0-1k

विश्वास-प्रस्तुतिः

प्रौढाः कञ्चुकिनो जरद्वरवृषः कुब्जस्तुषारद्युतिर्नित्याप्तोपि बहिष्कृतः परिकरः सोयं समस्तोप्यहो । 0001ab
अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा सा भिद्याद्दुरितं1 चराचरगुरोरन्तःपुरं पार्वती ॥ 0001cd

मूलम्

छन्नकोपप्रसादोभूत्कञ्चित्कालं2 नवो नृपः । 0002ab
प्राङ्मन्थादिव पाथोधिरव्यञ्जितविषामृतः ॥ 0002cd

सोदरो डामरौघश्च तस्याभूतां भृशोन्मदौ । 0003ab
मेघस्येव पुरो वातावग्रहौ स्फूर्तिहारिणौ ॥ 0003cd

यत्किञ्चचविधाय्यासीद्भ्राता यद्यौवनोन्मदः । 0004ab
राज्ञो दुष्प्रक्रिया दौःस्थ्यकरी वात्सल्यशालिनः ॥ 0004cd

सोनिशं हि गजारूढो विकोशासिः3 परिभ्रमन् । 0005ab
आत्तसारां महीं पीतरसां रविरिवाकरोत् ॥ 0005cd

एकीभूतानमून्सर्वाण्डामरान्निर्दहाग्निना । 0006ab
इत्युक्तं तेन नोर्वीभृत्सत्त्वैकाग्रो वचोग्रहीत् ॥ 0006cd

दस्यवो मन्त्रिसामन्ता द्वैराज्येच्छुः सहोदरः । 0007ab
भूर्निष्कोशेत्यभूत्किं न भूपतेस्तस्य सङ्कटम् ॥ 0007cd

अधिराज्याभिषेकेण सत्कृत्य भ्रातरं ततः । 0008ab
पातुं लोहरसम्बन्धं प्राहिणोन्मण्डलान्तरम् ॥ 0008cd

द्विरदायुधपत्त्यश्वकोशामात्यादि स व्रजन् । 0009ab
विनाय सर्वं वात्सल्यादनिषिद्धोग्रजन्मना ॥ 0009cd

आशङ्क्य कोट्टभृत्येभ्यः प्रवेशे प्रत्यवस्थितिम् । 0010ab
उत्कर्षजं प्रतापाख्यं सह निन्येब्रवीच्च तान् ॥ 0010cd

कुर्याममुं पृपमहं प्रातिहार्यं समाचरन् । 0011ab
नम्राः स्वभृत्यवत्तस्थुर्भूभुजो भूम्यनन्तराः ॥ 0011cd

दिनानि सप्त संरुद्धे मार्गे तदनुयायिनाम् । 0012ab
गायनः कनको लब्धान्तरो देशान्तरं ययौ ॥ 0012cd

वाराणस्यां विजहता निर्वेदात्तेन जीवितम् । 0013ab
हर्षभूभर्तृभृत्येषु व्यक्तं निन्ये कृतज्ञता ॥ 0013cd

ऊर्ध्वाधिरोहं दाक्षिण्याद्दस्यूनामुच्चलः पुनः । 0014ab
सेवास्मृत्या सुधीः सेहे चन्दनो भोगिनामिव ॥ 0014cd

तथा जनकचन्द्रेण दर्पाद्व्यवहृतं तदा । 0015ab
राजान्ये डामराश्चासन्यथा नष्टप्रभा इव ॥ 0015cd

अभयस्योरशाभर्तुस्तनयायामजीजनत् । 0016ab
राज्ञ्यां विभवमत्यां यं भोजो हर्षनृपात्मजः ॥ 0016cd

जातं मेँतद्द्वित्रिपुत्रानन्तरं[^0017-1] गुरुभिः शिशुम् । 0017ab
आयुष्कामैस्तमाबद्धाभव्यभिक्षाचराभिधम् ॥ 0017cd

व्यब्दमप्यरिसन्तानतन्तुत्वेनाप्रियोचितम् । 0018ab
ररक्ष तद्गिरा राजा राज्ञ्याश्चाङ्के समार्पयत्4 ॥ तिलकम्॥ 0018cd

तमादाय स्वयं वासौ यावद्राज्येकरोन्मनः । 0019ab
तावद्बभारोङ्गितज्ञो नीतिकौटिल्यमुञ्चलः ॥ 0019cd

तुल्योत्साहासहिष्णुत्वादस्मै कुप्यन्तु डामराः । 0020ab
एष एवातिसत्काराद्यद्वास्तुं विशदाशयः ॥ 0020cd

इति सञ्चिन्त्य स द्वारदित्सां तस्योदघोषयत् । 0021ab
यथा विकारं प्रययुर्भीमादेवादयोखिलाः ॥ 0021cd

[page 170]

विश्वास-प्रस्तुतिः

तेषां यस्य च मात्सर्यं यदा पर्याप्तिमाययौ । 0022ab
तदान्योन्याश्रिता भृत्याः पणं चक्रुर्युयुत्सवः ॥ 0022cd

दिदृक्षुः क्ष्मापतिस्तेषां सेतुपृष्ठे रणं मिथः । 0023ab
वार्यमाणोपि सचिवैरारुरोह चतुष्क्रिकाम् ॥ 0023cd

द्वन्द्वयुद्धे प्रवृत्ते तु डामरैरुभयाश्रितैः । 0024ab
अथ प्रारभ्यताकस्मात्संरब्धैर्दारुणो रणः ॥ 0024cd

सेतुद्वयाध्वना युद्धे लग्ने राज्ञि सरित्तटात् । 0025ab
योधा जनकचन्द्रस्य शरवर्षमवाकिरन् ॥ 0025cd

वान्तः शराः ससीत्कारास्ते स्पृष्टनृपविग्रहाः5 । 0026ab
मग्नाः स्तम्भेष्वदृश्यन्त कोपेनेव प्रकम्पिनः ॥ 0026cd

आकृष्य दोर्भ्यां भूपालं बलादिव ततोनुगाः । 0027ab
प्रविष्टा मण्डपद्वारं चक्रिरे निहितार्गलम्6 ॥ 0027cd

शस्त्रं जनकचन्द्राद्या भीमादेवादरोपि ते । 0028ab
चतुष्किकायां चकृषुस्ततोन्योन्यं जिघांसवः ॥ 0028cd

तुमुले तत्र शस्त्र्याङ्गं भीमादेवानुगोभिनत् । 0029ab
तीक्ष्णो जनकचन्द्रस्य कालपाशात्मजोर्जुनः ॥ 0029cd

स वीक्ष्य स्वं क्षतं द्रोहं प्रयुक्तं भूभुजा विदन् । 0030ab
पादप्रहारारान्विदधे क्रोधाद्द्वारि नृपौकसः ॥ 0030cd

अभग्ने तत्र सन्त्रासात्स्नानद्रोण्यन्तरं गतम् । 0031ab
अधावत्कृष्टशस्त्रीको भीमादेवो जिघांसया ॥ 0031cd

स्तम्भछन्नस्तद्विलोक्य तद्गेहगणनापतिः । 0032ab
मध्यं जनकचन्द्रस्य कृपाणेन द्विधा व्यधात् ॥ 0032cd

तस्मिन्हते तदनुजौ गग्गसड्डौ प्रधावितौ । 0033ab
स एव करवालेनालक्षितोकृत विक्षतौ ॥ 0033cd

अवभज्य तरुं वज्रः सुचिरं नावतिष्ठते । 0034ab
उदग्रकर्मा च पुमान्निहत्यात्युन्नतं रिपुम् ॥ 0034cd

स हि द्विभाद्रे तत्राब्दे हर्षान्ताहादनन्तरम् । 0035ab
अन्यूनानतिरिक्तैर्यत्त्रिभिः पक्षैरहन्यत ॥ 0035cd

यद्द्वोपकर्तुरप्येष द्रोहं यत्स्वामिनो व्यधात् । 0036ab
औत्कद्यात्पप्मनस्तस्य क्षिप्रमेव क्षयं ययौ ॥ 0036cd

सान्तस्तोषे कोपशोकावाविष्कुर्वति कृत्रिमौ । 0037ab
भीमादेवः पलायिष्ट गग्गस्तु व्यश्वसीन्नृपे ॥ 0037cd

प्रहिते लोहरं गग्गे स्वमुल्लाघयितुं क्षतम् । 0038ab
त्रस्तास्तेन व्यसृज्यन्त स्वोर्वीरन्येपि डामराः ॥ 0038cd

उपायापकृतैः प्राप्य7 राज्यं दस्युभिरुज्झितम् । 0039ab
एवं शनैरवष्ठम्भं भेजे भूपतिरुच्चलः ॥ 0039cd

तेनाथ लब्धस्थैर्येण दिनैरेव जिगीषुणा । 0040ab
त्याजिताः क्रमराज्यान्तर्हयसैन्यादि डामराः ॥ 0040cd

ततो मडवराज्यं स प्रस्थितो विप्रियप्रियान् । 0041ab
डामरान्कालियमुखान्बद्ध्वा शूले व्यपादयत् ॥ 0041cd

इल्लाराजोपि बलवांस्तेन क्रान्तक्षितिः क्रमात् । 0042ab
बलैर्नगर एवोग्रैरवस्कन्देन घातितः ॥ 0042cd

प्राग्जन्मप्रेमसंस्कारादन्तरज्ञतयाथ वा । 0043ab
तस्य पुत्र इव प्रीतिर्गग्ग एव व्यवर्धत ॥ 0043cd

न सेहे नाममात्रं यः कण्ठकानां प्रियप्रजः । 0044ab
नृपो गग्गाय चुक्रोध सापराधाय8 न क्वचित् ॥ 0044cd

राज्यारम्भेनुयुक्तेन भीमादेवेन धीमता । 0045ab
उक्ते शुभावहे शिक्षे द्वे स मन्त्रवदस्मरत् ॥ 0045cd

एकया लोकवार्तार्थं प्राह्णात्प्रभृति निर्गतः । 0046ab
बहिरुद्दिश्य बाह्यालीरचारीदादिनक्षयम् ॥ 0046cd

अन्ययोत्थानशीलेन9 श्रुत्वा नामापि वैरिणः । 0047ab
अर्धरात्रेपि यात्राभिस्तेनाच्छिद्यत विप्लवः ॥ 0047cd

तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये10 मनस्विनः । 0048ab
कार्पण्योपहतं11 वृत्तं नाप्यभूदमलीमसम्12 ॥ 0048cd

अद्योच्चलसदाचारजाह्न्वीजलमज्जनात् । 0049ab
कुनृपोदीरणोद्भूतो गिरः पाप्मापनेष्यते ॥ 0049cd

तेनानुपचिताङ्गेन प्रायशो विनिवारिताः । 0050ab
अनूरुणेव सदृष्टिध्वंसिनो ध्वान्तसञ्चयाः ॥ 0050cd

[page 171]

विश्वास-प्रस्तुतिः

प्रायोपविष्टप्रमये देहत्यागप्रतिज्ञया । 0051ab
निबद्धया प्रत्यवेक्षां धर्माध्यक्षानकारयत् ॥ 0051cd

निशम्य कृपणस्यार्तं क्रन्दितं तदनिष्टकृत् । 0052ab
बभूव तस्य स्वात्मापि नानिग्राह्यो महात्मनः ॥ 0052cd

कार्यिणो यस्य वा दोषादार्ताक्रन्दितमुद्ययौ13 । 0053ab
तस्य स्ववान्धवाक्रन्दैस्तस्मिन्क्रुद्धे शशाम तत् ॥ 0053cd

अबलानुग्रहव्यग्रे तस्मिन्राजनि सर्वतः । 0054ab
वास्तव्या बलिनस्तस्थुरबलास्त्वधिकारिणः ॥ 0054cd

सोश्वेनैकश्चरन्राजेत्यज्ञात्वा कथितं जनैः । 0055ab
यं यं स्वदोषमश्रौषीत्तं तं त्वरितमत्यजत् ॥ 0055cd

येन केनापि सम्प्राप्तः प्राप्त्युपायेन पार्थिवः । 0056ab
अमोघदर्शनः सोभूत्कल्पवृक्ष इवार्थिनाम् ॥ 0056cd

सुधावर्षी प्रियालापप्रीतिदायैर्जनप्रियः । 0057ab
नाशकत्सेवकांस्त्यक्तुं विश्रम्भभवनेष्वपि14 ॥ 0057cd

श्लाघ्यश्रमैः प्रतिकलं तस्य सेवाविधायिभिः । 0058ab
प्राप्तं त्रिचतुरान्वारान्क्षणदास्वपि दर्शनम् ॥ 0058cd

सेव्यमानः सदाक्षिण्यः क्षणेनैव फलप्रदः । 0059ab
कस्यैन्द्रजालिकैरुप्तः शाखीव न बभूव सः ॥ 0059cd

वास्तव्यानां निशम्यार्ति तेन दैत्यनिवारणम् । 0060ab
चक्रे पित्रेव पुत्राणां सन्त्यक्तेतरकर्मणा ॥ 0060cd

स्वसञ्चितानि सोन्नानि विक्रीणानोल्पवेतनैः । 0061ab
दुर्भिक्षमुद्गतावेव जघान जनवत्सलः ॥ 0061cd

निवार्य चौर्याचारणात्कृपार्द्रस्तस्करानपि । 0062ab
कोशाध्यक्षान्स विदधच्चकारागर्ह्यजीविकान् ॥ 0062cd

कः संविभाग्यश्छेत्तव्या विपदः कस्य मण्डले । 0063ab
इत्यन्विष्यन्सदैकैकं चारैश्चिन्तापरोभवत् ॥ 0063cd

तस्यैकोप्यर्थनैस्पृह्यं नाम कोपि महान्गुणः । 0064ab
अनुषक्तो गुणैस्तैस्तै राज्ञः पल्लवितोभवत् ॥ 0064cd

स स्थित्यै दण्डयन्दण्ड्यानघाश्लेषभयाद्धनम् । 0065ab
तेषां नादत्त सत्कर्म शुद्धये तांस्त्वकारयत् ॥ 0065cd

प्रस्तुतस्यार्थिने दातुं वस्तु तस्यैकसङ्ख्यया । 0066ab
सहस्रसङ्ख्यया दानश्रद्धागात्पूर्णतां यदि ॥ 0066cd

श्रूयतेर्थी यथा मह्यं देहि देहीति गां वदन् । 0067ab
तथास्मै देहि देहीति वदन्दाता स शुश्रुवे ॥ 0067cd

अनुदात्तं क्षिप्तकालं क्षीणसङ्ख्यमसत्कृतम् । 0068ab
नेतृदूतादिनीतार्धं न तद्दत्तमदृश्यत ॥ 0068cd

उत्सवे दैन्यविज्ञप्तौ रञ्जने कार्यसाधने । 0069ab
आलेख्यलीनशाखीव न सोलभ्यफलोभवत् ॥ 0069cd

उत्सवे शिवरात्र्यादौ जनतां सोसिचद्धनैः । 0070ab
ग्रहयोगे पयःपूरैर्महेन्द्र इव मेदिनीम् ॥ 0070cd

ताम्बूलदानव्यसनं परार्व्योत्सवता तथा । 0071ab
नाभूद्घर्षनृपस्यापि तादृक्तस्यास्त15 यादृशी ॥ 0071cd

लोष्टमात्रावशेषेपि लब्धे नृपपदे व्यधात् । 0072ab
स दानविभ्रमांस्तान्ये16 धनदेनापि दुष्कराः ॥ 0072cd

निर्माणलोठनैर्धाम्नामजस्रं वाजिनां क्रयैः । 0073ab
काश्मीरिकोपि17 चक्रे स न मृत्तस्करसाद्धनम् ॥ 0073cd

अध्वन्यध्वनि योगेन प्राणविन्यासनैस्तथा । 0074ab
बभूव सर्वकृत्यज्ञः सोन्तरात्मेव देहिनाम् ॥ 0074cd

भोगान्राजोचितान्विप्रा भैषज्यं व्याधिपीडिताः । 0075ab
वेतनं वृत्तिहीनाश्च तस्मात्समुपलेभिरे ॥ 0075cd

पित्र्योपरागकेत्वादिदुर्निमित्तोपशान्तिषु18 । 0076ab
गोसहस्राश्वहेमादिसम्भवैः सोभजद्द्विजान् ॥ 0076cd

नन्दिक्षेत्रे पुरं कृत्स्नं दग्धमुत्पातवह्निना । 0077ab
पूर्वाधिकगुणं तेन नवं राज्ये व्यधीयत ॥ 0077cd

श्रीचक्रधरयोगेशस्वयम्भूस्थानयोजनम् । 0078ab
जीर्णोद्धृतिव्यसनिना कृतं तेन सुकर्मणा ॥ 0078cd

हर्षदेवेन यो निन्ये श्रीपरीहासकेशवः । 0079ab
परिहासपुरे तं स नवं नरपतिर्व्यधात् ॥ 0079cd

[page 172]

विश्वास-प्रस्तुतिः

प्राग्वर्णितशुकावल्या भूषितो हर्षनीतया । 0080ab
तेन त्रिभुवनस्वामी निर्लोभेन महीभुजा ॥ 0080cd

जयापीडाहृतं हर्षोत्पाटने प्लुष्टमग्निना । 0081ab
सिंहासनं नवं चक्रे स राज्यककुदं नृपः ॥ 0081cd

लब्ध्वा तदर्धाध्यारोहं भर्तुः प्रेम्णातिदुर्लभम् । 0082ab
सामान्ययापि देवीत्वं जयमत्या न दूषितम् ॥ 0082cd

सा ह्यानृशंस्यमाधुर्यत्यागसत्प्रियतानयैः । 0083ab
शस्तम्भार्तपरित्राणमुख्यैर्भव्याभवद्गुणैः ॥ 0083cd

लब्धभूपालवाल्लभ्या नार्थः क्रोधात्प्रजासु यत् । 0084ab
राक्षस्य इव भङ्गाय लावण्यललिता अपि ॥ 0084cd

प्रियप्रजस्यायमन्यो गुणः सर्वगुनाग्रणीः । 0085ab
उच्चलक्ष्मापतेरासीदर्थनैस्पृह्यशालिनः ॥ 0085cd

जिघांसवः पापकामः परस्वादयिनश्च ताः । 0086ab
रक्षांस्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥ 0086cd

तेनेतिहासिनीं नीतिं श्रद्धानेन सर्वदा । 0087ab
येन सम्पठता श्लोकं कायस्थोन्मूलनं कृतम् ॥ 0087cd

यत्ते विषूचिकाशूलसन्न्यासेभ्यः किलेतरे । 0088ab
घ्नन्त्याशुकारिणो विश्वं प्रजारोगा नियोगिनः ॥ 0088cd

पितरं कर्कटो हन्ति मातरं हन्ति पुत्तिका । 0089ab
हन्ति सर्वं तु कायस्थः कृतघ्नः प्राप्तसम्भवः ॥ 0089cd

गुणान्समर्प्य स्फुरता येनैवोत्थाप्यते शठः । 0090ab
वेताल इव कायस्थस्तमेवाहन्ति हेलया ॥ 0090cd

विषवृक्षे नियोगी च यदेवाश्रित्य वर्धते । 0091ab
चित्रं करोति तस्यैव स्थानस्यानभिगम्यताम् ॥ 0091cd

तेन ते क्ष्माभुजा मानक्षतिकार्यनिवारणैः । 0092ab
काराप्रवेशैश्च खलाः शमं नीताः पदे पदे ॥ 0092cd

कार्यान्निवार्य बहुशः सहेलाद्यान्महत्तमान् । 0093ab
भङ्गासूत्रमयं वासः कारायां पर्यधापयत् ॥ 0093cd

स कार्यवेषं हास्स्याय सभार्थं चारणोचितम् । 0094ab
अकारयद्भूतभिंश्च19 धावनं डीम्बयोधवत्20 ॥ 0094cd

स प्रांशुर्वेष्टितश्मश्रुरुष्णीषेणोत्फलत्पुनः । 0095ab
शूलहस्तः सजानूरुः केषामासीन्न हास्यकृत् ॥ 0095cd

स शीर्षदर्शनं साम्यवादवेश्याविटान्वितम् । 0096ab
प्रियवेश्यं कञ्चिदग्रे नृत्तवाद्यमकारयत् ॥ 0096cd

बद्ध्वान्यं शकटे नग्रं क्षुरलूनार्धमस्तकम् । 0097ab
अकारयत्सटान्यस्तचीनपिष्टच्छटाङ्कितम् ॥ 0097cd

ते कुम्भवादनैर्मुण्डमण्डनैश्चाङ्किताभिधाः । 0098ab
नियोगिनो भग्नमानाः सर्वतः ख्यातिमाययुः ॥ 0098cd

कार्यभ्रष्टा मलविक्लिन्नक्षीणवस्त्रावगुण्ठनाः । 0099ab
सर्वार्थिनो व्यभाव्यन्त केप्यटन्तः प्रतिक्षपम् ॥ 0099cd

वृथावृद्धाः सुखप्राप्यं पाण्डित्यं भूर्जवत्परे । 0100ab
मत्वा बाला इवाचार्यगृहे प्रारेभिरे श्रुतम् ॥ 0100cd

केप्युच्चैरट्टभिक्षाकाः सादरं स्तोत्रपाठिनः । 0101ab
कृतानुपाठाः स्वापत्यैः प्राह्णे लोकमहासयन् ॥ 0101cd

माता स्वसा सुता भार्या स्वापि कैरप्यकार्यता । 0102ab
सामन्तसेवनं कार्याप्त्यै सुरतसेवया ॥ 0102cd

जातकस्वप्नशकुनसुलक्षणनिरीक्षणम् । 0103ab
कारयद्भिः शठैरन्यैर्गणकाः परिखेदिताः ॥ 0103cd

पिशाचा इव शुष्कास्या रूक्षश्मश्रुकचाः कृशाः । 0104ab
बद्धाः परैर्व्यभाव्यन्त शृङ्खलामुखराङ्घ्रियः ॥ 0104cd

नृपेण कार्यिणां दर्पलिङ्गनाशे विपाटिते । 0105ab
अक्ष्णोर्ज्ञातिपरिज्ञानक्षमत्वं समजायत ॥ 0105cd

भारतस्तवराजादिस्तोत्रपाठमशिश्रियन् । 0106ab
ते दुर्गोत्तारिणीविद्याजपं चोदस्रुलोचनाः ॥ 0106cd

इत्थं दौःस्थ्योदये[^0107-1] दीर्घे मज्जन्तो नित्यदुर्जनाः । 0107ab
तस्मिन्नाजनि कायस्था व्यलोक्यन्त पदे पदे ॥ 0107cd

भिन्नसन्धानभूर्यर्थदानभोज्यादिढौकनैः । 0108ab
न हि मोहयितुं शक्ताः प्राज्ञं तं तेन्यराजवत् ॥ 0108cd

तान्प्रजाकण्टकान्दुष्टान्कृतधीरकृतानिशम् । 0109ab
तैस्तैः शुचिभिरध्यक्षैः स विशामीश्वरो वशान् ॥ 0109cd

[page 173]

विश्वास-प्रस्तुतिः

भूतेशस्य यथा पुरी हुतवहप्लुष्टा त्वदाज्ञाबलाद्भूयः स्वां श्रियमाससाद सहसा तद्वत्समस्तामिमाम् । 0110ab
त्वं कायस्थकुटुम्बिकॢप्तिसचिवप्राया -1पञ्चानलीलीढामुच्चलदेवनिर्वृतिसुखस्थित्या पुरीं स्वां क्रियाः ॥ 0110cd

शिवरात्युत्सवे श्लोकममुं21 शिवरथाभिधः । 0111ab
विद्वान्पठंस्तेन हठात्सर्वाध्यक्षो व्यधीयत ॥ 0111cd

व्यवहारानभिज्ञोपि कञ्चित्कालमदीदृशत् । 0112ab
शुचित्वादार्यभाजः स क्रामन्कृतयुगस्थितिम् ॥ 0112cd

शीघ्रदण्डत्वमुच्चण्डतेजसस्तस्य भूपतेः । 0113ab
क्रूरानुद्दिश्य कायस्थान्धीमद्भिर्बह्वमन्यत ॥ 0113cd

न हि क्षुद्राश्वकायस्थपिशाचाविष्टवैरिणाम् । 0114ab
शंसन्त्यन्तरितं दण्डं दण्डनीतिविशारदाः ॥ 0114cd

चिरेण दण्डिता ह्येते कुर्युर्दण्डभयाद्ध्रुवम् । 0115ab
लब्धान्तराः प्राणहरं कृच्छ्रं किञ्चित्प्रशासितुः ॥ 0115cd

दण्ड्यानां दण्ड्यमानानां पुत्रस्त्रीमित्रबान्धवाः । 0116ab
राज्ञा विचारशीलेन न तेनोपद्रुताः क्वचित् ॥ 0116cd

कर्णेजपांलोष्टधरप्रमुखांस्तेन दुःखदैः । 0117ab
कर्मभिः क्लिश्नताध्वापि पैशुन्यस्य खिलीकृतः ॥ 0117cd

विस्मृतं लब्धराज्यानां पूर्वसङ्कल्पत्रासनाः । 0118ab
प्रयान्ति प्राप्तजनुषां गर्भवासस्पृहा इव ॥ 0118cd

प्राग्राज्याधिगमात्किञ्चित्सदसद्यद्व्यचिन्तयत् । 0119ab
राज्ये तन्न विसस्मार जातिस्मर इवोच्चलः ॥ 0119cd

ददर्श शत्रोरद्रोहान्यान्द्रोग्धॄन्वा पुरानुगान् । 0120ab
कर्तव्यानुगुणं तेषां प्रतिपत्तिमदर्शयत् ॥ 0120cd

स्मरेन्नोपपतिः पूर्वपतिद्रोहं कुयोषितः । 0121ab
पूर्वस्वाम्यरितां चाद्य कुभृत्यस्येश्वरो जडः ॥ 0121cd

शेषाहिदेहान्मेदिन्या समं प्रज्ञापि राज्ञ्यभूत् । 0122ab
तस्मिन्परिणता नूनं कृत्याकृत्यविवेक्तरि ॥ 0122cd

तथा ह्येकस्य वणिजो व्यवहर्तुश्च सोभवत् । 0123ab
विवादे संशयं छिन्दन्नेवं स्थेयाद्यगोचरे ॥ 0123cd

सौहृदागूढसद्भावे व्यापदौपयिकं धनी । 0124ab
न्यासीचकार दीन्नारलक्षं कोपि वणिग्गृहे ॥ 0124cd

तेनोपयुज्यमाना च व्ययेषु वणिजः करात् । 0125ab
कियत्यपि गृहीताम्भूदात्तमात्रान्तरान्तरा22 ॥ 0125cd

त्रिंशद्विंशासु23 यातासु समासु न्यासधारिणम् । 0126ab
गृहीतशेषं दातुं स धनं प्रार्थयताथ तम् ॥ 0126cd

वणिक्तु कुकृती तस्य न्यासग्रासाय सोद्यमः । 0127ab
कालापहारमकरोत्तैस्तैः कलुषधीर्मिषैः ॥ 0127cd

स्रोतोभिर्व्यस्तमम्भोधौ लभ्यं मेघमुखैः पयः । 0128ab
प्राप्तिर्भूयस्तु नास्त्येव वणिग्न्यस्तस्य वस्तुनः ॥ 0128cd

तैलस्निग्धमुखः स्वल्पालापो मृद्वाकृतिर्भवन् । 0129ab
न्यासग्रासविवादोग्रो वणिग्व्याघ्राद्विशिष्यते ॥ 0129cd

विवादे श्रेष्ठिना शाद्यम् स्मितैः प्राक्सख्यदर्शनैः । 0130ab
मुक्तं मुक्तं ज्ञायमानं प्राणान्तेपि न मुच्यते ॥ 0130cd

निसर्गवञ्चका वेश्याः कायस्थो दिविरो वणिक् । 0131ab
गुरूपदेशोपस्कारैर्विशिष्टाः सविषादियोः ॥ 0131cd

चन्दनाङ्कालिके श्वेतांशुके धूपाधिवासिनि । 0132ab
विश्वस्तः स्यात्किराते24 यो विप्रकृष्टेस्य नापदः ॥ 0132cd

ललाटदृक्पुटश्रोत्रद्वन्द्वहृन्न्यस्तचन्दनः । 0133ab
षड्बिन्दुर्वृश्चिक इव क्षणात्प्राणान्तकृद्वणिक् ॥ 0133cd

