०७

॥ सप्तमस्तरङ्गः ॥

विश्वास-प्रस्तुतिः

मातुस्तेजनि निर्मले1 पितृकुले श्लाघ्या तनुर्वेधसा त्वं सन्ध्याहितसन्निधिर्मम जपारत्केधरे खेलसि । 0001ab
सन्ध्यावन्दनसाभ्यसूयगिरिजास्तुत्येदृशैर्वाक्छलैर्यः सन्ध्यामपि वन्दते स्व स जगत्प्रीणातु गौरीश्वरः ॥ 0001cd

मूलम्

क्षमां2 क्षमापतिर्विभ्रन्मनसा च भुजेन च । 0002ab
गाम्भीर्येण च शक्त्या च सोजयद्वाहिनीपतीम्3 ॥ 0002cd

जज्ञे राज्ञीक्षये भङ्गो यैस्तुङ्गस्य तदाखिलैः । 0003ab
दिनश्रीविगमे सन्ध्याप्रसङ्गस्येव रागिणः ॥ 0003cd

तत्तत्प्रतिभटाटोपत्रोटनात्प्रत्युतास्य तैः । 0004ab
उदयो ददृशे शश्वद्गतिं गो वेत्ति वेधसः ॥ युगमम्॥ 0004cd

नृपेण जातज्ञातयः शूरः शक्तिसमन्वितः । 0005ab
सर्वाधिकारयोग्योगात्तदा4 चन्द्राकरः क्षयम् ॥ 0005cd

अन्ये भीमतिकाग्रामदिविरस्योरुसम्पदः । 0006ab
पुण्याकरस्य तनयाः शूराः शान्तिं प्रपेदिरे ॥ 0006cd

समर्थमन्त्रिविरहादनिच्छन्नपि वेधसा । 0007ab
निन्ये गत्यन्तरत्यक्तस्तुङ्गपक्षं क्षमापतिः ॥ 0007cd

सङ्ग्रामराजतुङ्गादीन्देवी कोशमपाययत्5 । 0008ab
मुमूर्षन्ती पुरा स्थातुमद्रोहेणेतरेतरम् ॥ 0008cd

क्लेशासहो महीपालस्ततः कार्यवशादपि । 0009ab
तुङ्गन्यस्तप्रजाकार्यो भोगाभ्यसालसोभवत् ॥ 0009cd

पर्याप्तं तस्य भीरुत्वं कियदन्यत्प्रकाश्यताम् । 0010ab
असमैर्यौनसम्बन्धैश्चक्षमे यशसः क्षतिम् ॥ 0010cd

साहायकार्थी यत्प्रादाच्छ्रीशौर्यादिमते सुताम् । 0011ab
दिद्दामठाधिपतये प्रेमनाम्ने स लोठिकाम् ॥ 0011cd

क्व लोकोद्वहनोन्नद्धभूभृद्योग्या नृपात्मजा । 0012ab
प्रतिग्रहजलक्लिन्नपाणिः क्वाल्पमना द्विजः ॥ 0012cd

अथ तुङ्गादिभङ्गाय प्रायं ब्राह्मणमन्त्रिणः । 0013ab
परिहासपुरे विप्रपारिषद्यानकारयन् ॥ 0013cd

विप्रमन्त्रिमतैक्येन कृतो राज्ञः स विप्लवः । 0014ab
दुःसहः पवमानाग्निसमागमसमोभवत् ॥ 0014cd

राज्ञोप्युत्पाटने सज्जैः कथञ्चित्प्रार्थितैर्द्विजैः6 । 0015ab
मतिः क्षान्तिचरुप्राये7 तुङ्गनिःसारणे कृता ॥ 0015cd

राज्ञा8 तुङ्गादिभिश्चैतद्यावत्तेभ्यः9 प्रतिश्रुतम् । 0016ab
अन्यत्प्रार्थयितुं लग्नास्तावत्ते शठबुद्धयः ॥ 0016cd

तुङ्गास्कन्देन विप्रोयं10 यो मृतस्तद्गृहे11 वयम् । 0017ab
तं निर्दहाम इत्युक्त्वा शवः कोप्यरघट्टतः ॥ 0017cd

तैरुद्धृत्य यदानीतः शठैस्तुङ्गगृहान्प्रति । 0018ab
केशह्प्माच्च विहिताद्या कृत्योत्थापिताभवत् ॥ 0018cd

तया प्रतीपपातिन्या निःशौचानां द्विजन्मनाम् । 0019ab
अकस्मान्निरगच्छस्त्रं विनाशायोत्थिते कलौ ॥ तिलकम् ॥ 0019cd

ततः पलायिता विप्रा यस्तेषाम् मन्त्रदोभवत् । 0020ab
निगूढं राजकलशस्तद्वेश्म प्राविशन्भयात् ॥ 0020cd

स व्यक्तीभूतकौटिल्यः सङ्ग्रामं सुचिरं व्यधात् । 0021ab
अपद्वारैस्तु ते विप्राः पलाय्य स्वगृहान्ययुः ॥ 0021cd

[page 106]

विश्वास-प्रस्तुतिः

विजिते राजकलशे समकार्या द्विजातयः । 0022ab
मन्त्रिणः श्रीधरसुताः सप्तागत्य व्यधुर्मृधम् ॥ 0022cd

ते कृत्वा सुमहत्कर्म समाप्तिं समरे गताः । 0023ab
निर्भिद्य मण्डलं सप्त सप्तसप्तेर्द्रुतं ययुः ॥ 0023cd

जितः सुगन्धिसीहेन12 तेषु शान्तेषु संयुगे । 0024ab
बद्ध्वाथ राजकलशस्तुङ्गेनानायितो गृहम् ॥ 0024cd

नीयमानोधिरोप्याशु स्कन्दं मार्गेषु विक्षतः । 0025ab
तुङ्गस्य युग्यवाहैः स नर्तितोपहृतायुधः ॥ 0025cd

अन्योपि भूतिकलशो नाम मन्त्री विनिर्जितः । 0026ab
सुतेन राजकाख्येन सह शूरमठं ययौ ॥ 0026cd

क्रमात्सुगन्धिसीहाद्यैर्मुक्तः करुणया ततः । 0027ab
सुपुत्रः सोवमानाग्नितप्तो देशान्तरं ययौ ॥ 0027cd

परिहासपुरादेवं जातो यो देशविप्लवः । 0028ab
स दैवयोगात्तुङ्गस्य शुभाय प्रत्युताभवत् ॥ 0028cd

ततः प्रसादिते राज्ञि गुणदेवेन मन्त्रिणा । 0029ab
आययौ भूतिकलशः कृतगङ्गानिमज्जनः ॥ 0029cd

पुनर्नृपगृहे तस्मिन्किञ्चिल्लब्धपदे शनैः । 0030ab
तुङ्गं निहन्तुं राज्ञैनं गूढं दूताः प्रयोजिताः ॥ 0030cd

ज्ञातवार्तेन तुङ्गेन तस्मिन्नर्थे प्रकाशिते । 0031ab
सपुत्रो भूतिकलशो राज्ञा निर्वासितः पुनः ॥ 0031cd

अवष्टम्भं मनाग्लेभे चन्द्राकरसुतः शनैः । 0032ab
यो मय्यामन्तकः सोपि तस्मिन्काले व्यपद्यत ॥ 0032cd

भूत्वा किञ्चित्क्षणं भूभृत्कन्यासम्भोगभाजनम् । 0033ab
राजोपकारकृच्छ्रीमान्प्रेमापि प्रमयं ययौ ॥ 0033cd

विपेदिरेन्ये गङ्गाद्याः सर्वेपि नृपतिप्रियाः । 0034ab
आविशिष्यत भोगाय तुङ्गः सभ्रातृकः परम् ॥ 0034cd

इति यो यो हि वृत्तान्तस्तस्य नाशाय शङ्कितः । 0035ab
स स दैवानुकूल्येन प्रत्युतोद्रेचकोभवत्13 ॥ 0035cd

कालक्रमत्रुटितसंश्रयभूः स्वमूलमात्राश्रयी तटतरुः सरितोम्बुपूरैः । 0036ab
यैः शङ्क्यते निपततीति वितीर्णमृद्भिस्तैरेव तस्य हि भवेत्स्थितिभूमिदार्ह्यम् ॥ 0036cd

नीत्युज्ज्वलं व्यवहरन्प्रजाराधनतत्परः । 0037ab
प्राक्पुण्यसङ्क्षयात्तुङ्गः शनैस्त्वासीत्स्खलन्मतिः14 ॥ 0037cd

यत्स्वभाग्यापहाराय हीनजन्मानमाददे । 0038ab
साहायकाय कायस्थं क्षुद्रं भद्रेश्वराभिधम् ॥ 0038cd

विड्वाणिज्यं15 सौनिकत्वं काष्ठविक्रयितादि16 च । 0039ab
आरामिकस्य यस्यासीत्कृत्यम् वंशक्रमोचितम् ॥ 0039cd

कम्बलोद्धृष्टपृष्ठोथ भोजनार्थमवालगत्17 । 0040ab
भस्त्रामषीभाण्डवाही यश्च पश्चान्नियोगिनाम् ॥ 0040cd

अनन्तराजकार्यादिचिन्ताश्रान्तो विधाय तम् । 0041ab
तुङ्गः सहायं नाबुद्धं संसर्गाद्भाग्यसङ्क्षयम् । 0041cd

धार्मिकं तेन धर्मार्कं विनिवार्यार्यचेतसाम् । 0042ab
गृहकृत्याधिकारे18 स दुष्कृती विनिवेशितः ॥ 0042cd

देवगोब्राह्मणानाथातिथिराजोपजीविनाम् । 0043ab
अकालमृत्युर्विदधे वृत्तिच्छेदम् स दुर्मतिः ॥ 0043cd

शवाजीवोपि पुष्णाति क्रूरः कापालिको निजान् । 0044ab
भद्रेश्वरस्तु पापोभून्निजानामपि जीवहृत् ॥ 0044cd

तुङ्गेन चैत्रे सर्वत्र कृते भद्रेश्वरे प्रभौ । 0045ab
सुगन्धिसीहः प्रययावाषाढे मासि सङ्क्षयम् ॥ 0045cd

परलोकं गते तस्मिन्सर्वभारसहेनुजे । 0046ab
तुङ्गश्छिन्नोत्तमाङ्गत्वं सदैन्योमन्यतात्मनः ॥ 0046cd

श्रीत्रिलोचनपालस्य शाहेः साहायलार्थिनः19 । 0047ab
देशं ततो मार्गशीर्षे मासि तं20 व्यसृजन्नृपः ॥ 0047cd

राजपुत्रमहामात्यसामन्तादिनिरन्तरम् । 0048ab
सैन्यं तमन्वगाद्भूरि भुवनक्षोभनक्षमम् ॥ 0048cd

[page 107]

विश्वास-प्रस्तुतिः

अग्रागतेन ससुतः21 शाहिना कृतसत्क्रियः । 0049ab
पञ्चषाणि दिनान्यासीत्तद्देशे स यदोन्मदः ॥ 0049cd

प्रजागरचरन्यासशस्त्राभ्यासादिवासनः । 0050ab
अभियोगोचिताः शाहिरपश्यंस्त2223 तदाब्रवीत् ॥ युग्मम्॥ 0050cd

तुरुष्कसमरे यावन्न यूयं कृतबुद्धयः । 0051ab
आलस्यविवशास्तावत्तिष्ठतास्मिन्गिरेस्तटे ॥ 0051cd

एवं त्रिलोचनेनोक्तं24 सोग्रहीन्न हितं वचः । 0052ab
तस्थौ परं समं सैन्यैरुत्सेकादाहवोत्सुकः ॥ 0052cd

हस्मीरेण25 तदा सैन्यं जिज्ञासार्थम् विसर्जितम् । 0053ab
तौषीपारे26 मितप्रायैस्ततस्तीर्त्वावधीद्बलैः ॥ 0053cd

ततस्तमाहितोत्सेकमपि27 शाहिः पुनः पुनः । 0054ab
जगादाहवतत्त्वज्ञः पूर्वोक्तामेव संविदम् ॥ 0054cd

स तस्य नाग्रहीद्वाक्यम् रणौत्सुक्यवशंवदः । 0055ab
प्रत्यासन्नविनाशानामुपदेशो निरर्थकः ॥ 0055cd

प्रातस्ततः स्वयं कोपात्तुरुष्कानीकनायकः । 0056ab
सर्वाभिसारेणागच्छच्छलाहवविशारदः28 ॥ 0056cd

अथ तुङ्गस्य कटकह् सहसा भङ्गमाययौ । 0057ab
शाहिसैन्यं परं सख्ह्ये ददृशे विरचत्क्षणम् ॥ 0057cd

शाहिसैन्ये गतेप्यासीज्जयसिंहः स्फुरन्रणे । 0058ab
श्रीवर्धनश्च साङ्ग्रामिविभ्रमार्कश्च29 डामरः ॥ 0058cd

घोरे तुरङ्गतुमुले प्रहरद्भिस्त्त्रिभिर्भटैः । 0059ab
वीरक्षेत्रे निजे देशे रक्षितस्तैर्यशःक्षयः ॥ 0059cd

करित्रलोचनपालस्य माहात्म्यं वक्तुमीश्वरः । 0060ab
निःसस्ङ्ख्या अपि यं सङ्ख्ये न जेतुमशकन्द्विषः ॥ 0060cd

शुशुभे रुधिरासारवर्षी युद्धे त्रिलोचनः । 0061ab
कल्पान्तदहनज्योतिर्विसारीव त्रिलोचनः ॥ 0061cd

स योधयित्वा सङ्ग्रामे कोटीः कङ्कटवाहिनाम् । 0062ab
एकाकी कार्यमर्मज्ञो निर्ययौ रिपुसङ्कटात् ॥ 0062cd

गते त्रिलोचने दूरमशेषं क्षितिमण्डलम्30 । 0063ab
प्रचण्डचण्डाaलचमूशलभच्छायमानशे ॥ 0063cd

सङ्ग्रामविजयोप्यासीन्न हम्मीरः समुच्छ्वसन् । 0064ab
श्रीत्रिलोचनपालस्य स्मरञ्शौर्यममानुषम् ॥ 0064cd

त्रिलोचनोपि संश्रित्य हास्तिकं स्वपदाच्च्युतः । 0065ab
सयत्नोभून्महोत्साहः प्रत्याहर्तुम् जयश्रियम् ॥ 0065cd

यथा नामापि निर्नष्टं शीघ्रं शाहिश्रियस्तथा । 0066ab
इह प्रासङ्गिकत्वेन वर्णितं न सविस्तरम् ॥ 0066cd

स्वप्नेपि यदसम्भाव्यं यत्रव् भग्ना मनोरथाः । 0067ab
हेलया तद्विदधतो नासाध्यं विद्यते विधेः ॥ 0067cd

ईषद्यद्भूमिवैपुल्यं31 राज्ञः शङ्करवर्मणः । 0068ab
वृत्तान्तवर्णने पूर्वममुत्र प्रकटीकृतम् ॥ 0068cd

स शाहिदेशः सामात्यः सभूभृत्सपरिच्छदः । 0069ab
किमभूत्किमु वा नाभूदिति सञ्चिन्त्यतेधुना ॥ 0069cd

अवतारं तुरुष्काणां दत्त्वाशेषे महीतले । 0070ab
प्राप्तभङ्गस्ततस्तुङ्गः स्वदेशं प्राविशच्छनैः ॥ 0070cd

सृगालायेव तुङ्गाय लब्धभङ्गाय भूपतिः । 0071ab
न तत्रागसि चुक्रोध स धैर्यसदृशाशयः ॥ 0071cd

किं तु खेदाय समभूत्तुङ्गायत्तत्वमीशितुः । 0072ab
परायत्तया चित्तं पशेoरप्युपतप्यते32 ॥ 0072cd

तुङ्गात्मजोपि कन्दर्पसिंहः श्रीशौर्यगर्वितः । 0073ab
राजेचित्तं33 व्यवहरंस्तस्योद्वेगप्रदोभवत् ॥ 0073cd

गूढलेखैः क्षणे तस्मिंश्छिद्रान्वेषी स भूभुजम्34 । 0074ab
भ्राता विग्रहराजोपि प्रैरयत्तुङ्गमारणे ॥ 0074cd

कोशादिस्मरणाद्राजा35 चिरं दोलायमानधीः । 0075ab
अभीक्ष्णप्रेरणोद्विग्नः प्रेरकानब्रवीत्ततः ॥ 0075cd

[page 108]

विश्वास-प्रस्तुतिः

एकाक्येव सुपुत्रः स गोचरो नः कदाचन । 0076ab
पतेद्यदि क्षणे तस्मिन्पश्यामः किं विदध्महे ॥ 0076cd

अन्यथा ध्रुवमाक्षिप्तो36 हन्यादस्मानसौ बलात् । 0077ab
इति कालापहारार्थमुक्त्वाभूद्विरतो नृपः ॥ 0077cd

तावन्मात्रं वचो बीजभूतं हृदि निधाय ते । 0078ab
विधातुं तदवस्थत्वं तुङ्गस्यासन्कृतोद्यमाः ॥ 0078cd

षण्मासाभ्यन्तरे तुङ्गो भूपेनाकारितो गृहात्37 । 0079ab
ससुतो निर्ययौ दृष्टदुःस्वप्नोपि विधेर्वशात् ॥ 0079cd

स प्रविश्य नृपास्थानं स्थित्वा राज्ञोग्रतः क्षणम् । 0080ab
पञ्चषैः सहितो भृत्यैः प्राविशन्मन्त्रमण्डपम् ॥ 0080cd

पश्चात्प्रविष्टास्तत्रैनं पर्वशर्करकादयः । 0081ab
अनुक्त्वापि महीपालं तुङ्गं शस्त्रैरपातयन् ॥ 0081cd

मन्त्री महारथो नाम योभूच्छङ्करवर्मणः । 0082ab
तद्वंश्यस्तुङ्गभृत्येषु श्लाघ्यः सिंहरथः परम् ॥ 0082cd

निःशस्त्रो यः क्षणे तस्मिन्परित्राणविधित्सया । 0083ab
हृन्यमानस्य तुङ्गस्य पृष्ठे स्वं वपुरक्षिपत् ॥ 0083cd

तुङ्गस्य प्रथमाघाते रुद्धः38 श्वासोभवद्भयात् । 0084ab
राजा तस्मिन्निरुच्छ्वासे सोच्छ्वासः समपद्यत ॥ 0084cd

आस्थानब्राह्मणस्यासीद्धर्मनाम्नः सुतोन्तिके । 0085ab
यः पापकारी तुङ्गस्य पार्थः कङ्कश्च दुर्मतिः ॥ 0085cd

ताभ्यामाशुचिरेकिभ्यां त्राणार्थं स्वाङ्गुलीमुखे । 0086ab
क्षिपद्भ्यां पशुवत्तत्र शस्त्रं त्रासवशाज्जहे ॥ 0086cd

अन्तरङ्गाश्च चङ्गाद्या39 येभूवंस्तुङ्गमन्त्रिणः । 0087ab
तैः स्त्रीवदासितं तूष्णीं त्रस्तैः शस्त्रान्वितैरपि ॥ 0087cd

अज्ञाततुङ्गमृत्युभ्यस्तुमुले तत्र भूपतिः । 0088ab
तद्भृत्येभ्यः शङ्कमानो वह्निदानाहवादिकम् ॥ 0088cd

आश्वासाय स्वभृत्यानां छित्त्वा खड्गेन सत्वरम् । 0089ab
पातयामास तुङ्गस्य ससुतस्य शिरो बहिः ॥ 0089cd

दृष्ट्वा स्वामिशिरश्छिन्नं सैन्ये दैन्यात्पलयिते । 0090ab
भृत्यतामुज्ज्वलीचक्रुः कतिचित्तुङ्गसेवकाः ॥ 0090cd

भुजङ्गनामा सामन्तद्विजापत्यो गृहागतः । 0091ab
सङ्ग्रामराजं विदधे गेहाद्गेहं पलायितम् ॥ 0091cd

द्वारं कनकदण्डेन भञ्जन्नर्गलितं ततः40 । 0092ab
विंशतिं हतवान्योधान्स राजास्थानमण्डपे ॥ 0092cd

कोशाधिकारी त्रैलोक्यराजनामा हतो रणे । 0093ab
कय्यामन्तकधात्रेयो वीरोप्यभिनवाभिधः ॥ 0093cd

अङ्गेन त्रिंशदेकाङ्गा वीरास्तुङ्गोपजीविनः । 0094ab
श्रेणीं बबन्धुर्निहता निःश्रेणीं स्वर्गपद्धतेः ॥ 0094cd

सङ्ग्रामं पद्मराजाख्यः कृत्वापि41 निःसृतोक्षतः42 । 0095ab
स्वामिप्रमयदुःखाग्नितापं तीर्थाश्रयाज्जहौ । 0095cd

अन्ये लोकद्वयत्रानमित्रं शस्त्रं रणाङ्गने । 0096ab
सन्त्यजन्तो व्ययुज्यन्त यशसा जीवितेन च ॥ 0096cd

चन्दाख्यः सुभटम्मन्यो दैशिकश्चार्जुनाभिधः । 0097ab
हेलाचक्रो डामरश्च त्यक्तशस्त्राः परैर्हताः ॥ 0097cd

लोटितावसथस्तुङ्गो लुण्ठितश्रीर्महीभुजा । 0098ab
आषाढशुक्लद्वादश्यां कथाशेषो व्यधीयत ॥ 0098cd

निर्द्रोहवृत्तौ भूभर्त्रा तुङ्गे सतनये हते । 0099ab
लब्धोदया व्यजृम्भन्त खलप्राया नृपास्पदे ॥ 0099cd

राज्ञो मनः कलुषयन्गूढपैशुनकर्मणा । 0100ab
यो भ्रातृभ्रातृसुतयोर्विपत्तौ43 हेतुतां गतः ॥ 0100cd

स दुष्प्रवादनिर्दग्धो नागो निजकुलान्तकः । 0101ab
तुङ्गभ्राता ततो राज्ञा कम्पनाधिपतिः कृतः ॥ युगलकम्॥ 0101cd

भार्या कन्दर्पसिंहस्य क्षेमा परमचर्षणी44 । 0102ab
नागेन सङ्गमं चक्रे रक्षसेवासितक्षपा45 ॥ 0102cd

प्रशान्ते तुमुले बिम्बा चतुर्भिर्दिवसैः सती । 0103ab
तुङ्गस्नुषा सुता शाहेः प्रविवेश हुताशनम् ॥ 0103cd

[page 109]

विश्वास-प्रस्तुतिः

मम्मायाजवरुद्धायं कन्दर्पो46 यावज्जीवनत् । 0104ab
पुत्रं विचित्रसिंहं च मातृसिंहं च विश्रुतौ ॥ 0104cd

गृहीत्य्वा तौ स्नुषां तां च मङ्खना तुङ्गवल्लभा । 0105ab
देशाद्विनिर्गता दीना राजपुर्यां स्थितिं व्यधात् ॥ युग्मम्॥47 0105cd

तुङ्गस्थाने ततो राज्ञा पापो भर्देश्वरः कृतः । 0106ab
भूतेश्वरादिदेवानां चक्रे[^0106-1] कोशादिलुण्ठनात् ॥ 0106cd

कियद्विवेकवैल्यमस्य राज्ञः प्रकाश्यताम् । 0107ab
तादृशानपि यश्चक्रे पार्थादीनधिकारिणः ॥ 0107cd

पार्थः परमदुमेधाः ख्यातो भ्रातृकलत्रगः । 0108ab
निर्विचारेण यत्तेन नगराधिकृतः कृतः ॥ 0108cd

वधादिपापं पार्थेन सुकृतत्यक्तचेतसा । 0109ab
पवित्रे प्रवरेशस्य रङ्गपीठे प्रवर्तितम् ॥ 0109cd

चक्रे लुब्धस्य भूभर्तुर्मतङ्गः48 कृपणाग्रणीः । 0110ab
सिन्धोः सुतः कोशवृद्धिम् प्रजापीडनपण्डितः ॥ 0110cd

पुरा देवमुखाख्यस्य दिविरस्य किलाजनि । 0111ab
आपूलिकायां वेश्यायां पुत्रश्चन्द्रमुखाभिधः ॥ 0111cd

यस्तुङ्गोपाश्रयाल्लब्ध्वा लालितत्वं महीपतेः । 0112ab
वराटकात्प्रभृत्यासीत्कोटीनां कृतसञ्चयः ॥ 0112cd

विभूतिमध्ये लुब्धस्य प्राभृतायान्यढौकितैः49 । 0113ab
अपूपैर्निजभृत्येषु विक्रयोभूत्कुलोचितः ॥ 0113cd

प्रभूताग्निररोगश्च भूत्वा लब्धोदयः पुनः । 0114ab
यो मन्दाग्निः सरोगश्च तिष्ठंल्लोकैर्व्यवहस्यत ॥ 0114cd

एकमेवाभवद्यस्य सुकृतं मरणक्षने । 0115ab
कोटोस्त्रिभागं यददाच्छ्रीरणेश्वरयोजने ॥ 0115cd

तदात्मजाः कृताः नानभागनन्दिमुखास्त्रयः । 0116ab
अधीशाः पृतनाङ्गस्य राज्ञा तुङ्गोपजीविनः ॥ 0116cd

हास्यं बभूव भूभर्तुस्तेषां तुङ्गपदार्पणम्50 । 0117ab
बन्धनं यदकाण्डीनां हेमस्थाने शिशोरिव ॥ 0117cd

ते तुरुष्काहवे राज्ञा क्षान्तिशीले च भूपतौ । 0118ab
केचिदुद्रेकमभजन्दरद्दिविरडामराः ॥ 0118cd

इत्थं मन्त्रिष्वयोग्येषु क्षान्तिशीले च भूपतौ । 0119ab
केचिदुद्रेकमभजन्दरद्दिविरडामराः ॥ 0119cd

सा लोठिकामठं कृत्वा लोठिका नृपतेः सुता । 0120ab
तिलोत्तमाया विदधे मातुर्नाम्नापरं मठम् ॥ 0120cd

पापिनामपि हन्तेयं कापि सत्कर्मवासना । 0121ab
भद्रेश्वरोपि यच्चक्रे विहारं सुकृतोज्ज्वलम् ॥ 0121cd

सत्यं विवेक्ता सङ्ग्रामराजो योन्याय्यतोर्जितम् । 0122ab
निजं ब्रुवाणो द्रविणं प्रपामि न निर्ममे ॥ 0122cd

श्रीलेखा पार्थिववधूः श्रीयशोमङ्गलात्मजा । 0123ab
पत्यौ शिथिलसामर्थ्ये स्वैरिणीत्वमसेवत ॥ 0123cd

सुतः सुगन्धिसीहस्य जयलक्ष्म्यां51 बभूव यः । 0124ab
वल्लभो निर्भरं देव्याः सोस्यास्त्रिभुवनोभवत् ॥ 0124cd

स जयाकरगञ्जादिगञ्जस्रष्टातितीक्ष्णधीः[^0125-1] । 0125ab
कोशोपकारकृत्तस्य जारोप्यासीज्जयाकरः ॥ 0125cd

मयग्रामीणगञ्जादिकर्त्री52 सञ्चयत्परा । 0126ab
साभूद्भर्तुः प्रसादेन सुभगा भूरिवैभवा ॥ 0126cd

स चतुर्थसमाषाढप्रारम्भाहे महीपतिः । 0127ab
हरिराजाभिधं पुत्रमभिषिच्यास्तमाययौ ॥ 0127cd

सुमनःसेवितः53 कुर्वन्नशेषाशाप्रकाशनम्54 । 0128ab
ह्लासावहः[^0128-3] स सर्वस्य चैत्रोत्सव इवाभवत् ॥ 0128cd

अमोघाज्ञेन तेनेमां निश्चौरां कुर्वता महीम् । 0129ab
पण्यवीथ्यां55 निशीथिन्यां[^0129-2] निषिद्धा द्वारसंवृतिः ॥ 0129cd

अचिरस्थायिनी राज्ञस्तस्याज्ञाचिन्तितोन्नतिः56 । 0130ab
वन्द्या नवेन्दुलेखेव पार्थिवानामजायत ॥ 0130cd

[page 110]

विश्वास-प्रस्तुतिः

द्वाविंशतिमहान्युर्वीं स सक्षित्वा क्षमापतिः । 0131ab
क्षयं ययौ शुचियशाः शुचिशुक्लाष्टमीदिने ॥ 0131cd

प्राणिनं द्योतमानानां नक्षत्राणामिव क्षणात् । 0132ab
लक्ष्मीर्ग्रीष्मक्षपेवेयं सङ्गता भङ्गदायिनी ॥ 0132cd

समन्योः स्वैरिणीवृत्तिः सुतस्य जननी निजा । 0133ab
अभिचारं चकारास्येत्यविगाना57 जनश्रुतिः ॥ 0133cd

राज्योपकरणे सज्जीकृते राज्यार्थिनी स्वयम् । 0134ab
सा राजमाता श्लीलेखा यावत्स्नात्वा समागता ॥ 0134cd

मिलितैस्तावदेकाङ्गैर्भ्रात्रा धात्रेयकेण च । 0135ab
सागराख्येन तत्पुत्रो58 बालोनन्तो नृपः कृतः ॥ युग्मम्॥ 0135cd

निधिं59 जिघृक्षोरन्येन हृते तत्र प्रमापणम् । 0136ab
तद्रक्षिणोर्हैर्लुब्धस्य पापायैव यथा किल ॥ 0136cd

राजमातुस्तथा राज्यलुब्धायाः पुत्रनाशनम् । 0137ab
अभूदन्यहृते राज्ये वृजिनायैव केवलम् ॥ युग्मम्॥ 0137cd

सा राज्यविप्रलम्भेन तादृशा व्यथिताशया । 0138ab
व्यस्मरत्तनयस्नेहं धिग्भोगाभ्यासवासनाम् ॥ 0138cd

अथाजगाम स्थविरः पितृव्यो बालभूपतेः । 0139ab
राज्यं विग्रहराजाख्यो हर्तुं60 विततविक्रमः ॥ 0139cd

स लोहरात्प्रचलितो दग्ध्वा द्वारमतर्कितः । 0140ab
दिनद्वयेन सार्धेन नगरं सत्वरोविशत् ॥ 0140cd

श्रीलेखाप्रेरिताः सेनाः प्रविष्टं61 लोटिकामठम् । 0141ab
उद्दीपिताग्नयस्ततर निजघ्नुस्तं सहानुगम् ॥ 0141cd

मठद्वयं ततः कृत्वा स्वस्य भर्तुः सुतस्य च । 0142ab
तस्थौ व्ययवती राज्ञी राज्यद्रोहोद्यतानिशम् ॥ 0142cd

ततो नरपतिः किञ्चिच्छनैः शिथिलशैशवः । 0143ab
अतिव्ययादिव्यसनी गर्भेश्वरतयाभवत् ॥ 0143cd

तस्यासन्रुद्रपालाद्याः शाहिपुत्राः परं प्रियाः । 0144ab
अनल्पवेतानादानै राज्योत्पत्त्यपहारिणः ॥ 0144cd

कृतप्रत्यहनिर्वाहः सार्धलक्षेण भूभुजा । 0145ab
रुद्रपालो दरिद्रत्वं कदाचिदपि नात्यजत् ॥ 0145cd

दिद्दापालः क्षमापाललब्धया प्र्तिवासरम् । 0146ab
सहस्राणामशीत्यापि शेते स्व न सुखं निशि ॥ 0146cd

अनङ्गपालवेतालश्चक्रे क्ष्मापाललालितः । 0147ab
शश्वत्सुवर्णगीर्वाणप्रतिमापाटने62 मनः ॥ 0147cd

रुद्रपालः परिव्राता धनप्राणादिहारिणाम् । 0148ab
बभूव चौरचण्डालप्रायाणां वज्रपञ्चरः ॥ 0148cd

कायस्था रुद्रपालाप्ताः प्रजानां पीडनं व्यधुः । 0149ab
चकारान्धमठं श्रीमानुत्पलाख्यो यदग्रणीः ॥ 0149cd

कियद्भूपालवाल्लभ्यमन्यत्तस्याभिधीयताम् । 0150ab
जालन्धराधिपस्येन्दुचन्द्रस्येन्दुमुखीं63 सुताम् ॥ 0150cd

उपयेमे मनोज्ञत्वाज्ज्येष्ठामासमतिं64 स्वयम् । 0151ab
यया मठः स्वाभिधया विदधे त्रिपुरेश्वरे ॥ 0151cd

तस्याः किञ्चिद्वयोन्यूनां65 स्वसारं यो यवीयसीम् । 0152ab
अथ सूर्यमतीं देवीं भूभ्जे परिणीतवान् ॥ 0152cd

रुद्रेण भूपतिः सख्या स कर्णसुखदायिना । 0153ab
पात्रीकृतो दुर्नयानां कर्णेनेव सुयोधनः ॥ 0153cd

कम्पनाधिपतिस्तत्र क्षणे त्रिभुवनो बली । 0154ab
आययौ भूपतेर्हर्तुं राज्यं सम्भृतडामरः ॥ 0154cd

आकृष्टाशेषकटके तस्मिन्योद्धुमुपागते । 0155ab
एकाङ्गाः सहयारोहा राजपक्षं न तत्यजुः ॥ 0155cd

असिना लङ्घयन्प्रासानमोघाञ्श्लाव्यविक्रमः । 0156ab
प्रजहारानन्तदेवः स्वयं त्रिभुवनं रणे ॥ 0156cd

सन्नाहरक्षिताद्गः स दृढप्रहृतिपीडितः । 0157ab
विदद्रौ66 वदनेनासृक्स्वप्रतापमिवोद्वमन् ॥ 0157cd

विनयच्छन्नशौटीर्यः67 शिशुप्राaयः68 स भूपतिः । 0158ab
दृष्ट्वा बलमसम्भाव्यं तस्मिंस्त्यक्त्वा रणं गते ॥ 0158cd

[page 111]

विश्वास-प्रस्तुतिः

शमालाडामरं घ्नन्तं प्रासैरभिनवाभिधम् । 0159ab
शालास्थले व्यधाच्छ्लूव्यविक्रमो मोघविक्रमम्69 ॥ 0159cd

मांसासृग्वेष्टनाद्यष्टीभूतखड्गो भ्रमन्त्रणे । 0160ab
भुवनक्षोभकृदभूद्भैरवोनन्तभूपतिः ॥ 0160cd

पश्यन्प्रहारलूनाङ्गानेकाङ्गान्स पदे पदे । 0161ab
निवेद्यमानानग्रस्यैर्नामग्रहणपूर्वकम् ॥ 0161cd

क्षितिभृज्जातदाक्षिण्यो विलब्धिस्थावेरे ततः । 0162ab
चाञ्चल्यमक्षपटलादेकाङ्गानां न्यवारयत् ॥ युग्मम्॥ 0162cd

एवं तत्र कृतज्ञेन भृत्येभ्यः प्रतिपादिता । 0163ab
विलब्धिस्तेन दीन्नारकोटिषण्नवतेः क्रमात् ॥ युग्मम्॥ 0163cd

राज्ञो रणान्निवृत्तस्य दुग्धसेकैः करात्त्सर्रुः । 0164ab
स्थिरग्रहदृढः कृष्टश्चिरेणेति जनश्रुतिः ॥ 0164cd

अहो महत्त्वं भूभर्तुर्दिनो देशान्तरागतः । 0165ab
तादृक्त्रिभुवनो येन संविभेजे विमन्युना ॥ 0165cd

ब्रह्मराजाभिधस्तेन बन्धुर्गञ्जाधिपः कृतः70 । 0166ab
रुद्रपालकृतद्वेषो विरक्तश्चलितो ययौ ॥ 0166cd

सप्तभिर्म्लेच्छभूपालैः समं मिलितडामरः । 0167ab
तेनानीतो71 दरद्राजो यत्नादचलमङ्गलः72 ॥ 0167cd

क्षीरपृष्टाभिधं73 ग्रामं प्राप्तस्य समरोत्सुकः । 0168ab
तस्याग्रं विक्रमोदग्रो रुद्रपालो विनिर्ययौ ॥ 0168cd

श्वो व्यवस्थापिते युद्धे सैन्याभ्यां दरदीश्वरः । 0169ab
क्रीडन्पिण्डारकाख्यस्य नागस्य भवनं ययौ ॥ 0169cd

दुर्नयाचरणात्तत्र पार्श्वस्थैर्वारितोपि सः । 0170ab
प्लवमानस्य मत्स्यस्य गात्रे कुन्तमपातयत् ॥ 0170cd

अथोज्जगाम गोमायुवपुः कुण्डाद्भुजङ्गमः । 0171ab
स च तं मृगयौत्सुक्यादधावद्दरदीश्वरः ॥ 0171cd

तमापतन्तमालोक्य व्यवस्थोन्मूलनं विदत्74 । 0172ab
आस्कन्दाशङ्कि भूभर्तुः सैन्यं युद्धाय निर्ययौ ॥ 0172cd

अभूत्ततोस्त्रसङ्घर्षसञ्जातानलसंहतिः । 0173ab
कृतस्वर्गाङ्गनोद्बाहो वीराणां समरोत्सवः ॥ 0173cd

तस्मिन्महाभटाटोपे शिरश्छिन्नं दरत्पतेः । 0174ab
रुद्रस्य रौद्रमहसः सम्प्ररूढं यशः पुनः ॥ 0174cd

समरे वधबन्धादि म्लेच्छराजाः प्रपेदिरेव् । 0175ab
सम्प्राप हेमरत्नादि पुनः कश्मीरभूपतिः ॥ 0175cd

उत्तंसमुक्ताद्योताम्भःक्षालितास्रझलज्झलम्7576 । 0176ab
रुद्रपालो दरद्राजशिरो भर्तुरुपानयत्[^0176-3] ॥ 0176cd

भ्रात्रोदयनवत्सेन कृतप्रायैस्तथा द्विजैः । 0177ab
बह्यश्चैवंविधास्तस्य77 बभूवुरव्वदालिकाः ॥ 0177cd

