् ॥ 3186cd

[page 283]

विश्वास-प्रस्तुतिः

चिरात्ताडितमर्मेव समाश्वास्यैक्षताथ सः । 3187ab
मध्यस्थानां स्थितं स्थैर्यं361 दाक्षिण्यादोष्ठयोः परम् ॥ 3187cd

प्राणान्मुमुक्षोस्ते रूक्षभाषिणस्तस्य सान्त्वनैः । 3188ab
मन्दत्वं विक्रियां निन्युर्विनयानतमौलयः ॥ 3188cd

आचारं चैनमस्निग्धमपि न्याय्यं वचस्विनम् । 3189ab
न कोपि प्रतिवाक्येन शक्यं जेतुममन्यत ॥ 3189cd

अथ स्वान्तस्थितस्वामिवैवश्यं दर्शयन्निव । 3190ab
दशनांशुवनैर्धन्यो वीरः स्निग्धमभाषत ॥ 3190cd

पद्धतिं राजधर्माणां सदाचारे स्थितां च ते । 3191ab
जानतोपि कथं मोहः क्रमायातेषु वस्तुषु ॥ 3191cd

किं सन्धिः सोभिधीयेत यत्र सन्धेयदर्शनम् । 3192ab
अकृत्वा गम्यत इति प्राङ्नो कथमजीगणः ॥ 3192cd

अनद्यतनभूभर्तृसुलभं362 भूभुजं363 तव । 3193ab
ज्ञात्वा सत्त्वोज्ज्वलं ज्ञातिधर्मजातप्रवर्तनम् ॥ 3193cd

नास्य दम्भस्मयस्तम्भापीतिस्थैर्यखलोक्तयः364 । 3194ab
आदरादर्शवैशद्ये निःश्वासस्यापि काः श्रियः ॥ 3194cd

अस्योपजीवनाद्या श्रीः साम्राज्यासादनान्न सा365 । 3195ab
प्रकाशो बिम्बितो366 योर्काद्दीपात्स्याज्ज्वलतः स किम् ॥ 3195cd

निर्वाणगोष्ठीनिष्ठत्वं शमिनामाश्रयेषु यत् । 3196ab
तत्पर्षद्यस्य राजर्षेः – –1न्वृन्दानुबन्धिनः ॥ 3196cd

एवं स्वगृहसम्प्राप्यप्रायोनिःश्रेयसस्य ते । 3197ab
स्थानैः श्रियः समाप्याथ किं स्यादन्यैर्महीधरैः ॥ 3197cd

मुग्धा न केचन परे गणिताः फणिभ्यः कालानुकूलनिजकुण्डजलत्यजो367 ये । 3198ab
श्लिष्यन्ति चन्दनरूञ्शिशिरान्निदाघे माघेप्यशीतमनवं368 विवरं विशन्ति ॥ 3198cd

प्राणोपकरणं राज्ञो राज्ञी राजात्मजाश्च ये । 3199ab
तद्धिते यदनौचित्यं तेषामौचित्यमेव तत् ॥ 3199cd

त्यक्तोष्मवैकृतं पाथ इव कथितशीतलम् । 3200ab
अनुतापेन ते कृत्यं भूयो वैरस्यमेष्यति ॥ 3200cd

तथा समर्थां सामर्थ्यादप्रत्याख्याय369 भारतीम् । 3201ab
कुण्ठशाद्यलवस्तस्थौ प्रस्थानार्थं स मन्थरः ॥ 3201cd

पथि सङ्ग्रथितस्तोत्रान्वास्तव्यान्वीक्ष्य सर्वतः । 3202ab
अजायताथ संरूढकृत्यसाधुत्वदार्ढ्ग्यधीः ॥ 3202cd

पदातिचरणक्षुण्णरेणुव्याजाददृश्यत । 3203ab
वसुन्धरातलं बद्धसन्धीव नभसा समम् ॥ 3203cd

दध्यौ – – – –1 भोजः कच्चित्सम्प्राप्नुयां नृपम् । 3204ab
कच्चिदमुष्य विघ्न्येत दर्शनं विप्रलम्बकैः ॥ 3204cd

आराधान – – 370 धाम्नि नान्तरान्तरितो विटैः । 3205ab
स्वामिनां क इवाप्नोति गुणाविष्करणक्षणम् ॥ 3205cd

शीतोपचारकरणाद्दयितो भवेयमौर्वार्दितस्य जलधेः प्रसृतं धियेति । 3206ab
स्रोतो हिमाद्रिपयसो विनिपात एव ग्रासीकृतं तिमिभिराहत – – –1 स्यात् ॥ 3206cd

इत्यादिचिन्तास्तैमित्यात्पुरक्षोभाद्यलक्षयन् । 3207ab
सैन्यस्य रुद्धाश्वतयाबुद्धासन्नं371 नृपास्पदम् ॥ 3207cd

नातिप्रांशुं नातिकृशं सूर्यांशुश्यामलाननम् । 3208ab
सरोजकर्णिकागौरं शिथिलश्लथविग्रहम् ॥ 3208cd

ककुद्मत्ककुदोत्सेधिस्कन्धमायतवक्षसम् । 3209ab
श्मश्रुणानतिदीर्घेण व्यक्तगण्डगलोन्नतिम् ॥ 3209cd

उन्नसं पक्वबिम्बोष्ठं विस्तीर्णानुल्बणालिकम् । 3210ab
तिर्यग्विप्रेक्ष्य – – –1 धीरमन्थरगामिनम् ॥ 3210cd

समाहितांशुकोष्णीष – –1 श्रीखण्डव – –2म् । 3211ab
सीमन्त – –3 चुम्बिन्या रेखया चन्द्रगौरया ॥ 3211cd

[page 284]

विश्वास-प्रस्तुतिः

अश्वारूड्ःअं हर्म्यस्थसचिवैः परिवारितः372 । 3212ab
– – – – –2मायान्तं तमवैक्षत पार्थिवः373 ॥ कुलकम्॥ 3212cd

प्रीतिविस्फारितदृशा राज्ञा पृष्ठस्ततः सभाम् । 3213ab
सोध्यारुरोह सम्बाधां कौतुकोत्कन्धरैर्जनैः ॥ 3213cd

स्पृष्ट्वा पादौ निषण्णोग्रे नृपस्यानीय पाणिना । 3214ab
खड्गधेनुं पाणिबद्धामासनाग्रे समार्पयत्374 ॥ 3214cd

पाणिं सफणिवल्लीकं विवृताग्राङ्गुलिद्वयम् । 3215ab
ततोस्य चिबुकोपान्ते विन्यस्यन्पार्थिवोब्रवीत् ॥ 3215cd

न विगृह्य गृहीतोसि नाधुनापि निबध्यसे375 । 3216ab
तदङ्ग कस्माद्गृह्णीमः शस्त्रमेतत्त्वयार्पितम् ॥ 3216cd

व्यजिज्ञपत्स भूपालं देव शस्त्रस्य धारणम् । 3217ab
स्वामिसंरक्षणं स्वस्य परित्राणस्य कारणम् ॥ 3217cd

देवे निजप्रतापाग्निगुप्तसप्तसरित्पतौ । 3218ab
सेवावकाशो विरलः स्वशस्त्रस्यापि दृश्यते ॥ 3218cd

लोकान्तरेपि शरणं चरणाश्रयणं प्रभोः । 3219ab
तत्रात्र लोके किं कार्यं त्राणोपकरणैः परैः ॥ 3219cd

राजा जगाद तं सत्त्वस्पर्धाबन्धेधुना भवान् । 3220ab
निर्व्यूढकृत्यो वादीव कृत्यं नो वर्तते परम् ॥ 3220cd

भोजो बभाषे दाक्षिण्यजननायाधुना प्रभोः । 3221ab
दृष्टादृते मया किञ्चिन्नोपचारार्थमुच्यते ॥ 3221cd

किं ते न चिन्तितं दुष्टं किं किं न कृतमप्रियम् । 3222ab
यदसिद्धं न तद्व्यक्तिमगादित्यवधार्यताम् ॥ 3222cd

किं न मल्लान्वये कश्चित्कारणेषूदितो भवान् । 3223ab
विद्मः स्मानन्यकुल्यं376 प्राग्यं वयं चर्मचक्षुषः ॥ 3223cd

यदा यदा देव वाञ्छामकार्ष्म भवदप्रिये । 3224ab
भूमिस्तदा तदा भूम्ना भूप – – –1 भूयसः ॥ 3224cd

यावत्कवीनां निर्भाति प्रतिभानेन भास्वरः । 3225ab
देवाभवन्नः प्रत्यक्षः प्रतापस्तादृशस्तव ॥ 3225cd

न शेखरे न प्रदरे न दरेप्युज्झितो377 मया । 3226ab
प्रालेये भूभृतः कुञ्जे सञ्ज्वरस्त्वत्प्रतापजः ॥ 3226cd

ततः प्रभृत्यवनतिप्रणयः शरणैषिणः । 3227ab
सिद्धः सन्ध्यादिवन्ध्यत्वाद्देव378 दूरस्थितेर्न मे379 ॥ 3227cd

अथाभेदाभिलाषेण पापाद्यत्किल380 चेष्टितम् । 3228ab
स्फुरत्तामात्रकव्यक्त्यै न तु तद्विग्रहाग्रहात् ॥ 3228cd

त्वत्सम्बन्धादिमे दिक्षु प्रतीक्ष्याः क्ष्माभुजां381 वयम् । 3229ab
सङ्गाद्गङ्गाम्भसः काचकुम्भसम्भावना भुवि ॥ 3229cd

अद्यापि द्योतते शाहेराह्वयेन382 दिगन्तरे । 3230ab
तत्सन्तानभवोनन्तः समूहः क्षत्रजन्मनाम् ॥ 3230cd

त्वय्यर्पिते पार्वतीयभूभृत्सङ्गेन्यदादि383 नः । 3231ab
कदन्नाशनदु – – मुखैः384 खेदोन्मुखैरभूत् ॥ 3231cd

इतीदृशीभिः385 – – –2 प्रमाणमथ वा प्रभुः । 3232ab
इत्युक्त्वा भूपतेर्मूर्ध्ना सोगृह्णाच्चरणौ पुनः ॥ 3232cd

प्रणामसम्भ्रमस्रस्तोष्णीषशीर्षं ततो नृपः । 3233ab
तस्योत्थितस्य स्वशिरोवाससा समवस्त्रयत् ॥ 3233cd

स्वां तां च शस्त्रीं तन्न्यस्तामुत्सङ्गे सान्त्वयन्व्यधात् । 3234ab
तस्यासङ्क्षोभगाम्भीर्यस्तमूचे च निषेधिनम् ॥ 3234cd

दत्ते386 मया विभृहि वा त्वमेते पूजयाथ वा । 3235ab
न शस्त्रग्रहवैमुख्यं कार्यं मच्छासनं त्वया ॥ 3235cd

अवन्ध्यशासने – –1 त्यनुबध्नति387 ते व्यधात् । 3236ab
शस्त्र्यौ[^3236-3] राजानुगत्यैव वन्दित्वाङ्के स कालवित् ॥ 3236cd

ततो निर्यन्त्रणत्वस्य निर्मणः सान्त्वनस्य च । 3237ab
चिरसेवीव तत्कालं राज्ञोजायत भाजनम् ॥ 3237cd

[page 285]

विश्वास-प्रस्तुतिः

अन्यत्प्रविष्टो धन्योथ स्वार्चाम – –1यन्कृती । 3238ab
कृतप्रणामो भूपाल त्वद्गुणाकर्णनं विना ॥ 3238cd

न प्राणा द्रविणं नाद्य गण्यं निर्विक्रिया पुनः । 3239ab
सत्क्रिया स्वामिनोप्यर्थे388 तस्मात्पार्थिव चिन्त्यताम् ॥ 3239cd

तथापि कथ्यमानं तन्न स्यात्सम्भावनाभुवि । 3240ab
यदस्मिंश्चिन्त्यतेस्माभिरिति389 भूपो व्यभाषत ॥ 3240cd

क्षणमुच्चावचां चर्चां विरचय्य विशां पतिः । 3241ab
भोजेन सार्धं शुद्धान्तं रड्डादेव्यास्ततो ययौ ॥ 3241cd

कृतप्रणामस्तां वीक्ष्य सौजन्यादिगुणोज्ज्वलम् । 3242ab
स राजपारिजातं तं मेने कल्पलतायुतम् ॥ 3242cd

मान्योयं देवि सौजन्यज्ञातेयाभ्यामिहागतः । 3243ab
विशिष्यतेसौ पुत्रेषु क्ष्माभृद्योषेत्यभाषत390 ॥ 3243cd

सभाजनाय सौजन्यनिधिर्भोजान्वितस्ततः । 3244ab
उदूढकार्यभाराणां दाराणामप्यगाद्गुहान् ॥ 3244cd

अभाणीन्निपुणा राज्ञी भोजं राज्ञा सहागतम् । 3245ab
अधुनैव नृपस्याप्तः संवृत्तोसीति391 सस्मितम् ॥ 3245cd

लज्जास्मितमुखी पत्युः प्रणत्या स्वागतोक्तिषु । 3246ab
ददत्येवोत्तरं भोजं निर्दिशन्त्यप्यभाषत ॥ 3246cd