पाण्डुश्यामोग्निधूमार्द्रः सूच्यास्यो गननोदरः । 0134ab
तुम्बीफलोपमः श्रेष्ठी रक्तं मांसं च कर्षति ॥ 0134cd

सोथ निःशेषितमिषः क्रुद्धो निर्बन्धकारिणः । 0135ab
गणनापत्रिकां तस्य सभ्रूभङ्गमदर्शयत् ॥ 0135cd

यदादौ श्रेयस इति न्यस्तमश्रेयते पदम् । 0136ab
आतरेष्वत्यये सेतोर्गृहीता षट्शती त्वया ॥ 0136cd

छिन्नोपानत्कषाबन्धे शतं चर्मकृतेर्पितम् । 0137ab
विपादिकाकृते दास्या नीतं पञ्चाशतो घृतम् ॥ 0137cd

[page 174]

विश्वास-प्रस्तुतिः

स्फोटने भाण्डभारस्य क्रन्दन्त्याः कृपयार्पितम् । 0138ab
कुलाल्या बहुशः पश्य भूर्जे लग्नं शतत्रयम् ॥ 0138cd

विशुभ्योस्य विडालस्य क्रीताः पोषाय मूषिकाः । 0139ab
त्वया शतेन वात्सल्याद्घट्टान्मत्स्यरसस्तथा ॥ 0139cd

चरणोद्वर्तनं सर्पिः शालिचूर्णं च सप्तभिः । 0140ab
क्रीतं शतैः श्राद्धपक्षस्नाने च घृतमाक्षिकम् ॥ 0140cd

नीतं क्षौद्रार्द्रकं कासायासायादर्भकेण ते । 0141ab
सोव्यक्तजिह्वः किं वेत्ति वक्तुं लग्नं शतं ततः ॥ 0141cd

वृषणोत्पाटको भिक्षाचरस्ते हठयाचकः । 0142ab
यो वारितो युद्धपटुस्तस्मै दत्तं शतत्रयम् ॥ 0142cd

आनीते भट्टपादानां मध्यं सर्वव्ययोपरि । 0143ab
शतं शतद्वयं धूपशन्दामूलपलाण्डुषु ॥ 0143cd

इत्याद्यचिन्त्यतायुक्तान्परिहार्यव्ययानसौ । 0144ab
तस्यैकीकृत्य गणनां लाभेपि शनकैर्व्यधात् ॥ 0144cd

वर्षमासग्रहतिथिप्रत्यावृत्तिः पुनः पुनः । 0145ab
संसास्येव तस्यान्तं न ययौ नर्तिताङ्गुलेः ॥ 0145cd

स मूलग्रहणं पिण्डीकृत्याथ सकलान्तरम् । 0146ab
प्रसारितोष्ठस्तन्नेत्रे मीलयन्नभ्यधान्मृदु ॥ 0146cd

शल्यमुद्धर निक्षेपं नयोज्जासधनं त्विदम् । 0147ab
विश्रम्भदत्तं25 निर्दम्भं दीयतां सकलान्तरम् ॥ 0147cd

तत्स धर्म्यं वचो जानन्क्षणमुच्छ्वसितोभवत् । 0148ab
क्षुरं क्षौद्रोपलिप्तं तु ध्यात्वा पश्चादतप्यत ॥ 0148cd

युक्तापह्नुतसर्वस्वं क्रौर्यानार्यमथार्थकः26 । 0149ab
विवादे नाशकज्जेतुं नापि स्थेया विचारकाः ॥ 0149cd

स्थेयैरनिश्चितन्यायं पुरो न्यस्तं ततो नृपः । 0150ab
तदित्थमिति निश्चित्य वणिजं तमभाषत ॥ 0150cd

अद्यापि न्यासदीन्नाराः सन्ति चेत्तत्प्रदर्श्यताम् । 0151ab
अंशः कियानपि ततस्ततो वच्मि यथोचितम् ॥ 0151cd

तथा कृते तेन वीक्ष्य दीन्नारान्मन्त्रिणोब्रवीत् । 0152ab
राजभिर्भाविनां राज्ञां नाम्ना टङ्कः क्रियेत किम् ॥ 0152cd

न चेत्कलशभूपालकाले न्यासीकृतेष्वमी । 0153ab
दीन्नारेषु कुतष्टङ्का मन्नामाङ्का अपि स्थिताः ॥ 0153cd

निक्षिप्तेनैष लक्षेण वणिक्तस्माद्व्यवाहरत् । 0154ab
वणिजो द्रविणेनायमप्यात्तेनान्तरान्तरा ॥ 0154cd

तस्माद्यदा यदेतेन गृहीतं दीयतां ततः । 0155ab
तदा प्रभृत्यद्ययावल्लाभोस्मै वणिजोर्थिनः ॥ 0155cd

न्यसनानेहसश्चैष प्रभृत्यस्मै प्रयच्छतु । 0156ab
लक्षादखण्डिताल्लाभं किं वाच्यं मौलिके धने ॥ 0156cd

अवधारयितुं शक्यं मादृशैः सघृणैरियत् । 0157ab
श्रीयशस्करवद्रौक्ष्यमीदृक्षेषु तु युज्यते ॥ 0157cd

विवादे सन्दिहानस्य युक्तं क्षान्त्यानुशासनम् । 0158ab
भाव्यं दण्डधराचारैः प्रयुक्तकुसृतेः पुनः ॥ 0158cd

अनिर्हार्येषु शल्येषु महामर्मगतेष्विव । 0159ab
सविवादेषु चोपेक्षां कालापेक्षी व्यधान्नृपः ॥ 0159cd

पप्रथे पार्थिवस्येत्थं निश्चोद्यं तस्य पालनम् । 0160ab
प्रजासु जागरूकस्य मनोरिव मनस्विनः ॥ 0160cd

सख्यं कारणनिर्व्यपेक्षमिनताहङ्कारहीना सतीभावो वीतजनापवाद उचितोक्तित्वं समस्तप्रियम् । 0161ab
विद्वत्ता विभवान्विता तरुणिमा पारिप्लवत्वोज्झितो राजत्वं विकलङ्कमत्र चरमे काले किलेत्यन्यथा ॥ 0161cd

स तादृशोपि राजेन्द्रचन्द्रमाः सन्किलाभवत्27 । 0162ab
मात्सर्याविष्टवैवश्याद्दोषोल्कावर्षभीषणः ॥ 0162cd

औदार्यशौर्यधीधैर्यगुणतारुण्यमत्सरः । 0163ab
बभूव सङ्ख्यातीतानां मानप्राणहरो नृणाम् ॥ 0163cd

मानोन्नतैश्च भूयोपि वाक्पारुष्यरुषाहतैः । 0164ab
लाघवं प्रत्युपालम्भैः पार्थिवोप्यनुभावितः ॥ 0164cd

प्रसुप्तानां फणीन्द्राणामिव कोपोद्भवं विना । 0165ab
तेजो विस्फूर्जितं ज्ञेयं न हि नाम शरीरिणाम् ॥ 0165cd

[page 175]

विश्वास-प्रस्तुतिः

विविधे भूतसर्गेस्मिन्न च कश्चित्स विद्यते । 0166ab
वपुर्वंशचरित्रादिं यस्य दोषैर्न दूषितम् ॥ 0166cd

जातिः पङ्करुहाद्वपुः कपिलताक्रान्तं शिरः खण्डनप्रभ्रश्यच्छुविशीलतादिविगुणाचारप्रदुष्टं यशः । 0167ab
विश्वस्रष्टुरिति प्रभूतविषयव्याप्तिस्पृशो दुःसहा दोषा यत्र पुरोस्तु तत्र कतमो निर्दोषतोत्सेकभूः ॥ 0167cd

अविचार्येति भूपालः स चकारानुजीविनाम् । 0168ab
वंशचारित्रदेहादिदोषोद्घोषणमन्वहम् ॥ 0168cd

अन्योन्यद्वेषमुत्पाद्य सङ्ख्यातीता महाभटाः । 0169ab
युद्धश्रद्धालुना तेन द्वन्द्वयुद्धेषु घातिताः ॥ 0169cd

मासार्धदिनमाहेन्द्रमहाद्यवसरेषु सः । 0170ab
निनाय योधान्सन्नद्धानन्योन्यप्रधनैर्धनम् ॥ 0170cd

स नाभूदुत्सवः कश्चित्तदा यत्र नृपाङ्गने । 0171ab
भूमिर्न सिक्ता रक्तेन हाहाकारो न चोद्ययौ ॥ 0171cd

नृत्यन्त इव निर्याता गृहेभ्यो वंशशोभिनः । 0172ab
बान्धवैर्निन्यरे योधा लूनाङ्गाः पार्थिवाङ्गनात् ॥ 0172cd

स्निग्धश्यामकचांश्चारुश्मश्रूनाकल्पशोभिनः । 0173ab
हतान्वीक्ष्य भटान्राजा मुमुदे न तु विव्यथे ॥ 0173cd

नार्यो राजगृहं गत्वा प्रत्यायातेषु भर्तृषु । 0174ab
मेनिरे दिवसं लब्धमनास्था नित्यमन्यथा ॥ 0174cd

भवेत्तद्यदहं कुर्यामित्यहङ्क्रियया वदन् । 0175ab
साच्व्यमव्याहतवाग्यैस्तैर्भृत्यैरजिग्रहत् ॥ 0175cd

प्रवर्धमानांस्तानेव विद्वेषकलुषाशयः । 0176ab
हृताधिकारान्विदधे बहुशश्च विमानितान् ॥ 0176cd

दञ्छकः कम्पनाधीशः प्रवृद्धौ तत्र सक्रुधि । 0177ab
विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥ 0177cd

तेन स्ववर्धितो द्वाराधीश्वरो रक्ककाभिधः । 0178ab
हृताधिकारो विदधे विभूतिं वीक्ष्य भूयसीम् ॥ 0178cd

माणिक्यसैन्यपतिना द्वारेकस्मान्निवारिते । 0179ab
खिन्नेन विजयक्षेत्रे चक्रे व्रतपरिग्रहः ॥ 0179cd

कम्पनाद्यधिकारस्थाः प्रवीरास्तिलकादयः । 0180ab
काकवंशा मार्दवेन तत्कोपं नानुभाविताः ॥ 0180cd

भोगसेनो निरनुगः क्षीणवासा भवन्कृतः । 0181ab
तेनातिसेवाप्रीतेन राजस्थानाधिकारभाक् ॥ 0181cd

यस्येन्द्रद्वादशीयुद्धे सान्द्रसैन्योपि विद्रुतः । 0182ab
क्षुद्रवद्गग्गचन्द्रोपि रौद्रमालोक्य विक्रमम् ॥ 0182cd

येपि सड्डाभिधानस्य पुत्राः सामान्यशस्त्रिणः । 0183ab
तान्रड्डुच्छुड्डव्याड्डान्स मन्त्रिणः समपादयत् ॥ 0183cd

पुत्रौ विजयसिंहस्य तत्सेवात्यक्तदुर्दशौ । 0184ab
तिलको जनकश्चास्ताममात्यश्रेणिमध्यगौ28 ॥ 0184cd

यमैलाभयबाणादिमुख्या द्वारादिनायकाः । 0185ab
कस्तान्समर्थः सङ्ख्यातुं तडित्तरलसम्पदः ॥ 0185cd

द्वित्राः प्रशस्तकलशादयः पूर्वे तदन्तरे । 0186ab
प्रापुर्बालद्रुमान्तःस्थजीर्णानोकहविभ्रमम्29 ॥ 0186cd

कन्दर्पः क्ष्माभुजा दूतैः समानीतोपि नाददे । 0187ab
तस्यासहनतां वीक्ष्य प्रार्थितोप्यधिकारिताम् ॥ 0187cd

आस्थानाचारसंलापव्यवहारादि मण्डले । 0188ab
नवमेवाभवत्सर्वं तस्मिन्नभिनवे नृपे ॥ 0188cd

लक्ष्मीः कार्मणचूर्णाङ्का वेश्येव वशवर्तिनः । 0189ab
धूरानपि विधायेयं करोत्युन्मार्गवर्तिनः ॥ 0189cd

सपिण्डानामपि व्यक्तशूलवीक्षणतत्परा । 0190ab
प्रेततेव नरेन्द्रश्रीर्जातिस्नेहापकारिणी ॥ 0190cd

समस्तसम्पत्पूर्णोपि यस्मात्सुस्सलभूपतिः । 0191ab
दध्यौ भ्रातुरवस्कन्दं राज्यापहरणोद्यतः ॥ 0191cd

अकस्मादशृणोच्छ्येनमिव तं श्रीघ्रपातिनम् । 0192ab
स्थानं वराजवार्ताख्यमुल्लङ्घ्यायातमग्रजः ॥ 0192cd

क्षिप्रकारी विनिर्गत्य तमप्राप्तपदं ततः । 0193ab
निपत्य सैन्यैर्बहुलैः सोपकारमकारयत् ॥ 0193cd

विद्रुतस्यास्पदे तस्य नानोपकरणैश्च्युतैः । 0194ab
ताम्बूलवलीकूटैश्च30 सामग्री समभाव्यत ॥ 0194cd

[page 176]

विश्वास-प्रस्तुतिः

कृतकार्यपरावृत्त्यासावरूढोपि पार्थिवः । 0195ab
प्रत्यावृत्तं तमशृणोदन्येद्युः क्रूरविक्रमम् ॥ 0195cd

गग्गचन्द्रस्तदादेशाद्गत्वा बहलसैनिकः । 0196ab
चक्रे सुस्सलभूपालबलनिर्दलनं ततः ॥ 0196cd

असङ्ख्यैः सौस्सलैर्योधैराहवायासनिःसहैः । 0197ab
क्लान्तिर्विमानोद्यानेषु द्युनारीणामच्युत ॥ 0197cd

भर्तृप्रसादस्यानृण्यं प्राणैर्युधि समर्पितैः । 0198ab
राजपुत्रौ गतौ तत्र सहदेवयुधिष्ठिरौ ॥ 0198cd

वराश्वान्सुस्सलानीकाद्गग्गस्तान्प्राप31 विद्रुतान् । 0199ab
चक्रे भूरितुरङ्गस्य यैर्भूपस्यापि कौतुकम् ॥ 0199cd

निविष्टकटकं तं स श्रुत्वा सेल्यपुराध्वना । 0200ab
क्रमराज्योन्मुखं यान्तं द्रुतमन्वसरन्नृपः ॥ 0200cd

अन्विष्यमाणसरणिः प्रयत्नादग्रजन्मना । 0201ab
प्रविवेश दरद्देशं परिमेयपरिच्छदः ॥ 0201cd

दत्तमार्गं तस्य राजा डामरं लोष्टकाभिधम् । 0202ab
स सेल्यपुरजं हत्वा नगरं प्राविशत्ततः ॥ 0202cd

तस्मिन्दूरं गते वैरकलुषोपि स नाददे । 0203ab
भ्रातृस्नेहेन संरम्भं ग्रहीतुं लोहरं गिरिम् ॥ 0203cd

कल्हः कालिञ्जराधीशो32 दौहित्रीं पुत्रवद्गृहे । 0204ab
यामवर्धयत स्नेहादपुत्रः पितृवर्जिताम् ॥ 0204cd

राज्ञो विजयपालस्य सुतां सुस्सलभूपतिः । 0205ab
उपयेमे स तां श्रीमाननघां मेघमञ्जरीम् ॥ 0205cd

तस्य प्रभावाधिष्ठानाच्छिशोरपि न लोहरे । 0206ab
शक्तिरासीद्विरुद्धानामपि वाधाय वैरिणाम् ॥ 0206cd

धीरः सुस्सलदेवोपि मार्गैर्निर्गत्य दुर्गमैः । 0207ab
आसदद्भूरिभिर्मासैः स्वोर्वीं दुर्गिरिवर्त्मना ॥ 0207cd

प्रशान्ते व्यसने तस्मिन्धीरस्योच्चलभूपतेः । 0208ab
अन्येपि व्यसनाभासा उत्पन्नध्वंसिनोभवन् ॥ 0208cd

भीमादेवः समादाय भोजं कलशदेवजम् । 0209ab
साहायकार्थमानिन्ये दरद्राजं जगद्दलम् ॥ 0209cd

सल्हो हर्षमहीभर्तुरवरुद्धात्मजोभवत् । 0210ab
भ्राता दर्शनपालस्य सञ्जपालस्तु तद्बलम् ॥ 0210cd

नीतिज्ञेन ततो राज्ञा साम्नैव दरदीश्वरः । 0211ab
आक्षेपाद्वारितः प्रायात्प्रत्यावृत्य निजां भुवम् ॥ 0211cd

सह्लस्तमन्वगाच्छन्नं भोजोविक्षत्स्वमण्डलम् । 0212ab
भेजे सुस्सलदेवस्य सञ्जपालोनुजीविताम् ॥ 0212cd

गृहीतार्थेन भृत्येन निजेनैव प्रदर्शितः । 0213ab
भोजः क्षिप्रं नृपात्प्राप निग्रहं तस्करोचितम् ॥ 0213cd

देवेश्वरात्मजः पित्थकोपि द्वैराज्यलालसः । 0214ab
डामरानाश्रिते राज्ञि निर्याते व्यद्रवद्द्दिशः33 ॥ 0214cd

विचारपरिहारेण धावन्तः सर्वतो जडाः । 0215ab
तिर्यञ्च इव हास्याय प्रसिद्धिशरणा जनाः ॥ 0215cd

मल्लस्य रामलाख्योहं34 सूनुरासं दिगन्तरे । 0216ab
अट्टसूदः कश्चिदेवं चक्रिकाचतुरो वदन् ॥ 0216cd

निन्ये प्रवृद्धिं व्यामूढैर्बहुभिर्विप्लवप्रियैः । 0217ab
धनमानादिदानेन भूमिपैर्भूम्यनन्तरैः ॥ युग्मम्॥ 0217cd

ग्रीष्मे प्रविष्टः कश्मीरानेकाकी घर्मपीडितः । 0218ab
व्यधीयत छिन्ननासः परिज्ञाय नृपानुगैः ॥ 0218cd

कटके पर्यटन्राज्ञः स एव ददृशे पुनः । 0219ab
स्वजात्युचितभक्ष्यादिविक्रयी सस्मितं जनैः ॥ 0219cd

मिथैव नीतिकौटिल्यैः क्रियतेभ्युदयश्रमः । 0220ab
शक्यतेपरथा कर्तुं न दैवस्य मनीषितम् ॥ 0220cd

शान्तापि ज्वलति क्वापि क्वचिद्दीप्तापि शाम्यति । 0221ab
दैववातवशाच्छक्तिः पुंसः कक्षाग्निसन्निभा ॥ 0221cd

पलायनैर्वापयाति निश्चला भवितव्यता । 0222ab
देहिनः पुच्छसंलीना वह्निज्वालेव पक्षिणः ॥ 0222cd

[page 177]

विश्वास-प्रस्तुतिः

नाच्छिन्नवह्निविषशस्त्रशरप्रयोगैर्न श्वभ्रपातरभसेन न चाभिचारैः । 0223ab
शक्या निहन्तुमसवो विधुरैरकाण्डे भोक्तव्यभोगनियतोच्छ्वसितस्य जन्तोः ॥ 0223cd

भिक्षाचरः समादिष्टवधो जयमतीगृहात् । 0224ab
नक्तं वध्यभुवं निन्ये वधकैः पार्थिवाज्जया ॥ 0224cd

ग्राव्णि प्रस्फोट्य निक्षिप्तो वितस्तायां समीरणैः । 0225ab
क्षिप्तस्तटं क्षणं स्पन्दमानवक्षाः कृपालुना ॥ 0225cd

द्विजेनैकेन सम्प्राप्तश्चिरादुद्गतचेतनः । 0226ab
आसमत्यभिधानाया ज्ञातिर्दिद्देति गौरवात् ॥ 0226cd

शाहिपुत्रीभिरुक्ता या दत्तश्चतुरया तया । 0227ab
नीतो देशान्तरं गूढं बवृधे दक्षिणापथे ॥ तिलकम्35 ॥ 0227cd

स वृत्तप्रत्यभिज्ञोथ पुत्रवन्नरवर्मणा । 0228ab
मालवेन्द्रेण शस्त्रास्त्रविद्याभ्यासमकार्यतः ॥ 0228cd

अन्यदीयं घातयित्वा तत्तुल्यवयसं शिशुम् । 0229ab
रक्षितो जयमन्त्यैव स किलेत्यपरेब्रुवन् ॥ 0229cd

देशान्तरागताद्दूतात्तां वार्तामुपलब्धवान्36 । 0230ab
अत एवाभवत्तस्या भूभृद्विरलितादरः ॥ 0230cd

बहिरप्रतिभिन्दंस्तत्स धीरो मार्गवर्तिभिः । 0231ab
चक्रे तदप्रवेशाय सम्बन्धं पार्थिवैः समम् ॥ 0231cd

ईर्ष्यामगोपयन्नार्याः शङ्कामच्छादयन्रिपोः । 0232ab
स्वयमन्याभिगम्यत्वं करोति हि जडो जनः ॥ 0232cd

भिक्षाचरे हते बालं कञ्चिदादाय तत्समम् । 0233ab
तन्नाम्ना ख्यातिमनयद्दिद्दैवेत्यपरेब्रुवन् ॥ 0233cd

तथ्येन सोस्तु मिथ्या वा प्रतिष्ठां तां तथाप्तवान् । 0234ab
यथा लघुत्वमानेतुं न दैवेनाप्यशक्यत37 । 0234cd

स्वप्नेन्द्रजालमायानामपि निर्विषया इमाः । 0235ab
कर्मवैचित्र्यजनिताः काश्चिदाश्चर्यविप्रुषः ॥ 0235cd

स राजवीजी नाशाय विशां गूढं व्यवर्धत । 0236ab
पुरग्रामादिदाहाय कक्षान्तरिव पावकः ॥ 0236cd

रोहत्यन्तिकसीमनि प्रतिविषावीरुद्विषक्ष्मारुहः38 काले प्रावृडुपद्रुताच्छसलिले मूर्च्छत्यगस्त्योदयः । 0237ab
सर्गच्छेदविधिक्षमानुदयतो दृष्ट्वा किलोपद्रवान्सन्धत्ते प्रतिकारकल्पनमहो दीर्घावलोकी विधिः ॥ 0237cd

अजायत विपन्मज्जज्जगदुद्धरणक्षमः । 0238ab
तस्मिन्नेव क्षणे यस्मात्सुस्सलक्ष्मापतेः सुतः ॥ 0238cd

तज्जन्मकालादारभ्य सर्वतो जयमर्जयन् । 0239ab
नामान्वर्थं नृपस्तस्य जयसिंह इति व्यधात् ॥ 0239cd

शास्तुः सर्वार्थसिद्धाख्या यथा सर्वार्थसिद्धिभिः । 0240ab
तथा तस्याभिधान्वर्था नात्यजद्रूढिशब्दताम् ॥ 0240cd

मुद्रां स कुङ्कुमस्याङ्घेस्तदीयस्याभ्युपागताम् । 0241ab
विलोक्योच्चलदेवोभूद्विमन्युर्भ्रातरं प्रति ॥ 0241cd

बालस्यैवाङ्घ्रिमुद्रास्य वैरं पितृपितृव्ययोः । 0242ab
निवारयन्ती विदधे सुस्थितं मण्डलद्वयम् ॥ 0242cd

स स्वर्गिणः पितुर्नाम्ना ततः सुकृतसिद्धये । 0243ab
चकारोच्चलभूपालः पैतृके स्थण्डिले मठम् ॥ 0243cd

गोभूमिहेमवस्त्रान्नदाता तस्मिन्महोत्सवे । 0244ab
आश्चर्यकल्पवृक्षत्वं त्यागी सर्वार्थनामगात् ॥ 0244cd

प्रसादैः प्रहितैस्तेन महार्घैः श्लाघ्यसम्पदा । 0245ab
महान्तोपि दिगन्तेषु पार्थिवा विस्मयं ययुः ॥ 0245cd

भर्तृप्रसादाधिगतां श्रियं नेतुं परार्ध्यताम् । 0246ab
विहारं समठं देवी जयमत्यपि निर्ममे ॥ 0246cd

केषाञ्चित्पूर्वपुण्यानां विरहेण महीभुजः । 0247ab
हताभीष्टाभिधानोभून्मठो39 नवमठाख्यया ॥ 0247cd

सुल्लां स्वसारमुद्दिश्य परस्मिन्स्थण्डिले पितुः । 0248ab
विहारोपि कृतस्तेन नोचितां ख्यातिमाययौ ॥ 0248cd

मृत्योर्मस्तकपातित्वं तस्याकलयतः किल । 0249ab
न निष्ठां स्वप्रतिष्ठासु सम्प्रपेदे व्ययस्थितिः ॥ 0249cd

[page 178]

विश्वास-प्रस्तुतिः

कदाचित्क्रमराज्यस्थो द्रष्टुमग्निं स्वयम्भुवम् । 0250ab
ययौ वर्हठचक्राख्यं गिरिग्रामं स भूपतिः ॥ 0250cd

तं कम्बलेश्वरग्रामाध्वना यान्तमवेष्टयन् । 0251ab
अकस्मादेत्य तत्रत्याश्चौराश्चण्डालशस्त्रिणः ॥ 0251cd

प्रजिहीर्षुभिरप्याशु तस्मिन्नत्यल्पसैनिके । 0252ab
न तैः प्रहृतमुत्तेजोवष्ठम्भस्तम्मितायुधैः40 ॥ 0252cd

अथ हारितमार्गः स गहने गिरिगह्वरे । 0253ab
भ्रमन्नल्पानुयाय्येकां क्षणदामत्यवाहयत् ॥ 0253cd

उच्चचार क्षणे तस्मिन्स्कन्दावारेषु दुःसहा । 0254ab
नास्ति राजेति दुर्वार्ता सर्वतः क्षोभकारिणी ॥ 0254cd

कटकान्निःसृतात्यल्पा वात्येव गिरिगह्वरात् । 0255ab
सा दुष्प्रवृत्तिर्दीर्घत्वं पुरेरण्य इवासदत् ॥ 0255cd

नगराधिकृतास्तस्मिन्क्षणे छुड्डाभिधोभवत् । 0256ab
शस्त्रिणः कामदेवस्य कुल्यो रड्डादिसोदरः ॥ 0256cd

कृत्वा पुरक्षोभशान्तिं शस्त्रुकः स नृपास्पदे । 0257ab
प्रविश्य भ्रातृभिः सार्धं कार्यशेषमचिन्तयत् ॥ 0257cd

नृपं कं कुर्म इत्येवं तान्विचिन्तयतोब्रवीत् । 0258ab
सुड्डाभिधोपि कायस्थः कुटुम्बिकुटिलाशयः ॥ 0258cd

यूयमेव सुहृद्बन्धुभृत्यबाहुल्यदुर्जयाः । 0259ab
राज्यं कुरुत सम्प्राप्य राष्ट्रमेवमकण्टकम् ॥ 0259cd

तेनैवमुक्तास्ते पापा जातराज्यस्पृहास्ततः । 0260ab
सिंहासनाधिरोफाय क्षिप्रमासन्समुद्यताः ॥ 0260cd

श्रीयशस्करदेवस्य वंश्या एत इति श्रुतिः । 0261ab
तदन्वयेभूत्सर्वेषां राज्यौत्सुक्यप्रदायिनी ॥ 0261cd

अत एवाभजत्क्रोधं तेषां कुसुहृदुक्तिभिः । 0262ab
सा वासनान्तःसंलीना सदाचारानपेक्षिणाम् ॥ 0262cd

कथं न प्रतिभात्वेषा सड्डस्यापि कुपद्धतिः । 0263ab
भारिकस्य कुले जातो लवटस्य हि सोधमः ॥ 0263cd

क्षेमदेवाभिधानस्य पुत्रोप्यल्पनियोगिनः । 0264ab
क्रूराशयत्वमभजन्महासाहसिकोचितम् ॥ 0264cd

चौर्येण स्वर्णभृङ्गारं हृतवान्भूपतेर्गृहात् । 0265ab
सम्भावितोपि गाम्भीर्यान्नाज्ञायि स किलेङ्गितैः ॥ 0265cd

सासिधेनुर्निरुष्णीषो विहसन्नखिलान्स्मयात् । 0266ab
राजपुत्र इवात्यल्पं स त्रैलोक्यममन्यत ॥ 0266cd

