विश्वास-प्रस्तुतिः
यत्कृते क्रियते कर्म लोकान्तरसुखान्तकम् । 1001ab
स मूढैः सुलभापायः कायश्चित्रं न गण्यते ॥ 1001cd
मूलम्

कम्पनाधिपतिं सिम्बं कृत्वा डामरमण्डलम् । 1002ab
चकर्ष विजयक्षेत्रादन्यतोपि ततो नृपः ॥ 1002cd

शमालां प्रययौ पृथ्वीहरो मडवराज्यतः । 1003ab
विजित्य मल्लकोष्ठेन1 त्याजितो निजमण्डलम् ॥ 1003cd

क्षिप्ताः केचिद्वितस्तायां केचिच्चक्रधराङ्गने । 1004ab
अक्रियन्ताग्निसात्क्रुष्टुमशक्या बहवः शवाः ॥ 1004cd

क्रमराज्येथ कल्याणवाडादीन्रिल्हणोजयत्23 । 1005ab
आनन्दोनन्तजस्तत्र ततो द्वाराधिपोभवत् ॥ 1005cd

शूले प्रमापितं सिंहं नयन्पृथ्वीहरो बली । 1006ab
सार्धं जनकसिंहाद्यैरयुध्यत्क्षिप्तिकातटे ॥ 1006cd

तीर्थं प्रस्थाप्यमानेषु विपन्नास्थिष्विहास्त्यहः । 1007ab
भाद्रे मास्येकमबलाक्रन्दिताक्रान्तदिक्पथम् ॥ 1007cd

हतवीराक्रान्दमुखरे4 नगरान्तरे । 1008ab
पृथ्वीहराहवे सर्वैर्दिवसैरन्वकारि तत् ॥ युग्मम्॥ 1008cd

अथायातो5 यशोराजस्यालः शूरो दिगन्तरात् । 1009ab
श्रीवको विदधे राज्ञा खेरीकार्याधिकारभाक् ॥ 1009cd

अप्रियं स लवन्यानां तेपि वा तस्य नाचरन् । 1010ab
कालं तु गूढसौहार्दैरन्योन्यस्यात्यवीवहन् ॥ 1010cd

पुनराश्वयुजे राजा शमालां निर्गतस्ततः । 1011ab
परैर्मनीमुषग्रामे युधि भङ्गमनीयत ॥ 1011cd

नित्याभ्यासेन युद्धानां लब्धोत्कर्षो न्यदर्शयत् । 1012ab
सर्ववीराग्रणीर्भिक्षुस्तत्पूर्वं तत्र विक्रमम् ॥ 1012cd

तुक्कद्विजादयो मुख्या भिक्षुपृथ्वीहरादिभिः । 1013ab
आसारापातविवशा निहताः सौस्सले बले ॥ 1013cd

प्रधानवीरभूयिष्ष्ठे सैन्यद्वन्द्वे न कोप्यभूत् । 1014ab
स वीरश्चरतः सङ्ख्ये भिक्षोरैक्षिष्ट यो मुखम् ॥ 1014cd

पृथ्वीहरस्य भिक्षोश्च सङ्ग्रामे भूरिवार्षिके । 1015ab
कादम्बरीपताकाख्ये द्वे अश्वे पीतपाण्डुरे ॥ 1015cd

अस्तामत्यद्भुते याभ्यामनेकतुरगक्षये । 1016ab
न विपन्नं प्रहृतिभिर्नान्वभाव्यथ वा क्लमः ॥ 1016cd

सैन्यानां सङ्कटे त्राणमश्रान्तिरविकत्थनः । 1017ab
अभूत्क्लेशसहो वीरो नान्यो भिक्षाचरात्क्वचित् ॥ 1017cd

योधानां सौस्सले सैन्ये विद्रवेषु न कश्चन । 1018ab
त्राणं बभूव तेनैते बहवो बहुधा हताः ॥ 1018cd

नवेषु डामरानीकाः केचिद्भङ्गेषु सैनिकाः । 1019ab
भिक्षाचरगजेन्द्रेण कलभा इव पालिताः ॥ 1019cd

नान्यस्योत्थानशीलत्वं दृष्टं पृथ्वीहरात्तदा । 1020ab
स्वयं यो भैक्षवे द्वारे जजागार प्रतिक्षपम् ॥ 1020cd

ततः प्रभृत्यभूद्गोप्ता पुरः पश्चाच्च सर्वदा । 1021ab
विश्वेदेव इव श्राद्धे युद्धे भिक्षुर्महाभटः ॥ 1021cd

आहवे साहसं कुर्वन्सर्वतः सोभ्यधान्निजान् । 1022ab
एवमस्खलितस्थैर्यमुपपत्तिमसन्त्यजन् ॥ 1022cd

न मे राज्याय यत्नोयं पर्याप्तं दुर्यशः पुनः । 1023ab
कृत्ये प्रसक्तुं पूर्वेषां व्यवसायं व्यपोहितुम् ॥ 1023cd

अनाथा इव ते नाथा विशां व्यापादनक्षणे । 1024ab
ज्ञात्वा नष्टं कुलं नाथवद्भ्यो नूनं स्पृहां दधुः ॥ 1024cd

[page 205]
विश्वास-प्रस्तुतिः
इति मत्वा सोढकष्टश्चेष्टे6 सुदृढनिश्चयः । 1025ab
दूयमानोस्मि दायाददुःखदायी दिने दिने ॥ 1025cd

नास्त्येवाप्राप्तकालस्य7 विपत्तिरिति जानतः । 1026ab
कस्य साहसवैमुख्यमुत्पद्येत यशोर्थिनः ॥ 1026cd

किं कार्यगतिकौटिल्यैरुक्तैस्तान्यथ वा कथम् । 1027ab
न वदामः प्रतिज्ञाय स्वयमार्षेध्वनि स्थितिम् ॥ 1027cd

सोत्कर्षपौरुषाद्भिक्षोरशङ्किषत डामराः । 1028ab
ततो दायादविच्छेदं नास्याकृषत जातु चित् ॥ 1028cd

प्राग्राज्याधिगमाद्राज्ञामन्येषां राजवीजिनः । 1029ab
चिन्तयन्तो व्यवहृतिं व्युत्पद्यन्ते शनैः शनैः ॥ 1029cd

पितुः पितामहस्याथ न दृष्टं तेन किञ्चन । 1030ab
अत एवाभजन्मोहं राज्यं सम्प्राप्तवान्पुरा ॥ 1030cd

तत्स भूयोपि चेदप्स्यत्कैव[^1031-1] वार्ता विपाटने । 1031ab
सापेक्षं वीक्षितुं जाने न दैवेनाप्यशक्यत ॥ चक्कलकम्॥ 1031cd

जानंल्लवन्यकौटिल्यं प्रमादात्स हतेहिते । 1032ab
प्राप्नुयां राज्यमित्याशां बद्ध्वाहान्यत्यवाहयत् ॥ 1032cd

दस्यूनां सुस्सलो राजा मेने तस्स्वहितं मतम् । 1033ab
जिगीषुर्नीतिविक्रान्त्योः8 प्रयुक्तौ लिप्सुरन्तरम्8 ॥ 1033cd

युद्धे स्वान्स स्मरन्वैरं नापासीत्तेन तेभजन् । 1034ab
नास्मिन्विश्वासमेतस्माद्धेतोर्नास्याभवज्जयः ॥ 1034cd

इत्थं नानामतैः पक्षप्रतिपक्षैरुपेक्षितम् । 1035ab
राष्ट्रं निखिलमेवागात्सर्वतः शोचनीयताम् ॥ 1035cd

यत्सम्बन्धाद्विटपिनिवहैर्निग्रहव्यग्रवन्यव्याधप्रत्तानलपरिभवः कोपि निन्वन्वभावि । 1036ab
हा धिग्दन्ती विघटनपरः सोपि माद्यन्नमीषां लभ्यं श्रेयो विधिविधुरतैर्नान्यतो न स्वतोपि ॥ 1036cd

द्वैराज्ये प्रभवत्येवमकाण्डपतितैर्हिमैः । 1037ab
विवशं सुस्सलक्ष्माभृदजयद्भैक्षवं बलम् ॥ 1037cd

पुष्याणनाडं9 भूयोपि भिक्षुपृथ्वीहरौ गतौ । 1038ab
अन्यैर्लवन्यैर्भूभर्तुर्नतिर्दत्तकरैः कृता ॥ 1038cd

सिम्बोपि कम्पनाधीशो व्यधाद्विजितडामरः । 1039ab
सर्वां मडवराज्योर्वी वीरः शमितविप्लवाम् ॥ 1039cd

तावत्यापि विपक्षाणां शान्त्या शीतलतां गतः । 1040ab
पूर्ववैरं स्वपक्ष्याणां प्रादुश्चक्रेथ भूपतिः ॥ 1040cd

जिघांसौ कथिते राज्यन्युल्हणेन पलायितः । 1041ab
मल्लकोष्ठः सोपि कोपाद्राज्ञा राष्ट्रात्प्रवासितः ॥ 1041cd

अनन्तात्मजमानन्दं बद्ध्वा द्वाराधिकारिणम् । 1042ab
व्यधत्त सैन्धवं प्रज्जिनामानं राजबीजिनम् ॥ 1042cd

गतोथ विजयक्षेत्रं सिम्बेन सहितोविशत् । 1043ab
नगरं तं च विश्वस्तं बद्ध्वा कारागृहेक्षिपत् ॥ 1043cd

अनुस्मृतिमहावात्याप्रेरितोमर्षपावकः । 1044ab
आचचाम क्षमावारि तस्य भृत्यान्दिधक्षतः ॥ 1044cd

सिंहथक्कनसिंहाभ्यामनुजाभ्यां सहावधीत् । 1045ab
शूलेधिरोप्य सिम्बं स रोषावेशविलुप्तधीः ॥ 1045cd

कम्पने श्रीवकं चक्रे सुज्जिं प्रज्जेः सहोदरम् । 1046ab
बद्ध्वा जनकसिंहं च राजस्थाने न्ययोजयत् ॥ 1046cd

आप्ताश्च मन्त्रिणश्चासंस्तस्य वैदेशिकास्ततः । 1047ab
स्वदेशजस्तु सोभूद्यो लोहरस्थं तमन्वगात् ॥ 1047cd

अथ सर्वेपि साशङ्कास्तं त्यक्त्वाध्यश्रयन्रिपून् । 1048ab
शतैकीयः कश्चिदासीद्राजधान्यां नृपाश्रितः ॥ 1048cd

तेनाप्रतिसमाधेयो भूयः शान्तेप्युपद्रवे । 1049ab
इत्थमुत्थापितोनर्थो न पुनर्यः शमं ययौ ॥ 1049cd

एकाक्षेपे परेपि स्युर्यत्र भृत्या विशङ्किताः । 1050ab
तत्रापराधे प्राज्ञस्य राज्ञोवज्ञैव शस्यते ॥ 1050cd

माघेथ मल्लकोष्टाद्यैराहूताः10 पुनराययुः । 1051ab
ते शूरपुरमार्गेण भिक्षुपृथ्वीहरादयः ॥ 1051cd

वितस्तापरिखाक्षिप्ता भूरगम्या द्विषामियम् । 1052ab
इति प्रायान्नवमठं त्यक्त्वा राजगृहं नृपः ॥ 1052cd

[page 206]
विश्वास-प्रस्तुतिः
वर्षेष्टानवर्ते चैत्रे डामरेषु युयुत्सुषु । 1053ab
अभ्येत्य मल्लकोष्ठेन प्रागेवाग्राहि सङ्गरः ॥ 1053cd

सोश्ववारैः सह रणं चकार नगरान्तरे । 1054ab
नृपावरोधैः सौधाग्रादालोकितमथाकुलैः ॥ 1054cd

भिक्षुणा क्षिप्तिकारीरे स्कन्दावारं न्यबध्यत । 1055ab
…………………………………………11 ॥ 1055cd

नृपोद्यानाद्द्रुमान्निन्युरिन्धनाय महानसे । 1056ab
दूर्वाङ्कुरान्मन्दुराभ्यो वाहभोज्याय डामराः ॥ 1056cd

पृथ्वीहरस्तु सङ्गृह्णन्दस्यून्मडवराज्यजान् । 1057ab
चकार विजयक्षेत्रे यावत्कटकसङ्ग्रहम् ॥ 1057cd

तावत्प्रज्जिमुखान्मल्लकोष्ठयुद्धाय भूपतिः । 1058ab
आदिश्यादादवस्कन्दं12 वैशाखे साहसोन्मुखः ॥ 1058cd

अकस्मात्पतिते तस्मिन्हतावष्टम्भविक्षताः13 । 1059ab
प्रययुः सेतुमुल्लङ्घ्य जीवाश्वस्ताः कथञ्चन ॥ 1059cd

नगरं मल्लकोष्ठाजिव्यग्रे प्रज्जावथाविशत् । 1060ab
पृथ्वीहरानुजः सुज्जिं निर्जित्य मनुजेश्वरः ॥ 1060cd

परं पारं वितस्तायां सेतुच्छेदादनाप्नुवन् । 1061ab
अर्वाचि तीरे स गृहान्दग्ध्वागात्क्षिप्तिकां14 ततः ॥ 1061cd

लवन्यैर्नगरं प्राप्तं मत्वा सुस्सलभूपतिः । 1062ab
आययौ विजयक्षेत्रात्सैन्यमुत्थाप्य विह्वलः ॥ 1062cd

अहम्पूर्विकयारातिशङ्कार्तैश्च निजैर्बलैः । 1063ab
पीडितस्तस्य गम्भीरासिन्धुसेतुरभज्यत ॥ 1063cd

स कृष्णषष्ट्यां ज्यैष्ठस्य तस्यासङ्ख्यश्चमूचयः । 1064ab
यथाग्निना चक्रधरे तथा तत्राम्भसा मृतः ॥ 1064cd

भुजमुद्यम्य शमयन्सैन्यानां सम्भ्रमं नृपः । 1065ab
त्रस्तैर्भ्रष्टैस्तथा पृष्ठे पतितः सरिदन्तरे ॥ 1065cd

अनभ्यस्ताम्बुतरणैराश्लोष्य व्रुषितोसकृत् । 1066ab
तरदायुधविद्धाङ्गः स निस्तीर्णः कथञ्चन ॥ 1066cd

अनुत्तीर्णं बलं त्यक्त्वा पारे सामन्तसङ्कुलम् । 1067ab
सहस्रांशेन सैन्यस्य तीर्णेनानुगतो ययौ ॥ 1067cd

सन्त्यक्तानन्तसैन्योपि सोवष्टम्भमयो नृपः । 1068ab
प्रविश्य नगरं मल्लकोष्ठमुख्यान्रणेग्रहीत् ॥ 1068cd

विजयस्याथ जननी सिल्लाख्या स्वामिनोज्झितम् । 1069ab
निनाय देवसरसं सैन्यं तद्विजयेश्वरात् ॥ 1069cd

साथ पृथ्वीहरेणैत्य हता तत्रोपवेशने । 1070ab
टिक्कश्च दत्तो भूपालसैन्यं विद्रावितं च तत् ॥ 1070cd

परं व्यायामविद्याविद्विद्रुते निखिले बले । 1071ab
द्विजः कल्याणराजाख्यः समरेभिमुखो हतः ॥ 1071cd

मन्त्रिडामरसामन्तसङ्कुलात्सौस्सलाद्बलात् । 1072ab
पृथ्वीहरेणागृह्यन्त बद्ध्वा वृन्दानि शस्त्रिणाम् ॥ 1072cd

अन्वगात्स वितस्तान्तं यावत्तान्विद्रुतान्बलात् । 1073ab
ओजानन्दद्विजादींश्च बद्ध्वा शूले व्यपादयत् ॥ 1073cd

मन्त्रिणो जनकश्रीवकाद्या राजात्मजास्तथा । 1074ab
तीर्त्वाद्रिं विषलाटायां शरणं प्रययुः खशान् ॥ 1074cd

इत्थं पृथ्वीहरो लब्धजयः सङ्गृह्य डामरान् । 1075ab
जिगीर्षुर्भिक्षुणा साकं नगरोपान्तमाययौ ॥ 1075cd

भूयोपि मानुषाश्वौघसंहर्ता सर्वतस्ततः । 1076ab
रणः प्रववृते प्राग्वत्पुरे रुद्धस्य भूपतेः ॥ 1076cd

निर्निरोधः पथानेन नृपावसथ इथभूत् । 1077ab
सैन्ये मडवराज्यानां स्वयं पृथ्वीहरोग्रणीः ॥ 1077cd

तत्तत्सामन्तकुलजैर्वीरैः काश्मीरकैर्भटैः । 1078ab
समेतं डामरकुलं दुर्जयं सर्वतोभवत् ॥ 1078cd

काश्मीरकाः शोभकाद्याः काकवंश्याः सहस्रशः । 1079ab
प्रख्याता भैक्षवे पक्षे रत्नाद्याश्चापरेस्फुरन् ॥ 1079cd

नदतः स्वबलाद्वाद्यं तुमुलं शृण्वतोमिषत् । 1080ab
पृथ्वीहरेणागण्यन्त वाद्यभाण्डानि कौतुकात् ॥ 1080cd

हित्वा भूर्यथ तूर्यादि परिच्छेत्तुं स कौतुकी । 1081ab
श्वपाकदुन्दुभीभाण्डशतानि द्वादशाशकत् ॥ 1081cd

[page 207]
विश्वास-प्रस्तुतिः
तथा विनष्टसैन्योपि त्रिंशद्विंशैर्नृपात्मजैः । 1082ab
मितैः स्वदेशजैश्चारीन्प्रतिजग्राह सुस्सलः ॥ 1082cd

राजन्याविच्छटिकुलोद्भूतावुदयधान्यकौ । 1083ab
चम्पावल्लापुराधीशावुदयब्रह्मजज्जलौ ॥ 1083cd

ओजो15 मल्हणहंसानां धुर्यो हरिहडौकसः । 1084ab
क्षत्रिकाभिञ्जिकास्थानसव्यराजादयस्तथा ॥ 1084cd

बिडालपुत्रा नीलाद्या भावुकान्वयसम्भवाः । 1085ab
रामपालः सहजिको युवा तस्य च नन्दनः ॥ 1085cd

नानावंश्याः परेप्युग्रसङ्ग्रामव्यग्रताजुषः । 1086ab
पुरोपरोधसन्नद्धानरुन्धन्सर्वतो रिपून् ॥ 1086cd

तनूजनिर्विशेषेन रिल्हणेन महीभुजः । 1087ab
रणाग्रेसरताग्राहि विजयाद्यैश्च सादिभिः ॥ 1087cd

स्वयमुद्यमिना राज्ञा वर्मणेव निजौ भुजौ । 1088ab
सुज्जिप्रज्जी पाल्यमानावभूतां रणकर्मठौ ॥ 1088cd

ताभ्यां साधारणीकुर्वन्राज्योत्पत्तिं महीपतिः । 1089ab
स महाव्यसने तस्मिन्सम्यगूढधुरोभवत् ॥ 1089cd

तत्पक्षा भागिकशरद्भासिमुम्मुनिमुङ्गटाः[^1090-1] । 1090ab
कलशाद्याश्च कुशला विपक्षक्षोभणेभवन् ॥ 1090cd

भूभर्तुष्टक्कविषये लवराजस्य नन्दनः । 1091ab
आसीत्कमलियश्चाल्य सङ्ग्रामाग्रेसरः प्रभोः ॥ 1091cd

प्रहारं बलिनस्तस्य चामरध्ग्वजशोभिनः । 1092ab
प्रभिन्नस्येव नागस्य हयारोहा न सेहिरे ॥ 1092cd

अनुजः सङ्गिकः पृथ्वीपालो भ्रातुः सुतोस्य च । 1093ab
पाञ्चालाः16 फल्गुनस्येव17 पार्श्वरक्षित्वमाययुः ॥ 1093cd

एतावद्भिर्भृत्यरत्नै राष्ट्रेपि कुपितेजयत् । 1094ab
भूरिस्वर्णार्पणोपात्तैर्वाजिभिश्च महीपतिः ॥ 1094cd

तत्र तत्राहवे सोपि बभ्रामासम्भ्रमो नृपः । 1095ab
उत्सवे गृहमेधीव मण्डपे मण्डपे स्वयम् ॥ 1095cd

तस्य हि व्यसनं त्रासहेतुः प्राभूदुपक्रमे । 1096ab
प्रवृद्धिं प्राप्तमभवद्धैर्यादाय्यथ धीमतः ॥ 1096cd

क्लैव्यकृद्भयमापाते मध्यपाते न तादृशम् । 1097ab
करक्षिप्तं यथा शीतं मज्जने न तथा पयः ॥ 1097cd

वैरिसैन्यतमो यत्र यत्र ज्योत्स्नेव निर्ययौ । 1098ab
सितासिता च भूभर्तुस्तत्र तत्रास्य वाहिनी ॥ 1098cd

एकदा कृतसङ्केतास्तुल्यमाहवमेलके । 1099ab
महासरितमुत्तीर्य डामरा नगरेपतन् ॥ 1099cd

असीमनगरस्थानविभ्जक्तकटको नृपः । 1100ab
परिमेयाश्ववारस्तान्विशतः स्वयमाद्रवत् ॥ 1100cd

नाभजड्डामरानीकस्तेन विद्रावितो धृतिम् । 1101ab
हेमन्तमरुता कीर्णपर्णराशिरिवेरितः ॥ 1101cd

त्र्यानन्दः काककुलजो लोष्टशाह्यनलादयः । 1102ab
अन्ये च डामरानीके ख्याता भूभृद्भटैर्हताः ॥ 1102cd

लग्नाभिघातानानीताaन्राज्ञः क्रूरस्य दृक्पथम् । 1103ab
बहून्निजघ्नुश्चण्डाला इव राजोपजीविनः ॥ 1103cd

भयाद्गोपाद्रिमारूढा अपरे भैक्षवास्ततः । 1104ab
आसन्नमृत्यवोभूवन्कटकैर्वेष्टिता द्विषाम्18 ॥ 1104cd

यो मार्गो दुर्गमः पत्रिणोपि त्रातुं ततः स तान् । 1105ab
तत्र व्यापारयामास भिक्षुर्मानी तुरङ्गमान् ॥ 1105cd

कथञ्चित्पत्रिणा विद्धग्रीवस्तस्याग्रहीन्मुहुः । 1106ab
पार्श्वे पृथ्वीहरो रूढिं द्वित्राश्चान्ये महाभटाः ॥ 1106cd

वेलाद्रिभिरिवोद्वृत्तैः सिन्धौ तैर्द्विषतां बले । 1107ab
रुद्धे गोपाचलं त्यक्त्वा तेन्यानारुरुहुर्गिरीन् ॥ 1107cd

अथोदतिष्ठद्वामेन19 राजनीकस्य वाहिनी । 1108ab
मल्लकोष्ठस्य पत्त्यश्वक्षोभिताशेषदिक्तटा ॥ 1108cd

अरिपृष्ठग्रहव्यग्रैस्तिष्ठन्स्वैर्वर्जितो बलैः । 1109ab
तदाज्ञाय्यखिलैरेष हतो राजेत्यसंशयम् ॥ 1109cd

आपातं सुस्सलो राजा यावत्तस्याविसोढवान् । 1110ab
तावत्सावरजः प्रज्जिराजगाम20 रणाङ्गनम् ॥ 1110cd

[page 208]
विश्वास-प्रस्तुतिः
आषाढबहुलाष्टम्यां स हयारोहमेलकः । 1111ab
निजशस्त्रध्वनिपत्तसाधुवादो महानभूत् ॥ 1111cd

ताभ्यां स शमिते युद्धे ससूनुः ससमीरणः । 1112ab
दावो नभोनभस्याभ्यामिव प्रापाम्बुवृष्टिभिः21 ॥ 1112cd

सङ्ग्रामबहले काले तादृगन्यो न कोप्यभूत् । 1113ab
यादृक्स दिवसो वीर्यशौटीर्यनिकषोपलः ॥ 1113cd

अनीकिनी लाहरी सा विलम्बेनाययाविति22 । 1114ab
तेषामुत्पाटनेच्छूनां नाभवद्घस्तमेलकः ॥ 1114cd

अन्योन्यस्य परिज्ञाता दिवसे तत्र सङ्कटे । 1115ab
भिक्षोर्भूमिभृता शक्तिर्भूमिभर्तुश्च भिक्षुणा ॥ 1115cd

ततो मडवराज्यांस्त्तान्योद्धुं तत्रैव निदर्शन् । 1116ab
क्षिप्तिकारोधसा युद्धमेत्य पृथ्वीहरोग्रहीत् ॥ 1116cd

दिगन्तरादयायातो यशोराजो महीभुजा । 1117ab
मण्डलेश्वरतां निन्ये रिपून्प्रतिजिहीर्षुणा ॥ 1117cd

खेरीकार्ये पुरा तस्य लवन्या वृष्टविक्रमाः । 1118ab
रणेषु मुखमालोक्य शतशः प्रचकम्पिरे ॥ 1118cd

कुङ्कुमालेपनच्छत्त्रहयादिप्रतिपत्तिदः । 1119ab
सर्वेषामभिनन्द्यत्वं तं राजा स्वमिवानयत् ॥ 1119cd

दीर्घोपप्लवयाप्येन दुःस्थितः स्वास्थ्यलिप्सया । 1120ab
जनो बबन्ध तत्रास्थां नववैद्य इवातुरः ॥ 1120cd

ज्यायांसं पञ्चचन्द्राख्यं शेषाणां गर्गजन्मनाम् । 1121ab
नृपतिर्मल्लकोष्ठस्य प्रातिपक्ष्ये23 न्ययोजयत् ॥ 1121cd

शिशुश्हुडाख्यया मात्रा पालितः स शनैः शनैः । 1122ab
आश्रीयमाणोनुचरैः पित्र्यैः किञ्चित्प्रथां ययौ ॥ 1122cd

यशोराजानुयातेन राञ्जा जन्येषु निर्जिताः । 1123ab
केचित्तत्पक्षमभजन्भग्नाः24 केचिच्च डामराः ॥ 1123cd

सभिक्षुः प्रययौ पृथ्वीहरः स्वमुपवेशनम् । 1124ab
मल्लकोष्ठोन्मुखो राजा निर्जगामामरेश्वरम् ॥ 1124cd

अत्रान्तरे मल्लकोष्ठो विसृज्य निशि तस्करान् । 1125ab
सदाशिवान्तिके शून्यां राजधानीमदाहयत् ॥ 1125cd

पृथ्वीहरेण भूयोपि योद्धुमागच्छतासकृत् । 1126ab
प्रज्जिसुज्जमुखा युद्धमकुर्वन्क्षिप्तिकातटे ॥ 1126cd

वारं वारं लवन्यः स नगरे निर्दहन्गृहान् । 1127ab
प्रायः शून्यत्वमनयद्वितस्तातीरमुत्तमम् ॥ 1127cd

तत्र तत्र रणान्कुर्वन्प्राणसन्देहदायिनः । 1128ab
आचक्रामाथ नृपतिर्लहरं बहलैर्बलैः ॥ 1128cd

निःसेतुम् तरतः सिन्धुं वृत्तिभङ्गाद्ययुर्जले । 1129ab
मन्दिरं कन्दराजाद्यास्तदीयाः समवर्तिनः ॥ 1129cd