आर्यपुत्र न विस्मार्यं प्रत्याख्याताप्तमन्त्रितम् । 3247ab
मानैकशरणस्यास्य ज्ञातिप्रीतिप्रवर्तनम् ॥ 3247cd

पूर्वोपकर्तृ सलिलं वृद्धावस्पृशतोन्वहम् । 3248ab
पद्मान्स्वकुलपद्मानां युक्तं जेतुं भवादृशाम् ॥ 3248cd

कार्यकृच्छ्रेवसन्नानाममुष्यागमनं विना । 3249ab
सिध्येदौन्नत्यसंरक्षा नेह प्रत्यागमश्च नः ॥ 3249cd

उदीपे392 रक्षतस्तीरं शरीराश्रयिणी भवेत् । 3250ab
ध्रुवं वनस्पतेर्वीरुत्तन्निपातानुपातिनी393 ॥ 3250cd

पतिगत्यनुगामित्वं प्राणानां परिचिन्तितम् । 3251ab
तथा कार्यं यथा न स्यात्त्रातव्यस्यान्यथात्मनः ॥ 3251cd

राजा जगाद तां देवि सर्वकर्तव्यसाक्षिणी । 3252ab
अन्यथाप्रतिपत्त्वं394 मे त्वमप्यस्य395 न मन्यते ॥ 3252cd

निगृहीतवतो दुष्टो सुज्जिमल्लार्जुनावपि । 3253ab
निस्तापं मम नाद्यापि प्राप्तानुशयमाशयम् ॥ 3253cd

अथ राजार्थितः स्थातुं परार्ध्ये धाम्नि सानुगः । 3254ab
भोजो नामन्यतान्यत्र राजधन्यः396 स्थिरां स्थितिम् ॥ 3254cd

विदूराश्रयनिर्गोप्तृभावाप्रचुरदर्शनैः । 3255ab
आराधनं धराभर्तुरसाध्यं ध्यातवान्हि सः ॥ 3255cd

रक्षितॄनग्रहीत्क्ष्मापात्स्थिरं397 च समकल्पयत् । 3256ab
अनया397 – नृपं कार्या न सुराराधनागमे ॥ 3256cd

विज्ञाय भावं प्रीतेन राज्ञा दत्तं398 ततो गृहम् । 3257ab
सर्वोपकरणापूर्णं राजधान्यन्तरेभजत् ॥ 3257cd

राजापि ममतास्फीतप्रीतिभिः स्वैः परैस्तथा । 3258ab
उपासितस्तत्र रतिं चिराश्रित इवाययौ ॥ 3258cd

भोगवेलोचिताश्चर्यदर्शनादौ नृपोपि तम् । 3259ab
प्रियं पुत्रमिवास्मार्षीद्दूतैः पार्श्वं निनाय च ॥ 3259cd

जग्राह दक्षिणे पार्श्वे भुञ्जानं ज्ञातिगौरवात् । 3260ab
स्पर्शास्वादितभोज्यादिदाने399 नैव व्यवर्जत्[^3260-4] ॥ 3260cd

अकृत्रिमं तथा स्नेहमुवाह400 – – –2 यथा । 3261ab
लडितं ज्ञातिवत्तस्मिंस्तद्बालापत्यकैः400401 समम् ॥ 3261cd

तामेवालम्बत व्यक्तां402 सोपि वृत्तिं यथा यथा । 3262ab
राजा सपरिवर्होपि विस्रम्भमविगर्हितम् ॥ 3262cd

आसन्नाभ्यन्तरा भिन्ना ये द्वैधे तानदर्शयत् । 3263ab
राजा403 विरक्तिं स्वस्यारिबाहुल्यं च व्यसर्जयत् ॥ 3263cd

[page 286]

विश्वास-प्रस्तुतिः

अकृत्रिमात्समाधानात्करणानां सभान्तरे । 3264ab
न प्रत्यभाज्जडो नापि धृष्टो नापि बकव्रतः ॥ 3264cd

प्रमादस्खलिते हीनातिरिक्तत्वे च भूपतेः । 3265ab
कार्ये नावदधे कवितेव महाकवेः ॥ 3265cd

न विक्रमकथासत्त्र – – – –1व्यकत्थत । 3266ab
प्राग्वृत्तमन्तरा पृष्टः सोपस्कारं च नाभ्यधात् ॥ 3266cd

वि– –कात्प्रभोः404 साम्यसकुल्यत्वादिचाटुभिः । 3267ab
धीरादृष्टैर्वृष्टिपातैरपुनर्भाषिणो भ्यधात् ॥ 3267cd

तथा स्पृष्टोप्यनुत्तानाशयोभूदवगाहितुम् । 3268ab
न शेकुस्तं यथा जाल्मनर्मवित्पिशुनादयः ॥ 3268cd

क्षणेष्ववसितालोकक्षोभादिविशरारुषु । 3269ab
प्रा – –1वसथं गच्छञ्शङ्कां405 कामपि नातनोत् ॥ 3269cd

यथा यथास्य विस्रम्भाद्भूपोभूच्छिथिलाग्रहः । 3270ab
तथा तथैव सिद्धोश्व इव नाधावदुद्धतम् ॥ 3270cd

सदैवाग्रेसरोन्यत्र पश्चाद्रुद्धपदोभवत् । 3271ab
अनिषिद्धोपि शुद्धान्तमन्त्रागारावगाहने[^3271-1] ॥ 3271cd

विज्ञप्यौपयिकावाप्तिप्रार्थनमादरात्स्वयम्[^3272-1] । 3272ab
दूरीचक्रे परापेक्षां शश्वत्संशयिताशयः ॥ 3272cd

अना – – – समये तस्या – – –1 रक्षिणः । 3273ab
न स्वप्नवृत्तमप्यासीदनावेद्यं महीभुजे ॥ 3273cd

मन्त्र्यान्तःपुरिकादीनां406 परस्परविगर्हणम्406 । 3274ab
नावर्णयद्विस्मृतिं च दुष्टस्वप्रमिवानयत्406406 ॥ 3274cd

सचेतनोपि दुर्नर्मगोष्टीष्वनुरणन्वचः । 3275ab
अवदत्स्फुरदप्यन्तर्विटानां नाम लाघवम् ॥ 3275cd

एवं शुद्धानुभावस्य तस्य कृत्येन कृतवित् । 3276ab
पुत्रेभ्योप्यधिकां प्रीतिं स्निह्यन्भेजे407 क्रमान्नृपः ॥ 3276cd

कलिकालमहीपालदुस्तरः सिंहभूभुजा । 3277ab
सोयं गोत्रपरित्राणे नवः सेतुः प्रवर्तितः ॥ 3277cd

इत्थं विद्राविताशेषोपद्रवस्त्रिल्लकस्ततः । 3278ab
अग्नि – –1 मपि स्वास्थ्य – –2 भूभृदचिन्तयत् ॥ 3278cd

असौ हि निर्हिमोर्वीभृन्मार्गे काले पलायनम् । 3279ab
शाठ्यं सत्त्वस्य दुःसाध्यं बद्धं ध्यायन्व्यलम्बत ॥ 3279cd

अतः सुमेधा यात्रायां यावत्क्षणमपैक्षत । 3280ab
सञ्जपालेनाविचारात्तावत्प्रारम्भि धावनम् ॥ 3280cd

अल्पाधिष्ठानसुभटः स देवसरसोद्भटैः । 3281ab
बहुभिः सहितः सैन्यैर्मार्ताण्डे विदधे पदम् ॥ 3281cd

निर्निरोधप्रवेशः स प्रदेशः परिपन्थिनाम् । 3282ab
बाह्याश्च योधा निःसारा दर्पान्नेति विवेद सः ॥ 3282cd

त्रिल्लकानुचरा युद्धमसनिहितसायकाः । 3283ab
तेन सार्धं विदधिरे न चाहीयन्त पौरुषम् ॥ 3283cd

निःसीमसैन्यसहितो408 लवन्योन्यत्र डामरे । 3284ab
तत्र सर्वाभिसारेण धावतो युयुधे क्रुधा ॥ 3284cd

लुण्ठितद्रविणापूर्णास्ते देवसरसौकसः । 3285ab
सर्वे ततः सञ्जपालं विद्रुताः परिजह्रिरे409 ॥ 3285cd

द्विषत्संवर्तवर्षार्त्या सर्वत्र ब्रुडितेभवन् । 3286ab
अधिष्ठानभटा410 एव कुलशैला इवोद्धताः411 ॥ 3286cd

ते तीक्ष्णतीक्ष्णतरणौ सोढारातिरुषश्चिरम् । 3287ab
बहून्निहतवन्तोन्यांस्तत्र412 तत्राहवे हताः ॥ 3287cd

क्षतेषु413 युधि सर्वेषु विन्दानैर्मण्डलं413 निजैः । 3288ab
शूरेषु तत्र413 मार्ताण्डोप्यासीदविरलव्रणः 413 ॥ 3288cd

रराजाजौ साञ्जपालिर्गयापालो414415 हतेषु यः । 3289ab
त्रिषु वाजिषु416 चातुर्यात्पदातिर्नोपलक्षितः ॥ 3289cd

[page 287]

विश्वास-प्रस्तुतिः

तत्प्राथम्योपलब्धाजिर्जर्जस्तदनुजः शिशुः । 3290ab
निनाय विस्मयं वीरान्दृष्टासङ्ख्यमहाहवान्417 ॥ 3290cd

दक्षिणं दोर्न तच्चक्रे यद्वामं कम्पनापतेः । 3291ab
महेभांस्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः ॥ 3291cd

स धावन्वाजिनाराजदेकदोःस्फुरितायुधः । 3292ab
सधूमदण्डो418 दावाग्निः सपक्षेद्राविव419 स्थितः ॥ 3292cd

तं वैरितुमुले बाणव्रणभङ्गेष्वसौ पुनः । 3293ab
पृष्ठादलोटयद्वाजी – – न्नाबद्धपद्धतिः420 ॥ 3293cd

वर्मगौरवभूपृष्ठकाठिन्याघातपीडितः । 3294ab
स विसञ्ज्ञो द्विषन्मध्यात्तनयाभ्यां विनिर्हृतः ॥ 3294cd

कटके सर्वतो नष्टे मार्ताण्डप्राङ्गनान्तरे । 3295ab
विरोध्यसाक्षि क्षिप्त्या तं तावपासरतां ततः ॥ 3295cd

तत्रस्थं – –1 ना क्ष्माभृत्प्रस्थितः पृठुलैर्बलैः । 3296ab
तावद्भिः प्राप्यमप्याशु डामरं पिण्डितं व्यधात् ॥ 3296cd

क्ष्मापाले विजयक्षेत्रं प्राप्ते त्रोटितवेष्टनः । 3297ab
सञ्जपालो लवन्यस्य वसतीर्निरदाहयत् ॥ 3297cd

स तादृगपि भूपाले क्रुद्धे421 वक्रीकृतभ्रुवि । 3298ab
अदरिद्रो गिरिद्रोणीश्रेणिभूसुलभाशनः422 ॥ 3298cd

संवृत्तो निःसस्हायश्च परिग्रहबहिष्कृतः । 3299ab
आपत्सुलभपाण्डित्यभृत्योपालम्भभाजनम् ॥ 3299cd

निकृत्तकरशाखोथ क्ष्मापकोपकपेर्व्यधात् । 3300ab
निरालम्भतया – –1 स स्वशीर्षफलार्थनाम् ॥ 3300cd

रड्डादेवीतनूजानां ज्यायांसं गुल्हणाभिधम् । 3301ab
श्रीमांल्लोहरराज्येथ[^3301-1] क्ष्मावृषा[^3301-2] सोभ्यषेचयत्[^3301-2] ॥ 3301cd

षट्सप्तयायनो423423 राजतनयः स वयोधिकान्423 । 3302ab
चूताङ्कुरो जीर्णतरूनिवेशानजयद्गुणैः423 ॥ 3302cd

अभिषेक्तुं सुतं देव्या यातायाः क्ष्माभुजो व्यधुः । 3303ab
शिरःशोणाश्मकिरणैश्चरणौ यावकारुणौ ॥ 3303cd

तत्राभिषिक्ते वसुधामुग्रावग्रहशोषिताम् । 3304ab
देवीभावाभिषेकार्थमिवासिञ्चन्पयोमुचः ॥ 3304cd

भूयोपि राजवदनो विप्लवोत्पादनोत्सुकः । 3305ab
अमन्दमवचस्कन्द जयचन्द्रं नृपाज्ञया ॥ 3305cd

नागभ्रातृव्यसहिता गार्गेरनुप्रवेशिनः । 3306ab
पश्चात्सर्पिणीः सेनाः सोवधीत्सङ्कटेध्वनि ॥ 3306cd

गार्गिः परिभवम्लानाननं तिष्ठन्दिनैस्ततः । 3307ab
नागभ्राaतृसुताग्रण्यमवध्नाल्लोष्ठकं424425 मृधे ॥ 3307cd

दुर्गमत्वादनाक्रान्तमन्यैर्वेगात्प्रविश्य च । 3308ab
दग्ध्वा च426 दिन्नाग्रामं स निरगाल्लघुविक्रमः ॥ 3308cd

तथापि राजवदनो न शौर्यात्पर्यहीयत । 3309ab
न सन्दधे न चुक्रोध शक्यमस्य विनिर्गमम् ॥ 3309cd

अहन्यहनि हीनाभिः सेनाभिर्न्यपतन्नृपे । 3310ab
जयचन्द्रमुखाच्छश्वदसुखान्यवधीभवत्[^3310-1] ॥ 3310cd

क्ष्मानायकोथ निःसीमनखबाहुप्रसारणः । 3311ab
रणान्तरेव तं तीक्ष्णैर्गूढन्यस्तैरघातयत् ॥ 3311cd

तन्मुण्डगण्डलेखेन लुठता खण्डशः कृतः । 3312ab
झटिति त्रुटितः स्वास्थ्यविटप्यङ्कुरणोन्मुखः427 ॥ 3312cd

पृथ्वीहरकुलाच्छेदस्वच्छद्मा मेदिनीपतिः428 । 3313ab
अवधील्लोठनमपि428 छन्नदण्डयुक्तिभिः429 ॥ 3313cd

एकवारं वेष्टितोपि रक्षितस्त्रिल्लकेन सः । 3314ab
भूमिभृन्नीतिपाशस्य निपातेनाभ्यवर्तत430 ॥ 3314cd

मल्लोकाष्ठक्षुरजय्यसड्डचन्द्रादयोभवन्431 । 3315ab
जीवन्मृताश्च शान्ताश्च दारिद्र्योपप्लवार्दिताः ॥ 3315cd

_ 3310.