रुद्रपाले ततो लूतामयेन प्रमयं गते । 0178ab
अन्येपि शाहिततनयाः क्षिप्रमेव क्षयं ययुः ॥ 0178cd

पालस्नेहान्ध्यविगमे शुद्धाशयजुषोभवत् । 0179ab
देवी सूर्यमती भर्तुर्दर्पणस्येव बिम्बिता ॥ 0179cd

सुभटापरनामा सा गौरीश्वरविधायिनी । 0180ab
पुण्यं वितस्तापुलिने निर्ममे सुभटामठम् ॥ 0180cd

गोहेमहयरत्नादिप्रदानैः सुबहून्द्विजान् । 0181ab
सदाशिवप्रतिष्ठायामदरिद्रांश्चकार सा ॥ 0181cd

आशाचन्द्रापराख्यस्य कल्लनस्यानुजन्मनः । 0182ab
नाम्ना व्यधापि वात्सल्यात्साग्रहारो मठस्तया ॥ 0182cd

सिल्लनाख्यस्य च भ्रातुर्भर्तुश्चाभिधया सती । 0183ab
मटौ चाकारयत्पार्श्वे विजयेशामरेशयोः ॥ 0183cd

अष्टोत्तरं चाग्रहारशतं श्रीविजयेश्वरे । 0184ab
ब्राह्मेभ्यो महापुण्यं विद्वद्भ्यः प्रत्यपादयत् ॥ 0184cd

पत्युर्नाम्नाप्यग्रहारान्प्रददावमरेश्वरे । 0185ab
त्रिशूलबाणलिङ्गादिप्रतिष्ठाश्च विनिर्ममे ॥ 0185cd

[page 112]

विश्वास-प्रस्तुतिः

दम्पती राजराजाख्ये मृते पुत्रे प्रचक्रतुः । 0186ab
सदाशिवान्तिके राजवेश्म सन्त्यज्य तौ स्थितिम् ॥ 0186cd

ततः प्रभृति सन्त्यज्य पूर्वरागकुलस्थितिम् । 0187ab
तथैव रूढ्या78 भूपालास्तत्रैव वसतीर्व्यधुः ॥ 0187cd

पार्थिवस्याश्वशालीयाः प्रियवाजितया प्रियाः । 0188ab
प्रसादैर्देशलुण्ठ्या79 च सर्वतः समतां ययुः ॥ 0188cd

गर्भेश्वरतया भर्तुर्वल्लभो नर्मकोविदः । 0189ab
अलुण्ठयत्प्रजा नित्यं डल्लको नाम दैशिकः ॥ 0189cd

मालवाधिपतिर्भोजः80 प्रहितैः स्वर्णसञ्चयैः । 0190ab
अकारयद्येन कुण्डयोजनं कपटेश्वरे ॥ 0190cd

प्रतिज्ञा भोजराजेन पापसूदनतीर्थजैः । 0191ab
सततं वदनस्नाने या तोयैर्विहिताभवत् ॥ 0191cd

अपूरयत्तस्य यस्तां81 दुस्तरां नियमादितः । 0192ab
प्रहितैः काचकलशीकुलैस्तद्वारिपूरितैः8283 ॥ 0192cd

स तस्य पद्मराजाख्यः पर्णप्राप्तिकदैशिकः84 । 0193ab
प्रियताम्बूलशीलस्य त्यागिनो वल्लभोभवत् ॥ चक्कलकम्॥ 0193cd

तेन नागरखण्डादिपर्णविक्रयिणा नृपः । 0194ab
देशोत्पत्तिधनं प्रायो निःशेषं दापितस्तदा ॥ 0194cd

पञ्चचन्द्रकशोभाङ्कमैलिसिंहासस्ने85 नृपात् । 0195ab
बन्धायादत्त लब्धव्ये धने स धनिकोधिके ॥ 0195cd

तद्राजचिह्नमास्थानोपयुक्तं तस्य मन्दिरात् । 0196ab
आनीयमानं मासार्धवासरे[^0196-2] मासि मास्यभूत् ॥ 0196cd

स्वकोशसञ्चयं दत्त्वा देवी सूर्यमती ततः । 0197ab
पद्मराजोद्भवां देशस्याव्यवथां न्यवारयत् ॥ 0197cd

शमितो चाश्वशालीयडल्लकादिभये तदा । 0198ab
प्रावर्तन्त पुनर्देशे व्यवस्था नुरुपद्भवाः ॥ 0198cd

ततः प्रभृति राज्ञ्येव राजकार्योद्यताभवत् । 0199ab
तस्थौ शौर्यकथां त्यक्त्वा राजा कार्यकरः पुनः ॥ 0199cd

भर्तुर्नारीविधेयत्वं तस्या भर्तृजयस्तथा । 0200ab
निष्कलङ्केन शीलेन86 नान्योन्यं गर्ह्यतामगात्87 ॥ 0200cd

भवभक्तिव्रतस्नानत्यागशीलादिभिर्गुणैः88 । 0201ab
कृतिनानन्तदेवेन मुनयोपि विनिर्जिताः ॥ 0201cd

राज्ये तस्य महीभर्तुर्दीर्घे तांस्तानलङ्घयत् । 0202ab
पतिंवरेव राजश्रीर्भृत्यान्नवनवोन्म्खी ॥ 0202cd

क्षेमाभिधो राजगञ्जपूरणं बालभञ्जकः[^0203-2] । 0203ab
व्यधाद्द्वादशभागादिप्रकारैर्ढौकयन्धनम् ॥ 0203cd

मन्त्री ततोभवत्साधुस्त्रैगर्तः केशवो89 द्विजः । 0204ab
सौधश्चन्द्रातपेनेव भूपालो येन भूषितः ॥ 0204cd

भ्राम्यन्गतश्रीरेकाकि स एव ददृशे जनैः । 0205ab
भाग्याम्बुवाहतडितो निविडाः कस्य सम्पदः ॥ युगमम्॥ 0205cd

भाग्याधीनं धनं ध्यात्वा मुधा मुग्धधियामसौ । 0206ab
कुलविक्रमयोर्दर्पो मिथ्यैव पृथुतां प्रति ॥ 0206cd

प्रासादपालवैश्यस्य गौरीशत्रिदशालये । 0207ab
भूतेर्हलधरो90 वज्रो वराहश्चाभवन्सुताः ॥ 0207cd

तेभ्यो हलधरः सूर्यमत्या विहितसेवनः । 0208ab
वृद्धिं दिने दिने गच्छंल्लेभे सर्वाधिकारिताम् ॥ 0208cd

विधेयान्बुद्धियुक्तेन91 कुर्वतः क्षित्यनन्तरान्92 । 0209ab
सपत्नीकोभवत्तस्य मुखप्रेक्षी क्षमापतिः ॥ 0209cd

क्षेमेन सूत्रितं पूर्वं सपादाग्रमुदग्रधीः । 0210ab
कर्मस्थानं स्फुटीचक्रे सर्वस्थानधुरन्धरम्93 ॥ 0210cd

अभूद्वर्णकमूल्यादिलेखनं कनकस्य यत् । 0211ab
राजायत्तं जनस्यार्थसञ्चयानां प्रकाशकम् ॥ 0211cd

स तन्निवारयामास भाविनां भूभुजां विदन् । 0212ab
ज्ञानी94 सञ्चितवित्तस्य दण्डाद्यायासकारिताम् ॥ 0212cd

[page 113]

विश्वास-प्रस्तुतिः

भर्तिसितानश्वशालीयान्धनदारापहारिणः । 0213ab
कांशिद्व्यापाद्य स शमं निन्ये लोकस्य विप्लवम् ॥ 0213cd

तेनायासहृता नीतः कचत्स्वर्णैः95 सुरास्पदैः । 0214ab
शोभां मठाग्रहारैश्च वितस्तासिन्धुसङ्गमः ॥ 0214cd

भ्रातरश्च सुताश्चास्य लक्ष्मीपरिचयोन्मदाः । 0215ab
द्विरदा इव न क्वापि दानप्रणयितां जदुः ॥ 0215cd

तद्भ्रातृपुत्रो बिम्बाख्यः श्रीमान्वीरो वराहजः । 0216ab
द्वाराधिकारकार्यासीद्दानप्रलयवारिदः ॥ 0216cd

स डामरकुलाकालमृत्युः स्वल्पानुगमोभवन्96 । 0217ab
स्वशाहदे जहौ[^0217-3] प्राणान्पलायनपराङ्मुखः ॥ 0217cd

चम्पायां सालभूपालमुन्मूल्यानन्तभूपतिः । 0218ab
तत्तन्नृपजयी नव्यं धराधवमरोपयत् ॥ 0218cd

मन्त्रशून्येन शौर्येण परदेशेषु भूपतिः । 0219ab
हठप्रवेशान्विदधत्सोभूत्कृच्छ्रगतोसकृत् ॥ 0219cd

तुक्कात्मजस्य97 कलशस्यारब्धौ खिन्नसैनिकम् । 0220ab
अमोचयद्धलधरो युक्त्या वल्लापुरादमुम् ॥ 0220cd

उरशां च प्रविष्टस्य वैरिरुद्धाध्वनो व्यधात् । 0221ab
कम्पनाधिपतिस्तस्य मार्गान्संशोध्य98 निर्गमम् ॥ 0221cd

कालेनन्तमहीभर्तुर्वैरिविग्रहसङ्कटे । 0222ab
साहसान्युदजृम्भन्त तानि तानि क्षणे क्षणे ॥ 0222cd

राजेश्वरो द्वारपतिः श्रीमान्भद्रेश्वरात्मजः । 0223ab
डामरैः निष्परिभवां को भुङ्क्ते नृपमन्दिरे ॥ 0223cd

वीक्ष्य बूतुदृशा कार्यं भीत्या व्यवहरन्नपि । 0224ab
भृत्यतां निष्परिभवां को भुङ्क्ते नृपमन्दिरे ॥ 0224cd

दुष्प्रवादास्पदीभूतो देव्या निविडसेवनात् । 0225ab
आशाचन्द्रादिभिः क्रुद्धैर्बद्धो हलधरोप्यभूत् ॥ 0225cd

स राज्ञा हृतसर्वस्वो बन्धनक्लेशमन्वभूत् । 0226ab
भाग्यप्रभावे निःसारे मुखमेकान्ततः कुतः ॥ 0226cd

नृपेण बन्धनात्त्यक्तं तं श्रीः प्रत्यागता पुनः । 0227ab
आलिलिङ्ग सितच्छत्रलज्जास्मितसितानना ॥ 0227cd

स राज्ञ्याः प्रावृष इव प्रणयेन क्षणे क्षणे । 0228ab
कोपप्रसादमेघार्कपर्यायापातमन्वभूत् ॥ 0228cd

ततः सरलचित्तस्य क्रमेण समपद्यत । 0229ab
भार्याजितत्वं भूभर्तुर्दुर्विपाकार्पणोन्मुखम् ॥ 0229cd

अधिकारपरित्यागाद्दोषाननुशयावहान् । 0230ab
वदद्भिर्वार्यमाणोपि प्राज्ञैर्हलधरादिभिः ॥ 0230cd

पत्न्या सम्प्रेरितः शश्वत्तनयस्नेहमूढया । 0231ab
पुत्राय कलशायाभूद्राज्यं दातुं समुद्यतः ॥ 0231cd

यास्यस्यनुशयं राजन्नेवंवाद्यपि कारितः । 0232ab
सज्जं99 तेन रणादित्यनामा क्षत्ताभिषेचनम्100 ॥ 0232cd

एकान्नचत्वारिंशस्य वर्षस्य तनयः101 सिते । 0233ab
षष्ठेह्नि बाहुलस्याभूदभिषिक्तो102 महीभुजा ॥ 0233cd

अथास्थाने रणादित्यो राजपुत्रान्निवेशयन् । 0234ab
चिन्तयन्राज्यमाहात्म्यं प्रतिपत्तिषु103 निष्ठुरः ॥ 0234cd

अनन्तो राजपुत्रोयं देवेति कथयन्वचः । 0235ab
कृकाटिकान्यस्तहस्तः क्षितिपालं न्यवेदयत् ॥ 0235cd

कुपितेन स भूभर्त्रा परिवृत्यावलोकितः । 0236ab
एवं कृतस्मितो व्यक्तं तमूचे नीतिनिष्ठुरः ॥ 0236cd

इत्थं यत्र निवेद्यन्ते कान्यकुब्जादिभूभुजः । 0237ab
तत्रैव व्यक्तराज्यस्य कान्यास्तु प्रक्रिया तव ॥ 0237cd

दिने दिने सानुशयो नियतं भविता भवान् । 0238ab
नाभिमानपरित्यागः कर्तुं शक्यो मुनेरपि ॥ 0238cd

सुदूरदर्शिनां तत्र मन्त्रिणां हृदयङ्गमम् । 0239ab
राजा तस्य वचः श्रुत्वा प्रतिवाक्याक्षमोभवत् ॥ 0239cd

दृष्ट्वान्येद्युर्नवं भूपं राजचक्रेण सेवितम् । 0240ab
नवेतरं च सहितं परिमेयैः परिच्छदैः ॥ 0240cd

[page 114]

विश्वास-प्रस्तुतिः

धीमान्हरधरो युक्त्या कृतासूयया नqपम् । 0241ab
एवं निर्भर्त्सयंल्लक्षीं तं प्रत्याजीहरत्पुनः ॥ 0241cd

विधाय निःसुखं सूनुं राज्यभारार्पणाच्छिशुम् । 0242ab
कस्मात्स्वसुखसपेक्षो न जिह्रेष्यनत्र वार्द्धके ॥ 0242cd

तत्स्वयं राजकार्याणां कार्यमुद्वहनं त्वया । 0243ab
अशून्यो यौवनाभोगैरयमस्तु सुतस्तव ॥ 0243cd

इत्युक्त्वा स पुनर्भूपमधिकारमजिग्रहत् । 0244ab
चक्रे कलशदेवं च कलया युक्तिवञ्चितम् ॥ 0244cd

पित्रोरेवान्तिके कुर्वन्नाहाराद्यपि सन्ततम् । 0245ab
ततो बभूव कलशो नाममात्रमहीपतिः ॥ 0245cd

सर्वास्थानास्त्रपूजीदिविधाने पार्थिवोचिते । 0246ab
पितुः सहायकल्पः स पौरोहित्यमिवाकरोत् ॥ 0246cd

अनिमित्तप्रहृड्टानामनिमित्तानुतापिनाम् । 0247ab
न क्वापि चलचित्तानां तिरश्चामिव निश्चयः ॥ 0247cd

दापयित्वा पतिं राज्यं निर्बन्धेनापि तावता । 0248ab
सूनौ बभूव यद्राज्ञी विप्रेमेवानुतापिनी104 ॥ 0248cd

सेर्ष्या स्नुषाणामुत्कर्षं पार्थिवप्रमदोचितम् । 0249ab
वेषालङ्करणादौ सा रूक्षचित्ता न चक्षमे ॥ 0249cd

दासीकृत्यं तया पुत्रमहिष्यः कारिताः सदा । 0250ab
गृहोपलेपने यावन्न वैमुख्यमदर्शयन् ॥ 0250cd

पुत्रो विग्रहराजस्य क्षितिराजाभिधस्ततः । 0251ab
राज्ञः105 पितृव्यजो भ्राता कदाचित्पार्श्वमाययौ ॥ 0251cd

तस्मै न्यवेदयत्खेदं स चित्तस्योपतापकम् । 0252ab
पुत्रे भुवनराजाख्ये राज्यल्ब्धेतिविप्लुते ॥ 0252cd

स हि तस्यात्मजो नीलपुराराज्यं106 समाश्रितः । 0253ab
तद्बलैः पितुरारब्धिं107 विधातुं सोद्यमोभवत् ॥ 0253cd

नाम भागवतानां च पूज्यानां स्वपितुर्व्यधात् । 0254ab
दत्तयज्ञोपवीतानां108 शुनामशुचिमानसः ॥ 0254cd

क्षितिराजः स्ववध्वां च विरुद्धायां विशुद्धधीः । 0255ab
मनस्तापापहे चक्रे सर्वत्यागामृते स्पृहाम् ॥ 0255cd

राज्यं कलशपुत्राय ज्येष्ठानन्तरजन्मने109 । 0256ab
रामलेखाभिधानायां राज्ञ्यां जाताय सत्वरम् ॥ 0256cd

दत्त्वा स्तनन्धयायापि तदोत्कर्षाभिधाय सः । 0257ab
राजर्षिर्विबुधैः सार्धं विदधे तीर्थसेवनम् ॥ 0257cd

भुक्त्वा शमसुखं भूरीन्वर्षान्परमवैष्णवः । 0258ab
स चक्रायुधसायुज्यं ययौ चक्रधरे सुधीः ॥ 0258cd

110 च भोजनरेन्द्रश्च111 दानोत्कर्षेण विश्रुतौ । 0259ab
सूरी तस्मिन्क्षणे तुल्यं द्वावास्तां कविबान्धवौ । 0259cd

पितुः112 पितृव्यजाद्धातुर्जातस्यानन्तभूभुजा113114 । 0260ab
तन्वङ्गराजस्योत्सङ्गे115 नप्ता116 न्यासीकृतः शिशुः ॥ 0260cd

तन्वङ्गोपि विवृद्धिं तन्नीत्वा राष्ट्रं शिशुं च तम् । 0261ab
पुनः प्रविष्टः कश्मीरानस्तं चक्रधरे ययौ ॥ 0261cd

सर्वसाधारणीभूतभोगानां राजवीजिनाम् । 0262ab
तावज्ञातेयमभवन्नेहा द्रोहकलङ्कितम् ॥ 0262cd

इन्दुराजात्मजात्सिद्धराजो यो बुद्धराजतः । 0263ab
जातो मदनराजाख्यं वीरं पुत्रमजीजनत् ॥ 0263cd

अत्युत्सिक्तः117 सुतस्तस्य दरन्नृपतिमण्डलात्118 । 0264ab
विधुरे राज्ञि निर्यातः शौर्योद्रेकादखण्डितः ॥ 0264cd

तदानीं जिन्दुराजाख्यो डामरोद्रेकखिन्नया । 0265ab
राज्ञ्या स्वयं गृहं नीत्वा119 साचिव्यं ग्राहितोभवत् ॥ 0265cd

काणः शोभाभिधस्तेन गाढोद्वेगावहः प्रभोः । 0266ab
देग्रामस्थो120 डामरोथ दत्त्वास्कन्दं निपातितः ॥ 0266cd

:म्

[page 115]

विश्वास-प्रस्तुतिः

कम्पनाधिपतां दत्त्वा ततस्तस्य प्रतापिनः । 0267ab
पार्थिवो[^0267-1] याजपुर्यादीन्देशांश्चक्रे[^0267-2] करप्रदान् ॥ 0267cd

अनन्तभूभुजो राज्ये तत्तत्स्खलितसङ्कटे । 0268ab
आलम्बयिष्टिप्रतिमो ययौ हलधरः क्षयम् ॥ 0268cd

मुमूर्षुणा चक्रधरे तेन पार्श्वस्थितो नृपः । 0269ab
सजानिरुपदेशार्थी स तदेत्यमकथ्यत ॥ 0269cd

मा कार्ष्ठ परराष्ट्रेषु रभसारब्धिसाहसम् । 0270ab
युक्त्या वल्लापुरादौ वो व्यपोढं व्यसनं मया ॥ 0270cd

विशङ्क्यो जिन्दुराजोयं परार्ध्यां वृद्धिमागतः । 0271ab
भेदं वः सह पुत्रेण121 जयानन्दो122 विधास्यति ॥ 0271cd

कथितं तेन123 तत्स्मृत्वा जिन्दुराजं महौजसम् । 0272ab
विज्जेनाबन्धयद्राजा युक्तिमांस्त्याजितायुधम् ॥ 0272cd

अथ कालेन कलशक्ष्माभृत्कलुषिताशयः । 0273ab
भृत्यैरसाधुस्संसेव्ये प्रसक्तिं ग्राहितोध्वनि ॥ 0273cd

तस्याभवन्विज्जपित्थराजपाजादयः124 प्रियाः । 0274ab
उत्सेकदा राजपुत्राश्चत्वारः शाहिवंशजाः ॥ 0274cd

पुत्रो गञ्जपतेर्नागनाम्नो125 निकटसेवकः । 0275ab
सोपि तस्य जयानन्दः कौटिल्याध्यापकोभवत् ॥ 0275cd

द्विजेन्द्रे ऽमरकण्ठे तु
याते शिवसमानताम्।
राजा प्रमदकण्ठस्य
ययौ तज्जस्य सिष्यताम् ॥

English

After Amarakantha the eminent royal priest [died and] was united with Śiva, the king became a disciple of [this priest’s] son, Pramadakaṇṭha.

मूलम्

द्विजेन्द्रेमरकण्ठे तु याते शिवसमानताम् । 0276ab
राजा प्रमदकण्ठस्य ययौ तज्जस्य126 शिष्यताम् । 0276cd

विश्वास-प्रस्तुतिः

दुःशीलस्य प्रकृत्यैव
तस्याकृत्योपदेशकृत् ।
गम्यागम्यविचारस्य
परिहर्ताभवद् गुरुः॥

English

This guru instructed him, who was disposed to evil by nature, to do forbidden things, and to ignore the difference between women who are approachable and those who are not.

मूलम्

दुःशीलस्य प्रकृत्यैव तस्याकृत्योपदेशकृत् ॥ 0277ab
गम्यागम्यविचारस्य परिहर्ताभवद्गुरुः । 0277cd

विश्वास-प्रस्तुतिः

गुरोर् गत-विकल्पत्वं
तस्यान्यत् किम् इवोच्यताम्।
त्यक्तशङ्कः प्रववृते
स्वसुतासुरते ऽपि यः॥ 0278cd

English

What else can be said of this guru who had no scruples? He lacked any inhibition and had sex even with his own daughter.

मूलम्

गुरोर्गतविकल्पत्वं तस्यान्यत्किमिवोच्यताम् । 0278ab
त्यक्तशङ्कः प्रववृते स्वसुतासुरतेपि127 यः ॥ 0278cd

विश्वास-प्रस्तुतिः

महासमयसञ्चारचतुरैर्यैरभीतितः । 0279ab
गण्यते स्वप्रभावोग्रैर्भैरवोपि न निर्भयैः[^0279-1] ॥ 0279cd

ते मट्टपादास्त्रासेन पतिता भग्नजानवः । 0280ab
विडालवणिजा128 स्वस्थाः शिरोहस्तार्पणैः कृताः ॥ 0280cd

पुरा मट्टपादास्त्रासेन पतिता भग्नजानवः । 0281ab
विडालवणिगित्यात्मनामविस्मारिकां129 दधे ॥ 0281cd

यो130 व्याजमूर्खो वैद्यत्वगुरुत्वाहङ्कृतः क्रमात् । 0282ab
पदकृद्रजकादीनां शिल्पिनां गुरुतामगात् ॥ 0282cd

स भट्टपादानुल्लाघांश्चक्रे मूर्ध्न्यधिरोपयन् । 0283ab
श्रेष्ठी विडालविष्टौघहिङ्गुगन्धोत्कटं करम् ॥ 0283cd

एवं प्रकृतिनिःसारैरपि गर्जद्भिरन्वहम् । 0284ab
आन्ध्यं स गुरुभिर्निन्ये दिवसोम्बुधरैरिव ॥ 0284cd

ये दीर्घजागरा131 रात्रौ भूरिभोजनसेविनः । 0285ab
अजीर्णपिशितोद्गारनित्यदुर्गन्धकन्धराः ॥ 0285cd

अवस्करप्रणालाभाः पृष्ठे क्षिप्तमधःपथैः132 । 0286ab
शौचपाथ इव क्षिप्रमुज्झन्ति मधुनिर्झरम् ॥ 0286cd

नक्तमातोद्यवाद्यज्ञैस्तैः सार्धं कृतसेवनः । 0287ab
चारणो वेणुवाaद्यज्ञो योषितां धर्षयन्हठात् ॥ 0287cd

कनकाख्ये मदोद्दामे क्रुद्धे हलधरात्मजे । 0288ab
स्तम्भे निबद्ध्य तद्भृत्यैश्छिन्ननासो व्यधीयत ॥ 0288cd

यो विटश्चमको नाम लूनाङ्गलावहः । 0289ab
शनैर्लेभे स वाल्लभ्यं कौट्टन्यान्नवभूपतेः133 ॥ 0289cd

प्रसादवित्तो भूभर्तुरन्तरे मन्त्रिणामपि । 0290ab
लब्धप्रतिष्ठः स प्राप टक्कुराख्यां नृकुक्कुरः ॥ 0290cd

प्रथां प्राप्तस्त्रपाहेतुं134 स भञ्जन्वंशमञ्जसा । 0291ab
प्रागेव नासावंशस्य भञ्जनं बह्वमन्यत ॥ 0291cd

तेनोद्दीपितदौःशील्यः स यच्चक्रे135 त्रपोज्झितः । 0292ab
अवाच्यमपि वृत्तान्तं मध्यपातात्तदुच्यते ॥ 0292cd

कल्लनाख्या स्वसा राज्ञो नागाख्या च तदात्मजा । 0293ab
परदारप्रसक्तेन सम्भोक्तुं नावशेषिता ॥ 0293cd

[page 116]

विश्वास-प्रस्तुतिः

तमुदन्तं सपत्नीको बुद्धवान्वृद्धभूपतिः । 0294ab
न प्रत्यभैत्सीत्त्रपया तस्थौ तु निभृतव्यथः ॥ 0294cd

भिक्षको136 धान्यमुष्टीनामोवनाग्रामजो[^0295-3] द्विजः । 0295ab
योप्यभूद्वामदैवज्ञो वैधेयो लोष्टकाभिधः ॥ 0295cd

स ग्रामक्षेत्रपालस्य प्रसादात्पर्यटन्निशि । 0296ab
वस्तूनां मुष्टिबद्धानां विज्ञानान्मुष्टिलोष्टकः ॥ 0296cd

परां प्रसिद्धिं सम्प्राप्तो नवक्ष्मापस्य रागिणः । 0297ab
आसीद्गुरुत्वकौट्टन्यदैवज्ञत्वै रतिप्रियः ॥ तिलकम्॥ 0297cd

भट्टारकमठाधीशः137 साधुर्व्योमशिवो जटी । 0298ab
खुर्खुटाख्याधिकरणे गृहीतनियतव्रतः ॥ 0298cd

अन्धगान्धर्विकान्मम्मनाम्नः स्वार्चनसेवकात् । 0299ab
अवन्तिपुरजं हस्तग्राहकद्विजचेलकम्[^0299-1] ॥ 0299cd

परिभ्रष्टमुपादत्त लालितत्वेन यं138 पुरा । 0300ab
स तेन138 वारिताशस्तभङ्गासूत्रमयाम्बरः ॥ 0300cd

विसृज्यमानः पुष्पाणि ग्राहयित्वा नृपान्तिकम् ।139 0301ab
… … … … … … … … … … …. ॥ 0301cd

मदनो नाम वाचालः प्रपेदेत्यन्तरङ्गताम् । 0302ab
शनैः कौट्टन्यदुर्गोष्ठीमध्यपातं समाश्रयन् ॥ चक्कलकम्॥ 0302cd

तैश्चान्यैश्च विटैश्चाटुकारैः क्षिप्रविमोहितः । 0303ab
दोषानपि गुणान्मेने कलशः कलुषीकृतः ॥ 0303cd

नर्म ह्रेपणकारि वाक्यमुचितं कृत्यं प्रजापीडनं तेजस्वित्वमलज्जता सरसतागम्याङ्गनासङ्गमः । 0304ab
सारत्वं खलगालिदानसहनं येषां न तत्सन्निधौ किञ्चित्कर्म कुकर्म दोष इति यद्विज्ञाय सन्त्यज्यते ॥ 0304cd

राजा चौर्यरतौत्सुक्यात्प्रतिगेहं परिभ्रमन् । 0305ab
स्वदारालिङ्गनैः प्रीतिं क्षणदासु न लब्धवान् ॥ 0305cd

पारतन्त्र्यकृतापारप्रीतिः परवधूरतिः । 0306ab
अभिलाषानलोत्सेके रागभाजां धृताहुतिः ॥ 0306cd

तान्कुट्टनान्पुरस्कृत्य140 पञ्चषानेकदा नृपः । 0307ab
जिन्दुराजगृहं प्रायात्स रात्रौ चौर्यकामुकः ॥ 0307cd

तत्रासीज्जिन्दुराजस्य स्नुषा परमपुंश्चली । 0308ab
स्वगृहे दत्तसङ्केतो नक्तं कलशभूभुजः ॥ 0308cd

प्रविशन्तमधावंस्तं भषद्भिः सूचितं श्वभिः । 0309ab
धृतासयो गृहद्वारं चण्डालाश्चौरशङ्किताः ॥ 0309cd

तान्हन्तुमुद्यतान्दृष्ट्वा तङ्क्षितौ पतितं भयात् । 0310ab
पृष्ठन्यस्तस्ववपुषो ररक्षुरनुयायिनः ॥ 0310cd

तेभ्यः स मुष्टिघातादि ददद्भ्यः कथमप्यभूत्[^0311-1] । 0311ab
मैवं कलशदेवोयमित्युक्त्वा त्याजितो निजैः ॥ 0311cd

घ्राणहीनं141 पुरस्कृत्य नारीमभिससार यत् । 0312ab
तदेव कामिनस्तस्य नूनमासीदमङ्गलम् ॥ 0312cd

स निर्यातो गृहात्कान्ताकटाक्षविवशीकृतः । 0313ab
पथि कालीकटाक्षाच्च142 दैवान्न प्रलयं ययौ ॥ 0313cd

निजचित्तापराधेन कुर्वन्नीतिव्यतिक्रमम् । 0314ab
अस्पृश्येभ्यः परिभवं भूपालोप्युपलब्धवान्143 ॥ 0314cd

इन्द्रियैरिन्द्रचन्द्राद्या ह्रेषिता यैः सुरा अपि । 0315ab
अपरिम्लानमानत्वं तैर्मर्त्यस्याथ वा कथम् ॥ 0315cd

प्रागुन्मीलति दुर्यशः सुविषमं गर्ह्योभिलाषस्ततो धर्मः पूर्वमुपैति सङ्क्षयमथो श्लाघ्योभिमानक्रमः । 0316ab
सन्देहं प्रथमं प्रयात्यभिजनं पश्चात्पुनर्जीवितं किं नाभ्येति विपर्ययं विगलने शीलस्य चिन्तामणेः ॥ 0316cd

राजधानीमवाप्तस्य दुःशीलस्य महीपतेः । 0317ab
क्षपायामेव तां वार्तां पितरावधिजग्मतुः ॥ 0317cd

तौ रुदित्वा सुतस्नेहलज्जाशोकान्वितौ चिरम् । 0318ab
निश्चयं बन्धने तस्य सदोषस्य प्रचक्रतुः ॥ 0318cd

सवविद्यानिधिं ज्येष्ठं नप्तॄणां बप्पिकात्मजम् । 0319ab
हर्षं राज्ये चिकीर्षू च निन्यतुस्तां निशीथिनाम् ॥ 0319cd

[page 117]

विश्वास-प्रस्तुतिः

आकारितस्ततस्ताभ्यां प्रातः कलशभूपतिः । 0320ab
ऊचे विज्जजयानन्दौ144 साaशङ्कौ जनकाद्भयम् ॥ 0320cd

तन्मन्तेन जयानन्ददत्तहस्तः कथञ्चन । 0321ab
अन्वीयमानो विज्जेन स पित्रोः प्राविशद्गृहम् ॥ 0321cd

पिता प्रविष्टमात्रं तं वक्त्रे दत्तचपेटकः । 0322ab
अभाग्यभागिञ्जहिहि क्षुरिकामित्यथाब्रवीत् ॥ 0322cd

एवं त्रासविसूत्राङ्गसन्धिमालम्ब्य पाणिना । 0323ab
सावष्टम्भं स्पृशञ्शस्त्रं विज्जो राजानमब्रवीत् ॥ 0323cd

राजन्मानवतां धुर्यो भवन्नपि भवान्कथम् । 0324ab
नात्याज्यं145 मानिनां वेत्ति मानग्रहमहान्रतम् ॥ 0324cd

गृहीतवेतनेनायं राजपुत्रेण शस्त्रिणा । 0325ab
सङ्कटेस्मिन्मया स्वामी जीवता त्यज्यते कथम् ॥ 0325cd

पिता भवानयं पुत्रः क्षणेन्न्यस्मिन्महीपते । 0326ab
मय्यसन्निहितेमुष्य यद्योग्यं तद्विधीयताम् ॥ 0326cd

मुग्धं विमोह्य नृपतिं वचोभिः स्निग्धकर्कशैः । 0327ab
बिज्जः स्वामिनमादाय निराक्रामत्तदन्तिकात् ॥ 0327cd

बिज्जस्यापूजयन्धीरास्तद्धैर्यमतिमानुषम् । 0328ab
अनन्तदेवस्याप्यग्रे यदेवं स व्यजृम्भत ॥ 0328cd

चण्डी नरपतेः146 पत्नी भाव्यर्थबलवत्तया । 0329ab
अत्यात्यजपमौनस्था तस्मिन्नवसरेभवत्146 ॥ 0329cd

सा चेदासिष्यतोद्युक्ता147 नाभविष्यत्तदेतरत् । 0330ab
नियतात्सर्वनाशाद्वा बन्धनात्कलशस्य148 वा ॥ 0330cd

ततो बिज्जेन कलशः सत्वरेण प्रवेशितः । 0331ab
त्रस्यन्दिल्हाभिधानाया वल्लभाया निवेशनम् ॥ 0331cd

शिरोर्तिरस्य सञ्जातेत्युक्त्वा भीतं पतिं व्यधात् । 0332ab
सा प्राज्ञा ज्ञातवृत्तान्ता तैर्लेनाभ्यक्तमस्तकम् ॥ 0332cd

व्याजेन तेन सर्वस्य सम्प्रवेशं निषिध्य सा । 0333ab
पतिं जुगोप विन्यस्य बिज्जं द्वारस्य रक्षणे ॥ 0333cd

ततः समाधेर्विरता राज्ञी निर्भर्त्स्य भूपतिम् । 0334ab
कुशलान्वेषणमिषात्तनयस्यान्तिकं ययौ ॥ 0334cd

बद्धुं149 बद्धोद्यमो राजा तथैव प्रययौ यदा । 0335ab
दत्तप्रवेशो बिज्जेन तदैकाक्येव सोभवत् ॥ 0335cd

निषेधादनुगन्तॄणां ततः क्रुद्धो धराधवः । 0336ab
रुषित्वा विजयक्षेत्रं गन्तुं प्रावर्ततोद्धतः150 ॥ 0336cd

तं प्रयान्तं सपत्नीकं प्राप्तं पद्मपुरान्तिकम् । 0337ab
अवोचन्नेत्य तत्रस्था विश्शावट्टादयो151 द्विजाः ॥ 0337cd

अधिकारं स्वयं त्यक्त्वा राजन्किमनुपत्यसे । 0338ab
कृतस्यानुशयो152 युक्तो न सतो नासतोपि वा ॥ 0338cd

न च ते दुर्मतौ त्यक्ताः153 प्रजा एता मयेत्यपि । 0339ab
ध्यात्वा सूनोः समुचिता कर्तुं दुष्टस्य वाच्यता154 ॥ 0339cd

न यन्त्रपुत्रकस्येव शक्तिः कापि हि भूभुजः । 0340ab
भवेत्साधुर्वा स प्रजानां शुभाशुभैः ॥ 0340cd

उज्झन्ति यत्पयोवाहा जलानि तडितोथ वा । 0341ab
वनस्पतीनां सदसत्कर्मपाकस्य तत्फलम् ॥ 0341cd

यच्चापथस्थितं पुत्रं त्यक्त्वेच्छस्यासितुं सुखम् । 0342ab
कोशं155 त्यक्त्वा प्रस्थितस्य घटते तत्कथं तव ॥ 0342cd

धाराधिरूढसामर्थ्यः सदृशः शुचिमानपि । 0343ab
संस्पृश्यते क्षीणकोशः कृपाण इव कैः पुमान् ॥ 0343cd

श्रुत्वेत्यैच्छन्नृपो यावत्प्रत्यावृत्तिं विचारवान् । 0344ab
तावत्स पुत्रेणाभ्येत्य सभार्येण प्रसादितः ॥ 0344cd

अथ प्रविश्य नगरं स प्रासादापवर्जितान्156 । 0345ab
अशान्तमन्युरादाय लक्ष्मीं भूयो विनिर्ययौ ॥ 0345cd

[page 118]

विश्वास-प्रस्तुतिः

हयायुधतनुत्रादि स्वयं स्वीकृत्य निर्गतः । 0346ab
देवीं प्रतीक्षमाणोस्थात्सरित्पारे[^0346-1] ततः क्षणम् ॥ 0346cd

नानाप्रकारानारोप्य कोशानौषु नृपाङ्गनाः । 0347ab
नायःशङ्कूनपि गृहे निर्यान्त्यः पर्यशेषयन् ॥ 0347cd

अज्ञातवार्तः प्राक्तूष्णीं तत्प्रस्थानेभवज्जनः । 0348ab
ज्ञातवार्तस्तदा त्वासीदाक्रन्दमुखराननः157 ॥ 0348cd

प्रतिमोक्तुं पुरे ताभ्यां दत्तपुष्पाञ्जलौ जनः । 0349ab
बाष्पबिन्दुमिषादौज्झीद्दीर्घानर्घकणानिव ॥ 0349cd

हा मातर्हा पितः क्वेत्थं158 गच्छतः परिदेवितात् । 0350ab
इत्यस्मादपरः शब्दो मार्गेषु न तदा श्रुतः ॥ 0350cd

मार्गेन्तरान्तराक्रन्दविरतौ निर्झरध्वनिः । 0351ab
शैलानां शोकनिःश्वासशूत्कार इव शुश्रुवे ॥ 0351cd

तयोराक्रन्दितैः शश्वत्पथि सञ्जातसंस्तवौ । 0352ab
कर्णौ शून्येप्यशृणुतामाक्रन्दितमिवासकृत् ॥ 0352cd