दरद्देशं ययौ मल्लकोष्ठो राज्ञा निराकृतः । 1130ab
सपुत्राप्यभजच्छुड्डा प्रारोहं लहरान्तरे ॥ 1130cd

आनिन्यिरे ज्यय्यकेन लवन्येन नृपान्तिकम् । 1131ab
विषलाटान्तरात्तेथ जनकश्रीवकादयः ॥ 1131cd

लहरारब्ध्यतिक्रान्तनिदाघः शरदागमे । 1132ab
शमालां निर्ययौ राजा यशोराजान्वितस्ततः ॥ 1132cd

भग्नं पृथ्वीहरत्रासात्सैन्यं रक्षन्मनीमुषे । 1133ab
आजौ सज्जात्मजो डोम्बनामा राजसुतो हतः ॥ 1133cd

युद्धं सुवर्णसानूरग्रामशूरपुरादिषु । 1134ab
कुर्वञ्शश्वन्नृपः प्राप पर्यायेण जयाजयौ ॥ 1134cd

श्रीकल्याणपुराद्भङ्गं नीते पृथ्वीहरादिभिः । 1135ab
श्रीवके नागवट्टाद्या युधि प्रापुः प्रमापणम् ॥ 1135cd

पौषे सुवर्णसानूरानिहन्तुं मातुरन्तकम्25 । 1136ab
टिक्कं स देवसरसं व्यसृजद्गर्गवल्लभाम् ॥ 1136cd

स्वेन राज्ञश्च सैन्येन सहिता सा जिताहिता । 1137ab
अकस्मात्तत्र टिक्केन निपत्य निहता युधि ॥ 1137cd

स स्त्रीवधं व्यधात्पाती द्वितीयमपि26 निर्घृणः । 1138ab
विशेषः कोथ वातिर्यङ्म्लेच्छतस्कररक्षसाम् ॥ 1138cd

अबलां स्वामिनीं हन्यमानां त्यक्त्वा पलायिताः27 । 1139ab
चित्रं पशूपमाः शस्त्रं स्वीचक्रुर्लाहराः पुनः ॥ 1139cd

[page 209]
विश्वास-प्रस्तुतिः
ईषत्प्रगागतं शय्यां भूय एवोल्वणं नृपः । 1140ab
ज्ञात्वा मडवराज्यं स प्रययौ विजयेश्वरम् ॥ 1140cd

मल्लराजतनूजानां निजा जिह्वैव दुर्जना । 1141ab
बभूव प्रभविष्णुत्वे व्यापदापातदूतिका ॥ 1141cd

प्रायश्चाद्यतने काले भृत्यास्तितउवृत्तयः । 1142ab
दर्शयन्ति समुत्सार्य सारं दोषतुषग्रहम् ॥ 1142cd

आ बाल्यात्संस्तुताश्लीलवचःपरुषभाषितैः । 1143ab
निर्गौरवैर्यशोराजो राज्ञि तस्मिन्व्यरज्यत ॥ 1143cd

स दुर्जातिर्महासैन्ययुतोवन्तिपुरस्थितः । 1144ab
अभजत्तत उत्थाय प्रतिपक्षसम्प्रश्रयम् ॥ 1144cd

वैरिपक्षगते तस्मिन्बलैः सर्वोत्तमैः समम् । 1145ab
विह्वलो विजयक्षेत्रात्पलायिष्ट महीपतिः ॥ 1145cd

धिग्राज्यं यत्कृते सोपि सेहे प्राणान्निरक्षिषु । 1146ab
मुष्णाद्भिश्चौरचण्डालप्रायैः परिभवं पथि ॥ 1146cd

माघे पलाय्य नगरं प्रविष्टः स वयाभिधे । 1147ab
भृत्ये द्रोग्धर्यशङ्किष्ट स्वेषामपि तनूरुहाम् ॥ 1147cd

काश्मीरके28 जनेशेषे निराशो29 नितरां ततः । 1148ab
अङ्कन्यस्तोत्तमाङ्गोभूत्प्रज्जिपक्षे क्षमापतिः ॥ 1148cd

मुद्रिता रुद्रपालादिपूर्वराजात्मजप्रथा । 1149ab
प्रज्जिना विक्रमत्यागनयाद्रोहादिभिर्गुणैः ॥ 1149cd

तेनैव वर्धितामुत्र देशे विशदकीर्तिना । 1150ab
कालदौरात्म्यलुठिता प्रतिष्ठा शस्त्रशास्त्रयोः ॥ 1150cd

अमन्त्रयत सङ्गम्य यशोराजस्तु भिक्षुणा । 1151ab
नेच्छन्ति डामरा राज्यं तव विक्रमशङ्किताः ॥ 1151cd

उत्पाद्य पुनरुत्पिञ्जं साधिष्ठानबला वयम् । 1152ab
राज्यं स्वयं ग्रहीष्यामो यास्यामो वा दिगन्तरम् ॥ 1152cd

इति तैर्मन्त्रिते छुड्डां30 हतां श्रुत्वा दरत्पुरात् । 1153ab
आगत्य मल्लकोष्ठोपि प्राविशत्स्वोपवेशनम् ॥ 1153cd

वर्षोथ दुस्तरः ख्यात एकान्नशतसङ्ख्यया । 1154ab
सर्वभूतान्तकृल्लोके प्रावर्तत सुदारुणः ॥ 1154cd

वसन्ते डामराः सर्वे प्राम्वन्मार्गैर्निजैर्निजैः । 1155ab
आगत्य भूयो भूपालं नगरस्थमवेष्ठयन् ॥ 1155cd

धीरः सुस्सलदेवोपि पुनरासीद्दिवानिशम् । 1156ab
निःसीमसमरस्तोमारम्भसंरम्भभाजनम् ॥ 1156cd

दाहलुण्ठनसङ्ग्रामकर्मशौण्डैः स डामरैः । 1157ab
प्राग्विप्लवेभ्योप्यधिको विप्लवः पर्यवधत31 ॥ 1157cd

महासरित्पथे निर्निरोधे तस्थुर्विविक्षवः । 1158ab
नगरं ते यशोराजभिक्षुपृथ्वीहरादयः ॥ 1158cd

ततः कतिषुचिद्युद्धाहेषु यातेषु सङ्गरे । 1159ab
निजेनैव यशोराजः परकीयभ्रमाद्धतः ॥ 1159cd

कय्यात्मजेन हि समं विजयाख्येन सादिना । 1160ab
सौस्सलेन तु सङ्ग्रामे परावृत्तीः प्रदर्शयन् ॥ 1160cd

विप्रलब्धैः सवर्णाश्वकवचावेक्षणान्निजैः । 1161ab
शूलायुधिभिरुद्दामैः शूलाघातैरहन्यत ॥ 1161cd

भिक्षो राज्यं समर्थोयं दातुं हन्तुं ततश्च नः । 1162ab
भीत्या तैर्डामरैरेव स घातित इति श्रुतिः ॥ 1162cd

यथैव तेन विश्वस्तः स्वामी द्रोहेण वञ्चितः । 1163ab
तथैव प्राप विश्वस्तः क्षिप्रमेव वधं मृधे ॥ 1163cd

पृथ्वीहरस्तत्र तत्र योधयित्वाथ डामरान् । 1164ab
क्षिप्तिकारोधसा भूयोभ्येत्य सङ्ग्राममग्रहीत् ॥ 1164cd

तत्रादिष्ठानयोधानां भिक्षुप्रक्षोपजीविनाम् । 1165ab
पौरुषं स्वपरोत्कर्षपरिभावि व्यभाव्यत ॥ 1165cd

वह्निदानमहायोधसंहाराद्यैरुपद्रवैः । 1166ab
एकमेकमहस्तत्रानेहस्यासीद्भयावहम् ॥ 1166cd

अतपत्तरणिस्तीक्ष्णमभीक्ष्णं भूरकम्पत । 1167ab
ववुर्द्रुमाद्रीन्भञ्जन्तो महोत्पातप्रभञ्जनाः ॥ 1167cd

पवनोत्थापितैः पांसुकूटैर्दध्रे मदोद्धतैः32 । 1168ab
व्योम्नि प्रोत्तम्भनस्तस्म्भभङ्गिर्निर्घातदारिते ॥ 1168cd

[page 210]
विश्वास-प्रस्तुतिः
ज्यैष्ठस्य शुक्लैकादश्यां प्रवृत्तेथ महारणे । 1169ab
काष्ठीले डामरा वह्निमेकस्मिन्प्रददुर्गृहे ॥ 1169cd

सोग्निर्वा मारुतोद्भूतः प्रसरन्वैद्युतोथ वा । 1170ab
जज्वालैकपदे कृत्स्नं नगरं निरवग्रहः ॥ 1170cd

दृष्टस्तदानीमेतावद्गजव्यूह इवापतन्[^1171-1] । 1171ab
माक्षिकस्वामिनो धूमो बृहत्सेतौ यदुत्थितः ॥ 1171cd

अथेन्द्रदेवीभवनविहारं सहसागमत् । 1172ab
ततो नगरमुज्ज्वालं क्षणात्सर्वमदृश्यत ॥ 1172cd

न भूमिर्न दिशो न द्यौर्धूमध्वान्ते व्यभाव्यत । 1173ab
हुडुक्कामुखचर्माभो दृश्यादृश्ययोभवद्रविः ॥ 1173cd

धूमान्धकारसञ्च्छन्नास्ततः प्रज्वलताग्निना । 1174ab
अपुनर्दर्शनायेव मुहुराविष्कृता गृहाः ॥ 1174cd

वितस्तादृश्यतोज्ज्वालवेश्माश्लिष्टतटद्वया । 1175ab
रक्ताक्तोभयधारेव कृतान्तस्यासिवल्लरी ॥ 1175cd

ब्रह्माण्डोर्ध्वकवाटान्तसंस्पर्शात्पतितोन्नतैः । 1176ab
ज्वालाकलापैः संवृद्धैर्हेमच्छत्त्रवनायितम् ॥ 1176cd

उच्चावचैर्युतो ज्वालाशृङ्गैर्हेमाद्रिसन्निभः । 1177ab
वह्निर्धूमच्छलान्मूर्ध्नि बभाराम्बुधरावलिम् ॥ 1177cd

आविर्भवन्तो33 ज्वालाभ्यो गृहाश्चक्रुर्मुहुर्मुहुः । 1178ab
अदग्धा एत33 इत्याशां विमुग्धगृहमेधिनाम् ॥ 1178cd

ज्वलितैस्तापितजला34 वितस्ता पतितैर्गृहैः । 1179ab
और्वोष्मवेदनाक्लेशं विवेद सरितां प्रभोः ॥ 1179cd

दीप्तपक्षैः खगैः साकं ज्वलिता बालपल्लवाः । 1180ab
उद्यानद्रुमषण्डानां व्योमोड्डयनमादधुः ॥ 1180cd

सुधासिताः सुरगृहा ज्वालासंवलिता व्यधुः । 1181ab
क्षयसन्ध्याम्बुदाश्लिष्टहिमाद्रिशिखरभ्रमम् ॥ 1181cd

मज्जनावासनौसेतुकदम्बैः प्लोषशङ्कया । 1182ab
अपास्तैर्नगरस्यान्तर्ययुर्नद्योपि शून्यताम् ॥ 1182cd

किमन्यन्मठदेवौकोगृहाट्टादिविवर्जितम् । 1183ab
नगरं क्षणमात्रेण दग्धारण्यमजायत ॥ 1183cd

लोष्टावशेषे नगरे धूमश्यामो निरास्पदः । 1184ab
उच्चैरेको बृहद्बुद्धो दृष्टो दग्धद्रुमोपमः ॥ 1184cd

सैन्येषु ज्वलितावासत्राणाय चलितेष्वथ । 1185ab
शतमात्रेण योधानां युतो भूभृदजायत ॥ 1185cd

पारं गन्तुं वितस्तायाश्छिन्नसेतुं तमक्षमम् । 1186ab
लब्धरन्ध्रा द्विषोनन्ता निहन्तुं पर्यवारयत ॥ 1186cd

पुरं दग्धं स्वमुत्सन्नं35 प्रजा नष्टाश्च चिन्तयन् । 1187ab
आसन्नं मरणं राजा निर्विण्णो वह्वमन्यत ॥ 1187cd

प्रस्थास्नुमथ तं प्रत्यङ्मुखमाशङ्क्य विद्रुतम् । 1188ab
सञ्ज्ञितोन्यैः कमलियः क्व देवेत्यब्रवीद्वचः ॥ 1188cd

संरम्भस्मितविद्योति चन्दनोल्लेखमाननम् । 1189ab
परिवर्त्य निरुद्धाश्वो धीरः स तमभाषत ॥ 1189cd

तदद्य करवै भूमेः कृते हम्मीरसङ्गरे । 1190ab
चकार राजा भिज्जो यत्सोभिमानी पितामहः ॥ 1190cd

कुतस्त्योप्येष[^1191-1] दायादो यद्भ्रातास्माकमस्मि वा । 1191ab
स हर्षदेवोपश्यन्नः कार्यशेषं पलायितः ॥ 1191cd

को नाम मानिनां पङ्क्तौ प्रविष्टोन्ते निजां भुवम् । 1192ab
असिक्तां स्वाङ्गरक्ताक्तां[^1192-1] व्याघ्रः कृत्तिमिवोज्झति ॥ 1192cd

इत्युक्त्वोदञ्चयन्वल्गामुत्क्षिप्ताग्रमुखं हयम् । 1193ab
संस्प्रष्टुमिच्छुः[^1193-1] पाणिभ्यां कृपाणमुदनामयत् ॥ 1193cd

ततो निगृह्य36 वल्गायां वाजिनं लवराजजः । 1194ab
ऊचे भृत्येषु सत्स्वग्रे प्रवेशार्हा न भूभुजः ॥ 1194cd

प्रहारविक्लवस्तिष्ठन्गृहादेकोभ्युपाययौ । 1195ab
सङ्कटे तत्र भूभर्तुः पृथ्वीपालोन्तिकं परम् ॥ 1195cd

कौलपुत्र्यं स्तुवंस्तस्य वात्सल्यादेष भूपतिः । 1196ab
स्वस्यात्तनिष्क्रयां37 मेने सेवाविष्कृत्युपक्रियाम् ॥ 1196cd

[page 211]
विश्वास-प्रस्तुतिः
अथ स्थितास्त्रिभिर्व्यूहैरहितास्तेकिरञ्शरान् । 1197ab
हन्तुं वामेन ते योधाः सर्वे वाहनदुर्मदाः[^1197-1] ॥ 1197cd

स प्रेरयंश्च तुरगं दैवात्तस्य च तादृशः । 1198ab
सहस्राण्यपि भूरीणि व्यधीयन्त विरोधिनाम्[^1198-1] ॥ 1198cd

अल्पसैन्यो द्विषत्खड्गमण्डलप्रतिबिम्बितः । 1199ab
नृपः साहायकायातविश्वरूपं इवाबभौ ॥ 1199cd

कलविङ्कानिव श्येनः कुरङ्गानिव केसरी । 1200ab
एको व्यद्रावयद्भूरीनरीन्सुस्सलभूपतिः ॥ 1200cd

निपत्य पत्तीन्रुन्धानान्खुराग्राण्यपि वाजिनाम् । 1201ab
प्राहरंस्ते हयारोहा व्यूहव्याहतरंहसः ॥ 1201cd

बिम्बितज्वलनज्वालाः सर्व एव महाभटाः । 1202ab
हन्तव्याश्च हताश्चासन्नस्रस्रोतोरुणा इव ॥ 1202cd

स द्विषां कदनं कृत्वा दिनस्यान्ते न्यवर्तत । 1203ab
बाष्पायमाणोस्तकाशं38 हव्याशेनोज्झितं पुरम् ॥ 1203cd

तादृशेप्यजिते तस्मिञ्जयाशागौरवं द्विषः । 1204ab
स चौज्झीद्रमणीयस्य विनाशाज्जीवितादरम् ॥ 1204cd

जाग्रन्स्वपंश्चलंस्तिष्ठन्स्नन्नश्नन्नथ सोरिभिः । 1205ab
निर्गच्छन्नित्यमाहूतो न कैरुद्बाष्पमीक्षतः ॥ 1205cd

वह्निर्दगग्धसर्वान्नसम्भारे मण्डलेखिले । 1206ab
दुःसहः सहसैवाथ घोरो दुर्भिक्ष आययौ ॥ 1206cd

दीर्घविप्लवसङ्क्षीणसञ्चया डामरैर्बहिः । 1207ab
उत्तब्धोत्पत्तयो रुद्धसञ्चारा दग्धमन्दिराः ॥ 1207cd

अनाप्नुवन्तो विधुरो राज्ञि राजकुलाद्धनम् । 1208ab
दुर्भिक्षे तत्र सामन्ता अपि क्षिप्रं विपेदिरे39 ॥ 1208cd

वह्निनिष्ठ्यूतशेषाणि वेश्मान्यन्नाभिलाषिभिः । 1209ab
बुभुक्षार्तैर्जनैर्दत्तो ददाहाग्निर्दिने दिने ॥ 1209cd

सरिताम् सेतवो वारिसंसेकोच्छूनविग्रहैः । 1210ab
दुर्गन्धाः कुणपै रुद्धघ्राणैस्तीर्णास्तदा जनैः ॥ 1210cd

निर्मासनरकङ्कालकपालशकलाकुला40 । 1211ab
उवाह सर्वतः श्वेता क्षितिः कापालिकव्रतम् ॥ 1211cd

कृच्छ्रसञ्चारिणोर्कांशुश्यामक्षामोच्चविग्रहाः । 1212ab
व्यभाव्यन्त बुभुक्षार्ता दग्धस्थाणुनिभा जनाः ॥ 1212cd

अथ प्रबन्धयुद्धेन दिनैह् क्वापीषुणा क्षतः । 1213ab
पृथ्वीहरो मृत इति श्रुतिर्मिथ्यैव पप्रथे ॥ 1213cd

गाढप्रहारविवशे तस्मिन्प्रच्छादिते जनैः । 1214ab
तां वार्तां श्रुतवान्राजा ननन्दायुद्ध चोद्धतम् ॥ 1214cd

धीरेव पुंश्चली व्याजौत्सुक्यसन्दर्शनेन तम् । 1215ab
जयश्रीर्लोभयन्त्यासीन्न तु भेजे समुत्सुकम् ॥ 1215cd

एकान्तवामहृदयो विधिरानुकूल्यं मिथ्या प्रदर्श्य विशिनष्ट्यनुबन्धि दुःखम् । 1216ab
अन्धीकरोति भृशमभ्रमगं ज्वलन्तं भास्वन्महौषधिभिदे प्रकटय्य वज्रम् ॥ 1216cd

दीर्घदुःखानुभूत्यन्ते यदीयागमनोत्सवम् । 1217ab
तपःफलमिव क्ष्माभृत्काङ्क्षन्नासीन्मनोरथैः ॥ 1217cd

वात्सल्येनान्वितं प्रेम गौरवेण प्रियं वचः । 1218ab
औचित्येन च दाक्षिण्यं सापत्यमिव या दधे ॥ 1218cd

तस्योपकरणीभूतविभूतिर्गृहिणी प्रिया । 1219ab
तस्मिन्काले महादेवी विपेदे मेघमञ्जरी ॥ तिलकम्॥41 1219cd

विनोदशून्यनिर्विण्णलोकयात्रं जगद्विदन् । 1220ab
प्राणै राज्येन वा कृत्यं न स किञ्चिन्निरैक्षत ॥ 1220cd

सा भर्तुर्व्यसनोदन्तैः कृशा काश्मीरसम्मुखी । 1221ab
औत्सुक्याद्दत्तयात्रासीच्छ्रान्ता फुल्लपुरान्तिके ॥ 1221cd

पूर्वं तद्दर्शनाशाया दुर्वार्तायास्ततोतिथिः । 1222ab
भवन्नतोधिकं राजा दुःखावेगेन पस्पृशे ॥ 1222cd

राज्ञीमज्ञातपारुष्यतयादूषितभक्तयः । 1223ab
अनुसस्रुश्चतस्रस्ताः परिवारवरस्त्रियः ॥ 1223cd

अप्रत्यक्षे क्षयेप्यस्या भक्त्युद्रिक्तत्वमत्यजन् । 1224ab
तेजो नामाभवत्सूदो वन्द्यो भृत्यान्तरेधिकम् ॥ 1224cd

स ह्यसन्निहितोन्यस्मिन्नह्न्यायातो निजं शिरः । 1225ab
तच्चिन्तोपान्तरूढेन भङ्क्त्वा ग्राव्णाविशन्नदीम् ॥ 1225cd

1197 – 1198.
–1) The text in these two verses appears to be corrupt or incomplete.
[page 212]
विश्वास-प्रस्तुतिः
आहवाह्वानसंरम्भैः शोकविस्मृतिकारिणः । 1226ab
राञ्जो द्विषः कार्यवशादुपकारित्वमाययुः ॥ 1226cd

स राज्यमथ निक्षेप्तुकामो निर्विण्णमानसः । 1227ab
व्युत्क्रान्तशैशवं पुत्रमानिन्ये लोहराचलात् ॥ 1227cd

मण्डलेश्वरतां प्रज्जेर्भ्रातृव्यं भागिकाभिधम् । 1228ab
नीत्वा च गुप्तिमकरोल्लेहरे कोशदेशयोः ॥ 1228cd

वराहमूलं सम्प्राप्तमग्रायातः प्रियं सुतम् । 1229ab
आश्लिष्य विषयो राजा बभूवानन्दशोकयोः ॥ 1229cd

राजसूनुस्त्रिभिर्वर्षैः पत्यायातः स्वमण्डलम् । 1230ab
स पश्यन्पितरं चान्तरसुस्थितमतप्यत ॥ 1230cd

खेदनम्राननो लोष्टावशेषं सोविशत्पुरम् । 1231ab
अम्बुलम्बोम्बुदो दावनिर्दग्धमिव काननम् ॥ 1231cd

राज्येभ्यषिञ्चदाषाढस्याद्येह्नि जनकोथ तम् । 1232ab
अवादीद्राज्यतन्त्रं च कृत्स्नमुक्त्वास्रुगद्गदः ॥ 1232cd

भ्रान्ताः पितृपितृव्यास्ते न यां बोढुमशक्नुवन् । 1233ab
धुरमुद्वह तां वीर त्वयि भारोयमर्पितः ॥ 1233cd

साम्राज्यप्रक्रियामात्रपात्रं पुत्रं नृपो व्यधात् । 1234ab
न त्वार्पिपदधीकारं तस्मिन्दैवविमोहितः ॥ 1234cd

अभिषेकविश्रावेव राजसूनोः शमं ययुः । 1235ab
पुरोपरोधावग्राहव्याधिचौराद्युपद्रवाः ॥ 1235cd

सम्पन्नसस्या च तथा देवी संववृते मही । 1236ab
दुर्भिक्षं श्रावणे मासि यथावत्प्रशमं ययौ ॥ 1236cd

अत्रान्तरे सिंहदेवो रणे कुर्वन्नरिक्षयम् । 1237ab
कर्णेजपैर्जनयितुर्द्रोग्धायमिति सूचितः ॥ 1237cd

कोपादविमृशंस्तत्त्वं42 स बन्द्धुं43 तं व्यसर्जयत् । 1238ab
कय्यात्मजं राजसूनुस्तत्तु प्रागेव बुद्धवान् ॥ 1238cd

कोपस्मितोत्कटस्याग्रे स तस्याप्रतिभोभवत् । 1239ab
निनाय रक्षामात्रेण पार्थिवाज्ञाममोघताम् ॥ 1239cd

अभुक्तवान्मनस्तापात्प्रत्ययोत्पत्तये पितुः । 1240ab
साकं तेन सुतोन्येद्युर्गन्तुं प्रावर्ततान्तिकम् ॥ 1240cd

आक्षेप्तुं शङ्कितोशक्य इति मत्वा स मन्त्रिभिः । 1241ab
मार्गान्न्यवर्तयत तं पिता मिथ्या प्रसादयन् ॥ 1241cd

अन्तस्तु निश्चिकायेति प्रविश्यातर्कितागमः । 1242ab
बद्ध्वैनं स्थापयिष्यामि कारायामिति सोनिशम् ॥ 1242cd

धिग्राज्यं यत्कृते पुत्राः पितरश्चेतरेतरम् । 1243ab
शङ्कमाना न कुत्रापि सुखं रात्रिषु शेरते ॥ 1243cd

पुत्रपुत्रीसुहृद्भृत्या येषां शङ्कनिकेतनम् । 1244ab
विस्रम्भभूर्भूपतीनां44 कस्तेषामिति वेत्ति कः ॥ 1244cd

साह्याभिधानप्रख्यातकुग्रामोपान्तवासिनः । 1245ab
खलपालस्य तनयः स्थानकाख्यस्य कस्यचित् ॥ 1245cd

शैशवे पाशुपाल्येन वर्धितो डामरोद्भवैः । 1246ab
गृहीतशस्त्रस्तन्नित्यं क्रमाट्टिक्कस्य लब्धवान् ॥ 1246cd

प्रथमाब्दात्प्रभृत्यात्तदूत्यो भूर्भर्तुराप्तताम् । 1247ab
प्रययावुत्पलो नाम वैरिविच्छेदमिच्छतः ॥ 1247cd

स हि भिक्षाचरं टिक्कमथ व्यापादयेत्यमुम् । 1248ab
जगादङ्गीकृतैश्चर्यदानष्टिक्कोपवेशने ॥ 1248cd

कृतप्रतिश्रवं तस्मिन्नर्थे तं च महर्द्धिभिः । 1249ab
दानैरुपाचरद्गञ्जपतिनाम्नाप्ययोजयत् ॥ 1249cd

भोगलोभप्रभुद्रोहचिन्तादोलायमानधीः । 1250ab
स कार्यं परिहार्यं वा न कृत्यं निश्चिकाय तत् ॥ 1250cd

प्रासोष्टापत्यमत्रान्तस्तद्वधूः कार्यतो नृपः । 1251ab
तत्तच्च प्राहिणोत्तस्यै[^1251-1] पितेव प्रवोचितम् ॥ 1251cd

सा तस्यात्युपचारस्य कारणं परिशङ्किता । 1252ab
पतिं पप्रच्छ निर्बन्धात्सोपि तस्यै व्यवर्णयत् ॥ 1252cd

न कार्यः स्वामिनो द्रोहः कृते वास्मिन्स सुस्सलः । 1253ab
त्वामेव शनकैर्हन्याद्द्रोग्धायमिति चिन्तयन् ॥ 1253cd

वरं स एव विश्वास्य व्यापाद्यस्तत्र चेद्वधः । 1254ab
भवेत्ते स्वामिपुत्रादिकुटुम्बं स्याद्विभूतिभाक् ॥ 1254cd

[page 213]
विश्वास-प्रस्तुतिः
भार्ययेति प्रेर्यमाणः स निश्चयविपर्यये । 1255ab
टिक्कं विदितवृत्तान्तं कृत्वा बद्धोद्मः कृतः ॥ 1255cd

गतागतानि कुर्वाणे दुध्रुक्षावथ पार्थिवः । 1256ab
स पुत्र इव विश्वासं ययौ दैवविमोहितः ॥ 1256cd

विपर्यस्ता मतिः पुत्रे विश्वासो वैरिसंश्रिते । 1257ab
जायते क्षीणभाग्यानां को नाम न विपर्ययः ॥ 1257cd