–1) Doubtful; thus C; A …खान्यववधीनवत्.

[page 288]

विश्वास-प्रस्तुतिः

अविचिन्त्योच्चलक्षोणिभृतः432432 प्राणान्विनश्वरान् । 3316ab
ऐश्वर्यरूढिमूढत्वादनिर्व्यूढव्यवस्थितौ433 ॥ 3316cd

मठेनुमितकोशत्वं तत्तद्राजाश्रयाद्गते434 । 3317ab
कुलोद्वहो विहितवान्सिंहदेवो434 व्यवस्थितम्435 ॥ युग्मम्॥ 3317cd

सुल्लाविहारं436437 पैतृव्यं438 पितुर्देवगृहत्रयम्436 । 3318ab
तच्चार्धसिद्धप्रासादं परिपूर्णं व्यधान्नृपः439 ॥ 3318cd

स एव ग्रामान्सामग्रीमहापणसमर्पणैः440 । 3319ab
निर्दोषपारिषद्यादिहृद्यान्निश्चोद्यधीर्व्यधात् ॥ 3319cd

अवरोधेन्दुवदनां441 मृतामुद्दिश्य चन्दलाम्442 । 3320ab
प्रत्यष्ठापि मठोनूनश्रीर्द्वारेवारितातिथिः ॥ 3320cd

स्पृष्टो नगरनिर्दाहैः443 सोपि सूर्यमतीमठः । 3321ab
पूर्वाधिकोपगर्वेण तेनैव निरमैiयत ॥ 3321cd

सञ्जाते सञ्जपालस्य ततो लोकान्तराश्रये । 3322ab
कम्पने निदधे राज्ञा गयापालस्तदात्मजः ॥ 3322cd

विपाकसुकुमारोपि दुःसहः सूनुनाभ्जवत् । 3323ab
विस्मारितः स सौम्येन[^3323-1] शरद्भानुरिवेन्दुना ॥ 3323cd

ग्रीष्मोष्मदोषविषमेष्वविशेषवृत्तेर्मेघोदये तटतरोस्तटिनीप्रवाहः । 3324ab
पश्यन्नकाण्डतडिदापतनेन नाशं नाशंसति स्वसलिलस्य विभूतिलाभम् । 3324cd

आ भिक्षुक्षपणाद्भोजभञ्जनादपि भूभुजः । 3325ab
विधुरे कार्यभाराणां योभूदूढधुरः परम् ॥ 3325cd

तस्य तस्मिन्नृपरते क्षीणप्रक्षीणकण्टके । 3326ab
स धन्योनन्यसामान्यप्रेमा[^3326-1] प्रमयमाययौ ॥ 3326cd

ताम्बूलमायात्रिकतां नीत्वामूनामयानिव444 । 3327ab
आपिपन्मधुरावट्टं445 जीवं यस्य निजः सुतः ॥ 3327cd

स जगज्जीवितेनापि रक्षणीयः क्षमापतिः । 3328ab
पदे पदे विपन्मग्नः प्रजोद्धरणदीरधीः ॥ 3328cd

व्याधितस्य विनिद्रोपि संसङ्गान्मङ्गलेच्छुभिः446 । 3329ab
नान्तक्षने तस्य पार्श्वात्कृतज्ञोवाचलन्नृपः446 ॥ 3329cd

प्रियप्रजस्यामात्यस्य447 स्वरूपविपरीतता447 । 3330ab
तस्य कञ्चित्क्षणं जाता जनजीवितदा447 भवे447 ॥ 3330cd

भूभुजामपि मान्धातृमुखानां निधनेन याः । 3331ab
दुःखं ययुः प्रजास्तासां समभावि तदा सुखम् ॥ 3331cd

द्वैराज्योपप्लुते राष्ट्रे नवस्य नृपतेरभूत् । 3332ab
अव्याहतं448 यत्साचिव्यं तस्य सस्र्वाभिषङ्गभित् ॥ 3332cd

कालो बली व्यवहृतेर्ननु तद्वशेन पूर्वापराचरणविस्मरणे न कस्य । 3333ab
शक्तिः क्षितेर्वहनकर्मणि योग्यतायां निर्दारणे449 मुरजितस्तु वराहतायाम् ॥ 3333cd

नगराधिकृतो भूत्वा सूज्जेर्निर्वापिते पुरा । 3334ab
चिरप्ररूढां यो देशस्याव्यवस्थां न्यवारयत् ॥ 3334cd

भ्रष्टः क्रयेषु दीन्नारव्यवहारोव्यवस्थया । 3335ab
निगृह्य तं भ्रंशकार्यनिर्वितण्डः प्रवर्तितः450 ॥ 3335cd

परिणीताङ्गनाशीलभ्रंशे गृहपतेरभूत् । 3336ab
दण्डप्रवृत्तिर्या तेन सा विचार्य निवारिता ॥ 3336cd

एकान्ततो हितो भूत्वा विशामेवं पुनर्व्यधात् । 3337ab
नगराधिक्रियां लब्ध्वा स एव परिपीडनम्451 ॥ 3337cd

बद्धाभिर्नर्तकीभिश्च452 परिणीतगृहस्थितौ[^3338-3] । 3338ab
सम्प्रयुक्तान्कथ्यमानान्हठेनादण्डयद्बहून् ॥ 3338cd

[page 289]

विश्वास-प्रस्तुतिः

किंवो – – –1लेशानां तुषाणामिव चिन्तनैः । 3339ab
अद्रोहालोभयोर्भूमिर्न तादृगपरोभवत् ॥ 3339cd

भिक्षुमल्लार्जुनौ453 कालानुवृत्त्याश्रितवानपि454455 । 3340ab
नालौ जहौ454 स्वामिहितं456 न तौ – – –5 नावधीत् ॥ 3340cd

अक्षीणत्यागहीनस्य विभूतिसमयेप्यभूत् । 3341ab
संस्कारौपयिकं नास्य पर्याप्तं निधने धनम् ॥ 3341cd

कृतज्ञतायां राज्ञोन्यत्पर्याप्तं किमुदीर्यताम् । 3342ab
यो जीवित इवानीतान्संविभेजेनुजीविनः ॥ 3342cd

लोकान्तरातिथिं बिज्जाभिधामुद्दिश्य बल्लभाम् । 3343ab
धन्यस्य बिज्जनामाढ्यविहाराम्भकारिणः457 ॥ 3343cd

परलोकं प्रयातस्य निर्माणप्रतिपूरणम्458 । 3344ab
स्थितं व्यवस्थितेः कं च विनियोगं चकार सः ॥ युगमम्॥ 3344cd

भूभृद्धार्मिकतावाप्तसुकृतोत्सेकवासवैः । 3345ab
युद्धैकवृत्तिभिरपि प्रवृत्ते पुण्यकर्मणि ॥ 3345cd

विपक्षाणां सुभिक्षेण तुरुष्कविषयाश्रयात्459 । 3346ab
जन्मभूमेर्वृत्तये यैः क्रौर्यादन्यन्न शिक्षितम् ॥ 3346cd

येपि460 वृत्तिं विरोध्याजिव्यग्रे460 सुस्सलभूभुजि । 3347ab
कलहावसरेष्वेव460460 कश्मीरेषु प्रपेदिरे ॥ 3347cd

गोत्रे तेषां क्षत्रियाणां461 जातः कमलियानुजः461 । 3348ab
राजबीजी सङ्गियाख्यः461 प्रतिष्ठां461 स्वाख्ययाकरोत् ॥ 3348cd

वितस्तापुलिने बाणलिङ्गे तेन निवेशिते । 3349ab
जायते स्वर्धुनीरोधःसम्प्रसूढविमुक्तधीः ॥ 3349cd

तदीयं च मठं चैव तपोधनविभूषितम् । 3350ab
वृष्ट्वा निवर्तते रुद्रलोकालोकनकौतुकम् ॥ 3350cd

लोटनेन्यप्रतिष्ठानामधन्यद्रविणार्पणे । 3351ab
न तेनाद्यतने काले संरब्धं462 शुद्धबुद्धिना ॥ 3351cd

उअदयस्य प्रिया चिन्ताभिधाना कम्पनापतेः । 3352ab
पुलिनोर्वीं वितस्ताया विहारेण व्यभूषयत् ॥ 3352cd

प्रासादपञ्चकव्याजात्तद्विहारस्थितः करः । 3353ab
उदस्त इव धर्मेण प्रोत्तुङ्गाङुलिपञ्चकः ॥ 3353cd

सान्धिविग्रहिको मङ्खकाख्योलङ्कारसोदरः । 3354ab
समठस्याभवत्प्रष्ठः श्रीकण्टस्य प्रतिष्ठया ॥ 3354cd

मठाग्रहारदेवौकोजीर्णोद्धारादिकर्मभिः । 3355ab
अनुजः463 सुमना नाम रिल्हणस्यासदत्तुलाम् ॥ 3355cd

भूतेश्वरे मठं कृत्वा त्रिग्राम्यामप्यपाययत्464 । 3356ab
तोयं कनकवाहिन्या वितस्तायाश्च यः पितॄन् ॥ 3356cd

प्रदेशे465 कश्यपागाराभिधाने नीलभूः सरित् । 3357ab
जीगीषयेव जाह्नव्या यत्र पूर्वीं दिशं गता466 ॥ 3357cd

उत्ताराय गवादीनां यः सेतुं तत्र बन्धयन् । 3358ab
निर्ममे निर्मलं कर्म संसारोत्तरणक्षमम् ॥ 3358cd

नगरेपि स्वनामाङ्कवृषाङ्कागारकारिणा । 3359ab
मठो येन कृतोभ्रष्टजटाधरघटाश्रयः ॥ 3359cd

मम्मेश्वरं स सौवर्णामलसारं467 चकार यः । 3360ab
सोमतीर्थं तथा तोयोद्यानादुद्योतितान्तिकम्468 ॥ 3360cd

अत्र क्षमाभुजो वंशे वंशौन्नत्यधनादिषु । 3361ab
सासूयत्वादमात्यानां469 धनप्राणादिहारिणः470 ॥ 3361cd

क्रुध्यन्नवासनाध्यासासूयया वासवोपि वा । 3362ab
प्राभ्रंशयद्दिवो देवो471 मान्धातारं धराभुजम् ॥ 3362cd

अविप्लुतमतिर्भृत्यान्कृत्यौन्नत्यवतोन्वहम् । 3363ab
दृष्ट्वा धातस्वमाहात्म्यवृद्धिस्तु प्रीयते नृपः ॥ 3363cd

कलशक्ष्मापतेः472 प्राज्ञोपज्ञं473 भृत्योस्य रिल्हणः । 3364ab
कुर्वन्स्वर्णातपत्राणां प्रतिष्ठां प्रीतिकार्यभूत् ॥ 3364cd

[page 290]

विश्वास-प्रस्तुतिः

स्वर्णपत्त्रं474 रुर्रेश्वर्यां शिवयोः समवेतयोः । 3365ab
सदीपारात्रिकामत्रमैत्रीमेति सघण्टिकम् ॥ 3365cd

बन्धोर्हिमाद्रेर्दयितः सुताजामातरौ शिवौ । 3366ab
स्वर्णच्छत्त्रच्छलान्मेरुर्मूर्ध्न्याव्रातुमुपागतः ॥ 3366cd

उद्दिश्य यद्विदधदुद्यममात्मयोनिर्दग्धो मयाङ्गघटनं दयितेन गौर्याः । 3367ab
सिद्धं तदत्र – – –1मुमयेति हेमच्छत्त्रच्छलाद्धरदृशश्चलितोग्निरूध्वम् ॥ 3367cd

छत्त्रं तत्र च रिल्हणेन विहितं रौक्मं महद्रुक्मिणीप्रेयोमन्दिरामूर्ध्नि नद्धमधुनादभ्रं परिभ्राजते । 3368ab
क्षैब्येन क्षतजावपानजनुषा नष्टं ततः स्वामिना प्राप्तं चक्रमवेक्षितुं475 स्वरुचिरं भास्वानिवाभ्यागतः ॥ 3368cd