पुत्रागसा तादृशौ तौ दृष्ट्वा मार्गे द्रुमौकसाम् । 0353ab
खगानां शावभरणमपि159 लोको व्यगर्हत ॥ 0353cd

तयोः पुत्रनयोत्तप्तचेतसोर्विजयेश्वरः । 0354ab
मनःप्रसादं सन्दृष्टः स्निग्धबन्धुरिवाकरोत् ॥ 0354cd

तत्तत्र भाण्डागाराश्वभृत्याद्यावसथार्पणैः । 0355ab
संविधानक्रियाभिश्च व्यग्रयोरगमद्दिनम् ॥ 0355cd

देशे कोशोपकरणपूर्णगोणीगणावृते । 0356ab
आसन्निन्धनगण्डालीच्छन्नरथ्या160 इवापणाः ॥ 0356cd

तन्वङ्गराजतुङ्गादिज्ञातिपुत्रा161 नृपात्मजाः । 0357ab
तं सूर्यवर्मचन्द्राद्या डामराश्चानुवव्रजुः ॥ 0357cd

डामरान्क्षीरभूपादीनान्राजा नौनगरादिषु । 0358ab
स्थानेषु स्वेषु निक्षिप्य रक्षित्वे गुप्तिमानभूत् ॥ 0358cd

विश्रान्तसर्वचित्तस्य श्रीमतोनन्तभूपतेः । 0359ab
प्रावर्तन्तोत्सवैर्गन्तुं दिनानि वियजेश्वरे ॥ 0359cd

राजपुत्रहयारोहशास्त्रिडामरमण्डलैः । 0360ab
कृत्स्नैरेव स्थितिर्बद्धा सविधे वृद्धभूभुजः ॥ 0360cd

वत्सरे पञ्चपञ्चाशे ज्यैष्ठे मासि विनिर्गतः । 0361ab
आसाद्य विजयक्षेत्रं स162 स्वर्गसुखमन्वभूत्162 ॥ 0361cd

कलशस्तु गते राज्ञि प्राप वीतवसुं163 महीम् । 0362ab
रक्षाहौ चलिते यातरात्नां निधिमहीमिव ॥ 0362cd

स्वराज्यमुज्ज्वलीकर्तुम् रिक्तोपि विहितोद्यमः । 0363ab
चक्रे सम्मन्त्र्य बिज्जाद्यैः सम्मतानधिकारिणः ॥ 0363cd

तेन सर्वाधिकारेषु जयानन्दो नियोजितः । 0364ab
द्वारे वराहदेवश्च वितस्तात्रपुरोद्भवः164165 ॥ 0364cd

यो ह्यम्बराधिकार्यासीज्जिन्दुराजस्य166 कम्पने । 0365ab
राज्ञा167 विजयमित्रः स कम्पनाधिपतिः कृतः ॥ 0365cd

यथाधिकारमन्यांश्च विनिधायाधिकारिणः । 0366ab
राजार्थचिन्तामारेभे संरब्धः पितृविग्रहे ॥ 0366cd

जयानन्दः पदातीनां चिकीर्षुरथ सङ्ग्रहम् । 0367ab
रत्नादनुचितेभ्योपि संरब्धः पितृविग्रहे ॥ 0367cd

स्वीकृत्य पत्तीम्बिज्जादिराजपुत्रगणान्वितः । 0368ab
अथावन्तिपुरं प्राप योद्धुं वृद्धिनराधिपम् ॥ 0368cd

अभ्यर्थ्य कारितो वेलां168 राज्ञा काराविनिर्गतः । 0369ab
शिमिकावर्त्मना योद्धुं जिन्दुराजो विनिर्ययौ ॥ 0369cd

तेषामुद्योगमाकर्ण्य क्रुद्धा वृद्धमहीभुजाम् । 0370ab
स्वे डामराश्ववाराद्याः संरम्भादुपतस्थिरे169 ॥ 0370cd

अजायत न्यस्तगुडक्रीडत्तुरगमण्डला । 0371ab
शस्त्रैः सत्राटवी कृत्स्ना सङ्कटा विजयेश्वरे ॥ 0371cd

तत्ः सूर्यमती रत्नात्पतिं परमकोपनम् । 0372ab
ययाचे पुत्रवात्सल्यादयुद्धं दिवसद्वयम् ॥ 0372cd

[page 119]

विश्वास-प्रस्तुतिः

अत्याप्तानथ मय्यादीन्द्विजान्निशि विसृज्य सा । 0373ab
तन्मुखेनातिवात्सल्यादिदमूचे रहः सुतम् ॥ 0373cd

विनाशशंस्ययं पुत्र कस्ते मतिविपर्ययः । 0374ab
तीव्रशौर्येण पित्राद्य यदेवं योद्धुमिच्छसि ॥ 0374cd

यस्य भ्रूभङ्गमात्रेण दरद्राजादयो हताः । 0375ab
तत्प्रकोपानले कस्मादीहसे170 शलभायितुम् ॥ 0375cd

अस्मिंस्तु वीतमारूढे171 वीतिहोत्रसमे नृपे । 0376ab
कस्त्राता स्यात्त्वदीयानां तृणानामिव शस्त्रिणाम् ॥ 0376cd

सेनाङ्गैः कतमैः केन शौर्येण कतमैर्धनैः । 0377ab
भवाञ्शक्तिमतां धुर्य योद्धुमेनं प्रधावति ॥ 0377cd

दैवात्सन्त्यक्तमेतेन भुङ्क्ष्व172 राज्यमखण्डितम् । 0378ab
पित्रा तीर्थोपविष्टेन किमिवापकृतं तव ॥ 0378cd

द्वैधेच्छुविः पात्यमानो व्यसनेस्मिन्सुदारुणे । 0379ab
प्रयास्यसि दिनैरेव रिक्तोप्यत्यन्तरिक्तताम् ॥ 0379cd

नय सेनाः पितुर्भीतिर्जीवन्त्यां मयि नास्ति ते । 0380ab
ऋजुमेनं नयस्वार्द्रं प्रत्युतानुनयोक्तिभिः ॥ 0380cd

इति दूतमुखैर्गूढं पुत्रो मात्रा कृतार्थनः । 0381ab
सर्वाशाभ्योनयत्सैन्यं रात्रावेव निजान्तिकम् ॥ 0381cd

श्रुतापसारं सैन्यानां दूतश्चैत्य प्रसादितम् । 0382ab
उपालेभे पतिं प्रातर्धृष्टा प्रत्युत वल्लभा ॥ 0382cd

राज्ञ्या मिथस्तयोरेवं173 शमिताक्षेपयोरपि । 0383ab
पिशुनप्रेरणात्प्राप कालुष्यं धीः क्षणे क्षणे ॥ 0383cd

वैरस्य रूपमेतद्धि174 भेदं याति मुहुर्मुहुः । 0384ab
सन्धीयमानमपि यत्क्लिन्नाम्बरमिवाशयम् ॥ 0384cd

बाह्याल्यादौ सुतोदन्तं श्रुत्वा तप्ताशयो नृपः । 0385ab
गृहं प्रविष्टो धृष्टस्त्रीभाषितैर्जाडतां ययौ ॥ 0385cd

एवं प्रतिदिनं तप्तस्त्यक्ततापः प्रतिक्षपम् । 0386ab
स्वच्छाशयः शरत्तुच्छतडाकौपम्यमाययौ175 ॥ 0386cd

चकार पितृपक्ष्याणां पुत्रो वेश्मादिनाशनम् । 0387ab
पिता तु पुत्रपक्ष्याणां न किञ्चित्स्त्रीवशीकृतः ॥ 0387cd

पुत्रस्नेहान्धया पत्न्या बाधितैश्चानुयायिभिः । 0388ab
रूक्षोक्तिभिस्ताप्यमानस्तस्थौ दुःस्थः सदा176 नृपः । 0388cd

राज्यं जिहीर्षुः पुत्रस्य निःशूरं तद्बलं विदन् । 0389ab
ईषत्स जिoन्दुराजस्य गणनां पौरुषेकरोत् ॥ 0389cd

पुत्राज्जिहीर्षुणा राज्यं तेन तन्वङ्गनन्दनाः । 0390ab
प्रार्थ्यन्ते स्म तदा राज्यकृतये तत्पराङ्मुखाः ॥ 0390cd

सम्प्रेर्य तं तदा रात्रौ स्वान्वयाशर्मशङ्किनी177 । 0391ab
हर्षं देवी नृपं कर्तुं दूतैराहूतवत्यभूत् ॥ 0391cd

स पितामहयोर्दूतैराहूतः178 साहसोन्मुखः । 0392ab
बाह्याल्यां निर्गतः सज्जै रक्ष्यमाणोपि रक्षिभिः ॥ 0392cd

दत्तपार्ष्णिकषाaघातः क्षणार्धेनोदलङ्घयत् । 0393ab
मनोजवेनाभग्नौजा वाजिना पञ्चयोजनीम् ॥ 0393cd

वाजिनं विजिताभ्यासमनुगन्तुं समुद्यताः । 0394ab
अगच्छन्बहवो मार्गे दीनाः सेनाहयाः श्रमम् ॥ 0394cd

प्राप्तस्य पादयोस्तस्य पतितस्य पितामहौ । 0395ab
आनन्दास्रुजलस्यन्दैरभिषेकं प्रचक्रतुः ॥ 0395cd

पुत्रे तन्निकटं प्राप्ते कलशः प्राज्ञो व्यसर्जयत् । 0396ab
अप्रियाचरणात्पित्रोः सन्धित्सुः स न्यवर्तत ॥ 0396cd

स तस्य नगरात्पत्रीः पार्श्वं प्राज्ञो व्यसर्जयत् । 0397ab
अकरोद्विप्लुते राष्ट्रे स्वभेदस्याप्रकाशनम् ॥ 0397cd

एवं प्रवर्धमानेपि वैरे कलशभूपतिः । 0398ab
कञ्चित्कालं मते मातुरवर्तिष्ट मनागिव ॥ 0398cd

खशालाः कलशादेशाद्यियासोः कम्पनापतेः । 0399ab
तया प्रावर्तितनतेर्मार्गं सन्त्याजितः पतिः ॥ 0399cd

अत्रान्तरे शमयितुं वैरं देशोपघातकृत् । 0400ab
तावुद्दिश्य पितापुत्रौ द्विजाः प्रायं प्रचक्रिरे ॥ 0400cd

[page 120]

विश्वास-प्रस्तुतिः

सन्धिबन्धे समुत्पन्ने ततस्तदनुरोधतः । 0401ab
दम्पती सम्प्रविष्टौ तौ सार्धं मासद्वयं पुरम् ॥ 0401cd

यजानन्दादिबुद्ध्याथ बुद्ध्वा बन्धोद्यतं सुतम् । 0402ab
भूयोपि ययतुः खेदान्निर्गत्य विजयेश्वरम् ॥ 0402cd

तस्याश्ववासकूटानि पुत्रो रात्रावदाहयत् । 0403ab
व्यापादयत्पदातींश्च विषशस्त्राग्नियुक्तिभिः ॥ 0403cd

तथा प्रवर्धमानेपि विरोधे सत्यरोधयत् । 0404ab
वात्सल्यविवशा राज्ञी भर्तुः प्रतिचिकीर्षितम् ॥ 0404cd

लुड्डाभिधाभूत्कैवर्तबन्धकी तद्विधेयधीः । 0405ab
थक्कडामरनामा च तञ्जारः खलतिस्तदा ॥ 0405cd

स तन्नाम्नैव दुष्टात्मा कथ्यमानौ समीपगैः । 0406ab
शुश्राव पितरौ179 नित्यं लीलास्मितसिताननः ॥ युग्मम्॥ 0406cd

तौ दम्पती पुनर्हेमतुलापुरुषयुग्मदौ । 0407ab
चित्राभिर्धर्मचर्याभिर्मनस्तापममुञ्चताम् ॥ 0407cd

यदा पुनस्तयोर्दार्ढ्यमाद्यत्वान्न व्यहीयत । 0408ab
तदा सेर्ष्यः स दुष्पुत्रो रात्रौ वह्निमहापयत् ॥ 0408cd

तेनाग्निनोर्वरीशस्य सर्वोपकरणैः समम् । 0409ab
भस्मावशेषमभवद्विजयेश्वरपत्तनम् ॥ 0409cd

सर्वनाशशुचा दीना राज्ञी मर्तुं समुद्यता । 0410ab
तन्वङ्गपुत्रैश्चकृषे कथञ्चिज्ज्वलतो गृहात् ॥ 0410cd

त्यक्त्वांशुकानि शय्याभ्यो निशायां सुप्तमुत्थितम् । 0411ab
निःशेषं राजसैन्यं तदजायत दिगमबरम् ॥ 0411cd

तद्राजधानीसौधाग्रात्पश्यन्कलशभूपतिः । 0412ab
तोषादनृत्यज्ज्वलौघैर्गगनालिङ्गिभिः समम् ॥ 0412cd

अतरन्नष्टसर्वस्वः स पारं सरितो नृपः । 0413ab
निममज्ज सजानिस्तु दुस्तरे शोकसागरे ॥ 0413cd

सम्प्राप्य च180 प्रददौ पूर्वं भृत्यानां भोजनांशुके । 0414ab
सम्प्राप्य प्रातरप्लुष्टं रत्नलिङ्गं नृपाङ्गना180 । 0414cd

व्यक्रीणाल्लक्षसप्तत्या[^0415-2] टाकानां पार्श्वमीयुषाम्[^0415-3] ॥ 0415ab
धनेन तेन निदग्धान्यपि धामान्यशोधयत् ॥ 0415cd

भस्मकूलतलात्तावल्लब्धं स्वर्णादि भूभुजा । 0416ab
कथापि यावतो हन्त ग्रथयत्यद्य कौतुकम् ॥ 0416cd

राजा शून्याटवीभूते पत्तने तत्र सानुगः । 0417ab
नडत्वन्ग्रथितच्छत्रपटलाच्छादितेवसत्181 ॥ 0417cd

तावत्यप्यर्थसामर्थ्ये चिकीर्षोस्तत्पुरं नवम् । 0418ab
विना राजोचितामाज्ञां न सिद्धं वृद्धभूपतेः ॥ 0418cd

अदृष्टाभिभवो मातुरानुकूल्यान्नवो नृपः । 0419ab
परितापं पितुस्तैस्तैर्दुःसन्देशैः सदाकरोत् ॥ 0419cd

निबन्धादथ पुत्रेण पर्णोत्सगमनं पिता । 0420ab
निर्वासनोत्सुकेनोक्तः शश्वद्दूतमुखैर्यदा ॥ 0420cd

प्रभवन्त्या यदा चासीत्पत्न्या तस्यैव वस्तुनः । 0421ab
निष्पत्तये प्रेर्यमाणः साधिक्षेपं क्षणे क्षणे ॥ 0421cd

तदा जातु रहः कमप्यंस्तन्वङ्गे थक्कने स्थिते । 0422ab
उवाचानुक्तपूर्वं तामेवं स पुरुषं वचः ॥ तिलकम्॥ 0422cd

अभिमानो यशः शौर्यं राज्यमोजो मतिर्धनम् । 0423ab
मया जायाविधेयेन हन्त किं किं न हारितम् ॥ 0423cd

मिथ्योपकरणं नारीर्गणयन्ति नृणां जनाः । 0424ab
परिणामे तु नारीणां क्रीडोपकरणं नराः ॥ 0424cd

द्वेषोन्मेषात्प्रसक्ताभिर्विरक्ताभिरसूयया । 0425ab
के नाम नात्र कान्तिभिः कृतान्तस्यातिथीकृताः ॥ 0425cd

रूपं काश्चिद्बलं काश्चित्प्रज्ञां काश्चिच्च कार्मणैः । 0426ab
पुंस्त्वं काश्चिदसून्काश्चिद्भर्तॄणां182 जह्रुरङ्गनाः ॥ 0426cd

हरन्ति ग्रावभिरिव क्ष्मां पुत्रैरन्यगोव्रजैः । 0427ab
मत्ताः पयोधरौन्नत्यात्तरङ्गिण्य इवाङ्गनाः ॥ 0427cd

पर्यन्ते वैतनमिमे किं जीर्णैरीदृशैरिति । 0428ab
पोषयन्ति सुतान्भर्तॄञ्शोषयन्ति तु योषितः ॥ 0428cd

सर्वकालं विदित्वापि दोषान्योषित्कृतानमून् । 0429ab
प्रतिपत्त्यनुरोधेन मयेयं नावधीरिता ॥ 0429cd

[page 121]

विश्वास-प्रस्तुतिः

प्रभविष्णुर्निहत्येयमैहिकीः सुखसम्पदः । 0430ab
परलोकसुखस्याशामपि हन्तुं ममोद्यता ॥ 0430cd

वलीपलितयुक्तस्य नेदीयोमरणावधेः । 0431ab
विहाय विजयक्षेत्रं कुत्र गन्तुं ममोचितम् ॥ 0431cd

क्षणाकरकलामौलेः किल्विषक्षपणक्षमा । 0432ab
द्वारोपकण्ठसंसेवोत्कण्ठा कुण्टीभवेत्कथम् ॥ 0432cd

पुत्रो लोकद्वयत्राता कस्यान्यस्येदृशो भवेत् । 0433ab
तीर्थात्प्रस्थापयन्मां यत्कुपथे मृतमिच्छति ॥ 0433cd

प्रतिभात्यवतीतोयं प्रवादो मेद्य चेतसि । 0434ab
अनयान्यकुलिद्भूतो यदयं सम्प्रवेशितः ॥ 0434cd

विसंवादिनमाकाराचारैर्बन्धुविरोधिनम् । 0435ab
पुत्रं वदन्पतिस्तस्याश्चक्रे मर्मसु ताडनम् ॥ 0435cd

सुचिराविष्कृताकूतां त्यक्त्वा प्राणाय यन्त्रणाम् । 0436ab
एवं वदन्पतिस्तस्याश्चक्रे मर्मसु ताडनम् ॥ 0436cd

गोत्रजस्य पुत्रो हि प्रशस्ताख्यस्य सोभवत् । 0437ab
आमृष्टविप्रियालापा साभूदधिकलज्जिता ॥ 0437cd

महत्त्तमस्य पुत्रो हि प्रशस्ताख्यस्य सोभवत् । 0438ab
विपन्नापत्ययोपात्तयेत्यासीज्जनश्रुतिः ॥ 0438cd

उत्सिक्तभाषितं भर्तुर्योषितो जितभर्तृकाः । 0439ab
जानन्त्याङ्घ्रिसंवृत्तशिरस्ताडनसन्निभम् ॥ 0439cd

अतः सा सुदृढं प्रौढिसंस्कारपरुषं वचः । 0440ab
प्राकृतप्रमदेवोच्चैरित्युवाच रुषा पतिम् ॥ 0440cd

गतश्रीस्तापसो यस्यास्य नाभूत्प्रावरणं पुरा । 0441ab
वृथा वृद्धः क्व किं वाच्यमिति मूढो न वेत्त्ययम् ॥ 0441cd

स्नात्वोत्थितस्य यस्यास्य नाभूत्प्रावरणं पुरा । 0442ab
लोको जानात्ययं किं न तेन मां प्राप्य हारितम् ॥ 0442cd

स्वकुलस्त्रीसमुचितं यत्किञ्चिन्मामभाषयाः । 0443ab
क्रियते किं न कालोयं यत्प्रायश्चित्तसेवने ॥ 0443cd

अकर्मण्यो गतवया देशात्पुत्रेण वारितः । 0444ab
पत्न्यापि त्यक्त इत्यस्मात्परिवादाद्धि मे भयम् ॥ 0444cd

कुलदोषादिवृत्तान्तगर्भोपालम्भनिर्भरैः । 0445ab
वचोभिर्व्यथितस्तस्यास्तस्थौ तूष्णीं यदा नृपः ॥ 0445cd

तदा तस्यासनप्रान्तनिःसृतः प्रसरन्बहिः । 0446ab
निर्विकाराकृतेर्व्यक्तं ददृशे रक्तनिर्झरः ॥ 0446cd

सम्भ्रान्तायां ततो राज्ञ्यामपश्यत्थक्कनो रुदन् । 0447ab
असिधेनुं गुदे तेन क्रुधा राज्ञा प्रवेशिताम् ॥ 0447cd

ततोतिधीरो राजैव तं लज्जाचकितोन्वशात् । 0448ab
राज्ञो रक्तातिसरणं जातमित्युच्यतां बहिः ॥ 0448cd

विधेया नारीणां तनयनिहिताशेषविभवाः कृतमालौ भृत्ये पुनरुदितविस्रम्भरभसाः । 0449ab
नयन्तो गण्यत्वं प्रसभमभियोगैर्घुमरिं183 नयत्यक्ताः क्ष्मापाः प्रलयमुपगच्छन्ति न चिरात् ॥ 0449cd

नृपतिर्वाहितहयः शरदातपखेदितः । 0450ab
तृष्यन्निपीय धान्याम्बु184 च्युतासृग्जात इत्यभूत् ॥ 0450cd

गम्भीरै राजपुरुषैस्तथा वार्ता प्रवर्तिता । 0451ab
यथा नाबुद्ध वृत्तान्तमेतं कोपि बहिर्जनः ॥ युग्मम्॥ 0451cd

वत्सरे सप्तपञ्चाशे पौर्णमास्यां स कार्तिके185 । 0452ab
विजयेशाग्रतो राजा जीवितेन व्ययुज्यत ॥ 0452cd

पत्न्याः पुत्रस्य चौद्वेगैस्त्यक्तो राजा सुखोचितः । 0453ab
प्रसार्य पादौ निद्रातुं प्राप सोवसरं चिरात् ॥ 0453cd

चुकोपासौ न कस्मैचिच्चुकोपास्मै न कश्चन । 0454ab
चक्रे सुखी विमन्युश्च मरणेन महामनाः ॥ 0454cd

सङ्ग्रामराजदायादो न कस्यचिदिव प्रियः । 0455ab
अंशुकाच्छादितो भूमावनाथ इव सोस्वपत्186 ॥ 0455cd

न प्रियाक्रन्दितैः स्निह्यन्न कुप्यन्नप्रियोक्तिभिः । 0456ab
सर्वत्यागी ययौ राजा दीर्घनिद्रारसज्ञताम् ॥ 0456cd

दाक्षिण्योल्लङ्घनप्रायश्चित्तायेव त्यजन्नसून् । 0457ab
कृतज्ञया पतिः पत्न्या ततो निन्ये सनाथताम् ॥ 0457cd

[page 122]

विश्वास-प्रस्तुतिः

आराजपुत्रचण्डालं देयं प्रत्यहवेतनम् । 0458ab
ददौ स्वस्येव भृत्येभ्यः सा कर्तुमनृणं पतिम् ॥ 0458cd

गृहीतवेतना भृत्याः कोशं187 सर्वे तया स्वयम् । 0459ab
पुरस्ताद्विजयेशस्य नप्तुः क्षेमाय पायिताः ॥ 0459cd

पादन्यस्तशिराः पौत्रो रुदन्नर्पितकोशया । 0460ab
मूर्धन्याघ्राय कथितो मा पितुर्विश्वसीरिति ॥ 0460cd

उत्थितैव188 ततो भूत्वा स्वयमात्तलता189 सती । 0461ab
प्रातिहार्यं190 व्यधाद्भर्तुः कारयन्त्यन्तमण्डनाम् ॥ 0461cd

सादिनां शतमादिश्य नप्तस्तत्रैव रक्षणे । 0462ab
सा पुनः शिबिकारूढमथ प्रास्थापयत्पतिम् ॥ 0462cd

क्षामेकां दिनार्धं च स्थित्वैवं पतिदेवता । 0463ab
प्रणम्य विजयेशानं युग्यारूढा प्रास्थापयत्पतिम् ॥ 0463cd

निर्यान्तौ वीक्ष्य तौ प्रेततूर्यकल्लोलमिश्रितैः । 0464ab
लोकस्याक्रन्दतुमुलैर्भग्ना इव दिशोभवन् ॥ 0464cd

विमानस्योत्पताकस्य परिष्कारेषु बिम्बिताः । 0465ab
प्रजा राज्ञेन्तिके रेजुरनुगन्तुमिवोद्यताः ॥ 0465cd

राज्ञां वितीर्णस्कन्दानां191 मरुल्लोलाः शिरोरुहाः । 0466ab
विमानस्थस्य नृपतेरवहंश्चामरश्रियम् ॥ 0466cd

पश्यन्ती192 पश्चिमां सेवां सैन्यानां नृपतिप्रिया । 0467ab
अस्ताभिलाषिणि दिने प्रपेदे पितृकाननम् ॥ 0467cd

दुस्त्यजात्सुतवात्सल्याद्यद्वा केनापि हेतुना । 0468ab
सा बभूव क्षणे तस्मिंस्तनयालोकनोत्सुका ॥ 0468cd

जानन्ती पवनोद्धूतं रजः सेनासमुत्थितम् । 0469ab
चकितोत्कण्ठिता साभूत्कलशागमनाशया193 ॥ 0469cd

तस्मिन्क्षणे जनाः केचिदायाता नगराध्वना । 0470ab
अङ्ग किं कलशः प्राप इति पृष्टास्ततया स्वयम् ॥ 0470cd

स तु पुत्रः क्षणे तस्मिन्यियासुर्मातुरन्तिकम् । 0471ab
दत्त्वा विभीषिकास्तास्ता निरुद्धो द्वैधकारिभिः ॥ 0471cd

ततो गृहीतनैराश्या राज्ञी पुत्रावलोकने । 0472ab
सा प्रार्थयित्वा वैतस्तं वारि श्लोकमथापठत् ॥ 0472cd

वैतस्तेन तु तोयेन जठरस्थेन ये मृताः । 0473ab
मोक्षं गच्छन्त्यसन्देहं ते यथा ब्रह्मवादिनः ॥ 0473cd

उपनीतं वितस्ताम्बु पीत्वोपस्पृश्य चाथ सा । 0474ab
एवं शशाप पिशुनान्स्नेहसङ्क्षयकारिणः ॥ 0474cd

जनितं प्राणदृद्वैरं यैः पुत्रेण सहावयोः । 0475ab
सान्वयानां क्षयस्तेषां भूयात्परिमितैर्दिनैः ॥ 0475cd

तस्यास्तेनोपतप्तायाः शापेनाव्यभिचारिणा । 0476ab
क्षिप्रमेव जयानन्दजिन्दुराजादयो मृताः ॥ 0476cd

चक्रे हलधराप्रत्वजातकौलीनशान्तये । 0477ab
परलोकं पणीकृत्य युक्त्या च शपथं सती ॥ 0477cd

एवं विशुद्धशीलत्वं सम्प्रकाश्य शुचिस्मिता । 0478ab
कर्णीरथाददाज्झम्पां ज्वलिते जातवेदसि ॥ 0478cd

अजायत नभो वह्निज्वालावलयमालितम् । 0479ab
तदागमोत्सवे दत्तसिन्दूरमिव निर्जरैः ॥ 0479cd

साक्रन्दैर्न चटत्कारी दुःखोत्तप्तैर्न चोष्मलः । 0480ab
परमालेख्यलिखित इव जज्ञे शिखी जनैः ॥ 0480cd

गङ्गाधरष्टक्किबुद्धो युग्यवाहश्च दण्डकः । 0481ab
तावुद्दा नोनिका वल्गा चेति दास्यस्तदान्वयुः ॥ 0481cd

बप्पटोद्भटयोः कुल्यौ सेनटक्षेमटावुभौ । 0482ab
भूपालवल्लभावास्तां वैराग्याद्विजयेश्वरे ॥ 0482cd

भावा यन्त्रनिसर्गभुङ्गुरतरास्तिष्ठन्ति नैते चिरं चेतःकाचघटस्य194 तस्य घटते दीर्घोयमेको गुणः । 0483ab
यत्तस्मिन्निहितप्ररूढि न गलत्यायाति न म्लानतां धत्ते नापचयं चमत्कृतिवचो गीर्वाणगङ्गापयः ॥ 0483cd

एकषष्टिमतिक्रम्य वर्षान्भूपतिरायुषः । 0484ab
सपत्नीकः पुरारातिगौरीसायुज्यमासदत् ॥ 0484cd

[page 123]

विश्वास-प्रस्तुतिः

अथास्थीनि सस्मादाय चतुर्थे दिवसे तयोः । 0485ab
पुत्रास्तन्वङ्गराज्यस्य सर्वे गङ्गां प्रतस्थिरे ॥ 0485cd

पैतामहेन कोशेन परिवारेण चान्वितः । 0486ab
पित्रा विरोधं जग्राह हर्षस्तु विजयेश्वरे ॥ 0486cd

आद्ये पिता पुरवरे195 पिता श्रीविजयेश्वरे । 0487ab
तस्मिन्पुत्रस्तु तत्रासीत्पिता तु नगरान्तिके ॥ 0487cd

ततोतिव्ययिनं पुत्रं दरिद्रो नीतिमान्पिता । 0488ab
अभ्यर्थ्यानर्थभीतश्च सन्धिं दूतैरयाचत ॥ 0488cd

स तैरसकृदायातैरुत्सिक्तो युक्तवादिभिः । 0489ab
राजपुत्रः समं पित्रा सन्धिं निन्ये कथञ्चन ॥ 0489cd

रक्षां पैतामहे कोशे शरीरे चात्मजन्मने । 0490ab
प्रतिशुश्राव जनकः कृतप्रत्यहवेतनः ॥ 0490cd

नृपतेः पुत्रमानेतुम् विशतो विजयेश्वरम् । 0491ab
दृष्टिः प्लुष्टैर्गृहैर्दग्धा श्रुतिश्च जनगर्हया ॥ 0491cd

स पीतकोशः सङ्गृह्य तनयं प्राविशत्पुरम् । 0492ab
कोशं चास्थापयन्मुद्रां दत्त्वा तदभिधाङ्किताम् ॥ 0492cd

अत्रान्तरे तस्य राज्ञो धार्मिकी धीरजायत । 0493ab
दारिद्र्यच्छेदिनी धर्म्या धनबुद्धिश्च सर्वतः ॥ 0493cd

तनयो नयनाख्यस्य कल्पः सेल्यपुरौकसः । 0494ab
कुटुम्बिनो जय्यकाख्यः क्रमाड्डामरतामगात् ॥ 0494cd

स्थलोत्पत्तिः स दिग्देशविक्रीतान्नो वणिज्यया । 0495ab
सम्भृतार्थः शनैर्लुब्धो धनेशस्पर्धितां196 दधे197 ॥ 0495cd

सार्धं क्रोशं खनित्वा स नित्यं दीन्नारराशिभिः । 0496ab
पूरितायाः क्षितेः पृष्ठे बहून्व्रीहीनवापयत् ॥ 0496cd

दीन्नारन्यसनं भृत्यैः कारयित्वा प्रतिक्षपम् । 0497ab
बहवो भेदभीतेन तेन गूढं निपातिताः ॥ 0497cd

स भाङ्गिलं लब्धुमिच्छन्वलेकस्मात्पलायिते । 0498ab
द्राक्षालतानिरुद्धाश्वो हतः केनापि पत्तिना ॥ 0498cd

तदीयेनोपलब्धेन धनेन वसुधातलात् । 0499ab
पर्याप्तेनात्यजद्राजा यावदायुर्दरिद्रताम् ॥ 0499cd

समृत्सु क्षाल्यमानेषु तद्दीन्नारेष्वहर्निशम्198 । 0500ab
कलुषाम्भा बहून्मासान्वितस्ता समपद्यत ॥ 0500cd

दानोपभोगरहिताः काले क्लेशेन भूयसा । 0501ab
अन्यार्थमर्थान्रक्षन्ति चित्रं लुब्धा महाशयाः ॥ 0501cd

प्राणान्धारयते निपीय मरुतः शेते तमोन्धे बिले सम्भोगे परदत्तमिच्छति पटं नग्नस्त्रपाशान्तरे । 0502ab
विस्तार्येति कदर्यतामहिरवत्यन्यस्य हेतोर्निधीन्नान्यः कोपि परं परोपकृतिषु प्रौढोस्ति लुब्धं विना ॥ 0502cd

अन्यैश्च बहुभिर्मर्गैर्नद्यः सिन्धुमिवाविशत् । 0503ab
नानाथसम्पदस्तास्ता199 भाग्यभाजं महीभुजम् ॥ 0503cd

अर्था भाग्योदये जन्तुं विशन्ति शतशः स्वयम् । 0504ab
दिम्भ्योभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ॥ 0504cd

स्रोतांसि प्रबलत्वमेत्य वसुधां मूलेषु पुष्णन्त्यधो व्योम्नोम्भः पतति त्यजन्ति हरितो वारि प्रणालीमुखैः । 0505ab
इत्थं शुष्कसरः पयोदसमये सम्पूर्यते सर्वतो भाग्यानामुदये विशन्ति शतशो द्वारैर्न कैः सम्पदः ॥ 0505cd

जनरक्षणदाक्षिण्ये ततः200 पितुरिवान्वहम्201 । 0506ab
कुशला कलशस्यासीत्प्रजापुण्योदयैर्मतिः ॥ 0506cd

स्वयं वणिगिवार्थानां गणनाकुशलोपि सः । 0507ab
विवेक्ता सत्पथत्यागे मुक्तहस्तः सदाभवत् ॥ 0507cd

उपस्हितौ भाविनौ च पश्यन्नायव्ययौ स्वयम् । 0508ab
अन्तिकान्नात्यजद्भूर्जखटिकादि नियोगिवित् ॥ 0508cd

तस्य स्वरूपमूल्येन रत्नादि क्रीणतः स्वयम् । 0509ab
नाशकन्वञ्चनां कर्तुं केपि विक्रयकारिणः ॥ 0509cd

त्रिवर्गं सेवमानः स विभज्य समयं सुखी । 0510ab
मध्याह्नादूर्ध्वमभवददृश्यः सर्वकार्यिणाम् ॥ 0510cd

तस्य त्वेषां परेषां च कृत्यमन्विष्यतश्चरैः । 0511ab
अज्ञातः स्वप्नवृत्तान्तः प्रजानामभवद्यदि ॥ 0511cd

[page 124]

विश्वास-प्रस्तुतिः

स्ववेश्यमेव गृहस्थस्य ध्यायतश्चास्य मण्डलम् । 0512ab
जनो जनपदे जातु न कश्चिद्दैन्यमस्पृशत् ॥ 0512cd

कौलीनचकितो राजा कुर्वन्कण्टकशोधनम् । 0513ab
प्रकटं नात्यजद्दण्डं चौरेभ्योपो स जातु चित् ॥ 0513cd

न तस्यार्थः कोपि नष्टो मन्त्रिणो यमयोजयन् । 0514ab
मन्त्रिणां स पुनश्चक्रे नष्टस्यार्थस्य योजनम् ॥ 0514cd

विवाहयज्ञयात्रादिमहोत्सवशताकुलः । 0515ab
नित्यप्रहृष्टो निर्दैन्यस्तद्राज्ये ददृशे जनः[^0515-1] ॥ 0515cd

तेन नीतिविदाक्रान्तः क्ष्माभुजः क्षित्यनन्तराः । 0516ab
आहाराचरणेप्यासंस्तदध्यक्षान्विताक्षमाः ॥ 0516cd

तन्वङ्गस्थस्यक्वनादींस्त्रीनायातान्दिगन्तरात्[^0517-1] । 0517ab
व्ययितैकानुजान्मल्लप्रमुखान्गुङ्गजानपि ॥ 0517cd

अप्रीणयद्बन्धुभृत्यान्स भव्याभिर्विभूतिभिः । 0518ab
कलाभिरमृतार्द्राभिः सोमः[^0518-1] सुरपितॄनिव ॥ युग्मम्॥ 0518cd

अवाप्तपरिपाकोपि दौःशील्येन न भूपतिः । 0519ab
कुदैशिकोपदिष्टेन दुष्टाचारेण चोज्झितः ॥ 0519cd

टक्केन बुल्लियाख्येन कन्यकाः समुपाहृताः । 0520ab
क्रीतास्तस्य तुरुष्केभ्यो202 नानादिग्देशसम्भवाः ॥ 0520cd

स ताभिः परदारैश्च रूपलोभादुपाहृतैः । 0521ab
अवरोधपुरन्ध्रीणां द्वासप्ततिमढौकयत् ॥ 0521cd

बह्वीः कामयमानस्य योषितः प्रतिवासरम् । 0522ab
मत्स्ययूषादिभिर्वृष्यैर्नास्य203 पुष्टिरंहीयत ॥ 0522cd

महासमयपूजासु व्यग्रः स गुरुभिः समम् । 0523ab
महाचरूणामाहारं नीतिमुत्सृज्य चाकरोत् ॥ 0523cd

एवं शबलकृत्येन पुरं तेन नवीकृतम् । 0524ab
निर्दग्धे विजयक्षेत्रे शिलावेश्म न204 शूलिनः ॥ 0524cd

विजयेशशिलावेश्ममौलावातपवारणम् । 0525ab
नृपोम्बरशिरश्चुम्बि जाम्बूनदमयं व्यधात् ॥ 0525cd

व्यवस्थितिं चानपायां व्यधत्त त्रिपुरेश्वरे । 0526ab
पिनाकिनश्च प्रासादं स स्वर्णामलसारकम् ॥ 0526cd

ततः सत्कर्मकुशलश्चकार कलशेश्वरम् । 0527ab
निःसङ्ख्यहाटकघटीपटलाङ्कशिलागृहम् ॥ 0527cd

कलशेशोपरि छत्त्रं चिकीर्षोः काञ्चनाञ्चितम् । 0528ab
तुरुष्कदेशजः शिल्पी राज्ञोभ्यर्णमुपाययौ ॥ 0528cd

सहस्रैर्भूरिभिर्हेम्नश्छत्त्रसिद्धिं वदन्कलाम् । 0529ab
स छादयन्निजां ताम्रे काञ्चनारोपणं विदन् ॥ 0529cd

कानिचिद्दिवसान्यासीत्प्राप्नुवन्नृपसत्क्रियाम् । 0530ab
ततोतितीक्ष्णप्रज्ञेन नोनकाख्येन मन्त्रिणा ॥ 0530cd