तस्य चिन्ता काचिदासीत्सदा दोलायतोङ्गुलीः । 0267ab
या राज्यहेतुः क्रूरेण फलेन समभाव्यत ॥ 0267cd

तद्गिरा निजसङ्कल्पादपि ते राज्यलालसाः । 0268ab
नृपं जीवन्तमाकर्ण्य ततोभूवन्हतस्पृहाः ॥ 0268cd

न स्फुरन्न च सम्मीलन्न वा सुप्त इवानिशम् । 0269ab
तेषां चेतसि सङ्कल्पस्तदा प्रभृति सोभवत् ॥ 0269cd

असुस्थिरादरेणाथ शनकैः पृथिवीभुजा । 0270ab
निन्यरे मध्यमां वृत्तिं राजस्थानान्निवार्य ते ॥ 0270cd

प्रकृत्या रूक्षवाग्राजा सर्वेषामेव सर्वदा । 0271ab
तेषामप्यकरोदत्रान्तरे मर्मस्पृशः कथाः ॥ 0271cd

ते राज्ये हर्षभूभर्तुः पितरि प्रमथं गते । 0272ab
मातुस्तारुण्यमत्ताया विधवाया गृहेवसन् ॥ 0272cd

तैर्मय्यामत्तको नाम शस्त्रभृत्प्रातिवेश्मिकः । 0273ab
सुहृद्घतोथ विश्वस्तो जननोजारशङ्कया ॥ 0273cd

असतीमपि किं नैते न्यगृह्णन्निति भूपतिः । 0274ab
विचार्य कोपात्तन्मातुर्नासाच्छेदमकारयत् ॥ 0274cd

तां कथां स नृपस्तेषां परोक्षमुदघोषयत् । 0275ab
क्व पुत्राश्छिन्ननासाया41 वदन्नित्यन्वियेष च ॥ 0275cd

बृहद्गञ्जादिगञ्जेशं कृत्वा कार्यान्न्यवारयत् । 0276ab
स कायस्थकृतान्तत्वं भजन्सड्डमपि प्रभुः ॥ 0276cd

पीडितस्तेन रौद्रेण निजोथ गणनापतिः । 0277ab
कोशोत्पत्त्यपहर्तारं तं नृपाय न्यवेदयत् ॥ 0277cd

प्रवेशभागिकपदे हृते राज्ञा रुषा ततः । 0278ab
स क्रूरो रड्डच्छुड्डदीन्प्रैरयत्पूर्वचिन्तिते ॥ 0278cd

जिघांसवस्ते नृपतिं प्रसङ्गापेक्षिणः परैः । 0279ab
समगंसत दुष्प्रज्ञैरथ हंसरथादिभिः ॥ 0279cd

[page 179]

विश्वास-प्रस्तुतिः

प्रजिहीर्षुभिरुर्वीशं पीतकोशैः समेत्य तैः । 0280ab
चतुष्पञ्चानि वर्षाणि नावाप्यवसरः क्वचित् ॥ 0280cd

बहुभिर्बहुधा भिन्नैर्बहुकालं विचिन्तितः । 0281ab
न भेदमगमन्मन्त्रः स चित्रं लोकदुष्कृतैः ॥ 0281cd

तवैतां कुरुते शश्वन्नृपो मर्मस्पृशं कथाम् । 0282ab
इति प्रत्येकमुक्त्वा ते विरागं पार्थिवेभजन् ॥ 0282cd

तैरुरःपार्श्वपृष्ठादि गूढैर्वर्मभिरायसैः । 0283ab
प्रच्छाद्य पार्थिवोजस्रमनुसस्रे42 जिघांसुभिः ॥ 0283cd

असहो विरहं सोढुं यां प्रसादयितुं न काम् । 0284ab
राजापि सन्दधे चेष्टां प्राक्प्राकृतभुजङ्गवत् ॥ 0284cd

स्वभाववैपरीत्येन नाशचिह्नेन स स्थिराम् । 0285ab
जयमत्या सहाप्रीतिं43 तदादाद्वत्सरद्वयम् ॥ 0285cd

रक्षां भिक्षाचरस्याहुर्निमित्तं तत्र केचन । 0286ab
केचित्तु विद्युत्सदृशीं44 प्रेम्णां तरलवृत्तिताम् ॥ 0286cd

अथ वर्तुलभूभर्तुरात्मजा विज्जलाभिधा । 0287ab
कृतपाणिग्रहस्यागाद्बाल्लभ्यं वसुधाभुजः ॥ 0287cd

सङ्ग्रामपाले नृपतौ तस्मिन्नवसरे मृते । 0288ab
तत्सूनुः सोमपालाख्यः पित्र्यं राज्यं समादधे ॥ 0288cd

राज्यार्हमग्रजं बद्ध्वा सोभ्यषिच्यत चाक्रिकैः । 0289ab
इति कोपाश्नरेन्द्रोभूत्क्रुध्यन्राजपुरीं प्रति ॥ 0289cd

लक्ष्मीस्थैर्यप्रतिभुवः पुत्र्याः पाणिमजिग्रहत् । 0290ab
………………………………………॰45 ॥ 0290cd

अर्थिचिन्तामणेस्तस्य प्रीणतो निखिलाः प्रजाः । 0291ab
नानाव्ययोर्जितो रेजे पश्चिमः स महोत्सवः ॥ 0291cd

याते जामातरि क्ष्माभृच्चक्रे निखिलतन्त्रिणः । 0292ab
निर्वृत्तीन्किमपि46 क्रुध्यन्दुध्रुक्षूंस्तु47 व्यसर्जयत् ॥ 0292cd

भोगसेनोपि भूपेन काले तस्मिन्समन्युना । 0293ab
निवारितो द्वारकार्यात्सवैरः समपद्यत ॥ 0293cd

विक्रान्तः स हि कार्यस्थो निर्जिताखिलडामरः । 0294ab
सुस्सलक्ष्मापतिं जेतुं प्रतस्थे लोहरं पुरा ॥ 0294cd

वात्सल्यमिश्रवैरेण48 वारितोथ महीभुजा । 0295ab
तत्परीवादमकरोच्चुक्रोधावेत्य तच्च सः ॥ 0295cd

प्रवेशयन्रड्डच्छुड्डमुखान्स समयान्तरम् । 0296ab
तमादिसुहृदं वीरं तदा राज्ञा विमानितम् ॥ 0296cd

विमानिता विशालेच्छाः संहता हतवृत्तयः । 0297ab
न ते वहिष्कृतास्तेन यमराष्ट्रं जिगीषता ॥ 0297cd

तान्भोगसेनविन्यस्तसद्भावान्कुटिलाशयः । 0298ab
सड्डो निनिन्द वीरत्वात्तं जानन्सरलान्तरम् ॥ 0298cd

ऊचे चाद्यैव हित्वापि प्राणान्व्यापाद्यतां नृपः । 0299ab
भोगसेनोन्यथा भेदं कुर्यादगहनाशयः ॥ 0299cd

अन्यथाभून्न सड्डोक्तं भोगसेनो यदब्रवीत् । 0300ab
किञ्चिद्रहोस्मि वक्तेति नृपतिं भेदलालसः ॥ 0300cd

स तु किं वक्षि न द्वारं तव दद्यामिति ब्रुवन् । 0301ab
दुध्रुक्षुपक्षप्रणयं[^0301-1] निन्ये तमवमानयन् ॥ 0301cd

प्रबोधाधायिनो द्वेष्टि नियतिप्रणयीभवन् । 0302ab
तपात्ययाहनिद्रान्त इव जन्तुर्गतस्मृतिः ॥ 0302cd

तन्त्रिणो यामिका भूत्वा स्वस्मिन्वारे ततोविशन् । 0303ab
ते राजधानीं सन्नद्धैः स्वसैन्यैः सह संहताः ॥ 0303cd

यामिन्यां यं वयं हन्मस्तं हतेत्यभिधाय च । 0304ab
प्रावेशयन्न्यस्तचिह्नांश्चण्डालान्मण्डपान्तरम् ॥ 0304cd

भुक्तोत्तरं स्थिते राजि ते बाह्ये मण्डपे स्थिताः । 0305ab
सरोषो नृप इत्युक्त्वा सेवकोत्सारणं व्यधुः ॥ 0305cd

राजा च विज्जलावेश्म यियासुर्मण्डपान्तरात् । 0306ab
दीपिकाभिः कृतालोको निर्ययौ मदनालसः ॥ 0306cd

मध्यमं मण्डपं तस्मिन्प्राप्ते स्वल्पैः सहानुगैः । 0307ab
तत्त्यक्तं मण्डपं सड्डो रुद्ध्वान्यानरुणज्जनान् ॥ 0307cd

अन्यैरप्यग्रिमे द्वारे निरुद्धे सर्व एव ते । 0308ab
जिघांसवः समुत्थाय नृपतिं पर्यवाaरयन् ॥ 0308cd

[page 180]

विश्वास-प्रस्तुतिः

विज्ञप्तिदम्भादेकेन रुद्धमग्रे निषेदुषा । 0309ab
तं द्विजो दिन्नजस्तेजः49 शस्त्र्या कृष्टकचोभिनत् ॥ 0309cd

ततः काञ्चनगौराणि तस्याङ्गान्यसिधेनवः । 0310ab
बह्ण्यः सुमेरुशृङ्गाणि महोरम्य इवाविशन् ॥ 0310cd

स द्रोहो द्रोह इत्युक्त्वा केशान्कृष्टान्विमोचयन् । 0311ab
क्रीडाशस्त्र्याः कषां रुद्धमुष्टिं दन्तैर्व्यपाटयत् ॥ 0311cd

सुजनाकरनामा हि भृत्यः कट्टारकं वहन् । 0312ab
तस्यान्तिकात्पलायिष्ट प्रहरत्सु विरोधिषु ॥ 0312cd

अतो बालोचितां लघ्वीं क्षुरिकां स चकर्ष ताम् । 0313ab
मुष्टावर्गलिता कोशात्सा कृच्छ्रेण विनिर्ययौ ॥ 0313cd

निर्यातान्त्रः शत्रुभिस्त्यक्तकेशो बबन्ध तम् । 0314ab
धम्मिल्लमथ तां शस्त्रीं जानुद्वन्द्वान्तरर्पयन् ॥ 0314cd

नदित्वा प्रहरंस्तेजं तादृग्वीर्योपि सोभवत् । 0315ab
येन क्षितौ निपतितः सर्वमर्मस्विवाहनः ॥ 0315cd

अभिनच्च ततो रड्डं प्रहरन्तं च पृष्ठतः । 0316ab
नदन्सिंह इव व्यड्डं परिवृत्य व्यदारयत् ॥ 0316cd

अन्यं च शस्त्रिणं कञ्चित्सवर्माणमपातयत् । 0317ab
विवेष्टमानो यः प्राणैरचिरेण व्ययुज्यत ॥ 0317cd

लब्धान्तरे प्रवासाय तस्मिन्धावति मण्डपः । 0318ab
रक्षिभिर्भूमिपालोयमित्यबुद्ध्वा कवाटितः ॥ 0318cd

द्वारमन्यत्प्रसर्पन्स क्व प्रयासीति जल्पता । 0319ab
छुड्डेन रुद्धमार्गेण खड्गपातैरहन्यत ॥ 0319cd

भोगसेनं ततोपश्यद्द्वारस्यान्ते समुत्थितम् । 0320ab
दारुतूलिकया भित्तिमालिखन्तं पराङ्मुखम् ॥ 0320cd

भोगसेनेक्षसे कस्मादमुं त्वमिति वादिनम् । 0321ab
सोव्यक्तं किमपि ह्रीतः प्रधावन्तं जगाद तम् ॥ 0321cd

रय्यावट्टाभिधो दीपधरस्त्रिष्ठन्निरायुधः । 0322ab
अयोदीपिकयारब्धयुद्धस्तैर्विक्षतोपतत् ॥ 0322cd

चाम्पेयः सोमपालाख्यराजपुत्रः क्षताहितः । 0323ab
प्रहारैः प्राप्तवैक्लव्यो न गर्ह्याचारतामगात् ॥ 0323cd

पौत्रः श्रीशूरपालस्य राजकापत्यमज्जकः । 0324ab
विदद्रौ श्वेव सञ्छाद्य शस्त्रीं पुच्छछटोपमाम् ॥ 0324cd

ततः प्रधावन्प्रग्रीवमारुरुक्षुः क्षितीश्वरः । 0325ab
निकृत्तजानुश्चण्डालैरालिलिङ्ग वसुम्धराम् ॥ 0325cd

तत्पृष्ठे स्वं क्षिपन्देहं प्रहारैर्जर्जरीकृतः । 0326ab
शृङ्गारनामा कायस्थो निर्द्रोहो वारितोरिभिः ॥ 0326cd

पुनरुत्थातुकामस्य सर्वे शस्त्रावलीर्द्विषः । 0327ab
न्यपातयंस्तस्य काल्या नीलाब्जवरणस्रजम् ॥ 0327cd

तिष्ठेत्कदाचिद्धूर्तोयमविपन्नो विपन्नवत् । 0328ab
कन्धरामधमः सड्डस्तस्येति स्वयमच्छिनत् ॥ 0328cd

कृतं पदापहरणं यस्य सोहमिति ब्रुवन् । 0329ab
छित्त्वाङ्गुलीश्चकर्षापि रत्नाङ्कामूर्मिकावलीम् ॥ 0329cd

एकपादस्थितोपानत्स्रस्तमाल्यैः शिरोरुहैः । 0330ab
छन्नवक्त्रः स ददृशे सुप्तो दीर्घभुजः क्षितौ ॥ 0330cd

पर्याप्तयास्य पर्यन्ते वीरवृत्त्या महौजसः । 0331ab
निर्दोषतामीषदगान्निस्त्रिंशत्वं जनान्प्रति ॥ 0331cd

सेवकः शूरटो नाम पूत्कुर्वन्द्रोहमुच्चकैः । 0332ab
निर्गत्य भोगसेनेन बहिः क्रोधान्निपातितः ॥ 0332cd

प्रस्थितो दयितावासं स दिङ्मोहवशादिव । 0333ab
पन्थानं पृथिवीनाथः काल्या जग्राह वेश्मनि ॥ 0333cd

राज्योद्याने नृपतिमधुपा भोगकिञ्जल्कलोलाश्चेतो नानावसनकुसुमश्रेणिभिः प्रीणयन्तः । 0334ab
हा धिग्दैवानिलतरलया पात्यमाना नियत्या बल्ल्येवैते किमपि सहसा दृष्टनष्टा भवन्ति ॥ 0334cd

तिर्यग्भ्यस्त्रिजगज्जयी परिभवं लङ्केश्वरो लब्धवान्प्रापाशेषनृपोत्तमः कुरुपतिः पादाहतिं मूर्धनि । 0335ab
इत्यन्ते बहुमानहृत्परिभवः सर्वस्य सामान्यवत्तत्को नाम भवेन्महानहमिति ध्यायन्धृताहङ्क्रियः ॥ 0335cd

परासुमहितैस्त्यक्तं तमनाथमिव प्रभुम् । 0336ab
नग्रं हुताशसात्कृतुं स्वच्छन्नग्राहिणोनयन् ॥ 0336cd

[page 181]

विश्वास-प्रस्तुतिः

भुजौ कण्ठे गृहीत्वैकः कराभ्यां चरणौ परः । 0337ab
तं भुग्नग्रीवमालोलकुन्तलं रुधिरोक्षितम् ॥ 0337cd

सशूत्कारव्रणं नग्रमनाथमिव पार्थिवम् । 0338ab
राजधान्या विनिष्कृष्टं न्यधत्तां पित्रृकानने ॥ 0338cd

महासरिद्वितस्ताम्भःसम्भेदद्वीपभूतले । 0339ab
अह्नाय वह्निसंस्कारं ते भीतास्तस्य चक्रिरे ॥ 0339cd

न हतो नापि निर्दग्धः स केनापि व्यलोक्यत । 0340ab
उड्डीयेव गतस्त्वाशु नेत्रनिर्विषयोभवत् ॥ 0340cd

व्यतीतेन स वर्षैकचत्वारिंशतमायुषा । 0341ab
सप्ताशीत्यब्दपौषस्य शुक्लषष्ट्यां व्ययुज्यत ॥ 0341cd

चक्रेथ सासिकवचो रड्डः शोणितमण्डितः । 0342ab
श्मशानाश्मनि वेताल इव सिंहासने पदम् ॥ 0342cd

…………………………………… । 0343ab

      • बद्धमूलानामाद्यानां50 तन्न50 दिद्युते ॥ 0343cd

तस्यावरोहतः सिंहासनाद्योद्धुम् पुरो युधि । 0344ab
विक्रामन्तो बन्धुभृत्या युद्धभूमिमभूषयन् ॥ 0344cd

तन्त्रिणौ वट्टपट्टाख्यौ युद्ध्वा तद्बान्धवौ चिरम् । 0345ab
योधाश्च कट्टसूर्याद्याः सिंहद्वारेपतन्हताः ॥ 0345cd

रणरङ्गनटो नृत्यन्निव राजगृहाङ्गने । 0346ab
सखद्गखेटको रड्डः खण्डयन्नहितान्बभौ ॥ 0346cd

दीशन्विजयसन्देहमहितानां क्षणे क्षणे । 0347ab
प्रहारैः सुबहून्भित्त्वा स चिरेणापतद्रणे ॥ 0347cd

राजद्रोहोचितं तस्य निहतस्यापि निग्रहम् । 0348ab
वैशसत्यक्तमर्यादो गर्गः51 कोपादकारयत् ॥ 0348cd

दिद्दामठान्तिके व्यड्डः पौरैर्भस्माश्मवर्षिभिः । 0349ab
अवस्करप्रणालान्तर्मग्नवक्रो व्यपात्यत ॥ 0349cd

ते गुल्फदामभिः कृष्टाः स्थाने स्थाने प्रभुद्रुहः । 0350ab
तत्क्षणं लोकथूत्कारपूजां कृत्योचितां दधुः ॥ 0350cd

पलाय्य प्रययुः क्वापि सड्डं हंषरथादयः । 0351ab
मरणाभ्यधिकां कञ्चित्कालं सोढुं विपद्व्यथाम् ॥ 0351cd

दृष्यन्पराजितं गर्ग52 नष्टे तदनुजे विदन् । 0352ab
भोगसेनोथ तां वार्तामशृणोत्प्रलयोपमाम् ॥ 0352cd

व्यावृत्य प्रत्यवस्थानुकामः पश्यन्पलायिनः । 0353ab
योधान्स्वैः सहितः कैश्चित्ततः क्वापि भयादगात् ॥ 0353cd

इत्थं निहतविध्वस्तनायका द्रोग्धृसंहतिः । 0354ab
स्वदोर्मात्रसहायेन गर्गचन्द्रेण सा कृता ॥ 0354cd

सत्त्वं साहससिद्धिं च नेतिहासेष्वपि क्वचित् । 0355ab
अश्रौषं तादृशं यादृक्तस्यास्ते स्म प्रतापिनः ॥ 0355cd

निशां प्रहरमह्नश्च राज्यं कृत्वा स लब्धवान् । 0356ab
द्रोहकृच्छङ्खराजाख्यां गतिं कुकृतिनामगात् ॥ 0356cd

यशस्करकुले जन्म द्रोग्धृभिस्तैः प्रमाणितम् । 0357ab
क्षणभङ्ग्यभजद्राज्यं यस्माद्वर्णटदेववत् ॥ 0357cd

दावोद्दीपनकूटयन्त्रघटनैः सिंहादिसंहारिणो यान्त्याकस्मिकगण्डशैलपतनैरन्तं किराता वने । 0358ab
एकेनैव ननु प्रधावति जनः सर्वोपि मृत्योः पथा हन्ताहं53 निहतोयमेष तु मितम् कालं विभेदग्रहः ॥ 0358cd

स्वोद्वाहे ललनौघमङ्गलरवो यैर्हर्षुलैः श्रूयते दीनैस्तैर्दयिताविलाप उदयन्नाकर्ण्यतेन्तक्षणे । 0359ab
ह्योपि घ्नन्नहितं प्रहृष्यति परः स्वं घ्नन्तमन्ते मुदोद्वृत्तं सोप्यवलोकयत्यहह धिङ्मोहोयमान्ध्यावदः ॥ 0359cd

सायं विचिन्तितो रात्रौ फलितोन्यत्र वासरे । 0360ab
दुर्विपाकप्रदाताभूद्द्रोग्धॄणां साहसद्रुमः ॥ 0360cd

अथ सिंहासनस्यान्तः कार्यान्ते त्यक्तविग्रहः । 0361ab
गर्गः प्रक्षालितामर्षश्चक्रन्द स्वामिनं चिरम् ॥ 0361cd

तस्मिन्रुदति सर्वोपि पौरलोको भयोज्झितः । 0362ab
सम्प्राप्तावसरो भूपं व्यलापीलोकवत्सलम् ॥ 0362cd

कारुण्योत्पत्तये दत्त्वा कोशं जीवितकामया । 0363ab
जयमत्या तदावादि गर्गः कपटशीलया ॥ 0363cd

[page 182]

विश्वास-प्रस्तुतिः

कुरु मे संविदं सत्त्वमयस्तु सः । 0364ab
तत्प्रक्रियावचो ज्ञात्वा चितिं अकल्पयत् ॥ 0364cd

चिकुरनिचये यत्कौटिल्यं विलोचनयोश्च या तरलतरला यत्काठिन्यं तथा कुचकुम्भयोः । 0365ab
वसति हृदि तद्यासां पिण्डीभवन्ननु ता इमा गहनहृदया विज्ञायन्ते न कैश्चन योषितः ॥ 0365cd

दौःशील्यमप्याचरन्त्यो घातयन्त्योपि वल्लभान् । 0366ab
हेलया प्रविशन्त्यग्निं न स्त्रीषु प्रत्ययः क्वचित् ॥ 0366cd

युग्याधिरूढा सा यान्ती यावन्मार्गे व्यलम्बत । 0367ab
अग्रतो बिज्जला तावन्निर्गत्य प्राविशच्चिताम् ॥ 0367cd

अथ तस्याश्चितारोहं कुर्वन्त्या भूषणार्थिभिः । 0368ab
लुण्टकैर्लुण्ट्यमानाया व्यया गात्रेषु पप्रथे ॥ 0368cd

सच्छत्रचामरे राज्ञयु54 दह्यमाने विलोकयन् । 0369ab
लोकः सर्वोपि साक्रन्दो दग्धवृष्टिरिवाभवत् ॥ 0369cd

औचित्यं तेन च तदा निन्येत्यन्तपवित्रताम् । 0370ab
सर्वैर्यदर्थ्यमानोपि नोपाविक्षन्नृपासने ॥ 0370cd

सुतमुच्चलदेवस्य बालमङ्के निधित्सता । 0371ab
राज्येभिषेक्तुं ते केचित्तेनान्वैष्यन्त[^0371-1] यत्नतः ॥ 0371cd

लोको येष्वद्य केषाञ्चित्तत्त्वमालोक्य सस्मितः । 0372ab
भिक्षामप्यटितुं जाने नैव जानाति योग्यताम् ॥ 0372cd

राज्ञ्यां श्वेताभिधानायां मल्लराजस्य ये55 सुताः । 0373ab
सल्हणाद्यास्त्रयोभूवन्मध्यमे प्राक्क्षयं गते ॥ 0373cd

हन्तुं ज्येष्ठकनिष्ठौ द्वौ शेषौ सल्हणलोठनौ । 0374ab
अन्विष्टौ शङ्खराजेन भयान्नवमठं गतौ ॥ 0374cd

निर्लज्जैर्निहतान्द्रोग्धॄन्विहाय मिलितैः पुनः । 0375ab
तन्त्र्यश्वारोहसचिवैरानीतः कृतचाक्रिकैः ॥ 0375cd

दृष्ट्वा राज्यार्हमप्राप्य कञ्चिज्ज्यायांस्तयोस्तदा । 0376ab
गर्गेण राज्ये संरम्भादभ्यषिच्यत सल्हणः ॥ 0376cd

हा धिक्चतुqणां यामानामन्तरे नृपतित्रयी । 0377ab
अहस्त्रियामे तत्रासीद्दृश्या या पुरुषायुषैः ॥ 0377cd

ये सायमुच्चलनृपं प्राह्णे रड्डुं सिषेविरे । 0378ab
मध्याह्ने सल्हणं प्रापुर्दृष्टास्ते राजसेवकाः ॥ 0378cd

अथ लोहरकोट्टस्थः सार्धेह्नि गलिते नृपः । 0379ab
सुस्सलो भ्रातृमरणं श्रुत्वा तूद्भान्तमानसः ॥ 0379cd

गर्गेण प्रहितो दूतः स क्रन्दन्स्वं क्षिपन्क्षितौ । 0380ab
ततस्तं वीतसन्देहं चकारार्तप्रलापिनम् ॥ 0380cd

आद्यात्सल्हणवृत्तान्तपर्यन्तां नाशृणोत्कथाम् । 0381ab
गर्गदूताद्भ्रातृवधं स्वस्याह्वानं च केवलम् ॥ 0381cd

अश्रद्दधानस्तं शीघ्रमरिच्छेदं सुदुष्करम् । 0382ab
तदाह्नानाय गर्गो यं प्राहिणोत्तं चलन्गृहात् ॥ 0382cd

आक्रन्दमुखरो भूत्वा तां रात्रिमरुणोदये । 0383ab
कश्मीराभिमुखो यात्रामसम्भृतबलोप्यदात् ॥ 0383cd

अन्योथ गर्गदूतस्तं पथि सङ्घटितोभ्यधात् । 0384ab
कृत्स्नमावेद्य वृत्तान्तं नागन्तव्यमिति ध्रुवम् ॥ 0384cd

क्षिप्रं हतेषु द्रोहेषु त्वय्यसन्निहितेनुजः । 0385ab
कृतस्तु सल्हणो राजा कृत्यमागमनेन किम् ॥ 0385cd

श्रुत्वेति गर्गसन्देशं कोपादसहनो नृपः । 0386ab
अप्रयाणैषिणो भृत्यान्विहस्यैवं वचोब्रवीत् ॥ 0386cd

नास्माकं पैतृकं राज्यं यदि रिक्थहरोनुजः । 0387ab
मज्ज्यायसा मया चैतद्भुजाभ्यामर्जितं पुनः ॥ 0387cd

राज्यं स्वीकुर्वतोरन्यो न दाताभूत्तदावयोः । 0388ab
येनाहृतमिदं पूर्वं स क्रमः क्व गतोधुना ॥ 0388cd

इत्युक्त्वावरितैरेव वहन्नासीत्प्रयाणकैः । 0389ab
दूतांश्च पार्श्वं गर्गस्य स्वीकृत्यै प्राहिणोद्बहून् ॥ 0389cd

स काष्ठवाटं सम्प्राप सल्हणस्य हितैषिणा । 0390ab
निर्गत्य गर्गचन्द्रेण चक्रे हुष्कपुरे पदम् ॥ 0390cd

प्रवृत्तायां विभावर्यां दूतैः कृतगतागतैः । 0391ab
तस्याङ्गीकृतसामापि गर्गो द्रोग्धाभ्यधीयत ॥ 0391cd

[page 183]

विश्वास-प्रस्तुतिः

कार्यमध्यगतो राजा तथापि प्राहिणोत्तदा । 0392ab
धात्रेयं भ्रातरं गर्गाभ्यर्णं हितहिताभिधम् ॥ 0392cd

भोगसेनः क्षणे तस्मिन्नाययौ दैवमोहितः । 0393ab
खाशकान्बिल्बवनजान्मध्येकृत्य नृपान्तिकम् ॥ 0393cd

सोभ्यर्णं कर्णभूत्याख्यमश्वारोहं महीपतेः । 0394ab
विसृज्य गर्गं जेष्ट्यामीत्युक्त्वाभूल्लोभनोद्यतः ॥ 0394cd

कालापेक्षामपि त्यक्त्वा हन्तुं भ्रातृद्रुहं स तम् । 0395ab
योग्यं प्रसङ्गमन्विष्यञ्जज्ञे लोकैरसज्जनः ॥ 0395cd

यस्य भ्रातृद्रुहः पार्श्वे स त्वमाश्रीयसे कथम् । 0396ab
गर्गोपि तमुपालेभे दूतैरित्यादि सन्दिशन्56 ॥ 0396cd