तीर्थे मन्मथजित्खगध्वजदृढाजर्योर्जिताचार्यके साधाराभरणं क्रियापरिणति स्वर्णातपत्रं प्रभोः । 3369ab
भात्येकस्य शिखाहिफूत्कृतिवलद्गङ्गाब्जरेणूपगं476 केशान्तस्थितमेघपार्श्वगतडित्पिण्डाभमन्यस्य च ॥ 3369cd

सौवर्णद्रुहिणाण्डकर्परपुरे सञ्चूत्रिता छत्त्रकव्याकोशस्य समुद्रकप्रतिकृतौ दीर्घार्घिता –2 घने । 3370ab
सङ्गेनेन्दुकिरीटकैटभरिपुश्यामासितालङ्क्रिया सद्रत्नाकरयोः पिधानकरणिं स्वर्णातपत्रं गतम् ॥ 3370cd

तं लोहरमहीपालमन्वजायन्त भूभुजः । 3371ab
रड्डादेव्या गुणोदाराश्चत्वारश्चतुराः477 सुताः ॥ 3371cd

गुल्हणेनापरादित्यो राघवेणेव लक्ष्मणः । 3372ab
अभिन्नभावः संवृद्धिं वर्तते लोहरे श्रयन् ॥ 3372cd

ललितादित्यदेवेन478 जयापीडो हि दारकः । 3373ab
भरतेनेव शत्रुघ्नः पाल्यमानः479 प्रवर्तते ॥ 3373cd

पार्थिवाहस्कराच्चारुनमस्काराद्यशस्करः । 3374ab
पञ्चमः480 क्षितिभृद्धर्म्यो बालातप इवोदितः ॥ 3374cd

चपलैः शैशवाच्छ्रद्धानुबहवत्वात्समौष्टवैः । 3375ab
लडितैर्ललितादित्यो भित्तीरप्यार्द्रयत्यहो ॥ 3375cd

दत्तरक्षाञ्जनं ताम्राधरं गौरं तदाननम् । 3376ab
सबालातपभृङ्गाङ्कस्वर्णपङ्केरुहायते481 ॥ 3376cd

आलापास्तस्य माहात्म्यगर्भा बाल्यास्फुटा482 अपि । 3377ab
अमृतार्द्रा इवोच्चारा मथ्यमानस्य वारिधेः ॥ 3377cd

महाभिजनसञ्जातो राजसूनुः स शैशवे । 3378ab
अभिधत्तेनुभावेन भव्येनागामि जृम्भितम् ॥ 3378cd

अत्यक्तमण्डनशिखण्डिशिखोपि तोयस्पर्शासहाञ्चितकलापिकलापभङ्ग्या । 3379ab
वापीं निपीतसलिलो वलितं प्रयाति चेष्टोक्तभावमहिमा वरवर्णिभावः ॥ 3379cd

चतस्रो मेनिला483 राजलक्ष्मीः पद्मश्रिया समम् । 3380ab
सञ्जाताः484 कमला चास्य कन्याः सत्कृत्यवृत्तयः ॥ 3380cd

विनोदलीलोद्यानैस्तैर्नित्यकान्तैरपत्यकैः । 3381ab
विद्योतितेनवद्यौ485 तौ प्रावृट्पुष्पाकराविव ॥ 3381cd

तीर्थायतनपूतेस्मिन्मण्डलेखण्डितैर्व्ययैः । 3382ab
रड्डादेव्या एव याता भाग्यभावं विभूतयः ॥ 3382cd

कृतानुयात्रा सा दैवयात्रासु486 क्षितिपाङ्गना । 3383ab
राजलक्ष्मीरिवाभाति487 राजसामन्तमन्त्रिभिः ॥ 3383cd

सतीदेशे तीर्थसार्थास्त्यजन्त्यस्या निमज्जने । 3384ab
स्नानासक्तसतीमूर्तिस्पर्शनौत्सुक्यमञ्जसा ॥ 3384cd

चित्रे कालेत्र यात्रासु द्रष्टुं वृष्ट्युत्तरौ सदा । 3385ab
यत्प्रावृडिव – –1यं जीमूतैरनुगम्यते ॥ 3385cd

[page 291]

विश्वास-प्रस्तुतिः

सा पार्थिवेषु तीर्थेषु स्नानाय प्रस्थिता488 ध्रुवम् । 3386ab
दिव्यैर्वर्षमिषात्तीर्थैः प्रादृश्येत तदीर्ष्यया ॥ 3386cd

अभ्रंलिहान्न च गिरीन्न च कूलङ्कषा नदी । 3387ab
मृद्वङ्गी दुर्गमा मार्गे तीर्थौत्सुक्येन वेत्त्यसौ ॥ 3387cd

सुबह्वीभिः प्रतिष्ठाभिर्जीर्णोद्धारैश्च धीरया । 3388ab
तया चित्रं चतुरया पङ्गुर्दिद्दा विलङ्घिता ॥ 3388cd

अद्यापि विक्षरत्क्षीरार्णवकान्तिच्छटाच्च्छलात् । 3389ab
यो भातीव सुधासूतिसितश्वेताश्मनिर्गतः ॥ 3389cd

उपमन्योरुदन्याया दारिद्र्योपद्रवापहः । 3390ab
रुद्रो रुद्रेश्वरो नाम्ना श्रीमान्कश्मीरभूषणम् ॥ 3390cd

जगत्सौन्दर्यसारं स सस्वर्णामलसारकः । 3391ab
शान्तावसादप्रासादोद्धारश्च विहितस्तया ॥ 3391cd

सत्त्वानामिव भृत्यानां कोपौर्वविकृते नृपे । 3392ab
उदन्वतीव शरणं489 सिन्धुर्हैमवतीव सा490 ॥ 3392cd

स्थिरप्रसादे भूपाले निग्रहानुग्रहौ क्षणात् । 3393ab
भूभुजामपि संवृत्तावविच्छिन्नौ तदिच्छया491 ॥ 3393cd

सोमपालात्मजो भूभृद्भूपालः प्रापितस्तया । 3394ab
मानिन्या मेनिलादेव्या विवाहेन महार्हताम् ॥ 3394cd

उत्पत्तिभूमिसुलभानुभवो[^3395-1] न भूम्ना कस्याप्यहो व्यभिचरत्यनुभावभावः । 3395ab
तेजस्तमोविलुठनव्रतमुष्णभानोश्छेदं तदुत्थमकरोत्तमसोपि चक्रम् ॥ 3395cd

भुवनाद्भुतसाम्राज्यमार्जने[^3396-1] भूभुजाभवत् । 3396ab
प्रातिभाव्यं दृढं रत्नाक्रान्तसन्मण्डलावनिः ॥ 3396cd

ऊढायां मेनिलादेव्यां परिणेतुरभूदपि । 3397ab
पिता वैमत्यमुत्सृज्य निर्व्याजं राज्यदायकः ॥ 3397cd

राज्ञः प्राजिधरस्याजौ तरसा भूभुजोनुजः । 3398ab
वैरिभिर्निहतस्याग्रे वैरसंशोधनोद्यतः ॥ 3398cd

रड्डां शरणमेत्योच्चमानौत्कट्यो[^3399-1] घटोत्कचः । 3399ab
भेजे राज्यश्रियं प्राप्य चित्रं राज्यश्रियं पराम् ॥ कुलकम्॥ 3399cd

कृतसहायकोमात्यै राज्ञः सप्रज्जिमङ्गदम् । 3400ab
राज्यात्प्राभ्रंशयद्भ्रातृद्रुहं492 पञ्चवटं493 नृपम् ॥ 3400cd

अलङ्घयत्तत्प्रभावात्स्फारदानाम्बुनिर्भरात् । 3401ab
सरितं खड्गवल्लीं च कृष्णां494 विद्वेषिगोचराम् ॥ 3401cd

द्वितीयस्योरशाभर्तुरकीर्तिं निजयासृजत्495 । 3402ab
देवप्रभावाद्योधाग्रमत्युग्रपुरमग्रहीत् ॥ 3402cd

शीतोष्णवारणशशिद्योतकल्लोलितास्ततः । 3403ab
बहवो वाहिनीनाथाः प्रथामित्थं प्रपेदिरे ॥ 3403cd

समाद्वाविंशती राज्यावाप्तेः प्राग्भूभुजो गता । 3404ab
तावत्येवाप्तराज्यस्य पञ्चविंशतिवत्सरे496 ॥ 3404cd

इयद्दृष्टमनन्यत्र प्रजापुण्यैर्महीभुजः । 3405ab
परिपाकमनोज्ञत्वं स्थेयाः कल्पातिगाः समाः ॥ 3405cd

अम्भोपि प्रवहत्स्वभावशनैराश्यानमश्मायते ग्रावाम्भः497 स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः । 3406ab
कालस्यास्खलितप्रभावरबह्सं भाति प्रभुत्वेद्भुते कस्यामुत्र विधातृशक्तिघटिते मार्गे निसर्गः स्थिरः ॥ 3406cd

प्रयाते त्र्यधिकेप्यर्धसमाषट्कशते कलेः । 3407ab
कश्मीरेष्वास्त गोनन्दः पार्थानां सेवया नृपः ॥ 3407cd

सूनुर्दामोदरोस्याथ[^3408-1] तस्य पत्नी यशोमती[^3408-2] । 3408ab
गोनन्दोन्यस्तत्सुतोपि ततोतीत्य महीपतीन्[^3408-3] ॥ 3408cd

पञ्चत्रिंशतमज्ञातानुग्रहाभिजनाभिधाम् । 3409ab
राजाभवल्लवो498 नाम सूनुस्तस्य कुशस्ततः ॥ 3409cd

3408

–1) Emended with C; A दामोदरस्याथ.

–2) Comp. यशोवर्ती i. 70.

–3) Emended with C; A ॰पती.

[page 292]

विश्वास-प्रस्तुतिः

द्वौ खगेन्द्रसुरेन्द्रख्यौ पुत्रपौत्रावमुष्य499 तु । 3410ab
गोधरोथान्यकुलजः सुवर्णाख्यस्तदात्मजः500 ॥ 3410cd

तज्जन्मा जनकोप्यासीत्सूनुः शच्याः शचीनरः । 3411ab
अथाशोकोभवद्भूभृद्राज्ञोस्य प्रतितृव्यजः ॥ 3411cd

तज्जो जलौकाः सन्दिग्धवंशो501 दामोदरस्ततः । 3412ab
तुल्यं त्रयोथ हुष्काद्यास्तुरुष्काभिजनोद्भवाः ॥ 3412cd

अभिमन्युस्तृतीयोथ गोनन्दोस्य विभीषणः । 3413ab
राजेन्द्रजिद्रावणश्च – –द्यः क्रमशोभवत्502 ॥ 3413cd

अन्यो विभीषणः503 सिद्ध उत्पलाक्षश्च504 तदनु505 । 3414ab
पश्चात्ततो हिरण्याक्षहिरण्यकुलयोरभूत्506 ॥ 3414cd

राजा वसुकुलस्तस्य सूनुः ख्यातिस्त्रिकोटिहा507 । 3415ab
क्षितिनन्दो बकात्तज्जाद्वसुनन्दस्तदात्मजः508 ॥ 3415cd

नरोन्योक्षस्ततस्तस्माद्गोप्ता गोकर्णको नृपात् । 3416ab
तस्मान्नरेन्द्रादित्योभूत्सूनुरन्धयुधिष्ठिरः ॥ 3416cd

तस्य प्राभ्रंशितो भृत्यैरन्याभिजनसम्भवः । 3417ab
भूपः प्रतापादित्योभूज्जलौकोपि तदात्मजः ॥ 3417cd

तुञ्ञीने509 निःसुते तज्जे विजयोन्यकुलोद्भवः । 3418ab
जयेन्द्रेस्य सुतेपुत्रे510 सचिवः सन्धिमानभूत् ॥ 3418cd

युधिष्ठिरस्य पौत्रेण भूपादित्यात्मजन्मना511 । 3419ab
श्रीमेघवाहनेनाथ गौनन्देभ्युदितं512 कुले513 ॥ 3419cd

…………………………………………… । XXXXab
…………………………………………… ॥ XXXX0cd

मूलम्

…………………………………………… । XXXXab
…………………………………………… ॥ XXXX0cd

विश्वास-प्रस्तुतिः

ततः प्रवरसेनोन्यस्तोरमाणात्मजः514 क्षितिम् । 3420ab
लेभे हिरण्यभ्रातृव्यस्तस्य पुत्रो युधिष्ठिरः515 ॥ 3420cd

ततो नरेन्द्रादित्यश्च रणादित्यश्च भूपतिः । 3421ab
क्रमादभूतां तत्पुत्रो विक्रमादित्यभूपतिः516 ॥ 3421cd

बालादित्यश्चोदभवद्रणादित्यस्य517518 नन्दनः । 3422ab
बालादित्यस्य जामाता ततो दुर्लभवर्धनः ॥ 3422cd

सूनुर्दुर्लभकस्तस्य चन्द्रापीडोभवत्ततः । 3423ab
तारापीडोनुजन्मा च मुक्तापीडोस्य519 चानुजः ॥ 3423cd