अभ्यूह्य शिक्षितकलो विलक्षोगाद्यथागतम् । 0531ab
तच्च छत्त्रं ययौ सिद्धिमत्यल्पैरेव काञ्चनैः ॥ 0531cd

अनन्तेशाभिधं बाणलिङ्गमन्याश्च भूपतिः । 0532ab
प्रतिष्ठा विविधाश्चक्रे स शक्राधिकवैभवः ॥ 0532cd

नृपे सहजपालाख्ये शान्तिं यातेभ्यषिच्यत । 0533ab
ततः सङ्ग्रामपालाख्यो राहपुर्यां205 तदात्मजः ॥ 0533cd

राज्यं जिहीर्षुर्बालस्य पितृव्यस्तस्य भूपतेः । 0534ab
भेजे पश्चाज्जयानन्दं शूरैर्विज्जादिभिः समम् ॥ 0534cd

रद्भयाच्छरणं प्रायान्नृपं साहायकार्थिनी । 0535ab
स्वसा सङ्ग्रामपालस्य206 जस्सराजश्च टक्कुरः ॥ 0535cd

कृतप्रसादो नृपतिः साहायककृते ददौ । 0536ab
तयोः पश्चाज्जयानन्दं शूरैर्विज्जादिभिः समम् ॥ 0536cd

तत्र विद्रावितामित्रः स207 स्फूर्जन्क्रान्तमण्डलः । 0537ab
सङ्ग्रामपालामात्यानां कार्यान्ते शङ्क्यतां208 ययौ ॥ 0537cd

काङ्क्षन्तो गमनं तस्य दत्त्वा तास्ता विभीषिकाः । 0538ab
ते त्रासमैच्छन्नाधातुम् स वीरो न त्वकम्पत ॥ 0538cd

मतिं राजपुरीयाणामसावेतामदादिति । 0539ab
शङ्कमानेन तेनाथ बिज्जे मन्युरुपाहृतः ॥ 0539cd

[page 125]

विश्वास-प्रस्तुतिः

तैस्तत्र दत्तद्रविणैः प्रार्थितोथ महामतिः । 0540ab
रक्षापदेशात्स्वं सैन्यं स्थापयित्वा न्यवर्तत ॥ 0540cd

एवं राजपुरीं तस्मिन्स्वीकृत्यान्तिकमागते । 0541ab
तुतोष कार्यमर्मज्ञः प्राज्ञः कलशभूपतिः ॥ 0541cd

क्रमाद्राजायमानेषु बिज्जादिष्वथ पस्पृशे । 0542ab
आमयेन जयानन्दो दैवात्प्रमयहेतुना ॥ 0542cd

स्वास्थ्यवार्तोपलम्भाय भूपतिं गृहमागतम् । 0543ab
वाच्यमस्ति रहः किञ्चिदित्यूचे स कथान्तरे ॥ 0543cd

निर्यातेष्वथ सर्वेषु किञ्चिन्नैवाब्रवीद्यदा । 0544ab
तदा ताम्बूलतित्यक्षाव्याजाद्बिज्जो विनिर्ययौ ॥ 0544cd

आप्तेनोक्तोपि निर्गच्छन्किं प्रयासीति भूभुजा । 0545ab
मन्त्रिणा चैत्य स प्राज्ञो बहिरेव व्यलम्बत ॥ 0545cd

जयानन्दोभ्यधाद्भूपमुक्त्वा राजपुरीकथाम् । 0546ab
व्यक्तं नास्त्येव ते राज्यं बिज्जे वृद्धिमुपागते ॥ 0546cd

आदीयमानाद्बिज्ज्येन कार्येभ्यो वेतनादपि । 0547ab
दर्शयामास गणनां बहुमूल्यां महीभुजे ॥ 0547cd

प्राप्तः कलुषतां राजा प्रयातः स्वगृहांस्ततः । 0548ab
याचितो गमनानुज्ञां बिज्जेनेङ्गितवेदिना ॥ 0548cd

निषेधन्निव दाक्षिण्यलेशान्निर्बन्धकारिणः । 0549ab
तस्यानुज्ञां ददौ गन्तुं सान्तस्तोषो महीपतिः ॥ 0549cd

लब्धादेशो गृहान्गम्त्वा सर्वोपकरणैः समम् । 0550ab
प्रस्थाप्य सोग्रतो भ्रातॄनाप्रष्टुं नृपतिं ययौ ॥ 0550cd

राजधर्मभीरत्वक्रूरयोः209 स्वामिभृत्ययोः । 0551ab
काचिदेव क्षणे तस्मिंश्चेष्टाभूदद्भुतावहा ॥ 0551cd

न यत्प्रभुः प्रियं भृत्यं गमनात्स व्यवर्तयत् । 0552ab
उपालेभे समन्युश्च न यद्भृत्यः प्रियं प्रभुम् ॥ 0552cd

सहोत्थितेन कतिचित्पदानि सह भूभुजा । 0553ab
चिरं कृत्वा कथां नीचैर्हसन्बिज्जो विनिर्ययौ ॥ 0553cd

जिन्दुराजं हलधरो मुमूर्षुर्दूषयन्यथा । 0554ab
तथा बिज्जं यजानन्दः स व्यवारोपयत्पदात् ॥ 0554cd

तल्लक्ष्मीमात्रशेषां क्ष्मां कृत्वा गच्छन्विधीयताम् । 0555ab
हृतार्थो बिज्ज इत्युक्तिं नाग्रहीन्मन्त्रिणां नृपः ॥ 0555cd

निर्वर्तयिष्यति क्ष्माभृन्नियतं गमनादमुम् । 0556ab
इत्याशयान्वगाद्बिज्जं राजवर्जं जनोखिलः ॥ 0556cd

आस्कन्दं शङ्कमानोस्थाद्बिज्जाद्राजा बलोर्जितात् । 0557ab
तृणस्पन्देपि चकितो निर्निद्रः पञ्च यामिनीः ॥ 0557cd

तस्मिञ्शूरपुराद्याते210 निवृत्तेष्वनुगन्तृषु । 0558ab
निवृत्तशङ्कस्तां शङ्कां प्रादुश्चक्रे स मन्त्रिणाम् ॥ 0558cd

ते तदाकर्ण्य यं मन्त्रं बिज्जार्थहरणेब्रुवन् । 0559ab
तस्याविधाने भूभर्तुरमन्यन्त नयज्ञाताम् ॥ 0559cd

बिज्जादयस्तु निर्द्रोहा यं यं देशमशिश्रयन् । 0560ab
तत्र तरैव पूज्यत्वं रत्नानीव प्रपेदिरे ॥ 0560cd

बिज्जोधिकं प्रवृद्धोपि दैवतस्येव भक्तिमान् । 0561ab
पद्भ्यां कलशदेवस्य सत्यङ्करः सदाभवत् ॥ 0561cd

एवं निर्वास्य बिज्जादीनशिरावाप्तवैभवः । 0562ab
क्षिप्रं सूर्यमतीशापाजयानन्दः क्षयं ययौ ॥ 0562cd

राज्ञो विरोधकृद्वक्तुं शापस्याव्यभिचारिताम् । 0563ab
प्रमयम् जिन्दुराजोपि तस्मिन्नेव क्षणे ययौ ॥ 0563cd

तेपि बिज्जादयः क्षिप्रमचिरावाप्तसम्पदः । 0564ab
प्रापुः शापोचितं सर्वे प्रमयं गौडमण्डले ॥ 0564cd

आकस्मिकेथ प्रमये211 बिज्जः प्रमयमाययौ । 0565ab
सुदीर्घबन्धनक्लेशं प्राप्युस्तदनुजा अपि ॥ 0565cd

पलायितेषु कारायास्तेषु व्याघ्रेण पाजकः212 । 0566ab
हतस्तदनुजाः212 शेषा मुक्तक्लेशाः क्षयं ययुः ॥ 0566cd

द्वित्रास्तद्द्वैधकाराणां213 नानश्यन्मदनादयः । 0567ab
अदीर्घेणैव कालेन दुरन्तैर्यैर्भविष्यते213 ॥ 0567cd

जयानन्दसहायोथ तत्पुत्रान्परिपालयन् । 0568ab
सर्वाधिकारी भूपेन वामनाख्यो व्यधीयत ॥ 0568cd

[page 126]

विश्वास-प्रस्तुतिः

यस्य तास्ता व्यवहृतीर्नातिज्ञस्याद्भुतावहाः । 0569ab
वर्णयन्ति वयोवृद्धा गोष्ठीष्वद्यापि214 धीमताम् ॥ 0569cd

ग्रामानवन्तिस्वम्यादिभोग्यानाहत्य लुब्धधीः । 0570ab
राजा कलशगञ्जाख्यं कर्मस्थानं विनिर्ममे ॥ 0570cd

मन्त्रिणे नोनकायासौ धनोत्पादविदेप्यदात् । 0571ab
क्रौर्यवस्तो न पादाग्रं जनरक्षणदक्षिणः ॥ 0571cd

मन्त्रिणो राजकलशापत्यान्यत्यन्तरङ्गताम् । 0572ab
लेभिरे क्ष्माभुजः पार्श्वे प्रशस्तकलशादयः ॥ 0572cd

सुताः स्वाच्छन्द्यविवशाश्चौराः सन्ध्यादिसंश्रयाः । 0573ab
युक्त्या निदधिरे राज्ञा निबद्धस्वाधिकारिणः ॥ 0573cd

पुनर्मदनपालेन क्रान्ते राजपुरीपतौ । 0574ab
साहायकाय व्यसृजत्सेनान्यं बप्पटं नृपः ॥ 0574cd

प्रतापैर्भूपतेस्तेन भृत्यांशेनापि215 निर्जितः । 0575ab
बद्ध्वा मदनपालेपि कश्मीरान्सम्प्रवेशितः ॥ 0575cd

भ्राता वराजदेवस्य कन्दर्पाख्यो महीभुजा । 0576ab
कृतो द्वाराधिपो वीरो विदधे डामरक्षयम् ॥ 0576cd

बभूव जिन्दुराजात्स शिक्षितो नयविक्रमौ । 0577ab
भूम्यन्तरसामन्तमुकुटस्पृष्ठशासनः ॥ 0577cd

स राजपुर्यादिजयी द्वारं परमकोपनः । 0578ab
क्षणे क्षणेत्यजद्राज्ञा प्रसाद्य ग्राहितः स्वयम् ॥ 0578cd

मदनः216 क्षितिपालेन प्रापितः कम्पनेशताम् । 0579ab
लब्धप्रकर्षान्त्रोपादीन्डामरान्बहुशोवधीत् ॥ 0579cd

सेवावशीकृतः श्येनपालं स217 नगराधिपम् । 0580ab
चक्रे विजयसिंहाख्यं हताशेषमलिम्लुचम् ॥ 0580cd

कन्दरोपोदयसिंहाद्यैः218 प्रहिते लोहरे सकृत् । 0581ab
राजा भुवनराजस्य दूरं निःसारणं व्यधात् ॥ 0581cd

कीर्तिराजस्य तनयां स च नीलपुरप्रभोः । 0582ab
लब्ध्वा भुवनमत्याख्यां रिपोश्छिन्नामयoभवत्219 ॥ 0582cd

कार्यप्रतिग्रहे कर्तुं प्रवृत्तिं ग्राहितोभवत् । 0583ab
हृत्वा विजयसिंहाद्यो नृपेण नगरेशताम् ॥ 0583cd

गुङ्गात्मजः स मल्लोथ तेन द्वारपतिः कृतः । 0584ab
राज्ञां मौलिमणिस्थाने स्वप्रतापमरोपयत् ॥ युग्मम्॥ 0584cd

शौर्यं निष्परिवारस्य पार्थस्योत्तरगोग्रहे220 । 0585ab
उरशासम्प्रवेशे वा श्रुतं221 मल्लस्य मानिनः ॥ 0585cd

पञ्चाशैस्तुरगैर्यत्स कृष्णां तीर्त्वा व्यपाहरत् । 0586ab
राज्यं वाजिव्रजैः सार्धमभयाख्यस्य भूभुजः ॥ 0586cd

एवं वशीकृतभुवो भूपतेर्नयवेदिनः । 0587ab
सममेवाष्टभूपालास्त्रिषष्टेब्देविशन्पुरम् ॥ 0587cd

कीर्तिन्यब्बपुराधीशश्चाम्येयो भूभृदासटः । 0588ab
तुक्कात्मजस्तु कलशो बल्लापुरनरेश्वरः ॥ 0588cd

राजा सङ्ग्रामपालाख्यः स च राजपुरीपतिः । 0589ab
उत्कर्षो लोहरोर्वीभृदौर्वशो मुङ्गजो नृपः ॥ 0589cd

गाम्भीरसीहः कान्देशः काष्टवाटधराधिपः । 0590ab
श्रीमानुत्तमराजोपि राजानमुपतस्थिरे ॥ तिलकम्॥ 0590cd

राजलोकः प्रवृद्धोपि वने जनपदेभवत् । 0591ab
दुर्लक्षो वार्षिकसरित्पूरो वारिनिधाविव ॥ 0591cd

तस्मिन्क्षणे शिलीभूतवितस्तासलिले नृपैः । 0592ab
शीतक्षणेप्यसङ्क्षीणं सुखं तैरन्बभूयत ॥ 0592cd

मनसापि हि भूपाला यत्ते किञ्चिदचिन्तयन् । 0593ab
प्राप्तमेव पुरेपश्यन्वामनेन तदाहृतम् ॥ 0593cd

कौशलं मन्त्रिणस्तस्य रराजेतरदुर्लभम् । 0594ab
निमित्तं तदसम्भ्रान्तो नित्यवद्योत्यवाहयत् ॥ 0594cd

पार्थिवेष्वथ यातेषु मल्ले कार्यपराङ्मुखे । 0595ab
क्षितिपालेन कन्दर्पो द्वारं स्वीकारितः पुनः ॥ 0595cd

अभिमानधनो मन्त्री कृतारब्धिर्निजैर्धनैः । 0596ab
दुर्गं स स्वापिकं नाम युक्त्या दुर्ग्रहमग्रहीत् ॥ 0596cd

स प्रविष्टोपि नगरं खिन्नः केनापि हेतुना । 0597ab
पार्थिवाभ्यर्थ्यमानोपि कार्यं नैवाग्रहीद्यदा ॥ 0597cd

[page 127]

विश्वास-प्रस्तुतिः

तदा प्रशस्तकलशो222 नित्यं दूत्यम् समाचरन् । 0598ab
तदुत्सिक्तोक्तिसन्तप्तः संस्पृशन्नभिमानिताम् ॥ 0598cd

निजश्रियातिभूयस्या भूरीन्सङ्गृह्य शस्त्रिणः । 0599ab
तत्पदे रत्नकलशं स्वभ्रातरमकारयत् ॥ 0599cd

सोर्थैः क्रीतप्रथोप्यासीन्न223 कन्दर्पसमः224 क्वचित् । 0600ab
किं चित्रोल्लिखितः सिंहः सत्यसिंहक्रियां स्पृशेत् ॥ 0600cd

ततः क्रमेण भूभर्त्रा भृत्यरत्नं कथञ्चन । 0601ab
राजस्थानाधिकारं स नगरे ग्राहितः पुनः ॥ 0601cd

अतिताडनतश्चौरे विपन्नेथ कृपाकुलः । 0602ab
त्यक्त्वा तमप्यधीकारं विषण्नो जाह्नवीमगात्225 ॥ 0602cd

पटान्तकृतसंरोधस्ताडयित्वा करं प्रभोः । 0603ab
कोपाद्देशान्त्रं याaतस्तं प्रत्यास्ते[^0603-2] स्म मन्युमान् ॥ 0603cd

अत्यन्तखेदितोप्यासीदानीतस्यान्तिकं226 पुनः । 0604ab
दर्पं हर्तुं नृपस्तस्य सन्नद्धो न तु जीवितम् ॥ 0604cd

इत्थं पुरुषसिंहानां प्रौढदार्द्यो विदोढवान् । 0605ab
आरोहमवरोहं च सोन्तरज्ञः क्षमापतिः ॥ 0605cd

उपाङ्गगीतव्यसनं नर्तकीसङ्ग्रहादरः । 0606ab
देशान्तरोचितं राञ्जा तेनैवेह प्रवर्तितम् ॥ 0606cd

ततो जयवनोपान्ते निरन्तरमहागृहम् । 0607ab
स्वनामाङ्कं पुरं कर्तुं प्रावर्तत विशाम्पतिः ॥ 0607cd

मठाग्रहारप्रासादमहागृहपरम्पराः । 0608ab
सत्तोयोपवनास्तत्र ययुः सिद्धिम् सहस्रधा ॥ 0608cd

अत्रान्तरे राजसूनुर्हर्षः सोत्कर्षपौरुषः । 0609ab
गुणैर्लेभे प्रकाशत्वमन्यभूपालदुर्लभैः ॥ 0609cd

सोशेषदेशभाषाज्ञः सर्वभाषासु सत्कविः । 0610ab
कृत्स्नविद्यानिधिः प्राप ख्यातिं देशान्तरेष्वपि ॥ 0610cd

लुब्धेन पित्रा सन्त्यक्ता जना नानादिगागताः । 0611ab
गुणशौर्योज्ज्वलास्तेन गृहीताः कृतवेतनाः ॥ 0611cd

अपर्याप्ते पितृकृते वेतने व्ययशालिनः । 0612ab
एकाहान्तरितं तस्य भोजनं त्यागिनोभवत् ॥ 0612cd

पितरं गायन इव व्यक्तं गीतैः स रञ्जयन् । 0613ab
भर्तव्यभरणं चक्रे तद्दत्तैः पारितोषिकैः227 ॥ 0613cd

उद्गायति पुरस्तस्मिन्कदाचिदथ पार्थिवः । 0614ab
सभ्येषु प्रीयमाणेषु शौचायोत्थाय निर्ययौ ॥ 0614cd

तेन प्रसङ्गभङ्गेन जततेजोवधः सुधीः । 0615ab
क्षुभ्यन्वैलक्ष्यकोपाभ्यां228 कुमारः229 क्षितिमैक्षत ॥ 0615cd

प्रभुर्वीतक्षान्तिः सुहृदतिशठः स्त्री परुषवाक्सुतो गर्वोन्नद्धः परिजन उदात्तप्रतिवचाः । 0616ab
इयान्सोढुं शक्यो ननु हृदयदाही परिकरो न तु श्रोतावज्ञालिलितनयनान्तं परिभवन् ॥ 0616cd

पितुरेव तदा भृत्यो विश्शावट्टाभिधो विटः । 0617ab
शाधि राज्यं निहत्येमं निर्मणेवेत्युवाच तम् ॥ 0617cd

अधिक्षिपन्स तं रोषान्नानेनोक्तमसाम्प्रतम् । 0618ab
इत्यासन्नेन हसता धम्मटेनाप्यकथ्यत230 ॥ 0618cd

अग्रे भोगेच्छवश्छन्नाः कुमाराननुगान्पितुः । 0619ab
स्नेहं प्रदर्श्य स्वीकुर्युर्वेश्याः कामिसखीरिव[^0619-2] ॥ 0619cd

पुनः सभां सम्प्रविष्टस्तं पिता पर्यतोषयत् । 0620ab
प्रीतिदायैस्ततस्तैस्तैः साधुवादैश्च मानिनाम् ॥ 0620cd

अन्येद्युस्तु पितुः पार्श्वात्स भुक्त्वा स्वगृहान्गतः । 0621ab
अभ्येत्य विश्शावट्टेन तदेव जगदे रहः ॥ 0621cd

उपपन्नं तत्तदुक्त्वा तेचाभीक्ष्णं निषेधता । 0622ab
निर्बध्नन्नपि हस्तेन सोथ कोपादताद्यत ॥ 0622cd

लग्नाभिघातं रुधिरं वमन्तं घ्राणवर्मना । 0623ab
तं वीक्ष्य सोभिजातोभूत्सदाक्षिण्यो नृपात्मजः ॥ 0623cd

भृत्यैः प्रक्षालयन्नस्रम् तस्येदृक्पाप्मनो भवेत् । 0624ab
उक्तेनापीति कथयन्स्मित्वा वासांस्यदापयत् ॥ 0624cd

[page 128]

विश्वास-प्रस्तुतिः

अनिच्छोरपि तस्येच्छा दानात्तेनान्वमीयत । 0625ab
दुःशीलेनानुकामिन्याः231 स्मितमात्रादिव स्पृहा ॥ 0625cd

असकृत्कृतयत्नः स ततः कालेन भूयसा । 0626ab
तं प्रैरयत्तत्र कृत्ये मध्ये स्वीकृत्य धम्मटम् ॥ 0626cd

स रोदद्द्रोहसङ्कल्पजन्मना पाप्मन श्रितः । 0627ab
सम्मन्त्र्य पितरं232 हन्तुं तीक्ष्णान्प्रायुङ्क्त सर्वतः ॥ 0627cd

शश्वत्स गोचरीभूतस्तेषां स्नेहलवस्पृशाम् । 0628ab
न घातितः सूनुना च वर्जिता न च तत्कथा ॥ 0628cd

आप्तत्वं तीक्ष्णवर्गेथ प्रतिभेदभयाद्गते । 0629ab
तां विश्शावट्ट एवाशु वार्तां राज्ञे व्यवेदयत् ॥ 0629cd

बुद्धवान्राजपुत्रस्तत्तस्मिन्नहनि[^0630-1] जातभीः । 0630ab
भोक्तुं नागात्पितुः पार्श्वमपि दूतैः कृतार्थनः ॥ 0630cd

सोपि तस्मिन्ननायाते तत्रार्थे शान्तसंशयः233 । 0631ab
दिने तत्र मनस्तापान्नाभुङ्क्त सपरिच्छदः ॥ 0631cd

सभ्रातृकस्य प्राप्तस्य प्रातर्दुःखं न्यवेदयत् । 0632ab
सुचिरं थक्कनस्याङ्के शिरो विन्यस्य सोरुदत् ॥ 0632cd

उक्त्वा च धम्मटोदन्तं234 बद्ध्वा235 तस्य समर्पणम् । 0633ab
विधेहित्यभ्यधान्नापि तं भङ्गीभणितिक्रमैः ॥ 0633cd

न कृताधिगमाaवावां कृत्यस्यास्येत्युदीर्य तम् । 0634ab
अभाषेतां भ्रातुरर्थे236 पुनस्तन्वङ्गनन्दनौ ॥ 0634cd

त्वत्प्रसादबलाद्राजश्चापन्नत्राणदीक्षितौ । 0635ab
यावावां तत्प्रवेशार्थं237 व्यक्तद्वारं निशास्वपि ॥ 0635cd

कथं न्बु पृथिवीपाल प्राप्ते प्राणात्ययक्षणे । 0636ab
निर्दोषो वा सदोषो वा ताभ्यां सन्त्यज्यतेनुजः ॥ युगलकम्॥ 0636cd

स्वामिद्रोहापवादश्च भवेत्तद्रक्षणाद्भुवम् । 0637ab
देशत्यागं तदुत्सृज्य शरणं नान्यदावयोः ॥ 0637cd

इत्यादि सम्भाव्य तयोः पादन्यस्तोत्तमाङ्गयोः । 0638ab
रुदित्वा गमनानुज्ञां कथञ्चित्पार्थिवो ददौ ॥ 0638cd

पथि कश्चिदमुं हन्यान्मध्यीकृत्येति धम्मतम्238 । 0639ab
तौ विनिर्जन्तुर्देशात्ततः सबलवाहनौ ॥ 0639cd

तन्वङ्गजेषु यातेषु विविक्तीकृतमन्दिरः । 0640ab
सुतमानीय नृपतिः सान्त्वयन्निदमब्रवीत् ॥ 0640cd

आसंसारं जगत्यस्मिन्सर्वतः ख्यातकीर्तिना । 0641ab
जनकेनैव जन्यस्य239 ज्ञप्तिरुत्पाद्यते जनैः । 0641cd

पुत्र शीतांशुनेवात्रिं दिग्द्वीपाख्यातकारितिना ॥ 0642ab
भवता तु सुपुत्रेण मां जानात्यखिलो जनः ॥ 0642cd

स त्वं गुणवतामग्र्यो निरर्गलयशा भवन् । 0643ab
असाधुसेव्यमध्वानं वद कस्मान्निषेवसे ॥ 0643cd

पैतामहं240 निजं चार्थं यन्न तुभ्यं समार्पयम्241 । 0644ab
तत्र हेतुमनाकर्ण्य नासूयां कर्तुमर्हसि ॥ 0644cd

रिक्तः स्वेभ्यः परेभ्यश्च प्राप्नोत्यभिभवं नृपः । 0645ab
इति निर्धाय हि मया क्रियते कोशरक्षणम् ॥ 0645cd

पुरप्रतिष्ठां निष्पाद्य क्षिप्त्वा राज्यधुरं त्वयि । 0646ab
वाराणस्यां गमिष्यामि नन्दिक्षेत्रेणेथ वा पुनः242 ॥ 0646cd

तद्राज्यकोशयोः स्वामी बुभूषुर्न चिराद्भवान् । 0647ab
अतितात्पर्यतः कस्मादनार्योचितमीहसे ॥ 0647cd

सम्भावयते त्वयि न तद्यन्ममावेदितं खलैः । 0648ab
यथार्थकथनात्तस्मात्कौलीनं विनिवार्यताम् ॥ 0648cd

विशुद्धये करोत्वेष स्वकृतस्याप्रतिश्रवम् । 0649ab
स्नेहादितीच्छंस्तद्राजा साभिप्रायं वचोभ्यधात् ॥ 0649cd

अपलापवचोमात्रं निनीषुस्तस्य हेतुताम् । 0650ab
जनप्रत्यायने सोभूद्यस्मात्क्षान्तिसमुत्सुकः ॥ 0650cd

हर्षस्तु साधुवादैस्तत्पितुः सम्पूज्य भाषितम् । 0651ab
वक्ष्याम्याप्तमुखे तत्त्वमित्युक्त्वा निर्ययौ बहिः ॥ 0651cd

सामान्यप्रेरणादेषा चिकीर्षाभूदिति ब्रुवन् । 0652ab
स पितृप्रहितं दूतं ह्रीतः स्वावसथं243 ययौ ॥ 0652cd

[page 129]

विश्वास-प्रस्तुतिः

दूतं म्लानाननं वीक्ष्य पाणिभ्यां ताडयञ्शिरः । 0653ab
हा पुत्रेति वदन्नाजा तस्यास्कन्दमदापयत् ॥ 0653cd

हतेस्मिन्स्वशिरश्छिन्द्याaमिति प्रोक्तवतः प्रभोः । 0654ab
निदेशाद्वेष्टयित्वैव तस्थुस्तद्वेश्म शास्त्रिणः ॥ 0654cd

तीक्ष्णास्तु पिहितद्वाराः परिवार्य नृपात्मजम् । 0655ab
ऊचुः सुपरुषं वाचमेवं निश्चितमृत्यवः[^0655-2] ॥ 0655cd

अस्मान्घृणी प्रमादी च विरुद्धं छद्म कारयन् । 0656ab
घातयित्वा दुरचार क्व जीवन्स्थातुमिच्छसि ॥ 0656cd

रक्षिष्यति सुतं स त्वाम् स पिता रक्षितस्त्वया । 0657ab
ज्ञातेयं युवयोरस्ति वयमेव हताः पुनः ॥ 0657cd

युध्यस्व मध्यगोस्माकं त्वां निहन्मोन्यथा वयम् । 0658ab
एवं सर्वपकारं ते व्यक्तं नास्त्येव जीवितम् ॥ 0658cd

तां वार्तां भूपतेः श्रुत्वा व्याकुलस्याग्रतः स्थितः । 0659ab
हर्षान्तिकं दण्डकाख्यः प्रायान्निजमहत्तरः ॥ 0659cd

तीक्ष्णैर्निजतया दत्तप्रवेशः स नृपात्मजम् । 0660ab
प्रसृत्योवाच मतिमानेवं सर्वान्विमोहयन् ॥ 0660cd

क्षत्रियापुत्र जीवित्वा कल्पानल्पेतरानपि । 0661ab
कारणैरपि244 गन्तव्यं नियमान्नियतेर्वशम् ॥ 0661cd

तदेतस्मिन्समासन्ने मरणेव्यभिचारिणि । 0662ab
यदर्थं गृह्यते शस्त्रं स मानः पाल्यतां त्वया ॥ 0662cd

कृतश्रुतः ख्यातयशा युवा सुक्षत्रियो भवान् । 0663ab
तदाहवविलम्बेन कार्यं किमिव पश्यसि ॥ 0663cd

एतेषु सुसहायेषु मयि चाग्रेसरेधुना । 0664ab
विपत्तिर्विजयो वापि प्रतापिंस्तव शोभते ॥ 0664cd

उत्तिष्ठ नखकोशाaदियोजनं कारय द्रुतम् । 0665ab
वीरपट्टं बधानापि स्वःस्त्रीपरिणयस्रजम् ॥ 0665cd

इत्युक्त्वा क्षुरकर्मार्थं राजपुत्रं सनापितम् । 0666ab
प्रावेशयत्पूज्यमानस्तीक्ष्णैराभ्यन्तरं गृहम् ॥ 0666cd

न्यस्तासिधेनुर्हर्षेण दत्तझम्पः क्षणात्स्वयम् । 0667ab
पश्चात्प्रविश्य245 तद्वेश्म चक्रे सुनिहितार्गलम् ॥ 0667cd

ततः स राजस्थानीयं तमारादब्रवीद्वचः । 0668ab
रक्षितो राजपुत्रोयं क्रियतां स्वोचितं त्वया ॥ 0668cd

भूतग्रहादिभवमोषधिभिर्विरोधिजातं बलैः प्रहरणभवं तनुत्रैः । 0669ab
निर्वाप्यते प्रतिभयं पृथिवीपतीनां सार्वत्रिकं तु रभसाद्भुवि बुद्धिवृद्धैः ॥ 0669cd

नदन्तस्तुमुलं योधास्ततो राजसुतास्पदे । 0670ab
आरोढुमाययुर्वप्रहर्मादि प्रविवेशवः ॥ 0670cd

तीक्ष्णा दृढद्वारगृहस्थितं त्यक्त्वा नृपात्मजम् । 0671ab
यावन्निर्गन्तुमिच्छन्ति हन्यमाना युयुत्सवः ॥ 0671cd

द्वित्राः प्रसङ्गसान्निध्यान्मध्यपातं समाश्रिताः । 0672ab
तावद्विनिर्ययुर्वीरा निर्द्रोहा अभिमानिनः ॥ 0672cd

ते निर्याताः सूर्यमतीगौरीशाश्रयिणो गृहात् । 0673ab
सदाशिवान्तिकं प्रापुर्घ्नन्तो युधि विरोधिनः ॥ 0673cd

रक्ष्यमाणोपि भूर्भर्तुर्गिरा ज्ञातेयशालिनः । 0674ab
राजज्ञातिर्हतस्तेषु प्रथमं सहजाभिधः ॥ 0674cd

द्विजस्तिव्याभिधो वीरः पण्डितः शौर्यमण्डितः । 0675ab
रामदेवश्च केशी246 च कर्णाटोरिभटैर्हतः ॥ 0675cd

केचित्त्यजन्तः शस्त्राणि स्वं घ्नन्तः केपि च स्वयम् । 0676ab
लेभिरे बधबन्धादि पापाः कापुरुषोचितम् ॥ 0676cd

सितषष्ठ्यां सहस्यस्य चतुःषष्ठे स वत्सरे । 0677ab
वैरं नीत्वा पितापुत्रौ विप्लवः कारितो विटैः ॥ 0677cd

हट्यत्यागासक्तिः प्रिययुवतिसम्प्रेरणवचः खलासङ्गः पूर्वप्रणयपरिहारो जनयितुः । 0678ab
अमात्येन भ्रात्रा सममपरमात्राथ कलहः कुमाराणां बुद्धिं पितरि विपरीतां प्रतनुते ॥ 0678cd

एवं स खलसङ्गत्या कुमारो लब्धलाघवः । 0679ab
बन्धं कारागृहे प्रापदसुखानि सुकोचितः ॥ 0679cd

[page 130]

विश्वास-प्रस्तुतिः

राज्ञीं भुवनमत्यस्मिन्बद्धे माध्यस्थ्यसंविदि247 । 0680ab
स्थापिता मानिनी कण्ठच्छेदं कृत्वा जहावसून् ॥ 0680cd

रक्षिणो मन्त्रिणामाप्तांस्तस्य विन्यस्य भूपतिः । 0681ab
प्राहिणोदुचितान्भोगान्सुतस्नेहाद्दिने दिने ॥ 0681cd

चक्रिकायामशक्तोयमिति सञ्चिन्त्य भूभुजा । 0682ab
भृत्यः प्रयागनामास्य निजः पार्श्वान्न वारितः ॥ 0682cd

नोनको हर्षमुद्दिश्य स्वेनान्यैश्च महीभुजम् । 0683ab
जीवितं लोचने वास्य कृष्येतामित्यभाषत ॥ 0683cd

नृपः स शीलवैकल्ये पशुतुल्ये ह्रियं त्यजन् । 0684ab
रिपोरिव तनूजस्य चक्रमे कतिचित्प्रियाः ॥ 0684cd

तासु श्वशुरवाल्लभ्यमवाप्य सुगलाभिधा । 0685ab
बभूव तुक्कभूभर्तृनप्त्री[^0685-1] भर्तृवधार्थिनी ॥ 0685cd

सम्मन्त्र्य नोन्कः सा च द्वौ सूदावशनान्तरे । 0686ab
रसं248 प्रदातुं हर्षस्य पापं प्रैयतां ततः ॥ 0686cd

अन्यसूदमुखाद्वार्तां प्रयागस्तामवाप्तवान् । 0687ab
प्रभुं तद्दाप्यमानान्नपरिहारमकारयत् ॥ 0687cd

तेनान्नेन249 परीक्षार्थं दापितेनापजीवितौ । 0688ab
हर्षः सर्वाणि भोज्यानि स्पृष्ट्वैवौज्झीद्दिने दिने ॥ 0688cd

प्रयागोपहतेनासीत्परं बाह्येन स तां विदन् । 0689ab
ततः प्रयागमानीय तत्र पप्रच्छ कारणम् ॥ 0689cd

प्रयोजकौ च सूदौ च सोपलभ्य न्यवेदयत् । 0690ab
भोज्येन येन केनापि कुर्वञ्जीवितधारणम् ॥ 0690cd

अन्नस्याभोजनं श्रुत्वा राजा सूदैर्निवेदितम् । 0691ab
रसार्पणकथां कृत्स्नां तज्ज्ञानं च स्वयं प्रभोः ॥ 0691cd

प्रयोजकौ च सूदौ च सोपलभ्य न्यवेदयत् । 0692ab
रसार्पणकथां कृत्स्नां तज्ञानं च स्वयं प्रभोः ॥ 0692cd

अथान्येष्वपि सूदेषु पित्रा दत्तेषु शङ्कितः । 0693ab
राजसूनुर्न बुभुजे प्रयागोपहृतं विना ॥ 0693cd

स सर्वेषु विरुद्धेषु यद्ययत्तत्रात्यवाहयत् । 0694ab
मेने तत्तद्दिनं लब्धं शेषेष्वास्थापराङ्मुखः ॥ 0694cd

अत्रान्तरे समुदभूदकस्मान्नाशसूचकः । 0695ab
अदृष्टपूर्वो भूभर्तुः सदाचारविपर्ययः ॥ 0695cd

उत्पाद्य ताम्रस्वाम्याख्यं पूर्वं ताम्रमयं रविम् । 0696ab
स रीतिप्रतिमाः स्वैरं विहारेभ्योप्यपाहरत् ॥ 0696cd

धनानि निरपत्यानामाहर्तुं व्यवसायिना । 0697ab
न्यवार्यतार्यमर्यादा क्रौर्याक्रान्तेन भूभुजा ॥ 0697cd

ततोतिशापसन्तापव्यञ्जकेनाञ्जसाभवत् । 0698ab
अतिसम्भोगजातेन धातुक्षैण्येन सोर्दितः ॥ 0698cd

कुम्भप्रतिष्ठासम्भारं चिकीर्षोर्हरमन्दिरे । 0699ab
तस्यापतन्महाकालकुम्भे नासापुताययौ ॥ 0699cd

आकस्मिकं दुर्निमित्तं तत्प्रतीकारसंविदा । 0700ab
न मनागप्यगाच्छान्तिं प्रवृद्धिं प्रत्युपायौ ॥ 0700cd

अस्रस्रुत्यनुबन्धेन250 तेन ग्पलितसौष्ठवः । 0701ab
शनैः शय्याप्रणयितामन्तः स प्रत्यपद्यत ॥ 0701cd

बलमांसकृतक्षैण्यमग्निमान्द्याद्युपद्रवैः । 0702ab
कलाशेषेण शशिना तद्वपुः साम्यमाययौ ॥ 0702cd

राज्यं स दित्सुर्हर्षाय द्ष्ट्वामात्यान्पराङ्मुखान् । 0703ab
ततोभिषेकमौत्कर्षमानिन्ये लोहराचलात् ॥ 0703cd

उच्चावचास्तेन सर्वे संविभक्ता मुमूर्षुणा । 0704ab
परमीर्ष्याविधेयेन न शुद्धान्तवधूजनः ॥ 0704cd

कृत्वा धनार्पणं कुर्यां देशादस्य प्रवासनम् । 0705ab
इत्युक्त्वा हर्षमानेतुं तेनाप्रार्थ्यन्त मन्त्रिणः ॥ 0705cd

ते तु गोप्तॄन्निवार्याद्यांष्ठक्कुराल्लोहराश्रितान्251 । 0706ab
विन्यस्य रक्षिभावे तमुत्कर्षाय न्यवेदयन् ॥ 0706cd

स नाद्यमण्डपात्तेन निकृष्टः क्षामविग्रहः । 0707ab
निवेशितश्चतुःस्तम्भे बद्ध्वा बान्धववर्जितः ॥ 0707cd