स तु मार्गात्पलाय्यायं तमसीति विलम्बकृत् । 0397ab
दत्तास्कन्दः क्षपापाये तं सानुगमघातयत् ॥ 0397cd

पतन्रणं कर्णभूतिर्वीरवृत्त्या व्यरोचत । 0398ab
तस्य द्वैमातुरो भ्राता तेजःसेनोप्यनूनया ॥ 0398cd

तेहःसेनस्तु शूलाग्रे नृपादेशान्न्यवेश्यत । 0399ab
मरिचो लवराजस्य तनूजोश्वपतेरपि ॥ 0399cd

अवष्टम्भेन भूपोभून्निग्रहावग्रहक्षमः । 0400ab
न येनासितुमप्यास्था तावदासीत्तु तद्बलम् ॥ 0400cd

पुरोगोपि कृतः पश्चाद्योतीतेह्नि महीभुजा । 0401ab
स सञ्जपालस्तत्पार्श्वमथादायाययौ हयान् ॥ 0401cd

तेष्वायातेष्ववष्टम्भं यातं किञ्चिच्च तद्बलम् । 0402ab
प्राप्तश्च गर्गसेनानीः सूर्याख्योनल्पसैनिकः ॥ 0402cd

दुध्रुक्षुर्वीक्ष्य तानाप्तैर्नृपोश्वमधिरोपितः । 0403ab
उत्सेकशठधीर्वर्म कृच्छ्राच्च परिधापितः ॥ 0403cd

गगनं शलभच्छन्नमिव कुर्वन्नथापतत् । 0404ab
शरासारो रिपुबलात्सर्वतोच्छिन्नसन्ततिः ॥ 0404cd

ओङ्कारं शरशूत्कारैः कृत्वा द्रोहस्य दुःसस्हाः । 0405ab
प्राहरन्राजकटके सर्वान्सर्वायुधैर्द्विषः ॥ 0405cd

हतविक्षतविध्वस्तसैन्यः साहसिको नृपः । 0406ab
वेगादपससारैको मध्यान्निर्गत्य वैरिणाम् ॥ 0406cd

गर्जत्सिन्धुरथाश्रान्तनत्युन्नतिरलङ्घ्यत । 0407ab
सवाजिना तेन सेतुर्दुर्लङ्घ्यः पत्रिणामपि ॥ 0407cd

सञ्जपालादयो द्वित्राः शेकुस्तमनुवर्तितुम् । 0408ab
पृष्ठलग्ना निरुन्धन्तः स्थाने स्थाने विरोधिनः ॥ 0408cd

वीरानकाभिधं वीरः स खशानां निवेशनम् । 0409ab
त्रिंशद्विंशैः समं भृत्यैः प्रविष्टस्तत्यजेरिभिः ॥ 0409cd

निरम्बरैर्निराहारैस्तिष्ठन्कतिपयैः समम् । 0410ab
स तत्र चित्रमाक्रम्य निर्भयो दण्डयन्खशान् ॥ 0410cd

क्रमेण च हिमापातदुर्लङ्घ्याध्वनि सङ्कटे । 0411ab
अविपन्नो भाग्ययोगात्प्रययौ लोहरं पुनः ॥ 0411cd

पदे पदे प्राप्तमृत्युरायुःशेषेण रक्षितः । 0412ab
तथाप्यासीत्स कश्मीरप्राप्तिमेव विचिन्तयन् ॥ 0412cd

वराकं द्वारसेत्वग्राद्वर्गो हितहितं क्रुधा । 0413ab
विरुद्धधीर्वितस्तायां बद्धपाण्यङ्घ्रिमक्षिपत् ॥ 0413cd

तस्मिन्प्रक्षिप्यमाणेप्सु क्षेमाख्यः स्वं क्षिपन्पुरः । 0414ab
दासोस्योच्चैःपदारोहमधःपातेपि लब्धवान् ॥ 0414cd

राज्यप्रदः क्षतारिशच् गर्गः प्राप्तोन्तिकं ततः । 0415ab
प्राप सल्हणराजस्य सविशेषमधीशताम् ॥ 0415cd

स भूभृन्मन्त्रिविक्रान्तिहीनो राज्यमवाप्तवान् । 0416ab
चक्रभ्रममिवापश्यत्सर्वतो भ्रान्तमानसः ॥ 0416cd

न मन्त्रो न च विक्रान्तिर्न कौटिल्यं न चार्जवम् । 0417ab
न दातृता न लुब्धत्वं तस्योद्रिक्तं किमप्यभूत् ॥ 0417cd

तद्राज्ये राजधान्यन्तर्मध्याह्नेपि मलिम्लुचः57 । 0418ab
लोकं मुमुषुरन्याध्वसञ्चारस्य कथैव का ॥ 0418cd

पङ्गुरप्यङ्गना कालं क्रान्त्या यत्रात्यवाहयत् । 0419ab
पुमानप्यभवत्तत्र साध्वसाध्वस्तधीरसौ ॥ 0419cd

यामद्य सह्लणोन्येद्युर्भेजे तां लोठनः58 स्त्रियम् । 0420ab
साधारण्यं गर्तो राज्यभोग इत्यभवत्तयोः ॥ 0420cd

पुरुषान्तरविज्ञानविहीनस्य प्रमाद्यतः । 0421ab
सर्वोपि तस्य तन्त्रज्ञैर्व्यवहारो व्यहस्यत ॥ 0421cd

[page 184]

विश्वास-प्रस्तुतिः

श्वशुरो लोठनस्योजसूहस्तेन59 व्यधीयत । 0422ab
द्वारे तापसगोष्ठीषु योग्यो विक्रमनिष्ठुरे ॥ 0422cd

यः सुस्सलभयोच्छेदमङ्गीकुर्वस्तदागमे । 0423ab
स्वमन्त्रलक्षजापेन सिद्धिं मन्त्रक्षणेभ्यधात् ॥ 0423cd

जिह्मो गर्गाज्ञया राजा तदप्रियमपातयत् । 0424ab
बद्धाश्मानं वितस्तायां बिम्बं नीलाश्वडामरम् ॥ 0424cd

राजानुग्राहको गर्गस्तांस्तान्व्यापादयन्रिपून् । 0425ab
हालाहाण्डामरान्भूरीन्दत्तभोज्यानघातयत् ॥ 0425cd

राज्यकिञ्चित्करे गर्गायत्तजीवितमृत्यवः । 0426ab
बाह्याश्चाभ्यन्तरे चासन्नल्पे वा पृथवोपि वा ॥ 0426cd

कदाचिल्लहराद्गर्गे प्रविष्टेथ नृपान्तिकम् । 0427ab
चुक्षोभ नगरे लोकः सर्व एव भयाकुलः ॥ 0427cd

तदा ह्युदचरद्वार्ता शूलान्यारोप्य नौषु यत् । 0428ab
क्रुध्यन्गर्गोयमायातो हन्तुम् सर्वान्नृपाश्रितान् ॥ 0428cd

गर्भिणीगर्भपातिन्या तादृश्या भयवार्तया । 0429ab
द्वित्राण्यहान्यन्वभावि जनैर्ज्वर इवाखिलैः ॥ 0429cd

ततस्तिलकसिंहाद्यैरुद्रेकाद्द्रागदीयत । 0430ab
अनवेक्ष्य नृपादेशमास्कन्दो गर्गमन्दिरे ॥ 0430cd

देशश्चात्युल्बणः कृत्स्नो धावति स्म धृतायुधः । 0431ab
प्रत्यग्रहीत्तानखिलान्गर्गचन्द्रस्त्वविह्वलः ॥ 0431cd

निर्लज्जा दिल्हभट्टारलक्ककाद्यास्तुरङ्गमैः । 0432ab
भ्राम्यन्तस्तत्रादृश्यन्त गर्गावसथवीथिषु ॥ 0432cd

निषिषेध न तान्राजा प्रत्युतास्कन्ददायिनाम् । 0433ab
लोठनं कुण्ठशक्तीनां तेषां स्फूर्त्यै व्यसर्जयत् ॥ 0433cd

तेनापि योधैर्गर्गस्य रुद्धमार्गेण मन्दिरम् । 0434ab
न रुद्धं नापि निर्दग्धुं पारितं दत्तवह्निना ॥ 0434cd

धानुष्कः केशवो नाम मठेशो लोठिकामठे । 0435ab
अवाधतैव नाराचैस्तद्योधान्घातयन्परम् ॥ 0435cd

प्रकाशेन समं राजलोके विरलतां गते । 0436ab
सायं सानुचरो गर्गो हयारूढो विनिर्ययौ ॥ 0436cd

समरैरप्रतिहतो निनाय लहरं व्रजन् । 0437ab
बद्ध्वोजसूहमस्वस्थमासीनं त्रिपुरेश्वरे ॥ 0437cd

तापसेन किमेतेनेत्युक्त्वान्येद्युर्मुमोच तम् । 0438ab
तं सुस्सलेपि विधुरे नृपतिं नोदपाटयत् ॥ 0438cd

क्षणे क्षणेभवद्देशस्ततः प्रभृति सर्वतः । 0439ab
गर्गागमनसन्त्रस्तपौरार्गलितमन्दिरः ॥ 0439cd

अथार्तस्य महीभर्तुर्गर्गसन्धानमिच्छतः । 0440ab
महत्तमः सहेलोभूल्लहरे दूत्यमाचरन् ॥ 0440cd

तेनाङ्गीकारितो गर्गः कथञ्चित्कन्यकार्पणम् । 0441ab
भृत्यास्तु तेन सम्बन्धं नैच्छन्भूतस्य भूपतेः ॥ 0441cd

ततः सुस्सलदेवेन सह सन्धिं निबद्धवान् । 0442ab
पश्चात्सम्प्रार्थ्यमानोपि सम्बन्धं न व्यधत्त सः ॥ 0442cd

मण्डले विशरारुत्वमेवं याते नृपोवधीत्60 । 0443ab
सड्डं हंसरथं नोनरथं चासादितांश्चरैः ॥ 0443cd

तानग्निकणसूच्यादिप्रवेशौ - - - र्जनः61 । 0444ab
अत्यक्तानसुभिर्घोरामवस्थामन्वबीभवत्62 ॥ 0444cd

भोगसेनाङ्गानां मल्लामनुमेने स यन्नृपः । 0445ab
अनुसर्तुम् पतिं छन्नं वसन्ती63 साधु तद्व्यधात् ॥ 0445cd

तादृग्वृग्दृष्ट्वापि वैक्लव्यं शङ्कितेन तदन्तरे । 0446ab
प्रमिम्ये दिल्हभट्टारो रसदानेन भूभुजा । 0446cd

न राजबीजी नोच्चण्डविक्रमो वा बभूव सः । 0447ab
शमितो गूढदण्डेन यत्तथा तेन पापिना ॥ 0447cd

तं या निनिन्दानिष्पन्नपौरुषं तत्स्वसुस्तदा । 0448ab
तस्या वह्निप्रवेशेन सिद्धं मानवतीव्रतम् ॥ 0448cd

सोल्पोपि राज्यकालोभूदेवमातङ्कदुःसहः64 । 0449ab
दीर्घक्षपादृश्यमानदीर्घदुःस्वप्नसन्निभः ॥ 0449cd

कालवित्सुस्सलो गर्गाद्बद्धसन्धिरपि त्रसन् । 0450ab
न्ययुङ्क्ताग्रे सञ्जपालं काश्मीरौन्मुख्यभाक्ततः ॥ 0450cd

[page 185]

विश्वास-प्रस्तुतिः

द्वारेण सह दत्तार्थो लक्ककः सल्हभूभुजा । 0451ab
वराहमूaं सम्प्राप्य कथञ्चित्प्रस्थितिं भजन् ॥ 0451cd

गर्गः स्मरन्नवस्कन्दं पश्चादभ्येत्य नाशयन् । 0452ab
वाराहमूलेन65 समं तस्य सैन्यमलुण्ठयत् ॥ 0452cd

विदद्रौ स तु तद्योधैर्हतैश्च परिषस्वजे । 0453ab
अदिव्यैर्मेदिनी दिव्यैर्देहैस्त्वप्सरसां गणः ॥ 0453cd

नायके गलिते शुद्धवृत्तैः सद्वंशजैर्मही । 0454ab
पतितैरुप्पच्छुड्डाद्यैर्भूषिता मौक्तिकैरिव ॥ 0454cd

आगच्छता भिन्नभीतिः सञ्जपालेन लक्ककः । 0455ab
निराश्रयः सम्प्रपेदे पार्श्वं सुस्सलभूपतेः ॥ 0455cd

सोथ भूभृत्सञपाले दूरं क्रान्तरिपौ गते । 0456ab
आजगामान्तिकं प्राप्तैः प्रेरितः पौरडामरैः ॥ 0456cd

सन्धिं तत्र विधास्यामि सार्धं सुस्सलभूभुजा । 0457ab
इत्युक्त्वा सल्हणं प्रायात्तदभ्यर्णं सहेलकः ॥ 0457cd

काङ्क्षिताभ्युदयं पौरैश्चातकैरिव वारिदम् । 0458ab
अशिश्रियन्राजवर्जं सर्व एवोच्चलानुजम् ॥ 0458cd

गर्गस्य गृहिणी छुड्डाभिधानाथ तदन्तिकम् । 0459ab
कन्यकाद्वयमादाय परिणेतुमुपाययौ ॥ 0459cd

उपयेमे स्वयं राजा राजलक्ष्म्यभिधां तयोः । 0460ab
गुणलेखां स्नुषात्वेन स्वीचक्रे तद्यवीयसीम् ॥ 0460cd

सल्हणे सानुजेभ्येत्य सञ्जपालेन वेष्टिते । 0461ab
राजापि राजसदसः सिंहद्वारं समासदत् ॥ 0461cd

साक्षाद्विरोधिभृत्येन66 द्वारमेकेन पातितम् । 0462ab
अभून्मोघं तमप्राप्य सार्धं वैरिमनोरथैः ॥ 0462cd

ससैन्येर्गलितद्वारराजवेश्मस्थिते रिपौ । 0463ab
गर्गास्कन्दविशङ्क्यासीच्चकितं सौस्सलं बलम् ॥ 0463cd

गर्गे वितीर्णकन्येपि राजसैन्यमविश्वसत् । 0464ab
तस्थौ स्थानव्यमित्येव तृणस्पन्देपि शङ्कितम् ॥ 0464cd

अस्ताभिपाषिणि दिने तादृक्क्रासहते बले । 0465ab
स्नेहाददहति क्ष्मापे दुर्भेदौकःस्थितान्रिपून् ॥ 0465cd

प्रविश्य ग्रावनिर्भुग्नकवाटेन67 तमोरिणा । 0466ab
द्वारं विवृत्याङ्गनस्थैः सञ्जपालोग्रहीद्रणम् ॥ 0466cd

तस्य निश्चित्य पातङ्गीं वृत्तिं भूयस्यरिव्रजे । 0467ab
अनुप्रवेशं विदधे पदातिर्लक्ककाभिधः ॥ 0467cd

दरदानयने काष्ठावाटसङ्कटविक्रमे । 0468ab
यस्तस्य सदृशो योधः प्रतिबिम्ब इवाभवत् ॥ 0468cd

स केशवश्च स मठाधीशस्तमनुसस्रतुः । 0469ab
शैनेयमारुती पार्थमिव प्रार्थितसैन्धवम् ॥ 0469cd

निर्गत्य मण्डपाल्लग्नप्रहारैस्तैः कथञ्चन । 0470ab
विवृते प्राङ्गनद्वारे धीरो राजाविशत्स्वयम् ॥ 0470cd

निर्विभागे वर्तमाने सङ्गरे सैन्ययोर्द्वयोः । 0471ab
प्राङ्गने प्रमयं प्रापुर्भूयांस्तत्र शस्त्रिणः ॥ 0471cd

सचिवः सल्हराजस्य पतङ्गग्रामजो द्विजः । 0472ab
आजौ प्रापाजको नाम स्वःस्त्रीसम्भोगभागिताम् ॥ 0472cd

कायस्थेनापि रुद्रेण लब्ध्वा गञ्जाधिकारिताम् । 0473ab
स्वामिप्रसादः साफल्यं निन्ये त्यक्त्वा तनुं रणे ॥ 0473cd

सायं वनस्पतिर्लीनैः खगैर्चालितो यथा । 0474ab
ग्राव्णि प्रविष्टे प्रोड्डीननिःशब्दविहगोभवत् ॥ 0474cd

आयोधनोर्वी वाचाला चक्रे चित्रार्पितेव सा । 0475ab
तथा सुस्सलभूपेन तुरङ्गस्थेन तर्जिता ॥ 0475cd

अनारूढेङ्गनान्तःस्थे तस्मिन्ंसिंहासनं ध्वनिः । 0476ab
सुस्सलो जयतीत्येवं ढक्कावाद्यम् च शुश्रुवे ॥ 0476cd

मल्लराजगृहे तादृङ्नान्यस्याप्युदपद्यत । 0477ab
अगातां तत्र वैक्लव्यं यादृक्सल्हणलोठनौ ॥ 0477cd

आबद्धकवचावश्वारूढावालिङ्ग्य सुस्सलः । 0478ab
बालौ युवामिति वदन्धूर्तोत्याजयदायुधम् ॥ 0478cd

आदिश्य मण्डपेन्यस्मिन्बद्धयोश्च स्थितिं तयोः । 0479ab
प्राप्तराज्यस्ततो राजा विवेशास्थानमण्डपम् ॥ 0479cd

त्र्यहोनांश्चतुरो मासान्भुक्तराज्यं बबन्ध तम् । 0480ab
सितस्य सोष्टाशीतेब्दे राधस्य त्रितयेहनि ॥ 0480cd

:p: 186

विश्वास-प्रस्तुतिः

तेन सिंहासने क्रान्ते भास्वतेव नभस्तले । 0481ab
क्षणादेवाखिलो लोकः क्षोभमब्धिरिवात्यजत् ॥ 0481cd

विकोशशस्त्रः सन्द्रोहावेक्षणक्षोभतः सदा । 0482ab
व्याधलोके व्यात्तवक्रो मृगराज इवाभवत् ॥ 0482cd

भ्रातृद्रुहां कुलच्छेदमन्विष्यान्विष्य कुर्वता । 0483ab
न तेन नीतिनिष्ठेन शिशवोप्यवशेषिताः ॥ 0483cd

जनस्य वीक्ष्य दौर्जन्यमधृष्टाकारतां वहन् । 0484ab
स कार्यापेक्षयाप्यासीन्न क्वाप्याहितमार्दवः ॥ 0484cd

वस्तुतस्त्वार्द्रहृदयः क्रूरं दमयितुं जनम् । 0485ab
अवास्तवं तद्भीमत्वाद्भित्तिव्याल इवादधे ॥ 0485cd

कालवित्समयत्यागी प्रगल्भः प्रतिभानवान् । 0486ab
इङ्गितज्ञो दीर्घदृष्टिः स एवान्यो न कोप्यभूत् ॥ 0486cd

अधिकः कोपि कोप्यूनः कोपि तस्य समो गुणः । 0487ab
दोषोथ वा पूर्वजस्य स्वभावैक्येप्यदृश्यत ॥ 0487cd

अन्वकारि समानेपि कोपे तत्पूर्वजन्मनः । 0488ab
कोपेनं विषमालर्कं तदीयेन तु सारघम् ॥ 0488cd

न बभूव स वेशादौ सासूयोनुचितं पुनः । 0489ab
स्थितिभेदभयात्सेहे नोत्सेकमनुजीविनाम् ॥ 0489cd

नैच्छत्स द्वन्द्वयुद्धादिसन्धानैर्मानिनां वधम् । 0490ab
तस्मिन्प्रमादान्निर्व्यूढे त्वदीयत कृपाकुलः ॥ 0490cd

वाक्पारुष्यं नृपस्यासीदाद्यस्यातङ्कदुःसहम् । 0491ab
तस्य तु प्रणयप्रायं हिंसाद्यावाधवर्जितम् ॥ 0491cd

तस्यार्थगृध्रोरुत्पादो भूयानास्ते स्म सम्पदाम् । 0492ab
त्यागो विषयकालादिनैरत्यात्तु68 मितोभवत् ॥ 0492cd

नवकर्माश्वबाहुल्यप्रिये तस्मिन्दरिद्रताम् । 0493ab
तत्यजुः कारवो वाजिविक्रेतारश्च दैशिकाः ॥ 0493cd

दुःसहव्यसनोत्पत्तौ जिगीषोः प्रशमैषिणः । 0494ab
तस्यासीदपरित्याज्यं न किञ्चिद्वसुवर्षिणः ॥ 0494cd

तस्येन्द्रद्वादशी भूरिपरार्ध्याशुकदायिनः । 0495ab
यथा नृपस्य शुशुभे तथा नान्यस्य कस्यचित् ॥ 0495cd

यथा प्रागुच्चलो राजा सुप्राप प्रियसेवकः । 0496ab
स तथा सेवकैरासीद्भूम्ना दुर्लभदर्शनः ॥ 0496cd

नोच्चलादपरस्यासीद्व्यसनं हयवाहने । 0497ab
नान्यस्य सुस्सलनृपाद्दाक्ष्यं तत्र च पप्रथे ॥ 0497cd

शममुत्पन्नमुत्पन्नं निन्ये दुर्भिक्षमुच्चलः । 0498ab
राज्ये सुस्सलदेवस्य न तत्स्वप्नेप्यदृश्यत69 ॥ 0498cd

किमन्यदखिलैः सोभूदग्रजादधिको गुणैः । 0499ab
त्यक्त्वा त्यागार्थनैस्पृह्यसुप्रापत्वानि केवलम् ॥ 0499cd

औच्चलेः पालको गर्गो यं राज्ये कर्तुमैहत । 0500ab
सहस्रमङ्गलस्तेन निरवास्यत स क्रुधा ॥ 0500cd

तस्मिन्भद्रावकाशस्थे प्रासनामा तदात्मजः । 0501ab
काञ्चनोत्कोचदश्चक्रे डामरैः सह चाक्रिकाम् ॥ 0501cd

असन्त्यजन्नुश्चलकं पितृव्येणार्थितं शिशुम् । 0502ab
प्रसङ्गे तत्र गर्गोपि प्रातिकूल्यमदर्शयत् ॥ 0502cd

प्रहितानां नरेन्द्रेण तृणानामिव शास्त्रिणाम् । 0503ab
गर्गदावाग्निदग्धानां निःसङ्ख्यानामभूत्क्षयः ॥ 0503cd

गर्गस्यालोपि विजयः स देवसरसोद्भवः । 0504ab
प्रातिलोम्येन नृपतिसैन्यानां कदनं व्यधात् ॥ 0504cd

राज्यप्राप्तेर्मासमात्रे दिनैरभ्यधिके गते । 0505ab
तेनोत्पिञ्जने राज्ञोभून्न धीरस्याकुलं मनः ॥ 0505cd

सुरेश्वर्यमरेoर्वीवितस्तासिन्धुसङ्गमाः । 0506ab
गर्गेण राजसैन्यानां70 कृताः कदनकाङ्क्षिणः ॥ 0506cd

सङ्ग्रामे तुमुलेमात्यौ शृङ्गारकपिलौ हतौ । 0507ab
कर्णशूद्रकनामानौ तन्त्रिणौ च सहोदरौ ॥ 0507cd

निहतानन्तसुभटसमूहान्तरलक्षितान् । 0508ab
तादृशानपि निष्क्रष्टुं नासीत्कस्यापि पाटवम् ॥ 0508cd

हर्षमित्रः कम्पनेशो भूभर्तुर्मातुलात्मजः । 0509ab
विजयेन हतानीको विदधे विजयेश्वरे ॥ 0509cd

[page 187]

विश्वास-प्रस्तुतिः

पुत्रो मङ्गलराजस्य तिल्हो राजान्यवंशजः । 0510ab
तत्र त्रिब्बाकरमुखास्तन्त्रिणश्च प्रमिम्यिरे ॥ 0510cd

राजानीके सञ्जपालः प्रवीरप्रवरोभवत् । 0511ab
भूरिसैन्येन गर्गेण नाल्पसैन्योपि यो जितः ॥ 0511cd

संस्तभ्य विजयक्षेत्रे लक्ककाद्यैर्विसर्जितैः । 0512ab
धीरो राजा बलं भग्नं स्वयम् गर्गोन्मुखं ययौ ॥ 0512cd

सोन्विष्य गर्गेण हतन्योधान्राशीकृतान्बहून् । 0513ab
निरदाहयदन्येद्युरसङ्ख्येयैर्श्चिताग्निभिः ॥ 0513cd

बलिना भूभुजा गर्गः पीड्यमानः शनैः शनैः । 0514ab
ततः स्ववसतीर्दग्ध्वा हलाहाभिमुखोभवत्71 ॥ 0514cd

स तत्र रत्नवर्षाख्यं गिरिदुर्गं समाश्रितः । 0515ab
हृताश्वोनुचरैस्त्यक्तो नृपेणारादवेष्ट्यत ॥ 0515cd

अन्वारूढेन तत्रापि सञ्जपालेन विष्टितः । 0516ab
चरणौ शरणीचक्रे राज्ञो दत्त्वोच्चलात्मजम् ॥ 0516cd

अन्तिकस्थं नृपे कर्णकोष्ठजं मल्लकोष्ठकम्72 । 0517ab
विरुद्धं रुद्धवत्याशु गर्गो विश्वासमाययौ ॥ 0517cd

गृहीतप्रणतिस्तस्य नष्टेषु विजयादिषु । 0518ab
शमितोपप्लवो राजा विवेश नगरं शनैः ॥ 0518cd

गत्वाथ लोहरे न्यस्य बद्ध्वा सल्हणलोठनौ । 0519ab
स कल्हसोमपालाद्यै रेमे संसेवितो नृपैः ॥ 0519cd

भूयः प्रविष्टः कश्मीरान्सेव्यः सर्वातिशायिभिः । 0520ab
गर्गं प्रसादैरनयत्प्रवृद्धिमधिकाधिकैः ॥ 0520cd

ग्रीष्मार्कप्रतिमे तस्मिन्ह्लादिनावनुचक्रतुः । 0521ab
महादेवी कुमारश्च द्रुमच्छायावनानिलौ ॥ 0521cd

डामरौ देवसरसोद्भवौय् विजयगोत्रिणौ । 0522ab
बृहट्टिकिक्कस्तथा सूक्ष्मटिक्को वेलां प्रचक्रतुः ॥ 0522cd

सानाथ्यकाङ्क्षिणौ पार्थिवस्य प्रविशतः पुरः । 0523ab
लोकपुण्ये तस्थतुस्तौ क्रन्दद्भिः स्वानुगैः समम् ॥ 0523cd

विजये गर्गसम्बन्धात्सदाक्षिण्यो महीपतिः । 0524ab
सदाचारं परित्यज्य वेत्रिभिस्तावताडयत् ॥ 0524cd

तौ भानिनश्च तद्भृत्याः कृष्टशस्त्रास्ततो व्यधुः । 0525ab
साहसं सुमहत्सैन्ये प्रहरन्तो महीपतेः ॥ 0525cd

श्वपाकोभोगदेवाख्यः कृपाण्या प्राहरन्नृपम् । 0526ab
धीरो गज्जकनामा च करवालेन पृष्ठतः ॥ 0526cd

सावशेषतया भूपस्यायुषो मोघतां ययुः । 0527ab
द्विषत्प्रहृतयो वाहतुरगी तु व्यपद्यत ॥ 0527cd

नृपस्यान्तरयन्वैरिप्रहृतिं बाणवंशजः । 0528ab
निहतस्तत्र शृङ्गारसीहः सादीशसस्यकः ॥ 0528cd

सैनिकैस्तैर्बृहट्टिक्काभोगदेवादयो हताः । 0529ab
सूक्ष्मटिक्कस्तु निस्तीर्णो हेतुर्भाविनि विप्लवे ॥ 0529cd

शूले व्यापादिता गज्जकादयो द्रोहसंश्रिताः । 0530ab
सन्देहितासुरित्यासीद्राजा गर्गानुकूल्यभाक् ॥ 0530cd

न भवेत्पविपातेपि प्रमथः समयं विना । 0531ab
प्रसूनमप्यसून्हन्ति जन्तोः प्राप्तावधेः पुनः ॥ 0531cd

ज्वालाभिरौर्वदहनस्य पयोधिमध्ये न म्लानतामपि हि यानि मुद्दुः स्पृशन्ति । 0532ab
तान्येव यान्ति विलयं किल मौक्तिकानि कान्ताकुचेषु युवभावभुवोष्मणापि ॥ 0532cd