भूपावास्तां कुवलयापीडो द्वैमातुरोस्य च । 3424ab
वज्रादित्यः सुतो राज्ञो मुक्तापीडस्य तत्सुतौ ॥ 3424cd

पृथिव्यापीडसङ्ग्रामापीडावनु नृपोभवत् । 3425ab
जयापीडोस्य मन्त्री च जज्जः520 पुत्रावपि क्रमात् ॥ 3425cd

ललितापीडसङ्ग्रामापीडौ521 ज्येष्ठात्मजस्ततः । 3426ab
श्रीचिप्पटजयापीडः कल्यपाल्युद्भवोभवत् ॥ 3426cd

अभिचारेण तं हत्वा साम्मत्यादितरेतरम्522 । 3427ab
उत्पलाद्यैरसम्प्राप्तराज्यैस्तन्मातुलैः कृतः ॥ 3427cd

भ्रातुः पुत्रोजितापीडो जयापीडस्य तत्पदे । 3428ab
अनङ्गापीडनामा च सङ्ग्रामापीडजस्ततः ॥ 3428cd

तमुत्पाट्योत्पलापीडोस्याजितापीडनन्दनः । 3429ab
अवन्तिवर्मा शूरेण523 तं निवार्याथ मन्त्रिणा ॥ 3429cd

[page 293]

विश्वास-प्रस्तुतिः

नप्तोपलस्य विदधे साम्राज्ये सुखवर्मजः । 3430ab
शूरः शङ्करवर्मा स गोपालस्तस्य चात्मजः524 ॥ 3430cd

रथ्यागृहीतः प्राभूच्च तद्भ्राता सङ्कटाभिधः । 3431ab
सुगन्धाख्यः तयोर्माता तां विनाश्याथ525 भूभुजम् ॥ 3431cd

शूरवर्मप्रणप्तारं पार्थं तन्त्रिपदातयः । 3432ab
चक्रुर्निर्जितवर्माणं ततस्तस्य526 च तत्क्रमात् ॥ 3432cd

चक्रवर्मा शूरवर्मा चेति निर्जितवर्मजः । 3433ab
विहिता527 बहुशो राज्ये तस्तम्भे528 शम्भुवर्धनः ॥ 3433cd

तदन्तरे लब्धराज्ये मन्त्री व्यापाद्य तं नृपम् । 3434ab
चक्रवर्मण्यतीतेथ पापी पार्थात्मजः क्रमात् ॥ 3434cd

उन्मत्तावन्तिवर्मासीत्तत्पुत्रे शूरवर्मणि । 3435ab
राज्याद्भ्रष्टे द्विजैश्चक्रे राज्ये मन्त्री यशस्करः ॥ 3435cd

प्रपितृव्यात्मजस्तस्य वर्णटस्तनयोनु तम् । 3436ab
राज्ये वक्राङ्घिसङ्ग्रामस्तस्थौ निष्पाट्य तं ततः ॥ 3436cd

अनात्यः पर्वगुप्ताख्यो राज्यं द्रोहेण लब्धवान् । 3437ab
क्षेमगुप्तः529 सुतोस्यासीदभिमन्यौ तदात्मजे ॥ 3437cd

शान्ते मात्रा पाल्यमाने नन्दिगुप्ते च तत्सुते । 3438ab
ततस्त्रिभुवने भीमगुप्ते च क्रूरचेष्टया ॥ 3438cd

पौत्रे तयैव निहते530 स्वयं दिद्दाख्यया कृतम् । 3439ab
राज्यं531 सङ्ग्रामराजोपि भ्रातृव्योन्ते नृपः कृतः ॥ 3439cd

हरिराजानन्तदेवावास्तां तस्यात्मजौ ततः । 3440ab
कलशोनन्ततनयः क्रमाद्भूपौ तदात्मजौ ॥ 3440cd

उभावुत्कर्षहर्षाख्यावपि निष्पाट्य भूपतिम् । 3441ab
हर्षदेवं तमुद्दामक्रमाद्भूपौ तदात्मजौ ॥ 3441cd

भ्रातुः पुत्रस्य दिद्दाया जस्सराजस्य नप्तृतः । 3442ab मल्लाभिधानादुद्भूतो भूपतामुच्चलोभजत् ॥ 3442cb द्रोहेण तं हतवतां भृत्यानामग्रतस्ततः । 3443ab शङ्खराजान्यनामाभूद्रड्डाख्यः क्षणिको नृपः ॥ 3443cb गर्गेण निहते तस्मिन्सल्हो[^3444-1] द्वैमातुरोप्यभूत् । 3444ab तस्योच्चलमहीभर्तुर्भ्राता निर्वध्य तं बली ॥ 3444cb सुस्सलाख्योग्रहीद्राज्यं माल्लिरुच्चलसोदरः । 3445ab विरक्तैः पाटिते तस्मिन्राज्याद्भृत्यैर्नृपः कृतः ॥ 3445cb षण्मासान्हर्षभूभर्तृनप्ता भिक्षाचराभिधः । 3446ab पुनर्निर्वास्य तं प्राप्तराज्ये सुस्सलभूभृति ॥ 3446cb क्रमाल्लवन्यैर्विश्वस्तैर्द्वैराज्येजिते हते । 3447ab लवन्यान्निखिलांस्तं च[^3447-1] हत्वा भिक्षाचरं नृपम् ॥ 3447cb सुतः सुस्सलभूभर्तुः सम्प्रत्यप्रतिमक्षमः । 3448ab नन्दयन्मेदिनीमास्ते जयसिंहो महीपतिः ॥ 3448cb गोदावरी सरिदिवोत्तुमुलैस्तरङ्गैर्वक्त्रैः स्फुटं सपदि सप्तभिरापतन्ती । 3449ab श्रीकान्तिराजविपुलाभिजनाब्धिमध्यं[^3449-1] विश्रान्तये विशति राजतरङ्गिणीयम् ॥ 3449cb

इति श्रीमहाकविश्रीकल्हणकृतायां राजतरङ्गिण्यामष्टमस्तरङ्गः532 ॥ समाप्तोयं राजतरङ्गिनी कृतिः श्रीमहामात्यचप्पकप्रभुसूनोर्महाकवेः कल्हणस्य ॥

[page 294]