अथोज्जिगमिषून्प्राणान्निःसामर्थ्यो252 विदन्नृपः । 0708ab
मुमूर्षुरभवत्तीर्थस्थानाय कृतत्वरः ॥ 0708cd

[page 131]

विश्वास-प्रस्तुतिः

स जानन्दैवकक्रोधं तम्रस्वामिविपाटनात् । 0709ab
इयेष शरणं कर्तुं मार्ताण्डं प्राणलब्धये ॥ 0709cd

सन्त्यज्य विजयक्षेत्रमत एवापवर्गदम् । 0710ab
महीश्वरोपो प्रययौ तत्र त्रासवशंशवदः ॥ 0710cd

अधीकारप्राप्त्या तृणमिव विदन्विश्वमखिलं नियोगी जातार्तिर्नमति गृहदासीरपि रुदन् । 0711ab
नदन्मूर्खो ज्ञानी बहुदुरुपदेशाधिगमतः253 करोति प्राणान्ते शिशुरिव च किं किं न विगुणम् ॥ 0711cd

तादृश्या कृपणप्रायसेव्यया क्लैव्यसंविदा । 0712ab
गुरूपदेशाहङ्कारस्तस्य हास्यत्वमाययौ ॥ 0712cd

शुक्लायां मार्गशीर्षय तृतीयस्यां निशामुखे । 0713ab
तलादेवाश्रितो युग्यं भूभृन्मर्तुं विनिर्ययौ ॥ 0713cd

स भेरीतूर्यनिर्घोषैर्जनाक्रन्दं तिरोदधत् । 0714ab
सामान्यान्तःपुरो नौभिः प्रतस्थे जलवर्त्मना ॥ 0714cd

यामशेषे दिनेन्द्यस्मिन्प्राप्तस्य चरणान्तिके । 0715ab
मार्ताण्डस्य स्वजीवाप्त्यै सौवर्णीं प्रतिमां व्यधात् ॥ 0715cd

भृत्यैरगणिताज्ञस्य द्दृक्षोर्ज्येष्टमात्मजम् । 0716ab
औत्सुक्येनारतिस्तस्य व्यथितस्याधिकाभवत् ॥ 0716cd

बहिर्हर्षकृतं गीतं गायनानां स गायताम् । 0717ab
विवृतद्वारविवरः शृणोति स्म विनिःश्वसन् ॥ 0717cd

प्राणावसानसमये परिसङ्कुचन्ती स्वप्नप्रसङ्ग इव धावनशक्तिराज्ञा । 0718ab
प्राचुर्यदा खलु रुजो मरणोद्भवाया मर्मव्यथां प्रथयते पृथिवीपतीनाम् ॥ 0718cd

प्रजाज्येष्ठं तनूजं च संविभक्तुं कृतार्थनः । 0719ab
उत्कर्षं ग्राहयञ्शिक्षां बद्धजिह्वोभवत्ततः ॥ 0719cd

अव्यक्तं वदतो हर्ष इति वाचं पुनः पुनः । 0720ab
निह्नोतुं नोनको भावं तस्यादर्शमढौकयत्254 ॥ 0720cd

स तन्निवार्य विहसन्दष्टौष्ठः कम्पयञ्शिरः । 0721ab
जपन्किमपि सार्धे द्वे बद्धवागभवद्दिने ॥ 0721cd

आसन्नप्राणनिर्याणः सञ्ज्ञयाहूय मन्त्रिणः । 0722ab
ततः स्वं तैरसमूढैर्मार्ताण्डाग्रमनाययत् ॥ 0722cd

वर्षानेकान्नपञ्चाशद्भुक्तवान्स सितेहनि । 0723ab
मार्गस्य पञ्चषष्टेब्दे षष्ठ्यां निष्ठामथासदत् ॥ 0723cd

सप्त मम्मनिकामुख्या देव्यः परिणयाहृताः । 0724ab
अवरुद्धापि255 जयमित्यभिधाना तमन्वगुः ॥ 0724cd

प्रसादवित्तया तस्य पुनः कय्याभिधानया । 0725ab
अवरुद्धिकया कृत्स्ना स्त्रीजातिरपवित्रिता ॥ 0725cd

सर्वावरोधप्राधान्यप्रदानं नास्मरद्यदि । 0726ab
मा स्मार्षीन्नाम भर्तुस्तदनुच्चाभिजनोद्भवा ॥ 0726cd

संश्रित्य विजयक्षेत्रं क्रमाद्ग्रामनियोगिनः । 0727ab
भेजे यत्त्ववरुद्धात्वमतो दुःखाकरोति नः ॥ 0727cd

भूपालभोग्यं स्ववपुः सा भोगाभ्यासभासुरम् । 0728ab
निनाय ग्राम्यभोग्यत्वं धिङ्नारीनीचचेतसः ॥ 0728cd

उत्कर्षस्याभिषेकाय व्यग्रेष्वखिलमन्त्रिषु । 0729ab
अन्त्येष्टिमकरोद्राज्ञः256 कृतज्ञो वामनः परम् ॥ 0729cd

घोषोभिषेकतूर्याणामेकतो गीतमङ्गलः । 0730ab
साक्रन्दः प्रेततूर्याणां नादोन्यत्र समुद्ययौ ॥ 0730cd

जातः पद्मश्रियो देव्याः पुत्रः कलशभूभुजा । 0731ab
ततो विजयमल्लाख्यो257 भ्रातुर्वैमत्यमादधे ॥ 0731cd

यददाद्धर्षदेवस्य पिता प्रत्यहवेतनम् । 0732ab
प्रतिशुश्राव तस्मै स तदेवोत्कर्षभूपतिः258 ॥ 0732cd

आश्वासाय च मध्यस्थान्ददौ सामान्तमन्त्रिणः । 0733ab
कय्यात्मजस्य चक्रे च जयराजस्य वेतनम् ॥ 0733cd

अन्विष्यन्ति रुदत्य एव तरला गत्यन्तरं योषितो योगक्षेमकथां चितान्तिकगता एवात्मजाः कुर्वते । 0734ab
अन्येषां शतशोवसानसमये चर्वां विचार्येदृशीम् स्त्रीपुत्रादिकृते कुकर्मभिरहो सन्निन्वतेर्थं जडाः ॥ 0734cd

[page 132]

विश्वास-प्रस्तुतिः

पर्विवेश ततः श्रीमान्नगरं नृपतिर्नवः । 0735ab
न तु हर्षोदयाकाङ्क्षि हृदयं नगरौकसाम् ॥ 0735cd

तद्राज्यलाभदिवसो जनस्याभोगदूषितः । 0736ab
सन्नपि प्रत्यभान्नैव स रोगार्तेरिवोत्सवः ॥ 0736cd

हर्षदेवस्तु पितरि प्रयाते भर्तुमातुरे । 0737ab
नवबद्धश्चतुःस्तम्भे न तस्मिन्नह्नि259 भुक्तवान् ॥ 0737cd

सार्थभ्रष्टमिवाध्वन्यमन्यस्मिन्नह्नि ठक्कुराः । 0738ab
ते शोकमूकं सम्प्रार्थ्य कथञ्चित्तमभोजयन् ॥ 0738cd

राज्यं दातुं निजे देशे चक्रुश्चास्य प्रतिश्रवम् । 0739ab
राज्यद्वयं नायमर्हत्येक एवेति वादिनः ॥ 0739cd

एवं मिलितचित्तस्तैर्विपत्तिं श्रुतवान्पितुः । 0740ab
कृतोपवासः सोन्येद्युः शुश्रावोत्कर्षमागतम् ॥ 0740cd

बाष्पैः पित्रे प्रयच्छन्तं निर्वापसलिलाञ्जलीन् । 0741ab
तं दूतैरनुजो राजा स्नातुं प्रार्थयताथ सः ॥ 0741cd

तस्य स्नानक्षणे राज्ञि सज्जे राज्याभिषेचने । 0742ab
घोषोभिषेकतूर्याणामुदभूत्सजयध्वनिः ॥ 0742cd

स तेन सुनिमित्तेन प्राप्तां मेने निमित्तवित् । 0743ab
विद्युद्द्योतेन जीमूतगर्जामिव नृपश्रियम् ॥ 0743cd

ततः प्रभृत्युन्मुखता सुनिमित्तैरगृह्यत । 0744ab
तस्यात्यासन्नराज्यस्य भृत्यैरिव दिने दिने ॥ 0744cd

स भोजनं कारयितुं दूतान्भ्रात्रा विसर्जितान् । 0745ab
देशान्निर्वासयतु मां राजा[^0745-1] सन्त्यज्य बन्धनात् ॥ 0745cd

स्थातुमप्रत्यवस्थित्या260 विदध्यां कोशसंविदम् । 0746ab
म्रियेन्यथा निरशनैः सन्दिश्येति व्यसर्जयत् ॥ 0746cd

स तन्मिथ्या प्रतिश्रुत्य तं दूतैः प्रहितैस्ततः । 0747ab
कृतकोशं सान्त्वयित्वा राजा भोज्यमभोजयत् ॥ 0747cd

नित्यं च श्वो विधास्ये तदर्थ्यमान261 इति ब्रुवन् । 0748ab
कालापहारं कुर्वाणः शङ्कां तस्योदपादयत् ॥ 0748cd

विश्वासाय स्वताडङ्कपाणिं262 कृत्वा प्रयागकम् । 0749ab
पार्श्वं विजयमल्लस्य सोथ गूढं व्यवसर्जयत् ॥ 0749cd

तदेवोक्त्वा तमूचे स त्वां ब्रूते दुःस्थितोग्रजः । 0750ab
कुमारे त्वयि राज्येस्मिञ्शुच्यामो बन्धने वयम् ॥ 0750cd

सङ्क्रान्तदुःखं सञ्चिन्त्य चिरेणापि तमब्रवीत् । 0751ab
कार्यं कुर्यात्कथमिदं मद्गिरा नीतिमान्नृपः ॥ 0751cd

तथाप्यस्मिन्यथाशक्ति यतिष्ये त्वद्विमोक्षणे । 0752ab
त्वया तु सावधानेन रक्षणीयं स्वजीवितम् ॥ 0752cd

तं पार्श्वं हर्षदेवस्य सन्दिश्येति व्यसर्जयत् । 0753ab
उपायांश्चिन्तयन्नासीत्तस्य कार्यस्य सिद्धये ॥ 0753cd

उत्कर्षः प्राप्तराज्यस्तु दैवतैरिव मोहितः । 0754ab
नादधे किञ्चिदारम्भं व्यवस्थाग्रथनक्षमम् ॥ 0754cd

समर्पिताधिकारोपि कन्दर्पादीन्स मन्त्रिणः । 0755ab
राज्यकृत्यं न पप्रच्छ विदधे स च न स्वयम् ॥ 0755cd

परिमातुं परीमाणं कोशसञ्चयवीक्षणे । 0756ab
परं क्षमापतेस्तस्य दिनकूत्यमजायत ॥ 0756cd

कर्मणा निर्व्ययेनास्य चिन्त्यमानस्य येन वा263 । 0757ab
सुदीर्घदर्शी लोकोभूत्तेन लुब्धत्वनिश्चयी ॥ 0757cd

सा तस्य लुब्धताख्यातिः समुद्गान्नप्रदायिनः । 0758ab
भूभर्तुः पितृपत्नीभिः स्वैरिणीभिः प्रवर्धिता ॥ 0758cd

स श्रोत्रिय इवोत्कम्पी264 व्यवहारमिताशयः । 0759ab
महाहृदयभोग्यानां प्रजानां नाभवत्प्रियः ॥ 0759cd

ततो नियमितां वृत्तिं तस्माल्लुब्धादनाप्नुवन् । 0760ab
कुप्यन्विजयमल्लोभूद्देशान्गन्तुं कृतोद्यमः ॥ 0760cd

स्वं रक्षितुं स मध्यस्थाननुव्रज्याकृतेखिलान् । 0761ab
प्रार्थयामास तेनापि265 सज्जास्तमनुवव्रजुः ॥ 0761cd

लवणोत्से निशामेकां पुरान्निर्गत्य तस्थुषः । 0762ab
मध्यस्थसैन्यास्तस्यैव266267 योधाः पक्षमशिश्रयम् ॥ 0762cd

[page 133]

विश्वास-प्रस्तुतिः

हर्षे बद्धे त्वयि गते कृतकृत्यो भवेन्नृपः । 0763ab
तत्तं निष्कृष्य काराया गमनं तव साम्प्रतम् ॥ 0763cd

इति तैः प्रेर्यमाणः स राजसूनुरुदायुधैः । 0764ab
विनिवृत्याकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ 0764cd

श्रुत्वा चिकीर्षितं तस्य व्यावृत्तस्य तथाविधम् । 0765ab
सहायाः समपद्यन्त कतिचिड्डामरा अपि ॥ 0765cd

अकरोन्मधुरावट्टो हयसेनापतिः सुतम् । 0766ab
राजसूनुर्यियासुर्यं मध्यस्थाननुयात्रिकम् ॥ 0766cd

नागाह्वयो द्रोहहीनो राजपक्षमसन्त्यजन् । 0767ab
कैश्चित्सह हयारोहैः स पद्मपुरवत्मना ॥ 0767cd

आगच्छन्नन्तिकं राज्ञो दुर्निमित्तहृतत्वरः । 0768ab
न यावन्नगरं प्राप क्षिप्रकारी नृपात्मजः ॥ 0768cd

शकुनैराहितोत्साहः शालाग्रोद्दीपिताग्निभिः । 0769ab
सैन्यैर्गृहान्दहंस्तावद्राजधानीमवेष्टयत् ॥ चक्कलकम्॥ 0769cd

समयाय विनिर्यातं त्यक्त्वोत्कर्षं268 महीभुजम् । 0770ab
तत्पक्षं जयराजोपि राजसूनुरशिश्रियत् ॥ 0770cd

हस्तस्थितौ राजपुत्रौ तस्याचिन्तयतां गतिम् । 0771ab
नवौ कवी व्यवहृतिं सिद्धवाचः कवेरिव ॥ 0771cd

हर्षदेवे परित्यक्ते यास्याम इति वादिनः । 0772ab
स हस्तिमहिषादीनां शालाः सैन्यैरदाहयत् ॥ 0772cd

त्यागप्रलयजीमूतो हर्षदेवोभिष्य्च्यताम् । 0773ab
लुब्धः खशो वणिक्प्रायो राज्यादेष निवार्यताम् ॥ 0773cd

एवं वदन्तः सन्तोपि हर्षमेत्य पुरौकसः । 0774ab
पुष्पैः प्राच्छादयन्बद्धं तमोरिविवरार्पितैः ॥ 0774cd

उत्पिञ्जे तत्र सञ्जाते भग्नसैन्यस्य भूपतेः । 0775ab
सम्प्रेष्य ठक्कुरान्हर्षस्तटस्थं तद्बलं व्यधात् ॥ 0775cd

इत्थं बद्धोपि तत्कृत्वा वैरिकार्यविरोधिनः269269 । 0776ab
सन्देहवेपमानाङ्गस्ततस्तानेवमब्रवीत् ॥ 0776cd

वर्तेद्य सङ्कटे दुष्टे तन्मां मुञ्चत बन्धनात् । 0777ab
न चेदाशु महीपालादनिष्टं नियमाद्भवेत् ॥ 0777cd

इत्युच्यमानास्ते यावद्विमृशन्ति स्म तन्मुहुः । 0778ab
पादप्रहारा न्यपतंस्तावद्द्वारगृहाद्बहिः ॥ 0778cd

उच्चचार स किम् द्रोहः प्रक्रान्तोयं दुराशयैः । 0779ab
रे ठक्कुरा विवृणुत द्वारमित्युच्चकैर्वचः ॥ 0779cd

ठक्कुरेष्वथ भीतेषु धैर्यादगणयन्भयम् । 0780ab
अकारयद्घर्षदेव एव द्वारमपावृतम् ॥ 0780cd

तेत्रमात्रस्थितप्राणो ददर्श विशतस्ततः । 0781ab
लौहराञ्शस्त्रिणो हन्तुं प्राप्तान्षोडश वारिकान्270 ॥ 0781cd

ते हि छित्त्वोज्झिते हर्षशीर्षे सर्वमिदं क्षणात् । 0782ab
शाम्येदिह भयं मन्त्रं नोनकस्येति जल्पतः ॥ 0782cd

उत्कर्षेणासकृच्छ्रुत्वा तं निहन्तुं विसर्जिताः । 0783ab
विमृश्य चोक्त्वा गच्छन्तः कार्यशेषं विमुञ्चता ॥ 0783cd

कदाचित्तेन कृत्यं स्यादहतेनेति तत्क्षणम् । 0784ab
निवार्य ठक्कुरान्रक्ष्यो हन्तव्यश्च यदोर्मिकाम् ॥ 0784cd

इमां दद्यामभिज्ञानं यदा चेयं विसृज्यते । 0785ab
तदा तु बन्धनात्त्याज्य इत्युदीर्याङ्गुलीयकम् ॥ 0785cd

पाणौ दर्शयता चोक्ता विलम्बालम्बनं यतः । 0786ab
निवार्य ठक्कुरांस्तस्मिन्क्षिप्रं न प्राहरंस्ततः ॥ कुलकम्॥ 0786cd

स तु प्रत्येकमाहूय नामग्रहणपूर्वकम् । 0787ab
अजिग्रहत्तांस्ताम्बूलमप्युपावेशयत्पुरः ॥ 0787cd

जहुस्ते कृतसत्कारास्ताम्बूलग्रहणक्षणे । 0788ab
ह्रीताः कराग्राच्छस्त्राणि प्रजिहीर्षां च मानसात् ॥ 0788cd

धत्ते श्रियं सृजति कीर्तिमघं लुनीते मित्रत्वमानयति हन्त विरोधिनोपि । 0789ab
यात्यध्वभिः प्रतिपदं सुमनोनुकूलैर्गौः कामधुक्कमिव नापहरत्यनर्थम् ॥ 0789cd

राजपुत्रः स तानूचे किं ह्रीता इव तिष्ठथ । 0790ab
निर्दोषाः सर्वथा प्रेष्याः स्वाम्यादेशानुपालने ॥ 0790cd

[page 134]

विश्वास-प्रस्तुतिः

विलम्ब्यतां तथाप्यत्र द्रष्टव्यं महदद्भुतम्[^0791-1] । 0791ab
यथोदेष्यत्यवस्थानामन्यथात्वं[^0791-3] क्षणे क्षणे ॥ 0791cd

द्विपद्वीपिक्रव्यादुरगतुरगादिप्रभकृतो यथास्यां भिद्यन्ते दिवि किल त एवाम्बुदलवाः । 0792ab
तथा सौम्यक्रूरक्रमविकृतिभाजस्तनुभृतां क्षणानां नानात्वान्ननु हृदि विकारोर्मय इमाः ॥ 0792cd

क्षणानुवृत्तिं कुर्वाणास्तद्यथात्र स्थिता वयम् । 0793ab
तथा सन्तु भवन्तोपि कार्यान्तरदिदृक्षवः ॥ 0793cd

अपि चैवंविधा एव वितन्वन्तो रसान्तरम् । 0794ab
आसन्नराज्यप्राप्तीनां राज्ञां स्युह् प्राणसंशयाः ॥ 0794cd

ग्रीष्मस्योष्मा व्रजति घनतां नूनमासन्नवृष्टेर्नैशं गाढीभवति तिमिरं सन्निकृष्टप्रभातम्271 । 0795ab
जन्तोरेवं प्रसभविभवस्फारसम्पत्प्रचारान्निष्क्रामन्ती विपदुपचितोपद्रवोद्रेकमेति ॥ 0795cd

प्राणचारेण शकुनं निश्चित्येति वदन्सताम् । 0796ab
आचचक्षे शुभोदर्काः272 स्वोदन्तसदृशीः कथाः ॥ 0796cd

कालं क्षेप्तुमुपन्यस्तशुद्धिव्यक्तीभवद्रसाम् । 0797ab
तेभ्यश्च कथयामास हरिश्चन्द्राश्रयां कथाम् ॥ 0797cd

तद्रञ्जने स्वरक्षायां बाह्यवार्तागवेषणे । 0798ab
व्यापृतत्वं गभीरस्य न तस्य समलक्ष्यत ॥ 0798cd

अत्रान्तरे स्वरक्षायां बाह्यवार्तागवेषणे । 0799ab
राजश्रियश्च काल्याश्च[^0799-1] शतशोभूद्गतागतम् ॥ 0799cd

उत्कर्षो भूमिपस्तस्य परित्यागं ह्यमन्यत । 0800ab
आदिदेशानुगांस्तांस्तान्भूरिशश्च प्रमापणे ॥ 0800cd

अभिज्ञानोर्मिकादानं वधादेशे तु नास्मरत् । 0801ab
ते नोक्तिं तस्य दूतानामन्वतिष्ठन्त रक्षिणः ॥ 0801cd

स तान्वन्ध्यश्रमान्वीक्ष्य स्मृत्वाभिज्ञानसंविदम् । 0802ab
सत्वात्मजं273 राजपुत्रं शूराख्यम् व्यसृजत्ततः ॥ 0802cd

अभिज्ञानं वितरतस्तत्करे तस्य मुह्यतः । 0803ab
दैवयोगात्क्षणे तस्मिन्नूर्मिकाव्यत्ययोभवत् ॥ 0803cd

यः274 पातार्थमुपार्जितोन्यशिरसस्तेनैव सिन्धुप्रभुर्वृद्धक्षेत्रधराधवः स्वशिरसह् पातं वरेणान्वभूत् । 0804ab
दिव्या स्वैव गदा श्रुतायुधनृपं हन्तावधीदाहवे यत्त्राणाय विगण्यते विधिवशात्तेनैव नाशो भवेत् ॥ 0804cd

तथा चैकस्य विस्मृत्या व्यत्ययेनापरस्य च । 0805ab
अभिज्ञानस्य स नृपो नाशं प्रत्युत लब्धवान् ॥ 0805cd

आभिजन्येन275 हर्षस्य ते क्षनादेव रक्षिणः । 0806ab
प्रपेदिरे हितैषित्वमुत्कर्षाज्जाविरोधिनः ॥ 0806cd

द्वारमाक्रान्तमुत्क्रोधो वधायायमुपागतः । 0807ab
इति निर्ध्याय ते शूरं हन्तुमैच्छन्नुदायुधाः ॥ 0807cd

उद्घाटिताररिपुटा दृष्ट्वा तस्योर्मिकां करे । 0808ab
तेनैव साकं नृत्यन्तो276 हर्षं समुपतस्थिरे ॥ 0808cd

पादन्यस्तोत्तमाङ्गैस्तैर्निर्गच्छेत्यर्थितस्ततः । 0809ab
अविश्वसन्नाजसूनुः क्षणमासीत्स चिन्तयन् ॥ 0809cd

तस्मिन्क्षणे हर्षदेवं हतं ज्ञात्वा रणे स्थितः । 0810ab
क्रुध्यन्विजयमल्लोभूदधिकोद्रिक्तपौरुषः ॥ 0810cd

तं दग्धमुद्यतं राजधानीं जीवति तेग्रजः277 । 0811ab
अभिधायेति रुरुधुः कथञ्चित्पार्थिवानुगाः ॥ 0811cd

प्रत्ययार्थं ततस्तस्य राज्ञा हर्षवधूर्द्रुतम् । 0812ab
गृहीतभर्तृताडङ्का सुगला प्रैष्यतान्तिकम् ॥ 0812cd

तां विलोक्यैव विरते वह्निदाहान्नृपात्मजे । 0813ab
राजा भयप्रतीकारं हर्षत्यागादमन्यत ॥ 0813cd

गत्वामात्याः स्वयं नोनप्रशस्तकलशादयः । 0814ab
हर्षं निर्निगडं कृत्वा कारागारात्ततोत्यजन् ॥ 0814cd

[page 135]

विश्वास-प्रस्तुतिः

मन्त्रः स तेषां शोकेन वक्रात्कृतगतागतः । 0815ab
अन्त्यक्षणे श्वास इव प्रससार बहिश्चरन् ॥ 0815cd

हर्षः प्रच्छाद्यमानस्तु पौराणां पुष्पवृष्टिभिः । 0816ab
हयमारुह्य सामात्यो रणस्थं नृपमासदत् ॥ 0816cd

अभिनन्द्यानुजो राजा तमूचे भ्रातरं रणात् । 0817ab
निर्वार्यागम्यतां कुर्मः प्राप्तकालं ततो वयम् ॥ 0817cd

तथेति प्रस्थिते तस्मिंस्त्यक्त्वा तत्स रणाजिरम् । 0818ab
प्राविशन्मन्त्रिभिः सार्धं कोशं हेमादिसंश्रयम् ॥ 0818cd

उत्तीर्णं महतः कृच्छ्राद्घर्षदेवमुपस्हितम् । 0819ab
दृष्ट्वा विजयमल्लोभूत्प्रहर्षान्निष्क्रयः क्षणम् ॥ 0819cd

ततो ववन्दे तत्पादौ स चोत्क्राम्यालिलिङ्ग278 तम् । 0820ab
तास्ताः कथास्तयोरासन्नुपकर्त्रुपकार्ययोः279 ॥ 0820cd

व्यापादयैनमेवादौ हर्षोत्कर्षम् ततो नृपः । 0821ab
निष्कण्टकोसि भवितेत्याप्तस्योपांशु जल्पतः ॥ 0821cd

ततो विजयमल्लेन नाद्रोहेणादृतं वचः । 0822ab
ज्जात्वेङ्गितज्ञो हर्षस्तत्ततस्तु चकितः क्षणम् ॥ युग्मम्॥ 0822cd

स्वदेहमामिषीभूतं स भ्रात्रोः श्येनयोरिव । 0823ab
निष्पत्त्रपक्षप्रतिमो280 ररक्षार्वगतश्चरन् ॥ 0823cd

आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याaद्गलतस्श्च मज्जनमयी शङ्का भवेद्वारिधौ281 । 0824ab
भोक्तव्यस्य विधिः शुभस्य रभसात्स्वादुत्वनिष्पत्तये जन्तोः सन्तनुते निराकृतभियो भीत्यन्तरोत्पादनम् ॥ 0824cd

तं हयभ्रमणव्याजाद्रक्षितुं निजजीवितम् । 0825ab
ज्जातवार्ता निहाः केचित्पत्तयः पर्यवारयन् ॥ 0825cd

साकं विजयमल्लेन ततः सम्मन्त्र्य स क्षणात् । 0826ab
चचाल विप्लवापायमाख्यातुं तं महीभुजे ॥ 0826cd

अग्रं तद्वेश्मनः प्राप्तं विनिर्यान्तं नृपात्मजात् । 0827ab
ततो विजयसिंहस्तं सम्प्रवेशान्न्यवारयत् ॥ 0827cd

ऊचे च मरणात्तीर्णो मर्तुं विशसि किं पुनः । 0828ab
निष्प्रज्ञ गत्वोपविश त्यक्तशङ्कं नृपासने ॥ 0828cd

एवमुक्तवस्तस्तस्य भृत्यैः कोशादुपाहते । 0829ab
सिंहासने हर्षदेवस्ततस्तूर्णमुपाविशत् ॥ 0829cd

वैयात्यच्छादितानन्तप्रातिकूल्या तदन्तिके । 0830ab
उपाविशच्च सुगला महादेवीत्वसिद्धये ॥ 0830cd

तस्याभिषेकशब्देन समघद्यन्त सर्वतः । 0831ab
रसितेनाम्बुवाहस्य चातका इव मन्त्रिणः ॥ 0831cd

तद्वार्ताश्रवणेनार्तमुकर्षं मन्दिराततः । 0832ab
धूर्तो विजयसिंहोपि कृष्ट्वान्यमनयद्गृहम् ॥ 0832cd

आस्थानस्थस्य भूभर्तुरग्रेण स मितानुगः । 0833ab
नष्टश्रीर्ददृशे गच्छन्स्थिराः कस्य विभूतयः ॥ 0833cd

तस्य वेश्मप्रविष्टस्य बहिर्विन्यस्य रक्षिणः । 0834ab
राज्ञो विजयसिंहस्तत्कृतं कार्यं न्यवेदयत् ॥ 0834cd

कारायां संस्तुतान्राजपार्श्वमानीय ठक्कुरान् । 0835ab
तत्सैन्येग्रस्थितेत्याक्षीद्भयं विजयमूलतः ॥ 0835cd

सोप्यग्रजं प्राप्तराज्यं श्रुत्वा तत्सविधं व्रजन् । 0836ab
निन्ये सम्मान्य तद्दूतैः स्वामेव वसतिं क्षणात् ॥ 0836cd

तत्सैन्यं स्वान्तिकं प्राप्तमथ वीक्ष्य क्षमापतिः । 0837ab
आनिनाय तमभ्यर्णं क्षणमात्रेण नीतिवित् ॥ 0837cd

मह्यं प्राणाश्च राज्यं च त्वया दत्तमिति ब्रुवन् । 0838ab
स प्राञ्चलिस्तमकरोत्क्लेशसाफल्यदायिनम् ॥ 0838cd

तस्य दैवानुकूल्येन नीत्येव सुप्रयुक्तया । 0839ab
तत्कालमेव तद्राज्यशय्यायां समुपाविशत् ॥ 0839cd

कारागृहान्तःसंवीतान्येव वासांसि धारयन् । 0840ab
सिंहासनेन शुशुभे श्रीसान्निध्यान्नवो नृपः ॥ 0840cd

तादृक्साहससंरम्भपरिश्रान्तो दिनात्यये । 0841ab
कृतारोहोथ शय्यायां त्यक्तभार इवापतत् ॥ 0841cd

[page 136]

विश्वास-प्रस्तुतिः

पश्यन्निवसतामेव सर्वतो विशरारुताम् । 0842ab
न स निद्रामुखं तत्र मीलिताक्षोपि लब्धवान् ॥ 0842cd

उत्कर्षो युधि बद्धस्तु मन्त्रं पृच्छन्स्वमन्त्रिणः । 0843ab
आक्षिप्यान्यद्वचो रूक्षं नोनकेनेत्यकथ्यत ॥ 0843cd

प्रातः प्रोक्तोसि यन्मन्त्रं तन्नाकार्षीर्महीपते । 0844ab
पतितामनयादस्माद्भाविनीं शृणु सम्विदम् ॥ 0844cd

अध्याक्षिपो बन्धनस्थं त्वं तमुच्छिष्टभोजिनाम् । 0845ab
श्वः श्वमांसार्पिणाम् हस्ते स तु त्वामर्पयिष्यति ॥ 0845cd

शरणं मरणादन्यत्तस्मादस्मिन्क्षनेस्ति किम् । 0846ab
त्यक्ताहवानामस्माकं तदप्यप्राप्यतां गतम् ॥ 0846cd

अवसादफलास्वादकालेत्यन्तमरुन्तुदम्282 । 0847ab
यद्वोपालम्भपाण्डित्यम् न विपक्षेषु शोभते ॥ 0847cd

त्वयापायमनालोच्य य उपायः प्रवर्तितः । 0848ab
सर्वमेकपदे तेन मुहूर्तेनैव हारितम् ॥ 0848cd

संस्थाप्यमानो दुर्नीत्या सूच्येव जरटः पटः । 0849ab
प्रस्त्युतोपद्रवोल्पोपि शतद्वारः प्रजायते ॥ 0849cd

एवं श्रुत्वा स तन्मध्यान्निर्गत्याभ्यन्तरं गृहम् । 0850ab
अवरुद्धिकया सार्धं विवेश सहजाख्यया ॥ 0850cd

तत्र सन्ध्यासमाधिस्थस्तिष्ठामीत्यभिधाय ताम् । 0851ab
क्षणं तिरस्करिण्यन्तरेकाक्येवाकरोत्स्थितिम् ॥ 0851cd

निःशस्त्रेण गले क्षिप्त्वा पटच्छेदनकर्तरीम् । 0852ab
नाद्यः प्राणहरास्तेन छिन्नाः खिन्नात्मना ततः ॥ 0852cd

फणत्कारेण कर्तर्याश्च्युताया भुवि शङ्किता । 0853ab
अपश्यत्सहजा रक्तं श्च्योतज्जवनिकान्तरात् ॥ 0853cd

सोथ लम्बशिरोनिर्यत्सान्द्रासदृशदृशे तया । 0854ab
वज्रावभग्नशृङ्गान्तश्च्योतद्धातुरिवाचलः ॥ 0854cd

तस्यास्तदानीमौचित्यं निर्व्यूढं येन योषिताम् । 0855ab
भर्तृप्रसादपात्राणामद्याप्युच्चैस्तरां शिरः ॥ 0855cd

व्रजन्ति रजनी त्यक्त्वा क्वापि क्षये क्षणदाकरं पदमुपगतस्यास्तं सन्ध्या रवेरनुगच्छति । 0856ab
इति परिणतौ प्रेमण्युच्चावचे परिचिन्तिते क्वचन नियमान्निन्द्या वन्द्या न वा सुधियां स्त्रियः ॥ 0856cd

कुलाचारपतिप्रेमसादृश्येप्यभवत्तदा । 0857ab
कय्यासहजयोर्यस्मान्निन्द्या वन्द्या च पद्धतिः ॥ युग्मम्॥ 0857cd

सापि हि द्युसदो वेश्मनर्तकी नाद्य्मण्डपे । 0858ab
दृष्ट्वा तेनावरुद्धात्वं निन्ये राजवधूः परा ॥ 0858cd

कान्तास्रगैरिकास्यन्दकृतसान्द्राङ्गरागया । 0859ab
प्रेम्णो हेम्न इवौज्ज्वल्यं प्रविश्याग्निं तयार्पितम् ॥ 0859cd

हर्षदेवस्यापि पूर्वं वेश्यात्वे साभवत्प्रिया । 0860ab
अतस्तेनार्थ्यमानापि मरणान्न न्यवर्तत ॥ 0860cd

चतुर्विंशाब्ददेशीयो दिनद्वाविंशतौ नृपः । 0861ab
मृतस्त्रिष्ठन्निशामेकां प्रातः सोक्रियताग्निसात् ॥ 0861cd

तस्यावरोधलोलाक्ष्यो लोहराद्रिस्थिता अपि । 0862ab
कृशानुवर्त्मना काश्चित्पदवीं द्रुतमन्वयुः ॥ 0862cd

शस्त्रं सन्त्याज्यमानेषु तन्मत्रिषु नृपानुगैः । 0863ab
मुमूर्षुर्नोनकः शस्त्रं न तत्याज क्षणं यदा ॥ 0863cd

विनास्मान्मन्त्रदो राज्ञः कोन्यः स्याद्यद्दिनैरसौ । 0864ab
मोक्ष्यत्यस्मांस्ततः प्राणान्नोपेक्षिष्टा विचारयन् ॥ 0864cd

स्वयूथ्य एवेति वचः प्रशस्तकलशो वदन् । 0865ab
तदा सन्त्याजयामास स्वयं तच्च समर्पितम् ॥ तिलकम्॥ 0865cd

नोनसिल्हारभट्टारप्रशस्तकलशादयः । 0866ab
बद्ध्वाथ हर्षदेवेन कारागारं प्रवेशिताः ॥ 0866cd

इत्येवमेकेनैवाह्ना तादृग्राजविपर्ययः । 0867ab
कृतश्च हर्षदेवेन दैवेनेव महाद्भुतः ॥ 0867cd

यथाकथञ्चिद्द्व्युत्क्रान्ता बहवः पृथिवीभृतः । 0868ab
प्रतीतिविषमो मार्गः कष्टमापतितोधुना ॥ 0868cd

सर्वोत्साहोदकक्षेत्रं सर्वानुल्लासदूतिका । 0869ab
सर्वव्यवस्थाजननी सर्वनीतिव्यपोहकृत् ॥ 0869cd

उद्रिक्तशासनस्फूर्तिरुद्रिक्ताज्ञाक्षयक्षितिः । 0870ab
उद्रिक्तत्यागसम्पत्तिरुद्रिक्तहरणपग्रहा ॥ 0870cd

[page 137]

विश्वास-प्रस्तुतिः

कारुण्योत्सेकसुभगा हिंसोत्सेकभयङ्करी । 0871ab
सत्क्रमोत्सेकललिता पापोत्सेककलःकिता ॥ 0871cd

स्पृहणीया च वर्ज्या च वन्द्या निन्द्या च सर्वतः । 0872ab
निश्चोद्या चोपहास्या च काम्या शोध्या च धीमताम् ॥ 0872cd

आशास्या चापकीर्त्या च स्मार्या त्याज्या च मानसात् । 0873ab
हर्षराजाश्रया चर्चाकथा व्यावर्णयिष्यते ॥ कुलकम्॥ 0873cd

नूनं स तैजसैरेव ससृजे परमाणुभिः । 0874ab
कुतोन्यथाभूत्प्रसवे दुष्प्रेक्ष्यो महतामपि ॥ 0874cd

न मर्त्येषु न देवेषु तद्वेषो दृश्यते क्वचित् । 0875ab
दानवेन्द्रेषु स प्राज्ञैः परमुत्प्रेक्ष्यते यदि ॥ 0875cd

प्रतिमार्कपरीमाणज्वलत्कुण्डलमण्डितः । 0876ab
उत्तुङ्गमुकुटानद्धविकटोष्णीषमण्डलः ॥ 0876cd

प्रसन्नसिंहविप्रेक्षी नीचश्मश्रुच्छटाञ्चितः । 0877ab
वृषस्कन्धो महाबाहुः श्यामलोहितविग्रहः ॥ 0877cd

व्यूढवृक्षाः क्षाममध्यो मेघघोषगद्भीरवाक् । 0878ab
सोमानुषाणामपि यत्प्रतिभाभङ्गकार्यभूत् ॥ तिलकम्॥ 0878cd

सिंहारे महाघण्टाश्चतुर्दिक्कमबन्धयत्283 । 0879ab
ज्ञातुं विज्ञप्तिकामान्स प्राप्तांस्तद्वाद्यसञ्ज्ञया ॥ 0879cd

आर्तां च वाचमाकर्ण्य284 तेषां तृष्णानिवारणम्284 । 0880ab
प्रावृषेण्यः पयोवाहश्चातकानामिवाकरोत् ॥ 0880cd