वैधेयैः स्वार्थलोभान्धैर्यद्वानर्थसमागमः । 1258ab
सरघोपद्रवः45 क्षौद्रलुब्धैरिव न चिन्त्यते ॥ 1258cd

तं पीडितं प्रज्जिना च राज्ञा चावनतिं ततः । 1259ab
उत्पलोकारयट्टिक्कं नीविं चादापयत्सुतम् ॥ 1259cd

राजाथ देवसरसं जितं सन्त्यज्य कारिके । 1260ab
वाष्ट्काख्यमगाद्ग्रामं खेरीविषयवर्तिनम् ॥ 1260cd

स कल्याणपुराभ्यर्णे रणैस्तैस्तैर्विलक्षताम् । 1261ab
भिक्षुकोष्ठेश्वरमुखानपि निन्ये महाभटान् ॥ 1261cd

मध्याद्भिक्षाचरादीनां सुज्जिः46 काककुलोद्भवम् । 1262ab
जीवग्राहं महावीरं युधि जग्राह शोभकम् ॥ 1262cd

भवकीयस्य कृत्वादौ विजयस्य पराभवम् । 1263ab
भूभुजा तद्गृहा दग्धाः कल्याणपुरवर्तिनः ॥ 1263cd

दग्धे वडोसके47 भिक्षाचरो नष्टाश्रयो व्यधात् । 1264ab
त्यक्त्वा तां क्ष्मां शमालायां ग्रामे काकरुहे स्थितिम्48 ॥ 1264cd

अनुजो भवकीयस्य विजयस्य भयान्नृपम् । 1265ab
संश्रितस्तेन तूग्रेण बद्ध्वा कारागृहेर्पितः ॥ 1265cd

भूरिसैन्यानुगं शूरपुरे विन्यस्य रिल्हणम् । 1266ab
आस्कन्दाशङ्किनीं राजा चक्रे राजपुरीमपि ॥ 1266cd

इत्थमुद्दण्डया वृत्त्या खण्डितोच्चण्डडामरः । 1267ab
स्तोकावशेषं सोपश्यत्कर्तव्यमरिनिर्जयम् ॥ 1267cd

भिक्षाचरो लवन्याश्च शक्तिक्षयमुपागताः । 1268ab
विदेशगमनं भीता रिपौ बलिनि मेनिरे ॥ 1268cd

किमप्यभाग्यावतारैर्भिक्षुपक्षजुषां यतः । 1269ab
जीवतामप्यनुल्लासान्निर्जीवत्वमिवाययौ ॥ 1269cd

स सोमपालकौटिल्यं स्मरन्कुर्यां हिमात्यये । 1270ab
श्मशानोर्वीं राजपुरीमिति ध्यायन्न्यवर्तत ॥ 1270cd

शान्तप्रायस्वदेशोर्वीविप्लवस्य महीपतेः । 1271ab
तस्यार्णवान्तक्रमणप्रतीतिः समभाव्यत49 ॥ 1271cd

शतैकीयो योवशिष्टो विप्लवक्षपिते जने । 1272ab
वर्षं वर्षं स तद्राज्ये युगदीर्घं त्वमन्यत ॥ 1272cd

असुखत्रासदारिद्रप्रियनाशादिवैशसैः । 1273ab
स राज्यकालः सर्वस्य परितापावहो ह्यभूत् ॥ 1273cd

नरः पौरुषनैष्ठुर्यशठत्वेन करोति किम् । 1274ab
विधातृवृत्तिवैचित्र्यपराधीनासु50 सिद्धिषु ॥ 1274cd

पुरोभूतं कञ्चित्परिहरति राशिं तम इव व्यतीते कस्मिंश्चिद्धरिरिव विवृत्यास्यति दृशम् । 1275ab
स्वमुल्लङ्घ्यासन्नं क्वचन नृपतिं दर्दुर इव क्रमेत्स्रष्टुर्दृष्टः स्फुटमिति गतीनामनियमः ॥ 1275cd

विश्वासनिहतान्निन्दन्नुच्चलादीन्पुरावसत् । 1276ab
नित्यं विकोशशस्त्रो यः पुराविद्भ्यो निशम्य च ॥ 1276cd

विदूरथादिवृत्तान्तं51 नादात्केलिक्षणे ब्रुवन् । 1277ab
स्त्रीषु सम्भुज्यमानासु52 विश्वासविशदां दृशम् ॥ 1277cd

स बन्धाविव निर्बन्धाद्विशश्वास यदुत्पले । 1278ab
तत्र सम्भाव्यते केन दैवादन्यो विमोहकृत् ॥ 1278cd

टिक्कादयो भूमिपतेः सुज्जेर्वान्यतरे[^1279-1] हते । 1279ab
त्वां तुल्यकार्यकर्तारं विद्म इत्यूचुरुत्पलम् ॥ 1279cd

सुज्जिर्न व्यश्वसीत्तस्मिन्स जिघांसुस्तु भूभुजम् । 1280ab
तत्र तत्राभवत्सज्जः प्रसङ्गं नासदत्पुनः ॥ 1280cd

प्रतिश्रुतविलम्बेन समन्योरथ भूपतेः । 1281ab
प्रत्ययोत्पत्तये देवसरसान्नीविमात्मजम् ॥ 1281cd

[page 214]
विश्वास-प्रस्तुतिः
व्याघ्रप्रशस्तराजादींस्तीक्ष्णांश्चात्मसमान्परम्53 । 1282ab
आदाय कार्यमेतैर्मे सिध्येदित्युक्तवान्नृपम् ॥ 1282cd

उच्चित्योच्चित्य सेनाभ्यो गृहीतैः सहासक्षमैः । 1283ab
शतैः समं त्रिचतुरैः पत्तीनामेकदा ययौ ॥ तिलकम्॥54 1283cd

समयान्वेषिणो हन्तुस्तस्यासन्नस्य सर्वदा । 1284ab
प्रियाहारादिदानेन हन्तान्तःप्रीतिकार्यभूत् ॥ 1284cd

तुरङ्गं मन्दुराचक्रवर्त्याख्यं नगरस्थितम् । 1285ab
अस्वस्थमुल्लाघयितुं तुरगव्यसनी नृपः ॥ 1285cd

स लक्ष्मकप्रतीहारकय्यात्मजमुखान्निजान्55 । 1286ab
पार्श्वाद्विसृष्टवानासीत्क्षणे56 तस्मिन्मितानुगः ॥ 1286cd

शृङ्गारो लक्ष्मकापत्यं निशम्याप्तैर्निवेदितम् । 1287ab
व्यधाच्छ्रुतिपथे राज्ञस्तदुत्पलचिकीर्षितम् ॥ 1287cd

विरुद्धे बन्धुधीर्दृष्टहिंसारम्भेपि सम्भवेत् । 1288ab
आसन्नजीवितान्तस्य जन्तोः सूनापशोरिव ॥ 1288cd

स शापो गान्धर्यास्तदपि सरुषो भाषितमृषेस्त उत्पाताश्चक्षुः स्वमपि तदभौमं प्रकटयत्57 । 1289ab
कुलान्तं तत्त्राणाक्षमकृत वैकुण्ठमपि तद्विदन्नप्यन्यत्वं क इव भवितव्यस्य कुरुताम् ॥ 1289cd

मिथ्यैतदित्यधिक्षिप्य क्षितिपालः प्रदर्शयन् । 1290ab
तमङ्गुल्योत्पलादींस्तानग्रस्थानेवमब्रवीत् ॥ 1290cd

द्रोग्धुः सुतोभवद्योगादनिच्छन्स्वास्थ्यमेष मे । 1291ab
त्वां दुष्टमुत्पलाचष्टे स्वेनान्यैर्वाथ चोदितः ॥ 1291cd

ते छादयन्तः स्मेरास्या धार्ष्ठेन भयवैकृतम् । 1292ab
वक्ति देवो यदस्माभिर्वाच्यमित्येवमूचिरे ॥ 1292cd

निर्यातेष्वथ तेष्वीषत्साशङ्क इव निश्चलान् । 1293ab
द्वाःस्थेनाकारयद्द्वित्रानन्तिके मुख्यशस्त्रिणः ॥ 1293cd

उन्मनाश्च किमप्यासीद्विनिःश्वस्य स चिन्तयन् । 1294ab
सास्रुश्च न रतिं लेभे नृत्तगीतादिदर्शने ॥ 1294cd

मेने वैदेशिकप्रायानाप्तानपि धृतभ्रमः । 1295ab
पुण्यक्षये पिपतिषुर्वैमानिक इवाम्बरात् ॥ 1295cd

राजन्तरङ्गाः साशङ्काः प्रभौ शाठ्येन मोहिते । 1296ab
पूत्कारमैच्छन्दातारमन्यं केचिदचेतनाः ॥ 1296cd

अयमेव स कालस्य बलात्कवलनग्रहः । 1297ab
विदन्तोपि यदायान्ति जन्तवः कृत्यमूढताम् ॥ 1297cd

सर्वान्तरक्षणेष्वस्तचक्षुषो दिवसद्वयम् । 1298ab
उत्पलाद्याश्च साशङ्काः कथमप्यावाहयन् ॥ 1298cd

रहः क्षणपार्थिनस्तांस्तृतीयेह्न्यब्रवीन्नृपः । 1299ab
स्नात्वा प्रत्यूषे तद्यूयं भोक्तुं यात मुहुर्गृहम् ॥ 1299cd

देवतार्चनपर्यन्तमवसायाह्निकं विधिम् । 1300ab
आजुहावोत्पलं दूतैर्मध्याह्नेथ रहःस्थितः ॥ 1300cd

कार्यसिद्धिं श्रद्दधानो वैजन्याद्राजसद्मनः । 1301ab
राज्ञोभ्यर्णम् स साशङ्कं द्वाःस्थरुद्धानुगोविशत्[^1301-1] ॥ 1301cd

प्रावेशयद्द्वारि रुद्धं व्याघ्रं तदनुजं[^1302-1] नृपः । 1302ab
शेषाणामपि भृत्यानामादिदेश बहिःस्थितिम् ॥ 1302cd

बिलम्बमानेष्वाप्तेषु केषुचित्सरुषो वचः । 1303ab
सत्यं तस्योद्ययावास्तां सोत्र द्रोग्धा य इत्यपि ॥ 1303cd

ताम्बूलदायकः प्रौढवयास्तेनावशेषितः । 1304ab
सान्धिविग्रहिको विद्वान्राहिलश्चान्तिके परम् ॥ 1304cd

दूतौ टिक्कस्यार्घदेवतिष्यवैश्याभिधावुभौ58 । 1305ab
तत्र प्रसङ्गादासातामज्ञातोत्पलसंविदौ ॥ 1305cd

वाडौत्सः59 सुखराजाख्यो60 डामरो भिक्षुसम्मतः । 1306ab
प्रयास्यति प्रभोर्दृष्ट्वा पादौ तत्कार्यसिद्धये ॥ 1306cd

इत्युक्तवांस्तेष्वहःसु तं नृपं नातिदूरगम् । 1307ab
ससैन्यं डामरं61 चक्रे स्वस्य त्राणार्थमुत्पलः ॥ 1307cd

तथा चैनं तस्थिवांसं कृत्यमस्त्यमुनेति च । 1308ab
उक्त्वा प्रशस्तराजं तं पार्श्वं प्रावेशयद्द्रुतम् ॥ 1308cd

प्रविष्टो निर्जनं बाह्यमाकलय्य स मण्डलम् । 1309ab
अलक्ष्यमाणव्यापारो द्वारमर्गलितं व्यधात् ॥ 1309cd

[page 215]
विश्वास-प्रस्तुतिः
स्नानार्द्रकेशं शीतालुतया प्रावारवेष्टितम् । 1310ab
कृत्वा कृत्स्नं वपुः कृष्टशस्त्रीकं विष्टरोपरि ॥ 1310cd

आसीनं वीक्ष्य नृपतिं प्रसङ्गो नेदृशो भवेत् । 1311ab
विज्ञप्तिं कुरु भूर्भर्तुरित्यूचे व्याघ्र उत्पलम् ॥ 1311cd

स तया सञ्ज्ञया व्यग्रः पादप्रणतिकैतवात् । 1312ab
राज्ञोग्रमेत्य तच्छस्त्रीं विष्टरस्थामपाहरत् ॥ 1312cd

विकोशां62 चाकरोत्पश्यंस्तां तथोद्भ्रान्तलोचनः । 1313ab
प्राह स्म हा धिक्किं द्रोह इति यावद्वचो नृपः ॥ 1313cd

प्राहरत्प्रथमं तावत्सव्ये पार्श्वे तथैव सः । 1314ab
तस्य प्रशस्तराजेन मूर्धनि प्रहृतं ततः ॥ युग्मम्॥63 1314cd

व्याघ्रेणाथ क्षतं वक्षस्ताभ्यामेवासकृत्तदा । 1315ab
प्रहृतं तत्र स पुनः प्राहरन्न द्विरुत्पलः ॥ 1315cd

पूर्वयैव प्रहृत्या हि छिन्नपार्श्वास्थिमालया । 1316ab
मेने कृष्टान्त्रतन्त्रीकं स तं प्रोषितजीवितम् ॥ 1316cd

गत्वा तमोरिं पूत्कर्तुमिच्छन्व्याघ्रेण राहिलः । 1317ab
पृष्ठे कृताहतिर्द्वित्रा नालिका नोज्झितोसुभिः ॥ 1317cd

ताम्बूलदायकस्त्यक्त्वा कङ्कोलाद्यज्जको64 व्रजन् । 1318ab
दीनो निजेभ्यः कारुण्यादुत्पलेनैव रक्षितः ॥ 1318cd

अन्तः समुत्थिते क्षोभे वाह्यमण्डपवर्तिभिः । 1319ab
टिक्ककाद्यैः कृता लुण्ठिर्द्रोहगृह्यैरुदायुधैः ॥ 1319cd

उत्पलो निहतो राञ्जेत्यवेत्य कटकस्थितैः । 1320ab
बहिःस्थान्हन्यमानान्स्वान्समाश्वासयितुं ततः ॥ 1320cd

रक्तार्द्रशस्त्रं सन्दर्श्य तमोरेर्वपुरुत्पलः । 1321ab
ऊचे मया हतो राजा न त्याज्या तच्चमूरिति ॥ 1321cd

तच्छ्रुत्वा दुःश्रवं राजभृत्याः क्वापि भयाद्ययुः । 1322ab
द्रोहानुगास्त्वङ्गनान्तर्लब्धोल्लासा व्यधुः स्थितिम् ॥ 1322cd

निर्यान्तो मण्डपत्तीक्ष्णा निजघ्नुर्नागकाभिधम् । 1323ab
द्वारात्प्रविष्टं निष्कृष्टकृपाणीकं नृपानुगम् ॥ 1323cd

भूपालशय्यापालस्य65 त्रैलोक्याख्यस्य सेवकः । 1324ab
निन्दन्द्रोहं टिक्ककाद्यैर्द्वाःस्थश्चैको विपादितः66 ॥ 1324cd

उत्कृष्टं नष्टसत्त्वानां मध्ये राजानुजीविनाम् । 1325ab
सखेटकांसि धावन्तं भावुकान्वयभूषणम् ॥ 1325cd

दृष्ट्वा सहजपालाख्यं पार्श्वद्वारेण निर्ययुः । 1326ab
तीक्ष्णः स त्वपतद्भूमौ तद्भृत्यप्रहृतिक्षतः ॥ 1326cd

जाते कुकीर्तिकालुष्यपात्रे राजात्मजव्रजे । 1327ab
वैलक्ष्यक्षालनं सिद्धं तस्य स्वक्षतजैः परम् ॥ 1327cd

हतो67 दौशिकसंवादिदेहो राजात्मभ्रजमात् । 1328ab
विद्वान्द्विजन्मा नोनाख्यस्तीक्ष्णपक्षैः पुरो गतः ॥ 1328cd

अक्षतान्व्रजतो वीक्ष्य तीक्ष्णान्ग्रामान्तरोन्मुखान् । 1329ab
चित्रार्पिता इवव् क्रोधान्नाधावन्केपि शस्त्रिणः ॥ 1329cd

राजवंश्या महीपालप्रीतिपात्रमथोययुः । 1330ab
स्थागयन्तोङ्गनं स्थूलकाया जनविवर्जितम् ॥ 1330cd

तांस्तान्कापुरुषान्हर्षदेवोदन्तात्प्रभृत्यलम् । 1331ab
स्मृत्वा च कीर्तयित्वा च कृतभारग्रहा इव ॥ 1331cd

जाता दुष्कृतसंस्पर्शात्खेदात्कर्तुं न शक्नुमः । 1332ab
पापात्पापीयसां येषां नामग्रहणसाहसम् ॥ 1332cd

अङ्गनान्मण्डपारूढिं मन्वानाः पौरुषं महत् । 1333ab
पापिनः केपि तन्मुख्या ददृशुः स्वामिनं हतम् ॥ 1333cd

अदरेणास्रसंस्कारलेशावेशप्रकम्पिना । 1334ab
वदन्तं दन्तदष्टेन स्वान्तस्थान्तेनुतप्तताम् ॥ 1334cd

वञ्चितः कथमेषोहमिति नामेति चिन्तया । 1335ab
निस्पन्दे जीवितान्तेपि तथैव दधतं दृशौ ॥ 1335cd

श्यामायमानं वाष्पेण68 व्रणवक्त्रैरुदञ्चता । 1336ab
अन्तःप्रशान्तामर्षाग्निशेषधूमलतात्विषा ॥ 1336cd

आननस्यास्फुटीभूतचन्दनोल्लेखकुङ्कुमम् । 1337ab
सक्तया लिखितस्येव घनक्षतजलाक्षया ॥ 1337cd

श्राश्यानास्रजटीभूतकेशं नग्नं भुवि च्युतम् । 1338ab
पर्यस्ततपाणिचरणं स्कन्धाग्रालम्बिकन्धरम्69 ॥ 1338cd

[page 216]
विश्वास-प्रस्तुतिः
तं वीक्ष्य नोचितं किञ्चिदारेरुस्ते नराधमाः । 1339ab
वैजन्यस्य फलं भुङ्क्ष्वेत्यविगादधिचिक्षिपुः ॥ 1339cd

बद्ध्वा तुरङ्गे युग्ये वा न तैर्नीतश्चिताग्निसात् । 1340ab
कर्तुं न वा पारितः स प्राणात्राणाय धावितैः ॥ 1340cd

आस्तां विलम्बसाध्यं वा कर्मैतद्भ्राष्ट्रदारुसात् । 1341ab
सज्जापि चाग्निसाद्देहमपि कश्चिन्न नाकरोत् ॥ 1341cd

राजवाजिनमेकैकं तेध्यारुह्य पलायिताः । 1342ab
निर्लुण्ठितस्तु कटको व्रजन्ग्रामेषु डामरैः ॥ 1342cd

न पुत्रः पितरं पुत्रं पिता वा प्रत्यपालयत् । 1343ab
मृतं हतं लुण्ठितं वा प्रचलन्सहिमेध्वनि ॥ 1343cd

न कोपि शस्त्रभृत्सोभूत्स्मृत्वा मानोन्नतिं पथि । 1344ab
परैराक्षिप्यमाणो यः शस्त्रं वस्त्रं च नात्यजत् ॥ 1344cd

लवराजयशोराजद्विजौ व्यायामवेदिनौ । 1345ab
कान्दश्च राजा निहता वीरवृत्त्या त्रयः परम् ॥ 1345cd

अदूरादुत्पलाद्यास्तु कटकं वीक्ष्य विद्रुतम् । 1346ab
प्रविष्टा वाष्टुवं70 छित्त्वा शिरो निन्युर्महीपतेः ॥ 1346cd

गतेषु देवसरसं तेषु छिन्नशिरा नृपः । 1347ab
हतश्चौर इव प्राप ग्राम्याणां प्रेक्षणीयताम् ॥ 1347cd

एवं द्रोहैस्तृतीयाब्दामावास्यायां स फाल्गुने । 1348ab
पञ्चपञ्चाशतं वर्षानायुषोतीतवान्हतः ॥ 1348cd

विलासशयनस्थस्य सिंहदेवस्य सा श्रुतौ । 1349ab
प्रेमाख्येनैत्य दुर्वार्ता धात्रेनेण71 व्यधीयत ॥ 1349cd

सम्भाव्यते योनुभावः72 सशस्त्रस्याप्रियश्रुतौ । 1350ab
हृतशस्त्रोपि तं प्राप स तदा पितृवत्सलः ॥ 1350cd

मोहलुप्तस्मृतिः स्मृत्वा चिरादुद्गतचेतनः । 1351ab
तत्तद्दुःखाहतधृतिर्विललाप स्फुटास्फुटम् ॥ 1351cd

मदर्थं कुर्वता राज्यं प्रयत्नादपकण्टकम् । 1352ab
अधमे किं महाराज त्वयात्मा परिभावितः ॥ 1352cd

अहेतोः पश्यतः शत्रूनन्ते वैरविशुद्धये । 1353ab
अपि ते मानिनोगच्छंस्तात सम्भावनाभुवम् ॥ 1353cd

त्वया निषेधिते वैरे पिता भ्राता च ते दिवि । 1354ab
निर्मन्युः सम्प्रति त्वं तु वर्तसे मन्युदुःस्थितः ॥ 1354cd

अनरण्यकृपद्रोणजामदग्न्यादिषु73 स्पृहाम् । 1355ab
कुल्यक्षालितवैरेषु मा कार्षीः काञ्चन क्षणम् ॥ 1355cd

शोच्यस्त्वदाश्रयो मन्युरहं शोधयिता नृप । 1356ab
दूये न तत्र यातं यत्त्रैलोक्यमभियोज्यताम् ॥ 1356cd

वात्सल्योत्पुलकस्मेरं स्निग्धोक्तिमधुरं मुखम् । 1357ab
मद्दर्शने यदासीत्ते तन्मे पर इवाधुना ॥ 1357cd

इति चान्यच्च विलपन्गाम्भीर्यालक्ष्यवैकृतः । 1358ab
ह्रीशोकभयमूकान्स ददर्शाप्तान्पितुः पुरः ॥ 1358cd

अशिक्षयत यन्मन्युर्दाक्षिण्यं निरुरोध तत् । 1359ab
तथाप्येवं स तानूचे किञ्चिदाक्षेपकर्कशम् ॥ 1359cd

कोशैः सद्वंशतां वीक्ष्य कुर्वतः74 सत्क्रियां गताः । 1360ab
धिग्भवन्तश्च शस्त्रं च तातस्यान्ते विपर्ययम् ॥ 1360cd

यन्मत्पितृव्ये निहते75 कृतमुच्छिष्टजीविभिः । 1361ab
मान्यानां भवतां सिद्धिम् हा धिक्तदपि नाधुना ॥ 1361cd

इत्युपालम्भमानस्तान्द्वित्रैरन्तिकमागतैः । 1362ab
द्वित्रैरमात्यैः कर्तव्यश्रुतयेवहितः कृतः ॥ 1362cd

प्रस्थानं लोहरे केचिदूचुः सन्त्यज्य मण्डलम् । 1363ab
त्वरां च तत्र रात्र्यन्ते वदन्तो भैक्षवं भयम् ॥ 1363cd

गर्गात्मजं पञ्चचन्द्रमालम्ब्य76 मन्त्रिणां नृपः । 1364ab
द्वैराज्याचरणायान्ये धीरप्राया बभाषिरे ॥ 1364cd

न हि स्वगृहवद्भिक्षोर् विविक्षोर्नगरान्तरम् । 1365ab
अज्ञायि प्रत्यवस्थानं केनाप्यसति सुस्सले ॥ 1365cd

आत्मन्यसम्भावनया तादृशां77 मन्त्रिणां नृपः । 1366ab
सान्तःखेदं श्वो विधेयं द्रक्ष्यथेत्यब्रवीद्वचः ॥ 1366cd

कालापेक्षापरिव्यक्तपितृव्यापत्तिदुःस्थितः । 1367ab
स कोशादिष्वथादिक्षद्रक्षिणस्त्राणदीक्षितम् ॥ 1367cd

[page 217]
विश्वास-प्रस्तुतिः
इतश्चेतश्च बम्ब्व्ह्रम्यमाणैः प्रोद्यत्प्लुतस्वरम् । 1368ab
अन्योन्याख्यायिभिर्लोकैः पुरं मुखरतामगात् ॥ 1368cd

मत्तवेतालमालेव कालरात्याकुलेव च । 1369ab
बभूव सा यामवती सर्वभूतभयावहा ॥ 1369cd

दीपैर्निर्वातनिष्कम्पैश्चिन्तास्पन्दैश्च मन्त्रिभिः । 1370ab
तिष्ठन्परिवृतो राजा त्वन्तरेवमचिन्तयत् ॥ 1370cd

निर्द्वारे सतमस्युग्रमारुते शून्यवेश्मनि । 1371ab
तातोपि निहतः शून्ये मयि जीवत्यनाथवत् ॥ 1371cd

कष्टमेतादृशासह्यवैशसक्षालनावधि । 1372ab
कथं गोष्ठीषु शक्ष्यामि द्रष्टुं मानवतां मुखम् ॥ 1372cd

विरोधिवशवर्तिभ्यो देशेभ्यः सैन्यनायकाः78 । 1373ab
सहिमैरेव दुर्लङ्घ्यैः कथमेष्यन्ति वर्त्मभिः ॥ 1373cd

इत्थं विमृशतस्तस्य79 सत्तत्तीव्राभिषङ्गिनः । 1374ab
ययौ भीतिमतो भीमा कथञ्चित्सा निशीथिनी80 ॥ 1374cd

प्रातश्चतुष्किकां पौरसमाश्वासाय निर्गतः । 1375ab
नष्टं कटकमन्वेष्टुं सोश्वासरूढान्व्यसर्जयत् ॥ 1375cd

मार्गानसूचीसञ्चारैर्विवरोज्झितान् । 1376ab
आश्लिष्टवसुधा मेघाः कर्तुं प्रारेभिरे ततः ॥ 1376cd

नामाप्यलब्ध्वा सैन्यस्य मोघसैन्येषु81 दूरतः । 1377ab
निवृत्तेषु नियुक्तेषु विमृश्य82 नृपतिः क्षणम् ॥ 1377cd

यद्यद्येनाहृतं तत्तत्परित्यक्तं मयाधुना । 1378ab
दत्तं चारीञ्श्रितवतामभयं सागसामपि ॥ 1378cd

इत्याज्ञां भ्रमयामास पटहोद्घोषणैः पुरे । 1379ab
साशीर्घोषास्ततः पौरास्तत्रारज्यन्त सर्वतः ॥ तिलकम्॥[^1379-1] 1379cd

अनन्तरनृपाचारवैधर्म्योकारकल्पया । 1380ab
तया सोनघया वृत्त्या फलं सद्योनुभावितः ॥ 1380cd

शतादप्यूनसङ्ख्यैर्यः स्थितवाननुगैः समम् । 1381ab
अनुरागहृतैर्लोकैस्तत्कालं पर्यवार्यत ॥ 1381cd

प्रियोक्त्यावेदनं प्रीतिदायोपायः प्रभोः पुरः । 1382ab
भजंल्लोकस्याग्र्यमन्त्रिपदवीं लक्ष्मकोग्रहीत् ॥ 1382cd