  1. Emended; A ॰मुद्रणाम्. ↩︎ ↩︎

  2. Thus or त्व– – A2; दत्त्वाभयं तैरायत्यां. ↩︎ ↩︎

  3. Cf. viii. 1818. 1930. ↩︎ ↩︎

  4. Emended; A कोद्दे. ↩︎ ↩︎

  5. Thus A; text evidently corrupt; perhaps read ॰द्देश्यस्याष्टम॰. ↩︎ ↩︎

  6. Thus corr. by later hand from A1 ॰स्याहितेहनि. ↩︎ ↩︎

  7. Thus A1; C विलुब्धकार्पण्यकृ॰; perhaps read विलुब्धकारुण्यकृ॰. ↩︎ ↩︎

  8. A1 writes here 4 instead of तिलकम्(?). ↩︎ ↩︎

  9. A वालि॰. ↩︎ ↩︎

  10. Emended; A राज्यपुर्यो. ↩︎ ↩︎ ↩︎ ↩︎

  11. Doubtful emendation; A चावालगतौ; G चारालगतौ. ↩︎ ↩︎

  12. न्न supplied with C; A न्यध्र – त्र. ↩︎ ↩︎

  13. Thus corr. by A3 from A1 समुददीपित्. ↩︎ ↩︎

  14. Emended with C; A ॰ चाख्युः. ↩︎ ↩︎

  15. Emended with C; A निर्यायासु॰. ↩︎ ↩︎

  16. Emended; A ,,प्रायस्पर्धिनो॰. ↩︎ ↩︎

  17. Emended; A य आकोप॰; G sec. manu यतः को॰. ↩︎ ↩︎

  18. A वालि॰. ↩︎ ↩︎

  19. Here two are missing; C supplements क्व स नीतिज्ञविज्ञेयः क्व च ते खलबुद्धयः. ↩︎ ↩︎

  20. Emended; A कुरुतां. ↩︎ ↩︎

  21. Thus emended in C; A आरेभेति. ↩︎ ↩︎

  22. Emended; A ॰तोन्वगाः. ↩︎ ↩︎

  23. Here two are missing; C supplements इति चिन्तयतस्तस्य मन आसीद्विशृङ्खलं. ↩︎ ↩︎

  24. Emended; A ॰मृषन्. ↩︎ ↩︎

  25. A विमर्षः. ↩︎ ↩︎

  26. Emended; A तान्स सम्भ्रम॰ ↩︎ ↩︎

  27. Emended with C; A कल – – स्याद्य. ↩︎ ↩︎

  28. A1 3. ↩︎ ↩︎

  29. C शरदि यो. ↩︎ ↩︎

  30. Emended with C; A ॰मन्ये. ↩︎ ↩︎

  31. Conjectural emendation of G.(sec. manu); A प्रजाः. ↩︎ ↩︎

  32. Emended; A ॰भुजाम्. ↩︎ ↩︎

  33. Doubtful emendation; A भङ्गनामङ्गलों॰; C अङ्गनामङ्गलौङ्कार॰. ↩︎ ↩︎

  34. Emended; A ॰र्बली. ↩︎ ↩︎

  35. Emended; A सह. ↩︎ ↩︎

  36. Emended; A सङ्घटितुं. ↩︎ ↩︎

  37. Emended with C; A सवृद्धायास॰. ↩︎ ↩︎

  38. Emended with C; A apparently ॰मान्यानां. ↩︎ ↩︎

  39. Misread in C दुर्वृत्तहसने॰. ↩︎ ↩︎

  40. Emended; A स्तम्बाग्रे. ↩︎ ↩︎

  41. Emended with C; A प्र–. ↩︎ ↩︎

  42. Emended with C; A भैषीन्प्रा॰. ↩︎ ↩︎

  43. Compare fore this verse iv. 8. ↩︎ ↩︎

  44. The text od the first is corrupt; perhaps read स समभ्रमयद्भ्रा॰. ↩︎ ↩︎

  45. A ॰क्रोष॰. ↩︎ ↩︎

  46. A. स्कन्दा॰. ↩︎ ↩︎

  47. A सिन्दुरस्येव. ↩︎ ↩︎

  48. A वालि॰. ↩︎ ↩︎

  49. Emended; A स्कन्दम॰. ↩︎ ↩︎

  50. Emended; ॰ल्लङ्घनाय स नि॰. ↩︎ ↩︎

  51. Emended; A शक्ति. ↩︎ ↩︎

  52. Emended; A भावार्थ. ↩︎ ↩︎

  53. Doubtful; A जग्गके; cf. viii. 2278. ↩︎ ↩︎

  54. A माऽयं. ↩︎ ↩︎

  55. Emended; A जनाः. ↩︎ ↩︎

  56. A ॰वालि॰. ↩︎ ↩︎

  57. A भि X ख॰. ↩︎ ↩︎

  58. Emended with C; A स्वामिनो. ↩︎ ↩︎

  59. Emended with C; संष्तम्भ्यैनं. ↩︎ ↩︎

  60. Emended; A बिज्जराजो. ↩︎ ↩︎

  61. Emended; A साल्वः सौ– मिवा॰; C सालूरोऽन्धुमिवा॰. ↩︎ ↩︎

  62. A4 3. ↩︎ ↩︎

  63. A ॰ददन्य. ↩︎ ↩︎

  64. Emended with C; A रुप्यं. ↩︎ ↩︎

  65. Emended; A शृङ्गारं. ↩︎ ↩︎

  66. Thus A; C emends रूक्षरक्षा॰. ↩︎ ↩︎

  67. Emended; A कु– तेक्षणः; C कुरुते क्षणः. ↩︎ ↩︎

  68. Thus A; perhaps read with C ॰द्वेल्लित॰. ↩︎ ↩︎

  69. A1 3. ↩︎ ↩︎

  70. Emended; A ॰त्त्वरां. ↩︎ ↩︎

  71. Emended; A न दृशां. ↩︎ ↩︎

  72. Conjectural reading; A सरगज॰; C सुरगज॰. ↩︎ ↩︎

  73. Thus A; perhaps read ॰स्पर्शनात्पूता; C ॰नात् जाता. ↩︎ ↩︎

  74. Emended; A ॰न्तरं. ↩︎ ↩︎

  75. A कोष॰. ↩︎ ↩︎

  76. Emended with G (sec. manu); A ॰ग्रहा X कन्दु. ↩︎ ↩︎

  77. Emended with C; A तपोधनाल्ल॰. ↩︎ ↩︎

  78. Thus A; cf. vii. 1239, where बलेरकप्रपा॰. ↩︎ ↩︎

  79. Emended with C; A उत्सज॰. ↩︎ ↩︎

  80. Doubtful emendation; A ॰कशिपुदः. withput indicating the lacuna; C ॰कशिपुच्छिदः. ↩︎ ↩︎

  81. Emended; A षोज्झितः. ↩︎ ↩︎

  82. The first two of this verse have been subsequently added by A1 at the top of fol. 291. ↩︎ ↩︎

  83. Emended; A दार्वासारे; C दार्वागारेष्वप्यू॰. ↩︎ ↩︎

  84. Emended; A सङ्ग्राम. ↩︎ ↩︎

  85. Thus A1 originally; corr. by A1 to शालिष्वक्षीणं. ↩︎ ↩︎

  86. Emended with C; A निन्येन्तिका॰. ↩︎ ↩︎

  87. A प्रजेशा X का॰. ↩︎ ↩︎

  88. Emended; A ॰मात्रशिशुं नृपम्; ↩︎ ↩︎

  89. A1 2. ↩︎ ↩︎

  90. Emended; A सज्जे॰. ↩︎ ↩︎

  91. A1 3. ↩︎ ↩︎

  92. A ॰वालि॰. ↩︎ ↩︎

  93. Thus A; perhaps read विशन्त्यन्त॰; C न शंसन्त्य॰. ↩︎ ↩︎

  94. Emended; A apparently वैधेयान्बकप्रायान्कार्य॰, as read in R. C. ↩︎ ↩︎

  95. Emended; A ॰न्योन्यं भेद॰. ↩︎ ↩︎

  96. Emended; A सज्जौ. ↩︎ ↩︎

  97. Emended with C; A ॰मात्यर्भका॰. ↩︎ ↩︎

  98. Emended; A सुज्जिर्नि॰. ↩︎ ↩︎

  99. A दूरा – खण्डि॰. ↩︎ ↩︎

  100. Emended; A जीवत्कृषि॰. ↩︎ ↩︎

  101. A1 2. ↩︎ ↩︎

  102. Doubtful emendation; A साप्यद्रि॰. ↩︎ ↩︎

  103. Emended; A च मूर्तेन. ↩︎ ↩︎

  104. Emended; A सुल्हण॰. ↩︎ ↩︎

  105. Emended with C; A ॰गता. ↩︎ ↩︎

  106. Thus A; perhaps read अथोपहत्या उत्थान; cf. viii.2513; C अथोपचित उत्थान. ↩︎ ↩︎

  107. Conjectural reading; A ॰श्रियरन्तस्थितं; G(sec. manu) ॰श्रिय अन्ते स्थितं. ↩︎ ↩︎

  108. Doubtful emendation; A ॰भवन्. ↩︎ ↩︎

  109. Comp. for this name viii. 2799.2912.3313. ↩︎ ↩︎

  110. Emended; A पा – हरिः; cf. viii. 2748. 2759. 2793. 2838. ↩︎ ↩︎

  111. Emended; A ॰क्रिकैः. ↩︎ ↩︎

  112. A तत्स्कन्दा॰. ↩︎ ↩︎

  113. Doubtful emendation; A एवौपह – एवोपहतभये. ↩︎ ↩︎

  114. Emended; A ॰क्रन्दं क्षान्ति॰(the letter क्ष is of unusual shape and resembles श्श); C क्षान्तिचमू॰. ↩︎ ↩︎

  115. Emended; A चलितां; another possible emendation would be चलिता दर्शयत्रुषम् । स्थास्नूश्च. ↩︎ ↩︎

  116. Emended; A संशयाः. ↩︎ ↩︎

  117. Emended with G (sec. manu); A हिमिका॰. ↩︎ ↩︎

  118. Thus A; cf. कर्णाटका॰ viii. 2485. ↩︎ ↩︎

  119. Emended; A कृषोधः. ↩︎ ↩︎

  120. Emended with C; A तैर्वेसारण॰. ↩︎ ↩︎

  121. Emended; A शरैर्द्विषद्व॰. ↩︎ ↩︎

  122. Emended; A तैरभिदद्धैर्या॰; C तैरभिरुद्धैर्य्यावदा॰. ↩︎ ↩︎

  123. A1. 2. ↩︎ ↩︎

  124. Emended; A भोजं; R भोजो. ↩︎ ↩︎

  125. Emended; A सान्त्वनेः; C सान्त्वने. ↩︎ ↩︎

  126. Doubtful emendation; A ॰त्सवर्तिष्ट च; C ॰त्सनवर्तिष्ट सं॰. ↩︎ ↩︎

  127. Emended with G(sec. manu); A वा – येन; C यवेन. ↩︎ ↩︎

  128. Emended with C; A ह्यो. ↩︎ ↩︎

  129. Emended with C; सत्त्वसङ्क्षी॰. ↩︎ ↩︎

  130. A कठो – प्या॰; C कठोरोऽप्या॰. ↩︎ ↩︎

  131. Could be read in A also ॰निष्टान्नि॰. ↩︎ ↩︎

  132. A ॰स्यामो – शयं. ↩︎ ↩︎

  133. Emended with G (sec. manu); A गर्भे. ↩︎ ↩︎

  134. Emended; A ॰त्प्रैक्ष्यन्त. ↩︎ ↩︎

  135. Thus A; perhaps read अधःस्थो. ↩︎ ↩︎

  136. A1 2. ↩︎ ↩︎

  137. Emended with G (sec. manu); A ॰पौरयोधैर्वृद्धिं हतै॰. ↩︎ ↩︎

  138. The letter श is indistinctly written; C ॰दोषं; R ॰रोषं. ↩︎ ↩︎

  139. Emended; A ॰सनैर्व्यधुः. ↩︎ ↩︎

  140. A1 2. ↩︎ ↩︎

  141. Emended with C; A प्राका॰. ↩︎ ↩︎

  142. A ॰शिविरा॰. ↩︎ ↩︎

  143. A1 2. ↩︎ ↩︎

  144. Emended with C; A निभर्त्स्य.. ↩︎ ↩︎

  145. Emended; A ॰प्रकाशं चाञ्च॰. ↩︎ ↩︎

  146. Emended; A ॰क्षमः. ↩︎ ↩︎

  147. Emended with C; A पादिपादेन. ↩︎ ↩︎

  148. Emended; A ॰भोजस्य. ↩︎ ↩︎

  149. Emended; A भोज्यभाव॰. ↩︎ ↩︎

  150. Emended with C; A ॰पश्यन्त. ↩︎ ↩︎

  151. Emended; A लोठने. ↩︎ ↩︎

  152. Emended; A उपन्यस्यंस्त॰. ↩︎ ↩︎

  153. A2 gloss शान्ता अहन्ता अहम्भावो यस्य. ↩︎ ↩︎

  154. Emended; A दैवस्य. ↩︎ ↩︎

  155. Emended; A ॰कूर्चं स॰. ↩︎ ↩︎

  156. A ॰शिविरो॰. ↩︎ ↩︎

  157. A स्कन्दावारे. ↩︎ ↩︎

  158. Emended with G ↩︎ ↩︎

  159. A वलक्ष॰. ↩︎ ↩︎

  160. Emended with C; A ॰पतितानिव. ↩︎ ↩︎

  161. Emended with C; A दैविकोन्तरा॰. ↩︎ ↩︎

  162. Emended; A धन्यं मु॰. ↩︎ ↩︎

  163. Emended; A ॰कृत्रिमः. ↩︎ ↩︎

  164. Conjectural reading; A भोजनोत्पञ्ज॰. ↩︎ ↩︎

  165. Emended; A विस्तीर्णः. ↩︎ ↩︎ ↩︎ ↩︎

  166. Emended; A ॰विस्मृति. ↩︎ ↩︎

  167. A स्कन्दा॰. ↩︎ ↩︎

  168. Emended; A पृष्ठसेना॰. ↩︎ ↩︎

  169. Thus A; the text of this appears to be corrupt; perhaps read सन्देहं जहतो द्रोहभयमु॰. ↩︎ ↩︎

  170. भजेत् corr. by A1 from व्रजेत्. ↩︎ ↩︎

  171. Emended; A व्यकल्पयत. ↩︎ ↩︎

  172. Emended with C; A संस्तम्भ्य. ↩︎ ↩︎

  173. Emended; A शेषं मां; C स्वां सभां. ↩︎ ↩︎

  174. Emended with G; A तमेव. ↩︎ ↩︎

  175. Emended; A दस्यून्विप॰. ↩︎ ↩︎

  176. Conjectural reading; A विक्रीयतामिति; cf. for the context viii. 2598 fig. ↩︎ ↩︎

  177. Emended with C; A देति. ↩︎ ↩︎

  178. Emended; A राज्ञा. ↩︎ ↩︎

  179. Emended; A ओजो॰; cf. viii. 2862 and the vv. ll. तेजो, ओजो viii. 1084. ↩︎ ↩︎

  180. Emended; A ॰जातं. ↩︎ ↩︎

  181. The text of this is corrupt. ↩︎ ↩︎

  182. Emended with G; A ॰जिन्तांस्तत्त॰. ↩︎ ↩︎

  183. Emended; A कुर्वतात्य॰. ↩︎ ↩︎

  184. Emended; A प्राप्य. ↩︎ ↩︎

  185. Conjectural reading; A गन्तुं मामुत्सृज्य; C मासमुत्सृज्य. ↩︎ ↩︎

  186. Emended; A ॰रोहे. ↩︎ ↩︎

  187. Emended; A ॰गतोचिनुम्; C `अतोचितं; G ॰गतोचिताम्. ↩︎ ↩︎

  188. Emended; A ॰द्रोणे. ↩︎ ↩︎

  189. Conjectural reading; A सामग्री नः. ↩︎ ↩︎

  190. Emended; A वः. ↩︎ ↩︎

  191. Emended; A जानते॰. ↩︎ ↩︎

  192. Emended; A ॰पालाब्धिस्तुच्छा॰. ↩︎ ↩︎

  193. Emended; A प्रतीक्ष्यमाणो. ↩︎ ↩︎

  194. Emended; A ॰ष्कः कोष्ठका॰; comp. for the name of ’s son, vii. 2912. 2799. 2496. 3313. ↩︎ ↩︎

  195. A2 gloss कुररस्येति कुररः नद् दूर् इति भाषया कश्मीरेषु प्रसिद्धः. ↩︎ ↩︎

  196. Thus corr. by A2 from गर्गजः. ↩︎ ↩︎

  197. Emended; A प्रतियोग्यताम्. ↩︎ ↩︎

  198. Emended; A कम्पनाधीशरि॰. ↩︎ ↩︎

  199. A स्कन्दा॰. ↩︎ ↩︎

  200. Emended; A काश्मीरिका. ↩︎ ↩︎

  201. Emended; A ॰गमिनी॰. ↩︎ ↩︎

  202. Emended; A कैश्चि॰ ↩︎ ↩︎

  203. Doubtful emendation; A ॰स्तर्जितो. ↩︎ ↩︎

  204. Emended with C; A प्रावृड्पयो॰. ↩︎ ↩︎

  205. A ॰शीधु॰. ↩︎ ↩︎

  206. Emended with C; A ॰हरित. ↩︎ ↩︎

  207. A होलळौकसि. ↩︎ ↩︎

  208. Emended with G; A रिल्हणप्रेषितं. ↩︎ ↩︎

  209. Should probablry be रामुषे; cf. ii. 55. ↩︎ ↩︎

  210. Emended; A गर्जन्कुल्या॰. ↩︎ ↩︎

  211. Emended; A तत्कल्या॰. ↩︎ ↩︎

  212. Thus A; perhaps read with G (sec. manu) प्रजासृजश्चास्यं. ↩︎ ↩︎

  213. Thus A; C ह्रीप्रभावाविशेषे. ↩︎ ↩︎

  214. Emended; A ॰भोजनम्. ↩︎ ↩︎

  215. Thus corr. by a later hand from A1 वैह्वल्ये. ↩︎ ↩︎

  216. Conjectural reading; A वैकल्या॰. ↩︎ ↩︎

  217. Emended with C; A ॰प्रजाजाल॰. ↩︎ ↩︎

  218. Emended with C; A ॰गमतुरान्वितः. ↩︎ ↩︎

  219. Emended with C; A ॰भुजाम्. ↩︎ ↩︎

  220. Emended with C; A पूतनादयम्. ↩︎ ↩︎

  221. Thus A; C तद्बलं. ↩︎ ↩︎

  222. Emended with C; A दृप्येद्धेम॰. ↩︎ ↩︎

  223. Doubtful emendation of C; A तत्स्याळ् गेरग्र॰. ↩︎ ↩︎

  224. A स्कन्दा॰. ↩︎ ↩︎

  225. Emended; A रुचिरमाभा॰. ↩︎ ↩︎

  226. Emended with C; A प्रतीक्ष्यध्वं. ↩︎ ↩︎

  227. Cf. भोजोनाम्नो बलहरात्सञ्जातो viii. 2695 and note. ↩︎ ↩︎

  228. The text of this verse is evidently corrupt; A as above. C reads व्यहसन् सन्दिहाय सं । कामधेनुसमं छागाश्रेषो विधिर्न यत्. ↩︎ ↩︎