अचित्रवस्त्रो निर्हेमभूषणोल्पपरिच्छदः । 0881ab
ददृशे विगतो ॰ ॰285 न कश्चिद्राजमन्दिरे ॥ 0881cd

सिंहद्वारे नरपतेर्नानाजनसमाश्रिते । 0882ab
सर्वदेशश्रियोश्रान्तमासन्राशीकृता286 इव ॥ 0882cd

अपेतसङ्ख्याः सौवर्नशृङ्खलाकटकान्विताः । 0883ab
भ्रेमुर्मन्त्रिप्रतीहारमुख्याः क्ष्मापतिमन्दिरे ॥ 0883cd

एवं स्फूर्जन्स नृपतिर्नवसाम्राज्यसुन्दरः । 0884ab
अभूद्विजयमल्लस्य गुरोरिव मते स्थितः ॥ 0884cd

आदीयमानवचसह् कृतज्ञेन महीभुजा । 0885ab
तस्याभूत्पार्थिवस्येव सेवकैः सङ्कटा सभा ॥ 0885cd

स्वसेवकाननादृत्य रक्षन्संस्थाव्यतिक्रमम् । 0886ab
पित्र्येभ्य एव मन्त्रिभ्यः सोधिकारान्समर्पयत् ॥ 0886cd

द्वारे चकार कन्दर्पं मदनं चापि कम्पने । 0887ab
अन्यान्विजयसिंहाaदीन्कर्तव्ये च निजे निजे ॥ 0887cd

तेन प्रशस्तकलशप्रमुखाः शान्तमन्युना । 0888ab
बन्धात्सन्त्यज्य कार्येषु निजेष्वेव287 नियोजिताः ॥ 0888cd

स्मृत्वापकारान्सुबहूनमात्यो288 नोनकः परम् । 0889ab
धात्रेयेण समं भ्रात्रा कोपाच्छूले विपादितः ॥ 0889cd

काले काले तु कार्येषु सङ्कटेषु महामतिम् । 0890ab
संस्मरन्स्वामिभक्तं तं पश्चात्तापेन पस्पृशे ॥ 0890cd

योग्यः कृतापकारोपि कदाचिदुपयुज्यते । 0891ab
विहितागारदाहोग्निः शरणं भोज्यसिद्धये ॥ 0891cd

सन्दर्श्याग्रे स्वभार्यायाः कर्णनासावकर्तनम् । 0892ab
विश्शाभट्टो289 राजभृत्यैः शूलेनैव विपादितः ॥ 0892cd

उदये संविभेजे स भृत्यान्कराविनिर्गतान् । 0893ab
मधौ प्रफुल्तः शाखीव भृङ्गान्भूविवरोत्थितान्290 ॥ 0893cd

राक्केः क्षेमस्य यः पौत्रो वज्यजः स महीभुजा । 0894ab
सर्वामात्यप्रधानत्वं निन्ये सुन्नः सहानुजः ॥ 0894cd

राज्ञो यात्रादिसमये प्रेक्षकाणां पदे पदे । 0895ab
एक एकोभवन्मन्त्री महीपालभ्रमप्रदः ॥ 0895cd

सर्वप्रतीहारघटामूर्धानमधिरोपितः । 0896ab
जयराजोनुजस्तस्य जीवितादधिकोभवत् ॥ 0896cd

जाह्नवीयात्रया भ्रात्रीरानुशंस्या ॰ ॰ ॰ ॰ 291 । 0897ab
धम्मटः सोपि तान्वङ्गैर्भ्रातृपुत्रैः सहाययौ ॥ 0897cd

[page 138]

विश्वास-प्रस्तुतिः

सम्मान्य तं नरपतिं स्वकृते हारिताग्रजम् । 0898ab
सभ्रातृपुत्रमद्राक्षीत्स्वाविशेषेण सर्वदा ॥ 0898cd

विभज्य भञ्जतो राज्यं तस्यैवं प्रेरितः खलैः । 0899ab
क्रमाद्विजयमल्लोथ दुद्रुक्षुर्विकृतिं दधे ॥ 0899cd

राज्यं प्रादाः किमन्यस्मै जित्वेत्युक्तः स दुर्जनैः । 0900ab
तल्लिप्सुर्मन्त्रयामास वधं प्रथमजन्मनः ॥ 0900cd

विजने मन्दिरे हन्यामिति सम्मन्त्र्य भूपतिः । 0901ab
यागं विधाय व्याजेन तेनागन्तुं निमन्त्रितः ॥ 0901cd

मन्त्रे श्रुतिं गते राज्ञः सोथास्कन्दविशङ्कितः292 । 0902ab
आदिदेश स्वसैन्यानां द्रुतं सन्नहनोद्यमम्293 ॥ 0902cd

सन्नद्धे राजसैन्येथ द्रुतं निर्गत्य भूपतेः । 0903ab
हृता विजयमल्लेन मन्दुराभ्यस्तुरङ्गमाः ॥ 0903cd

संहरंस्तुरगान्वीक्ष्य294 प्रहरन्नृपतेर्बलम् । 0904ab
कुर्वन्महाहवं वीरो निर्गन्तुं तत्वरे पुरात् ॥ 0904cd

आश्लिष्य पृष्ठं तिष्ठन्त्या जाया सस्हितो व्रजन् । 0905ab
स चकार तुरङ्गस्थः सङ्ग्राममतिमानुषम् ॥ 0905cd

धारासारैः क्षणे तस्मिन्नकालकलदोज्झितैः । 0906ab
विपर्यस्तेव पृथिवी सर्वतः समलक्ष्यत ॥ 0906cd

भाङ्करमारुतारन्धभूरिभेरीरवे रणे । 0907ab
आसारेण शरैश्चासीच्छाद्यमानो नृपात्मजः ॥ 0907cd

तं क्षीयमाणपृतनं यान्तं हन्तुं समुद्यताः । 0908ab
कर्माणि प्राकृतानीव295 न चण्डकसुता जहुः ॥ 0908cd

भग्नसेतुम् पयोवेगैर्वितस्तासिन्धुसङ्गमम् । 0909ab
सस्जानिरतरद्दोर्भ्यामवतीर्य296297298 स वाजिनः ॥ 0909cd

सत्त्ववान(करोत्पत्न्या299300 मज्जनं[^0910-3] रिपुसङ्कटे । 0910ab
सिन्धुं प्रवृद्धामुत्तीर्य तुरङ्गोपि तमन्वगात् ॥ 0910cd

द्विषां दृग्गोचराद्यातः स तमारुह्य वाजिनम् । 0911ab
दरद्देशोन्मुखो वीरः प्रायाल्लहरवर्त्मना ॥ 0911cd

कन्दर्पद्वारपतिना सर्वतो रुद्धपद्धतिः । 0912ab
गिरीन्नुल्लङ्घ्य चाविक्षद्गिरिगुप्ताम् दरत्पुरीम् ॥ 0912cd

दरदाभ्यर्चितं[^0913-1] तत्र श्रीविद्याधरहिना[^0913-2] । 0913ab
केचिन्निजाः परिजनाः शनकैस्तं प्रपेदिरे ॥ 0913cd

श्रुत्वा स्वीकार्यमाणं च संरम्भं डामरादिभिः । 0914ab
प्रायुङ्क्त हर्षपृथ्वीभृदुपायांश्चकितोन्वहम् ॥ 0914cd

तेषु वन्ध्येषु शीतर्तु सोतिवाह्य दरत्पुरे । 0915ab
डामरैः प्रहितालापश्चैत्रे यात्रामदान्मदात्[^0915-1] ॥ 0915cd

उत्तीर्य सङ्कटांस्तिष्ठन्मार्गान्तः पटमण्डपे301 । 0916ab
अकस्मादभवन्मानी हिमानीहतजीवितः ॥ 0916cd

यदुल्लासाय संरम्भो धीरैर्विस्तार्यते महान् । 0917ab
कृत्यं हिनस्ति तद्दैवमत्यल्पेनैव वस्तुना ॥ 0917cd

उन्मीलनं तिग्मरुचिः प्रयत्नाद्येषां सहस्रेषु करैः करोति । 0918ab
उन्मूलयत्येककरेण तानि पद्मानि धाता कुपितो द्विपेन ॥ 0918cd

द्वैराज्यशङ्कया किञ्चित्कालं सङ्कुचितं ततः । 0919ab
भूयः प्रभयतो लग्नं राज्यं302 हर्षमहीभुजः ॥ 0919cd

राजशब्दस्तदा सेहे न कुत्राप्यधिरोपणम् । 0920ab
अत्युदग्रतया तस्मिंल्लघुत्वेनान्यराजसु ॥ 0920cd

सुशोभादायिनीर्भङ्गीः प्रावर्तयत मण्डले । 0921ab
निर्मत्सरो नरपतिः पुष्पर्तुरिव कानने ॥ 0921cd

मुक्तकोशा निरुष्णीषा निष्कलाभरणः पुरा । 0922ab
सन्त्यज्यैकं महीपालमभवन्निह देहिनः ॥ 0922cd

धम्मिल्लग्रथनाद्यत्र मदनः कम्पनापतिः । 0923ab
जयानन्दोप्यमात्याग्र्यश्चित्रार्धोरुकधारणात् ॥ 0923cd

[page 139]

विश्वास-प्रस्तुतिः

अन्वभूत्पार्थिवक्रोधमविशेषेण मण्डले । 0924ab
तेन राज्योचितो वेषस्तत्र राज्ञा प्रवर्तितः ॥ युग्मम्॥ 0924cd

स केषाञ्चिदमात्यानामाकल्पोल्लासशोभिनाम् । 0925ab
निर्मत्सरह् स्वदासीभिरारात्रिकमकारयत् ॥ 0925cd

दाक्षिणात्याभवद्भङ्गिः प्रिया तस्य विलासिनः । 0926ab
कर्णाटानुगुणष्टङ्कस्ततस्तेन प्रवर्तितः ॥ 0926cd

लडत्तालीदलाः स्थूलचन्दनस्थाससुन्दराः । 0927ab
रेजुर्जनास्तदास्थाने श्लाघ्यदीर्घासिधेनवः ॥ 0927cd

स्वर्णकेतकपत्त्राङ्कजूटलम्बोर्जितस्रजः । 0928ab
चटुलातिलकाश्लिष्टविलोलतिलकाङ्कुराः303 ॥ 0928cd

अपाङ्गश्रोत्रयोर्बद्धसन्धयोञ्जनरेखया । 0929ab
निर्नीरङ्गिककेशान्तबद्धहेमोपवीतकाः ॥ 0929cd

अधराम्बरपुच्छान्तैर्लम्बैश्चुम्बितभूतलाः । 0930ab
प्रच्छादितार्धदोर्लेखकाङ्कपयोधराः ॥ 0930cd

कर्पूरोद्धूलनस्मेरा भ्रमन्त्यस्तलभ्रुवः । 0931ab
बभ्रुराश्रितपुंवेषा304 झषाङ्कच्छलदङ्कताम् ॥ चक्कलकम्॥ 0931cd

अन्योपजीव्यतां प्रापुस्तस्यार्थित्वेन मार्गणाः । 0932ab
विश्वाप्यायकतां मेघाः प्रणयेनेव वारिधेः ॥ 0932cd

प्रसादैस्त्यागिनस्तस्य राज्ञः कनकवर्षिणः । 0933ab
समस्ता गाथकगणाः पार्थिवस्पर्धितां ययुः ॥ 0933cd

विद्वच्चूडामणिर्भूभृत्पण्डितान्रत्नमण्डितान् । 0934ab
चकार युग्यतुरगच्छन्नादिप्रक्रियाभृतः ॥ 0934cd

कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः । 0935ab
विद्यापतिं यम् कर्णाटश्चक्रे305 पर्माडिभूपतिः ॥ 0935cd

प्रसर्पतः करटिभिः कर्णाटकटकान्तरे । 0936ab
राञ्जोग्रे ददृशे तुङ्गं यस्यैवातपवारणम् ॥ 0936cd

त्यागिनं हर्षदेवम् स श्रुत्वा सुकविबान्धवम् । 0937ab
बिल्हणो वञ्जनां मेने विभूतिं तावतीमपि ॥ 0937cd

सौवर्णामलसाराद्या306307 राजधान्यो धरापतेः । 0938ab
सुवह्योभ्रंलिहगृहा भ्रेजिरे भुवनाद्भुताः ॥ 0938cd

तदीये नन्दनवने द्रुमेभ्यो नो व्यधुः स्थितिम् । 0939ab
त्यागिना निर्जितास्तेन केवलं कल्पपादपाः ॥ 0939cd

विविधाभिरशून्याम्बु विहङ्गमृगजातिभिः । 0940ab
तेन व्याप्तदिगाभोगं चक्रे पम्पाभिदहं सरः ॥ 0940cd

सोज्ञासीद्यावतीर्विद्यास्तासां नामापि निश्चितम् । 0941ab
वक्तुं नास्त्येव सामर्थ्यं व्यक्तं वाचस्पतेरपि ॥ 0941cd

गीतमाकर्ण्यतेद्यापि तस्य वाग्गेयकारिणः । 0942ab
वैपक्षैरपि पक्ष्माग्रलुठद्वाष्पोदबिन्दुभिः ॥ 0942cd

स्वपतो दिनयामौ द्वौ सर्वकालं विलासिनः । 0943ab
दत्तस्थानस्य तस्यासीद्यामिनीषु प्रजागरः ॥ 0943cd

तस्य दीपसहस्राङ्के स्थितस्यास्थानमण्डपे । 0944ab
विद्वद्गोष्ठीगीतनृत्तप्रस्तावेन क्षपा ययुः ॥ 0944cd

कथान्ते शुश्रुवे तत्र पर्णचर्वणजः परम् । 0945ab
कान्ताधम्मिल्लशेफालीत्रिटिजन्मा च मर्मरः ॥ 0945cd

वितानैः सपयोदेव साग्निविप्रेव दीपकैः । 0946ab
रुक्मण्डलैः सशम्पेव सधूमेवासिमण्डलैः ॥ 0946cd

साप्सरा इव कान्ताभिः सनक्षत्रेव मन्त्रिभिः । 0947ab
सर्षिसङ्घेव विबुधैः सगन्धर्वेव गायनैः ॥ 0947cd

नित्यसङ्केतवसतिर्धनदस्य यमस्य च । 0948ab
एकं विहरणारण्यं दानस्य च भयस्य च ॥ 0948cd

क्षपात्थानस्थितिस्तस्य राज्ञः शक्राधिकश्रियः । 0949ab
कस्य वाचस्पतेर्वाचा वक्तुं कार्त्स्न्येन शक्यते ॥ चक्कलकम्॥ 0949cd

रौक्मैश्च राजतश्चासीद्व्यवहारस्तदा घनः । 0950ab
मण्डले विरलामुष्मिन्दीन्नारैस्ताम्रजैः पुनः ॥ 0950cd

दण्डनायकतां प्राप्य सुन्नः सर्वोन्नतिं भजन् । 0951ab
तस्मिन्काले त्वभूल्लोभान्नीचो मुष्टिम्पचः परम् ॥ 0951cd

निजा जयवने सूर्यामूलके विजयेश्वरे । 0952ab
आख्यान्ति यस्य लुब्धत्वं निर्व्ययस्थितये मठाः ॥ 0952cd

[page 140]

विश्वास-प्रस्तुतिः

क्षुधितव्याधितानाथदीनाद्यार्तिनिवारणम् । 0953ab
सुस्पष्टं प्राप पट्टस्य राज्यलक्ष्मीः कृतार्थताम् ॥ 0953cd

नन्दिक्षेत्रे व्ययीकृत्य प्रत्यब्दं सप्त वासरान् । 0954ab
चप्पकः सफलां चक्रे सर्वकालार्जितां श्रियम् ॥ 0954cd

कृष्णाजिनोभयमुखीमुख्यैर्दानैः क्षमाभुजा । 0955ab
अदरिद्रीकृता विप्रा निःशेषार्तिच्छिदार्थिनाम् ॥ 0955cd

राज्ञो वसन्तलेखाख्या शाहिवंशप्रियाकरोत् । 0956ab
मठाग्रहारान्नगरे पूज्ये च त्रिपुरेश्वरे ॥ 0956cd

माहेश्वर्यमयी काचिदित्थं ज्वालेव सोद्ययौ । 0957ab
उदारव्यवहारं तु न तद्राज्यं प्रचक्षते ॥ 0957cd

अथ प्रवृद्धिं सम्प्राप्ताः शनकैर्नवमन्त्रिणः । 0958ab
पूर्वामात्यद्विषो राज्ञो मतिमोहं प्रचक्रिरे ॥ 0958cd

कुष्ठार्ताङ्घ्रियुगः शिखी बहुपदं गृह्णाति धावन्नहिं भानुः पादसहस्रभाक्प्रतिपदं सञ्चार्यतेनूरुणा । 0959ab
वञ्च्यन्ते बलिनोपि यल्लघुबलैः सामर्थ्यहीनैश्च यद्भ्राम्यन्ते परिपूर्णवृत्तय इदं दैवस्य लीलायितम् ॥ 0959cd

स सर्वशास्त्राधिगमप्रौढः परिवृढो विशाम् । 0960ab
यन्मोहितमतिश्चक्रे वैधेयैरपि मन्त्रिभिः ॥ 0960cd

विपन्नस्य पितुर्वैरप्रतिकारविधित्सया । 0961ab
स राजधानीनामाङ्कमठादि निरलोठयत् ॥ 0961cd

त्यागी तत्कोशसम्भारं व्ययीकुर्वन्नितस्ततः । 0962ab
लुब्धस्य चाभिधां तस्य पापसेन इति व्यधात् ॥ 0962cd

शुद्धान्ते शुद्धशीलानां ढौकितं मूढचेतसा । 0963ab
स्पष्टं षष्ट्यधिकं राज्ञा स्त्रीणां तेन शतत्रयम् ॥ 0963cd

यादृशीस्तादृशीस्तत्र नारीर्विन्यस्यतानिशम् । 0964ab
नागृह्यन्त परं डोम्बजनङ्गमकुलाङ्गनाः[^0964-1] ॥ 0964cd

अत्रान्तरे पूर्यमाणो गूढं कोटपदातिभिः । 0965ab
पुनर्भुवनराजोभूल्लहरालब्धिलुब्धधीः ॥ 0965cd

स दर्पितपुरं प्राप्तः कन्दर्पद्वारनायकम् । 0966ab
श्रुत्वा योद्धुं विनिर्यातं ययौ भूयोप्यदृश्यताम् ॥ 0966cd

तस्मिन्प्रसङ्गेपि नृपो दृप्यन्राजपुरीपतिः । 0967ab
सङ्ग्रामपालः केनापि हेतुना विक्रियां ययौ ॥ 0967cd

कन्दर्पे कोटभृत्यानां भिन्नानां सङ्ग्रहोद्यते । 0968ab
क्रुध्यन्राजपुरीं राजा व्यसृजद्दण्डनायकम् ॥ 0968cd

स महद्भिः समं सैन्यैर्गच्छंल्लोहरवर्त्मना । 0969ab
अधीरः कोटकच्छेषु सार्धं मासं व्यलम्बत ॥ 0969cd

प्रत्यासन्नाच्छुचेर्मासात्प्रतापाच्च विरोधिनाम् । 0970ab
त्रस्तस्तस्य यात्रायां न सङ्कल्प्प्यराजत ॥ 0970cd

अविशेषज्जभावेन भर्तुस्तिष्ठन्निरुद्यमः । 0971ab
ततो जगाम कन्दर्प एवोपालम्भमात्रताम् ॥ 0971cd

कृतप्रतिज्ञोनाहारतया राजपुरीजये । 0972ab
उपालम्भार्दितः सोथ निःसामग्र्योप्यवाचलत् ॥ 0972cd

निराहारस्य वसतः कन्दर्पस्याद्रिगह्वरे । 0973ab
षष्ठेह्न्यभूद्राजपुरी योजनेभ्यधिके स्थिता ॥ 0973cd

अवयाहतः सोरिवलाद्विषच्छस्त्राणि पातयन् । 0974ab
कदलीपल्लवान्मृद्गन्वनं सिंह इवाविशत् ॥ 0974cd

दण्डनायकसैन्येभ्यः परमेकस्तमन्वगात् । 0975ab
सेनानीः कुलराजाख्यो बुद्धराजकुलोद्भवः ॥ 0975cd

तं बाह्याल्यां राजपुर्या हतासङ्ख्याहितं द्विषः । 0976ab
निहत्य शुक्लच्छत्त्राङ्कं कन्दर्पं मेनिरे हतम् ॥ 0976cd

मध्याह्ने स तु कन्दर्पः स्वयं सम्प्राविशद्बली । 0977ab
राजधनीं राजपुर्या विंशत्रिंशैः समं भटैः ॥ 0977cd

द्विषां त्रिंशत्सहस्राणि योधानामनिवर्तिनाम् । 0978ab
रुरोध राजपुर्यग्रे तत्पदातिशतत्रयम् ॥ 0978cd

काश्मीरिकाणां[^0979-1] निहतं रणे तत्र शतद्वयम् । 0979ab
चत्वारि तु शतन्युर्वीं खशानामप्यशेरत ॥ 0979cd

भग्ने रिपुवले दूरमसङ्ख्येयैश्चिताग्निभिः । 0980ab
संस्कुर्वद्भिर्हतान्नाशीच्रणे मृत्योर्महानसः ॥ 0980cd

तेनैवं स्वाम्युपालम्भवेतालो रभसार्पितः । 0981ab
रणश्मशाने वीरेण शमितो मांसशोणितैः ॥ 0981cd

[page 141]

विश्वास-प्रस्तुतिः

याममात्रावशेषेह्नि पुनरेवाथ संहताः । 0982ab
द्विषः परिभवोत्तप्ताः308 कन्दर्पं योद्धुमाययुः ॥ 0982cd

ततस्तानथ नाराचान्निचिक्षेप स संयुगे । 0983ab
लिप्तानौषधितैलेन विद्धा यैः प्राज्वलन्दिशः ॥ 0983cd

आग्नेयं वेत्त्यसावस्त्रमिति मूढा विशङ्किताः । 0984ab
ते दूरं प्रययुर्भीता निन्दन्तः पुनरागमम् ॥ 0984cd

प्रगल्भभावः प्रतिभानमोजःप्रयोगचातुर्यमसम्भ्रमश्च । 0985ab
महाशयानामतिसङ्कटेषु धैर्योपनद्धां न धियं जहाति ॥ 0985cd

राजधानीं प्रविष्टः स भानावस्ताभिलाषिणि । 0986ab
भूयोप्यपश्यत्स छन्नां बाह्यालीं वहलैर्बलैः ॥ 0986cd

योद्धुं यियासुः शुश्राव प्राप्तं तम् दण्डनायकम् । 0987ab
घोरां रणाटवीं दृष्ट्वा भयात्स्थगितसैनिकम् ॥ 0987cd

स्वीयैर्दृष्टैः क्षतैः कैश्चिद्दृप्यन्त्यधिकमाहवे । 0988ab
पारकीयैस्त्रसन्त्यन्ये कोन्तरं वेत्ति देहिनाम् ॥ 0988cd

आनीतोथ विनिर्गत्य तेनैव स भये व्रुडन् । 0989ab
स्पर्धमानो यथाम्भोधौ मज्जन्हंसेन वायसः ॥ 0989cd

रक्तप्रजं वीतसैन्यमभिन्नं बहुकोशवत् । 0990ab
परराष्ट्रं विशेदेवं स्ववीर्येणैव कोपरः ॥ 0990cd

प्रणतात्करमादाय ततो राजपुरीपतेः । 0991ab
मासमात्रेण कन्दर्पः पुनः स309 भुवमाययौ ॥ 0991cd

प्रत्युद्गमादिसत्कारैः कृतपूजो महीभुजा । 0992ab
स दण्डनायकादीनां शिरःशूलावहोभवत् ॥ 0992cd

परिहासपुरे पारिपाल्यं कुर्वन्कठोरधीः । 0993ab
वातगण्डाख्यया ख्यातिं निन्ये यस्तत्र पर्षदा ॥ 0993cd

प्रभूतोत्कोचसम्पीतसचिवप्रेरनस्पृशा । 0994ab
अपास्य वामनं310 राज्ञा पादाग्रादौ नियोजितः ॥ 0994cd

आनन्दः स क्षणे तस्मिन्निच्छन्द्वाराधिकारिताम् । 0995ab
कन्दर्पद्वेषिणामासीन्मन्त्रिणामतिसम्मतः ॥ 0995cd

तत्प्रेरितस्ततः पातुं लोहरं विप्लुताहितम् । 0996ab
मण्डलेश्वरतां दत्त्वा कन्दर्पं प्राहिणोन्नृपः ॥ 0996cd

मन्त्रविक्रमसम्पन्नः कुभृत्यैः स्वोदयेप्सुभिः । 0997ab
शक्त्या तया राजपशोः समीपात्सोपात्सोपवाहितः ॥ 0997cd

दूत्यार्होयमिति प्रहाय निकटाद्देशान्तरं वाग्मिनं सूरिं बन्धुवियोगकृन्ननु वचोमुष्येति सन्त्यज्य च । 0998ab
शूरो राज्यमसौ हरेदिति तया हित्वा विचारोज्झितो धूर्तप्रेरणयाबुधो नृपपशुर्नायाति नाशं चिरात् ॥ 0998cd

अदर्शनात्सुबद्धापि कन्दर्पप्रीतिराशयात् । 0999ab
राज्ञो जगाल कालेन सा मुष्ठेरिव311 वालुका ॥ 0999cd

उत्कर्षपुत्रावादाय चिकीर्सुर्लोहरेशताम् । 1000ab
कन्दर्पो वर्तत इति क्षितिपं मन्त्रिणोवदन् ॥ 1000cd

तथेति नृपतिर्गृह्णन्बन्धुं हन्तुमथाशु तम् । 1001ab
ससैन्यं व्यसृजत्पट्टं312 टक्कं313 चासिधराभिधम् । 1001cd

तयोः सम्प्राप्तयोर्वार्तां[^1002-3] तां लेखव्यत्ययाद्विदन् । 1002ab
विमुखश्चकितात्मा च कन्दर्पोभूद्यथा मुहुः ॥ 1002cd

केलिद्यूतक्षणे हस्तं मृद्गन्देवकवत्पुरः314 । 1003ab
आसीदसिधरस्तस्य बन्द्धुमभ्युद्यतस्तदा315 ॥ 1003cd

ततः पाणिं विनिष्कृत्य सोङ्गुष्ठाग्रेण तत्करम् । 1004ab
अमृद्गाद्येन निस्त्वक्त्वं316 क्लिन्नः पक्षीव सोगमत् ॥ 1004cd

अनन्तरज्ञो भूभृच्च तेनात्मा च नृपाश्रितः । 1005ab
विगर्ह्यते स्म खिन्नेन पट्टश्चैवमकथ्यत ॥ 1005cd

नेयाशयो नरपतिः कुटुम्बं प्रहिणोतु मे । 1006ab
अर्पयित्वा ततः कोटं प्रयास्यामि दिगन्तरम् ॥ 1006cd

अनीय दत्ताम्स्तैर्ज्ञातीनादाय द्रोहवर्जितः । 1007ab
स विमुक्ताधिकारोथ मन्त्री वाराणसीं ययौ ॥ 1007cd

हत्वा गयायां सामन्तमेकमन्यं निवेश्य च । 1008ab
काश्मीरिकाणां317 चक्रे स श्राद्धशुल्कनिवारणम् ॥ 1008cd

[page 142]

विश्वास-प्रस्तुतिः

स हत्वा चौरसेनान्यं ससैन्ये दुर्गमेध्वनि । 1009ab
पूर्वाशामध्वनीनां च318 व्यधान्निर्धूतकण्टकाम् ॥ 1009cd

व्याघ्रं निहत्योग्रसत्त्वं वाराणस्यां निरस्यता । 1010ab
पूर्वा दिग्भूषिता तेन मठैः सुकृतकर्मठैः ॥ 1010cd

ते तन्निर्वासनादेव लब्धलक्षाः कुमन्त्रिणः । 1011ab
अन्योन्यासूयया जघ्नुरथ कार्याणि भूभुजः ॥ 1011cd

स्वैराहारोदितगुरुमदाः शृङ्गकण्डूतिशान्त्यै दुर्वारेर्ष्याकलुषमतयो यत्र दुर्मन्त्रिमेषाः319 । 1012ab
घ्नन्त्यन्योन्यं भवति गणितैर्वासरैरेव कैश्चिन्मध्यस्थाणोरिव नरपतेस्तत्र सर्वाङ्गभङ्गः ॥ 1012cd

अतिक्रामति कालेथ पार्थिवं हन्तुमुद्यमम् । 1013ab
दुर्द्रुक्षुर्जातराज्येच्छस्तान्वङ्गिर्धम्मटोभजत् ॥ 1013cd

द्रोहापवादभागेष भवेद्राज्यमिदं पुनः । 1014ab
मामेव वैश्यापुत्रत्वादनर्हेस्मिन्नुपेष्यति320 ॥ 1014cd

इति सम्मन्त्र्य सुचिरं निहन्तुम् पृथिवीभुजम् । 1015ab
प्रेरितो जयराजोभूत्तेनासरलचेतसा ॥ युग्मम्॥ 1015cd

विलावग्रामजान्क्षिप्त्वा तीक्ष्णान्द्रोहाय भूपते । 1016ab
सोवरोधवधूर्द्वित्रा विदधे मध्यपातिनीः ॥ 1016cd

क्रमात्सिद्ध्युन्मुखे तस्मिन्कार्ये राजपुरीं नृपः । 1017ab
दूत्याय व्यसृजज्जातु बहुमानेन धम्मटम् ॥ 1017cd

सस्हस्रमङ्गलगृहे सुदिनापेक्ष्या स्थितम्321 । 1018ab
तं सिद्धिभङ्गचकितो जयराजः समाययौ ॥ 1018cd

तमर्थं मण्डपे गूढं तयोर्मन्त्रायमाणयोः । 1019ab
प्रयागानुचरः कश्चिद्भित्तिव्यवहितोशृणोत् ॥ 1019cd

तदावेदिततद्वार्तात्प्रयागात्तत्कथां ततः । 1020ab
बुद्ध्वा निवर्तयामास धम्मटं गमनान्नृपः ॥ 1020cd

कुलक्षयभयात्तिष्ठंस्तत्प्रतीकारमन्थरः । 1021ab
स्वमेव केवलं रक्षन्नासीत्स चकितोन्वहम् ॥ 1021cd

असिद्धिम् जयराजस्तु दृष्ट्वा दूतैः स्वसम्मुखौ । 1022ab
शमालडामरौ वीरौ वागपाजाभिधौ व्यधात् ॥ 1022cd

स्वभृत्यैर्भेदनिर्यातैर्ययासुं तं निवेदितम् । 1023ab
श्रुत्वा क्षपायां क्षितिभृद्दिक्षु चिक्षेप रक्षिणः ॥ 1023cd

व्याजाद्यात्रां वदन्सज्जः प्रातस्तान्वङ्गिरेव तम् । 1024ab
चतुष्कं पूजने322 धूर्तो जयराजमुपानयत् ॥ 1024cd

राज्ञो दत्तार्गले धाम्नि[^1025-1] स्थितस्य स्थानमण्डलम् । 1025ab
सत्रा स भ्रातृपुत्रेण धम्मटेण ततोविशत् ॥ 1025cd

रक्षिणोथ बहिर्न्यस्य प्रयागः323 पार्थिवाज्ञया । 1026ab
जयराजं बधानेति नीचैर्धम्मटमभ्यधात् ॥ 1026cd

धम्मटे विश्वसञ्शस्त्रं जयराजस्त्यजेद्ध्रुवम् । 1027ab
निदेशेनामुना वेत्ति स्वमज्ञातं च धम्मटः ॥ 1027cd

द्वयोरेकस्य वा युद्धे तयोर्मृत्यौ हितं च नः । 1028ab
व्यक्तीकृतैक्ययोर्वापि वधो लोकेप्यगर्हितः ॥ 1028cd

इति निर्ध्यायतः शश्वदविरोधेन वेधसः । 1029ab
प्रज्ञास्य प्रत्यभाद्राज्ञो मन्त्रो युक्ततमस्तथा ॥ तिलकम्॥ 1029cd

नाबुद्ध मां ध्रुवं राजा तान्वङ्गिरिति विश्वसन् । 1030ab
जयराजमुपागत्य ततो धार्ष्ट्याद्वचोब्रवीत् ॥ 1030cd

अप्रसन्नस्त्वयि नृपो यद्यद्रोहोसि निश्चयात् । 1031ab
तत्त्वयाशु विशुद्ध्यर्थमसिधेनुः समर्प्यताम् ॥ 1031cd

दैवेन वा मोहितः स तद्विश्वासेन वात्यजत् । 1032ab
आक्षिप्यमाणः शस्त्रास्त्रकोविदः शस्त्रमन्यवत् ॥ 1032cd

वैक्लव्यदर्शनात्सेर्ष्यस्ततः स परुषं गिरम् । 1033ab
तन्वङ्गपौत्रष्टुल्लाख्यस्तं जगदाaज्जकात्मजः ॥ 1033cd

न त्वं निःसत्त्व कय्याया जातः कलशभूभुजा । 1034ab
आसीज्जनयिता नूनं क्लीबो यः कश्चिदेव ते ॥ 1034cd

निष्ठायां धैर्यचर्याणां परिणाममजानता । 1035ab
तेनेत्युक्तः स शीताम्बुसिक्तसुप्रोपमोभवत् ॥ युगलकम्॥ 1035cd

द्रोहोदन्तं पृच्छयमानो धीरस्तन्मध्यपातिनम् । 1036ab
यातनाक्लेशितोप्यूचे स्वमेव न तु धम्मटम् ॥ 1036cd

[page 143]

विश्वास-प्रस्तुतिः

विघ्नमन्त्रवीर्येण मोघीकृतविषाशनः । 1037ab
रज्ज्वा निपीड्य ग्रीवाग्रं ततो निशि विपादितः ॥ 1037cd

जय्यकेन प्रतीहर्त्रा शिरश्छित्त्वोज्झितं ययौ । 1038ab
भट्टारनङ्वलातोये तद्वपुर्मत्स्यभोज्यताम् ॥ 1038cd

तमेकसप्तते वर्षे भाद्रपदे नृपः । 1039ab
वधम् गभीरहृदयो धम्मटस्याप्यचिन्तयत् ॥ 1039cd

आदिदेशाथ तत्सिद्ध्यै रहः शस्त्रभृतां वरम् । 1040ab
शूरं कलशराजाख्यं ठक्कुरं लोहराश्रयम् ॥ 1040cd

प्रहिणोति यदा दूतं प्रयागस्ते तदा त्वया । 1041ab
सम्पाद्यमेतदित्यूचे तं चोपचितसत्क्रियम् ॥ 1041cd

असिद्धिभीत्या स्वं दूतं स ग्रहिण्वन्प्रयागकः । 1042ab
सम्मन्त्र्य क्रियतामेतदित्यूचे कुपितो नृपम् ॥ 1042cd

राज्ञि मन्त्रयमाणेथ324 पञ्चानीयाग्र्यमन्त्रिणः । 1043ab
वामनः सार्गले द्वारे त्यक्तदेहोब्रवीद्वचः ॥ 1043cd

मन्त्रश्च मन्त्रिणश्चैते न यावन्निःसृता बहिः । 1044ab
तावत्क्रियेति चेदेतन्न भद्राणि दरिद्रति ॥ 1044cd

राजाज्ञया प्रयोगेन325 ततो दूते विसर्जिते । 1045ab
तीक्ष्णः कलशराजाख्यस्तनयाभ्यां सहाययौ ॥ 1045cd

तस्मिन्प्रसङ्गे तान्वङ्गिः श्येनस्य दददातपम् । 1046ab
राजधान्यन्तरेवासीद्द्वित्रैरनुचरैः समम् ॥ 1046cd

पुरः कलशराजं तं दृष्ट्वा पश्चाच्च तत्सुतौ । 1047ab
यावत्साशङ्कमाचख्यौ326 तावद्भृत्यैर्निजैर्जहे ॥ 1047cd

शक्तोपि धम्मटः क्रष्टुं कृपाणीमिति वादिनम् । 1048ab
हन्तुं कलशराजं तु यावच्छस्त्रे व्यधात्करम् ॥ 1048cd

तावत्तेनाग्रतः पश्चात्तत्पुत्राभ्यां कृताहतिः । 1049ab
आसनादुच्चलन्नेव क्षिप्रं प्राणैरमुच्यत ॥ 1049cd

मुमूर्षुणा क्षतस्तेन ज्यायान्कलशराजजः । 1050ab
चित्रमायुधवैगुण्यान्नाभीक्ष्णव्रणितोभवत् ॥ 1050cd

तस्य ह्यभाग्ययोगेन तेष्वेवाहःसु शस्त्रिणः । 1051ab
निजा कृपाणी तुत्रोट तेनाभद्रायुधोभवत्327 ॥ 1051cd

निहत्य पातितः पृष्ठात्स तैर्व्याधैरिवाण्डजः । 1052ab
शुनां ग्रासाय सन्त्यक्तः श्वपाकैः पार्थिवाज्ञया ॥ 1052cd

राज्ञा तन्वङ्गनप्तारौ स्वयं रल्हणमल्हणौ । 1053ab
आगत्य प्राङ्गने त्यक्तकृपाणी परिरक्षितौ ॥ 1053cd

दत्तास्कन्दास्तु328 टुल्लाद्याः संरम्भेण युयुत्सवः । 1054ab
माययोदयसिंहेन दाम्भिकेनैत्य वञ्चिताः ॥ 1054cd

यूयं पुत्रा ममेत्युक्तवतस्ते धार्मिकस्य यत् । 1055ab
प्रत्ययात्तस्य शस्त्राणि नत्यजुर्जीवितेच्छवः ॥ 1055cd

राज्ञो विशुद्धिः क्रियतां पार्श्वमेत्येति तद्वचः । 1056ab
तैः समागत्य जगृहे मार्गो राजगृहान्प्रति ॥ 1056cd