प्राक्सेवामपि विस्मृत्य परोत्सेकासहिष्णुना । 0533ab
मण्डलात्सञ्जपालाद्या निरवास्यन्त भूभुजा ॥ 0533cd

सम्बन्धी काकवंश्यानां यशोराजाभिधस्ततः । 0534ab
सहस्रमङ्गलाभ्यर्णं राजा73 निर्वासितो ययौ ॥ 0534cd

तमन्यांश्च विनिर्यातान्देशाद्गृह्णन्समृद्धिमान् । 0535ab
ऐच्छल्लब्धप्रतिष्ठः स राज्ञः प्रत्यभियोगिताम् ॥ 0535cd

तत्पुत्रः कान्दमार्गेण विविक्षुः क्ष्मापसैनिकैः । 0536ab
यशोराजे क्षते प्रासः प्रत्यावृत्य ययौ भयात् ॥ 0536cd

अथानेष्वपि भृत्येषु राज्ञा निर्वासितेषु सः । 0537ab
मिलितेषु प्रथां यावद्यथावदुपलब्धवान् ॥ 0537cd

[page 188]

विश्वास-प्रस्तुतिः

उपरागे नवे सज्जे पार्वतीयास्त्रयो नृपाः । 0538ab
चाम्पेयो जासटो वज्रधरो बब्बापुराधिपः74 ॥ 0538cd

राजा सहजपालश्च वर्तुलानामधीश्वरः । 0539ab
युवराजौ त्रिवर्तोर्वीवल्लाaपुरनरेन्द्रयोः ॥ 0539cd

बल्ह आनन्दराजश्च पञ्च सङ्घटिताः क्वचित् । 0540ab
प्रस्थानार्थं कृतपणाः कुरुक्षेत्रमुपागताः ॥ 0540cd

आसमत्याहृतं तावदभ्येत्य नरवर्मणः । 0541ab
प्रापुर्भिक्षाचरं तेन दत्तपाथेयकाञ्चनम् ॥ कुलकम्॥ 0541cd

स जासटेन सम्बन्धिस्नेहाद्विहितसत्कृतिः । 0542ab
नीतोन्यैश्च प्रथां भूपैर्बल्लापुरमथाययौ ॥ 0542cd

देशाद्विनिर्गतैर्बिम्बप्रमुखैर्वर्धितप्रथे । 0543ab
तस्मिन्प्राप्ते सहस्रस्य प्रतिष्ठा लघुतामगात् ॥ 0543cd

पौत्रोयं हर्षदेवस्य क एते राज्व इत्यथ । 0544ab
उक्त्वा त्यक्त्वा सहस्रादींस्तमेवाशिश्रियञ्जनाः ॥ 0544cd

कृतज्ञभावमुत्सृज्य सम्बन्धिस्नेहमोहितः । 0545ab
दर्यको राजपुत्रस्तं75 राज्ञा निर्वासितोप्यगात् ॥ 0545cd

पुत्रः कुमारपालस्य तत्पितुर्मातुलस्य सः । 0546ab
वृद्धिं सुस्सलदेवेन पुरा निन्ये हि पुत्रवत् ॥ 0546cd

प्रेरितो युवराजेन जासटेन च कन्यकाम् । 0547ab
वल्लापुरेशः प्रददौ भिक्षवेथ स पद्मकः ॥ 0547cd

तद्देशठक्कुरो भूपान्सङ्घटय्याखिलांस्ततः । 0548ab
तमैच्छद्गयपालाख्यः कर्तुं पैतामहे पदे ॥ 0548cd

तां वार्तां श्रुतवान्राजा यावदासीत्समाकुलः । 0549ab
गयपालो हतस्तावद्गोत्रजैश्छद्मना बली ॥ 0549cd

पद्मके तान्प्रतिगते76 योद्धुं प्रधनमध्यगः । 0550ab
भिक्षाचरचमूधुर्यो दर्यकोपि व्यपद्यत ॥ 0550cd

तेन प्रधाननाशेन ततो भिक्षाचरो ययौ । 0551ab
अकिञ्चित्करतां मेघ इवावग्रहवारितः ॥ 0551cd

आसमत्यां प्रयातायां क्षीणे77 पाथेयकाञ्चने । 0552ab
श्वशुरोपि ययौ तस्य शनैर्मन्दोपचारताम् ॥ 0552cd

चतुष्पञ्चानि वर्षाणि तिष्ठञ्जासटमन्दिरे । 0553ab
ग्रासाच्छादनमात्रं स ततः क्लेशात्समासदत् ॥ 0553cd

ठक्कुरो देङ्गपालोथ चन्द्रभागातटाश्रयः । 0554ab
दत्त्वा सुतां बप्पिकाख्यां तं निनाय निजान्तिकम् ॥ 0554cd

प्राप्तसौख्यो वसंस्ततर कञ्चित्कालं भयोज्झितः । 0555ab
स राजबीजी दैन्येन शैशवेन च तत्यजे ॥ 0555cd

तदन्तरे साहसिकः प्रासः साहस्रिरुन्मदः । 0556ab
गतागतानि कुर्वाणः संरम्भमनयन्नृपम् ॥ 0556cd

स सिद्धपथमार्गेण विविक्षुर्विप्लवोन्मुखः । 0557ab
स्वैरेव भृत्यैर्भूभर्तुर्बद्ध्वा पापैः समर्पितः ॥ 0557cd

तत्रोत्पिञ्जे परं सत्त्वं सञ्जपालस्य पप्रथे । 0558ab
खिन्नोपि द्रोहविमुखो यत्स देशान्तरं ययौ ॥ 0558cd

तस्मिञ्शूरे कुलीने च किं वाच्यं स दिगन्तरे । 0559ab
शौर्येणैव यशोराजः पप्रथे यत्तदाद्भुतम् ॥ 0559cd

अथ राजा निवार्याद्यान्सहेलादीन्महत्तमान् । 0560ab
सर्वाधिकारे विदधे कायस्थं गौरकाभिधम् ॥ 0560cd

स तापसस्य सम्बन्धी कस्यचिद्विजयेश्वरे । 0561ab
सेवया लोहरस्थस्य तस्य वाल्लभ्यमाययौ ॥ 0561cd

शमिते पूर्वकायस्थवर्गे तेन ततः क्रमात् । 0562ab
नीतः सर्वाधिकारित्वं सोन्यामेव स्थितिं व्यधात् ॥ 0562cd

अशेषकर्मस्थानेभ्यो वृत्तिं राजोपजीविनाम् । 0563ab
निवार्य78 कोशे भरणं तेनाकार्यनिशं प्रभोः ॥ 0563cd

म्रदिम्ना पाप्मिनस्तस्य नाज्ञायि क्रूरता जनैः । 0564ab
मधुरिम्णा विषस्येव शक्तिः प्राणापहारिणी ॥ 0564cd

न्यधात्कृपणवित्तं स पूर्वसञ्चितनाशकृत् । 0565ab
विशुद्धे नृपतेः कोशे हिमे हिममिवाम्बुदः ॥ 0565cd

कोशः कृपणवित्तेन प्रविष्टेन हि दूषितः । 0566ab
भुज्यते भूमिपालानां तस्करैरथ वारिभिः ॥ 0566cd

[page 189]

विश्वास-प्रस्तुतिः

लोभाभ्यासेन भूयोपि संविन्वन्कोशमन्वहम् । 0567ab
आस्ते स्म लोहरगिरौ प्रहिण्वन्सर्वसम्पदः ॥ 0567cd

गौरकाश्रयिभिर्वट्टाञ्जकाद्यैर्नियोगिभिः । 0568ab
विधीयते स्म निःसारा महोत्पातैरिव क्षितिः ॥ 0568cd

उच्चलक्ष्मापतौ शान्ते मूर्धारूढशिलोपमे । 0569ab
अबाधन्त पुनर्लोकं व्याधा इव नियोगिनः ॥ 0569cd

प्रशस्तकलशस्यान्ते तद्भ्रातृतनयः परम् । 0570ab
कायस्थः कनको नाम श्लाघ्यामकृत सम्पदम् ॥ 0570cd

नानादिगन्तरायातो दुर्भिक्षपतितो जनः । 0571ab
येनाविच्छिन्नसत्त्रेण शान्तव्यापद्व्यधीयत ॥ 0571cd

सञ्जातमुच्चलस्यान्ते येषां तत्त्वपरीक्षणम् । 0572ab
त एव चक्रिरे राज्ञा प्रमत्तेनाधिकारिणः ॥ 0572cd

द्वारे तिलकसिंअहः स तादृक्तेन व्यधीयत । 0573ab
राजस्थाने च जनकः काणस्तस्य सहोदरः ॥ 0573cd

प्रतापैर्नृपतेस्तीक्ष्णैः करमाक्रान्तमण्डलः । 0574ab
जिताद्द्वाराधिपः सोपि स्वीचकारोरशाधिपात् ॥ 0574cd

काकवंश्यस्तु तिलकः क्ष्माभुजा दत्तकम्पनः । 0575ab
निन्ये प्रकम्पमहितान्प्रकम्पन79 इव द्रुमान् ॥ 0575cd

ग्राम्यशस्त्रभृता शेडराजस्थानाधिकारिणा । 0576ab
नृपप्रतापैरहिताः सज्जकेनापि निर्जिताः ॥ 0576cd

काकवंशाश्रयात्प्राप्तराजद्वारेण80 धीमता । 0577ab
अट्टमेलकभृत्येनाप्यवापीष्टेन मन्त्रिता ॥ 0577cd

एवं स्वाहङ्क्रियात्यक्तगुणापेक्षेण मन्त्रिणः । 0578ab
कुर्वतोच्चावचांस्तेन कश्चित्कालोत्यवाह्यत ॥ 0578cd

वितस्तापुलिने सोथ कर्तुं प्रारभतोन्नतम् । 0579ab
स्वस्य श्वश्र्वाश्च पत्न्याश्च नाम्ना सुरगृहत्रयम् ॥ 0579cd

उत्पातवह्निना दग्धो निःसङ्ख्यधनदायिना । 0580ab
तेन दिद्दाविहारोपि नूतनत्वमनीयत ॥ 0580cd

पुरीमट्टिलिकां81 जातु स प्रयातोन्तिकस्थितैः । 0581ab
आप्तैः प्रैर्यत कल्हाद्यैर्गर्गोच्छेदाय भूपतिः ॥ 0581cd

गार्गिः कल्याणचन्द्राख्यस्तानतिक्रम्य हि स्फुरन् । 0582ab
मृगयादिक्षणे तेषामसूयामुदपादयत् ॥ 0582cd

सर्वाभ्यधिकसामर्थ्यं तं निग्राह्यं निवेद्य ते । 0583ab
नित्योपजपनैर्गर्गे विक्रियामनयन्नृपम् ॥ 0583cd

बद्ध्वा त्वां लोहरे भूभृदिच्छति क्षेप्तुमित्यथ । 0584ab
गर्गः शशङ्के भृत्येन राज्ञा चैकेन बोधितः ॥ 0584cd

ततः स ससुतस्तत्र पलाय्य स्वभुवं ययौ । 0585ab
दिनैर्भूपोपि सम्प्राप्तः प्रविवेश स्वमण्डलम् ॥ 0585cd

अन्योन्यशङ्कया भेदं यातयो राजगर्गयोः । 0586ab
चक्रिकैः कृतसञ्चारैर्वैरं प्रौढिमनीयत ॥ 0586cd

स्यालं गर्गस्य विजयं स्नेहशेषवशंवदः । 0587ab
समीपात्स त्यजन्राजा पश्चात्तापेन पस्पृशे ॥ 0587cd

कारायां गर्गशत्रुर्यस्तेन पूर्वं व्यधीयत । 0588ab
स मल्लकोष्टकस्तस्मिन्कालेमुच्यत बन्धनात् ॥ 0588cd

निबद्धयौनसम्बन्धं डामरैरपरैः समम् । 0589ab
तं कारयित्वा समर्षो निनाय बलितां नृपः ॥ 0589cd

शनैर्युद्धाय निर्याते राजसैन्येथ पूर्ववत् । 0590ab
गर्गेण कदनं चक्रे योधानामरेश्वरे ॥ 0590cd

तत्र सर्वातिशायिन्या वीरवृत्त्या नृपाश्रितः । 0591ab
शमालाडामरः प्राप प्रथां पृथ्वीहरः परम् ॥ 0591cd

रणे द्वारपतेर्गर्गनिर्जितस्य पलायने । 0592ab
शौर्यं तिलकसिंहस्य प्राप सर्वोपहास्यताम् ॥ 0592cd

हतशेषाः क्षताः शस्त्रवस्त्रादि त्याजिता भटाः । 0593ab
तदीया गर्गचन्द्रेण कारुण्यात्केपि रक्षिता ॥ 0593cd

वह्निसात्क्रियमाणेषु वीरदेहेषु सर्वतः । 0594ab
राजसैन्ये चिताग्नीनां गणना कापि नाभवत् ॥ 0594cd

कृष्टसैन्येन राञ्जाथ गर्गो निर्दग्धमन्दिरः । 0595ab
सन्त्यज्य लहरं प्रायाद्गिरिं धुडावनाभिधम् । 0595cd

गिरिमूलोपविष्टस्य भूपतेः सैनिकैः समम् । 0596ab
तेषु तेष्वकरोन्नित्यं गिरिमार्गेषु सङ्गरम् ॥ 0596cd

[page 190]

विश्वास-प्रस्तुतिः

कूटयुद्धैर्नृपानीकं प्रतिरात्र्युपतापयन् । 0597ab
रणे त्रैलोक्यराजादिप्रमुखांस्तन्त्रिणोवधीत् ॥ 0597cd

फाल्गुणे[^0598-1] हिमसम्भारभीमे परिमितानुगः । 0598ab
स धीरो राज्ञ्यपि रिपौ न धैर्येण व्ययुज्यत ॥ 0598cd

धैर्यवान्काकवंश्यस्तु तिलकः कम्पनापतिः । 0599ab
परं शिखरिशृङ्गस्थं शक्तोभूत्तं प्रधावितुम् ॥ 0599cd

पीडितस्तेन सम्प्रेष्य स्वभार्यातनयोन्तिकम् । 0600ab
निन्येनुकूलतां भूपं प्रसादच्छादितक्रुधम् ॥ 0600cd

गूढमन्युर्नृपः सन्धिं बद्ध्वा प्रचलितस्ततः । 0601ab
तं मल्लकोष्ठकं वृद्धिं निनाय न पुनः शमम् ॥ 0601cd

सेहेथ लहरे द्वित्रान्मासानविशदे नृपे । 0602ab
स मल्लकोष्ठकासह्यस्पर्धीं नीचविमाननाम् ॥ 0602cd

तन्मध्ये नृपतिर्गूढं बिभेदं तद्बलं नयन् । 0603ab
तदीयानकरोद्भृत्यान्कर्णादीन्स्वहितावहान् ॥ 0603cd

स खिन्नो नीचदायादसमशीर्षिकयाथ तैः । 0604ab
प्रेरितः पार्थिवाभ्यर्णं82 सदारतनयोविशत् ॥ 0604cd

स्नातुं प्रवृत्तः पार्श्वस्थं स्नानद्रोण्युपरिस्थितः । 0605ab
अथैकदा तमाक्षिप्तं शस्त्रमत्याजयन्नृपः ॥ 0605cd

कुर्यादास्थामवष्टम्भे कोन्यः पौरुषमर्वितः । 0606ab
आक्षेपसमये सोपि यत्क्लैव्यं भीरुवद्ययौ ॥ 0606cd

उत्खातरोपितनृपः क्व नु सोभिमानः कार्पण्यभागितरलोकसमा क्व वृत्तिः । 0607ab
यद्वावशं नटयति प्रकटं विधातुरिच्छैव यन्त्रगुणपङ्क्तिरिवात्र जन्तुम् ॥ 0607cd

अशकन्युधि ये द्रष्टुमपि तं नास्य ते शठाः । 0608ab
केपि राजप्रिया बाहू ग्रन्थिवद्धौ तया व्यधुः ॥ 0608cd

श्रीसङ्ग्राममठाभ्यर्णमन्दिरस्था नृपे स्वयम् । 0609ab
सङ्क्रान्ते83 प्राङ्गनं युद्धात्कल्याणाद्या व्यरंसिसुः ॥ 0609cd

जीवन्तं पितरं श्रुत्वा विदेहो गर्गनन्दनः । 0610ab
सान्त्वमानः स्वयं राज्ञा कृच्छ्राच्छस्त्रं समार्पयत्84 ॥ 0610cd

गर्गः सदारतनयो राजौकस्येव भूभुजा । 0611ab
उपाचर्यत दाक्षिण्याद्बद्धो भोगैर्निजोचितैः ॥ 0611cd

गार्गिः पलाय्य यातोपि चतुष्को निजमन्दिरात् । 0612ab
अवर्णभाजा कर्णेन दृष्ट्वा राज्ञः समर्पितः ॥ 0612cd

रूढच्छन्नप्रकोपस्य प्रसादस्य महीभुजः । 0613ab
अन्तःशुद्धिविहीनस्य व्रणस्येव न निश्चयः ॥ 0613cd

दरद्राजे मणिधरे दिदृक्षावागते नृपः । 0614ab
तत्सङ्गमाय निर्यातो गर्गं भृत्यैरघातयत् ॥ 0614cd

द्वित्रान्मासान्सोनुभूतकारागारस्थितिर्निशि । 0615ab
सत्रा त्रिभिः सुतैह् कण्ठद्दरज्जुर्न्यपात्यत ॥ 0615cd

निष्ठां बिम्बमुखान्निन्ये यथैव स नृपानुगैः । 0616ab
तथैव कण्ठबद्धाश्मा सपुत्रोक्षिप्यताम्भसि ॥ 0616cd

तं चतुर्नवते वर्षे भाद्रपदे नृपः । 0617ab
सुखेच्छुः प्रत्युत प्राप दुःखमुद्भूतविप्लवः ॥ 0617cd

कल्हे कालिञ्जराधीशे महादेव्याश्च मातरि । 0618ab
मल्लाभिधायां शान्तायां स ततोभूत्सुदुःखितः ॥ 0618cd

तनम्ध्ये नागपालाख्यः सोमपालस्य सोदरः । 0619ab
तेन प्रतापपालाख्ये हते द्वैमातुरेग्रजे ॥ 0619cd

शङ्कितस्तन्निहन्तारं हत्वामात्यं पलायितः । 0620ab
त्यक्तस्वदेशः शरणं ययौ सुस्सलभूभुजम् ॥ 0620cd

क्रुद्धः स कारणात्तस्मात्प्रणयं वशवर्तिनः । 0621ab
अगृह्णन्सोमपालस्य निश्चिकार्याभिषेणनम् ॥ 0621cd

निश्चित्य सर्वोपायानामसाध्यं विधुरं नृपम् । 0622ab
स भिक्षाचरमानिन्ये तस्य वल्लापुराद्रिपुम् ॥ 0622cd

निशम्यानीतदायादं तं प्रकोपाकुलो नृपः । 0623ab
दत्तास्कन्दोविशत्तीव्रतेजा राजपुरीं ततः ॥ 0623cd

दत्त्वा राज्ये नागपालं सोमपाले पलायिते । 0624ab
सप्त मासान्स तत्रासीत्तांस्तान्संवासयन्रिपून् ॥ 0624cd

[page 191]

विश्वास-प्रस्तुतिः

राज्ञां वज्रधरादीनां राजा वज्रधरोपमः । 0625ab
सेवावसरदानेन प्रसादविवशोभवत् ॥ 0625cd

भ्रमतां चन्द्रभागादिसरित्तीरेषु सर्वतः । 0626ab
तत्सैन्यानां85 मुखमपि द्रष्टुं शेकुर्न वैरिणः ॥ 0626cd

अग्रगाम्यभवत्तस्य तिलकः कम्पनापतिः । 0627ab
पृथ्वीहरो डामरश्च मार्गरक्षणदीक्षितः ॥ 0627cd

धार्मिको नृपतिर्ब्रह्मपुरीं देवगृहांश्च सः । 0628ab
मण्डलं द्विषतो रक्षन्प्रपेदे मौलिकं फलम् ॥ 0628cd

तस्येन्द्रविभवस्यान्यत्सामग्र्यं वर्ण्यते कियत् । 0629ab
आययावश्वघासोपि सैन्ये यस्य स्वमण्डलात् ॥ 0629cd

तत्र प्रसङ्गे तत्राप्तीभवन्सुजनवर्धनः । 0630ab
दूरस्थस्यानयद्रूढिं गौरकस्योपरि क्रुधम् ॥ 0630cd

राष्ट्रगुप्त्यै स्वयं राज्ञा स्थापितः86 स स्वमण्डले । 0631ab
अज्ञायि पैशुनाश्रुद्धबुद्धिना निखिलार्थहृत् ॥ 0631cd

तत्सम्बब्धेन जनकं स निन्दन्नगराधिपम् । 0632ab
मनस्तिलकसिंहस्य तद्भ्रातुरुदवेजयत् ॥ 0632cd

हृत्वाधिकारं त्वस्याथ क्रुद्धः पर्णोत्ससम्भवम् । 0633ab
अनन्तात्मजमानन्दाभिधं87 द्वाराधिपं व्यधात् ॥ 0633cd

सोमपालादयः श्लाघ्यास्तदा प्रकृतयोभवन् । 0634ab
राज्ञस्तथा स्थितस्यापि न याः सविधमाययुः ॥ 0634cd

स पञ्चनवते वर्षे वैशाख्येथ स्वमण्डलम् । 0635ab
प्राविशन्नागपालोपि राज्यभ्रष्टस्तमन्वगात् ॥ 0635cd

दुःसहातङ्कदूतेन लोभेन क्षोभितस्ततः88 । 0636ab
अदण्डयच्च वास्तव्याननयाच्चाल्पतां व्ययम् ॥ 0636cd

निर्वार्य गौरकं कार्यात्कार्यिणस्तत्समाश्रितान् । 0637ab
तस्य दण्डयतः सर्वे विरागं मन्त्रिणो ययुः ॥ 0637cd

अकाण्डे व्यवहारेषु स विपर्यासितेष्वभूत् । 0638ab
अवसन्नधनो गाढमप्रौढ्यान्नवमन्त्रिणाम् ॥ 0638cd

सौवर्णीरिष्टकाः कृत्वा प्राहिणोल्लोहरान्तरे । 0639ab
काञ्चनाद्रिप्रतीकाशान्स्वर्णराशीनढौकयत् ॥ 0639cd

अथ दण्डयितुं गर्गभृत्यान्दण्डाधिकारिणम्89 । 0640ab
लहरेकृत गर्गस्य मन्त्रिणं गज्जकाभिधम् ॥ 0640cd

तं दण्डभीतैर्गर्गस्य सेवकैराश्रितस्ततः । 0641ab
विश्वस्तमवधीत्क्रुध्यंश्छद्मना मल्लकोष्ठकः ॥ 0641cd

लहरे विप्लुते राजा द्वैमातुरमथाग्रजम् । 0642ab
मल्लकोष्ठस्यार्जुनाख्यं बबन्ध सविधस्थितम् ॥ 0642cd

हस्तं च सड्डचन्द्रस्य पुत्रं गोत्रिणमप्यसौ । 0643ab
बद्ध्वा व्यधाद्बहिकाख्यं तस्य तद्भ्रातरं हितम् ॥ 0643cd

पूर्ववैरं स्मरन्सूर्यं सपुत्रं तं परांस्तथा90 । 0644ab
बबन्धानन्दचन्द्रादीन्नीत्युलङ्घनमाचरन् ॥ 0644cd

निगते लहरं मल्लकोष्ठके विद्रुते ततः । 0645ab
आरोप्यार्जुनकोष्ठं तं शूले कोपाद्व्यपादयत् ॥ 0645cd

निवेश्य सैन्यं तत्राथ प्रविष्टस्य पुरं ययुः । 0646ab
डामरा निखिलास्तस्य वैरं विश्वस्तघातिनः ॥ 0646cd

क्रुध्यन्पृथ्वीहरायापि कृतसेवाथ मन्त्रिभिः । 0647ab
आदिष्टैः कम्पनेशाद्यैरवस्कन्दमदापयत् ॥ 0647cd

कथं चित्सस् तु विस्तीर्णो जयन्तीविषयौकसः । 0648ab
बन्धोः क्षीराभिधानस्य प्रविवेशोपवेशनम् ॥ 0648cd

दिनेवन्तिपुरादीनां पुराणामन्तरेण तम् । 0649ab
व्रहन्तं विधुरं केचिन्नाशकन्बाधितुं द्विषः ॥ 0649cd

तद्वैधुर्यविधानं तत्प्रजासंहारकार्यभूत् । 0650ab
प्रमादाद्भूपतेः91 क्रुद्धवेतालोत्थापनोपमम् ॥ 0650cd

क्षीरोथ तीक्ष्णधीर्वृद्धः सह पृथ्वीहरेण सः । 0651ab
अढौकयच्छमाङ्गासान्तरेष्टादश डामरान् ॥ 0651cd

अभेद्यसन्धांस्ताञ्जेतुं निर्यातो विजयेश्वरम् । 0652ab
न्ययङ्क्त भूभृत्सम्भ्रान्तस्तिलकं कम्पनापतिम् ॥ 0652cd

सङ्ग्रामैः खण्डशः कुर्वन्स तानतुलविक्रमः । 0653ab
विद्रावयामास रयैः पुरोवायुरिवाम्बुदान् ॥ 0653cd

[page 192]

विश्वास-प्रस्तुतिः

सम्मानावसरे तस्य जित्वायातस्य डामरान् । 0654ab
प्रवेशं प्रत्युत नृपो न प्रादादवमानकृत् ॥ 0654cd

स भग्नमानो नगरं प्रविष्टे नृपतौ ततः । 0655ab
खिन्नः स्ववेश्मन्यवसत्स्वामिकार्ये निरुद्यमः ॥ 0655cd

सम्प्राप्ताः समशीर्षिकां विसदृशैस्तुल्यैर्निरुद्धोदया वैरे विद्विषतां कृता धुरि परं92 सन्धौ बहिः स्थापिताः । 0656ab
कार्यान्तेद्भुतकर्मकौशलकृतावज्ञा विरागस्पृशः सर्पाकीर्णमिवाशु वेश्म गृहिणो भृत्यास्त्यजन्ति प्रभुम् ॥ 0656cd

त्यक्तकार्यानुसन्धाने तस्मिन्सर्वत्र डामराः । 0657ab
सम्भृतिं विक्रियां निन्युः कृषिं क्षयधना इव ॥ 0657cd

आतङ्कोद्वेजितैर्विप्रैः कृतप्रायैः पुरे पुरे । 0658ab
वह्नौ गुताग्निभिर्घोरा कुकीर्तिरुदपद्यत ॥ 0658cd

उपसर्गेण तुरगाः करभाश्च क्षयं गताः । 0659ab
न्यवेदयन्मण्डलस्य प्रत्यासन्नमहाभयम् ॥ 0659cd

प्रत्यासन्नाशुभा कम्पं भयेन जनता दधे । 0660ab
आसन्नवज्रपतना वातेनेव द्रुमावलिः ॥ 0660cd

अथ षण्णवताब्दस्य प्रारम्भे डामरावलिः । 0661ab
ऊष्मस्पृष्टा हिमानीव बभूवापतनोन्मुखी ॥ 0661cd

प्रथमं देवसरसाद्विल्पवप्रसरस्ततः । 0662ab
मुखं व्यथावहो गण्ड इव पाकं व्यदर्शयत् ॥ 0662cd

एककार्यत्वमानीय टिक्कादीन्गोत्रजान्बली । 0663ab
स्थामस्थं विजयोभ्येत्य राजानीकमवेष्टयत् ॥ 0663cd

तत्र कायस्थपुत्रोपि स्थामस्थानीकनायकः । 0664ab
संरम्भं नागवट्टाख्यः सेहे तस्य चिरं युधि ॥ 0664cd

कथञ्चिदथ भूपेन प्रार्थितः कम्पनापतिः । 0665ab
निर्ययौ स्वामिदौरात्म्यसंस्मृतिश्लथसौष्ठवः93 ॥ 0665cd

विजयेन समं तस्य बद्धमूलेन संयुगे । 0666ab
सन्देहं प्राणवृत्तिश्च जयश्रीश्चासकृद्ययौ ॥ 0666cd