  229. Doubtful; A वा – स्यैष; C सूरस्यैष. ↩︎ ↩︎

  230. Emended with C; A दिदक्षु. ↩︎ ↩︎

  231. Emended; A विड्डसूहेन्धने॰. ↩︎ ↩︎

  232. Emended; A पलायिततेन्ये॰. ↩︎ ↩︎

  233. A ॰कोषो. ↩︎ ↩︎

  234. Doubtful emendation; A सर्वशिरोदृक्त॰. ↩︎ ↩︎

  235. Emended; A ॰ज्वलन्. ↩︎ ↩︎

  236. A स्वशिविरा॰. ↩︎ ↩︎

  237. Emended; A रोहद्दोहः स्पृहा॰. ↩︎ ↩︎

  238. Emended; A ॰दस्राणां. ↩︎ ↩︎

  239. Emended with C; A गर्गिम॰. ↩︎ ↩︎

  240. Doubtful emendation; A ॰कमु – जान्न; C ॰नीकं दृष्ट्वापि नव्य॰. ↩︎ ↩︎

  241. Emended; A ॰हारादावेत्य; the text is corrupt. ↩︎ ↩︎

  242. Emended; A विद्रावितानि. ↩︎ ↩︎

  243. Emended; A वरूथिन्या. ↩︎ ↩︎

  244. Emended; A ताव – त्स्वामिना. ↩︎ ↩︎

  245. Emended with C; A यान्तो. ↩︎ ↩︎

  246. Emended; A ॰मालिकाम्. ↩︎ ↩︎

  247. The later corresponding to थ cannot be read with certainty in A; C तावताभ्यर्णं. ↩︎ ↩︎

  248. A ॰विमर्षेण. ↩︎ ↩︎

  249. Emended; A भजते. ↩︎ ↩︎

  250. Comp. note to लोठन: viii. 2496. ↩︎ ↩︎

  251. Emended with C; A भजञ्ञ्च॰. ↩︎ ↩︎

  252. Emended with C; A ॰स्रोतपाते॰. ↩︎ ↩︎

  253. Emended; A अत्यजन्नेव and ॰जितात्मैव. ↩︎ ↩︎ ↩︎ ↩︎

  254. Emended with C; A ॰चक्रेगाद्वि॰. ↩︎ ↩︎

  255. A ॰वाळ्हाख्यो and वाळ्हजः. ↩︎ ↩︎ ↩︎ ↩︎

  256. Emended with G (sec. manu); A ॰कल्पस्तं जज्ञे. ↩︎ ↩︎

  257. Conjectural reading; A राम – राद्या॰; C शत्रुभिराद्या॰. ↩︎ ↩︎

  258. Emended; A ॰पतिव्रातस्य; C ॰पातित्रा॰. ↩︎ ↩︎ ↩︎ ↩︎

  259. Emended; A तत्प्रामु॰. ↩︎ ↩︎

  260. Emended; A सन्ता॰. lost here; A does not indicate the lacuna; C supplements संरम्भात्कर्त्तुमारेभे सामर्थ्यान्न च चक्षमे. ↩︎ ↩︎

  261. Emended; A तमनुजं निजम्; cf. षष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ viii 2753. ↩︎ ↩︎

  262. Emended; A धन्ये. ↩︎ ↩︎

  263. Emended; A ॰वहं. ↩︎ ↩︎

  264. Emended with C; A काकुस्थोपि. ↩︎ ↩︎

  265. Emended; A सोवष्टम्भी॰. ↩︎ ↩︎

  266. Thus A; perhaps read ॰न्मन्त्रितमबो॰. ↩︎ ↩︎

  267. Emended with C; A भोजोनि॰. ↩︎ ↩︎

  268. Emended with C; A ॰न्बलहरोन्तिकम्. ↩︎ ↩︎

  269. Emended; A मोहयन्तौ. ↩︎ ↩︎

  270. Thus corr. by A1 from ॰व्यधात्. ↩︎ ↩︎

  271. A1 has written मतिमोहे; न supplied apparently by A2. ↩︎ ↩︎

  272. The text of this verse is evidently corrupt; emendation doubtful. ↩︎ ↩︎

  273. Perhaps read युद्धमतिव्यघ्रं. ↩︎ ↩︎

  274. Thus A; C ॰मुख्यान्मुग्धोऽस्मि सन्दिशेत्. ↩︎ ↩︎

  275. Perhaps read सन्दिशन्. ↩︎ ↩︎

  276. Emended with C; A ॰नीतः. ↩︎ ↩︎

  277. सारसा no longer legible in A; found in R G C. ↩︎ ↩︎

  278. Emended; A दृप्य. ↩︎ ↩︎

  279. Emended with G (sec. manu); A ॰कलैर्धिर्भोगि. ↩︎ ↩︎

  280. Emended with G (sec. manu); A ॰कासितस्य कुहरैर्ग्रामस्य. ↩︎ ↩︎

  281. Emended; A तदेव. ↩︎ ↩︎

  282. Emended with C; A स्पष्टं. ↩︎ ↩︎

  283. Emended; A चाधितुम्. ↩︎ ↩︎

  284. Emended with G (sec. manu); A समग्रोदु॰. ↩︎ ↩︎

  285. Emended with G (sec. manu); A ॰मेकमेकं. ↩︎ ↩︎

  286. Emended; A ॰न्दृष्टवाक्प्रज्ञान्तम्॰; C ॰वाक्प्रज्ञातुम॰. ↩︎ ↩︎

  287. Emended with C; A सन्धिबन्धात्त्वसौ. ↩︎ ↩︎

  288. Emended; A ॰पोह्यत. ↩︎ ↩︎

  289. Emended; A चारुत्वे. ↩︎ ↩︎

  290. Emended; A कथादैर्घ्यं. ↩︎ ↩︎

  291. Emended; A तमभ्यधात्. ↩︎ ↩︎

  292. Doubtful emendation of C; A क्षुन्दन्नध्व॰. ↩︎ ↩︎

  293. Emended with G (sec. manu); A ॰कारणज्ञा॰. ↩︎ ↩︎

  294. Emended; A हीने. ↩︎ ↩︎

  295. Emended; A ॰ल्लासो. ↩︎ ↩︎

  296. Emended; A वा. ↩︎ ↩︎

  297. Emended; A सीमन्ताप्रा॰. ↩︎ ↩︎

  298. Emended; A ॰पातिनम्. ↩︎ ↩︎

  299. Emended with C; A प्राप्नुयामास. ↩︎ ↩︎

  300. Emended with G (sec. manu); A ॰न्देवीवत्स॰. ↩︎ ↩︎

  301. Doubtful emendation; A ॰तव्यासौ. ↩︎ ↩︎

  302. Emended; A मुiग्धानिर॰. ↩︎ ↩︎

  303. Emended; A शक्तो. ↩︎ ↩︎

  304. Emended with C; A1 has first written अ – लं and then supplied टि over the lacuna. ↩︎ ↩︎ ↩︎ ↩︎

  305. Emended; A ॰णिस्तां. ↩︎ ↩︎

  306. Emended; A भैषीरेष सन्धित्स्व. ↩︎ ↩︎

  307. Emended with C; A ॰रोपमतां. ↩︎ ↩︎

  308. Emended; A खश॰. ↩︎ ↩︎

  309. Emended; A पतिते. ↩︎ ↩︎

  310. Emended; A ॰चिन्तयत्. ↩︎ ↩︎

  311. Emended; A ॰तर्ज्य वृजिनो॰. ↩︎ ↩︎

  312. Emended; A विधेः. ↩︎ ↩︎

  313. Emended; A ॰बोधनात्. ↩︎ ↩︎

  314. Emended; A रूपं. ↩︎ ↩︎

  315. The akshara त्यां could also be read न्यां; thus C. ↩︎ ↩︎

  316. Doubtful emendation; A विचार्योसि. ↩︎ ↩︎

  317. Conjectural emendation. ↩︎ ↩︎

  318. Conjectural reanding; A has written originally – – – – न्ययो॰ and subsequently filled up the lacuna with माता मन्त्र्या; G (sec. manu) सोनामन्त्र्य. ↩︎ ↩︎

  319. A ॰द्धोलळ्हातश्च. ↩︎ ↩︎

  320. Emended; A साल्हणे बले. ↩︎ ↩︎ ↩︎ ↩︎

  321. Doubtful emendation; A दीदीमायान्तौ. ↩︎ ↩︎

  322. Emended A ॰हरस्ततः. ↩︎ ↩︎

  323. Doubtful emendation; A चेदृशां व्यूहानवरुक्ष्याम; C चेदृशं व्यूहमवरोक्ष्यामि. ↩︎ ↩︎

  324. Doubtful emendation; A ॰स्थिते राज्ञ्यां; C ॰स्थिते राज्ञि. ↩︎ ↩︎

  325. Emended with C; A धैन्य॰. ↩︎ ↩︎

  326. A1 gloss श्वाल्. ↩︎ ↩︎

  327. Emended with C; A ॰भवत्. ↩︎ ↩︎

  328. Emended; A बध्यमानस्वान्त॰. ↩︎ ↩︎

  329. This verse and the following are found in Vallabhadeva’s , 462-463 (ed. Peterson and ). ↩︎ ↩︎

  330. न्नम्राङ्गतया supplied by A3 in space left by A1. ↩︎ ↩︎

  331. Thus corr. by A1 from करुणां. ↩︎ ↩︎

  332. Thus corr. by A3 from A1 त्रपावाभ॰. ↩︎ ↩︎

  333. Thus in ; A प्युग्रेण. ↩︎ ↩︎

  334. Thus corr. by A3 from A1 कर्मा. ↩︎ ↩︎

  335. न्ननु supplied by A5 in space left by A1. ↩︎ ↩︎

  336. Thus A; C ॰रैरीर्ष्या. ↩︎ ↩︎

  337. Thus A1 in margin and ; A1 in text भूगर्भे. ↩︎ ↩︎

  338. तुङ्ग supplied by A3 in space left by A1. ↩︎ ↩︎

  339. Emended with C; A जनयन्व्यञ्जि॰. ↩︎ ↩︎

  340. Emended; A ॰भात्स्वं. ↩︎ ↩︎

  341. Emended with C; A ॰स्कन्दोबुद्धिः. ↩︎ ↩︎

  342. Emended with C; A साल्हणना॰. ↩︎ ↩︎

  343. Emended A ॰पतद्रात्रौ. ↩︎ ↩︎

  344. A दुद्रु॰. ↩︎ ↩︎

  345. Doubtful emendation; A समत्यावै॰. ↩︎ ↩︎

  346. Emended; A ॰स्कन्दप्र॰. ↩︎ ↩︎

  347. Emended with C; A काकुस्थ॰. ↩︎ ↩︎

  348. Emended with C; A ॰न्य्युद्ध्यवा॰. ↩︎ ↩︎

  349. The latter न् cannot be read with certainty; C ॰स्पृशत्. ↩︎ ↩︎

  350. Emended; A ॰क्रान्ति॰. ↩︎ ↩︎

  351. Thus corr. by A1 from डामरैर्नि॰. ↩︎ ↩︎

  352. Emended with G (sec. manu); A ॰मुखापक्रि॰. ↩︎ ↩︎

  353. Emended; A ॰दन्तोल्लापोधिरोह. ↩︎ ↩︎

  354. Emended; A ॰त्क्रोशाद्वि॰. ↩︎ ↩︎

  355. Emended with C; A ज्येष्ठस्य. ↩︎ ↩︎

  356. नेन supplied by A3; A1 indicated originally a lacuna of four akshara; C supplements सर्वं. ↩︎ ↩︎

  357. Emended with C; A ॰क्लमां. ↩︎ ↩︎

  358. Emended; A विशत्येनं. ↩︎ ↩︎

  359. Doubtful emendation; A स त्वादिक्षुर्नरपतिराशान्तेभ्योभ्य॰. ↩︎ ↩︎

  360. Emended; A विशत्यु॰. ↩︎ ↩︎

  361. Emended with C; A स्थौर्यं. ↩︎ ↩︎

  362. Emended; A सुलभे. ↩︎ ↩︎

  363. Emended; A भूभुजां. ↩︎ ↩︎

  364. Emended with G (sec. manu); A ॰स्तम्भप्री॰. ↩︎ ↩︎

  365. Emended with C; A सः. ↩︎ ↩︎

  366. Emended with C; A बिम्बतो. ↩︎ ↩︎

  367. Emended with C; A ॰जल – जो. ↩︎ ↩︎

  368. Emended with C; A ॰शीतम – वं. ↩︎ ↩︎

  369. Doubtful emendation; A समर्थासमर्थ्या – प्रत्या॰; C ॰सामथ्यान्न प्रत्या॰. ↩︎ ↩︎

  370. Thus A; C आराधयन् प्रभुं धाम्नि. ↩︎ ↩︎

  371. Emended; A ॰सन्ननृपास्पदम्. ↩︎ ↩︎

  372. Emended; A ॰रितम्. ↩︎ ↩︎

  373. Emended with C; A पार्थिवम्. ↩︎ ↩︎

  374. Emended with C; A समर्पयत्. ↩︎ ↩︎

  375. Emended; A न बध्यसे. ↩︎ ↩︎

  376. Emended with C; A विद्म स्मा॰. ↩︎ ↩︎

  377. Emended; A ॰ज्झिते. ↩︎ ↩︎

  378. Emended; A सन्ध्यायिव॰. ↩︎ ↩︎

  379. Emended; A दूरस्थिते न. ↩︎ ↩︎

  380. Emended with C; A पा – द्यत्किल. ↩︎ ↩︎

  381. Emended; A क्ष्माभुजा. ↩︎ ↩︎

  382. Emended; A शाहेवाह्व॰. ↩︎ ↩︎

  383. Thus A; doubtful. ↩︎ ↩︎

  384. Thus A; C कदन्नाशनदुर्भोगासुस्थैः खे॰. ↩︎ ↩︎

  385. Emended with C; A इदीदृ॰. ↩︎ ↩︎

  386. Emended; A दत्तं. ↩︎ ↩︎

  387. Emended; A ॰त्यनुबति ते; the lacuna not indicated. ↩︎ ↩︎

  388. Emended with C; A स्वामिनो – र्थे. ↩︎ ↩︎

  389. Emended; A यदस्मि॰. ↩︎ ↩︎

  390. Emended with C; A क्ष्माभृद्योपैत्य॰. ↩︎ ↩︎

  391. Emended; A संवृत्तोर्मीति; C संवृत्तोऽस्मीति. ↩︎ ↩︎

  392. A1 gloss उदीपः अतिवृष्ट्या अत्युद्रिक्तजलागमः. ↩︎ ↩︎

  393. Emended with C; A ॰वीरुस्तन्नि॰. ↩︎ ↩︎

  394. Emended; A प्रतिपत्त्य. ↩︎ ↩︎

  395. Emended with C; A त्वमप्य –. ↩︎ ↩︎

  396. Emended; A ॰धन्यां. ↩︎ ↩︎

  397. Emended; A ॰क्ष्मापान्स्थिरं. ↩︎ ↩︎ ↩︎ ↩︎

  398. Emended with C; A दातुं. ↩︎ ↩︎

  399. Written by A5 on new paper. ↩︎ ↩︎

  400. Written by A5 on new paper. ↩︎ ↩︎ ↩︎ ↩︎

  401. Thus A; C supplements जनको. ↩︎ ↩︎

  402. Conjectural reading; A तमेवालम्बत व्यक्तिं. ↩︎ ↩︎

  403. Emended; A राज्ञां. ↩︎ ↩︎

  404. Thus A; possible emendations would be विडम्बकान्प्रभोः or विगर्हकान्प्रभोः; C विचारकात्प्रभोः. ↩︎ ↩︎

  405. Emended; A गच्छच्छ – ङ्कां. ↩︎ ↩︎

  406. Written by A5 on new paper. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  407. Emended with C; A भोजे. ↩︎ ↩︎