राज्यं शय्यां नयत्येवं प्राज्ञे राज्ञि नयक्रमैः । 1383ab
याति मध्यं दिने भिक्षुर्विविक्षुः पुरमाययौ ॥ 1383cd

तस्य डामरपौराश्ववारलुण्ठाकसङ्कुलः । 1384ab
अदृष्टपूर्वो ददृशे सैन्यव्यतिकरस्तदा ॥ 1384cd

हतं श्रुत्वा रिपुं राज्योत्सुकः स नगरं व्रजन् । 1385ab
राजा काकात्मजेनेति तिलकेनाभ्यधीयत ॥ 1385cd

हतः समस्तविद्वेष्यः स दैवाद्यदि सुस्सलः । 1386ab
कथं प्रकृतयो जह्युर्गुणवन्तं तदात्मजम् ॥ 1386cd

पुरप्रवेशे का राजंस्तस्मादेकमहस्त्वरा । 1387ab
एहि पद्मपुरं यामो मार्गं रोद्धुं विरोधिनाम् ॥ 1387cd

आगच्छन्तो नष्टसैन्याः सुज्जिमुख्या महाभटाः । 1388ab
निहता यदि वा रुद्धास्तत्र सायुधवाहनाः ॥ 1388cd

प्रविष्टोसि ततो न्यस्तशस्त्रो द्वित्रैर्दिनैर्ध्रुवम् । 1389ab
नगरं नगरौकोभिः स्वयमभ्यर्थितागमः ॥ 1389cd

अलमेतैर्जरन्मन्त्रैर्वदन्त इति चक्रिरे । 1390ab
स च कोष्ठेश्वराद्याश्च विलम्बं कारितो निजैः ॥ 1390cd

राज्यं विदद्भिः सम्प्राप्तं[^1391-1] तांस्ताञ्शासनपट्टकान् । 1391ab
द्रुतमर्थयमानैश्च स्मेरास्तस्यावधीरणाम् ॥ 1391cd

अतो बहुहिमापातविवशाशेषसैनिकः । 1392ab
आसदन्नगरोपान्तं समयेन स तावता ॥ 1392cd
मूलम्
अतो बहुहिमापातविवशाशेषसैनिकः । 1392ab
आसदन्नगरोपान्तं समयेन स तावता ॥ 1392cd
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे लब्धे निःसैन्यस्य ससैनिकः । 1393ab
गर्गात्मजः पञ्चचन्द्रो नृपतेः पार्श्वमाययौ ॥ 1393cd

हतस्वामिपरित्यागमन्युक्षालनकाङ्क्षिभिः । 1394ab
राजपुत्रैः समं सोथ वीरो योद्धुं विनिर्ययौ ॥ 1394cd

असम्भावनसङ्ग्रामान्वीक्ष्य तान्भिक्षुसैनिकाः । 1395ab
यावत्प्रारेभिरे योद्धुं तावत्किमपि सर्वतः ॥ 1395cd

क्षणेनैव ययुर्भङ्गं तांस्तान्वीक्ष्य हतानिजान् । 1396ab
न संस्तम्भयितुं शेकुः स्वचमूश्च पलायिनीः ॥ 1396cd

[page 218]
विश्वास-प्रस्तुतिः
सेनानाथाश्च ये मुख्या भिक्षुपृथ्वीहरादयः । 1397ab
अदृष्टपूर्वं सन्त्रासं तेप्यशस्त्रिवदाययुः ॥ 1397cd

विद्रवन्तोनुयाताः स्युस्ते चेद्दूरं नृपानुगैः । 1398ab
तन्नूनमवशिष्येत83 क्षणादेव न किञ्चन ॥ 1398cd

वैमुख्यं तेषु यातेषु चिरात्साम्मुख्यमाययौ । 1399ab
नवभूभृत्प्रभावेण नगरे विधुरे विधिः ॥ 1399cd

अन्यथा कलितो लोकैरन्यथा दैवयोगतः । 1400ab
इत्थं राज्ञोर्द्वयोरासीद्विजयावजयक्रमः ॥ 1400cd

कञ्चिन्निपातवति बद्धपदं क्षणेन कञ्चित्परं पिपतिषु नयति प्ररूढिम् । 1401ab
सङ्कल्पनिर्विषयचिन्नतरानुभाव ओघोम्भसामिव तटं पुरुषं विधाता ॥ 1401cd

अथ तत्तद्भयस्थानशान्तः सुज्जिर्दिनात्यये । 1402ab
दावव्याप्ताद्रिनिष्क्रान्तो निःसहोहिरिवाययौ ॥ 1402cd

मेधाचक्रपुरग्रामस्थितः84 श्रुत्वा हतं नृपम् । 1403ab
स हि सम्मन्त्र्य रात्र्यन्तर्नोत्तस्थाववसत्परम् ॥ 1403cd

रिल्हणादीन्स्थिताञ्शूरपुरादौ सैन्यनायकान् । 1404ab
प्रतीक्षमाणस्तैः साकं निर्बाधं नगरेविशत् ॥ 1404cd

तमिस्रायां प्रत्यभिज्ञाकृते तेषामनश्वरान् । 1405ab
स्वावासपृष्ठे ज्वलतो दीपानस्थापयत्ततः ॥ 1405cd

वैमत्यात्ते तु पत्तीनां विद्रुतानां पृथक्पृथक् । 1406ab
निशि क्वापि परिभ्रष्टा न तत्कटकमाययुः ॥ 1406cd

प्रत्यूषे प्रचलंस्तैस्तैः पृष्ठलग्नैः स डामरैः । 1407ab
न मुहूर्तमपि त्यक्तः प्रहरद्भिरितस्ततः ॥ 1407cd

वृद्धस्त्रीबालभूयिष्ठान्सहप्रस्थायिनो जनान् । 1408ab
ययौ रक्षन्पुरः कृत्वा पशुपालः पशूनिव ॥ 1408cd

पञ्चाशत्या हरारोहैः सह व्यावृत्य तिष्ठता । 1409ab
कञ्चित्क्षणं तेन रक्षा तेषां कर्तुमशक्यत ॥ 1409cd

द्राक्षाषण्डद्रुमव्यूहसम्बाधेध्वन्यसाध्वसैः । 1410ab
बाध्यमानोरिभिर्लोकं सोत्याक्षीत्तु पदे पदे ॥ 1410cd

हतस्य स्वामिनः स्वामिसूनोश्च व्यसनस्थितेः । 1411ab
आनृण्याकाङ्क्षिणा तेन तत्र ह्यात्मैव रक्षितः ॥ 1411cd

येषां प्राणपरित्वागे निश्चयं बध्नतामपि । 1412ab
न योग्यकालापेक्षास्ति किं तैर्हिंस्रपशूपमैः ॥ 1412cd

हन्तुं तं नष्टमायान्तं रुद्ध्वा पद्मपुरान्तिकम् । 1413ab
अवसण्डामराः क्रूराः खडूवीविषयौकसः ॥ 1413cd

खेरीतलालशाग्रामादुत्थाय पृथुसैनिकः । 1414ab
व्रजंस्तेनाययौ तत्र प्रसङ्गे श्रीवकः पथा ॥ 1414cd

तमनष्टानुगं सुज्जिरसाविति विशङ्किताः । 1415ab
निपत्य ते विदधिरे हललुण्ठितसैनिकम् ॥ 1415cd

मेरुश्च सज्जनश्चाश्ववारौ तत्राहवे हतौ । 1416ab
क्षतो वट्टात्मजो मल्लो दिवसैर्यो व्यपद्यत ॥ 1416cd

उदीपविहितश्वभ्रवहत्सलिलसङ्कटम्85 । 1417ab
उदीपपूरबालाख्यं स्थानं तत्र क्षणेभवत् ॥ 1417cd

युद्ध्वा युद्ध्वा प्रचलतस्तत्र पद्मपुराद्बहिः । 1418ab
रुद्धसैन्यस्य विशिखः श्रीवकस्याविशद्गलम् ॥ 1418cd

प्रहारविवशो नासौ सुज्जिर्ज्ञात्वेति डामरैः । 1419ab
स निर्लुण्ट्य परित्यक्तः पूर्वमैत्र्यनुरोधतः ॥ 1419cd

लुण्ठितश्रीबकानीककोशभारग्रहानतैः86 । 1420ab
तैः कैश्चिच्चलितैरासीत्सुज्जेर्मार्गोनुपद्रवः ॥ 1420cd

प्रस्थिते पथिकेकस्माद्यन्त्रेषूत्सादयन्वने । 1421ab
आयुःशेषो मृगेन्द्रस्य विदध्यादध्वशोधनम् ॥ 1421cd

निःशब्दसैन्यो निर्यातः सुज्जिः पद्मपुरान्तरे । 1422ab
उदीपश्वभ्रसविधं सम्प्राप्तोज्ञायि डामरैः ॥ 1422cd

पदातिकोशशस्त्रादि87 मुष्णतः सोनवेक्ष्य88 तान् । 1423ab
तीर्त्वा अवभ्रं वाजिगम्यां साश्ववारो भुवं ययौ ॥ 1423cd

ततः परं प्रशान्तारिभयं दूराद्विरोधिनः । 1424ab
भ्रूभङ्गतर्जनीकम्परूक्षालापैरतर्जयत् ॥ 1424cd

[page 219]
विश्वास-प्रस्तुतिः
सन्त्रस्तैश्छत्त्रमात्रं तैस्त्यक्तमादाय च द्रुतम् । 1425ab
प्रविश्य नगरं सास्रुर्नृपतेः पार्श्वमाययौ ॥ 1425cd

ज्यायसि भ्रातरीवाग्रं तस्मिन्प्राप्ते जहौ नृपः । 1426ab
दुःखोष्णैरस्रुभिः सार्धं वैरिव्यापातसाध्वसम् ॥ 1426cd

महत्तमोनन्तसूनुरानन्दस्तत्र वासरे । 1427ab
लोचनोड्डारकग्रामे डामरैः प्रचलन्हतः ॥ 1427cd

तत्तन्मङ्गल्यदण्डादिदुःसहायासकारणात् । 1428ab
स विपत्पतितो नाभूत्कस्यापि करुणावहः ॥ 1428cd

भासाभिधः सुज्जिभृत्यो लोकपुण्यात्पलायितः । 1429ab
श्रान्तोवन्तिपुरेविक्षदवन्तिस्वामिनोङ्गनम् ॥ 1429cd

कम्पनोद्ग्राहकः89 क्षेमानन्दः स च तदन्तरे । 1430ab
अमर्षणैरवेष्ट्येतां90 डामरैर्होलडोद्भवैः ॥ 1430cd

इन्दुराजोपि सेनानीः कुलराजकुलोद्भवः । 1431ab
टिक्कं तद्वेष्टितो ध्यानोड्डारे91 व्याजादशिश्रियत् ॥ 1431cd

पिञ्चदेवादयोन्येपि बहवः सैन्यनायकाः । 1432ab
अतिष्ठन्क्रमराज्यान्तर्डामरैः कृतवेष्टनाः ॥ 1432cd

पाते वनस्पतेः शावा इव तन्नीडचिच्युताः । 1433ab
इत्थं हताः क्षताश्चासंस्तत्र92 तत्र नृपानुगाः ॥ 1433cd

निष्पादत्रा हिमप्लुष्टचरणा नग्नविग्रहाः । 1434ab
क्षुत्क्षामा बहवोभूवन्मार्गेषु गलितासवः ॥ 1434cd

न व्यलोक्यत मार्गेषु तदा नगरगामिषु । 1435ab
पलालच्छन्नदेहेभ्यो मानुषेभ्यः परः क्वचित् ॥ 1435cd

घासं विलासवासस्त्वं तेपि चित्ररथादयः । 1436ab
निन्युर्यैरचिरेणैव महामात्यैर्भविष्यते ॥ 1436cd

द्वितीयेपि दिने रुद्धसञ्चाराः पत्त्रिणामपि । 1437ab
तुषारवर्षिणो मेघा न मुहूर्तं व्यरंसिषुः ॥ 1437cd

वनपूर्वाभिधग्रामस्थितस्य कटकाद्भटान् । 1438ab
भिक्षोर्निक्षिप्य धन्योथ सिंहदेवमशिश्रियत्93 ॥ 1438cd

निशम्य कृतसत्कारं नृपं तदनुयायिनाम् । 1439ab
सर्वेपि भैक्षवास्तस्थुः सैनिका नगरोन्मुखाः ॥ 1439cd

मन्दप्रतापे दायादेः सम्प्राप्तावसरास्ततः । 1440ab
राज्ञ्यश्चतस्रो राजानमनुसर्तुं विनिर्ययुः ॥ 1440cd

परापातभयाच्छीतापाताच्च विवशैर्जनैः । 1441ab
न ता नेतुमशक्यन्त94 दूरस्थं पितृकाननम् ॥ 1441cd

चक्रिरे स्कन्दभवनोपान्ते देहांश्चिताग्निसात् । 1442ab
ते सत्वरं ततस्तासामदूरे राजसद्मनः ॥ 1442cd

राज्ञी चम्पोद्भवा देवलेखा तरललेखया । 1443ab
स्वस्रा सहाविशद्वह्निं रूपोल्लेखावधिर्विधेः ॥ 1443cd

गुणोज्ज्वला जज्जला –1 मृता वल्लापुरोद्भवा । 1444ab
गग्गात्मजा राजलक्ष्मीरपि वह्नौ व्यलीयत ॥ 1444cd

मत्वा हिमव्यपायान्तं राज्यरोधं निजप्रभाः । 1445ab
डामरा नवभूभर्तुर्हिमराजाभिधां व्यधुः ॥ 1445cd

ददर्श सौस्सलं मुण्डमथ भिक्षुरुपागतम् । 1446ab
गाढामर्षाग्निसन्दीप्तैर्दृक्पातैर्निर्दहन्निव ॥ 1446cd

कोष्ठेश्वरज्येष्ठपालादयस्तत्सत्क्रियोद्यताः । 1447ab
असहासन्नतां वैराद्भजता तेन वारिताः ॥ 1447cd

नगरं हिमवृष्ट्यन्ते स यियासुर्युयुत्सया । 1448ab
ताटस्थ्येनाहिताकृष्टान्भृत्याञ्ज्ञात्वाब्रवीद्वचः ॥ 1448cd

प्रसह्य प्राप्नुयां राज्यमिति पृथ्वीहरे सति । 1449ab
हते तु तस्मिन्दायदेविपन्नः95 स्यां पतिर्भुवः ॥ 1449cd

इत्यचिन्तयमेतत्तु दैवात्सञ्जातमन्यथा । 1450ab
राज्यस्याशापि विरता हते प्रत्युत यद्रिपौ ॥ 1450cd

किं राज्येनाथ वा कृत्यं भोगमात्रोपयोगिना । 1451ab
जिगीषोरुचितं कस्य ममेवान्यस्य सेत्स्यति ॥ 1451cd

मुण्डं न्यपातयद्भूमौ यः पूर्वेषां पुरा मम । 1452ab
सिंहद्वारे मदीरेद्य तन्मुण्डं वर्तते लुठनत् ॥ 1452cd

दश मासान्मदाद्यानां सुखच्छेदं व्यधत्त यः । 1453ab
तत्तद्दुखं स तु मया दशाब्दाननुभावितः ॥ 1453cd

[page 220]
विश्वास-प्रस्तुतिः
एवं निर्व्यूढकर्तव्यता नेष्याम्यवन्ध्यताम् । 1454ab
उपशान्तमनस्तापः सुस्थित्या शेषमायुषः ॥ 1454cd

इत्याद्युक्त्वा गतष्टिक्काभ्यर्णं तं प्रणतं व्यधात् । 1455ab
प्रीत्या स हेमघटिकश्वेतच्छत्त्रादिभाजनम् ॥ 1455cd

तद्विस्रम्भेण राज्याशापिशाच्योदितया पुनः । 1456ab
गृहीतोभ्येत्य शीतार्तस्तस्थावन्तर्विचिन्तयन्96 ॥ 1456cd

अत्यन्तानुचितं चान्यल्लवन्यैः संव्धित्सुभिः । 1457ab
रक्षितं रक्षिणो न्यस्य हतक्ष्माभृत्कलेवरम् ॥ 1457cd

विपक्षाश्रयणेप्यस्मिन्स्वामिनोन्ते किमीदृशी । 1458ab
दशा शरीरस्येत्यन्तः कृतज्ञत्वेन चिन्तयन् ॥ 1458cd

दिदृक्षाव्याजतः सज्जकाख्यो नगरशस्त्रभृत् । 1459ab
आयातो वाष्टुकं97 गोप्तॄन्युद्धैर्जित्वाग्निसद्य्वधात् ॥ तिलकम्॥98 1459cd

स चतुर्नवताद्वर्षादारभ्यासादितच्छलैः । 1460ab
ब्भूतैरधिष्ठितस्त्रिष्ठन्प्रजासंहारकार्यभूत् ॥ 1460cd

देवताधिष्ठिताविष्टदेहिवाक्यादिति श्रुतिः । 1461ab
भावितद्वधसंवादजनितप्रत्ययोद्ययौ ॥ 1461cd

तदीयानन्यथात्वेन छेत्ता भ्रमयिता च यः । 1462ab
तन्मुण्डस्यास्य स पुमांल्लब्धः सुप्तो मृतस्तथा ॥ तिलकम्॥99 1462cd

भिक्षुः कापुरुषाचारहतौचित्यो व्यसर्जयत् । 1463ab
प्राचण्ड्यख्यातये मुण्डमथ राजपुरीं रिपोः ॥ 1463cd

उच्चलात्मजया तत्र देव्या सौभाग्यलेखया । 1464ab
नेतॄन्पितृव्यमुण्डस्य जिघांसन्त्या निहानुगैः ॥ 1464cd

राजपुर्यामाकुलत्वं नीतायामाससाद तत् । 1465ab
तद्भर्तुः सोमपालस्य दूरस्थस्यान्तिकं चिरात् ॥ युग्मम्॥100 1465cd

आदीनस्य101 मधुक्षैव्यग्राम्यधर्मादिकर्मसु । 1466ab
तिरश्च इव शोच्यस्य नेयबुद्धेः खशप्रभोः ॥ 1466cd

सभ्यैरुच्चावचं तत्र कर्तव्यं परिचिन्तितम् । 1467ab
स्वोचितं व्यञ्जितौचित्यानौचित्यं निरवग्रहैः ॥ 1467cd

नागपालस्तु सौभ्रात्रं लब्ध्वा भ्रातुः स्थितोन्तिके । 1468ab
सेहे मुण्डावशेषस्य नोपकर्तुर्विमाननाम् ॥ 1468cd

सुदीर्घदर्शिनोप्यन्ते कश्मीरेभ्यः पराभवम् । 1469ab
विशङ्क्योचुः सर्वथेदं सत्कार्यं वः शिरः प्रभोः ॥ 1469cd

क्रियते येन102 नियतेरन्यथात्वं सनाथताम् । 1470ab
विनिहस्य हरेर्दृष्टाः कुर्वन्तो यत्र जम्बुकाः ॥ 1470cd

तद्गोपालपुरे कालागुरुचन्दनदारुभिः । 1471ab
काष्ठैर्निष्ठां शिरो निन्ये वीतिहोत्रेथ शत्रुभिः ॥ 1471cd

यथा प्राप्तिभ्रंशा धरणिपतिभावस्य विविधा यथा ह्रासोल्लासा अपि समरसीमासु बहुशः । 1472ab
यथा तत्तद्दीर्घव्यसनविनिपातानुभवनं तथा दृष्टस्तस्य प्रमयसमयोप्यद्भुततरः ॥ 1472cd

कस्यापरस्य तस्येव लेभिरे वह्निसत्क्रियाम् । 1473ab
एकत्रेतरगात्राणि103 मुण्डमन्यत्र मण्डले ॥ 1473cd

टिक्कादयोथ नगरं यान्तोवन्तिपुराध्वना । 1474ab
तत्र हन्तुं व्यलम्बन्त भासादीन्पूर्ववेष्टितान् ॥ 1474cd

युद्धाग्न्युद्दीपनग्रावप्रहारच्छेदकारिभिः । 1475ab
न ते जेतुमशक्यन्त तैः प्रयत्नैरपि ॥ 1475cd

स्थितैर्महाश्मप्राकारगुप्ते सुरगृहाङ्गने । 1476ab
तैर्हन्यमानास्ते स्थातुं गन्तुं वा नाभवन्क्षमाः ॥ 1476cd

एवं प्राप्तविलम्बेषु तेषु लब्धान्तरः सुधीः । 1477ab
स्वीचकार प्रदानेन खडूवीडामरान्नृपः ॥ 1477cd

गृहीतनीविना तेषां सुज्जिः प्रायोजि सत्वरम् । 1478ab
तेन भास्सादिमोक्षाय पञ्चचन्द्रादिभिः समम् ॥ 1478cd

प्रापावन्तिपुरं यावन्न स तावत्तदग्रगान् । 1479ab
कय्यात्मजादीनालोक्य भङ्गं टिक्कादयो ययुः ॥ 1479cd

देवागाराद्विनिर्याता भासाद्यास्ते च विद्विषाम् । 1480ab
भग्नानामनुगान्हत्वा सुज्जेरन्तिकमाययुः ॥ 1480cd

[page 221]
विश्वास-प्रस्तुतिः
लब्धप्रतापे नगरं प्रविष्टे कम्पनापतौ । 1481ab
आययाविन्दुराजोपि टिक्कं सन्त्यज्य सानुगः ॥ 1481cd

चक्रे चित्ररथश्रीवभासादीनपि भूपतिः । 1482ab
पादाग्रद्वारखेर्यादिकर्मस्थानाधिकारिणः ॥ 1482cd

यथापूर्वमधीकारानजहत्सुज्जिरप्यभूत् । 1483ab
प्रतीहारमुखप्रेक्षी का कथेतरमन्त्रिणाम् ॥ 1483cd

प्रतीहारोपि निःशीमडामरग्रामसम्मतः । 1484ab
तद्भेदचक्रिकां कुर्वन्नगाद्राज्ञः प्रतीक्ष्यताम् ॥ 1484cd

स नासीदसुहृद्व्यूहे कोपि तत्प्रेरणेन यः । 1485ab
नाशिश्रियन्नृपं104 नो वा बभूवाश्रयणोन्मुखः ॥ 1485cd

निह्नुतेशित्वसदृशस्फूर्तिर्धूर्तो महीपतिः । 1486ab
आहारमप्यनासाद्य तन्मतं न न्यषेवत ॥ 1486cd

इत्थं नगरमात्रान्तर्लब्धपादप्रसारिकः । 1487ab
सोवर्तिष्ट समासन्नफलं कन्दलयन्नयम् ॥ 1487cd

सङ्घटय्याखिलान्भिक्षुर्डामरान्विजयेश्वरे105 । 1488ab
अथाध्यष्टादधिष्ठानं106 जिघृक्षुः शिशिरात्यये ॥ 1488cd

दृष्टपूर्वं स्वचमूचक्रैक्यं वीक्ष्य डामराः । 1489ab
भिक्षोर्हस्तगतं राज्यं मत्वाशङ्किषताथ ते ॥ 1489cd

एकैकस्यैष107 धीशौर्यम्नित्रामित्रादि दृष्टवान् । 1490ab
नोत्तिष्ठेत्प्राप्तराज्यः किमास्कन्देषु गृहान्तरात् ॥ 1490cd

इति सम्मन्त्र्य ते राज्यं सोमपालाय दित्सवः । 1491ab
दूतान्निगूढं प्राहिण्वन्सोपि[^1491-1] दूतं व्यसर्जयत् ॥ 1491cd

आकाराचारवैक्लव्यैः पशुतुल्यस्य तस्य तैः । 1492ab
राज्यभोगा अभङ्गा नो भविष्यन्तीत्यचिन्तयत ॥ 1492cd

भोगलोभोज्झितौचित्यदस्युसङ्घचिकीर्षितम् । 1493ab
देशेत्र पापत्पापीयो108 दैवान्न समपादि तत् ॥ 1493cd

दास्येप्ययोग्यो यो राज्ये स इत्यास्तां त्रपान्यतः । 1494ab
शक्येत पातुं देशोयं किमीषदपि तादृशा ॥ 1494cd

शीलान्पलालपुरुषोवति यः कृशानुदग्धाननश्चटकपेटकभीतिदानैः । 1495ab
त्रातुं स काननतरून्विहितोi विदध्यात्किं तत्र भञ्जनकृतां वनकुञ्जराणाम् ॥ 1495cd

भिक्षोर्निर्दिष्टतां दिष्टवृद्धिव्याजात्ततो भजन् । 1496ab
तद्दूतो डामरान्गूढं नीविदानोद्यतान्व्यधात् ॥ 1496cd

वैशाख्येथ कृतारम्भस्तदा सम्भावितत्वरः । 1497ab
निर्गत्य नगरात्सुज्जिर्गम्भीरमाययौ ॥ 1497cd

तस्याभियोगः श्लाव्योभूद्योद्धुं यत्समवायिनः । 1498ab
एकाकी तावतो वीरानूरीकृत्य स निर्ययौ ॥ 1498cd

अन्तःपाते साहसानां नाद्भुतं तद्विधेर्वशात् । 1499ab
जीयते लक्षमेकेन लक्षेणैकोथ वा युधि ॥ 1499cd

पारं तरीतुं निःसेतोः सरितोपारयन्नसौ । 1500ab
पारे परस्मिन्नहितानपश्यच्छरवर्षिणः ॥ 1500cd

द्वित्रा निशाः स ते चासंस्तस्याः स्न्धोस्तटत्वये । 1501ab
रुद्धाः सन्नाहिनोन्योन्यरन्ध्रावेक्षणदीक्षिताः109 ॥ 1501cd

अथावन्तिपुरान्नौभिरानीताभिरबन्धयत् । 1502ab
सेतुं साश्वेतरत्सुज्जिरारुह्य तरणीं स्वयम् ॥ 1502cd

तरन्तमेव तं दृष्ट्वा योधैः कतिपयैः समम् । 1503ab
द्विषच्चमूर्मरुल्लोका द्रुमालैiवाभवच्चला ॥ 1503cd

दृष्टं मुहूर्तादेतावदारूढः स च यत्तटम् । 1504ab
बद्धश्च सेतुस्तीर्णाश्च योधा भग्नाश्च विद्विषः ॥ 1504cd

न खड्ग्गी न हयारोहो नापि शूली न चापभृत् । 1505ab
व्यावृत्य प्रेक्षितुं110 कश्चिदशकद्विद्रुताद्बलात् ॥ 1505cd

निबद्धवध्रशैथिल्याल्लोलपल्ययने हये । 1506ab
कोष्ठेश्वरस्याश्ववारा व्यलम्बन्तान्तरे क्षणम् ॥ 1506cd

निर्यन्त्र्य111 तेपि पर्याणं सुज्जौ पश्चात्प्रधाविते । 1507ab
वात्योद्भूतं रजश्चक्रमिव क्षिप्रं तिरोदधुः ॥ 1507cd

हतलुण्ठितविध्वस्तध्वजिनीका विरोधिनः । 1508ab
ध्यानोड्डारादिषु ग्रामेष्वमिलन्खण्डशो गताः ॥ 1508cd

[page 222]
विश्वास-प्रस्तुतिः
विजयेशाग्रगं तीर्त्वा वितस्तासेतुमग्रगः112 । 1509ab
भासोपि दस्यून्विदधे पलायनपरायणान् ॥ 1509cd