प्रवृद्धिं मल्लकोष्ठेपि प्रयाते लहरान्तरे । 0667ab
वैशाखे निर्ययौ राजा ग्रामं थल्योरकाभिधम् । 0667cd

सैनिकाः शत्रुभिस्तस्य भ्रामितास्तत्र रात्रिषु ॥ 0668ab
अरतिं निन्यरे घोरैः स्वप्नैरिव मुमूर्षवः ॥ 0668cd

बाहुमात्रसहायेन94 सर्वशक्तिमतां वरः । 0669ab
येन हर्षनरेन्द्रोपि विधुरेणोदपाद्यत ॥ 0669cd

भूरीन्वाराञ्जितवतो विक्रमेण महीमिमाम् । 0670ab
साहसानां न सङ्ख्यास्ति जामदग्न्यस्य यस्य वा ॥ 0670cd

स सङ्कुचितविक्रान्तिः कालस्य वलवत्तया । 0671ab
तत्र भ्रग्नबलोकस्माद्व्ययुज्यत जयश्रिया ॥ 0671cd

ततः पलायिते तस्मिन्नकस्मादेत्य सज्जकम् । 0672ab
हाडिग्रामस्थितो वीरं भङ्गं पृथ्वीहरोनयत् ॥ 0672cd

पलायितस्यानुसंरंस्तस्य पृष्ठं स निष्ठुरः । 0673ab
प्रतापी नगराभ्यर्णे दग्ध्वा नागमठं ययौ ॥ 0673cd

स चान्ये च ततः क्रूरा डामराः सर्वतोनयन् । 0674ab
राज्ञो रजाश्रितानां च चारकेभ्यस्तुरङ्गमान्95 ॥ 0674cd

निस्त्रिंशतां तीव्रकोपस्ततो भूपः समाश्रयन् । 0675ab
अभाग्यभागिनां योग्यामाललम्बे कुपद्धतिम् ॥ 0675cd

नीविं पृथ्वीहरस्याथ हत्वा डामरमनिकम् । 0676ab
पृष्ठन्यस्तविसं भोज्यमिव रात्रौ व्यसर्जयत् ॥ 0676cd

विसृज्य भ्रातरं हम्ब विद्दकस्य तथैव96 सः । 0677ab
अन्येषां प्राहिणोत्पार्श्वं भ्रातॄन्पुत्रांश्च विप्लुतः ॥ 0677cd

मातरं जय्यकाख्यस्य सिफिन्नाग्रामवासिनः । 0678ab
विच्छिन्नकर्णघ्राणां च कृत्वाभ्यर्णं व्यसर्जयत् ॥ 0678cd

सपुत्रं सूर्यकं शूलेधिरोप्य नगरे परान् । 0679ab
भूरीन्वध्यानवध्यांश्च क्रोधाक्रान्तो न्यपातयत् ॥ 0679cd

कालस्येवोल्वणस्याथ तस्य सर्वेपि शङ्किताः । 0680ab
आभ्यन्तराश्च बाह्याश्च विरागं प्रतिपेदिरे ॥ 0680cd

येनैवानीतिमार्गेण हारितं हर्षभूभुजा । 0681ab
निन्दन्नप्यादधे तं स राज्ये व्यवहरन्स्वयम् ॥ 0681cd

[page 193]

विश्वास-प्रस्तुतिः

प्रविष्टानां युद्धे गहनकविकर्मप्रणयिनां प्रसक्तानां द्यूते नरपतिधुरायां विहरताम् । 0682ab
तटस्थत्वे वक्तुं स्खलितमसकृत्सोर्हति परं प्रयोगे वैकल्यं स्वयमविकलो यो न भजते ॥ 0682cd

तीव्रप्रयत्नो नृपतिस्तत्रापि विहितोद्यमः । 0683ab
निनाय मल्लकोष्टादीन्किञ्चिन्मन्दप्रतापताम् ॥ 0683cd

अथानिनाय विजयो विषलाटाध्वना शनैः । 0684ab
नप्तारं हर्षदेवस्य तं भिक्षाचरमन्तिकम् ॥ 0684cd

विविक्षन्देवसरसं कम्पनापतिना ततः । 0685ab
विद्राव्यमाणः श्वभ्राग्रात्प्रधावन्सोपतत्क्षितौ ॥ 0685cd

परिज्ञाय हतस्याथ स तस्य विजयी शिरः । 0686ab
विससर्जान्तिकं राज्ञः फलं जयतरोरिव ॥ 0686cd

तदप्यत्यद्भुतं कर्म भजन्भूभृत्कृतघ्नताम् । 0687ab
न तस्य तुष्टस्तुष्टाव न चकार च सत्क्रियाम् ॥ 0687cd

अवजानञ्जघानामुं श्वभ्राख्यः कम्पनापतिः । 0688ab
तत्र कस्मात्तवोत्सेक इति तं सन्दिदेश च ॥ 0688cd

सर्वप्रकारं तिलकः कृतघ्नं नृपतिं विदन् । 0689ab
अथ जातविरागः स द्रोहौन्मुख्यं समादधे ॥ 0689cd

सतां स्यादनुपालभ्यो भजेद्वैमुख्यमेव चेत् । 0690ab
द्रोहेच्छया स तु तया ययावग्राह्यनामताम् ॥ 0690cd

नेयाशयित्वमथ वोचितकृत्यकृत्त्वं नीतिप्रियाः प्रतिपदं समुदाहरन्तु । 0691ab
मानोन्नतास्तु विहितस्तुतयः कृतज्ञैस्त्यक्त्वाप्यसून्परहितं घटयन्ति सन्तः ॥ 0691cd

पटं वह्निस्पर्शज्वलितमहिदष्टां त्वचमरेः श्रुतिं यातं मन्त्रं पतननिरतां जीर्णवसतिम् । 0692ab
असेवाज्ञं भूपं व्यसनविमुखं स्निग्धमजहन्न धीरोप्युत्थानोपहतमहिमा शर्म लभते ॥ 0692cd

इत्युपायं परित्यज्य न्याय्यं ये प्रभवे क्रुधि । 0693ab
द्रोग्धारः कथितास्तेभ्यः केन्ये पापीयसां धुरि ॥ 0693cd

जन्मन्येकोपकारित्वं पित्रोः सर्वत्र च प्रभोः । 0694ab
अधिकाः पितृघातिभ्यः पापिनस्तत्प्रभुद्रुहः ॥ 0694cd

निहते विजये शाम्यप्रभावेष्वपरेष्वपि । 0695ab
नाज्ञायि कस्यचित्स्वास्थ्यं तत्त्वज्ञेनान्तरात्मनः ॥ 0695cd

कञ्चित्क्षणं सोपसृतः प्रत्युतोग्रोपतापकृत् । 0696ab
विप्लवप्रसरो ज्ञातः सर्वैर्हुड इवोन्मदः ॥ 0696cd

आनिनीषुस्ततो मल्लकोष्टो[^0697-1] भिक्षाचरं पुनः । 0697ab
विषलाटां[^0697-2] तस्य पार्श्वं सैन्यं व्यसर्जयत् । 0697cd

कम्पनेशस्तमायान्तं द्रोग्धाप्यावेदयंस्ततः । 0698ab
राज्ञा न्यषेधि तद्रोप्षादेवं च समदिश्यत ॥ 0698cd

एनं वर्त्मन्यनुद्घाते त्यज हन्यामहं ततः । 0699ab
पुरोगतं मृगव्यान्तः सृगालमिव वाजिभिः ॥ 0699cd

द्वैराज्यकार्यमर्मज्ञभावेपि विधिचोदितः । 0700ab
कर्तव्ये तत्र शाठ्यं स नृपतिः प्रत्यपद्यत ॥ 0700cd

मर्मराजमुखादेवं लब्ध्वा द्रोग्धाथ डामरान् । 0701ab
तिलकोकारयच्छैलमार्गैर्भिक्षाचरागमम्97 ॥ 0701cd

स्थाने स्थाने ततः प्राप ततः कर्णोपकर्णिका । 0702ab
जनानां या ख्यातिहेतुर्भिक्षो राज्ञस्तु भीतिदा ॥ 0702cd

नासंस्कृतं वक्ति शिला भिनत्त्येकेषुणा दश । 0703ab
अश्रान्तो योजनशतं यात्यायाति च सञ्चरन् ॥ 0703cd

इत्यादितादृङ्माहात्म्यभिक्षुस्तुत्यानयज्जनः । 0704ab
निखिलान्पलितश्वेतलम्बकूर्चोपि कौतुकम् ॥ युग्मम्॥98 0704cd

भविष्यन्निव साम्राज्यस्यैक एकोर्धभागभाक् । 0705ab
वार्तामव्यवहर्तापि भिक्षोरूचेन्वियेष च ॥ 0705cd

सरित्स्नानगृहे स्नान्तो वृद्धाः क्षीणनियोगिनः । 0706ab
राजवेश्मन्यगणिता नाममात्रनृपात्मजाः ॥ 0706cd

स्वभावदुर्जनाः केचिद्योधाश्चोच्चाश्वकाङ्क्षिणः । 0707ab
कारयन्तोप्युपाध्यायाः शिष्यान्स्फिक्कषणं99 नखैः ॥ 0707cd

[page 194]

विश्वास-प्रस्तुतिः

वृद्धाः सुरौकोनर्तक्यो देवप्रासादपालकाः । 0708ab
वणिजो भुक्तनिक्षेपाः पुस्तकश्रुतितत्पराः ॥ 0708cd

प्रायोपवेशकुशलाः पारिषद्यद्विजातयः । 0709ab
शस्त्रिणः कार्षकप्राया नगरोपान्तडामराः ॥ 0709cd

सुखयन्तः स्वमन्यांश्च किमप्युत्पिञ्जवार्तया । 0710ab
एते प्रायेण देशेस्मिन्पार्थिवोपप्लवप्रियाः ॥ कुलकम्॥ 0710cd

प्रवर्धमानया भिक्षाचरागमनवार्तया । 0711ab
वेपमानोभवल्लोको ययौ चिन्तां च भूपतिः ॥ 0711cd

पृथ्वीहरस्तरुच्छन्ने गिरिकच्छे वसन्नथ । 0712ab
राजानीकं बभञ्जाजौ निर्गत्यातुलविक्रमः ॥ 0712cd

अनन्तकाकयोर्वश्यावानन्दद्वारनायकौ । 0713ab
चक्रे तिलकसिंहं च मन्त्रिणस्त्रीन्पलायिनः ॥ 0713cd

निहते विजये ज्यैष्ठे शुक्लषष्ट्यां पराभवम् । 0714ab
तमाषाढस्य नृपतिः प्राप्याभूद्विवशः पुनः ॥ 0714cd

उट्टीकितैर्गवां वृक्षमूर्धारोहेण भोगिनाम् । 0715ab
पिपीलककुलस्याण्डोपसङ्क्रान्त्यैव वर्षणम् ॥ 0715cd

प्रत्यासन्नं स राजाथ दुर्निमित्तैरुपद्रवम् । 0716ab
विचिन्त्यायातमुचितं कर्तव्यं प्रत्यपद्यत ॥ युग्मम्।100 0716cd

तृतीयेह्नि शुचेः शुक्ले ततः प्रास्थापयत्सुतम् । 0717ab
देवीमन्यत्कुटुम्बं च स कोटं लोहरं पटुः ॥ 0717cd

ताननुव्रजतस्तस्य सेतुभङ्गात्परिच्युताः । 0718ab
लोष्ठद्विजातयो विप्रा वितस्तायां विपेदिरे ॥ 0718cd

स तेन दुर्निमित्तेन खिन्नो हुष्कपुरान्तिकम् । 0719ab
अनुगम्याथ तान्द्वित्रैर्दिनैर्भूयोविशत्पुरम् ॥ 0719cd

विना पुत्रेण देव्या च स ततः प्रत्यपद्यत । 0720ab
प्रतापेन च लक्ष्म्या च परित्यक्त इवान्यताम् ॥ 0720cd

स मन्त्रो व्यापदि शुभः प्रत्यभात्तस्य तद्वशात् । 0721ab
अभ्यन्तरप्रकोपेपि सर्वाभ्युदयभागभूत् ॥ 0721cd

स्वयमुत्थापितानर्थः सोपि हर्षनरेन्द्रवत् । 0722ab
अद्यापि सान्वयो नीत्या तया साम्राज्यभोगभाक् ॥ 0722cd

श्रावणे लाहरैर्योधैरानीय बलशालिनाम् । 0723ab
भिक्षुर्मडवराज्यानां डामराणामथार्प्यत ॥ 0723cd

तेपि जन्या इव वरं श्वशुरालयसन्निभम् । 0724ab
प्रावेशयंस्तं लहरमनुयान्तः ससैनिकाः ॥ 0724cd

सभाजयित्वा तान्मल्लकोष्ठमुख्या निजां भुवम् । 0725ab
व्यसर्जयन्कम्पनेशप्रमाथाय101101 पृथुश्रियः ॥ 0725cd

सर्वतः परचक्रेथ पर्यापतति पार्थिवः । 0726ab
सङ्ग्रहीतुं102 प्रववृते पदातीनतुलव्ययः ॥ 0726cd

तस्मिन्दुर्व्यसने राज्ञि वसुवर्षिणि सर्वतः । 0727ab
अकारि शस्त्रग्रहणं शिल्पिशाकटिकैरपि ॥ 0727cd

नगरे सैन्यपतयः प्रतिमार्गमकारयन् । 0728ab
तुरगान्न्यस्तसन्नाहान्व्यायामसमरोन्मुखाः ॥ 0728cd

मयग्रामस्थिते भिक्षावमरेश्वरवासिभिः । 0729ab
राजसैन्यैः समं युद्धमगृह्णन्नेत्य लाहराः ॥ 0729cd

तैर्हिरण्यपुरोपान्ते प्रबन्धारब्धसङ्गरैः । 0730ab
श्रीविनायकदेवाद्या राजसेनाधिपा हताः ॥ 0730cd

आद्य एव रणे यातां राजानीकाद्विरोधिनः । 0731ab
लब्ध्वा वराश्वामायाताममन्यन्त नृपश्रियम् ॥ 0731cd

राजधान्यन्तिके क्षिप्तिकाख्यायाः सरितस्तटे । 0732ab
पृथ्वीहरश्चकाराजावशेषसुभटक्षयम् ॥ 0732cd

तिलके विजयेशस्थेप्यगृह्णन्नेत्य डामराः । 0733ab
महासरित्तटे युद्धं खडूवीहोलडौकसः103 ॥ 0733cd

ते रुद्धनगरा दाहं क्वापि क्वापि च लुण्ठनम् । 0734ab
वास्तव्यानां विदधिरे विनदन्तो दिवानिशम् ॥ 0734cd

निर्यत्सतूर्यपृतनाः प्रविशच्छस्त्रविक्षताः । 0735ab
क्रन्दद्धताप्तनिवहाः प्रधावद्भग्नसैनिकाः ॥ 0735cd

प्रसरत्प्रेक्षिनिवहा वहदाशुगभारिकाः104 । 0736ab
सञ्चार्यमाणसन्नाहाः कृष्यमाणतुरङ्गमाः ॥ 0736cd

[page 195]

विश्वास-प्रस्तुतिः

आसन्नशान्तसम्मर्दप्रसरत्पांसवोनिशम् । 0737ab
दिने दिने राजपथा उपप्लवविशृङ्खलाः ॥ तिलकम्॥105 0737cd

प्रतिप्रत्यूषमायात्सु सर्वारम्भेण वैरिषु । 0738ab
अद्य ध्रुवं जितो राजेत्यज्ञायि प्रतिवासरम् ॥ 0738cd

धीरः कः सुस्सलादन्यो न यः प्रत्यभियोगिनाम् । 0739ab
कृच्छ्रेणापि स्वराष्ट्रेण क्रष्टुं धैर्यादपार्यत ॥ 0739cd

व्रणपट्टाञ्चनं शल्योद्धारं पथ्यधनार्पणम् । 0740ab
शस्त्रक्षतानां सततं कारयन्स व्यलोक्यत ॥ 0740cd

प्रवासवेतनप्रीतिदायभैषज्यदत्तिभिः । 0741ab
शस्त्रिलोके नरपतेर्निःसङ्ख्योभूद्धनव्ययः ॥ 0741cd

युद्ध एव विपन्नानां क्षतानां च स्ववेश्मसु । 0742ab
नित्यं नरतुरङ्गानां सहस्राणि क्षयं ययुः ॥ 0742cd

तुरङ्गबहलैर्हन्यमाना नृपबलैस्ततः । 0743ab
लाहरा मल्लकोष्ठाद्या मन्दोद्रेकत्वमाययुः ॥ 0743cd

भिन्नैराभ्यन्तरैरेव दत्तमन्त्राः सुरेश्वरीम् । 0744ab
ते निन्युर्भिक्षुमल्पेन तन्मार्गेण युयुत्सवः ॥ 0744cd

सेतुना स्वल्पपार्श्वेन धन्विप्रायैः सरोन्तरे । 0745ab
अवापि तैर्जयो मोचिवाजिभ्यश्च भयं रणे ॥ 0745cd

द्रोग्धाथ कम्पनेशः स106 निवसन्विजयेश्वरे । 0746ab
बलितां डामरान्निन्ये मन्दोद्रेकं स्फुरन्रणे ॥ 0746cd

लवन्यलोको मा ज्ञासीदशक्तिं मेथ गच्छतः । 0747ab
पृष्ठे निपत्य मा कार्षीद्द्यथां चेति विचिन्तयन् ॥ 0747cd

स प्रभावं दर्शयितुम् प्राप्तस्य विजयेश्वरम् । 0748ab
अज्जराजस्य सेनायां व्यावृत्त्य प्रस्थितोभवत् ॥ 0748cd

सार्धां शतद्वयीं तस्य योधानां हतवानपि । 0749ab
सन्त्यज्य विजयक्षेत्रं द्रोहकृन्नगरं ययौ ॥ 0749cd

पथि नान्वसरन्भीत्या भयात्तं डामराः क्वचित् । 0750ab
नदन्तोद्रिशिरोरूढा मार्गान्सर्वांश्च तत्यजुः ॥ 0750cd

त्यक्त्वा मडवराज्यं स प्रविष्टो व्यसनातुरम् । 0751ab
पूर्वचेष्टां स्मरन्भूपं जहास कृतसत्क्रियम् ॥ 0751cd

इतरामात्यवत्स्थामस्थितोथ न निजोचितम् । 0752ab
रणे प्रादर्शयत्किञ्चित्साक्षिभूत इव स्थितः ॥ 0752cd

ततो मडवराज्यात्ते समस्ता एव डामराः । 0753ab
अभ्येत्य प्रत्यपद्यन्त107 तां महासरितस्तटीम् ॥ 0753cd

उपायाः सामभेदाद्या रिपुचक्रे प्रयोजिताः । 0754ab
राज्ञो विफलतां जग्मुर्बहिराप्तैः प्रकाशिताः ॥ 0754cd

क्रान्ततत्तन्महीपालमण्डलस्यापि भूपतेः । 0755ab
फलं दोर्विक्रमस्याग्र्यमासीन्नगररक्षणम् ॥ 0755cd

अमरेशे द्वारपतिः सार्धं तस्थौ नृपात्मजैः । 0756ab
राजानवाटिकोपान्ते राजस्थानीयमन्त्रिणः ॥ 108 0756cd

दूरद्रीपान्तरगता इव स्वीचक्रिरे नृपात् । 0757ab
ते प्रवासधनं भूरि न चायुध्यन्त कुत्रचित् ॥ 0757cd

कटका विद्विषां सर्वे पर्यायेण जयाजयौ । 0758ab
लेभिरे विजयादन्यन्न तु पृथ्वीहरः क्वचित् ॥ 0758cd

मधुमत्तेन तेनाजौ वेतालेनेव वल्गता । 0759ab
प्रायो वरा वराः सर्वे ग्रस्ता नृपचमूभटाः ॥ 0759cd

उदयस्येच्छटिकुलोद्भूतस्यैकस्य पप्रथे । 0760ab
युवदेश्यस्यापि शौर्यमेकस्मिंस्तु तदाहवे ॥ 0760cd

पृथ्वीहरस्यापजह्रे द्वन्द्वयुद्धाभिमानिना । 0761ab
प्रहृत्य कृष्टकूर्चेन कराद्येनासिवल्लरी ॥ 0761cd

युद्धे पुरोपकण्ठेषु वर्तमाने शराहताः । 0762ab
स्त्रीबालाद्या अपि वधं प्रमादात्प्रतिपेदिरे ॥ 0762cd

एवं जनक्षये घोरे वर्धमाने किमप्यभूत् । 0763ab
अनुत्साहान्नृपो गेहादपि निगन्तुमक्षमः ॥ 0763cd

तस्मिन्निरुद्धसञ्चारे सोमपालस्तदन्तरे । 0764ab
अलुण्ठयच्चाट्टलिकां109 लब्धरन्ध्रो ददाह च ॥ 0764cd

सिंहे गजाहवव्यग्रे तद्गुहाग्रपरिग्रहे । 0765ab
समयो ग्रामगोमायोः पौरुषस्यापरोस्तु कः ॥ 0765cd

[page 196]

विश्वास-प्रस्तुतिः

राष्टद्वयोपमर्देन राजा निःसदृशेन सः । 0766ab
तेन त्रपाविधेयोभूत्स्वमपि द्रष्टुमक्षमः ॥ 0766cd

सर्वानौचित्यबहलः सर्वव्यसनदुःसहः । 0767ab
सर्वदुःखमयः कालस्तस्यावर्तत कोपि सः ॥ 0767cd

तथाप्यस्खलिते तस्मिन्हितव्याजाद्धितापहः । 0768ab
राजानवाटिकाव्रिप्रैः प्रायश्चक्रे विरागिभिः ॥ 0768cd

प्रार्थयन्ते स्म ते युद्धे तटस्थास्तव मन्त्रिणः । 0769ab
गृहीत्वा नीविरेतेभ्यो लोहराद्रौ विसृज्यताम् । 0769cd

न चेद्व्याप्य इवैतस्मिन्व्यसने स्थायितां गते । 0770ab
को दध्यान्न परैर्नीतं प्रत्यासन्नं शरत्फलम् ॥ 0770cd

न प्रत्यभैत्सीत्ताटस्थं यत्कालापेक्षया नृपः । 0771ab
तस्मिंस्तैर्दर्शिते शङ्कां निखिला मन्त्रिणो दधुः ॥ 0771cd

शक्तिस्तृणं कुब्जायितुं न यस्य स तदार्थिभिः । 0772ab
विसूत्रव्यवहारत्वं निन्ये राजा शठद्विजैः ॥ 0772cd

कर्मस्थानोपजीव्युग्रपारिषद्यादिसङ्कुला । 0773ab
तत्पार्श्वात्प्रययौ वृद्धिमन्या सेनेव वैरिणाम् ॥ 0773cd

तत्सान्त्वनक्षणे तैस्तैः प्रमादैरुत्थितैरगात् । 0774ab
देशो व्याकुलतां कृच्छ्रं लुण्ठिश्चाघटतोत्कटा110 ॥ 0774cd

अदृष्टपार्थिवास्स्थानैः शठैरव्यवहारिभिः । 0775ab
ऊचे तैः सान्त्वयन्राजा दुःस्थितस्तत्तदप्रियम् ॥ 0775cd

लवन्यविप्लवाद्राज्ञः सोधिको विप्लवोभवत् । 0776ab
गलरोगः पादरोगादिव तीव्रव्यथावहः ॥ 0776cd

काञ्चनोत्कोचदानेन तन्मध्येधिकचक्रिकाम् । 0777ab
कांश्चित्स्वीकृत्य स प्रायं कथञ्चिद्विन्यवीवरत्111 ॥ 0777cd

विजयो वर्णसोमादिशस्त्रिवंश्यो हठात्पुरम् । 0778ab
प्रविशन्भिक्षुसेनानीरश्वारोहैरहन्यत ॥ 0778cd

तेनातिरभसात्स्थानं भित्त्वा प्रविशता पुरम् । 0779ab
प्रायशः कृत एवाभूत्तदा राज्यविपर्ययः ॥ 0779cd

ईषन्मन्दप्रतापेन लवन्येष्वपि112 भूपतेः । 0780ab
पृथ्वीहरेण सन्धित्सा भेदेच्छोः सम्प्रकाशिता ॥ 0780cd

तस्मिन्धुर्ये जिगीषूणां सन्धित्सौ भूभुजा समम् । 0781ab
द्वयेपि सैनिकाः शान्तं तममन्यन्त विप्लवम् ॥ 0781cd

राज्ञा नागमठोपान्तमानेतुं प्रहितांस्ततः । 0782ab
त्रीनमात्यान्सुविश्वस्तानागच्छंश्छद्मनावधीत् ॥ 0782cd

धात्रेयो मम्मको गुङ्गो द्विजो रामश्च वारिकः । 0783ab
तेषां तिलकसिंहस्य पार्श्वे भृत्यास्त्रयो हताः ॥ 0783cd

नीविर्दत्तो गौरकस्तु हतो भूतपतिं स्मरन् । 0784ab
इष्टे त्वाक्रन्दिनि परैः प्रहृतं करुणोज्झितैः ॥ 0784cd

तद्वैशसं श्रुतवतो देशः सर्वो विरागकृत् । 0785ab
राजधान्यन्तरे राज्ञो दुरुक्तिमुखरोभवत् ॥ 0785cd

इषे शुक्लचतुर्दश्यां तद्विपर्यस्तमण्डलम् । 0786ab
अतिवाहयितुं कष्टं दिनमासीन्महीपतेः ॥ 0786cd

अथ सञ्जातवैक्लव्यो नेदमस्तीति चिन्तयन् । 0787ab
किं कृत्यमित्यसदृशानपि पप्रच्छ भूपतिः ॥ 0787cd

विष्समे वर्तमानस्य तस्य कश्चित्स नाभवत् । 0788ab
अन्तर्जहास113 यो नान्त - - -2 न तुतोष वा ॥ 0788cd

तमपि व्यसनापातं तस्य सोढवतस्ततः । 0789ab
अभजन्त क्रमाद्भृत्याः प्रतिपक्षसमाश्रयम् ॥ 0789cd

कम्पनेशस्य बिम्बाख्यो भ्राता द्वैमातुरोहितान् । 0790ab
समाश्रयद्द्वारकार्यं तद्दत्तं प्रत्यपद्यत ॥ 0790cd

गूढं जनकसिंहेन दूतान्प्रेषयतानिशम् । 0791ab
भिक्षवे भ्रातृतनया वाग्दत्ता निरवर्त्यत ॥ 0791cd

असिवाजितनुत्रादि दत्त्वा भिक्षाचरान्तिकम् । 0792ab
अश्ववारा व्यभाव्यन्त प्रयान्तः प्रतिवासरम् ॥ 0792cd

किमन्यद्व्यक्तमेवाह्नि येवसन्पार्थिवान्तिके । 0793ab
अलक्ष्यन्ताग्रतो भिक्षोस्ते निशायां गतत्रपाः ॥ 0793cd

इतो याति ततश्चैति लोको व्यक्तमतन्त्रितः114 । 0794ab
इति राजनि कुण्ठाज्ञे कोप्यजृम्भत विप्लवः ॥ 0794cd

[page 197]

विश्वास-प्रस्तुतिः

डामरैः शरदुत्पत्तौ नीतायां सर्वतस्ततः । 0795ab
कान्दिशीकोभवल्लोकः कृत्स्नो धनजनोज्झितः ॥ 0795cd

प्रयाते सुस्सलनृपे स्वर्णपूर्णामिमां महीम् । 0796ab
भिक्षुः कुर्यादिति मृषा लोकस्यासीद्विनिश्चयः ॥ 0796cd

क्व दृष्टा त्यागिता भिक्षोः कुतो वा तस्य सम्पदः । 0797ab
पराममर्श115 नैवेति गतानुगतिको जनः ॥ 0797cd

सन्दृश्यते परिवृता चिरमम्बरेण रेखा स्वयं न खलु या शशिनो नवस्य । 0798ab
तस्यां जनः प्रकुरुते नतिमम्बरार्थी धिग्लुब्धतामपसरत्सदसद्विचाराम् ॥ 0798cd

विजये राजवर्ग्याणां भुग्नग्रीव इवाभवत् । 0799ab
भिक्षुपक्षजये लोको हृष्यन्नासीद्विशृङ्खलः ॥ 0799cd