  408. Emended with C; A निःसीमः सै॰. ↩︎ ↩︎

  409. Emended; A ॰जग्रिरे. ↩︎ ↩︎

  410. Thus corr. by a later hand from A2 अधिष्ठाने भटा. ↩︎ ↩︎

  411. Emended with C; A इवोद्धताः. ↩︎ ↩︎

  412. Emended with C; A बहूनिह॰. ↩︎ ↩︎

  413. Written by A5 on new paper. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  414. Emended; A सञ्जपालि॰. ↩︎ ↩︎

  415. Emended; A गयपालः; cf. viii. 3322. ↩︎ ↩︎

  416. Emended; A वाजिष्मचा॰; C वाजिष्वचा॰. ↩︎ ↩︎

  417. Emended with C; A ॰न्दृष्टसङ्ख्य॰. ↩︎ ↩︎

  418. Emended with C; A ॰दण्डं. ↩︎ ↩︎

  419. Emended with C; A ॰द्रादिव. ↩︎ ↩︎

  420. Thus A; C तदन्वाबद्ध॰. ↩︎ ↩︎

  421. Emended with C; A क्रुद्धो. ↩︎ ↩︎

  422. Wirtten by A5 on new paper. ↩︎ ↩︎

  423. Written by A5 on new paper. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  424. Emended with C; A ॰सुताग्रव्यामब॰. ↩︎ ↩︎

  425. Comp. viii. 2996. ↩︎ ↩︎

  426. Emended with A स. ↩︎ ↩︎

  427. Conjectural reading; A ॰विचार्यास्यङ्कुरो॰; C ॰वियास्यङ्कुरणेणो॰. ↩︎ ↩︎

  428. Emended with C; A ॰पतेः. ↩︎ ↩︎ ↩︎ ↩︎

  429. Emended; A च्छत्त्रद॰. ↩︎ ↩︎

  430. Emended with C; A ॰भ्यवर्तिता. ↩︎ ↩︎

  431. Thus A; misread ॰मड्डुचन्द्रा॰ in R C; cf. सड्डचन्द्रस्य viii.643. ↩︎ ↩︎

  432.  ↩︎ ↩︎ ↩︎ ↩︎
  433. Written by A5 on new paper. ↩︎ ↩︎

  434. Written by A5 on new paper. ↩︎ ↩︎ ↩︎ ↩︎

  435. Emended; A ॰स्थितम्. ↩︎ ↩︎

  436.  ↩︎ ↩︎ ↩︎ ↩︎
  437. Emended with C; A स्वल्ला॰; cf. viii. 248. ↩︎ ↩︎

  438. Emended with C; A पैत्रृव्य. ↩︎ ↩︎

  439. Emended with C; A – – न्नृपः. ↩︎ ↩︎

  440. Emended with G ( sec. manu); A ग्रामसा॰. ↩︎ ↩︎

  441. Emended with C; A ॰वदनं. ↩︎ ↩︎

  442. Thus A1 R; A5 दन्दलाम्; C चन्द्रलाम्. ↩︎ ↩︎

  443. Emended with G (sec. manu); A धन्यो नान्यसा॰. ↩︎ ↩︎

  444. Thus A; perhaps read नीत्वासूना॰. ↩︎ ↩︎

  445. Emended with C; A आर्पिपामधु॰. ↩︎ ↩︎

  446. Written by A5 on new paper. ↩︎ ↩︎ ↩︎ ↩︎

  447.  ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
  448. Emended with C; A अप्याहतं. ↩︎ ↩︎

  449. Emended with G (sec. manu); A निर्मारणे. ↩︎ ↩︎

  450. Doubtful emendation; A प्रवर्तत; C प्रवर्त्तते. ↩︎ ↩︎

  451. Emended; A पीडयन्. ↩︎ ↩︎

  452. Emended with C; A ॰बद्धानि– – कीभिश्च. ↩︎ ↩︎

  453. Thus R C; A5 भिल्लमल्ला॰. ↩︎ ↩︎

  454.  ↩︎ ↩︎ ↩︎ ↩︎
  455. Thus A5; C ॰वृत्त्या श्रुत॰. ↩︎ ↩︎

  456. Emended; A स्वामिहतं. ↩︎ ↩︎

  457. Doubtful emendation; A ॰नामाख्य॰. ↩︎ ↩︎

  458. Emended with G (sec. manu); A निर्वाण॰. ↩︎ ↩︎

  459. Emended with C; A तुरुष्कामिषया॰. ↩︎ ↩︎

  460.  ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
  461.  ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
  462. Emended; A संरब्धे. ↩︎ ↩︎

  463. Emended; A अनुज्ञा. ↩︎ ↩︎

  464. Emended; A त्रिग्राम्यमप्यपातयत्॰; cf. वामेन सिन्धुस्त्रिग्राम्या वितस्ता दक्षिणेन तु v. 97. ↩︎ ↩︎

  465. Emended; A प्रदेश्य. ↩︎ ↩︎

  466. These two and the following three verses are written by A5 on new paper. ↩︎ ↩︎

  467. Emended with C; A5 R ॰मलशारं. ↩︎ ↩︎

  468. Emended; A5 R ॰द्यानामुद्योति॰. ↩︎ ↩︎

  469. Emended; A ॰त्वमामात्यानां. ↩︎ ↩︎

  470. Emended; ॰धिहारिणः. ↩︎ ↩︎

  471. Emended with C; A देवीं. ↩︎ ↩︎

  472. Thus corr. by A1 from ॰पतिः. ↩︎ ↩︎

  473. Thus A; cf. vii. 528 ffg. ↩︎ ↩︎

  474. Emended; A ॰पत्त्रां. ↩︎ ↩︎

  475. Emended with C; A5 R चक्रमिवे॰. ↩︎ ↩︎

  476. Thus A; C ॰पमं. ↩︎ ↩︎

  477. Emended with C; A ॰श्चतुरस्सुताः. ↩︎ ↩︎

  478. Emended with C; A ललितालित्य॰. ↩︎ ↩︎

  479. Emended with C; A पालमानः. ↩︎ ↩︎

  480. The last two and the following verse written by A5 on new paper. ↩︎ ↩︎

  481. Emended with C; A ॰भुजङ्गाङ्कास्वर्ण॰. ↩︎ ↩︎

  482. Emended; A बालास्फुटा. ↩︎ ↩︎

  483. Emended with C; A मैनिला; cf. viii. 3394. 3397. ↩︎ ↩︎

  484. Emended; A सञ्जाता. ↩︎ ↩︎

  485. Doubtful emendation; A विद्योतयान्नवद्यौ; C द्योतितावनवद्यौ. ↩︎ ↩︎

  486. Emended with C; A यात्रास्वक्षि॰. ↩︎ ↩︎

  487. These two and the first of the following verse are written by A5 on new paper. ↩︎ ↩︎

  488. Emended; A प्रस्थितं. ↩︎ ↩︎

  489. Emended with C; A सरणं. ↩︎ ↩︎

  490. The last and the following two verses written by A5 on new paper. ↩︎ ↩︎

  491. Emended; A ॰मार्जनो. ↩︎ ↩︎

  492. Emended; A राज्यं प्रा॰. ↩︎ ↩︎

  493. Doubtful emendation; A ॰बटो. ↩︎ ↩︎

  494. The last and following verse written by A5 on new paper. ↩︎ ↩︎

  495. Doubtful emendation of G (sec. manu); A ॰कीर्तिर्निज॰. ↩︎ ↩︎

  496. Emended with C; A ॰विंशतु व॰. ↩︎ ↩︎

  497. Emended with C; A ग्रावोम्भः. ↩︎ ↩︎

  498. Emended with C; A राजा वल्लभको; cf. अथाभवल्लवो नाम i. 84. ↩︎ ↩︎

  499. The last three and the following verse are no longer founf in A as the upper portion of fol. 327 has broken off; the text is given from R G. ↩︎ ↩︎

  500. Emended with C; R G (prima manu) सुiवर्णाकृत्तदा॰; cf. i. 97. ↩︎ ↩︎

  501. Emended; R C ॰वंशे; the upper strokes of the latters are not legible in A. ↩︎ ↩︎

  502. Thus A; C पितापुत्री क्रमान्नृपौ. ↩︎ ↩︎

  503. Here the name of Nara is omitted. ↩︎ ↩︎

  504. Emended; A उत्पलाख्यश्च. ↩︎ ↩︎

  505. Thus A; doubtful. ↩︎ ↩︎

  506. Emended; A हिरण्याख्येहिरण्यकुशयोर॰. ↩︎ ↩︎

  507. C inserts here two श्रीमिहिरकुलो राजा बकाख्यस्तदनन्तरं. ↩︎ ↩︎

  508. Emended; A क्षितिनन्दो बलात्मजाद्वसु॰. ↩︎ ↩︎

  509. Emended; A तुञ्जने; cf. ii.11. ↩︎ ↩︎

  510. Emended; A जयेन्द्रस्य – – पुत्रे; C जयेन्द्रत्तत्सुतोऽपुत्रः. ↩︎ ↩︎

  511. Thus A; but compare ii. 145.11g. ↩︎ ↩︎

  512. Emended with C; A गोनन्दाभ्युदितं. ↩︎ ↩︎

  513. After this verse(: inserts the following: ततः प्रवरसेनोभूद्भूपः काश्मीरमण्डले ॥ तत्सूनुश्च हिरण्योऽभूत् पालयन् क्षितिमण्डलं । मातृगुप्तो ऽभवदत्तराज्यस्तेन शकारिणा ॥. One verse containing the names of I., and appears to have been omitted here by A. ↩︎ ↩︎

  514. The remaining portion of this verse, the followiong verse and the first of verse 3422 are no longer found in A, as the upper portion of fol. 327 has broken off; the text is given from R G. ↩︎ ↩︎

  515. Thus C; R पुत्रो – धिष्ठिरात्, corr. sec. manu as above; G पुत्राद्युधिष्ठिरात्. ↩︎ ↩︎

  516. Thus C R; G तद्वच्च विक्रमादित्य उर्वरीम्. ↩︎ ↩︎

  517. Thus C R; G ॰त्यश्चोदवहद्रणा॰. ↩︎ ↩︎

  518. Emended with R G; A ॰दित्यश्च नं॰. ↩︎ ↩︎

  519. Thus C; R G ॰पीडस्य; in A three aksharas after मुक्ता have become illegible. ↩︎ ↩︎

  520. Emended with C; A जज्जपुत्रावपि. ↩︎ ↩︎

  521. Emended with C; A ॰पीडज्येष्ठा॰. ↩︎ ↩︎

  522. Emended with C; A सम्मत्या॰. ↩︎ ↩︎

  523. Here ends the text of A at the foot of fol. 327 rev., the last of the MS. being lost. The text of the remaining verses is given from R G. ↩︎ ↩︎

  524. The last two are found in the above form in C; in R G they are added sec. manu, being probably copied from C. ↩︎ ↩︎

  525. Emended with C; R G निनाश्य॰. ↩︎ ↩︎

  526. Thus R G; cf. v. 287 ffg; C ततः पाथस्ततः क्रमात्. ↩︎ ↩︎

  527. These two and the first half of the following verse are omitted in C. ↩︎ ↩︎

  528. Thus R; G – – म्भे. ↩︎ ↩︎

  529. Thus C R (sec. manu); G R (prima manu) सोमगुप्तः. ↩︎ ↩︎

  530. Emended; R G CX निहिते. ↩︎ ↩︎

  531. Emended; R G राज्ये; C कृते । राज्ये. ↩︎ ↩︎

  532.  ↩︎