उषित्वा विजयक्षेत्रे तदान्येद्युरुपागते । 1510ab
कम्पनेशे113 ययुस्त्यक्त्वा ध्यानोड्डारं विरोधिनः ॥ 1510cd

तत्र स्थित्वा दिनैः कैश्चित्स देवसरसोन्मुखः । 1511ab
शिश्रिये भेदनिर्यातैरेत्य टिक्कस्य गोत्रिभिः ॥ 1511cd

जयराजयशोराजौ तन्मुख्यौ भोजकात्मजौ । 1512ab
प्रविश्य देवसरसं व्यधाट्टिक्कोपवेशने ॥ 1512cd

ययुर्विनष्टसङ्घातास्तस्मिन्पश्चात्प्रधाविते । 1513ab
भिक्ष्वादयः शूरपुरं स्वोर्वीं कोष्ठेश्वरादयः ॥ 1513cd

गर्हा महाभये सोमपालदूतः पलायितः । 1514ab
दास्याः सुतेन प्रहितः कुत्रास्मीति प्रभोर्व्यधात् ॥ 1514cd

स हि तादृङ्महारम्भक्षोभसाद्योन्नतीच्छुताम् । 1515ab
तस्य सिंहीस्पृहाक्रान्तगोमायुवदमन्यत ॥ 1515cd

प्रमादात्स्वामिनो राज्यं चिरं नष्टं मितैर्दिनैः । 1516ab
सुज्जिः प्रसाद्य प्रददावेवं स स्वामिसूनवे ॥ 1516cd

शमालादीनपि व्यूढान्दानोपायेन डामरान् । 1517ab
पौरांश्च भिक्ष्वाश्रयिणो राजाभ्येतुं प्रचक्रमे ॥ 1517cd

राज्ञः परीक्ष्य सामर्थ्यमथ कुर्मो यथोचितम् । 1518ab
इति सर्वाभिसारेण तं सम्मन्त्र्य रणं दधुः ॥ 1518cd

रजोजवनिकालक्ष्यभटौघनटताण्डवः114 । 1519ab
दामोदरेभूत्सङ्ग्रामः स वीरग्रामघस्मरः ॥ 1519cd

कोष्ठेश्वरवशं यातं रक्षता पितरं क्षतम् । 1520ab
लब्धाः सहजपालेन श्लाघाः प्रकृतिभिः समम् ॥ 1520cd

श्रमस्तत्रावैशेषोभूद्राज्ञो भिक्षाचरस्य च । 1521ab
भिक्षुस्त्वहन्यसंवेद्यं विवेदात्मपराजयम् ॥ 1521cd

ततः प्रभृति यः प्रातः स न सायमदृश्यत । 1522ab
योद्य वा न परेद्युः स सैनिको भैक्षवे बले ॥ 1522cd

एवं त्यक्त्वा परान्पौरडामरेषु नृपान्तिकम् । 1523ab
प्रयात्सु लाभसत्कारानुचितान्प्राप्नुवत्सु च ॥ 1523cd

काप्यहम्पूर्विकोत्तस्थौ मनुजेश्वरकोष्ठयोः । 1524ab
प्रयातुं पार्थिवाभ्यर्णं लाभसौख्याभिलाषिणोः ॥ 1524cd

ज्ञात्वाथ तत्काकरुहाद्गृहीतस्वपरिच्छदः । 1525ab
देशान्तरोन्मुखो भिक्षुराषाढे मास्यवाचलत् ॥ 1525cd

अनुयाद्भिः स दाक्षिण्यशेषाद्विहितसान्त्वनैः । 1526ab
तदाद्यैर्डामरैः क्रुध्यन्न निरोद्धुमपार्यत ॥ 1526cd

अकरोत्स्वैरिणीसूनुतया शीलबहिष्कृतः । 1527ab
अतिरूपेषु दारेषु तस्य कोष्ठेश्वरः स्पृहाम् ॥ 1527cd

सटां हरेः फणारत्नमहेर्ज्वालां हविर्भुजः । 1528ab
बालां च तस्य संस्प्रष्टुं115 कोप्रशान्तस्य शक्नुयात् ॥ 1528cd

समं सौस्सलिना बद्धसन्धिराश्रयकाङ्क्षिणः । 1529ab
सोमपालः स्वविषये नादात्तस्य प्रतिश्रयम् ॥ 1529cd

उद्वेजितः प्राणहरैः प्रयत्नैस्तस्य सर्वतः । 1530ab
तद्देशदुर्गममहीसीमान्तं116 सुल्हरीं ययौ ॥ 1530cd

त्रिगर्तेषु दया शीलं चम्पायां मद्रमण्डले । 1531ab
त्यागो दार्वाभिसारेषु मैत्री नामर्त्यधर्मिणाम् ॥ 1531cd

पीडयेत्त्यक्तभीर्भूभृद्दूरस्थे त्वयि डामरान् । 1532ab
त्वामेवाभ्यर्थ्य राजानं ततः कुर्युः क्रमेण ते ॥ 1532cd

क्ष्मां तद्व्रजामोर्थयितुं साम्प्ररं नरवर्मणः । 1533ab
मन्त्रिभिर्युक्तमित्युक्तमपि मन्त्रं न चाग्रहीत् ॥ 1533cd

वसाल्पपरिवारोस्मद्गृह इत्यथ गृह्णतः । 1534ab
श्वशुरप्रार्थनां तस्य भृत्याः पार्श्वादवाचलन् ॥ 1534cd

प्रावर्तताथ नगरे विशद्भिर्विभवोज्ज्वलैः । 1535ab
सुलग्नसुलभे काले वरयात्रेव डामरैः ॥ 1535cd

वीक्ष्याश्वच्छत्त्रतुरगैरेकैकं पार्थिवाधिकम् । 1536ab
सुस्सलक्ष्मापतेर्धैर्ये नैष्टुर्यं तुष्टुवुर्जनाः ॥ 1536cd

औदार्याकारतारुण्यवेषसौन्दर्यमन्दिरम् । 1537ab
कोष्ठेश्वरोधिकं स्त्रीणां प्रययौ प्रेक्षणीयताम् ॥ 1537cd

[page 223]
विश्वास-प्रस्तुतिः
प्रशान्तविप्लवे देशे ययावुत्सववाद्यताम् । 1538ab
विशद्भूरिलवन्यौघतूर्यघोषो117 दिवानिशम् ॥ 1538cd

क्षीराद्या लक्ष्मकेणापि सर्वे मडवराज्यतः । 1539ab
आनीताः पार्थिवाभ्यर्णं सैन्यार्णवभयङ्कराः ॥ 1539cd

अपि भूपालवाल्लभ्यादभूद्राजोपजीविनाम् । 1540ab
प्रतीहारगृहद्वारप्रवेशो वड्डमानकृत् ॥ 1540cd

लवन्यलुण्ठितग्रामतया दुर्भिक्षदुःसहः । 1541ab
व्ययोत्तरङ्गः कालोभूत्स राज्ञो धनदश्रियः ॥ 1541cd

डामरेभ्यो नृपः पारात्सङ्गृह्णन्कृतवेतनः[^1542-1] । 1542ab
निनायाभ्यन्तरं वृद्धिं बाह्यं चापचयं जनम् ॥ 1542cd

तिष्यवैश्यार्घदेवाद्या118 ज्ञातयो जनकद्रुहाम् । 1543ab
राजद्रोहोचितां राज्ञा विपत्तिमनुभाविताः ॥ 1543cd

मासैश्चतुर्भिः स पितृप्रमयाहादनन्तरम् । 1544ab
अनन्यशासनं राष्ट्रं स्वमेव समपादयत् ॥ 1544cd

निर्धाम119 नगरं पौराः सर्वसामर्थ्यवर्जिताः । 1545ab
अनन्तै राष्ट्रमाकीर्णं डामरैः पार्थिवोपमैः ॥ 1545cd

बद्धमूलो नातिदूरे सर्वभारसहो रिपुः । 1546ab
सबाह्याभ्यन्तरा मन्त्रिसामन्ता वैरिसंश्रिताः ॥ 1546cd

मन्त्रोपदेशो120 वृद्धस्य नैकस्यापि नृपास्पदे । 1547ab
अधर्मबहलाः सर्वे भृत्या द्रोहैकवृत्तयः ॥ 1547cd

राज्यारम्भे बभूवेयं या सामग्र्यस्य भूपतेः । 1548ab
सा स्मर्तव्यान्तराज्ञतुं प्रत्युदन्तं विवेक्तृभिः ॥ 1548cd

प्राप्तप्रसङ्गात्तदिदं गुणग्रामोपवर्णनम् । 1549ab
वक्ष्यमाणं सुबहुशोप्यत्र लेशात्प्रदर्श्यते ॥ 1549cd

पूर्वापरानुसन्धानवन्ध्यैर्दृष्टान्तवत्कथाः121 । 1550ab
नाबुद्ध्वातिगभीराणां शक्या रसयितुं गुणाः ॥ 1550cd

प्रत्यक्षस्य गुणान्राज्ञो विचिन्वन्तो यथास्थितान् । 1551ab
अनीर्ष्यस्य भविष्यामो विवेकस्यानृणा वयम् ॥ 1551cd

स्थितस्य तत्त्वविज्ञाने नान्यस्य हि पटुर्जनः । 1552ab
अमानुषानुभावस्य राज्ञः किं पुनरीदृशः ॥ 1552cd

हितानां दाराणां सदृशसुखदुःखस्य सुहृदः कवेः सोल्लेखस्य प्रियसकललोकस्य नृपतेः । 1553ab
स्थितानां कोप्यत्र व्यवहितविवेकः स्वकुकृतेरसामान्यं ज्ञातुं सुभगमनुभावं न कुशलः ॥ 1553cd

भवेत्प्राप्तप्रसरणा परिणामेथ वा मतिः । 1554ab
कथं सर्वस्याद्भुतायां निष्ठायां गुणदोषयोः ॥ 1554cd

सन्त्येवास्यापि विषमाः स्वबहवा दोषतां जनः । 1555ab
येषां विपाकभव्यत्वमजानन्गणयत्ययम् ॥ 1555cd

विकासः केषाञ्चिन्नयनविषमैर्विद्युदुदयैः परेषामुद्भूतिः श्रवणकटुभिर्दीर्घरसितैः । 1556ab
न चेष्टा काप्यन्योपकृतिपरिहीनां जलमुचो जडो वर्षादन्यं गणयति गुणं नास्य तु जनः ॥ 1556cd

गुणांल्लोकोत्तराञ्शृण्वन्नस्यानुभवगोचरान् । 1557ab
भविता पूर्वभूपालकृत्ये सप्रत्ययो जनः ॥ 1557cd

अनुच्चलन्नपि स्थानाद्भूभङ्गेन122 चकार सः । 1558ab
विलोलांल्लोमकम्पेन दिङ्नाग इव भूधरान् ॥ 1558cd

विरुदद्वाहिनीवृन्दा गूढं यद्भयसम्भवम् । 1559ab
वहन्ति तापं भूपाला और्वाग्निमिव सिन्धवः ॥ 1559cd

भूमिभृद्भास्वतस्तस्य तेजसाप्यायितो गतः । 1560ab
पूर्वराजयशश्चन्द्रो भुवनेष्वप्रकाशताम् ॥ 1560cd

यो यस्तं पश्यति स्वात्मसम्मुखं स स सर्वतः । 1561ab
जानात्यवक्रोल्लिखितं देवबिम्बमिवेश्वरम् ॥ 1561cd

स्थिरप्रसादो दत्ते यत्तदादत्ते न स क्वचित् । 1562ab
भयं पुनः प्रणमतां दत्तं हरति विद्विषाम् ॥ 1562cd

कृष्टासेः प्रतिबिम्बं स्वं हित्वा नान्योस्य सम्मुखः । 1563ab
नापरः प्रतिशब्दाच्च गर्जतः प्रतिगर्जति ॥ 1563cd

तस्य नातिशितं कोपे प्रसादे निशितं पुनः । 1564ab
धत्ते तीक्ष्णैकधारस्य तरवारेस्तुलां वचः ॥ 1564cd

[page 224]
विश्वास-प्रस्तुतिः
तस्याकुजन्मनो नित्याम्लानलक्ष्मीविकासिनः । 1565ab
प्रभवन्त्याश्रिताः कल्पशाखिनः पल्लवा इव ॥ 1565cd

राज्ञि गाम्भीर्यदुर्लक्ष्यमाहात्म्यप्रभविषुताम् । 1566ab
विवेद मन्त्रिणां लोकः सिषेवे तांश्च सर्वतः ॥ 1566cd

प्ररूढास्तु प्रतीहारो न विषेहेन्यमन्त्रिणाम् । 1567ab
पार्श्वद्रुमाणामेषाख्यौषधिस्तम्भ इवोद्गतिम् ॥ 1567cd

तस्योत्पाटयतः सर्वांस्तृणानीवावहेलया । 1568ab
स्फूर्जञ्जनकसिंहोभूदशक्योन्मूलनः परम् ॥ 1568cd

आ बाल्यात्संस्तुतो राज्ञः स कृत्स्नव्यवहारवित् । 1569ab
अधृष्यस्तरुणीभूततनयो ह्यास्त सर्वतः ॥ 1569cd

अद्वैधं यौनसम्बन्धादिच्छतस्तत्सुतो मदात् । 1570ab
छुड्डाभिधस्तस्य ततः कृतावज्ञोतनोत्त्रपाम् ॥ 1570cd

रन्ध्रान्वेषी स तद्रोषादुपजापैः क्षणे क्षणे । 1571ab
ससूनौ जनके यत्नान्नृपं123 द्वेषमजिग्रहत् ॥ 1571cd

राज्ञस्तुल्यवयःस्थौ हि जननीगाढसंस्तवात् । 1572ab
राज्यकाले हि सोत्सेकावास्तां तदवकाशदौ ॥ 1572cd

तुरङ्गयोग्योपस्कारस्नानाहारादि राजवत् । 1573ab
अकालज्ञावकुरुतां राजधान्यन्तरेव तौ ॥ 1573cd

सह स्ववृद्धैः समशीर्षिका प्रभोर्न युज्यते प्राप्तसमुन्नतेः क्वचित् । 1574ab
श्रितोन्नतेर्दर्दुरवृन्दलङ्घनं सरोजषण्डस्य महाविडम्बना ॥ 1574cd

तद्भित्तिलाभसंरूढपैशुनालेख्यकल्पनाः । 1575ab
तद्वर्गेप्यखिले चक्रुस्तद्द्विषः कलुषं नृपम् ॥ 1575cd

अथ राजा विजयिनं सत्कर्तुं कम्पनापतिम् । 1576ab
कृतज्ञः श्रावणे मासि जगाम विजयेश्वरम् ॥ 1576cd

अत्रान्तरे पिञ्जदेवादागच्छन्गिरिगह्वरे । 1577ab
प्राप शूरपुरद्रङ्गाधीश्वरादुत्पलो वधम् ॥ 1577cd

पुष्याणनाडादुत्पिञ्जकृतये पुनराग्तः । 1578ab
द्रङ्गाधिपेन गुटिकान्वेषिणा स ह्यवाप्यत ॥ 1578cd

क्षितौ निपतितः पार्श्वप्राप्तमेकं द्विषद्भटम् । 1579ab
मुमूर्षुर्विशिखाविद्धजानुमर्मापि सोवधीत् ॥ 1579cd

प्रत्यावृत्तस्य सत्कृत्य कम्पनेशं महीपतेः । 1580ab
द्वर्यवन्तिपुरस्थस्य124 द्रङ्गेशोरिशिरो व्यधात् ॥ 1580cd

स दृढद्राढिकामुष्टिरसुहृन्मुण्डमुद्गरः । 1581ab
चक्रे तस्य दृढामर्षशोकशङ्कुविपाटनम्125 ॥ 1581cd

आद्यायामेव यात्रायां जातारातिक्षयो जनैः । 1582ab
स निःशेषयिताशेषकण्टकानामगण्यत ॥ 1582cd

तस्मिन्प्रविष्टे नगरं विद्रुताः केपि सागसः । 1583ab
प्रापुर्जनकसिंहाद्याः केपि कारागृहस्थितिम् ॥ 1583cd

कैश्चित्पलायितैः126 शङ्कां ग्राहिताः पृथिवीपतेः । 1584ab
ततः कोष्ठेश्वरमुखाः प्रातिलोम्यं प्रपेदिरे ॥ 1584cd

शमालां निर्गतः श्रीमान्कार्तिकेथ कृती नृपः । 1585ab
तत्र तत्रासुहृद्ग्रामं सङ्ग्रामोग्रमबाधत ॥ 1585cd

यत्र सुस्सलभूपाद्याः प्रापुर्भग्नप्रतापताम् । 1586ab
तं हाडिग्राममदहत्सुज्जिरूर्जितविक्रमः ॥ 1586cd

महीभुजा पीड्यमानैराहूतः कोष्ठकादिभिः । 1587ab
अथ भिक्षाचरो राज्यगृध्रुर्भूयोप्युपाययौ ॥ 1587cd

एकेनाह्ना योजनानि प्रोल्लङ्घ्य दश पञ्च च । 1588ab
शिलिकाकोट्टनामानं गिरिग्राममवाप सः ॥ 1588cd

क्षुत्पिपासाक्लमारातिभीतिमार्गभ्रमोद्भवम् । 1589ab
क्लेशं नाजीगणन्मानी धावितः स जिगीषया ॥ 1589cd

कार्यमायाति वैमुख्यं जिगीषोर्विधुरे विधौ । 1590ab
प्रस्थितस्य पुरोवाते रथस्येव ध्वजंशुकम् ॥ 1590cd

आरम्भमात्रमपि कस्यचिदेव सिद्ध्यै कश्चित्प्रयत्नपरमोप्यफलप्रयासः । 1591ab
मन्थाद्रिणामृतमवाप्युदधेर्मुहूर्तात्सक्तिं चिराद्विदधता न हिमाद्रिजेन ॥ 1591cd

[page 225]
विश्वास-प्रस्तुतिः
भ्रष्टा सरित्स्ववसतेर्जलधिप्रवेशे वेलोर्मिवेल्लनवशेन विवर्तमाना । 1592ab
मिथ्यैव यच्छति धियं पुनरुद्गतेति नोत्थानमस्ति तु विधिव्यपरोपितानाम् ॥ 1592cd

तस्य तावन्महायत्नकठोरस्योदयक्षणे । 1593ab
सिद्धेर्विबन्धो विधिना विधुरेण व्यधीयत ॥ 1593cd

आयातं तमबुद्ध्वा तु127 तस्मिन्नेव क्षणेश्रयत् । 1594ab
पृथ्वीहरानुजः प्राप्तभङ्गः कृत्ताङ्गुलिर्नृपम् ॥ 1594cd

कोष्ठेश्वरः स चावेत्य सम्प्राप्तं तमतिष्ठताम् । 1595ab
कृत्याक्षमौ ततः सर्पाविव मन्त्रनियन्त्रितौ ॥ 1595cd

ताभ्यां स्थानेथ सोन्यस्मिंस्त्याजितोध्वपरिश्रमम् । 1596ab
कार्कोटद्रङ्गमार्गेण निर्गतः सुल्हरीं ययौ ॥ 1596cd

आसीच्च तत्र प्रोच्चण्डदर्पकण्डूलदोर्द्रुमः । 1597ab
ऊष्मायमाणः कश्मीराक्रान्तिसन्ततचिन्तया ॥ 1597cd

उदीपसलिलस्येव तस्य रन्ध्रगवेषिणः । 1598ab
पुरं प्रविष्टो राजापि प्रतीकारमचिन्तयत् ॥ 1598cd

अद्वितीयस्त्वमात्येषु प्रतीहारो मदोग्रताम् । 1599ab
सुज्जेरसहमानोभूच्छलान्वेषणतत्परः ॥ 1599cd

आययावथ विस्रम्भावष्टम्भं वल्गतः प्रभोः । 1600ab
धन्याग्रजः पूतमूर्तिर्जाह्नवीजलमज्जनात् ॥ 1600cd

तदाद्याः संस्तुता राज्ञश्चिरसम्भावितास्ततः । 1601ab
अनाप्नुवन्तोधीकारान्पर्यतप्यन्त चिन्तया ॥ 1601cd

कुर्वाणे कार्यतस्तस्मिन्भरं पित्र्येषु मन्त्रिषु । 1602ab
कालप्रतीक्षाक्षमतामूहुस्ते128 गहनाशयाः ॥ 1602cd

प्रतीहारस्तु दुर्लक्ष्यसुज्जिनिर्लोठनोद्यतः । 1603ab
अप्रियानपि तान्प्रीत्या जग्राहोग्रोपयोगिनः ॥ 1603cd

व्यतीतेष्वथ मासेषु केषुचिद्दैवयोगतः । 1604ab
अकस्मादभवद्भूभृत्स्फीतलूतामयातुरः ॥ 1604cd

विस्फोटशोफातीसारवह्निमान्द्याद्युपद्रवैः । 1605ab
सन्दिग्धाभ्युदये तस्मिन्देशः पर्याकुलोभवत् ॥ 1605cd

इत्थं स्थितः कुलस्यैकभर्तुः129 स्वामी बली रिपुः । 1606ab
तत्पक्षा डामरा राष्ट्रं दुष्टमेव व्यचिन्तयन् ॥ 1606cd

आयत्यां च तदात्वे च हितकृत्यं विचारयन् । 1607ab
राज्ञः श्रीगुणलेखाया जातमेकसुतं शिशुम् ॥ 1607cd

पञ्चाब्ददेश्यम् पर्माण्डिं सुज्जिर्भूमिपतिं तदा । 1608ab
चिकीर्षुर्मन्त्रयामास मातुलेनास्य गार्गिणा130 ॥ 1608cd

इत्थं भूतस्य दुध्रुक्षुः ससूनुः सुज्जिरद्य ते । 1609ab
पञ्चचन्द्रादिभिः सार्धं युक्त्या मन्त्रयतेनिशम् ॥ 1609cd

लब्धरन्ध्रः प्रतीहारो धन्याद्याश्च तदीरिताः । 1610ab
इत्यवोचंस्ततो भूपं स तथेत्यग्रहीच्च तत् ॥ 1610cd

पूर्वप्रजासृज[^1611-1] इवाद्भुतवस्तुतत्त्वव्यावर्णनेन[^1611-2] कुतुकं जनयन्ति तज्ज्ञाः । 1611ab
बाला इवाप्लमतिहार्यधियश्च सन्ति प्रायो नृपा नियमशून्यमनोनुभावाः ॥ 1611cd

शौचस्थाने कृतवसतिभिः स्त्रीव्यवायालये वा निःशस्त्रो यश्छलनकुशलैर्मानसं सम्प्रविश्य । 1612ab
नीतो भूतैरिव विवशतां निर्भरं गर्भचेष्टैर्भद्रं भूपात्कथमिव ततः स्यादवष्टब्धचेष्टात् ॥ 1612cd

निर्हेतु प्रहसन्विटः प्रविशति क्षोणीपतेरन्तिकं प्रीत्युत्फुल्लदृगेष किं किमिति तं पृच्छत्यनच्छाशयम् । 1613ab
ब्रूते किञ्चिदसौ कचानथ कषन्सर्वङ्कषं मानिनां मानप्राणगुणेषु यत्सरभसं दम्भोलिपातायते ॥ 1613cd

सविभ्रमगतागतः किमपि भाषमाणः श्रुतौ प्रभोर्वलितलोचनं जगदवज्ञयालोकयन् । 1614ab
निजस्य मुखविक्रियाप्रणयताडनाद्यैर्विदन्ननुग्रहमिवाहितं नृपतिवल्लभो दुःसहः ॥ 1614cd

अपि जातु स दृश्येत निःसङ्क्षोभमतिर्नृपः । 1615ab
यो यन्त्रपुत्रक इव व्यक्तं धूर्तैर्न नर्त्यते ॥ 1615cd

[page 226]
विश्वास-प्रस्तुतिः
यतो भृत्यान्तराज्ञानाज्जातः सर्वस्वसङ्क्षयः । 1616ab
तत्प्रजादुष्कृतै राज्ञां हा धिङ्नाद्यापि शाम्यति ॥ 1616cd

सुज्जिरारोग्यमन्वेष्टुमागच्छन्पूर्ववत्प्रभोः । 1617ab
विन्यस्तरक्षिणः पश्यन्नविश्वासमखिद्यत ॥ 1617cd

दाक्षिण्यं वसमतां यातमाशये प्रतिबिम्बितम् । 1618ab
दर्पणस्येव राज्ञः स विभाव्याभूत्पराङ्मुखः । 1618cd

तस्मिन्राजगृहे खेदान्मन्दीकृतगतागते । 1619ab
नृपतेस्तद्गतां प्रीतिं निःशेषां जह्रिरे खलाः131 ॥ 1619cd

भृत्यः सुज्जेश्चित्ररथोप्यास्थानद्विजभूः शठः । 1620ab
प्रातिलोम्यावहैर्भर्तुर्मन्त्रैरासीच्छ्रियोन्तकृत् ॥ 1620cd

नीरोगे राज्ञि दृष्टः स दिष्टवृद्ध्यै नृपास्पदे । 1621ab
वसुवर्षी विनिर्याय प्रार्थनार्थी गृहान्ययौ ॥ 1621cd

न तं प्रासादयद्राजा विशालबलवाहनः । 1622ab
आक्रम्योसौ132 कथं नः133 स्यादित्युपायं त्वचिन्तयत् ॥ 1622cd

त्यज्येत हृतकार्योसौ निराशैरनुजीविभिः । 1623ab
मत्वेति तदधीकारानन्येभ्यस्तूर्णमार्पयत् ॥ 1623cd

राजस्थानात्स्रजं धन्यमुदयं134 कम्पनादपि । 1624ab
अजिग्रहन्नरपतिः खेरीकार्यं च रिल्हणम् ॥ 1624cd

हुताधिकारे135 प्रव्यक्तवैकृते नृपतौ ततः । 1625ab
अल्पावशेषानुचरः सुज्जिरासीद्विशङ्कितः ॥ 1625cd

विमानितः पुराद्गङ्गायात्रामुच्चिश्य मानवान् । 1626ab
शोथ सुस्सलभूभर्तुरस्थीन्यादाय निर्ययौ ॥ 1626cd

औत्सुक्यात्प्रार्थनाकाङ्क्षी राजधान्यन्तिके न सः । 1627ab
निर्गच्छन्राजपुरुषैर्न राज्ञा वान्वरुध्यत ॥ 1627cd

तन्न्निर्वासनगर्वस्य स्थापनायानुयात्रिके । 1628ab
प्रतीहारस्तस्य गुप्त्यै कोशादेः स्वात्मजं व्यधात् ॥ 1628cd

निग्रहानुग्रहावस्मदायत्ताविति रक्षिणम् । 1629ab
पुत्रं प्रादाल्लक्ष्मको स136 इति ध्यायन्स विव्यथे ॥ 1629cd

निवृत्तो लक्ष्मको द्वारात्पर्णोत्सं शनकैर्गतः । 1630ab
अवारोपयद्रोहो भागिकं लोहराचलात् ॥ 1630cd

प्रतीहारविसृष्टाय धात्रेयाय महीभुजः । 1631ab
प्रेमाभिधाय तत्कोट्टाधीकारं च समार्पयत्[^1631-1] ॥ 1631cd