तन्वङ्गजगृहोच्छिष्टैर्बाल एव विवर्धितः । 1057ab
टुल्लं ततो विहस्यैवं स्वच्छत्त्रग्राहकोवदत् ॥ 1057cd

तन्वङ्गनप्तर्यत्पूर्वं329 जयराजमभाषथाः । 1058ab
न त्वम् निःसत्त्व कय्याया इति तद्विस्मृतं तव ॥ 1058cd

स ते तादृश एवायं वर्तते सङ्कटः क्षणः । 1059ab
किं धैर्यावसरे मूढ वैक्लव्यमवलम्बसे ॥ 1059cd

तस्माज्जातोसि नियतं मत्पित्रोच्छिष्टमुष्टिना । 1060ab
अहम् तु तेन वीरेण त्वत्पित्रा कीर्तिभागिना ॥ 1060cd

इत्युक्त्वा स रणे गृह्णन्खड्गधाराजलज्जलम् । 1061ab
पपात जन्ममालिन्यं मानी प्रक्षालयन्निव ॥ 1061cd

नृपान्तिकं प्रयास्याम इति निश्चयतस्ततः । 1062ab
टुल्लादीन्राजपुरुषाः कारागारे निचिक्षिपुः ॥ 1062cd

ते यौवनभरोन्मत्ता द्रुमा वासन्तिका इव । 1063ab
प्रत्यभासन्त कारुण्याद्रक्षणीयाः क्षमाभुजः ॥ 1063cd

टक्कस्तु बिम्बियो नाम पापः सम्प्रेक्ष्य भूभुजम् । 1064ab
न्यजिग्रहत्तान्ग्रीवासु निशि पाशान्निवेशयन् ॥ 1064cd

टुल्लो विजयराजश्च बुल्लो गुल्लश्च तेलुठन् । 1065ab
तन्वङ्गपौत्राश्चत्वारो हता वध्यमहीतले ॥ 1065cd

[page 144]

विश्वास-प्रस्तुतिः

हतानामपि सौन्दर्यं तेषामद्यापि वर्ण्यते । 1066ab
कथान्तरे वयोवृद्धैर्बद्धास्रुस्यन्ददुर्दिनैः ॥ 1066cd

सतताभ्यस्तताम्बूलैः स्रस्तैस्तद्दशनाङ्कुरैः । 1067ab
कीर्णशोणाश्ममालेव330 सुचिरं वध्यभूरभूत् ॥ 1067cd

वृद्धिमानीतयो राज्ञाप्युत्कर्षापत्ययोस्ततः । 1068ab
ज्यायान्प्रमिम्ये331 डोम्बाख्यो गूढदण्डैः कुलच्छिदा ॥ 1068cd

स्फुलिङ्गमिव सम्भाव्य तेजोविस्फूर्जितं शिशुम् । 1069ab
जघान जयमल्लं च तद्विद्विजयमल्लजम् ॥ 1069cd

गोप्तॄन्स्वगोत्रजान्हत्वा332 भोक्तुमेकस्य कस्यचित् । 1070ab
कुर्वन्ति दैवोपहता राज्यम् निष्कण्टकं नृपाः ॥ 1070cd

संरूढं मधुगोलमुच्चविटपव्यूहावलीङ्गह्वरे मूढः कर्तुमकृच्छ्रहार्यमभितः कस्यापि भव्यात्मनः । 1071ab
दैवप्रेरणया प्रकम्पविवशः पत्त्रप्रहारैर्दृढं तद्गोप्तॄन्मधुपान्निहत्य333 शमयत्यश्वत्थपृथ्वीरुहः ॥ 1071cd

ज्ञातिद्रोहमहापाप्मनष्टधीरथ पार्थिवः । 1072ab
डिम्बानामप्यसम्भाव्यामभजद्विटभोज्यताम् ॥ 1072cd

वामनस्यात्मजः क्षेमस्तं जाजञ्जनकद्विषम्334 । 1073ab
प्रैरयत्कलशेशस्थच्छत्त्रहेमनिवर्हणे335 ॥ 1073cd

तामिच्छामच्छिनत्तस्य भक्तो युक्त्या प्रयागकः । 1074ab
धावतः श्वभ्रपतिच्छां धीरो यन्तेव दन्तिनः ॥ 1074cd

अनिशं नष्टचेष्टानां शवानामिव भूभुजाम् । 1075ab
अन्तःप्रवेशकुशलो यो वेताल इवाभवत् ॥ 1075cd

नप्ता हलधरस्याथ विटो लोष्टधराभिधः । 1076ab
जगाद निर्जने जातु राजानं रञ्जनेच्छया ॥ युग्मम्॥ 1076cd

ह्रियतां ग्रामहेमादि कलशेश्वरसम्श्रयम् । 1077ab
तत्प्रासादाश्मभिः सेतुं वितस्तायां करोमि ते ॥ 1077cd

आलेख्यं गगने लिखामि विसिनीसूत्रैर्वयाम्यम्बरं स्वप्नालोकितमानयामि कनकं ग्रथ्नामि वप्रं हिमैः । 1078ab
इत्याद्युक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो यस्तादृक्त्रपया न वक्ति स गतप्रौढिः परं वञ्च्यते ॥ 1078cd

निषिषेध चिकीर्षां तु प्रयागस्वामपि प्रभोः । 1079ab
सदुपस्थायिकोपथ्याभ्यर्थनामिव रोगिणः ॥ 1079cd

अथ लोष्टधरो हास्यावसरे जातु भूपतिम् । 1080ab
बद्धस्य मोक्षो देवस्य क्रियतामित्यभाषत ॥ 1080cd

स्मित्वा किमेतदित्युक्तवन्तं तं स व्यजिज्ञपत् । 1081ab
उदभाण्डपुरे ॰ ॰336 भीमशाहिरभूत्पुरा337 ॥ 1081cd

विरोधात्पारिषद्यानां338 तत्कृतो भीमकेशवः । 1082ab
राज्ये कलशदेवस्य बद्धद्वारोभवच्चिरम् ॥ 1082cd

तैः शान्तैर्वैरैर्विदधे यदाथ विवृताररिः । 1083ab
चौरापहृतदुर्वर्णकवचो ददृशे तदा ॥ 1083cd

भूयोपि चक्रे तद्भीत्या कोशसामर्थ्यभागिति । 1084ab
ततः प्रभृत्यद्य यावद्बद्धद्वारारदिः स्फुटम् ॥ 1084cd

आदीयतां तदीयस्तत्कोशश्चौरभयावहः339 । 1085ab
सोपि बन्धाद्विमुक्तोस्तु पुष्पदीपादिभोगभाक् ॥ 1085cd

इति सम्प्रेरितस्तेन तथा चक्रे स भूपतिः । 1086ab
कोशं ततः प्रपेदे च मणिस्वर्णादिनिर्भरम् ॥ 1086cd

अचिन्तयच्च यत्रेदृग्वस्तु340 शून्यसुरास्पदे । 1087ab
कीदृक्तत्रापरेषु341 स्यादाद्येषु सुरवेश्मसु ॥ 1087cd

कृतप्रायः स तत्रत्यैः पारिषद्यैस्ततो नृपः । 1088ab
निष्क्रयं रूढभारोढिवारणेन प्रदापितः ॥ 1088cd

क्रमेण सेनाननाङ्गव्ययव्यसनशालिनः । 1089ab
सुरार्थहरणे342 रूढा धीः सम्भावनया तथा ॥ 1089cd

पूर्वराजार्पितन्कोशांस्ततः स भुवनाद्भुतान् । 1090ab
सर्वगीर्वाणवेश्मभ्यो लुब्धबुद्धिरपाहरत् ॥ 1090cd

[page 145]

विश्वास-प्रस्तुतिः

हतेषु कोशेष्वानेतुं देवानां प्रतिमा अपि । 1091ab
चकारोदयराजाख्यं देवोत्पाटननायकम्343 ॥ 1091cd

वदनेषु च नग्नाटैः शीर्णध्राणाङ्घ्रिपाणिभिः । 1092ab
मूर्तिनाशाय देवानां शकृन्मूत्राद्यपातयत् ॥ 1092cd

स्वर्णरूप्यादिघटिता344 गीर्वाणाकृतयोलुठन् । 1093ab
अध्वस्विन्धनगण्डाल्य इव सावस्करेष्वपि ॥ 1093cd

विवुधप्रतिमाश्चक्रुराकृष्टा गुल्फदामभिः । 1094ab
थूत्कारकुसुमच्छन्ना भग्ननग्नाटकादयः345 ॥ 1094cd

ग्रामे पुरेथ नगरे प्रासादो न स कश्चन । 1095ab
हर्षराजतुरुष्केण न यो निष्प्रतिमीकृतः ॥ 1095cd

तस्य देवावधृष्यौ द्वौ परमस्तां प्रभाविनौ । 1096ab
नगरे श्रीरणस्वामी मार्ताण्डः पत्तनेष्विव ॥ 1096cd

द्वौ महाप्रतिमामध्याद्बुद्धविम्बावरक्षताम् । 1097ab
दानप्रसङ्गे तं जातु याचित्वा त्यागिनं नृपम् ॥ 1097cd

परिहासपुरे जन्ममेदिन्यां कनकाभिधः । 1098ab
गायनः कुशलश्रीश्च श्रमणो नगरान्तरे ॥ 1098cd

अधिगतवतां लोके विश्वाद्भुतामपि सम्पदं न खलु विरतिर्दुष्कर्मभ्यो धनाaर्जनकाङ्क्षिणाम् । 1099ab
किमपि कमलावाप्त्यै पद्माकरोद्धृतिपातकं भजति कमलालीलावासो भवन्नपि हि द्विपः ॥ 1099cd

पैतामहेन पित्र्येण तथा राज्यचिकीर्षया । 1100ab
लोहरादाहृतार्थस्य कोशेनोत्कर्षभूपतेः346 ॥ 1100cd

युक्तोपि पूर्वराजार्थं वेदौक्रोभो जहार यः । 1101ab
ऐच्छद्धनार्जनं हा धिक्सोपि वास्तव्यपीडया ॥ युग्मम्॥ 1101cd

तदाज्ञामात्रमादाय सचिवैरथ पापिभिः । 1102ab
ते ते नवनवायासनामाङ्का नायकः कृताः ॥ 1102cd

कालानुवृत्तिपरतां धिग्धिग्राजोपजीविनाम् । 1103ab
यत्र मन्त्री वयःस्थः सन्सदाचारोपि गौरकः ॥ 1103cd

सर्वदेवगृहग्रामसर्वस्वापहृतिव्रतम् । 1104ab
स्वीचकाराज्जया भर्तुरर्थनायकतामपि ॥ युग्मम्॥ 1104cd

पार्षदः समरस्वामिदेवागारे सहेलकः347 । 1105ab
आप्तो विजयमल्लस्य यो राज्ञो द्वेष्यतां ययौ ॥ 1105cd

द्विगुणोत्पत्तिदानेन सोर्थनायकतां गतः । 1106ab
लब्धावकाशो राजाग्रे क्रमेणासीन्महत्तमः ॥ 1106cd

किमन्यदद्धरता तेन सर्वार्थान्सर्वनायकैः । 1107ab
व्यधीयत धनावाप्त्यै पुरीशस्यापि नायकः ॥ 1107cd

श्रीगर्भपदपर्यायच्छन्नजाड्यप्रभावतः । 1108ab
तथार्जितस्य कोशस्य सोनुरूपव्ययोभवत् ॥ 1108cd

मृगीदृशां दुर्लभताम् हयानां श्वासान्विटानां कुवचःसहत्वम् । 1109ab
वैतालिकानां च विकत्थनत्वं क्रेतुम् क्षितीशाः क्षपयन्ति लक्ष्मीम् ॥ 1109cd

कोपप्रसादैर्दयिताजनस्य हयादिवृत्तान्तगवेषणेन । 1110ab
भृत्यानुवृत्त्या मृगयाकथाभी राज्ञां शिशुनामिव याति कालः । 1110cd

विलासहासासनयानदानपानाशनाद्या असतीः सतीर्वा । 1111ab
छायेव चेष्टाः क्षितिपालवर्गः परानुकारेण करोति सर्वाः ॥ 1111cd

अमानुषत्वं पुरुषाधिराजा विटस्तवैः स्वस्य विचिन्त्य सत्यम् । 1112ab
तृतीयमक्ष्यभ्यधिकं भुजौ वा ममेति मत्वा न विदन्ति मृत्युम् ॥ 1112cd

निशासु येषां प्रभवन्ति दारा दिनेष्वमात्या नियताधिकाराः । 1113ab
अहो भ्रमः स्वस्य यदत्र तेपि विदन्ति भूपा प्रभविष्णुभावम् ॥ 1113cd

[page 146]

विश्वास-प्रस्तुतिः

स्वादूचितं सावुतयैव भुङ्क्ते थूत्कृत्य मुञ्चत्यपि थूत्कृतानि । 1114ab
वित्रासितस्त्रासमुपैत्यकस्माद्भूभृच्च बालश्च समानभावः ॥ 1114cd

जाड्यमित्यादि यत्किञ्चित्क्षितिपानां कटाक्षितम् । 1115ab
तत्सर्वं हर्षदेवस्य जाड्येन लघुतां ययौ ॥ 1115cd

तुष्टः पटहवाद्येन हृद्यातोद्यविदे ददौ । 1116ab
भामनायकनाम्ने स करिणं करिणीसखम् ॥ 1116cd

स्वशिष्यस्तेन तस्यासीद्गायनः कनकोथ सः । 1117ab
चप्पकावरजः खेदाद्गीताभ्यासकृतोद्यमः ॥ 1117cd

प्रसादीकृतमस्मै च खेदच्छेदनमिच्छता । 1118ab
तेन काञ्चनदीन्नारलक्षमक्षतचेतसा ॥ 1118cd

कर्णाटभर्तुः पर्माण्डेः सुन्दरीं चन्दलाभिधाम् । 1119ab
आलेख्यलिखितां वीक्ष्य सोभूत्पुष्पायुधक्षतः ॥ 1119cd

उत्तेजयन्ति सङ्घर्षे हास्ये जडमतीन्विटाः । 1120ab
सारमेयानिवाजस्रं प्रोत्साह्य प्राकृताशयाः ॥ 1120cd

स्स विटोद्रेचितो वीतत्रपश्चक्रे सभान्तरे । 1121ab
प्रतिज्ञां चन्दलावाप्त्यै पर्माण्डेश्च विलोडने ॥ 1121cd

कृतापक्त्रिमकर्पूरपरित्यागं प्रतिज्ञया । 1122ab
तं च स्तुतिमिषादेवं जहसुः कविचारणाः ॥ 1122cd

भाषाविशेषविशेषतः परिगतस्त्वं दाक्षिणात्योध्वगो गन्धादप्यवधारितं यदुत ते कर्पूरकोलं करे । 1123ab
पक्वं चेदिदमङ्ग हर्षनृपतेस्तत्कल्पयोपायनं नो चेत्तिष्ठतु नालिकेरकुहरे सम्प्रत्यमुष्मिन्यतः ॥ 1123cd

आ कर्णाटवसुन्धराधववधादा चन्द्रलालिङ्गनादा कल्याणपुरप्रवेशनिविधेरा पिम्मलादर्शनात् । 1124ab
आ राजाश्रयकाननान्तवसुधापारर्द्धिकौतूहलाद्देवेन प्रतिषिद्धमिद्धमहसा पोताससञ्चर्वणम् ॥ 1124cd

विटः प्रसाद्य नृपतिं मदनः कम्पनापतिः । 1125ab
महत्तरत्वं जग्राह तस्याश्चित्रार्पिताकृतेः ॥ 1125cd

वस्त्रालङ्कारनिर्वाहकृतेमुष्याश्च वेतनम् । 1126ab
नित्यमादत्त भूपालाद्दायमीर्ष्याशमाय च ॥ 1126cd

विटत्वे निस्त्रपत्वे च मदनस्य कथाक्रमः । 1127ab
मौग्ध्ये पारिप्लवत्वे च नृपस्य निकषोभवत् ॥ 1127cd

मातेयं बप्पिका348 नाकात्तवानीतेति वादिभिः । 1128ab
सन्दर्श्य जरतीं नारीं मुषितः सोपरैर्विटैः ॥ 1128cd

दासीश्च देवता एता इत्युत्वान्यैः प्रवेशिताः । 1129ab
उन्नतिं च श्रियं चौज्झत्प्रणमञ्जहसे जनैः ॥ 1129cd

दास्यो मदनसंलापमन्त्राद्युल्लेखकारिभिः । 1130ab
अध्यापिता विटैस्तस्य मतिमोहं प्रचक्रिरे ॥ 1130cd

ताभ्यः काभिरपि क्ष्माभृत्सुरतं समयोचितम् । 1131ab
वाञ्छन्तीभिः कृतः स्वाङ्गस्पर्शाद्भाग्योदयोज्झितः ॥ 1131cd

आयुष्कामाय भूयांसं कालं जीवितकाङ्क्षिणे । 1132ab
आयुर्वर्षशतान्यस्मै ता मूढमतये ददुः ॥ 1132cd

डोम्बेन पिण्डसिद्धार्थी केनाप्येतद्रसायनम् । 1133ab
पिण्डसिद्धिकृदित्युत्वा पेयं किमपि पायितः ॥ 1133cd

किं तस्य कथितैरन्यैर्मौग्ध्यैर्यो याचितो विटैः । 1134ab
विद्यमानादिव धनादायुषोपि व्ययं व्यधात् ॥ 1134cd

बलरूपेच्छुरपरानुपायान्यानसेवत । 1135ab
कथयेत्कः सदाचारस्तानतोपि त्रपावहान् ॥ 1135cd

स एवमन्धतामिस्रे349 निक्षिप्तः शाश्वतीः समाः । 1136ab
मुग्धबुद्धिः स्वजाड्येन350 दुर्जातैश्च कुमन्त्रिभिः ॥ 1136cd

मेघवसहनमुख्यानां कृत्ये लोकोत्तरे यथा । 1137ab
सन्त्यद्याल्पधियः केचित्सन्देहान्दोलिताशयाः ॥ 1137cd

तथास्मिन्नपि दुष्कृत्ये वर्ण्यमानेद्भुतावहे । 1138ab
भविष्यतीत्व कालेन कालेन नूनमप्रत्ययो जनः ॥ 1138cd

राज्ये बहुच्छले तादृग्दुर्नीत्योपहतोप्यभूत् । 1139ab
आयुःशेषेण न वशे स रन्ध्रान्वेषिणां द्विषाम् ॥ 1139cd

[page 147]

विश्वास-प्रस्तुतिः

नर्तकीः शिक्षयन्नात्रावुत्थायाभिनयं स्वयम् । 1140ab
तिष्ठन्दीपोज्ज्वले धाम्नि दूरात्केनापि शत्रुणा ॥ 1140cd

क्षिप्तेषुरपि नाभूद्यन्निहतो व्रणितोथ वा । 1141ab
फलं तस्यायुःशेषस्य प्रजानां कुकृतस्य वा ॥ 1141cd

कश्चिदेवाथ शुद्धान्ते पातदूतो महीपतेः । 1142ab
सर्वाशुद्धिनिधेः351 प्राभून्नारीचारित्रविप्लवः ॥ 1142cd

ते युवानो मदोन्मत्तास्ताः स्त्रियो यौवनोन्मदाः । 1143ab
नाशाय हर्षदेवस्य तस्मिन्नेवाभवन्क्षणे ॥ 1143cd

निगृहीतास्तेन रोषात्सजाराः काश्चन स्त्रियः । 1144ab
काश्चित्त्वाकृष्य शुद्धान्ताज्जारैर्नीता दिगन्तरम् ॥ 1144cd

स्वेन दौःशीलदोषेण सर्व एव विशङ्किताः । 1145ab
भृत्यास्तस्याशुभान्यैच्छन्नयतन्त च शान्तये ॥ 1145cd

तस्यापि शीलवैकल्यं तावत्सर्वत्र पप्रथे । 1146ab
यावत्कलशभूपालात्सञ्जातस्योपपद्यते ॥ 1146cd

शैशवे वर्धितो याभिरङ्कमारुह्य मातृभिः । 1147ab
सोङ्कमारोप्य ता एव चुम्बन्सम्बुभुजेनिशम् ॥ 1147cd

सम्भोगं भगिनीवर्गे कुर्वता दुर्वचोरुषा । 1148ab
निगृहीता च भुक्ता च नागा पुत्री पितृस्वसुः ॥ 1148cd

स तरुष्कशतधीशाननिशं पोषयन्धनैः । 1149ab
निधनावधि दुर्बुद्धिर्बुभुजे ग्राम्यसूकरान् ॥ 1149cd

अथ सेवाभिसारेण कदापि कुपितो नृपः । 1150ab
स मन्दबुद्धिरास्कन्दमदाद्राजपुरीं प्रति ॥ 1150cd

विलोक्य सैन्यसामग्रीमनन्यसदृशीं पथि । 1151ab
त्रैलोक्याक्रान्तिसामर्थ्यं पार्थिवैस्तस्य शङ्कितम् ॥ 1151cd

स तु पृथ्वीगिरिं दुर्गं दृष्ट्वा तद्ग्रहणोद्यतः । 1152ab
अप्रविष्टो राजपुरीं तन्मूले समुपाविशत् ॥ 1152cd

मासमभ्यधिकं तेन तस्थुषा परिपीडिताः । 1153ab
प्रक्षीणान्नादिसम्भारा बभूवुर्दुर्गरक्षिणः ॥ 1153cd

त्रातुं सङ्ग्रामपालस्तानूरीचक्रे धरापतिः । 1154ab
कियन्तं न करं भीतः कियतीर्न च संविधाः ॥ 1154cd

उपोड्ःअदार्द्ये नृपतौ स तदप्रतिगृह्णति । 1155ab
लुब्धमुत्कोचदानेन स्वीचक्रे दण्डनायकम् ॥ 1155cd

अमन्यमाने352 नृपतौ व्यावृत्तिं प्रेरिता रहः । 1156ab
प्रवासवेतनं भूरि मार्गितुं तेन शस्त्रिणः ॥ 1156cd

तैः प्राये प्राकृतप्रायैः कृते सोल्लुणट्ःअभाषितैः । 1157ab
राज्ञो दूरस्थकोशस्य कटकः क्षोभमाययौ ॥ 1157cd

स तत्समर्थनां यावच्चक्रे तावद्विभीषिकाम् । 1158ab
तुरुष्कास्कन्दजामन्यां प्रददौ दण्डनायकः ॥ 1158cd

अथाल्पधैर्यो नृपतिरुत्थाप्य कटकं ययौ । 1159ab
कृत्स्नां च कोशसामग्रीं तस्याजाध्वसु साध्वसात् ॥ 1159cd

अपरीक्ष्यादृतो भृत्यः स्वामिनामतिसङ्कटे । 1160ab
करोति व्यसनापातमजात्योसिरिवाहवे ॥ 1160cd

तेन स्वयमयोग्येन योग्यानन्याननिच्छता । 1161ab
कलङ्किता नरेन्द्रश्रीः क्षुद्रश्वेनेव मन्दुरा ॥ 1161cd

ततः प्रभृति निर्वाणप्रतापस्य महीपतेः । 1162ab
प्रतापचक्रवर्त्याख्या सर्वतो म्लानिमाययौ ॥ 1162cd

म्लानाननो न यत्सिद्धं स्वेन भृत्यैस्तथाखिलैः । 1163ab
तत्कर्म कृतवन्तं स कन्दर्पं बह्वमन्यत ॥ 1163cd

आनिनीषोश्च तं तस्य जडस्याकृत भूपतेः । 1164ab
दण्डनायक एवेच्छाच्छेदं पैशुनकर्मणा ॥ 1164cd

ज्ञातद्रोहोथ नृपतिरबध्नाद्दण्डनायकम् । 1165ab
प्रातिपत्त्यानुरोधेन न क्रुधा न्यग्रहीत्पुनः353 ॥ 1165cd

दुर्गे354 सन्दिग्धजीवोपि निवसन्सञ्चिकाय सः । 1166ab
लुब्धस्ताम्बूलवस्त्रादि प्रहितं भृत्यबान्धवैः ॥ 1166cd

आत्मनः सर्वनाशाय सञ्जातं दैवमोहितः । 1167ab
वर्धार्हं प्रत्युत पुनर्निन्ये तं स्वपदं नृपः ॥ 1167cd

तं विटाश्चाटुभिर्भूयो राजानमुदतेजयन् । 1168ab
घोषयान्राजितं स्तोत्रैः कर्णाद्या इव कौरवम् ॥ 1168cd

[page 148]

विश्वास-प्रस्तुतिः

वादी वादपराजितः प्रतिभटं गालीभिरत्याक्षिपन्योषिन्नाष्टसतीव्रता कुकलहैरुद्वेजयन्ती पतिम् । 1169ab
कायस्थश्च हृताखिलार्थमहिमा कृच्छ्रे नृपं पातयन्स्वस्यासन्नपराभवस्य कुरुते भूयः समुत्तम्भनम् ॥ 1169cd

भुक्तदेयधनो बिभ्यत्तं सहेलमहत्तमः । 1170ab
उर्वीपतिं दुर्व्यसने प्रेरयन्स्वार्थपण्डितः ॥ 1170cd

बन्धुमन्विष्य दरदां लवन्यैः सह लाहरैः । 1171ab
दुर्गघाताभिधं दुर्गं ग्रहीतुं तमचूचुदत् ॥ 1171cd

यद्धि लक्कनचन्द्राख्ये पुरा गोप्तरि डामरे । 1172ab
जनकद्वारपतिना हतेनन्तनृपाज्ञया ॥ 1172cd

प्रायोपविष्टया द्वारे तत्पत्न्यापि समर्पितम् । 1173ab
कलशक्ष्माभुजा कॢप्तोपेक्षं प्राप दरन्नृपः ॥ 1173cd

तद्बलाद्दारदैः क्रान्तानन्तग्रामेत्र मण्डले । 1174ab
राजा च मन्त्रिणा चाथ बभूव स्वीकृतोद्यमः ॥ 1174cd

निह्रदे355 तत्र गोप्तॄणां वृत्तये सम्भृतं हिमम् । 1175ab
अवग्रहेण तत्तस्मिन्क्षणे निःशेषतां ययौ ॥ 1175cd

चारैस्तद्रन्ध्रमालक्ष्य तद्ग्रहाय महत्तमः । 1176ab
अभीक्ष्णं प्रेरयन्क्ष्मापं स च तत्रोद्यमं व्यधात् ॥ 1176cd

वातगण्डं356 तदुद्योगे प्रतिष्ठासुं नृपाज्ञया । 1177ab
चप्पको द्वारकार्यस्थमभिसन्धातुमैहत ॥ 1177cd

द्वारं निवार्य भूपेन प्रापितो मण्डलेशताम् । 1178ab
सर्वैः सहाभजद्वारं स हि द्वाराधिकारिभिः ॥ 1178cd

विसूत्रितोपि357 कटके तेन द्वारपतिस्ततः । 1179ab
तीर्त्वा मधुमतीं सिन्धुं सैन्यैर्दुर्गमवेष्टयत् ॥ 1179cd

समस्तानपि सामन्तान्प्रहिण्वन्सर्वतः स्वयम् । 1180ab
एकप्रयाणान्तरितः कोटेपि व्यवसन्नृपः ॥ 1180cd

त्यजद्भिर्गण्डशैलादि दुर्गसंश्रयदुर्जयैः । 1181ab
काश्मीरिकाः358 सह दरत्सैनिकैः समरं व्यधुः ॥ 1181cd

विदधे प्राजिमठिकानाम्न्याघातपदे वसन् । 1182ab
सपुत्रो गुङ्गजो मल्लः सम्भ्रमानतिदुःसहान् ॥ 1182cd

तत्पुत्रै359 दैववित्प्रोक्तराज्यप्राप्ती तदिच्छया । 1183ab
मानं व्यवर्धिषातां यौ वीरावुच्चलसुस्सलौ ॥ 1183cd

अत्युद्दामस्तयोर्ज्यायान्द्विषन्नपि नृपासनम् । 1184ab
आसीद्भाव्यर्थमाहात्म्याद्यात्रायां तत्र निर्गतः ॥ 1184cd

अवग्रहेण भूपालप्रतापेन च शोषिताः । 1185ab
यथाकथञ्चित्तद्दुर्गं ररक्षुर्दारदा भटाः ॥ 1185cd

अथाज्ञेय विधेर्हर्षप्र्तापपरिपन्थिनी । 1186ab
पपात महती वृष्टिरेकीकृतजलस्थला ॥ 1186cd

दुर्गशृङ्गं हिमैः कृत्स्नं दुर्भेद्यैः पर्यवार्यत । 1187ab
अनुकूलेन विधिना सन्नाहैर्निहितैरिव ॥ 1187cd

उत्थाने पातयन्कांश्चित्पतने कांश्चिदुत्क्षिपन् । 1188ab
वेधाः कन्दलयत्वेव कन्दुकक्रीडितभ्रमम् ॥ 1188cd

ततः स्मृत्वा गृहान्वृष्टिदुःस्थास्ते दुष्टमन्त्रिणः । 1189ab
चक्रिरे पूर्ववद्राज्ञः स्कन्दावारे विसूत्रणम् ॥ 1189cd

ऊर्ध्वस्रोतोनुसारीव तिमिः शैलहताननः । 1190ab
ततोपि चक्रे व्यावृत्तिम् राजा जरपराङ्मुखः ॥ 1190cd

मुक्तापणः शीर्णकोशः त्यक्तश्रीकश्च्युतायुधः । 1191ab
कटकः सर्व एवाभूत्पलायनपरायणः ॥ 1191cd

धावतः पथिभिस्तैस्तैः साक्रन्दान्राजशैनिकान् । 1192ab
पृष्ठलग्ररिपून्दीर्घा मार्गेग्रसिष्यतापगा ॥ 1192cd

क्षौमैः सहंसमालेव साब्जषण्डेव खेटकैः । 1193ab
सशेवलेव खड्गौघैः सशिलेव तुरङ्गमैः ॥ 1193cd

सौवर्णैः सथाङ्गेव राजतैर्भाजनैरपि । 1194ab
सफेनेव जनत्यक्तैरासीन्मधुमती सरित् ॥ 1194cd

नीतानां च हतानां च दरदैः प्रसृतोदयैः । 1195ab
अभून्नदीहृतानां च सङ्ख्या काचिन्न देहिनाम् ॥ 1195cd

अनाथवत्तथा भूतं सैन्यं त्रातुं कृतोद्यमः । 1196ab
एकस्तु सानुजो मानि नाचलन्माल्लिरुच्चलः ॥ 1196cd

[page 149]

विश्वास-प्रस्तुतिः

दरद्बलाम्बुधिर्धावन्स विश्वाक्रमणोद्यतः । 1197ab
ताभ्यां वेलागिरीन्द्राभ्यामिव संस्तम्भितोखिलः ॥ 1197cd

तौ रक्षित्वा बलं प्राप्तौ प्रसिद्धिमतुलां गतौ । 1198ab
पतिंवरेव राजश्रीर्भेजे लक्ष्येण तेजसा ॥ 1198cd

ततः प्रभृति लोकस्य सर्वस्यासीदसौ मतिः । 1199ab
राज्यार्हौ मानिनावेतौ क्लीबोयं न तु भूपतिः ॥ 1199cd

तथा कृत्वापि यद्राज्ञे दर्शनं परिजह्रतुः । 1200ab
तौ प्रीतिदायविमुखौ बबन्धास्थां ततो जनः ॥ 1200cd

अथ शान्तरिपुत्रासो नगरं प्राविशन्नृपः । 1201ab
प्रतापस्तु दिशः प्रायान्मल्लराजतनूजयोः ॥ 1201cd

तौ रामलक्ष्मणावेताविति सर्वस्तदाब्रवीत् । 1202ab
रावणप्रतिमे राज्ञि भाव्यर्थानुगुणं वचः ॥ 1202cd

राजा तु गतलज्जः स नित्यकृत्योपमं जडः । 1203ab
कर्तुं प्रारभताखिन्नः पुनर्मण्डलपीडनम् ॥ 1203cd

अल्पापकारमपि पार्श्वगतं निहन्ति नीचो न दूरमसमागसमप्यरातिम् । 1204ab
श्वा निर्दशत्युपलमन्तिकमापतन्तं तत्त्यागिनं न तु विदूरगमुग्ररोषः ॥ 1204cd

ततः प्रविष्टः सम्प्रीतः सेवया दत्तकम्पनम् । 1205ab
मदनं सोशृणोत्स्वैरं शंसन्तं तत्पराभवम् ॥ 1205cd

तद्रोषेण जिघांसुस्तमागो जग्राह सोपरम् । 1206ab
तस्य देवीविसृष्टाज्ञालेखोल्लङ्घनलक्षणम् ॥ 1206cd

प्राप्तो मडवराज्यात्स क्ष्माभुजादत्तदर्शनः । 1207ab
भीतो लक्ष्मीधरस्यागान्मन्दिरं टक्कमन्त्रिणः360 ॥ 1207cd

राजा प्रसाद्यमानोपि तत्कृतेन्येन मन्त्रिणा । 1208ab
सस्मितं वीक्षितं सैन्यैस्तं सपुत्रमघातयत् ॥ 1208cd

कोपस्मितं नरपतेरकालकुसुमं तरोः । 1209ab
वेतालस्याट्टहसितं नैवमेव प्रशाम्यति ॥ 1209cd

ये सम्प्ररूढविपुलप्रणयाभिमाना निःशङ्कमीश्वरनिषेवणमाचरन्ति । 1210ab
मन्त्रानुषङ्गरभसाद्भुजगेन्द्रसख्यं प्रख्यापयन्त एव ते प्रलयं प्रयान्ति ॥ 1210cd

कर्णेजपकुले तावन्मदनप्रलयावधिः । 1211ab
शापः सूर्यमतीदेव्याः प्रसारितभुजोभवत् ॥ 1211cd

विक्रमालोकनेनोत्कम्पी निचिक्षेप क्षमापतिः । 1212ab
बद्ध्वा कलशराजं तं लक्ष्मीधरनिवेशने ॥ 1212cd

विरुद्धं तस्य बद्धस्य शिक्षापेक्षामिषान्नृपः । 1213ab
तेजोवधाय सविधमुदयाख्यं व्यसर्जयत् ॥ 1213cd

लक्ष्म्या जाज्वल्यमानं तं वीक्ष्य प्रज्वलितः क्रुधा । 1214ab
लब्धासिधेनुः कस्माच्चिन्मनस्वी सहस्रावधीत् ॥ 1214cd

तद्भृत्यैरथ सङ्क्रुद्धैर्निपत्य स विपादितः । 1215ab
दुर्बुद्धेस्तस्य भूभर्तुरेवं भृत्या विपेदिरे ॥ 1215cd

मण्डले राजदण्डेन क्षतेनेव परिक्षते । 1216ab
क्षारपातोपमान्यापि प्राभूद्दुःखपरम्परा ॥ 1216cd

अहारि काञ्चनस्थाली यैः पार्थिवगृहादपि । 1217ab
सत्यप्यहसकरे जघ्नुस्तस्करास्तादृशा विशः ॥ 1217cd

प्रवर्धमाने मरके क्रन्दितध्वनिनिर्भरः । 1218ab
निर्घोषः प्रेतवाद्यानां न व्यरंसीद्दिवानिशम् ॥ 1218cd

उदीपब्रुडितग्रामे वत्सरे पञ्चसप्तते । 1219ab
अखण्डं सर्वभाण्डानां दुर्भिक्षमुदजृम्भत ॥ 1219cd

दीन्नाराणां धान्यखारिः प्राप्याभूत्पञ्चभिः शतैः । 1220ab
दीन्नारेणाभवल्लभ्यं मार्द्वीकस्य पलद्वयम् ॥ 1220cd

ऊर्णापलस्य दीन्नारैः क्रयः षड्निरजायत । 1221ab
लवणोषणहिङ्वादेरभिधाप्यास्त दुर्लभा ॥ 1221cd

शवैर्नद्योभवन्नम्भःसंसेकोच्छूनविग्रहैः । 1222ab
छन्नतोया गिरिस्रस्तैश्छिन्नदारुवनैरिव ॥ 1222cd

एतद्व्यवहिता361 राजधानी दूरान्न दृश्यते । 1223ab
ध्यात्वेति सर्वतो राजा द्रुमाणाम् छेदमादिशत् ॥ 1223cd

[page 150]

विश्वास-प्रस्तुतिः

सप्रसूनफला वृक्षा गृहस्था इव पातितः । 1224ab
कुटुम्बैरिव रोलम्बैरशोच्यन्त362 पदे पदे ॥ 1224cd

प्राणापहं महादण्डं तथार्तेपि जने नृपः । 1225ab
हलावरुग्णे वृद्धोक्षे गण्डशैलमिवाक्षिपत् ॥ 1225cd

निपीड्य लोकं कायस्थैर्महादण्डव्यवस्थया । 1226ab
पुरग्रामादिषु क्वापि न मृदप्यवशेषिता ॥ 1226cd

अथोल्वणत्वं सम्प्राप्तान्निहन्तुं सर्वडामरान् । 1227ab
स दण्डभृदिव क्रुध्यन्नादिक्षन्मण्डलेश्वरम् ॥ 1227cd

पूर्वं मडवराज्योर्व्या होलडान्तः स डामरान् । 1228ab
दत्तास्कन्दोघधीत्तांस्तान्कुलाये विहगानिव ॥ 1228cd

घ्नता लवन्यानुन्नद्धकुन्तलोविकटाकृतिः । 1229ab
जीवन्मडवराज्यान्तस्तेन विप्रोपि निज्झितः ॥ 1229cd

लावन्यबुद्ध्या शूलानि पान्यैरप्यथ रोपितैः । 1230ab
भीमरूपाभवद्भूमिर्भैरवस्य महानसः ॥ 1230cd

शूले लवन्यस्यैकस्य क्रूरां विन्यस्यतो वधूम् । 1231ab
ययुः सर्वे दिशो दिशो भीता लवन्या मण्डलेश्वरात् ॥ 1231cd