द्विजकौलेयकन्यायो राजडामरसङ्घयोः । 0800ab
ततोन्योन्यभयभ्रश्यद्वैरयोरुदजृम्भत ॥ 0800cd

राजाभ्यन्तरभेदेन राज्ञः स्थैर्येण चारयः । 0801ab
ऐच्छन्पलायितुं भीता अज्ञातग्न्योन्यनिश्चयाः ॥ 0801cd

बान्धवानपि दुध्रुक्षूनविश्वस्तो116 विदन्नृपः । 0802ab
स्थितौ पलयने वापि श्रद्दधे न स्वजीवितम् ॥ 0802cd

तं महाव्यसने वासःस्वर्णरत्नादिवर्षणम् । 0803ab
नाभ्यनन्दन्गृहीतार्था निनिन्दुः शस्त्रिणः परम् ॥ 0803cd

नष्टोयं नैष भवितेत्यभीतेर्जल्पतो जनात् । 0804ab
वचो रोगी भिषक्त्यक्त इव शृण्वन्स विव्यथे ॥ 0804cd

अप्यग्रोपस्थितं किञ्चित्तदादेशेन ढौकयन् । 0805ab
सविलासं सगर्वं च तमैक्षिष्टानुगव्रजः ॥ 0805cd

सोन्य एवाभवत्तस्मिन्क्षणे साहसिकोप्यहो । 0806ab
स्वगृहादपि निर्गन्तुं नाशकद्यद्भयाकुलः ॥ 0806cd

यावदैच्छन्सङ्घभेदाच्चलितुं डामरव्रजाः । 0807ab
स्वैरेव शस्त्रिभिस्तावन्निन्ये भूभृद्विसूत्रताम् ॥ 0807cd

ते कृष्टशस्त्रा द्वाराणि रुन्धन्तो नृपमन्दिरे । 0808ab
प्रवासवित्ते लब्धव्ये प्रायं चक्रुः पदे पदे ॥ 0808cd

ददद्धनं धनेशश्रीर्देयादप्यधिकं नृपः । 0809ab
तेषामभिमतो नाभूदवमानाभिलाषिणाम् ॥ 0809cd

मर्तुं चिचलिषुस्तीर्थमृणिकैरिव117 सामयः । 0810ab
स रुद्ध्वा निखिलैर्देयं दापितोथ गतत्रपैः ॥ 0810cd

स्थानपालैरपि प्रायकृद्भिराक्रम्य दापितः । 0811ab
धनं सुवर्णभाण्डादि चूर्णीकृत्य विशृङ्खलैः ॥ 0811cd

सवृद्धबालं नगरं ततः क्षुभ्यत्क्षणे क्षणे । 0812ab
सोभूदब्धिमिवोद्वृत्तं न संस्थापयितुं क्षमः ॥ 0812cd

एकदा प्रातरेवान्यै रुद्धद्वारः स्वशस्त्रिभिः118 । 0813ab
सर्वतः क्षोभमागच्छन्नगरं स व्यलोकयत् ॥ 0813cd

ततः क्षोभं शमयितुं जनकं नगराधिपम् । 0814ab
पुरभ्रमार्थमादिश्य चलितुं क्षणमैक्षत ॥ 0814cd

कथञ्चिद्दानमानाभ्यां तानावर्ज्यापि शस्त्रिणः । 0815ab
सावरोधः स सन्नद्धो राजधान्या विनिर्ययौ ॥ 0815cd

अङ्गनात्तुरगारूढो119 बहिर्यावन्न निर्ययौ । 0816ab
राजधान्यन्तरे लुण्ठिस्तावत्प्रारम्भि तस्करैः ॥ 0816cd

अरुदन्केपि केप्युच्चैरनदन्केप्यलुण्ठयन् । 0817ab
तद्भृत्यान्राज्यमुत्सृज्य लुण्ठिस्तावन्व्रजति शस्त्रिणः ॥ 0817cd

विशृङ्खलस्त्रपाकोपशङ्काभिः शस्त्रिणां नृपः । 0818ab
सहस्रैः पञ्चषैरासीद्व्रजन्ननुगतोध्वनिः ॥ 0818cd

वर्षे षण्णवते120 कृष्णषष्ट्यां मार्गे विनिर्गतः । 0819ab
याममात्रावशेषेह्नि सभृत्यो द्रोहविह्वलः ॥ 0819cd

निजैर्हरद्भिरश्वादि त्यज्यमानः पदे पदे । 0820ab
स प्रतापपुरं प्राप क्षपायामल्पसैनिकः ॥ 0820cd

तिलकस्य पुरो गत्वा प्राप्तस्याग्रं च विश्वसन् । 0821ab
तत्र बन्धोरिवास्रूणि चिरं दुःखोल्बणोमुचत् ॥ 0821cd

द्रोहं न कुर्यादेवं मे चिन्तयित्वेति सत्वरम् । 0822ab
वेश्म हुष्कपुरेन्येद्युस्तस्य च प्राविशत्स्वयम् ॥ 0822cd

[page 198]

विश्वास-प्रस्तुतिः

तद्गौरवेण स्नानादि कृत्वैच्छत्सैन्यसङ्ग्रहम् । 0823ab
प्रविश्य क्रमराज्यं स कर्तुम् भूयो जयोत्सुकः121 ॥ 0823cd

गूढं युयुत्सून्कल्याणवाडादीनथ122 डामरान् । 0824ab
आनीय स पुरस्तस्य धैर्यभ्रंशमकारयत् ॥ 0824cd

गृहात्तेन तया युक्त्या निष्कृष्टः स ततो ययौ । 0825ab
स्वीकुर्वन्स्वर्णदानेव दस्यून्मार्गविरोधिनः ॥ 0825cd

प्रयान्तं तात् एवौज्झीत्तिलकस्तत्सहोदरः । 0826ab
प्रयाणमेकमानन्दो दाक्षिण्यादन्वगात्तु तम् ॥ 0826cd

भृत्यत्यक्तः स दानेन विक्रमेण च तस्करान् । 0827ab
अगान्मार्गेण शमयन्नायुःशेषेण रक्षितः ॥ 0827cd

त्राणं सिंहनखा द्रुमाद्रिगहनस्यारादरण्यस्य ये तेषां बालगलाश्रयादपि भवेत्कालातिवाहः क्रमात् । 0828ab
ये दन्ताः करिणां रणप्रहरणं तेप्याप्नुयुर्दीव्यतां क्रीडायां करताडनानि न दृढा शौर्यस्य रूढिः क्वचित् ॥ 0828cd

जन्तूनां विक्रमत्यागयशःप्रज्ञादयो गुणाः । 0829ab
भवे चित्रस्वभावेस्मिन्न भवेयुरभङ्गुराः ॥ 0829cd

भास्वानप्यौग्र्यमृदुतां भिन्नावस्थां123 दिने दिने । 0830ab
तां तामायाति जन्तूनां कः प्रभावेषु निश्चयः ॥ 0830cd

अशक्नुवन्नट्टलिकामरिप्लुष्टां निरीक्षितुम् । 0831ab
मन्युनिःशब्दसैन्योद्रिमारुरोह स लोहरम् ॥ 0831cd

स्वं कलत्रमपि द्रष्टुं तत्रातित्रपयाक्षमः । 0832ab
शयनीयविमुक्ताङ्गस्तप्यते स्म दिवानिशम् ॥ 0832cd

दत्तदीपादनिर्गच्छन्नन्तर्गेहाद्दिनेष्वपि । 0833ab
दाक्षिण्याद्दर्शनं प्रादाद्भृत्यानां भोजनक्षणे ॥ 0833cd

विलेपनानि नास्प्राक्षीन्नारुरोह तुरङ्गमान् । 0834ab
गीतनृत्तादि नैक्षिष्ट सुखगोष्ठीर्न चादधे ॥ 0834cd

ताम्यंस्ताटस्थ्यमौखर्यतैक्ष्ण्यद्रोहादि दर्शितम् । 0835ab
एकेनैकेन च स्मृत्वा स्मृत्वा देव्यै न्यवेदयत् ॥ 0835cd

अन्वगात्स्वां भुवं त्यक्त्वा मामेतेन्वगुरित्यपि । 0836ab
निन्ये वृद्धिं परार्ध्यश्रीः स दाक्षिण्याद्धनार्पणैः ॥ 0836cd

काश्मीरेषु गते तस्मिंस्तदैवाखिलमन्त्रिणः । 0837ab
पुराणराजधान्यग्रे124 ससैन्याः समगंसत ॥ 0837cd

मन्त्र्यश्चारोहसामन्ततन्त्रिपौरादिसम्मतः । 0838ab
तेषां जनकसिंहोभूदग्रणीर्नगराधिपः ॥ 0838cd

स भिक्षोर्मल्लकोष्ठाद्यैराप्तैः कृतगतागतैः । 0839ab
विश्वासाय सुतभ्रातृसुतौ नीविं प्रदापितः ॥ 0839cd

प्रावर्तत भयभ्रश्यत्स्त्रीबालाद्यावृते पुरे । 0840ab
अराजकाथ रजनी सर्वभूतभयावहा ॥ 0840cd

निहताः केपि मुषिताः केपि केप्यरिभिः पुरे । 0841ab
दग्धागारा व्यधीयन्त दुर्बला राजवर्जिते ॥ 0841cd

सैन्यैरन्येद्युरुन्नादैर्निरुद्धाखिलदिक्पथः । 0842ab
सिन्दूरारुणपुण्ड्राश्वसादिमण्डलमध्यगः ॥ 0842cd

विकोशशस्त्रकदलीषण्डदुर्लक्ष्यविग्रहः । 0843ab
मृगेन्द्र इव लोकस्य भयकौतूहलावहः ॥ 0843cd

वीरपट्टाञ्जलश्लिष्टैर्यौवनोद्रेचितैः कचैः । 0844ab
अबद्धैः शोभितः पृष्ठे जयश्रीबन्धशृङ्खलैः ॥ 0844cd

कुण्डलद्योतिना स्निग्धधवलायतदृष्टिना । 0845ab
प्रत्यग्रश्मश्रुणा चारुनन्दनोल्लेखशोभिना ॥ 0845cd

ताम्राधरेण वक्त्रेण श्रीसान्निध्याधिकत्विषा । 0846ab
प्रत्यग्रश्मश्रुणा चारुचन्दनोल्लेखशोभिना ॥ 0846cd

असेर्विकोशस्यान्तःस्थां श्रियमश्वेन वल्गता । 0847ab
केसरच्छटया चापि125 चामरेणेव वीजयन् ॥ 0847cd

पदे पदे निवृत्ताश्वः सामन्तैरुपपादिताम् । 0848ab
स्वीकुर्वन्नर्हणां भिक्षुः प्राविशन्नगरं ततः ॥ कुलकम्॥ 0848cd

तस्यार्भकस्य धात्रीव पृष्ठस्थो मल्लकोष्ठकः । 0849ab
प्रययावप्रगल्भस्य सर्वकार्योपदेष्टृताम् ॥ 0849cd

अयं पितुः प्रियस्तेभूत्त्वमस्याङ्के विवर्धितः । 0850ab
राज्यस्यायं मूलमिति प्रत्येकं समदर्शयत् ॥ 0850cd

[page 199]

विश्वास-प्रस्तुतिः

गृहं जनकसिंहस्य प्राक्कन्यावाप्तयेविशत् । 0851ab
राजलक्ष्मीं126 स सम्प्राप्तुं राजधानीं ततः परम् ॥ 0851cd

दूरनष्टे कुले तेन पुनरुद्रेचिते ययौ । 0852ab
बद्धास्थो गर्भगेपत्ये स्त्रीजनोनवहास्यताम् ॥ 0852cd

वृष्टेन तादृशा भिक्षोरिति वृत्तेन शत्रुषु । 0853ab
चित्रस्थेष्वपि साशङ्का नोपहास्या जिगीषवः ॥ 0853cd

प्रावर्तन्त धनाधीशश्रियः सुस्सलभूपतेः । 0854ab
कोशेन127 नीतशेषेन विलासा नवभूपतेः ॥ 0854cd

वाजिवर्मासिभूयिष्ठां राजलक्ष्मीं विभेजिरे । 0855ab
राजडामरलुण्ठाकमन्त्रिणो यन्त्रणोज्झिताः ॥ 0855cd

पुरे स्वर्ग इवास्वादं भोगानामुपलेभिरे । 0856ab
दस्यवो ग्रामभोगार्हाः पिशाचा इव गह्वराः ॥ 0856cd

अस्थाने न बभौ भूभृद्ग्रामीणैः सर्वतो वसन् । 0857ab
प्रलम्बकम्बलप्रायविलासावरणैः समम् ॥ 0857cd

भिक्षाचरस्यासम्भाव्यप्रादुर्भावतया प्रथाम् । 0858ab
डामरा अवतारोयमित्यन्यां निन्यिरे प्रथाम् ॥ 0858cd

राज्यस्यानन्यदृष्टस्य कर्तव्येषु मुमोह सः । 0859ab
अदृष्टकर्मेव भिषग्भैषज्यस्य पदे पदे ॥ 0859cd

शनैर्जनकसिंहेन कृतभ्रातृसुतार्पणम् । 0860ab
कम्पनाधिपतिर्दत्तकन्योपि तमशिश्रियत् ॥ 0860cd

जुङ्गो राजपुरीयस्य राज्ञः कटकवारिकः । 0861ab
पादाग्राधिकृतोद्राक्षीत्स्वार्थमर्थं न तु प्रभोः ॥ 0861cd

सर्वाधिकारिणं राजलक्ष्मीर्बिम्बमशिश्रियत्128 । 0862ab
राजशब्दस्यैव पात्रमभूद्भिक्षाचरः परम् ॥ 0862cd

वेश्यायत्तीकृतैश्वर्यः प्राकृताचारबहगपि । 0863ab
अन्तरङ्गः सदसतां किञ्चिद्बिम्बस्तदाभवत् ॥ 0863cd

द्वैमातुरो दर्यकस्य भ्राता साश्चर्यशौर्यभूः । 0864ab
नृपान्तरङ्गज्येष्ठत्वं ज्येष्ठपालोप्यशिश्रियत् ॥ 0864cd

मन्त्रिणो भूतभिश्चाद्यास्तस्य129 पैतामहा अपि । 0865ab
लक्ष्मीसरोजिनीभृङ्गा बहवोन्ये जजृम्भिरे ॥ 0865cd

मुग्धे राज्ञि प्रमत्तेषु मन्त्रिषूग्रेषु दस्युषु । 0866ab
उत्थानोपहतं राज्यं नवत्वेपि बभूव तत् ॥ 0866cd

स्त्रीभिर्नवनवाभिश्च भोज्यैः प्राज्यैश्च रञ्जितः । 0867ab
भिक्षुर्नैक्षिष्ट कर्तव्यं मुखानुभवमोहितः ॥ 0867cd

स सुखानुभवप्रावृड्निद्रान्धो विजयोद्यमे । 0868ab
स्वैः प्रेरितः सभामध्ये स्वप्नुमैच्छन्मदालसः ॥ 0868cd

दर्पेण सचित्रे वाभ्रं कथयत्यनुकम्पिकाम् । 0869ab
न स चुक्रोध मुग्धस्तु पितरीवान्वरज्यत ॥ 0869cd

निष्प्रतिष्ठैः सेव्यमानो वेश्योच्छिष्टैरशिष्टवत्130 । 0870ab
अट्टचेटोचिताश्चेष्टा विटैः प्रैर्यत सेवितुम् ॥ 0870cd

पानीयरेखाप्रतिमस्थैर्यस्याखिलस्तुंषु । 0871ab
तस्याप्रमाणवचसः सेवाम् प्रणयिनो जहुः ॥ 0871cd

यदूचुः सचिवास्तत्तानन्ववोचन्न भूभृतः । 0872ab
वचः सुषिरगर्भस्य तस्य प्रणयिनो जहुः ॥ 0872cd

सचिवैः स्वगृहान्नीत्वा दत्तभोज्यः स मुग्धधीः । 0873ab
धनी विपन्नपितृक इव प्रमुषितो विटैः ॥ 0873cd

आहारमुष्टीर्बिम्बस्य131 गृहे बिम्बनितम्बिनी । 0874ab
तस्याश्वस्येव132 वडवा रागिणोग्रगताहरत् ॥ 0874cd

वञ्चयित्वा दृशौ पत्युर्दर्शितैः स्मेरया तया । 0875ab
कुचकक्षकटाक्षैः स लुप्तधैर्यो व्यधीयत ॥ 0875cd

पृथ्वीहरो मल्लकोष्ठश्चान्योन्योद्भूतमत्सरौ । 0876ab
क्षोभं व्यधत्तां संरब्धौ राजधान्याः क्षणे क्षणे ॥ 0876cd

स्वयं राज्ञा सुतोद्वाहं गृहान्गत्वापि कारितौ । 0877ab
तावन्योन्यमुपैक्षेतां133 न मन्युं विक्रमोन्मदौ ॥ 0877cd

अथ पृथ्वीहरगृहात्कृतोद्वाहः स्वयम् नृपः । 0878ab
जातामर्षेण सुस्पष्टं मल्लकोष्ठेन तत्यजे ॥ 0878cd

द्रुह्यञ्जनककाणोपि सम्बन्धापेक्षयोज्झितः । 0879ab
विरागमोजानन्दादीन्निन्ये ब्राह्मणमन्त्रिणः ॥ 0879cd

[page 200]

विश्वास-प्रस्तुतिः

तटस्थो द्रोग्धृदुर्बुद्धिप्रायभृत्यविधेयधीः । 0880ab
विसूत्रव्यवहारत्वं निन्द्यत्वं च ययौ नृपः ॥ 0880cd

डामरस्वामिके लोके प्राभवत्को न विप्लवः134 । 0881ab
ब्राह्मण्यो घर्षणं यत्र श्वपाकेभ्योपि लेभिरे ॥ 0881cd

अराजकेथ वा भूरिराजके मण्डले तदा । 0882ab
समस्तव्यवहाराणां स्फुटं तुत्रोट पद्धतिः ॥ 0882cd

दीन्नारा भैक्षवे राज्ये निष्प्रचाराः पुरातनाः । 0883ab
तच्छतेन तु नव्यानामशीतेरभवत्क्रयः ॥ 0883cd

राजपुर्यध्वना बिम्बं ससैन्यमाथ पार्थिवः । 0884ab
लोहरं प्राहिणोत्कर्तुं सुस्सलास्कन्दमुन्मदः ॥ 0884cd

तुरुष्कसैन्यमानिन्ये सोमपालेन सोन्वितः । 0885ab
साहायकाय सल्लारे विस्मये मित्रतां गते ॥ 0885cd

सन्दर्श्य पाशमेतेन बद्ध्वा क्रक्ष्यामि सुस्सलम् । 0886ab
इत्येक एकोश्वारोहस्तुरुष्काणामकत्थत135 ॥ 0886cd

काश्मीरिकखशम्लेच्छयोधव्यतिकरोभवत्136 । 0887ab
न केषां नाम सम्भाव्यो विश्वोत्पाटनपाटवः ॥ 0887cd

भिक्षाचरः प्रयाते तु बिम्बे विगलिताङ्कुशः । 0888ab
न कासामव्यवस्थानां मूढः स्थानमजायत ॥ 0888cd

स निमन्त्र्य निजं नीतो गृहं बिम्बावरुद्धया । 0889ab
भोगसम्भोगदानेन धर्षण्या पर्यतोप्यत ॥ 0889cd

कार्यापेक्षापि तस्यासीन्न मन्त्रिस्त्रीसमागमे । 0890ab
कौलीनभीतेरासन्ननिपातस्य कथैव का ॥ 0890cd

आद्यूनानुगुणं[^0891-1] भोज्यं कुम्भकांस्यादिवादनम् । 0891ab
तत्र प्राकृतकामीव न स जिह्राय शीलयन् ॥ 0891cd

शनैः शनैस्ततो नष्टावष्टम्भस्य महीपतेः । 0892ab
काले भोज्यमपि प्राप्यं नासीद्गलितसम्पदः ॥ 0892cd

तादृक्प्रलोभक्रौर्यादिक्रान्तो यः प्रागगर्ह्यत । 0893ab
स सुस्सलोथ लोकानामभिनन्द्यत्वमाययौ ॥ 0893cd

धनमानादिनाशं या विरक्तास्तस्य चक्रिरे । 0894ab
काङ्क्षन्ति स्म घनोत्कण्ठास्ता एवागमनं प्रजाः ॥ 0894cd

प्रत्यक्षदर्शिनोद्यापि साश्चर्या वयमस्य यत् । 0895ab
ताः प्रजाः कोपिताः केन केन भूयः प्रसादिताः ॥ 0895cd

क्षणाद्वैमुख्यमायान्ति साम्मुख्यं यान्ति च क्षणात् । 0896ab
न हेतुं कञ्चिदीक्षन्ते पशुप्रायाः पृथग्जनाः ॥ 0896cd

ते मल्लकोष्ठजनकादयो दूतैर्विसर्जितैः । 0897ab
त्यक्तराज्यं पुनर्भूपं जयोद्यममजिग्रहन् ॥ 0897cd

अक्षोमुवाग्रहारेथ लोकैष्टिक्कस्य लुण्ठिते । 0898ab
तत्रत्या ब्राह्मणाः प्रायं नृपमुद्दिश्य चक्रिरे ॥ 0898cd

तैश्चान्यैश्चाग्रहारैश्च संश्रितैर्विजयेश्वरे । 0899ab
राजानवाटिकाप्रायो नगरेपि न्यविक्षत ॥ 0899cd

ओजानन्दादिभिर्मुख्यद्विजैरुत्तेजितास्ततः । 0900ab
गोकुलेपि व्यधुः प्रायं त्रिदशालयपर्षदः ॥ 0900cd

युग्यार्पितैः सितच्छत्त्रवस्त्रचामरशोभिभिः । 0901ab
विबुधप्रतिमावृन्दैः सर्वतश्च्छादिताङ्गनः ॥ 0901cd

काहलाकांस्यतालादीवाद्यक्षोभितदिङ्मुखः । 0902ab
अदृष्टपूर्वो ददृशे पारिषद्यसमागमः ॥ 0902cd

ते सान्तवमाना भूभर्तुर्दूतैरुत्सेकवादिनः । 0903ab
न विना लम्बकूर्चं नो गतिरित्यब्रुवन्वचः ॥ 0903cd

ते हेलया लम्बकूर्चाख्यया सुस्सलभूपतिम् । 0904ab
तं निर्दिशन्तोमन्यन्त क्रीडापुत्रकसन्निभम् ॥ 0904cd

प्रायं प्रेक्षितुमायातैः पौरैः सह दिने दिने । 0905ab
अमन्त्रयत कां कां न व्यवस्थां पर्षदां गणः ॥ 0905cd

नृपापातभयात्क्षोभं मुहुर्मुहुरुपागतैः । 0906ab
पारिषद्यैश्च पौरैश्च योद्धुमास्थीयतोद्धतम् ॥ 0906cd

वश्यं जनकसिंहस्य नगरं तन्मतेन तत् । 0907ab
सज्जं सुस्सलदेवस्य कृत्स्नमानयनेभवत् ॥ 0907cd

प्रायाद्वारयितुं पूर्वमग्रहारद्विजान्नृपः । 0908ab
प्रययौ विजयक्षेत्रं तत्रासीच्च हतोद्यमः ॥ 0908cd

[page 201]

विश्वास-प्रस्तुतिः

तन्मध्ये निखिलांस्तत्र डामरांस्तिलकोब्रवीत् । 0909ab
व्यापादयेति तं तच्च सत्त्वैकाग्रो न सोग्रहीत् ॥ 0909cd

राज्ञ एव मुखाद्बुद्ध्वा137 लवन्यास्तद्विशश्वसुः । 0910ab
तस्मिन्पृथ्वीहरमुखास्तत्रसुस्तिलकात्पुनः ॥ 0910cd

भागिनेयं प्रयागस्य क्षत्तारं लक्ष्मकाभिधम् । 0911ab
बन्धुमैच्छन्नृपोस्निग्धं138 प्रययौ स तु सुस्सलम् ॥ 0911cd

ततः प्रविश्य नगरं सन्निपत्याखिलं जनम् । 0912ab
अकारणविरक्तानां पौराणां प्रददौ सभाम् ॥ 0912cd

युक्तमप्युक्तवांस्तत्र हतोक्तिः शठबुद्धिभिः । 0913ab
पौरैः स चक्रे नास्त्येव भेषजं विप्लवस्पृशाम् ॥ 0913cd

अत्रान्तरे सोमपालबिम्बाद्या लोहरे139 स्थितम् । 0914ab
योद्धुं सुस्सलभूपं ते सर्वे पर्णोत्समाययुः ॥ 0914cd

तं च पद्मरथो नाम राजा कालिञ्जरेश्वरः । 0915ab
मैत्रीं संस्मृत्य कल्हाद्यैराययौ तत्कुलोद्भवः ॥ 0915cd

सोथ शुक्लत्रयोदश्यां वैशाखे बलिभिः समम् । 0916ab
तैर्मानी सुस्सलो रजा सङ्ग्रामं प्रत्यपद्यत ॥ 0916cd

प्रेक्षकैर्वर्ण्यतेद्यापि स पर्णोप्त्सान्तिके रणः । 0917ab
तस्याद्भुतोवमानाग्निक्षालनप्रथमक्षणः ॥ 0917cd

कुतोप्येत्य निजस्फारस्ततः प्रभृति भूपतिम् । 0918ab
तमशून्यं पुनश्चक्रे मृगेन्द्र इव काननम् ॥ 0918cd

भयस्स्खलितपाशानां कालपाशैः समागमम् । 0919ab
स चकार तुरुष्काणां क्षणात्पुष्कलविक्रमः ॥ 0919cd

मातुलं सोमपालस्य निन्ये कवलतां बली । 0920ab
रणे तत्कोपवेतालो वितोलासरितस्तटे ॥ 0920cd

किमन्यदल्पसैन्यः स बहूनपि स तान्व्यधात् । 0921ab
हतविद्रुतविध्वस्तान्यथात्मपरिपन्थिनः140 ॥ 0921cd

काश्मीरिकाणामौचित्यं141 किं नाभूत्स्वामिनो ददुः । 0922ab
एकस्य ये रणं नष्टाः कुकीर्तिमपरस्य च ॥ 0922cd

तुरुष्कैः सह यातेथ सोमपाले गतत्रपाः । 0923ab
बिम्बं काश्मीरिकास्त्यक्त्वा142 राजान्तिकमशिश्रियन् ॥ 0923cd

ह्यो धनूंसि शिरांस्यद्य नमयन्तोद्भुताशयाः । 0924ab
कुलप्रभोः पुरः स्पष्टं न ते धृष्टा ललज्जिरे ॥ 0924cd

आगच्छद्भिस्ततः पौरैर्डामरैश्च समं नृपः । 0925ab
प्रतस्थे दिवसैर्द्वित्रैः कश्मीराभिमुखः पुनः ॥ 0925cd

राजपुत्रः साहदेविह् कल्हणो विशतः प्रभोः । 0926ab
डामरान्क्रमराज्यस्थान्सङ्गृह्याग्रेसरोभवत् ॥ 0926cd

य एव प्रथमं राजसैन्याद्भिक्षुमशिश्रियत् । 0927ab
स एव बिम्बो राजानं तमुत्सृज्य समाययौ ॥ 0927cd

अन्ये जनकसिंहस्य सम्मता मन्त्रितन्त्रिणः । 0928ab
प्रत्युद्यन्तो व्यलोक्यन्त नृपतिं निरपत्रपाः ॥ 0928cd

काण्डिलेत्राभिधग्रामजन्मा शस्त्री सुलक्षणः । 0929ab
भाङ्गिले कश्चिदभवच्छून्ये क्रान्तोपवेशनः143 ॥ 0929cd

भिक्षुर्वितीर्णमार्गं तं सुस्सलान्तिकगामिनः । 0930ab
लोकस्यात्रान्तरे जेतुं सहपृथ्वीहरो ययौ ॥ 0930cd

जितवांस्तं बबन्धेच्छां निहन्तुं सुस्सलोन्मुखम् । 0931ab
क्रोधाज्जनकसिंहं च वार्तां तां च144 विवेद सः ॥ 0931cd

नगरस्थेन तेनाथ पौराश्वारोहतन्त्रिणः । 0932ab
सङ्घटय्याखिलान्भिक्षोः प्रातिपक्ष्यमगृह्यत ॥ 0932cd