उत्खाय लोहरत्यागाच्छङ्काशङ्कुं महीपतेः । 1632ab
स ग्रीष्मविषमं कामं राजपुर्यामलङ्घयत् ॥ 1632cd

अमात्यकन्दुकव्रातपातनोत्पातनक्षमः137 । 1633ab
आयत्तडामरः प्राप प्रथां कामपि लक्ष्मकः ॥ 1633cd

द्वारेथाकारयत्सुज्जिप्रतिमल्लविधित्सया । 1634ab
कृष्यमाणो राजवंशपौरुषं राजमङ्गलम् ॥ 1634cd

अनन्यदेशजः सुज्जेः138 शूरो मत्कोशपोषितः139 । 1635ab
कीर्तिमेष हरेद्दध्यावितीर्ष्याकलुषो139 हि सः ॥ 1635cd

खड्गग्राहिसहायः स क्षुण्णः पर्यटितुं पथि । 1636ab
निःसुखश्चेपहास्यश्च तेन कार्यार्पणात्कृतः ॥ 1636cd

कर्तुं पदव्यां योग्यानामयोग्यान्प्रभवेन्न कः । 1637ab
तेषां गुणैस्तान्संयोक्तुं न शक्यं कारणैरपि ॥ 1637cd

पदे श्रीखण्डस्यानुचितमुचिते वर्ष्मणि निजे वृषाङ्कः प्रक्षेप्तुं प्रभवति रभसात् । 1638ab
न तत्स्वेच्छायत्तत्रिजगदुदयापायघटनोप्यसौ तद्गन्धेन स्फुटमिह पटुः140 सङ्घटयितुम् ॥ 1638cd

तस्मिन्सुज्जिप्रतिस्पर्धामप्रौढे वोढुमक्षमे । 1639ab
दूतानसृजदानेतुं सञ्जपालं दिगन्तरात् ॥ 1639cd

निर्वीरे मण्डले द्वेष्योप्यवापत्कार्यगौरवात् । 1640ab
कोष्ठेश्वरो नरपतेर्नितरामन्तरङ्गताम् ॥ 1640cd

प्रीतिदायैस्तोष्यमाणस्तैस्तैस्तुष्टेन भूभुजा । 1641ab
विस्रब्धो नगरे तस्थौ सोपि लूतामयातुरः ॥ 1641cd

[page 227]
विश्वास-प्रस्तुतिः
एवं दमकदम्बैक्यं राज्ञि कुर्वति कार्यतः । 1642ab
चालकैः सोमपालाद्यैः सुज्जिर्निन्येथ वैकृतम् ॥ 1642cd

प्रतिज्ञाय लतामात्रसाध्यं कश्मीरनिर्जयम् । 1643ab
सोमपालाय तद्राज्यं सोङ्गीचक्रेवमानितः ॥ 1643cd

प्रतिशुश्राव तस्मै च भागिनेयीं स कन्यकाम् । 1644ab
धीमानत्रान्तरे सामदाने प्रयुयुजे नृपः ॥ 1644cd

द्वौ तावल्पाशयौ राजकन्ययोः स्वीक्रियां तदा । 1645ab
रभसाद्यावकुर्वाणावदत्तामन्तरं द्विषाम् ॥ 1645cd

उपायैर्जयसिंहस्य शकुनैश्च निरीक्षितैः । 1646ab
प्रेरितः सोमपालोथ सुज्जेर्मन्दादरोभवत् ॥ 1646cd

स्वयमेत्य प्रतीहारस्तत्र राजपुरीपतिम् । 1647ab
सीमान्तर्भुवमानिन्ये कन्यकोद्वाहसिद्धये ॥ 1647cd

जातां कल्हनिकाख्यायां महादेव्यां महीपतेः । 1648ab
उपयेमे नृपसुतां सोमोम्बापुत्रिकाभिधाम् ॥ 1648cd

याते तस्मिन्कृतोद्वाहे नागलेखाभिधां सुधीः । 1649ab
तत्स्वस्रेयीं141 प्रतीहारो भूभुजे प्रत्यपादयत् ॥ 1649cd

इत्थं राष्ट्रद्वये बद्धसन्धौ निरवकाशताम् । 1650ab
प्राप्तः प्रतस्थे हेमन्ते सुज्जिस्त्रिपथगोन्मुखः ॥ 1650cd

जालन्धरे सङ्घटितो ज्येष्ठपालो निनाय तम् । 1651ab
गाढावमाननिर्नष्टसौष्ठवं भिक्षुपक्षताम् ॥ 1651cd

त्वयि भिक्षाचरे चैकसैन्यनायकतां गते । 1652ab
नोपेन्द्रो वा महेन्द्रो वा समर्थौ प्रत्यवस्थितौ ॥ 1652cd

राज्यप्रदस्य ते यश्च चक्रे राजा विमाननाम् । 1653ab
तस्थुषो यश्च विषये प्रतिकुर्मस्तयोर्द्वयोः ॥ 1653cd

इति सम्प्रेरितस्तेन देङ्गपालान्तिकस्थितेः । 1654ab
यियासुः सोन्तिकं भिक्षोर्भागिकेन न्यषिध्यत ॥ 1654cd

अनिक्षिप्तवतोस्थीनि स्वामिनो जाह्नवीजले142 । 1655ab
न युक्तमेतत्ते कृत्यमित्यावेगादशासि143 च ॥ 1655cd

स्नात्वा द्युनद्यामेष्यामि पार्श्वं व इति निश्चयम् । 1656ab
स पीतकोशः कृत्वास्य ययौ प्रस्तुतसिद्धये ॥ 1656cd

प्रतीहारकरन्यस्तसर्वभारस्तु भूपतिः । 1657ab
मन्दाक्रान्तितया राज्यमसुस्थितममन्यत ॥ 1657cd

यो यो हि व्यग्रहीत्तं तम् सन्धाय सविधस्थितः । 1658ab
तमन्वहं प्रतीहारः सानुग्रहमिवैक्षत ॥ 1658cd

प्रगल्भमाने शास्त्येवमुदयः[^1659-1] कम्पनापतिः । 1659ab
अवधीच्छद्मना दृप्तं प्रकटं कालियात्मजम् ॥ 1659cd

अविश्वासोल्वणान्सर्वलावन्यानथ लक्ष्मकः । 1660ab
निर्मर्यादान्कम्पनेशमीषत्सान्त्वमजिग्रहत् ॥ 1660cd

स्नात्वाभ्येप्यति गङ्गायां यावत्सुज्जिर्विसूत्रताम् । 1661ab
यावत्कथं मया नेया कश्मीरा इति चिन्तयन् ॥ 1661cd

तावन्मात्रान्तरव्याप्त्या राज्ञो विज्ञाय डामरान् । 1662ab
भिन्नान्भिक्षाचरोविक्षद्विषलाटां हिमागमे ॥ 1662cd

मण्डलस्यान्तरे तस्य विविक्षो रुद्धडामरः । 1663ab
प्रतीहारो हिमर्तुश्च निषेद्धा समपद्यत ॥ 1663cd

स टिक्केन पितृद्रोहादेकान्तद्वेषिणा रिपोः । 1664ab
आनीतः सम्मतैर्दत्ताप्यायः सर्वैश्च डामरैः ॥ 1664cd

प्रतीक्षमाणो राज्याप्तिहेतुं सुज्जिसमागमम् । 1665ab
निर्भयष्टिक्कजामातुर्भागिकस्य खशप्रभोः ॥ 1665cd

बाणशालाभिधे दुर्गे वसन्नल्पोच्छ्रितावपि । 1666ab
दूतैर्विभेदमनयत्सर्वडामरमण्डलम् ॥ 1666cd

प्रमोदं सुहृदां त्रासं द्विषां च विसृजन्पुरः । 1667ab
व्यावर्तताथ गङ्गायाः सुज्जिर्विहितमज्जनः ॥ 1667cd

पूर्वविप्रकृते भिक्षावस्मिंश्चाभेदमागते । 1668ab
यथामुष्य महीभर्तुस्तथास्माकं भयं भवेत् ॥ 1668cd

ध्यात्वेति सिंहदेवेन प्रार्थितो व्याजमादधे । 1669ab
सुज्जिस्वीकरणोद्योगे सोमपालो भयाकुलः ॥ 1669cd

सुज्जिर्जालन्धरं प्राप्तः प्रातर्भिक्षाचरान्तिकम् । 1670ab
यावद्यास्यति तं सायं तद्दूतस्तावदासदत् ॥ 1670cd

[page 228]
विश्वास-प्रस्तुतिः
प्रेरितो ज्येष्ठपालेन निषिद्धो भागिकेन च । 1671ab
विरराम स तस्योक्त्या विपक्षाश्रयणग्रहात् ॥ 1671cd

ऋणं देशान्तरोपात्तं तव भूपोपनेष्यति । 1672ab
स्वं च दास्यत्यधीकारं मन्मुखप्रहितार्थनः ॥ 1672cd

इति दूतमुखेनोक्तः सोमपालेन चान्वहम् । 1673ab
विपक्षौत्सुक्यमुत्सार्य तद्देशाभिमुखो ययौ ॥ 1673cd

उदयः कम्पनाधीशो वैशाखे तीर्णसङ्कटः । 1674ab
खशान्वितेन सङ्ग्रामं प्रत्यपद्यत भिक्षुणा ॥ 1674cd

प्राक्तस्थुष्यल्पपृतने जाते पृथुबले ततः । 1675ab
तस्मिन् कोट्टान्तरं भिक्षुः प्राविशत्प्राप्तवेष्टनः ॥ 1675cd

राजाथ विजयक्षेत्रं निर्यातः प्रत्यपूरयत् । 1676ab
कम्पनेशस्य कटकं तास्ताः सम्प्रेषयंश्चमूः144 ॥ 1676cd

यन्त्रोपलशरासारविविधायुधवर्षिणी । 1677ab
दुर्गस्थितैर्नृपचमूः प्रत्ययोध्यश्मवर्षिभिः ॥ 1677cd

पतत्स्वश्मसु भिक्षोश्च नामलक्ष्मसु पत्रिषु । 1678ab
ग्रहीतुं दुर्गजान्राजसेना दीर्घापि नाशकत् ॥ 1678cd

दिनैरभ्यधिके मासमात्रे यातेग्रहीत्ततः । 1679ab
विदार्य मूलं दुर्गस्य धन्यः145 खाताम्बु सम्भृतम् ॥ 1679cd

दुगभाजो बलासाध्या राज्ञ्युपायपरे धियम् । 1680ab
जाततद्वैरिवाधेच्छा धनलुब्धामदर्शयन् ॥ 1680cd

विससर्ज प्रतीहारमथ तद्वस्तुसिद्धये । 1681ab
राजा146 डामरसामन्तमन्त्रिराजात्मजैः समम् ॥ 1681cd

कोष्ठेश्वरत्रिल्लकाद्याः कृच्छ्रस्थस्य147 विमोक्षणम् । 1682ab
करिष्यामो वयं भिक्षोरिति बुद्ध्या तमन्वयुः ॥ 1682cd

पश्यन्सङ्कटशैलाग्रादधः कोट्टं मितोन्नति । 1683ab
जितं मेने प्रतीहारो वीक्ष्यानन्ताः स्ववाहिनीः ॥ 1683cd

पूर्वस्थितैः प्रतीहारानुगैश्चान्यत्र वासरे । 1684ab
अयोधि सर्वसैन्यस्य बलात्कोट्टं जिघृक्षुभिः ॥ 1684cd

ते तावन्तोप्यश्मवृष्ट्या तथा तैः प्रतिचक्रिरे । 1685ab
नास्तीदं विक्रमेणेति यथागृह्णन्विनिश्चयम् ॥ 1685cd

वीरदेहद्रुमाग्रेभ्यो न्यपतन्नश्मभिर्हताः । 1686ab
निर्यदस्रैघसरघाः शीर्षभ्रमरगोलकाः ॥ 1686cd

कोष्ठेश्वरस्य मूढत्वं तत्र किञ्चन । 1687ab
स्वस्य भिक्षोर्लवन्यानामन्येषां च विनाशकृत् ॥ 1687cd

नास्त्यत्र मत्समो वीर इत्येतावत्प्रसिद्धये । 1688ab
स ह्ययुद्धोद्धतं भिक्षोर्यत्प्राणक्षयकार्यभूत् ॥ 1688cd

दुध्रुक्षूणां खशानां स सङ्कटे धैर्यमादधे । 1689ab
कोष्ठेश्वरोस्मि चाभिन्नौ तद्वश्या डामराः परे ॥ 1689cd

यदेतद्दृश्यते भूरि सैन्यमस्मद्धिताय तत् । 1690ab
पर्यवस्येदिति वदन्समभाव्यन्यथा च तत् ॥ 1690cd

विस्रम्भभूरमुष्यारिर्यत्र कोष्ठेश्वरोप्यसौ । 1691ab
अन्येषु तत्र कैवास्थेत्यथ ते निश्चयं दधुः ॥ 1691cd

भूभृत्पितृद्रुहः कार्यवशेन स्वोपवेशने । 1692ab
अङ्गीकृताधिकारस्तु धीमांष्टिक्कस्य लक्ष्मकः ॥ 1692cd

कह्शाधीशं महाग्रामस्वर्णादित्यागसंश्रयात् । 1693ab
स्वीकृत्य भिक्षुदुदुध्रुक्षाबद्धकक्ष्यमकारयत्148 ॥ 1693cd

आनन्दाख्यः खशाधीशस्यालः कृतगतागतः । 1694ab
नीत्वा टिक्कं प्रतीहाराभ्यर्णं भूयोप्यरोपयत् ॥ 1694cd

प्रतीहारस्य टिक्केन सहैक्यं वीक्ष्य डामरैः । 1695ab
निःसंशयं हतोज्ञायि भिक्षुः कोष्ठेश्वरादिभिः ॥ 1695cd

संरब्धास्तद्विमोक्षाय प्राहिण्य्वंस्ते खशान्तिकम् । 1696ab
दूतानूरीकृतस्वर्णदाना भूरिधनैः समम् ॥ 1696cd

खशस्तु दध्यावुत्कोचं149 गृहीत्वास्माभिरुद्धितः । 1697ab
जानाति रक्षितान्प्राणान्भिक्षुः कोष्ठेश्वरादिभिः ॥ 1697cd

समन्युः प्राप्तराज्योथ देङ्गपालोथ दूरगः । 1698ab
हन्यान्मां जयसिंहस्तद्रक्ष्यः पक्ष्यः प्रयत्नतः ॥ 1698cd

मत्वेति तेन प्रत्युक्ता भिक्षुं150 शौचस्थितं गृहात् । 1699ab
विपाद्यातः फलहकं निर्गच्छेत्यूचिरेपि ते ॥ 1699cd

[page 229]
विश्वास-प्रस्तुतिः
स त्वमेध्योपलिप्राङ्गः श्वेवावस्करवर्त्मना । 1700ab
यात इत्ययशो लोके ध्यायन्मानी न निर्ययौ ॥ 1700cd

कोष्ठेश्वरोव्यक्तकृत्यः सैन्यक्षोभेछयाक्षिपन् । 1701ab
रूक्षं कालविदा प्राह्णे प्रतीहारेण सान्त्वितः ॥ 1701cd

नीवौ खशाद्यैर्दत्तायामा प्रत्यूषादगृह्यत । 1702ab
व्यवसायः प्रतीहारमुख्यैर्भिक्षुप्रमापणे ॥ 1702cd

गच्छद्भिरागच्छद्भिश्च राजा दूतैः प्रतिक्षणम् । 1703ab
अन्विष्यन्विजयक्षेत्रे वार्ता पर्याकुलोभवत् ॥ 1703cd

तावद्भिराहवैस्तैस्तैः साहसे दश वत्सरान् । 1704ab
कृतयत्नस्य151 साध्योभून्न यो वृद्धमहीभुजः ॥ 1704cd

डिम्बो राजानुगा डिम्बास्तस्य भिक्षोः प्रमापणम् । 1705ab
साध्यमेते हि मन्यन्ते हन्त किं केन सङ्गतम् ॥ 1705cd

विहस्य मीयते वित्तं खशैरेत्य क्षणादमी । 1706ab
भग्ना नूनं प्रयास्यन्ति मुषिताश्चाखिलाः परैः ॥ 1706cd

पृथग्भूतः कोष्टकोयं त्रिल्लकोस्यैव बान्धवः । 1707ab
एते भिक्षाचरोच्छिष्टपुष्टा आभ्यन्तरा अपि ॥ 1707cd

को नूतनोत्र सम्प्राप्तो यो राज्ञः साधयेद्धितम् । 1708ab
सामग्री नूनमायाता सेयमस्यैव सिद्धये ॥ 1708cd

इत्यूचुः शिबिरे यावज्जनास्तावदवेष्ट्यत । 1709ab
कटकैर्मन्त्रिणां दुर्गं विकोशायुधवाहिभिः ॥ 1709cd

एकाकी चिरसङ्क्लिष्टो हन्तव्यस्तत्कृतेखिलैः । 1710ab
हा धिक्परिकरो बद्धो निर्लज्जैः सर्वशस्त्रिभिः ॥ 1710cd

त एवेत्यूचुरासीच्च कचच्छस्त्रोर्मिनिर्मलः । 1711ab
स्फुरद्योधाक्षिशफरो निःशब्दः सैन्यसागरः ॥ 1711cd

व्योम्नोड्डीयेत वा सैन्यं लङ्घयेद्वा मृगप्लुतेः । 1712ab
दुष्टाभ्रवृष्टिरिव वा निखिलांस्ताडयेत्समम् ॥ 1712cd

साश्चर्यशौर्यः पर्यन्ते स्वीकुर्वन्भिक्षुरायुधम् । 1713ab
सम्भ्रान्तश्चकितश्चासीदित्यन्तश्चिन्तयञ्जनः ॥ 1713cd

एतावन्मन्त्रिणां सिद्धमथ प्रत्यूहसम्भवः । 1714ab
तच्छान्तिः कार्यसिद्धिश्च प्रतापैर्नृपतेरभूत् ॥ 1714cd

सैन्ये भिक्षाचरापातं पश्यत्यूर्ध्वार्पितेक्षणे । 1715ab
कोट्टान्निष्कृष्टशस्त्रीकः पुमानेको विनिर्ययौ ॥ 1715cd

रुदतीभिः परीतस्य नारीभिस्तस्य चिक्षिपुः । 1716ab
पृष्ठे केपि वपुर्लोलकौसुम्भाधरवाससः ॥ 1716cd

बद्धः पलायमानोत्र सोयं भिक्षुरिति ब्रुवन् । 1717ab
उन्मुखः स जनोश्रौषीट्टिक्कं तमथ निर्गतम् ॥ 1717cd

स हि152 भिक्षोः कृतद्रोहतुमुले प्रस्तुतो153 वधम् । 1718ab
तस्माद्राजानुगेभ्यो वा स्वस्याशङ्क्य विनिर्ययौ ॥ 1718cd

अद्रोहोस्मीति लोकस्य प्रत्ययाय चकर्ष च । 1719ab
कृपाणीमुदरं हन्तुं रक्ष्यमाणो निजानुगैः ॥ 1719cd

सानुगस्त्यक्तमार्गां स विलङ्घ्य नृपवाहिनीम् । 1720ab
अद्रिप्रस्रवणोपान्ते नातिदूरेब्न्ह्युपाविशत् ॥ 1720cd

उद्ध्वसंश्चिरसम्प्राप्तैरम्भोभिर्दुर्गनिर्गतः । 1721ab
मायां प्रयोक्तुं प्रारेभे प्रेरितः सोन्यडामरैः ॥ 1721cd

सञ्जातं लम्बमानार्कमहस्तद्रक्ष्यतां क्षणम् । 1722ab
भिक्षुः क्षपायामास्कन्दमपनेष्यन्ति डामराः ॥ 1722cd

इति तद्वाचिकात्तीक्ष्णा नीविभिर्मन्त्रिणां समम् । 1723ab
खशैस्त्यजद्भिर्वृषदो न्यरुध्यन्तारुरुक्षवः154 ॥ 1723cd

ततः किलकिलारावमुखरैः करतालिकाः । 1724ab
योधैर्ददद्भिः सचिवा व्यगृह्यन्ताकुलाशयाः ॥ 1724cd

मुक्ताः स्वामिद्रुहः कृच्छ्रगता राज्यं प्रसाधितुम् । 1725ab
द्विषतो मन्त्रिभिः स्वार्थो155 दत्त्वार्थान्को नु साधितः ॥ 1725cd

राजकार्ये च भानौ च लम्बमानेथ लक्ष्मकः । 1726ab
किमेतदिति तं नीविं खशस्यालमभाषत ॥ 1726cd

सोभ्यधात्कुम्भदास्यापि रोद्धुं शक्यं चिकीर्षितम् । 1727ab
खशानां प्रत्यवस्थाता कथं तत्रास्म्यसन्निधिः ॥ 1727cd

स हन्तुं वैपरीत्यं तं खशानां त्वं व्रजेत्यथ । 1728ab
उक्त्वा व्यसृजदानन्दं जहसे चान्यमन्त्रिभिः ॥ 1728cd

[page 230]
विश्वास-प्रस्तुतिः
सुदूरदर्शिना राज्ञा विषलाटाध्वपाततः । 1729ab
देङ्गपालगृहा – – दारम्भः156 समभाव्यत ॥ 1729cd

अतः प्रधानकोद्देशस्यालः सममगृह्यत157 । 1730ab
प्रागेवार्थैरेतदर्थं ग्रथ्नता दीर्घवागुराम् ॥ 1730cd

सङ्क्षोभावसरे क्षत्ता ततो निःसम्भ्रमोभवत् । 1731ab
शिक्षितं पक्षिणमिव त्यक्तं प्राप्यं विवेद तम् ॥ 1731cd

स तानूचे न हास्यं मे नष्टे कार्येत्र साहसम् । 1732ab
सर्वनाशे हतेमुष्मिन्खशस्यालेपि किं भवेत् ॥ 1732cd

अकुण्ठया भाग्यशक्त्या राज्ञः स्यालः खशस्य सः । 1733ab
सर्वान्नियन्त्र्य दुर्गाग्रात्तीक्ष्णादीनाजुहाव तान् ॥ 1733cd

दस्यूनामसवः कण्ठे सन्देहं मन्त्रिणां धियः । 1734ab
स्वःस्त्रीणां प्रीतयः काष्ठां तीक्ष्णाश्चारुरुहुर्गिरिम् ॥ 1734cd

स चर्मकौपीनपटीबन्धस्तत्स्वाभिधाङ्कितैः । 1735ab
इषुभिः स्वामिवत्स्वस्य ख्यापनं सर्वतो युधि ॥ 1735cd

स ताम्बूलाधारः सक्तिः सा केशश्मश्रुयोजने । 1736ab
याभूदनुमुमूर्षूणां भिक्षुराजोपजीविनाम्158 ॥ 1736cd

निश्चितान्ते ततस्तस्मिन्स तेषां सन्न्यवर्तत159 । 1737ab
कोष्ठेश्वरादिशिबिरं तूर्णं शरणमीयुषाम् ॥ तिलकम्॥160 1737cd

एकैकशो लक्ष्मकेण युक्त्या स्वैः प्रेरितैर्भटैः । 1738ab
टिक्कः स्वं वीक्ष्य वलितं निचकर्ताङ्गुलिं भयात् ॥ 1738cd

खशैरस्मिन्नवसरे स पलायनशङ्किभिः । 1739ab
रक्ष्यमाणस्तेष्वहःसु मनस्तापादभुक्तवान् ॥ 1739cd

वीरस्ताम्यन्विलम्बेन तीक्ष्णानामाहवोत्सुकः । 1740ab
तस्थौ भिक्षाचरः स्वान्तमक्षवत्या विनोदयन् ॥ 1740cd

हर्म्यप्राङ्गनमायाते तीक्ष्णलोके युयुत्सया । 1741ab
उत्तिष्ठता तेन दायः स्तोकशेषः समाप्यत ॥ 1741cd

दीव्यतः161 कान्तया साकं कामिनः सुहृदागमे । 1742ab
प्रत्युत्थास्नोiरिव क्षोभो नान्तस्तस्य व्यजृम्भत ॥ 1742cd

किमद्यापि वधेन स्याद्बहूनामिति चिन्तयन् । 1743ab
स विहाय शरावापं सासिधेनुर्विनिर्ययौ ॥ 1743cd

सुदीर्घचिन्तागलितायामश्यामलिभिः कचैः । 1744ab
चञ्चच्चित्रपताकाङ्कमिव वीरपटाञ्चलैः ॥ 1744cd

गण्डताण्डविताच्छिद्रशङ्खताडङ्करोचिषा । 1745ab
चन्दनोल्लेखकान्त्या च द्योतिताहङ्क्रियास्मितम् ॥ 1745cd

वितीर्णं चित्रचार्यन्ते विपर्यस्ताङ्घ्रिताडनम् । 1746ab
द्योतयन्तमिवालातैः शस्त्रीनेत्राधरांशुकैः ॥ 1746cd

कौसुम्भाधरवासोग्रबद्धधौताधराञ्चलैः । 1747ab
लोलैर्वीरहरिं बद्धसटाटोपमिवांसयोः ॥ 1747cd

दृङ्मनपाणिपादैक्यचारुप्रचुरचारिभिः । 1748ab
चरन्तं मण्डलैश्चित्रैर्लघुचित्रस्थिरक्रमैः ॥ 1748cd

औचित्यस्योचितां चर्यमलङ्कारमहङ्कृतेः162 । 1749ab
अभिमानविभूतीनां नित्योत्सेकमनत्ययम् ॥ 1749cd

अलक्षितक्षिप्रपातं स सर्वोप्युन्मुखो जनः । 1750ab
विचरन्तं तमैक्षिष्ट भिक्षुमग्रे विरोधिनाम् ॥ 1750cd

राजबीजी मधोर्नप्ता तं प्रवीरः कुमारियः । 1751ab
भ्रातापि ज्येष्टपालस्य निर्यातो रक्तिकोन्वगात् ॥ 1751cd

हर्म्यैर्निम्नोन्नतैस्तैर्विशतः परिपन्थिनः । 1752ab
रुरोधैकः शरासारैर्गार्गिको भिक्षुसंश्रितः ॥ 1752cd

ते धावन्तो व्यभाव्यन्त[^1753-1] शरैस्तच्चापनिर्गतैः । 1753ab
वर्षोपलैः पुरोवातप्रेरितैरिव दन्तिनः ॥ 1753cd

स रोद्धा प्रतियोधानां पापैः क्षिप्ताश्मभिः खशैः । 1754ab
क्षताङ्गो भग्नचापश्च चिरेण विमुखीकृतः ॥ 1754cd

तस्मिन्प्रचलिते मार्गैः प्रविश्योच्चावचैर्भटाः । 1755ab
ते च भिक्षाचरादीनां सर्वे गोचरमाययुः ॥ 1755cd

भिक्षोरेकं क्षणालक्ष्यधैर्यं पार्श्वधृतायुधम् । 1756ab
अधावत्तूर्णमादाय शूलमेको वृहद्भटः ॥ 1756cd

[page 231]
विश्वास-प्रस्तुतिः
तस्य प्रहरतः शूलं भिक्षुराश्रितवत्सलः । 1757ab
क्षिप्त्वापहस्तेनावेगात्केशाञ्जग्राह धावितः ॥ 1757cd