जानांस्तेनावृतं राज्यं ततो भिक्षाचरो नृपः । 0933ab
पृथ्वीहरेणानुयातो नगरं सहसाविशत् ॥ 0933cd

सेतौ सदाशिवाग्रस्थे तत्सैन्यैः सह सम्गरम् । 0934ab
दृप्यञ्जनकसिंहोथ सान्त्वमानोपि सोग्रहीत् ॥ 0934cd

दृष्टं जनकसिंहस्य योधानां बल्गतां मदात् । 0935ab
अविशङ्क्य पराभूतिं मुहूर्तं सुभटायितम् ॥ 0935cd

अलकेन समं पृथ्वीहरस्तद्भ्रातृसूनुना । 0936ab
अन्येन सेतुना तीर्त्वा तस्य सैन्यमनाशयत् ॥ 0936cd

तन्त्र्यश्वारोहपौरेषु145 विद्रुतेषु सबान्धवः । 0937ab
नक्तं जनकसिंहोथ पलाय्य लहरं ययौ ॥ 0937cd

[page 202]

विश्वास-प्रस्तुतिः

भिक्षुपृथ्वीहरौ प्रातस्तत्पृष्ठग्रहणोद्यतौ । 0938ab
तत्पश्चात्तेश्ववाराद्या धृष्टा भूयोप्यशिश्रियन् ॥ 0938cd

क्षिप्त्वा क्षिप्रं स्वकक्ष्यान्तर्विबुधप्रतिमा भयात् । 0939ab
ते पारिषद्याविप्राद्याः प्रायमुत्सृज्य विद्रुताः ॥ 0939cd

शून्यानि सुरयुग्यानि रक्षन्तः केपि भिक्षुणा । 0940ab
प्रायान्निवृत्ता वयमित्युक्तवन्तो न बाधिताः ॥ 0940cd

ह्यो जानके भैक्षवेद्य वल्गत्तुङ्गतुरङ्गमान् । 0941ab
दृष्टवन्तो वयम् सैन्ये सादिनोद्यापि साद्भुताः ॥ 0941cd

भिक्षुराजप्रदीपेन द्योतितः क्षणभङ्गिना । 0942ab
पैतृव्येणाधिकारेण146 स्यालस्तिलकसिंहजः ॥ 0942cd

गते जनकसिंहेथ प्रतिपक्षानुसारिणाम् । 0943ab
विधातुं वेश्मभङ्गादि लब्धं भिक्षुमहीभुजा ॥ 0943cd

अत्रान्तरे हुष्कपुरे नीतेषु तिलकादिषु । 0944ab
भङ्गं सुल्हणसिम्बाद्यैः समेतानन्तसैनिकैः ॥ 0944cd

अग्रायातैर्मल्लकोष्ठजनकाद्यैः ससैनिकैः । 0945ab
अपरैरपि सामन्तैर्बलबाहुल्यशालिभिः ॥ 0945cd

अन्वीयमानो दिवसैर्द्वित्रैराक्रान्तमण्डलः । 0946ab
विंशल्लहरमार्गेण विपक्षालक्षितोपतत् ॥ 0946cd

नगरापणवीथ्यन्तर्हयारोहमुखान्पुरः147 । 0947ab
द्रोहयोधानुपायातांस्तदैवोज्झितसाध्वसः ॥ 0947cd

वेष्टितालम्बकूर्चेन वक्त्रेण भ्रुकुटीभृता । 0948ab
कोपकम्पिततारेण फुल्लनासापुटस्पृशा ॥ 0948cd

कांश्चित्सन्तर्जयन्निन्दन्नन्यान्भग्नांस्तथापरान् । 0949ab
तीव्रातपश्यामवपुस्ताम्यन्काल इवोल्बणः ॥ 0949cd

आशीर्घोषकृतां पुष्पवर्षिणां पुरवासिनाम् । 0950ab
पूर्वापकारिणां श्रेणीष्ववज्ञान्यस्तलोचनः ॥ 0950cd

स्कन्धमात्रोपरि न्यस्तं कवचं हेलया दधत् । 0951ab
केशानन्तशिरस्त्रान्तनिःसृतान्धूलिधूसरान् ॥ 0951cd

पक्ष्मालां च विभ्राणः सकोशासिस्तुरङ्गिणाम् । 0952ab
आकृष्टखड्गमालानामन्तर्वल्गत्तुरङ्गमः ॥ 0952cd

ससिंहनादैरुद्दामैर्भेरीभाङ्कारनिर्भरैः । 0953ab
बलैर्भरितदिक्कोशः सुस्सलः प्राविशत्पुरम् ॥ कुलकम्॥ 0953cd

षड्भिः सद्वादशदिनैर्मासैर्ज्येष्ठे सितेहनि । 0954ab
स सप्तनवताब्दस्य तृतीये पुनराययौ ॥ 0954cd

राजधानीमप्रविष्टो भिक्षुं पूर्वपलायितम् । 0955ab
अन्विष्यन्क्षिप्तिकातीरे सलवन्यं148 व्यलोकयत् ॥ 0955cd

सरित्पारं रिपौ प्राप्ते स सपृथ्वीहरो गतः । 0956ab
मार्गे लवन्यैर्मिलितैरन्यैः साकं न्यवर्तत ॥ 0956cd

तं विद्राव्य रणे राजा बद्ध्वा प्रहृतिविक्षतम् । 0957ab
सिंहं पृथ्वीहरज्ञातिं राजधानीमथाविशत् ॥ 0957cd

उपभोगैः सपत्नस्य तत्कालनिःसृतस्य सा । 0958ab
अङ्किता मानिनस्तस्य वेश्येवोद्वेगदाभवत् ॥ 0958cd

भिक्षुः सन्त्यज्य कश्मीरान्सह पृथ्वीहरादिभिः । 0959ab
ग्रामं पुष्याणनाडाख्यं सोमपालाश्रयं ययौ ॥ 0959cd

प्रस्थिते149 डामरान्सर्वान्राजा स्वीकृत्य तु व्यधात् । 0960ab
खेर्यां वट्टात्मजं मल्लं हर्षमित्रं च कम्पने ॥ 0960cd

पूर्वापकारं स्मरतो देशकालानपेक्षिणः । 0961ab
……………………………………॰150 ॥ 0961cd

भिक्षुसम्पर्कजं गन्धमपि सोढुमशक्नुवन् । 0962ab
भृत्येभ्यः खण्डशः कृत्वा द्वेषात्सिंहासनं ददौ ॥ 0962cd

अनयोपार्जितां त्यक्तुमनीशा डामराः श्रियम् । 0963ab
समन्योश्च नृपाद्भीता नात्यजन्विप्लवोद्यमम् ॥ 0963cd

भिक्षुस्तु राज्यभ्रष्टः सुहृदो विषये वसन् । 0964ab
उत्साहं सोमपालस्य दानमानैः पुनर्ययौ ॥ 0964cd

बिम्बः साहायकप्रार्थी विस्मयस्यान्तिकं गतः । 0965ab
तस्मिन्विरोधिभिर्बद्धे151 रणे धीरस्तनुं जहौ ॥ 0965cd

भिक्षाचरो152 बिम्बशून्यो भजन्दुर्नयपात्राम् । 0966ab
अनैषीदवरुद्धात्वं तत्प्रियां तां गतत्रपः ॥ 0966cd

[page 203]

विश्वास-प्रस्तुतिः

निपत्य स्वल्पसैन्योपि ततः शूरपुरे बली । 0967ab
जित्वा पृथ्वीहरो बट्टात्मजं व्यद्रावयद्रणात्[^0967-1] ॥ 0967cd

तस्मिन्पलायिते भिक्षुं पुनरानीय सोविशत् । 0968ab
भुवं मडवराज्यानां दस्यूनां स्वचिकीर्षया ॥ 0968cd

तत्रत्यैर्मङ्खजय्याद्यैर्डामरैः स्वीकृतैः समम् । 0969ab
जगाम विजयक्षेत्रं विजेतुम् कम्पनापतिम् ॥ 0969cd

निजस्तेनाहवे हर्षमित्रो निहतसैनिकः । 0970ab
विजयेश्वरमुत्सृज्य भीतोवन्तिपुरे ययौ ॥ 0970cd

विजयक्षेत्रजास्तत्तत्पुरग्रामोद्भवा अपि । 0971ab
जना भयेन प्राविक्षन्नथ चक्रधरान्तिकम् ॥ 0971cd

योषिच्छिशुपशुव्रीहिधनोपेतैरपूर्यत । 0972ab
स्थानं ततैश्च राज्ञश्च योधैः सायुधवाजिभिः ॥ 0972cd

अन्वारूढैरथ स्पष्टं लोकोल्लुण्ठनलालसैः । 0973ab
ते[^0973-1] भैक्षवैरवेष्ट्यन्त कटकैर्व्याप्तदिक्कटैः ॥ 0973cd

तान्दारुमयवप्रौघद्वारगुप्ते सुरौकसः । 0974ab
अङ्गने153 तिष्ठतो हन्तुं बन्द्धुं वा नाशकन्द्विषः ॥ 0974cd

तदन्तरस्थितं दग्धुं कर्पूराख्यं स्ववैरिणाम् । 0975ab
कश्चित्कतिस्थलीग्रामजन्मा निर्गुणडामरः154 ॥ 0975cd

पापो जनकरजाख्यस्तत्राग्निमुगदीदिपत् । 0976ab
मूढस्तादृगपर्यन्तजन्तुसंहारनिर्घृणः ॥ 0976cd

तमापतन्तं ज्वलितं ज्वलनं वीक्ष्य सर्वतः । 0977ab
भूतग्रामस्य सुमहान्हाहाकारः समुद्ययौ ॥ 0977cd

विशत्कृतान्तवाहारिभियेव छिन्नबन्धनैः । 0978ab
अश्वैरसूचीसञ्चारा भ्रमद्भिर्जघ्निरे जनाः ॥ 0978cd

प्राच्छाद्यत बलज्ज्वालाकरालैर्धूमराशिभिः । 0979ab
व्योम पिङ्गकचश्मश्रुजालैर्नक्तञ्चरैरिव ॥ 0979cd

निर्धूमस्य विसारिण्यो ज्वाला हव्यभुजो दधुः । 0980ab
सन्तापद्रुतहेमाभ्रसुवर्णलहरीभ्रमम् ॥ 0980cd

सन्तापविद्रुतव्योमचारिमौलिपरिच्युताः । 0981ab
रक्तोष्णीषा इव भ्रेमुर्ज्वालाभङ्गा नभोङ्गने ॥ 0981cd

दीर्घदारुग्रन्थिभङ्गजन्मा चटचटारवः । 0982ab
तापप्रक्वाथ्यमानाभ्रगङ्गाघोष इवोद्ययौ ॥ 0982cd

स्फुलिङ्गैः प्लोषवित्रस्तजन्तुजीवितसन्निभैः । 0983ab
अग्राहि गहनव्योममार्गभ्रमणसम्भ्रमः ॥ 0983cd

शकुनैः शावसञ्चारशोकादाक्रन्दिभिर्नभः । 0984ab
मानुषैर्दह्यमानैश्च भूमिर्मुखरिताभवत् ॥ 0984cd

भ्रातॄन्भर्तॄन्पितॄन्पुत्रानालिङ्ग्याक्रन्दनिर्भराः । 0985ab
भीमीलितदृशो नार्यो निरदह्यन्त वह्निना ॥ 0985cd

तदन्तरात्साहसिका ये केचिन्निरयासिषुः । 0986ab
बहिस्ते निहताः क्रूरैर्डामरैर्मृत्युचोदितैः ॥ 0986cd

तावन्तो जन्तवस्तत्र व्यपद्यन्त तदा क्षणात् । 0987ab
स्विन्ना एव न ये दग्धास्तावतापि कृशानुना ॥ 0987cd

अन्तः शान्तेषु सर्वेषु बहिः शान्तेषु हन्तृषु । 0988ab
क्षणादेव प्रदेशः स निःशब्दः समजायत ॥ 0988cd

वह्नेः कहकहाशब्दो ह्रस्वीभूतार्चिषः परम् । 0989ab
स्विद्यतश्च शवौघस्य श्रुतः सिमसिमाध्वनिः ॥ 0989cd

विलीनासृग्वसामेदोनिःष्यन्दाः सरणीशतैः । 0990ab
प्रसस्रुर्विस्रगन्धश्च योजनानि बहून्यगात् ॥ 0990cd

एकः सुश्रवसः कोपाद्वितीयो दस्युविप्लवात् । 0991ab
ईदृग्घुतवहाबाधो[^0991-1] घोरश्चक्रधरेभवत् ॥ 0991cd

भूतग्रामस्य155 संहारः संवर्त इव वह्निना । 0992ab
तादृक्त्रिपुरदाहे वा खाण्डवे तत्र वाभवत् ॥ 0992cd

पुण्येह्नि शुक्लद्वादश्यां नभसः कुकृतं महत् । 0993ab
तद्भिक्षुः कृतवान्राज्यलक्ष्म्या भाग्यैश्च तत्यजे ॥ 0993cd

सकुटुम्बेषु दग्धेषु तदानीं गृहमेधिषु । 0994ab
पुरग्रामसहस्रेषु गृहाः शून्यत्वमाययुः ॥ 0994cd

मङ्खाख्यो डमरश्चिन्वञ्शवान्नौनगरोद्भवः156 । 0995ab
प्रीतिं प्राप्तैस्तदीयार्थैः कापालिक इवाययौ ॥ 0995cd

[page 204]

विश्वास-प्रस्तुतिः

अवरूढोथ विजयक्षेत्रं भिक्षाचरस्ततः । 0996ab
लब्ध्वा नागेश्वरं पापं यातनाभिरमीमरत् ॥ 0996cd

गर्ह्यं पैतामहे देशे किं नासीत्तस्य चेष्टितम् । 0997ab
पितृद्रुहः स तु वधः सर्वप्रीतिकरोभवत् ॥ 0997cd

गृहिणी हर्षमित्रस्य पत्यौ त्यक्त्वा पलायिते । 0998ab
पृथ्वीहरेण सम्प्राप्ता विजयेशाङ्गनान्तरात् ॥ 0998cd

निमित्तभूतमेतादृक्प्रजासंहारवैशसम् । 0999ab
स्वं निन्दन्सुस्सलो राजा ततो योद्धुं विनिर्ययौ ॥ 0999cd

संवेगात्पाप्मनः शीघ्रं निरयक्लेशभुक्तये । 1000ab
प्राप्तो जनकराजेन वधोवन्तिपुरान्तिके ॥ 1000cd

  1. Thus A1; A2 भिन्द्यादु॰. ↩︎ ↩︎

  2. Emended; A ॰भूत्किञ्चित्कालं. ↩︎ ↩︎

  3. कोशासिः supplied by A3 in space left by A1. ↩︎ ↩︎

  4. Emended with C; A समर्पयत्. ↩︎ ↩︎

  5. स्पृ supplied by A3 in space left by A1. ↩︎ ↩︎

  6. Emended; A निहिता॰. ↩︎ ↩︎

  7. Emended; A प्राप्तराज्यं. ↩︎ ↩︎

  8. Emended; A सापराध न क्वचित्. ↩︎ ↩︎

  9. Thus A1; corr. byu later hand into अन्यायो॰. ↩︎ ↩︎

  10. तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये supplied by A3 in space left by A1. ↩︎ ↩︎

  11. Thus A3; A1 कार्मणापहतं. ↩︎ ↩︎

  12. Thus A3; A1 नाप्राभूद॰. ↩︎ ↩︎

  13. Emended; A दोषादर्ता॰; C दोषाद्दत्ता॰. ↩︎ ↩︎

  14. A विस्रम्भ॰. ↩︎ ↩︎

  15. Thus A1; A3 ॰स्यास्तु. ↩︎ ↩︎

  16. Emended; A ॰विभ्रमास्तान्ये. ↩︎ ↩︎

  17. Emended; A काश्मीरकोपि. ↩︎ ↩︎

  18. Emended; A ॰पमार्तिषु. ↩︎ ↩︎

  19. Emended; A ॰डूतभिश्चधा॰. ↩︎ ↩︎

  20. Emended; A डोम्भ॰. ↩︎ ↩︎

  21. Emended with C; A लोक॰. ↩︎ ↩︎

  22. Emended; A ॰भूदत्तमा॰. Cf. viii. 154. ↩︎ ↩︎

  23. Emended; A विंशद्विंशद्यातास्. Cf. v.210. ↩︎ ↩︎

  24. Emended; A किराटे. ↩︎ ↩︎

  25. A विस्रम्भ॰. ↩︎ ↩︎

  26. Emended with C; A क्रौर्यानर्य॰. ↩︎ ↩︎

  27. Emended; A स किला॰ ↩︎ ↩︎

  28. Emended with C; A ॰श्चास्तम॰. ↩︎ ↩︎

  29. Emended; A ॰जीर्णानौकह॰. ↩︎ ↩︎

  30. Emended; A ताम्बूलवेलाकू॰. ↩︎ ↩︎

  31. Emended; A ॰नीकान्गग्ग॰. ↩︎ ↩︎

  32. Emended; A कालिन्दर॰. Cf. vii.1256. viii. 618. ↩︎ ↩︎

  33. Emended with C; A वद्रव॰. ↩︎ ↩︎

  34. Thus corr. by A3 from A1 मल्लरामाला॰. ↩︎ ↩︎

  35. A1 writes here 3 instead of तिलकम्. ↩︎ ↩︎

  36. Emended; A ॰लात्तावत्तमुप॰. ↩︎ ↩︎

  37. Emended with C; A ॰शङ्कत. ↩︎ ↩︎

  38. A3 gloss प्रतिविषा वीरुत् यस्या उपविषेत्यादिनामान्तरं कोशे यथा विश्वाविषा प्रतिविषातिविषोपविषारुणा शृङ्गीमहौषधं चेति( ii. 4.99-100). ↩︎ ↩︎

  39. Emended; A ॰मठे. ↩︎ ↩︎

  40. Doubtful emendation; A ॰मुद्रोजोवष्टम्भ॰. ↩︎ ↩︎

  41. Emended; A पुत्रायाच्छिन्न॰. ↩︎ ↩︎

  42. Emended with C; A पार्थिवे. ↩︎ ↩︎

  43. Emended; A महा॰. ↩︎ ↩︎

  44. Emended with C; A विद्वत्स॰. ↩︎ ↩︎

  45. A omits here two without indicating a lacuna. C adds here: तं प्रेष्ठं सर्व्वलोकानां श्रेष्ठं सर्व्वक्षमाभुजां. ↩︎ ↩︎

  46. Emended with C; A निर्वृतीड्किमपि. ↩︎ ↩︎

  47. Emended; A ॰दुदुक्षूंस्तु. ↩︎ ↩︎

  48. Emended with C; A ॰मिश्रं वै॰. ↩︎ ↩︎

  49. A दुद्रुक्षु॰ ↩︎ ↩︎

  50. There words written by A1 after verse 342, belong apparently to a verse of which the beginning is lost; the lacuna in the text is not indicated in A. Perhaps, more verses have been lost here. ↩︎ ↩︎ ↩︎ ↩︎

  51. Thus corr. by A1 from गग्गः. ↩︎ ↩︎

  52. Thus corr. by A1 from गग्गं. ↩︎ ↩︎

  53. A1 gloss अहं हन्ता. ↩︎ ↩︎

  54. Emended; A राज्ञो. ↩︎ ↩︎

  55. Thus A4 C R; A1 यं. ↩︎ ↩︎

  56. Emended with C; A सन्दिशत्. ↩︎ ↩︎

  57. Thus A. ↩︎ ↩︎

  58. Emended with C; A लोष्ठनः. ↩︎ ↩︎

  59. Emended; A ॰स्योजस्सूह॰. Cf.viii.437. ↩︎ ↩︎

  60. Emended; A नृपोब्रवीत्. ↩︎ ↩︎

  61. A1 ॰प्रवेशैर्जनः, without indicating the lacuna; C ॰देशैरिह दुर्जनः. ↩︎ ↩︎

  62. Emended; A ॰भीभवत्. ↩︎ ↩︎

  63. Thus corr. by later hand from A वसन्तीं. ↩︎ ↩︎

  64. Emended with R C; A राजका॰. ↩︎ ↩︎

  65. Thus A. ↩︎ ↩︎

  66. Emended with C; A साधाद्वि॰. ↩︎ ↩︎

  67. Emended; A ग्रामनि॰. ↩︎ ↩︎

  68. Emended; A ॰नैयत्या तु. ↩︎ ↩︎

  69. Emended with C; A स्वप्नेदृश्यत. ↩︎ ↩︎

  70. Emended with C; A राज्यसै॰ ↩︎ ↩︎

  71. Emended; A फलाहा॰. Cf. हालालाण्डामरान् viii.425. ↩︎ ↩︎

  72. Emended; A with diplography मल्लकोष्ठकोष्ठकम्. ↩︎ ↩︎

  73. Emended with C; A राजा. ↩︎ ↩︎

  74. Comp. vii. 588. ↩︎ ↩︎

  75. A1 with Diplography दर्यको राजको राजपुत्रस्तं. ↩︎ ↩︎

  76. Emended; A प्रतिगतो. ↩︎ ↩︎

  77. Emended; A क्षणे. ↩︎ ↩︎

  78. Emended; A निर्वार्य. ↩︎ ↩︎

  79. Emended with C; A प्रकम्पं सहिता॰. ↩︎ ↩︎

  80. Emended; A ॰श्रयान्प्राप्त॰. ↩︎ ↩︎

  81. Thus A; cf. viii. 764, 831, 1947(C). ↩︎ ↩︎

  82. Emended with C; A पार्णिवा॰. ↩︎ ↩︎

  83. Emended; A सङ्ग्रमि प्रा॰. ↩︎ ↩︎

  84. Emended with C; A समर्पयत्. ↩︎ ↩︎

  85. Emended; A तान्सैन्य॰. ↩︎ ↩︎

  86. Emended with C; A स्थापितां. ↩︎ ↩︎

  87. Emended; A अनन्ताधिपमा॰. Cf. viii.713. 1005. 1042. ↩︎ ↩︎

  88. Emended; A क्षोभतस्ततः. ↩︎ ↩︎

  89. Emended with C; A ॰कारिणाम्. ↩︎ ↩︎

  90. Emended with C; A परंस्त॰. ↩︎ ↩︎

  91. Emended with C; A प्रमाद्भूपतेः. ↩︎ ↩︎

  92. Thus corr. by A1 from पदं. ↩︎ ↩︎

  93. Emended; A ॰दौरात्म्यासं॰. ↩︎ ↩︎

  94. मात्र supplied by A3. ↩︎ ↩︎

  95. Emended; A चरके॰. ↩︎ ↩︎

  96. Emended; A तथैव. ↩︎ ↩︎

  97. Emended; A ॰चरागम्. ↩︎ ↩︎

  98. A1 writes 2 instead of युग्मम्. ↩︎ ↩︎

  99. Thus corr. by A3 from A1 शिष्याक्स्फिक्क॰. ↩︎ ↩︎

  100. A1 writes here 2 instead of युग्मम्. ↩︎ ↩︎

  101. य and माथाय supplied by A3 in space left by A1. ↩︎ ↩︎ ↩︎ ↩︎

  102. Emended; A सङ्गृहीतुं. ↩︎ ↩︎

  103. A ॰होलळौ॰. ↩︎ ↩︎

  104. Emended with C; A व्यहद॰. ↩︎ ↩︎

  105. A1 writes 3 instead of तिलकम्. ↩︎ ↩︎

  106. Thus corr. by A3 from A1 कम्पनेशस्य. ↩︎ ↩︎

  107. Thus corr. by A3 from A1 ॰पद्यत. ↩︎ ↩︎

  108. A1 writes here 2 for युग्मम् which would be in its place after the following verse. ↩︎ ↩︎

  109. Emended; A ॰चाटलिकां. Cf. viii. 581. 831. 1947(C). ↩︎ ↩︎

  110. एँमेन्देद् ड़िथ् छ्;् अँ ँ ॰घटितोत्कटा>. ↩︎ ↩︎

  111. A1 हस् Fइरसत् ड़्रित्तेन् ँ ॰द्विन्यवीवृतम> अनद् थेन् इन्दिचतेद् थे अबोवे रेaदिनग् बेत्ड़ेन् थे लिनेस्. ↩︎ ↩︎

  112. छोन्जेच्तुरल् रेaदिनग्;् अँ ँ न वन्येष्वपि>. ↩︎ ↩︎

  113. एँमेन्देद् ड़िथ् छ्;् अँ ँ ॰दासो>. ↩︎ ↩︎

  114. A1 हस् Fइरसत् ड़्रित्तेन् ँ ॰तन्द्रितः> अनद् थेन् इन्दिचतेद् थे अबोवे रेaदिनग् इन् मर्गिन्. ↩︎ ↩︎

  115. Emended; A ॰ममर्ष. ↩︎ ↩︎

  116. Emended; A दुद्रुक्षून॰. ↩︎ ↩︎

  117. Emended with C; A विचलि॰. ↩︎ ↩︎

  118. Emended; A स शस्त्रिभिः. ↩︎ ↩︎

  119. Emended; A आङ्गना॰. ↩︎ ↩︎

  120. Emended with C; A षण्णनवते. ↩︎ ↩︎

  121. Emended; A जनोत्सुकः ↩︎ ↩︎

  122. A ॰न्कल्याणवाळादी॰. ↩︎ ↩︎

  123. Emended with C; A भिन्नोवस्थां. ↩︎ ↩︎

  124. Doubtful emendation; A पुराणि राज॰. ↩︎ ↩︎

  125. A omits here two akshara without indicating a lacuna; चापि supplied with C. ↩︎ ↩︎

  126. Thus A. ↩︎ ↩︎

  127. A कोषेण. ↩︎ ↩︎

  128. Emended with C; A राजा लक्ष्मीबिम्बमशिश्रयन्. ↩︎ ↩︎

  129. Emended; A भूतविश्चा॰. Cf. vii. 1695. viii. 94. ↩︎ ↩︎

  130. Emended with C; A वैश्यैच्छ॰. ↩︎ ↩︎

  131. Emended; A ॰मुष्टिर्वि॰. ↩︎ ↩︎

  132. Emended with C; A तस्याश्चेव. ↩︎ ↩︎

  133. Emended; A ॰मुपेक्षेतां. ↩︎ ↩︎

  134. A1 had first repeated here the second half of verse 878, but has subsequently erased it and written as above. ↩︎ ↩︎

  135. Conjectural reading; A ॰स्तुरुष्कामकथ्यत; C ॰तुरुष्कैः समकथ्यत. ↩︎ ↩︎

  136. Emended; A काश्मीरक॰. ↩︎ ↩︎

  137. Emended; A मुखाद्बुद्ध्वा. ↩︎ ↩︎

  138. Emended; A बन्धुमै॰. ↩︎ ↩︎

  139. Emended; A लहरे. ↩︎ ↩︎

  140. Emended; A ॰ध्वस्तयथा॰. ↩︎ ↩︎

  141. Emended; A काश्मीरका॰. ↩︎ ↩︎

  142. Emended; A काश्मीरका॰. ↩︎ ↩︎

  143. Emended with C; A ॰वेदनः. ↩︎ ↩︎

  144. Emended with C; A स. ↩︎ ↩︎

  145. Emended with C; A तन्व्यारोह॰. ↩︎ ↩︎

  146. Emended; A पितृव्येणा॰. ↩︎ ↩︎

  147. Emended; A ॰मुखात्पुरः. ↩︎ ↩︎

  148. Emended with A सकवन्यो. ↩︎ ↩︎

  149. Thus A; perhaps to be emended प्रस्थितो. ↩︎ ↩︎

  150. Here two are missing. A does not indicate the lacuna; C supplements पूर्व्वविद्वेषिणस्तस्य न कृपां प्रतिपेदिरे. ↩︎ ↩︎

  151. Emended; A ॰र्बद्धैः; C ॰र्बद्धो. ↩︎ ↩︎

  152. Emended with C; A भिक्षाचरे. ↩︎ ↩︎

  153. Emended with C, A अङ्गाने. ↩︎ ↩︎

  154. Emended; A निर्गुटडा॰. ↩︎ ↩︎

  155. Emended; A भूतग्रामसंहार॰; C भूतग्रामादिसं॰. ↩︎ ↩︎

  156. Emended; A ॰औगरोद्भवः. ↩︎ ↩︎