प्रजहार कृपाण्या च निर्यत्प्राणे पतिष्यति । 1758ab
तस्मिन्प्राहरतां163 भूयस्तौ कुमारियरक्तिकौ ॥ 1758cd

निर्विभागैर्हते तस्मिन्विविधायुधवाहिभिः । 1759ab
विरोधियोधैः सन्नद्धैस्त्रयो युयुधिरेथ ते ॥ 1759cd

अजायन्त विविक्ताश्च शस्त्रसन्त्रासिताहिताः । 1760ab
कोटराजगरापास्तसरघौघा इव द्रुमाः ॥ 1760cd

अशक्नुवन्तस्तान्हन्तुं खड्गशूरादिभिर्द्विषः । 1761ab
अपसृत्य शरासारैस्ततो दूरादवाकिरन् ॥ 1761cd

भिक्षाचरमृगेन्द्रस्य भञ्जतः शरपञ्जरान् । 1762ab
ततो हर्म्यात्खशैर्मुक्ताः पुष्टाः पाषाणवृष्टयः ॥ 1762cd

धावतस्तस्य घोराश्मवृष्टिकुट्टितवर्ष्मणः । 1763ab
निममज्ज यकृत्पिण्डं भञ्जन्पार्श्वे शिलीमुखः ॥ 1763cd

क्रान्त्वा त्रीणि पदान्याशु स पपात दिशन्क्षितेः । 1764ab
ततश्चिरप्ररूढं तु कम्पं विद्विषतां हरन् ॥ 1764cd

कुमारियोपि बाणेन विद्धवङ्क्षणवर्त्मना । 1765ab
व्रणितोप्यपतद्भर्तुः पादोपान्तेपजीवितः164 ॥ 1765cd

रक्तिकस्तु165 शरेणैव विद्धो मर्माणि विह्वलः । 1766ab
सजीवितोपि निर्जीव इव भूमावुपाविशत् ॥ 1766cd

महाकुलीनैः सहितो हतो भिक्षुरशोभत । 1767ab
वज्रावभुग्नः शिखरी पुष्पितैरिव पादपैः ॥ 1767cd

इयतो राजचक्रस्य मध्ये हर्षनृपात्मनः[^1768-1] । 1768ab
नावमानस्य मानस्य त्वभूद्भिक्षोः[^1768-2] परं पदम् ॥ 1768cd

विधाता नित्यविधुरस्तेनान्तेप्यभिमानितः । 1769ab
अकुण्ठेन ध्रुवं चक्रे गृहीतात्मपराजयः ॥ 1769cd

को वराको महर्द्धीनां सोग्रे पूर्वमहीभृताम् । 1770ab
उदात्तेनान्तकृत्येन166 ते त्वस्याग्रे न किञ्चन ॥ 1770cd

अहोपुरुषिकाग्रस्तैरारोहद्भिर्द्विषद्भटैः । 1771ab
तदवस्थस्तदार्तोपि शस्त्र्यायुद्ध कुमारियः ॥ 1771cd

स्फुरन्योद्धव्यमित्येव स प्रहारावशस्तथा । 1772ab
विज्ञाततत्त्वैररिभिर्वितत्य बहुशो हतः ॥ 1772cd

विपन्नेस्मिन्नलं मूढाः प्रहारैरिति निन्दिताः । 1773ab
खशैः प्रजह्रुर्बहुशो हते भिक्षौ द्विषद्भटाः ॥ 1773cd

अविधेयायुधस्त्रीव्रव्रणवेदनयाधमैः । 1774ab
कैश्चिन्निर्जीवितप्रायो रक्तिकः शस्त्रिभिर्हतः ॥ 1774cd

वयसस्त्रिंशतिं वर्षान्नव मासांश्च भुक्तवान् । 1775ab
स षष्ठाब्दासितज्यैष्ठदशम्यां[^1775-1] नृपतिर्हतः ॥ 1775cd

निदानं विप्लवे दीर्घे सर्वनाशेपि कारणम् । 1776ab
येषां बभूव तेप्येवं तुष्टुवुः सत्त्वविस्मिताः[^1776-1] ॥ 1776cd

नेत्रस्पन्दं भ्रुवोः कम्पं स्मेरास्यत्वं च नामुचत् । 1777ab
सजीवमिव तन्मुण्डं कियतीरपि नालिकाः ॥ 1777cd

एकं व्योम्न्यविशच्चित्रभानुं भूमौ पुनः परम् । 1778ab
तद्देहमप्सरःसङ्गं धराम्बु[^1778-1] च विदज्जडम् ॥ 1778cd

सचिवा विजयक्षेत्रस्थितस्याग्रे महीपतेः । 1779ab
तेषां त्रयाणां मुण्डानि ततोन्येद्युरुपाहरन् ॥ 1779cd

श्रीसुधारत्नदन्त्यश्वशशाङ्कादिप्रकाशने । 1780ab
दृष्टचित्रस्वभावोब्धिर्यथायं पार्थिवस्तथा ॥ 1780cd

तत्र तत्राद्भुतं भावं दर्शयन्भुवनाद्भुतम् । 1781ab
परिच्छेद्यानुभावत्वं न केषामपि गच्छति ॥ युग्मम्॥[^1781-1] 1781cd

नादृप्यन्निहतोसाध्यः पितुर्मे योप्यभूदिति । 1782ab
न जहर्ष विनष्टोयं राजकण्टक इत्यपि ॥ 1782cd

नाकुप्यन्मत्पितुर्मुण्डमेष[^1783-1] भ्रमितवानिति । 1783ab
वीक्ष्य भिक्षोः शिरोव्याजभावौदार्यस्त्वचिन्तयत्[^1783-2] ॥ युग्मम्॥[^1783-2] 1783cd

आकारस्यास्य सम्भाव्यं सत्त्वं न द्वेषवैकृतम् । 1784ab
वैशद्यं स्फटिकस्येव नार्कालोकोपतप्तता[^1784-1] ॥ 1784cd

–1)
[page 232]
विश्वास-प्रस्तुतिः
उत्कर्षात्प्रभृति व्यक्तममुं यावन्महीभुजम् । 1785ab
हा धिक्स्वमृत्युना दृष्टं नेह देहविसर्जनम् ॥ 1785cd

प्रसादवित्ता येप्यासन्पूर्वमस्यौर्वाभुजः । 1786ab
तटस्था इव वीक्षन्ते तेद्य मुण्डावशेषताम् ॥ 1786cd

इति क्षितीशोसामान्यसौजन्योन्तर्विचारयन् । 1787ab
आदिदेश रिपोः शीघ्रं तादृशास्यान्तसत्क्रियाम् ॥ 1787cd

निद्राच्छेदे च निशि च167 ध्यायंस्तस्योदयात्ययौ168 । 1788ab
भवस्वभाववैचित्र्यं मुहुर्मुहुरचिन्तयत् ॥ 1788cd

अपि वर्षसहस्रेण देशे दायाददुःस्थितिः । 1789ab
नूनं न भविता भूय इति लोकोप्यमन्यत ॥ 1789cd

दग्ध्वा तृणं तनु घनं प्रतनोति शष्पं वृष्टिं सुजत्युपचितोष्म दिनं169 प्रदर्श्य । 1790ab
वैचित्र्यसंस्पृशि विधेर्नियमेन कृत्ये न प्रत्ययः क्वचन नञ्चलनिश्चयस्य ॥ 1790cd

कृत्यं निर्वर्त्य विश्रान्त्यै धीरस्यावध्रतो मनः । 1791ab
विधिर्विधत्ते दीर्घान्यकार्यभारसमर्पणम् ॥ 1791cd

आरोढुं प्रथमस्य दीर्घदमनप्रत्तक्लमस्याङ्घ्रिणा170 नो सन्त्ययत एव पादकटको यावद्द्वितीयोखिलः । 1792ab
वाहस्यासनरक्षिणः कलयतो भारावतारात्सुखान्यारोहेण परेण तावदसहाधिष्ठियते पृष्ठभूः ॥ 1792cd

एवमेव क्षपामात्रं राज्ये निःशत्रुतां गते । 1793ab
शोकमूको नृपस्याग्रं प्राविशल्लेखहारकः ॥ 1793cd

पृष्टः सभ्यैः स सम्भ्रान्तैर्यस्मिन्नेवाह्नि भूपतेः । 1794ab
यातो भिक्षाचरः शान्तिमरातिर्दत्तदुःस्थितिः ॥ 1794cd

भ्रातरौ लोहरगिरौ बद्धौ द्वैमातुरौ पुरा । 1795ab
न्यस्तौ सुस्सलभूपेन यौ तौ सल्हणलोठनौ171 ॥ 1795cd

ज्येष्ठे मृते कोट्टभृत्यैः कनिष्ठं लोठनं हठात् । 1796ab
तमिहाद्य त्रियामायामभिषिक्तमभाषत ॥ 1796cd

सुतभ्रातृसुतैर्दृप्तैः राज्यर्हैः सह पञ्चभिः । 1797ab
निर्यातं बन्धनादूचे कोशेषु स तमीश्वरम् ॥ 1797cd

दूयेत मुह्येदाक्रनदेत्प्रसारितभुजः पतेत् । 1798ab
स्वप्याद्विसूत्रो निःस्पन्ददृक्त्वं गच्छेदथ ध्रुवम् ॥ 1798cd

दीर्घदौःस्थशमक्षिप्रमृदूकृतमना नृपः । 1799ab
असौ तत्कालनिपतद्दुर्वार्तावज्रचूर्णितः ॥ 1799cd

इति सम्भाव्य दिक्पालैरपि साकूतमीक्षितः । 1800ab
नाकाराचारचेष्टाभिः प्रागवस्थां जहौ नृपः ॥ 1800cd

न ह्यनन्याभिभूतेन सर्वतोसह्यवर्तिना । 1801ab
तादृशा वैशसेनान्यः सृष्टपूर्वो हि भूपतिः ॥ 1801cd

पित्रास्य यद्बलान्नष्टं राज्यं भूयः प्रसाधितम् । 1802ab
अनेनापि हताराaति विहितं पैतृकं पदम् ॥ 1802cd

हारितौ दुर्गकोशौ172 तौ नष्टनामापि दारकः । 1803ab
दायादशेषो यत्रैको निर्धनो वीतबान्धवः ॥ 1803cd

धनमानान्तकृद्भूरिवर्षान्व्यसनमादधे । 1804ab
उपप्लवप्रिये देशे तत्रैकस्मिन्हतेहिते ॥ 1804cd

मित्रदुर्गार्थसम्पन्नाः प्रोद्भूताः षड्विरोधिनः । 1805ab
भिन्नप्रकृतिकं कोशशून्यमेतच्च173 मण्डलम् ॥ 1805cd

तादृङ्निकषनिस्तीर्णमाहात्म्यस्य महीपतेः । 1806ab
धैर्येण स्पर्धितुं जाने राघवोपि सलाघवः ॥ 1806cd

प्राप्कोषितं हि साम्राज्यदाने निर्वासने च तम् । 1807ab
तुल्यानुभावमस्मार्षीत्पितैवं गणयन्गुणान् ॥ 1807cd

आहूतस्याभिषेकाय विसृष्टस्य वनाय वा । 1808ab
न मया लक्षितस्तस्य स्वल्पोप्याकारविप्लवः ॥ 1808cd

कान्तेषु काननान्तेषु सकान्तं सानुजं च तम् । 1809ab
भूयः श्रियं प्रतिश्रुत्य स्थातुं सावधि सोभ्यधात् ॥ 1809cd

एकक्षणानुभूतेस्मिन्सङ्घट्टे सुखदुःखयोः । 1810ab
ईदृक्तत्तद्दशाभेदादनयोरन्तरं महत् ॥ 1810cd

नियतं निरुपादानां शक्तिं दर्शयितुं जने । 1811ab
नानोपकरणग्रामं सन्नद्धोस्याच्छिनद्विधिः ॥ 1811cd

[page 233]
विश्वास-प्रस्तुतिः
अत्यद्भुतानि कृत्यानि वस्क्ष्यमाणानि भूपतेः । 1812ab
कोमुष्य बहु मन्येत सामग्र्ये सति सम्पदाम् ॥ 1812cd

धैर्याब्धिना कार्यशेषं ज्ञातुं राज्ञा सविस्तरम् । 1813ab
पृष्टोथ कोट्टवृत्तान्तमाचख्यौ174 लेखहारकः ॥ 1813cd

उत्सृज्य भागिके कोट्टं प्रयाते मण्डलेश्वस्रः । 1814ab
लुप्तोद्योगोभवदुप्तौ प्रेमा सम्पत्प्रमत्तधीः ॥ 1814cd

मण्डनाभ्यवहारस्त्रीभोगैकाग्रो मदोग्रया । 1815ab
स वृत्त्या भृत्यवैमुख्याधात्र्याभव्यं व्यवाहरत् ॥ 1815cd

कुल्यानुकम्पिना दृष्ट्युत्पाटनादेः175 स वारितः । 1816ab
देवेन176 नादाद्बद्धानां काञ्चिद्रक्षाक्षमां क्रियाम् ॥ 1816cd

मायाव्युदयनो नाम कायस्थः स्थूलवाञ्छितः । 1817ab
माञिकश्च प्रतीहारो बद्धमूलस्य मन्त्रिणः ॥ 1817cd

पुत्रो भीमाकरस्येन्दाकरश्चात्रान्तरे समम् । 1818ab
दुध्रुक्षवस्तत्र तत्र वधं प्रेम्णो व्यचिन्तयन्177 ॥ 1818cd

अलब्धो हन्तुमप्राप्तावसरैस्तैः कदाचन । 1819ab
कोट्टादट्टालिकां कार्यवशादवरुरोह सः ॥ 1819cd

कश्मीरेभ्यो नृपेणाल्पावशेषप्राणवृत्तिना । 1820ab
प्रैषि शासनमेतादृगिति प्रत्ययसिद्धये ॥ 1820cd

कौट्टौकसामशेषाणां गूढलेखान्विधाय ते । 1821ab
निबद्धसंविदः पूर्वमभिषेच्यस्य भार्यया ॥ 1821cd

दृष्ट्वा दुर्गान्निर्निगडं कृत्वा च निशि लोठनम् । 1822ab
सिंहराजस्वामिविष्णुप्रासादाग्रेभ्यषेचयन्178 ॥ तिलकम्॥178 1822cd

शरदाख्या वधूरेका कापि सुस्सलभूपतेः । 1823ab
तत्र स्थिताभवत्क्षुद्रा तेषामनुमतप्रदा ॥ 1823cd

तदार्पितैरयोयन्त्राभञ्जनैरर्गलानि ते । 1824ab
कोशान्निवार्य प्रयाप्तं कोशरत्नादि जह्रिरे ॥ 1824cd

सभृत्यैः सप्तभिस्तत्तत्साहसं सुमहत्कृतम् । 1825ab
दानेन त्याजिताa या सा179 चण्डालैः प्रतिकूलता ॥ 1825cd

भेरीतूर्यादिनिर्घोषैर्निर्निद्राः कोट्टवासिनः । 1826ab
कृता राजोचिताकल्पमपश्यन्नथ लोठनम् ॥ 1826cd

अदृष्टपूर्वतादृक्षोदात्तवेषः स विस्मयम् । 1827ab
निन्ये जनान्नृपामात्ययोगो दीपैः प्रकाशितः ॥ 1827cd

प्रेम्णः पार्श्वस्थितस्याभ्यामानयोद्दारकोन्तिकम् । 1828ab
ससैन्यौ स्वभुवश्चर्मपासिकाख्यौ च टक्कुरौ ॥ 1828cd

तदास्थयाहितास्कन्दभङ्गस्तेषामशेषतः । 1829ab
रात्रिशेषश्च चन्द्रांशुस्पर्शपाण्डुरशीर्यत ॥ 1829cd

प्रातः प्रेमाथ दुर्वार्ताश्रवणेनोष्णदारुणः । 1830ab
सन्ताप्यमानश्चेष्णांशुकरौ रोद्धुमुपाययौ ॥ 1830cd

तं प्रतोलीतलप्राप्तं निर्यातैर्वैरिसैनिकैः । 1831ab
पराङ्मुखीकृतं वीक्ष्य चलितोस्म्यन्तिकं प्रभोः ॥ 1831cd

श्रुत्वेति भूभृत्त्वरया लुल्लं लोहरमन्त्रिणम् । 1832ab
विससर्जोदयद्वारपतिमानन्दवर्धनम् ॥ 1832cd

भूमिज्ञौ तौ हि कोट्टस्य विवेदानन्यदेशजौ । 1833ab
सोल्पान्नत्वादिरन्ध्राणां लक्षणाद्ग्रहणक्षमौ ॥ 1833cd

प्रविष्टश्च पुरं दृष्ट्वा प्रीतिदायार्थिभिः शिरः । 1834ab
भ्राम्यमाणं भटैर्भिक्षोराक्षिप्यैतानदाहयत् ॥ 1834cd

राजादेशादसंरुद्धैः स्त्रीभूयिष्टैरसौ जनैः । 1835ab
नप्ता पैतामहे देशे द्यह्यमानोन्वशोच्यत ॥ 1835cd

काले ग्रीष्मोदयोद्रिक्तभानौ सुविषमे नृपः । 1836ab
सिद्धिमश्रद्दधानोपि प्रहिणोति स्म रिल्हणम् ॥ 1836cd

स शौर्यस्वामिभक्त्यर्थनैस्पृह्यादिगुणोज्ज्वलः180 । 1837ab
तेन ह्यमोघप्रारम्भः समभावि जिगीषुणा ॥ 1837cd

भवितव्यतया दत्तव्यामोहः प्रेरितोथ वा । 1838ab
शठामात्यैरभूभृत्स व्यक्तायुक्तमन्त्रितः ॥ 1838cd

हीनोर्थदुर्गामाथैर्वैक्लव्यस्य वैरिणः । 1839ab
अनुमेने कृतारब्धीन्भृत्यान्ग्रीष्मोल्बणे क्षणे ॥ 1839cd

उदयः कम्पनाधीशो राज्जोग्रे पर्यशिष्यत । 1840ab
सर्वामात्यः प्रतीहारमन्वगच्छन्पुनः परे ॥ 1840cd

[page 234]
विश्वास-प्रस्तुतिः
राजात्मजहयारोहडामरामात्यमिश्रया । 1841ab
दैर्घ्यं तत्सेनयावापि सर्वसामग्र्युदग्रया181 ॥ 1841cd

सवेष्टयन्नट्टलिकानिविष्टकटको दिशः । 1842ab
सङ्ग्रहीतुं प्रववृते सर्वोपायैर्रोधिनः ॥ 1842cd

लुल्लादयः फुल्लपुरे कोट्टोपान्ताश्रये स्थिताः । 1843ab
भयभेदाहवव्यग्रान्प्रकम्पमनयन्रिपून् ॥ 1843cd

तुस्सलक्ष्मापतिर्बद्धे182 लोठने तत्सुतामदात् । 1844ab
यस्य्मै प्राप्पद्मलेखाख्यां बहुस्थलधराभुजे ॥ 1844cd

साहायकाय प्राप्तस्य तस्य सैन्यैर्द्विषच्चमूः । 1845ab
शूराभिधस्य युद्धेषु प्रत्यग्राहि प्रतिक्षणम् ॥ 1845cd

तेषूपरुद्धराष्ट्रेषु भयदोलायमानधीः । 1846ab
अङ्गीचक्रे नरपतेर्नतिं दण्डं च लोठनः ॥ 1846cd

एतावत्सिद्धमफलारब्धीनामत्र दुःसहे । 1847ab
काले व्यावृत्तिरस्माकमुचितास्मिन्नलाघवा183 ॥ 1847cd

शारदारम्भसुभगे क्रमात्काले बलोर्जिताः । 1848ab
अथारब्धिं विदास्यामः सर्वारम्भेण शोभनाम् ॥ 1848cd

इत्यन्वहं184 लक्ष्मकेण प्रहितं नादधे नृपः । 1849ab
अन्ये च मन्त्रिणो मन्त्रं शाद्यादभर्य्णवर्तिनः ॥ तिलकम्185 1849cd

सर्वाधिकार्युदयनः प्रतिश्तुत्य धनं बहु । 1850ab
साहायकार्थमानिन्ये सोमपालमपि प्रभोः ॥ 1850cd

अपाङ्क्तेयः स सम्बन्धबद्धोपि धनलुब्धधीः । 1851ab
द्रुह्यति स्म महाव्यापन्निमग्नाय महीभुजे ॥ 1851cd

बह्वर्थदो लोठनश्चेत्किं मे सम्बन्ध्यपेक्षया । 1852ab
अन्यथा भवतामस्मीत्यन्यान्वक्ष्यामि[^1852-1] कैतवात् ॥ 1852cd

दम्भमित्यभिसन्धाय सोमपालोभ्य्तुपाययौ । 1853ab
समर्थने हेतुरासीत्सुज्जेर्व्याजे कियानपि ॥ युग्मम्॥186 1853cd

स हि भिक्षाचरौन्मुख्यान्निवार्यानायितो यदा । 1854ab
सोमपालमुखेनोर्वीभुजा राजविसर्जितः ॥ 1854cd

दूतः प्रार्थयमानस्य तस्यार्थान्प्राक्प्रतिश्रुतान्187 । 1855ab
ऋणिकस्योत्तमार्णेभ्यः प्रदातुमनुबध्नतः ॥ 1855cd

तदा भिक्षाचरं जानन्हतकल्पमनेन नः । 1856ab
व्यसनप्रशमे कोर्थ इत्यवज्ञां प्रकाशयन् ॥ 1856cd

मदेन न ददौ किञ्चित्सोथ भिक्षाचरं हतम् । 1857ab
श्रुत्वा निरुपयोगं स्वं राज्ञो ज्ञात्वा सशोकताम् ॥ 1857cd

यावदेकाहमभजल्लोहरव्यसने भयम् । 1858ab
तावन्निशम्य सम्प्राप्तोत्सेको भूयोपि मन्युभाक् ॥ 1858cd

लोठनं बद्धसन्धिं वः करिष्यामीति भूभुजः । 1859ab
उक्त्वा दूतं लोठनेन दापयिष्यामि काञ्चनम् । 1859cd

युष्मभ्यं कथयित्वेति सोमपालं चिकीर्षितुम् । 1860ab
बलितामबलत्वं च सर्वेषां स्वार्थसिद्धये ॥ 1860cd

समं सोमेन तत्सैन्यमध्यप्रस्थित्यलक्षितैः188 । 1861ab
मितैरनुगतो भृत्यैर्वोरमूलकमासदत् ॥ कुलकम्॥ 1861cd

यद्वानौचित्यदुष्पांसुवर्षदूषितकीर्तिना । 1862ab
भोगलुब्धतया तेन हता विततसत्त्वता ॥ 1862cd

तुषारशर्कराशुक्लजलपानाददुर्जरम् । 1863ab
त्यक्तुं भोज्यं मृदु स्निग्धं काश्मीरं न शशाक सः ॥ 1863cd

सतुषं शुष्कसक्त्वादि बहिर्भोक्तुमपारयन् । 1864ab
यैस्तैरुपायैः कश्मीरान्प्रविविक्षुरतोभवत् ॥ 1864cd

काश्मीरकाः कार्यशेषमदृष्ट्वा ग्रीष्मशोषिताः । 1865ab
आकर्ण्य च तदापातमाकुलत्वमशिश्रियन्189 ॥ 1865cd

भुञ्जानैर्भृष्टमांसानि पिबद्भिः190 पुष्पगन्धि च । 1866ab
प्रतीहाराग्रतो हारि मार्द्वीकं लघु शीतलम् ॥ 1866cd

आनेष्यामो जवात्सुज्जिमाकृष्य श्मश्रु संयुगे । 1867ab
इत्थं विकत्थनैस्तैस्तैराहोपुरुषिकाः कृताः ॥ 1867cd

काश्मीरकैर्मितैर्युक्तं खशैः सैन्धवकैरपि । 1868ab
अभिषेणयितुं शेकुर्न तेत्युद्यमिनोपि191 तम् ॥ 1868cd

भ्रातृव्याय च मुख्याय भूभुजां च करार्पणम् । 1869ab
विदध्यां जयसिंहाय वरमित्यभिमानिनाम् ॥ 1869cd

[page 235]
विश्वास-प्रस्तुतिः
बह्वर्थमर्थ्यमानेन लोठनेन तिरस्कृतः । 1870ab
सोमपालः प्रियं किम्चिद्राजपक्षे न्यदर्शयत् ॥ 1870cd

मयि श्वशुरसैन्यानां व्यग्राणां वैरिविग्रहे । 1871ab
सज्जे हिताय त्वं रन्ध्रमन्विष्यसि किमाश्रितः ॥ 1871cd

इति निर्भर्त्सितस्तेन सुज्जिः स्वाहङ्क्रियोचितः । 1872ab
सर्वानुल्लङ्घ्य सन्नद्धो राजसैन्यग्रहेभवत् ॥ 1872cd

जरठाषाढसञ्जातशीतज्वरमहाभयः192 । 1873ab
वरूथिनीमथोत्थाप्य विदद्रौ निशि लक्ष्मकः ॥ 1873cd

विसृष्टदूताः कटकं नष्टं वक्तुं प्रभोर्द्रुतम् । 1874ab
केचिदन्वसरन्सुज्जिं सैनिकास्ते जिघांसवः ॥ 1874cd

पारेणैकेन भूपालसैन्यमन्येन वैरिणः । 1875ab
वर्त्मनः श्वभ्रदुर्गस्य तुल्यमेव प्रतस्थिरे ॥ 1875cd

शारम्बरपथं वैरिवश्यम् त्यक्त्वा प्रियासवः । 1876ab
स्वोर्वीं कालेनकाख्येन193 सङ्कटेन तदन्तिके ॥ 1876cd

तस्मिन्नहन्यस्खलिता वनिकावासनामानि । 1877ab
ग्रामे सैन्या न्यविक्षन्त194 लोकैरुच्चावचैः समम् ॥ युग्मम्॥195 1877cd

अनुप्रस्थायिनोभ्यर्णग्रामकेषपि बुबुडुः । 1878ab
भुक्त्वा पीत्वाथ ते निन्युर्निशार्धमकुतोभयाः ॥ 1878cd

अथापातं विद्विषद्भिः स्वस्य श्रावयितुं द्रुतम् । 1879ab
क्षोभभृत्सुज्जिरभ्येत्य तूर्यघोषमकारयत् ॥ 1879cd

क्षणदाशेष एवाशु पलायां चक्रिरे ततः । 1880ab
तैस्तैः शैलपथैः सेना निरवष्टम्भनायकाः ॥ 1880cd

चित्राम्बराणि मुष्णद्भिः प्राह्णेत्यज्यन्त मन्त्रिणः । 1881ab
भूप्रकम्पैर्गण्डशैला नानाधातुद्रवैरिव196 ॥ 1881cd

लुण्ट्यमानाश्चमूस्त्रातुं नादधे कश्चिदायुधम् । 1882ab
तदा तु येन वा तेन स्वात्मना नान्यस्तु197 रक्षितः ॥ 1882cd

उत्प्लुत्य लङ्घयन्तोद्रीन्केपि शोणाधरांशुकाः । 1883ab
रक्तस्फिजो गतौ प्रापुर्मर्कटा इव पाटवम् ॥ 1883cd

केप्यम्बरपरित्यागविकचद्गौरविग्रहाः । 1884ab
हरितालशिलाखण्डा इव वातेरिता ययुः ॥ 1884cd

शूलवेणुवनाकीर्णैः शैलैरकृशविग्रहाः । 1885ab
केपि श्वासोत्थपूत्काराः करिपोता इवाव्रजन् ॥ 1885cd

किं नामोदीरणैर्मन्त्री स नासीत्तत्र कश्चन । 1886ab
तिरश्चेव[^1886-1] विपर्यस्तधैर्यैर्येन पलायितम् ॥ 1886cd

भृत्यस्कन्धाधिरूढोथ198 गच्छन्मूढः प्रधावितुम्199 । 1887ab
प्रतीहारो द्विषद्योधैर्दूरात्कैश्चिद्व्यलोक्यत ॥ 1887cd

निरंशुकः स सूर्यांशुकचत्केयूरकुण्डलः । 1888ab
प्रतिज्ञायानुसस्रे तैः सर्वप्राणप्रधावितैः ॥ 1888cd

अश्माहतेन भृत्येन त्यक्तः स्कन्धाद्दृषत्क्षतः । 1889ab
स निस्पन्दवपुस्तिष्ठंस्तैरग्राहि महाजवैः ॥ 1889cd

नवबन्धनशोकार्तशारिकाकृशविग्रहः200 । 1890ab
स –ल्गलिरिव201 व्यञ्जद्द्विषः[^1890-3] सङ्कुचितेक्षणः ॥ 1890cd

बद्धस्य मे मानधनप्रहर्तुर्वैशसान्तरम् । 1891ab
इतोधिकं ध्रुवं सुज्जिर्विदध्यादिति चिन्तयन् ॥ 1891cd

स्कन्धेधिरोप्य निःशेषीकृतप्रावारभूषणः । 1892ab
नदद्भिः सोपहासं तैः सुज्जेरग्रं व्यनीयत ॥ तिलकम्॥[^1892-1] 1892cd

प्रच्छाद्य सत्त्ववान्वक्रं सोंशुकेनैष निर्चितः । 1893ab
बृहद्राज इवेत्युक्त्वा तस्मै स्वान्यंशुकान्यदात् ॥ 1893cd

प्रावारिताम्बरं कृत्वा हयारूढं च तं पुनः । 1894ab
धैर्येणायोजयत्स्निग्धैर्वचोभिः परिसान्त्वयन् ॥ 1894cd

निर्लुण्ठिततुरङ्गासिकोशैः परिवृतः खशैः । 1895ab
ततो गृहीत्वा तं श्रीमान्सोमपालान्तिकं ययौ ॥ 1895cd

इमा व्योमाङ्गनाक्रीडत्तडित्तरलविभ्रमाः । 1896ab
भाग्यमेवानुयायिन्यः स्थायिन्यः कस्य सम्पदः ॥ 1896cd

आराधनधिया स्वैरं यस्याग्रेभोजि भृत्यवत् । 1897ab
गात्राणि कुङ्कुमालेपैरुपाचर्यन्त202 च स्वयम् ॥ 1897cd

[page 236]
विश्वास-प्रस्तुतिः
सोमपालादिभिः प्रह्वैः स मासैरेव पञ्चषैः । 1898ab
तेषामग्रे तथाभूतस्तिष्ठंल्लोकैर्व्यभाव्यत ॥ 1898cd

लुल्लोपि पलितश्वेतोपान्तश्यामाननः परैः । 1899ab
वनौका इव बद्धोभूच्छोकमूको वनान्तरे ॥ 1899cd

अर्पितं सुज्जिना सोमपालः स्वीकृत्य लक्ष्मकम् । 1900ab
आनन्गृहीतान्कश्मीरान्निजराष्ट्रं न्यवर्तत ॥ 1900cd

लोठनस्यान्तिकादेत्य स शूरैर्माञिकादिभिः । 1901ab
प्रतिश्रुत्य प्रभूतार्थैः प्रतीहारमयाच्यत ॥ 1901cd

कश्मीरा हि प्रतीहारशिक्षापक्षानुयायिभिः । 1902ab
तदा न कैरमन्यन्त सम्प्राप्या डामराण्डजैः ॥ 1902cd

लुब्धेनापि203 प्रतीहारायत्तं राष्ट्रं जिघृक्षुणा । 1903ab
भूरि चादित्सुना वित्तं राज्ञोकारि न तेन तत् ॥ 1903cd

भग्नमानेष्वमात्येषु प्राप्तेषु नगरं नृपः । 1904ab
हारिते च प्रतीहारे न धैर्यात्पर्यहीयत ॥ 1904cd

यैः सैन्यसारैर्द्वैराज्यं पुरा भिक्षाचरोकरोत् । 1905ab
यैश्चाप्युत्कुपिते राष्ट्रे वृत्त्यावर्तिष्ट सुस्सलः ॥ 1905cd

भूभृता सङ्गृहीतानां शीतज्वररुजा ततः । 1906ab
तेषां दश सहस्राणि योधानां निधनं ययुः ॥ 1906cd

विरराम तदा देशे न मुहूर्तमपि क्वचित् । 1907ab
बान्धवाक्रन्दतुमुलं प्रेतवाद्यमहर्निशम् ॥ 1907cd

वोरघर्मघृणिश्रान्ताशेषव्यवहृतिस्थितिः । 1908ab
सोनुत्साहहतः कालो नष्टराज्य इवाभवत् ॥ 1908cd

नानादिगन्तरायातैः प्राप्तैः काश्मीरकैरपि । 1909ab
लोहरेथ प्रवृद्धर्द्धि राजद्वारमजायत ॥ 1909cd

काकतालीयसम्प्राप्तलोकोत्तरनृपश्रियः । 1910ab
अकुण्ठा लोठनस्यासीत्स्फूर्तिर्वित्तपतेरिव ॥ 1910cd

तस्याकारपरिक्लेशवैशसाभिन्नवृत्तयः । 1911ab
भोगेष्वबाह्या भ्रातृव्यभृत्यपुत्रादयोभवन् ॥ 1911cd

नास्थानवर्षी स्थाने वा बद्धमुष्टिर्विभूतिमान् । 1912ab
स वयःपाकनिष्कर्मव्यवहारो व्यभाव्यत ॥ 1912cd

छाया निरङ्कुशगतिः स्वयमातपस्तु छायान्वितः शतश एव निजप्रसङ्गम् । 1913ab
दुःखं सुखेन पृथगेवमनन्तदुःखानुवेधविधुरा तु सुखस्य वृत्तिः । 1913cd

तादृगभ्युदयावाप्तेर्मारे न्यूनेधिके गते । 1914ab
एकसूनोः सुतो दिल्हो लोठनस्य व्यपद्यत ॥ 1914cd

तमेकपुत्रा शोचन्ती शोकशङ्कुहताशया । 1915ab
ततः प्रपेदे प्रलयं मल्ला लोठनवल्लभा ॥ 1915cd

पत्न्यामभिन्नभावायां गुणज्येष्ठे तथात्मजे । 1916ab
विपन्ने स तथा लक्ष्म्या न कृत्यं किञ्चिदैक्षत ॥ 1916cd

निःस्नेहत्वस्य भूपालसुलभस्य विजृम्भितम् । 1917ab
मोहनी वा श्रियः शक्तिर्यदज्ञासीत्पुनः सुखम् ॥ 1917cd

अकारयन्निर्धनोपि तथा बृद्धस्य कालवित् । 1918ab
लक्षैः षट्त्रिंशता मोक्षं लक्ष्मकस्य क्ष्मापतिः ॥ 1918cd

दिष्टवृद्धिपरिक्षिप्तपुष्पवृष्टौ जनैः पथि । 1919ab
तस्मिन्प्राप्ते न कोज्ञासीद्राज्ञा प्रत्याहतां श्रियम् ॥ 1919cd

स लक्ष्मीमहिमक्षिप्रविस्मृताभिभवप्रथः । 1920ab
प्रभवन्पुनरेवासीन्निग्रहानुग्रहक्षमः ॥ 1920cd

धनप्रलोभनिर्नष्टसर्वावष्टम्भपाटवः[^1921-1] । 1921ab
सुज्जिः साचिव्यमव्याजं भेजे लोठनभूपतेः ॥ 1921cd

दत्तवान्भागिकसुतामविश्वासमपाहरत् । 1922ab
स तस्याद्यप्रियापायदुःस्थितिव्यथया समम् ॥ 1922cd

अभर्थ्य पार्थिवं पद्मरथं चानीतवान्कृती । 1923ab
तस्य सोमलदेव्याख्यामुद्वाहाय तदात्मजाम् ॥ 1923cd

एवं प्रधानसम्बन्धैर्बद्धमूलं विधाय तम् । 1924ab
सोव्याहतस्य साचिव्यग्रहस्यानृण्यमाययौ ॥ 1924cd

अचिन्तयच्च कश्मीरप्रवेशं डामरादिभिः । 1925ab
बहुशः प्रार्थ्यमानेन प्रेरितो नवभूभुजा ॥ 1925cd

इत्थम्भूतं कृतैक्यं च समं सीमान्तभूमिपैः । 1926ab
अथ छलयितुं शत्रुं नीतिं प्रायुङ्क्त सौस्सलिः ॥ 1926cd

[page 237]
विश्वास-प्रस्तुतिः
तत्रोदयद्वारपतिस्तस्यारम्भे गभीरधीः । 1927ab
अलुप्तसत्त्वः स्तुत्यत्वं सारेतरविदामगात् ॥ 1927cd

तत्रत्यः स हि निर्नष्टसर्वस्वोप्यर्थितोहितैः । 1928ab
दानमानादिभिः स्वामिकृत्ये नित्योदितोभवत्204 ॥ 1928cd

वनप्रस्थाभिधे स्थाने लोहरादूरगे स्थितः । 1929ab
अखिन्नोच्छिन्नसङ्ग्रामैर्भेदं निन्ये द्विषद्बलम् ॥ 1929cd

कटाक्षिताभिप्रायेस्मिन्मिथ्या तथ्येन वा दधुः । 1930ab
भयं लोठनभूपालान्माञिकेन्दारकादयः205 ॥ 1930cd

हन्तव्यांश्चाक्रिकानस्मान्सुज्जौ न्यस्ताशयो नृपः । 1931ab
वेत्ति तत्प्रेरणेनासौ तदाशङ्किषतेति ते ॥ 1931cd

सञ्जातं सहजाख्यायां राज्ञ्यां सुस्सलभूपतेः । 1932ab
कुर्मो मल्लार्जुनं भूपं लोहरेस्मिन्हिताय वः ॥ 1932cd

तत्प्रेमाणमिवाकस्मादभिसन्धत्त206 लोठनम् । 1933ab
सन्दिदेशाथ तान्धीमाञ्जयसिंहो महीपतिः ॥ 1933cd

व्याजेन राज्ञा सन्दिष्टं तत्कोट्टं स्त्रीचिकीर्षुणा । 1934ab
प्रतिश्रुतमविश्वस्तैस्तस्मिंस्तैश्च तथैव तत् ॥ 1934cd

मल्लार्जुनं लोठनोथ ज्ञात्वा प्रारब्धचाक्रिकम् । 1935ab
तदाद्यान्भ्रातृसूनूंस्तांश्चाक्रिकानप्यबन्धयत् ॥ 1935cd

अवरुद्धातनूजेन207 शङ्कां सौस्सलिना भजन् । 1936ab
परं विग्रहराजेन प्रातिहार्यमजिग्रहत् ॥ 1936cd

राजा व्याजात्पितृव्येण बद्धसन्धिरुपायवित् । 1937ab
तत्वरे हारितं राज्यं तैस्तैः स्वीकर्तुमुद्यमैः ॥ 1937cd

विसृज्य शूरं निष्कम्पराज्यः सुज्जेः परिश्रमात् । 1938ab
मासान्कांश्चिदसङ्क्षोभो वृत्त्यावर्तिष्ट लोठनः ॥ 1938cd

सुज्जिः पद्मरथापत्यं प्राक्कन्यामानिनाय याम् । 1939ab
अनूढाया विवाहाय तस्या[^1939-1] मातरमागताम् ॥ 1939cd

आकर्ण्य तेजलादीनां[^1940-1] प्रसङ्गेस्मिन्सगौरवाम् । 1940ab
सामात्यो[^1940-2] दर्पितपुरं कृतप्रत्युद्गतो ययौ ॥ 1940cd

माञिकाद्यैरथ प्राप्तरन्ध्रैर्गत्य बन्धनात् । 1941ab
मल्लार्जुनः कोट्टराज्ये208 संहतैरभ्यषिच्यत ॥ 1941cd

ठक्कुरैः प्राग्वदानीतैः प्रतोलीतलमागतान् । 1942ab
भृत्यांस्ते सिंहभूभर्तुः प्रविविक्षून्न्यवारयन्209 ॥ 1942cd

षष्ठेब्न्दे लोठनः शुक्लत्रयोदश्यां स फाल्गुने210 । 1943ab
यथ्जायुज्यत राज्येन तथैवाशु व्ययुज्यत ॥ 1943cd

अनूढां कन्यकां मूढः सम्पदं चाव्ययीकृताम् । 1944ab
प्राप्तां परस्य भोग्यत्वं भाग्यहीनः शुशोच सः ॥ 1944cd

अटित्वाट्टालिकादिभ्यो देशेभ्यो नष्टशक्तिना । 1945ab
तेन सुज्जिबलात्कोशशेषः कश्चिदवाप्यत ॥ 1945cd

पूर्वाहूतान्सिंहभूभृद्भृत्यान्न्यक्कृत्य माञिकः । 1946ab
निनायाप्रतिमल्लत्वं मल्लार्जुनमहीभुजम् ॥ 1946cd

तेनातिव्ययिना नव्यवयसा भूभुजा कृतम् । 1947ab
मौक्तिकैः पूगविच्छेदे ताम्बूलार्पणमेकदा ॥ 1947cd

वर्षतो विषयौत्सुक्याद्घाटकं कुट्टनादिषु । 1948ab
त्यागित्वं तस्य तत्त्वज्ञैः सदोषमुदधोष्यत ॥ 1948cd

प्रजोपतापोपचितः कोशः सुस्सलभूपतेः । 1949ab
तेनातिव्ययिना स्वैरमनुरूपव्ययः कृतः ॥ 1949cd

गणिकाचारणद्रोग्धृविटचेटादिपेटकम् । 1950ab
साधून्विधूय सोपुष्णाद्दर्पोष्णः211 कुर्मतिर्यतः212 ॥ 1950cd

सपत्नसादहितदाद्यादि वा वह्निसाद्भवेत् । 1951ab
द्रविणं क्षोणिपालानां जनतोपद्रवार्जितम् ॥ 1951cd

प्रजापीडनजं वित्तं जयपीडमहीभुजः । 1952ab
दास्याः पुत्रैरुत्पलाद्यैर्विलुप्तं नप्तुरन्तकैः213 ॥ 1952cd

लोकसङ्क्लेशनोद्भूतः कोशः शङ्करवर्मणः । 1953ab
प्रभाकरादिभिः स्वैरं जायाजारैरभुज्यत ॥ 1953cd

1945
–1) Thus A1; A2 ॰त्याटिल्लिकां; cf. viii. 581.
[page 238]
विश्वास-प्रस्तुतिः
अनङ्गवशगाः पङ्गोरङ्गना वृजिनार्जितम् । 1954ab
ददुः सुगन्धादित्याय धनं सम्भोगभागिने ॥ 1954cd

राज्ञो यशस्करस्यार्थान्व्ययीचक्रेतिसञ्चितान् । 1955ab
अङ्गनानङ्गवैवश्यादालिङितजनङ्गमा ॥ 1955cd

पूर्वराजार्जितं पार्वगुप्तिः प्राप्य धनं मृतः । 1956ab
दाता जायौपपत्येन तुङ्गादीनामजायत ॥ 1956cd

सङ्ग्रामराजः श्रीलेखामुखाब्जमधुपैर्धनी । 1957ab
मुषितो व्यड्डसूहाद्यैर्निविडोपार्जनस्पृहः ॥ 1957cd

अप्रत्यवेक्षाक्षपितप्रजस्य जगदूर्जिता । 1958ab
अन्तेनन्तमहीभर्तुर्विभूतिर्भस्मसादभूत् ॥ 1958cd

पुत्रेणापात्रसान्नार्या जारसात्तरसा कृतः । 1959ab
कुकलाकौशलोद्भूतः कोशः214 कलशभूपतेः ॥ 1959cd

सह गेहैः समं स्त्रीभिः सत्रा पुत्रैरभूद्धनम् । 1960ab
अश्रान्तार्जनतर्षस्य हर्षदेवस्य वह्निसात् ॥ 1960cd

चन्द्रापीडोच्चलावन्तिवर्माद्यैर्धर्मनिष्ठुरैः । 1961ab
निष्ठा न्याय्यस्य कोशस्य नावाप्यनुचिता क्वचित् ॥ 1961cd

चौरचाक्रिकसीमान्तभूभृद्वेश्याविटादयः । 1962ab
लुण्ढिं प्रारेभिरे पुष्टां नवे मल्लार्जुनोदये ॥ 1962cd

वञ्चयित्वाप्यसीन्भूभृत्ताम्यन्विघटितेप्सितः । 1963ab
अथ चित्ररथं तूर्णमास्कन्दाय व्यसर्जयत् ॥ 1963cd

द्वारपादाग्रयोस्तुल्याधिकारेण प्रवर्धितः । 1964ab
सोनन्तसामन्तयुतः पदं फुल्लपुरे व्यधात् ॥ 1964cd

उत्सेहिरे न वितता अपि दुर्गसमाश्रयात् । 1965ab
मल्लार्जुनचमूर्जन्ये जेतुं तदनुजीविनः ॥ 1965cd

भेदाय कोट्टमारूढस्तद्भृत्यो राजसम्मतः । 1966ab
मल्लार्जुनानुगै रात्रौ हतः संवर्धनाभिधः ॥ 1966cd

युद्धासाध्येपि तिष्ठन्तः कोट्टे भयविधेयताम् । 1967ab
कोष्ठेश्वरेन्वगायाते तत्रामित्राः प्रपेदिरे ॥ 1967cd

प्रतिश्रुतकरो बद्धसन्धिः स व्यसृजततः । 1968ab
सभाजनाय जननीं तेषां मल्लार्जुनोन्तिकम् ॥ 1968cd

सा वैधव्यविविक्तेन[^1969-1] वेषेणैश्वर्यशोभिना[^1969-2] । 1969ab
कोष्ठेश्वरादीन्सोत्कण्ठाश्चक्रे चपलचेतसः ॥ 1969cd

तस्यां गृहीतविस्रम्भं व्यावृत्तायां तदान्तिकात् । 1970ab
द्वारेशाय ददावूरीकृतं मल्लार्जुनः करम् ॥ 1970cd

आकृष्टो राजजननीचक्षूरागेण कोष्ठकः । 1971ab
दिदृक्षाकपटात्कोट्टमारुरोह मितानुगः ॥ 1971cd

अवरूढेन215 सहितस्तेन चित्ररथस्ततः । 1972ab
सम्भूतप्राभृतो भूमिभर्तुः सविधमाययौ ॥ 1972cd

राजा तु सम्मन्त्र्य ततः प्रायुङ्क्ताहृतिशालिना । 1973ab
उअदयद्वारपतिना नीतिं जेतुमरीन्पुनः ॥ 1973cd

वीतास्कन्दो लोठनेपि गते पद्मरथान्तिकम् । 1974ab
लेभेभिनवभूपालः किञ्चित्पादप्रसारिकाम् ॥ 1974cd

उदूढवान्सोमलाख्यां तां पद्मरथकन्यकाम् । 1975ab
उपयेमे धृतायामो नागपालात्मजामपि ॥ 1975cd

तस्मादहङ्क्रियामूढ्जाल्लेभिरे गूढकैतवाः । 1976ab
भूभुजः सोमपालाद्या भृत्यभावेन वेतनम् ॥ 1976cd

कविगायनजल्पाकयोधचारणचेष्टितैः । 1977ab
बहवो मुमुषुर्धूर्तास्तेपि तं राजबीजिनः ॥ 1977cd

स बाल्यान्निष्परीपाकप्रज्ञो दृष्टो रटन्बहु । 1978ab
जज्ञे वाक्प्रौढिमात्रेण बालिशैः216 कुशलाशयः ॥ 1978cd

केतोरिवाभद्रहेतोः प्रदीप्तं वदनं विना । 1979ab
अनिष्ठुराकृतेर्वृष्टं तस्यान्यत्र न सौषट्ःअवम् ॥ 1979cd

अत्रान्तरे नृपः सुज्जिं सञ्जग्राहोग्रविक्रमम् । 1980ab
माभून्मल्लार्जुनेनापि श्रितोसाविति चिन्तयन् ॥ 1980cd

निर्वासने प्रवेशे च प्रभुः सुज्जेस्ततोधिकम् । 1981ab
तात्कालिकीं प्रतीहारः शक्तिं काञ्चिददर्शयत् ॥ 1981cd

स कम्पनाद्यधीकारस्रजं राजविसर्जिताम् । 1982ab
वितरन्सुज्जये राजस्थानकार्यस्रजं विना ॥ 1982cd

निस्तोषाय गृहायातसोमपालानुरोधतः । 1983ab
प्रसीदन्वामहस्तेन निजजूटस्रजं मदात् ॥ 1983cd

[page 239]
विश्वास-प्रस्तुतिः
आकृष्य प्रददौ तस्य तत्प्राप्तिपरितोषिणः । 1984ab
आप्यायसान्द्रया वृष्ट्या यत्सम्पद्वीरुधो व्यधात् ॥ चक्कलकम्॥[^1984-1] 1984cd

भर्त्रे हिताय सौहार्दं विधूयोदयधन्ययोः । 1985ab
अभजद्रिल्हणः सुज्जेः प्रवेशे प्रतिलोमताम् ॥ 1985cd

प्रत्युद्गमेन सम्मान्य सुज्जिं प्रावेशयन्नृपः । 1986ab
देशान्निरास्थद्धन्यादीन्मानसान्न तु तद्गिरा ॥ 1986cd

कृतागाः क्ष्मापतौ लब्धक्षणे तीक्ष्णैर्जिघांसति । 1987ab
कोष्ठेश्वरः पलयिष्ट ज्ञातोदन्तस्तदन्तिकात् ॥ 1987cd

आस्कन्दायागते राज्ञि गृहीतमनुजेश्वरे । 1988ab
स्वपक्षभेदोपहतः सोथ देशान्तरं ययौ ॥ 1988cd

लोठनस्तु जिनग्राह कांश्चिदालम्ब्य ठक्कुरान् । 1989ab
बप्पनीलाभिधे स्थाने वसन्मल्लार्जुनं बलात् ॥ 1989cd

तत्र दृष्टमसम्भाव्यमेवास्य खलु पौरुषम् । 1990ab
परिभ्रष्टोपि यद्बद्धपदं तमजयत्सदा ॥ 1990cd

जहार तुरगांल्लुण्ठि चकाराट्टिलकापणे । 1991ab
मार्गद्रङ्गादिभङ्गं च – – [^1991-1] सर्वत्र सोकरोत् ॥ 1991cd

राजराजाभिधानेन डामरेणार्थितस्ततः । 1992ab
कश्मीरराज्यसम्प्राप्यै क्रमराज्यमगाहत ॥ 1992cd

तदवेत्य समीपस्थे हते चित्ररथेन सः । 1993ab
तस्मिंल्लवन्ये प्रययौ बप्पनीलभुवं पुनः ॥ 1993cd

तस्मिन्नास्कन्दमसकृद्ददत्यट्टलिकामपि । 1994ab
अवरोद्धुमशकोभूत्कोट्टे मल्लार्जुनो वसन्[^1994-1] ॥ 1994cd

भ्रातृव्येण पितृव्यस्य दापयित्वा धनं बहु । 1995ab
ततः कोष्ठेश्वरो यात्रासज्जः सन्धिं न्यबन्धयत् ॥ 1995cd

लोहरे विहितस्थैर्यो[^1996-1] गृहीत्वा लोठनं ततः । 1996ab
कश्मीरोर्व्यां पपातासौ विजिघृक्षुः[^1996-2] क्षमाभुजा ॥ 1996cd

गिरीनुल्लङ्घ्य कार्कोटद्रङ्गे विहितवान्पदम् । 1997ab
निपत्य मार्गेनुद्घाते यावदन्यैश्च डानरैः ॥ 1997cd

नावाप योगं निर्गत्य क्षिप्रकारी क्षमापतिः । 1998ab
सर्वोद्योगेन तं तावदुत्थानोपहतं व्यधात् ॥ 1998cd

अत्रान्तरे प्रतीहारः प्रापास्तमपपीडया[^1999-1] । 1999ab
न सम्पत्स्वल्पपुण्यानामनपायित्वमायुषः ॥ 1999cd

उत्सारणप्रियतया परिरुद्धसर्वद्वारं गृहे निरनुरोधतया वसन्तः । 2000ab
सम्पल्लघूकृतधियोप्रतिघप्रवृत्तेर्धिग्जानते न रभसान्नियतेर्निपातम् ॥ 2000cd

-
Doubtful emendation; A जिगीषोर्नी॰ and प्रयुक्तो लिप्तरन्तरम्; C जिगीषोर्नी॰ and प्रयत्नो लिप्यनन्तरः. ↩︎ ↩︎ ↩︎ ↩︎
-
Here two seem to be lost; A does not indicate the lacuna. C adds रामेण वानरी सेना यथा पाथोनिधेस्तटे. ↩︎ ↩︎
-
Conjectural reading; A मातुरन्तिकम्. Cf. viii. 1069 ff. and 1138. ↩︎ ↩︎
-
वळोसके; perhaps read बडोत्सके. Cf. वाडौत्सः viii. 1306. ↩︎ ↩︎
-
The last two have become in A partly illegible by an ink blot and have been repeated in the margin by the same hand which supplemented the gloss to i. 110. ↩︎ ↩︎
-
A वाळौत्सः perhaps read वाडोत्सः. Cf. वडोसके viii. 1264. ↩︎ ↩︎
-
The first of this verse has been first omitted and subsequently supplied by A1 in margin. ↩︎ ↩︎
-
A2 had written in margin a gloss of which only इति भाषया is now legible. ↩︎ ↩︎
-
Doubtful emendation; A ॰घोषा; G ॰विप्लवो देशो and ॰घोषादिवा॰. ↩︎ ↩︎
-
Thus A1; R C निवासन॰, as apparently corr. by later hand in A. ↩︎ ↩︎
-
Here one akshara is wanting in A; तु supplemented with C. ↩︎ ↩︎
-
A1 omits here two aksharas without indicating the lacuna; C देङ्गपालगृहादस्मादारम्भः; perhaps read ॰गृहाभ्यर्णादारम्भः. ↩︎ ↩︎
-
Emended; A ॰मानस्यार्थान्प्रा॰, omitting two aksharas; C ॰मानस्य तानर्थान्प्र॰. ↩︎ ↩︎
-
-
Thus A without indicating the lacuna; parhaps read गल्गलिरिव. ↩︎ ↩︎
-
Thus corr. by A1 from ॰केन्दाकादयः. Perhaps read ॰केन्दाकरा॰; cf. viii. 1818. ↩︎ ↩︎
-
Emended with C; A1 नप्तरक्तकैः; the reading नप्तृनर्तकैः, given by A2 in margin, has been struck out. ↩︎ ↩︎