केचिद्बुभुजिरे तेषां गोमांसं म्लेच्छभूमिषु । 1232ab
अरघट्टघरट्टादिकृष्टाः केचिदवालगन्363 ॥ 1232cd

प्रहिणोत्प्राभृतं भूरि भैरवाय महीभुजे । 1233ab
लवन्यमुण्डमालालीरखण्डा मण्डलेश्वरः ॥ 1233cd

तोरणवलयो राजद्वारेदृश्यन्त सर्वतः । 1234ab
डामराणां करोटीभिर्घटीभिरिव निर्भराः ॥ 1234cd

द्वारे कङ्कणवस्त्रादि लम्बमान्ं नृपौकसः । 1235ab
नेता डामरमुण्डस्य यः कोपि स किलासदत् ॥ 1235cd

भोक्तुं डामरमुण्डानि प्राप्तविस्तीर्णतोरणाः364 । 1236ab
विदधुर्गृध्रकङ्काद्या राजद्वारोपसेवनम् ॥ 1236cd

यत्र यत्रास्त भूपालस्तत्र तत्र व्यधुर्जनाः । 1237ab
लवन्यमुण्डैरुच्चण्डैर्विस्तीर्णास्तोरणस्रजः ॥ 1237cd

गन्धेनाशुचिना घ्राणं कर्णो भीमैः शिवारुतैः । 1238ab
अखिद्यत शवाकीर्णे श्मशान इव मण्दले ॥ 1238cd

बलेरकप्रपाप्रान्तल्लोकपुण्यावधि365 व्यधात् । 1239ab
एकश्रेणीं मण्डलेशो डामरैः शूलकीलितैः ॥ 1239cd

एवं मडवराज्यं स कृत्वा निर्नष्टडामरम् ॥ 1240ab
अधावत्क्रमराज्योर्वीं कर्तुं ताम्वेव पद्धतिम् । 1240cd

अवश्यं न भविष्याम इति निश्चित्य डामराः । 1241ab
चक्रिरे क्रमराज्यस्य लौलाहे सैन्यसङ्ग्रहम् ॥ 1241cd

तैः सर्वैर्दत्तसङ्ग्रामैः कुर्वद्भिः कदनं महत् । 1242ab
आस्ते स्म तत्र सुचिरं निरुद्धो मन्डलेश्वरः ॥ 1242cd

किमन्यद्राक्षसः कश्चित्सुरतीर्थर्षिपूजितम् । 1243ab
निहन्तुं मण्डलमिदं हर्षव्याजादवातरत् ॥ 1243cd

उल्लासो रात्रिषु दिने स्वापः क्रौर्यमुदग्रता । 1244ab
अवाङ्मयत्वं कर्वव्ये दक्षिणेशोचिते रतिः ॥ 1244cd

इत्यादयस्तस्य केचिद्धर्मा नक्तञ्चरोचिताः । 1245ab
तथा हि तत्कालभवैः प्रियाः प्राज्ञैः प्रकीर्तिताः ॥ 1245cd

अत्रान्तरे मल्लसूनुः कनीयान्यौवनोन्मदः । 1246ab
लक्ष्मीधरस्य गेहिन्या हृदयाह्लादकोभवत् ॥ 1246cd

सा हि राजसुते तस्मिन्संसक्ता प्रातिवेश्मिके । 1247ab
नारज्यत निजे पत्यौ वानरप्रतिमाकृतौ ॥ 1247cd

ज्ञातीनगण्यान्हत्वान्यान्कस्माद्राज्यार्हलक्षणौ । 1248ab
नावधीरुद्धतावेतौ राजन्नुच्च्लसुस्सलौ ॥ 1248cd

इति लक्ष्मीधरेणेर्ष्यारोषादुक्तोपि भूपतिः । 1249ab
न चुक्रोधानुतापार्तिं366 पूर्वज्ञातिवधाद्गतः ॥ 1249cd

स्वयमन्यमुखेनापि स तेनोक्तस्ततोसकृत् । 1250ab
॰ ॰ 367 घाते तदौद्धत्यं ध्यात्वा साध्वसमादधे ॥ 1250cd

ज्ञातिप्रीत्यनुवृत्त्यादि तेन विस्मरता ततः । 1251ab
सम्मन्त्र्य मन्त्रिभिः सार्धं दध्रे तद्विधनिश्चयः ॥ 1251cd

आसन्नवारवनिता थक्कनाख्याथ तं व्यधात् । 1252ab
भूभर्तुर्दुरभिप्रायं तयोः कर्णपथातिथिम् ॥ 1252cd

[page 151]

विश्वास-प्रस्तुतिः

सख्या दर्शनपालेन तत्रार्थे छिन्नसंशयौ । 1253ab
निरगातां निशीथिन्यां द्वित्रैस्तावनुगैः समम् ॥ 1253cd

षट्सप्ततेब्दे नगरान्मार्गशीर्षेथ निर्गतौ । 1254ab
उन्नासवसतेः368 प्राप्तौ डामरस्योपदेशनम् ॥ 1254cd

प्रशस्तराजो दुध्रुक्षुः सिल्लराजं निजानुजम् । 1255ab
सोभिसन्धाय तौ निन्ये लवन्यो मण्डलान्तरम् ॥ 1255cd

ततो राजपुरीं ज्यायान्प्रायात्कल्हस्य भूपतेः । 1256ab
कनीयान्प्रययौ पार्श्वं कलिञ्जरधेरशितुः369 ॥ 1256cd

तयोर्निर्गतयो राज्यं न कैश्चिच्छ्रदधीयत370 । 1257ab
निमित्तज्ञेन राज्ञैव दुर्निमित्तैस्त्वशङ्क्यत ॥ 1257cd

लक्ष्मीधरमुखेनैव प्रार्थनां हन्तुमुच्चलम् । 1258ab
चक्रे सङ्ग्रामपालस्य सोङ्गीकृत्य धनं ततः ॥ 1258cd

स त्वनिकागतस्येषन्मल्लसूनोः कृतादरः । 1259ab
तया विशङ्कया शत्रोरासीदधिकगौरवः ॥ 1259cd

आसन्नाभ्युदयं शत्रुं द्वेष्ट्वैव विधिचोदितः । 1260ab
शङ्काविष्करणाल्लोके नयेत्सम्भावनाभुवम् ॥ 1260cd

राजपुर्याः प्रकृत्यैव काश्मीरानर्थकाङ्क्षिताः । 1261ab
प्रभविष्णौ रिपौ प्राप्ते चक्रिकायां किमुच्यताम् । 1261cd

कांश्चिन्निकृतिकप्रायान्पार्श्वयातानथोच्चलः ॥ 1262ab
गमागमान्कृतोद्योगो डामराणामकारयत् ॥ 1262cd

डामरास्तु महोत्साहास्तमानेतुं371 व्यसर्जयन् । 1263ab
राज्ञा विप्रकृता371 दूतान्वितीर्णोपायनान्बहून् ॥ 1263cd

तं सूर्यवर्मचन्द्रस्य तनयो जनलाभिधः । 1264ab
चकारोपचितोत्साहं मायादूतैर्विसर्जितैः ॥ 1264cd

वीक्ष्य डामरदूतांस्ताञ्जहता राजतो भयम् । 1265ab
व्यक्तं सङ्ग्रामपालेन निन्ये माहात्म्यमुच्चलः ॥ 1265cd

स कार्यगौरवात्प्रह्वो मूर्ध्नि कर्पूरचूर्णनम् । 1266ab
कृत्वा तमविनाशाय यावद्विस्रष्टुमैहत ॥ 1266cd

तावत्कलशराजाख्यस्तद्देशे मुख्यटक्कुरः । 1267ab
हर्षदेवार्पितोत्कोचस्तमेत्य विजनेब्रवीत् ॥ 1267cd

राज्ञः प्रसादनं त्यक्त्वा तवोच्चलहितैषिणः । 1268ab
कामधेनुं विनिर्धूय छागकण्ठग्रहे ग्रहः ॥ 1268cd

कोयं काश्मीरभूपानां कास्य शक्तिस्तपस्विनः । 1269ab
आराधनेन तद्राज्ञो विधेहि स्वमसाध्वसम् ॥ 1269cd

अयं राजगिरौ दुर्गे स्थाप्यतां पार्थिवस्ततः । 1270ab
स्यान्मनीषितवर्षी वस्त्रासान्मित्रं च सर्वदा ॥ 1270cd

तेनेति प्रभुराख्यातः खशानां स मिताशयः । 1271ab
तद्भीतः स्वार्थलुब्धश्च तथेति प्रत्यपद्यत ॥ 1271cd

तमभ्यधाच्च नो बन्द्धुं शक्तोहममुमुद्यतम् । 1272ab
त्वयैव बध्यतामेष मिषतः प्रेषितोन्तिकम् ॥ 1272cd

इत्युक्त्वा तं स्ववसतिं विसृज्यावददुच्चलम् । 1273ab
प्रातः कलशराजस्य त्वया त्वया गन्तव्यमन्तिकम् । 1273cd

इह प्रधानामात्योसौ तेन ते स्यादनत्ययः । 1274ab
ततो विपक्षोच्छित्त्यै त्वां प्रतिमोक्ष्यामि सानुगम् ॥ 1274cd

अथ तद्वसतिं गन्तुं चलितोन्येद्युरुच्चलः । 1275ab
प्राग्दुर्निमित्तैस्तत्कृत्यमाप्तैरथ विबोधितः ॥ 1275cd

मन्त्रे भिन्ने निवृत्तं तं श्रुत्वा खशनृपान्तिकम् । 1276ab
कुप्यन्कलशराजोथ सज्जसैन्यः समाययौ ॥ 1276cd

तमास्कन्दाय सम्प्राप्तं जानञ्शस्त्रभृतां वरः । 1277ab
ऐच्छद्रणाय निर्गन्तुं निजभृत्यैः सहोच्चल्लः ॥ 1277cd

क्षोभे सम्प्रस्तुते तं स सान्त्वयित्वा खशाधिपः । 1278ab
तिष्ठन्कलशराजेन सहानिन्ये निजां सभाम् ॥ 1278cd

निषेधाधायिनो भृत्यान्स विधूयौजसां निधिः । 1279ab
सज्जः खशसमाजं तं कोपकम्प्राधरोविशत् ॥ 1279cd

द्रष्टुं तं372 नाशकत्कश्चित्कल्पान्तार्कमिवोल्बणम् । 1280ab
क्रुद्धं कलशराजो वा राजा वा तेजसाम् निधिम् ॥ 1280cd

स विविक्तीकृते373 धाम्नि खशाधीशं374 समन्त्रिणम् । 1281ab
सान्त्वयन्तं महातेजाः कोपरूक्षाक्षरोब्रवीत् ॥ 1281cd

[page 152]

विश्वास-प्रस्तुतिः

पूर्वं दार्वाभिसारेभूद्भारद्वाजो नरो नृपः । 1282ab
नरवाहननामास्य सूनुः फुल्लमजीजनत् ॥ 1282cd

स सातवाहनं375 तस्माच्चन्दोभूत्तत्सुतः सुतौ । 1283ab
गोपालसिंहराजाख्यौ चन्दुराजोप्यवाप्तवान् ॥ 1283cd

बह्वात्मजः सिंहराजो दिद्दाख्यां तनयां ददौ । 1284ab
क्ष्माभुजे क्षेमगुप्ताय सावीरा भ्रातृनन्दनम् ॥ 1284cd

राज्ये सङ्ग्रामराजाख्यं व्यधादुदयराजजम् । 1285ab
भ्रातापि कान्तिराजोस्या जस्सराजमजीजनत्376 ॥ 1285cd

पितानन्तस्य सङ्ग्रामो जस्सस्तन्वङ्गगुङ्गयोः । 1286ab
अनन्तात्कलशक्ष्माभृद्गुङ्गान्मल्लोप्यजायत ॥ 1286cd

कलशाद्घर्षदेवाद्या जाता मल्लात्तथा वयम् । 1287ab
कोयमित्यादि तन्मन्दैः क्रमेस्मिन्कथ्यते कथम् ॥ 1287cd

पृथिव्याम् वीरभोज्यायां क्रमो वा क्वोपयुज्यते । 1288ab
वीरस्य च सहायोस्तु कः स्वबाहुद्वयत्परः ॥ 1288cd

दिष्ट्या तदनुकम्प्यानां मूर्ध्नि हस्तमिवास्पृशन् । 1289ab
काश्मीरिकाणां377 भूपानां नाभूवं कुलपांसनः ॥ 1289cd

तस्माद्द्रक्ष्यथ मे शक्तिमित्युक्त्वा निर्गतस्ततः । 1290ab
विजयाय स पत्तीनां शतेनानुगतोचलत् ॥ 1290cd

निहतं शशमादाय तद्याग्रे कश्चिदाययौ । 1291ab
स तेन सुनिमित्तेन प्राप्तां मेने रिपुश्रियम् ॥ 1291cd

अरघट्टघरट्टादिकृष्टिमुत्सृज्य निर्गताः । 1292ab
डामरा वाट्टदेवाद्यास्तं यान्तमुपतस्थिरे ॥ 1292cd

कटकस्थस्य सङ्ग्रामपालस्यायातमन्तिकात् । 1293ab
तद्देव्यो राजपुर्यन्तः खिन्नं निन्युः प्रसन्नताम् ॥ 1293cd

भुक्त्वा तद्वसतेर्गच्छन्स्वावासं स दिनात्यये । 1294ab
सैन्यैः कलशराजस्य दत्तास्कन्दोभवद्बहिः ॥ 1294cd

राज्ञीभिर्निर्गमात्तस्मिन्द्वारम् संरोध्य वारिते । 1295ab
तदीयाः सैनिका युद्धे लोष्टावट्टादयो378 हताः ॥ 1295cd

मध्यं प्रविश्य शमिते प्रधानैस्तत्र संयुगे । 1296ab
सोल्पसैन्योपि संवृत्तः सुतरामल्पसैनिकः ॥ 1296cd

चैत्रस्य पौर्णमास्यन्तः कृच्छ्रमप्यनुभूतवान् । 1297ab
वैशाखासितपञ्चम्यां यात्रामत्रस्तधीर्व्यधात् ॥ 1297cd

विसृज्य वाट्टदेवादीन्विप्रवाय379 स्ववर्त्मभिः380 । 1298ab
आललम्बे380 प्रवेशेच्छां क्रमराज्याध्वना स्वयम् ॥ 1298cd

यं राजोदयसीहान्ते कपिलं क्षेमजात्मजम्381 । 1299ab
अस्थापयल्लोहरोर्व्या स विशन्तं मुमोच तम् ॥ 1299cd

स्वयमग्रे समग्राणां खड्गचर्मधरो व्रजन् । 1300ab
पलायने पूर्वशिष्यान्पर्णोत्से तद्भटान्व्यधात् ॥ 1300cd

बद्ध्वा निःशङ्कमासीनं द्वारेशं सुज्जकाभिधम् । 1301ab
कश्मीरानामिषाकाङ्क्षि क्षिप्रं श्येन इवापतत् ॥ 1301cd

तं डमाश्च कतिचित्खाशिकाश्चाद्रिसंश्रयाः । 1302ab
राजद्विपः प्राप्तमात्रं सर्वतः पर्यवारयन् ॥ 1302cd

तमाकाशादिव स्रस्तं भुवो गर्भादिवोत्थितम् । 1303ab
निशम्यातर्कितं प्राप्तं चकम्पे हर्षभूपतिः ॥ 1303cd

मा भूदसौ बद्धमूलः क्रमराज्यान्तरस्थितम्[^1304-1] । 1304ab
मा वधीन्मण्डलेशं च ध्यायान्नित्याकुलोथ सः ॥ 1304cd

विलम्बमाने सन्नद्धसैनिके दण्डनायके । 1305ab
त्वरितं प्राहिणोत्पट्टं वितीर्णासङ्ख्यनायकम् ॥ 1305cd

दैवोपहतवीर्यो वा क्रान्तो वा द्रोहचिन्तया । 1306ab
अभ्यमित्रीणताम् त्यक्त्वा स तु मार्गे व्यलम्बत ॥ 1306cd

अन्यांश्च यान्यांस्तिलकराजादीन्व्यसृजन्नृपः । 1307ab
ते ते पट्टं समासाद्य नाकुर्वन्नग्रनिर्गमम् ॥ 1307cd

दण्डनायकमुख्येपि[^1308-1] लोके राज्ञा विसर्जिते । 1308ab
याते विमूढतां प्राप बद्धमूलत्वमुच्चलः ॥ 1308cd

वराहमूलं प्रविशन्नागतां द्विषतां बलात् । 1309ab
अश्वां सुलक्षणोपेतां राजलक्ष्मीमिवासदत् ॥ 1309cd

महावराहमौलिस्रक्तस्य मूर्ध्नि पपात च । 1310ab
तदसंस्थितया पृथ्व्या वरणार्थमिवार्पिता ॥ 1310cd

[page 153]

विश्वास-प्रस्तुतिः

काकाद्यवैद्यकुलजैर्योधैः382 संरुद्धपद्धतिः । 1311ab
स हुष्कपुरमुत्सृज्य क्रमराज्योन्मुखो ययौ ॥ 1311cd

अत्रान्तरे तमायान्तमाकर्ण्योत्सेकमागतैः । 1312ab
विद्रवोन्मुखतां निन्ये डामरैर्मण्डलेश्वरः ॥ 1312cd

तैर्हि प्रागेव भङ्गं स नीतो हत्वा महाभटान् । 1313ab
यशोराजमुखान्भूरीन्ययौ मन्दप्रतापताम् ॥ 1313cd

शनैरपसरन्सोथ तारसूलकमासदत् । 1314ab
उच्चलाधिष्ठितास्तेपि विद्विषन्तस्तमन्वयुः ॥ 1314cd

समेतानन्तसैन्येन तेन तत्र चिरं धृतः । 1315ab
उच्चलप्रलयाभ्रस्य पौरस्त्यानिलविभ्रमः ॥ 1315cd

सैन्ययोरुभयोस्तत्र जयश्रीकरिणीकृते । 1316ab
बभूव तुल्यसङ्घर्षः सेर्ष्ययोरिव दन्तिनोः ॥ 1316cd

आनन्दनामाप्युत्पिञ्जोत्थानमुच्चलमातुलः । 1317ab
चक्रे भडवराज्येथ निविडीकृतडामरः ॥ 1317cd

तद्विप्लवे डामरौघा दिग्देशेभ्यः सहस्रशः । 1318ab
उन्ममज्जुर्हिमापाये रन्ध्रेभ्य इव षट्पदाः ॥ 1318cd

तत्क्षणं क्षीणभाग्यस्य यथा द्वारपतितस्तथा । 1319ab
कायस्थः कम्पने राज्ञः सहेलोभून्महत्तमः383384 ॥ 1319cd

आनन्देन कृतास्कन्दो बहुशो विहिताहवः । 1320ab
औज्झीन्मडवराज्यं स न यत्तद्बह्वभूततदा ॥ 1320cd

अथाद्भुतप्रतापेन वेष्टयित्वा महाचमूम् । 1321ab
उच्चलेनाहवे बद्धः ससैन्यो भण्डलेश्वरः ॥ 1321cd

न विद्मः किं तदा वृत्तं योधानां यत्किलाविदन् । 1322ab
ते सखड्गाश्वसन्नाहा बद्धा वयमिति स्फुटम् ॥ 1322cd

तथा बद्धोपि निर्दध्यौ स भव्यः प्रभवे हितम् । 1323ab
स्वामिभक्तिर्विपर्येति पर्यन्तेपि न मानिनाम् ॥ 1323cd

तूर्णं पुरप्रवेशाय सोथ प्रैरयदुच्चलम् । 1324ab
विश्वास्य नेतृगन्योस्ति क्षण इत्यस्सकृद्ब्रुवन् ॥ 1324cd

विशतस्तस्य चानेकैः पुरग्रामाद्यलुण्ठयत् । 1325ab
कर्मणानेन कौलीनमस्यास्त्विति विचिन्तयन् ॥ 1325cd

परिहासपुरे तेन स ततः सम्प्रवेशितः । 1326ab
श्वभ्राम्बुविषमाद्यस्मान्निर्गमोत्यन्तदुर्गमः ॥ 1326cd

तत्रोच्चलं चतुःशाले स्वं च दग्धुमचूचुदत् । 1327ab
निजान्स निशि ते तत्तु न चक्रुस्तद्धितैषिणः ॥ 1327cd

यथा चित्तं तथास्य स्यात्कायश्चेत्साहसक्षमः । 1328ab
तदात्मनिरपेक्षस्य किं न सिध्येन्मनीषितम् ॥ 1328cd

क्लीबच्छन्नवपुस्त्वचा सह वसत्यच्छेद्यया कच्छपो निर्वर्मा रणकर्मसाहसमहोत्साहश्च सिंहः सदा । 1329ab
धिक्प्रादुष्कृतपक्षपातरभसो नीचेषु मुधो विधिर्वीराणां कुरुते शरीरमभितो वैकल्यशल्याहतम् ॥ 1329cd

सन्दिदेशाथ स क्ष्मापमाकृष्यायं मयाग्रतः । 1330ab
सृगाल इव ते क्षिप्तह् क्षिप्रं निर्गत्य बध्यताम् ॥ 1330cd

ततः समस्तसामन्तसैन्यसन्ततिसंयुतः । 1331ab
अद्य मृत्युर्जयो वेति निश्चित्य निरगान्नृपः ॥ 1331cd

स प्राणसंशये सर्वायासप्रशममादिशत् । 1332ab
पटहोद्घोषणेनासीत्परैरनुगतोखिलैः385 ॥ 1332cd

प्राप्तं भरतसेत्वग्रं घ्नन्तः सैन्यं विरोधिनम् । 1333ab
आजानेयैः राजभृत्याः क्षणान्मार्गमलङ्घयन् ॥ 1333cd

क्षुभितेब्धाविवायाते राजसैन्ये द्विषद्बलम् । 1334ab
मण्डलेश्वर एवान्तःप्रविष्टो निरनाशयत् ॥ 1334cd

अथ्जोच्चलबले भग्ने विदुद्रुः केपि जाङ्घिकाः । 1335ab
श्रान्ता राजविहारं च प्राविशन्केपि डामराः ॥ 1335cd

त्रिल्लसेनाभिधं दृष्ट्वा प्रविष्टं386 डामरं परे । 1336ab
उच्चलोसाविति भ्रान्त्या विहारं तमदाहयन् ॥ 1336cd

सोमपालाभिधेनारिहयारोहान्तरे चिरम् । 1337ab
कुर्वन्दर्शनपालस्य पितृव्येण सहाहवम् ॥ 1337cd

यत्नाज्जनकचन्द्राद्यैर्मानी व्यावर्तितो रणात् । 1338ab
परिहासपुरात्प्रायान्मृत्युवक्त्रादिवोच्चलः ॥ 1338cd

[page 154]

विश्वास-प्रस्तुतिः

वितस्तां गौरिकाबालग्रामात्तीर्त्वा387 हयान्वितः । 1339ab
स डामरैः सह पुनः प्रययौ तारमूलकम् ॥ 1339cd

जयेन तावन्मात्रेण कितवोल्प इवोन्मदः । 1340ab
राजा प्रशंसन्नानन्दं राजधानीं न्यवर्तत ॥ 1340cd

जीवन्तमप्यरिं श्रुत्वा न पश्चादलगत्स यत् । 1341ab
आसन्नुच्छ्वसितास्तेन भङ्गभाजोपि डामराः ॥ 1341cd

यातान्पलाय्य ताञ्ज्येष्ठामूलीये मासि सर्वतः । 1342ab
भूयोपि सङ्घटयितुम् स्थिरधीरैच्छदुच्चलः ॥ 1342cd

स्वदोर्मात्रसहायस्य परायत्तस्य मानिनः । 1343ab
दुर्भिक्षान्तर्महोद्योगः स तस्य विषमोभवत् ॥ 1343cd

तन्मध्येतिदरिद्रोपि सम्प्राप्तं स ररक्ष यत् । 1344ab
तमुत्पाद्यानवद्राजा श्रीपरीहासकेशवम् ॥ 1344cd

तस्मिन्विघटिते पांसुः कपोतच्छदधूसरः । 1345ab
रोदसीच्छादनं हर्षशीर्षच्छेदावधि व्यधात् ॥ 1345cd

प्रागन्धकारो388 देशेस्मिन्दिवसेपि व्यजृम्भत । 1346ab
रूपिकादिवसालोक इति यत्पप्रथे जने ॥ 1346cd

निवेशिते परीहासकेशवे प्रशशाम तत् । 1347ab
तस्मिन्नुन्मूलिते भूयः सार्धं मासमजृम्भत ॥ 1347cd

किञ्चिदुच्छ्वसिते राज्ञि मन्दोद्रेकतया रिपोः । 1348ab
दिशा शूरपुरस्याथ सुस्सलः प्रयदृश्यत ॥ 1348cd

अवनाहे389 स हि वसन्नुपालम्भपरैः पितुः । 1349ab
सन्देशैः शंसतो ज्येष्ठमौदासीन्यादपाहृतः ॥ 1349cd

दत्तान्कल्हक्षितीशेन कांश्चिददाय वाजिनः । 1350ab
चिरेण राजदाक्षिण्यमौज्झीत्तेन व्यलम्बत ॥ 1350cd

आरम्भादुदयान्तं च तिष्ठन्वैरेपि निष्ठुरे । 1351ab
साम प्रयुयुजे मोहावहं390 मायानिधी रिपोः ॥ 1351cd

जित्वा माणिक्यनामानं तेन सेनापतिं रणे । 1352ab
प्रापि शूरपुरद्रङ्गाज्ज्यश्रीः श्रीश्च भूयसी ॥ 1352cd

तस्याभ्युदयपात्रस्य तया सम्प्राप्तया श्रिया । 1353ab
आरब्धिसमयः कृत्स्नः स विभूत्यद्भुतोभवत् ॥ 1353cd

मण्डलेश्वरपट्टादीनविचिन्त्योच्चलं ततः । 1354ab
प्राहिणोन्नृपतिर्योद्धुं सुस्सलं क्षिप्तकारिणम् ॥ 1354cd

तेन शूरपुरे भग्नास्तद्योधाः शौर्यशालिना । 1355ab
भूयांसह् प्रलयं प्रापुर्मग्ना वैतरणीजले ॥ 1355cd

तत्र दर्शनपालस्य स्वामिद्रोहकृतो वपुः । 1356ab
विक्रामतो न संस्पृष्टं खिन्नयेव जयश्रिया ॥ 1356cd

राजसैन्यं तदन्येद्युर्हतशेषं पलायितम् । 1357ab
लोकपुण्ये निवसतः सहेलस्यान्तिकं ययौ ॥ 1357cd

सुस्सलापातकल्पान्तं विशङ्क्यापि सहेलकः । 1358ab
तैस्तैर्भग्नैर्बलैः साकं नगरं प्राविशत्ततः ॥ 1358cd

एवमभ्येत्य नृपतौ सुस्सलेन विसूत्रिते । 1359ab
अवाप तारमूलस्थः प्रतिष्ठां पुनरुच्चलः ॥ 1359cd

बिभ्यद्भिस्तुरगनीकात्पत्तिप्रायैः391 स डामरैः । 1360ab
आनिन्ये शैलदुर्गेण भूयो लहरवर्त्मना ॥ 1360cd

राजाप्युदयराजाख्यं कृत्वा द्वारपतिं पुनः । 1361ab
प्राहिणोदुच्चलं जेतुं लहरं मण्डलेश्वरम् ॥ 1361cd

ततः पद्मपुरं प्राप्ते मातुले मल्लजन्मनोः । 1362ab
न कोपि कम्पनं भूपान्मन्त्री त्रासातुरोग्रहीत् ॥ 1362cd

को मेस्तीति विनिश्वस्य वदतोथ महीपतेः । 1363ab
अधिकारस्रजं हस्ताच्चन्द्रराजः समाददे ॥ 1363cd

अनाशीः शयने मृत्युर्येषां तेषां स वंशजः । 1364ab
श्रीजिन्दुराजमुख्यानामौचित्यं प्रत्यपाद्यत ॥ 1364cd

स द्रौणिरिव निर्नष्टे काले सेनापतिः कृतः । 1365ab
निर्गत्य तत्पद्मपुरादरिसैन्यं न्यवारयत् ॥ 1365cd

विपक्षः कम्पनेशः स तेन क्ष्मां क्रामता392 शनैः । 1366ab
नवम्यां शुक्लनभसो हतोवन्तिपुरान्तरे ॥ 1366cd

स हि गोवर्धनधरोपान्ते कुर्वद्भिराहवम् । 1367ab
स्वसैन्यैर्वर्जितो गीतं शृण्वन्परिमितानुगः ॥ 1367cd

[page 155]

विश्वास-प्रस्तुतिः

प्रविस्यारिहयरोहैर्वितस्तातीरवर्त्मना । 1368ab
प्राप्तोकस्माद्वधं लेभे प्रमत्तानां शुभं कुतः ॥ 1368cd

प्रहितं चन्द्रराजेन क्ष्मापतिर्वीक्ष्य तच्छिरः । 1369ab
भूयो जयाशामकरोदानुकूल्यं विदन्विधेः ॥ 1369cd

वैमुख्येन व्रजन्कुर्यात्साम्मुख्यैरन्तरा विधिः । 1370ab
प्रत्यागमभ्रमं सिंह इव व्यावृत्य वीक्षितैः ॥ 1370cd

अथ लब्धबलश्चन्द्रराजोमन्दोद्यमोविशत् । 1371ab
विजयक्षेत्रमाकर्षन्कटकं दशधाष्टधा ॥ 1371cd

तुलाधर इव स्रष्टा साम्यभङ्गं न चक्षमे । 1372ab
तदा द्वयोः कटकयोस्तुलायाः पुटयोरिव ॥ 1372cd

प्राoतो यतस्तृतीयस्मिन्दिवसे मण्डलेशितुः । 1373ab
अकालवृष्टिविवशं लहरे व्यद्गवद्बलम् ॥ 1373cd

शीतवातहता योधा मग्नाः केदारकर्दमे । 1374ab
तुरगासितनुत्रादि द्राक्तिर्यञ्च इवामुचन् ॥ 1374cd

उच्चलेन ततो रक्ष्यमाणमप्यार्द्रचेतसा । 1375ab
प्राप्तं जनकचन्द्राद्या निजघ्नुर्मण्डलेश्वरम् ॥ 1375cd

हर्षभूभृद्भृत्यवर्गे द्रोहशङ्काङ्किते परम् । 1376ab
कलेवरव्ययात्कीर्तिः क्रीता तेनैव मन्त्रिणा ॥ 1376cd

ध्रुवं संस्पर्धतो वन्द्या देवशर्मादयोस्य ते । 1377ab
न चेत्कोपि विपर्यासे दोषमुद्घोषयेज्जनः ॥ 1377cd

लवन्योन्मूलनारातिव्यूहव्यामोहनादयः । 1378ab
विध्यधीने फले ध्याते स्तुत्याः कस्य न तत्क्रियाः ॥ 1378cd

किं पतालतमो न हन्ति हिमगुः किं नो विषं भीतये पानीयं गिलतः किमान्तरशिखिध्वस्त्यै न धन्वन्तरिः393 । 1379ab
सर्वत्रैकपदे प्रयात्यफलतां वाच्यो जडो नाम्बुधिः सिधेर्दैवविधेयतां विमृषतां स्तुत्यैव वस्तुज्ञता ॥ 1379cd

स्वामिकृत्योद्यमस्तुत्यसूतूतिषु स्त्रीषु पूज्यताम् । 1380ab
गज्जा तज्जननी स्वस्य नमस्यन्त्यविशचिताम् ॥ 1380cd

साहसे सा हि तनये यत्र तत्र महीभुजा । 1381ab
प्रहीयमाणे तं स्नेहमोहिताह स्म भूभुजं ॥ 1381cd

अनन्यसन्ततेरेकं सुतमेतं प्रभो मम । 1382ab
मा नियुङ्क्था394 यत्र तत्र कार्ये सन्देहितासुनि ॥ 1382cd

स तामकथयन्मातर्यथा तेनन्यसन्ततेः । 1383ab
तथा मेनन्यभृत्यस्य सोयमेकोवलम्बनम् ॥ 1383cd

स्वसम्भवस्य तां395 भर्तुर्भक्तिसम्भावनामसौ । 1384ab
प्राप्तप्रतिष्ठानिष्ठायां मेने मानवती सती ॥ 1384cd

उच्चलस्य क्षणे तस्मिन्हिरण्यपुरमूयुषः । 1385ab
राज्याभिषेकं सम्भूय तत्रत्या ब्राह्मणा ददुः ॥ 1385cd

नृपमत्यन्तविवशं प्रसङ्गे तत्र मन्त्रिणः । 1386ab
भूयांसः सन्ति तैः सार्धं व्रज तल्लोहलराचलम् ॥ 1386cd

प्रजा एव ततः शान्तोत्कण्ठा नवनृपं प्रति । 1387ab
त्वामानेष्यन्ति न चिराद्दिनैर्वा स्वयमेष्यसि ॥ 1387cd

सोभ्यधादवरोधस्त्रीकोशसिंहासनाद्यहम् । 1388ab
असामान्यं परित्यज्य गन्तुं सपदि नोत्सहे ॥ 1388cd

पुनस्तेकथयन्नाप्ता यान्तोध्यारुह्य वाजिनः । 1389ab
पृष्ठे विन्यस्य नेष्यन्ति कोशान्तःपुरयोषिँतः ॥ 1389cd

श्वपाकीकामुकोप्यासीद्यस्मिंस्तदपरोपि चेत् । 1390ab
सिंहासनं समारोहेत्काभिमानक्षतिस्ततः ॥ 1390cd

आस्तामेतत्परं ब्रूथ मन्तमित्यथ चोदिताः । 1391ab
ते पार्थिवेन भूयोपि ससंरम्भं बभाषिरे ॥ 1391cd

क्षत्रधर्मं पुरस्कृत्य शासतां क्ष्मां क्षमाभुजाम् । 1392ab
को दैन्यस्यावकाशः396 स्यादाशीर्येषां मृधे वधः ॥ 1392cd

अनुद्योगश्च लज्जा च भयं द्वैधं च मन्त्रिणा । 1393ab
भूभुजां व्यसनोल्लासे शत्रवो न तु गोत्रिणः ॥ 1393cd

कार्यं न पश्येदलसः स्वयं यो भृत्येषु विन्यस्तसमस्तकृत्यः । 1394ab
यष्ट्याश्रयस्येव विनष्टदृष्टेः पदे पदे तस्य किलोपघातः ॥ 1394cd

[page 156]

विश्वास-प्रस्तुतिः

तज्जेहमस्य397 स्वयमात्तशस्त्रः स्वल्पस्य शत्रोः कलयन्नवज्ञाम् । 1395ab
एवं किलादीर्घमतिर्ददाति स्वयम् प्रवृद्धिं त्रपया विमुग्धः ॥ 1395cd

कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति । 1396ab
अयं प्रथीयानयमप्रतिष्ठ इत्येष निष्ठानुचितोभिमानः ॥ 1396cd

पराभवाधायि भयं जिवीषोः सर्वाङ्गवैकल्यवताहितेन । 1397ab
येनाभियुक्तः स समस्तसम्पत्पूर्णोपि वैकल्यहतत्वमेति ॥ 1397cd

लब्धस्थितिः स्फीतविभूतिपात्रं दीनोभियोक्ता परपिण्डवृत्तिः । 1398ab
आद्ये कथं नाम पराभवः स्याद्भयं भेवेच्चेह न तत्र398 भावः ॥ 1398cd

अमात्यवैमत्यवशेन निष्ठा दृष्टा न कार्यस्य तनीयसोपि । 1399ab
वैशाखरज्जोरिव कर्षकाभ्यां पर्याययोगेन कृते विकर्षे ॥ 1399cd

समग्रशक्तेरेकेनाप्याशाक्रान्तस्य भूपतेः । 1400ab
वैरी सर्वाङ्गहीनोपि राज्यमायुश्च कर्षति ॥ 1400cd

यत्र द्विषष्तत्र याहि क्रान्तां च मेदिनीम् । 1401ab
पातार्थी न चिरादेवं पुनर्जयमवाप्स्यसि ॥ 1401cd

विधुरेपि विधौ शूरसहस्रपरिवारितैः । 1402ab
पतद्भिराहवे भूपैः ख्यात्याभिख्योपलभ्यते ॥ 1402cd

नृत्यच्छिन्नशिरोधरोद्धुरनटे399 ज्यालाबुवीणागुणप्रक्वाणिन्युदयच्छिवामुखशिखिज्वालाप्रदीपाङ्कुरे400400 । 1403ab
धन्याः केप्युपलभ्य400 वीरशयने शान्ताभिमानज्वरोल्लाघश्लाव्यशरीरतासफलितस्निग्धाशिषः शेरते ॥ 1403cd

उदात्तमित्यन्तकृत्यं सञ्चित्य401 कितवा इव । 1404ab
राज्ये भजन्ते दीव्यन्तः क्षत्रियास्त्रासहीनताम् ॥ 1404cd

मन्त्रान्तरानुयोक्तारं तदप्युत्सृज्य मन्त्रितम् । 1405ab
परुषं402 प्राप्तकालं च ते निःश्वस्य तमब्रुवन् ॥ 1405cd

उत्कर्षवदसूंस्त्यक्तुमपि शक्नोषि सङ्कटे । 1406ab
अन्यथानुचितं किञ्चित्प्राप्स्यस्यहितचिन्तितम् ॥ 1406cd

स तानुवाच स्वं हन्तुं न शक्तोहं ततो मयि । 1407ab
भवद्भिरेव विषमे प्रहर्तव्यमुपस्हिते ॥ 1407cd

गिरं कापुरुषस्येव क्लैव्यग्रस्तस्य तां प्रभोः । 1408ab
सबाष्पास्तेनुशोचन्तः पुनरेवं बभाषिरे ॥ 1408cd

प्रतीकाराय नः शक्तिर्न चेद्दैवहतौसजाम् । 1409ab
प्रत्युतैवंविधे कृत्ये प्रसरेयुः कराः कथम् ॥ 1409cd

पशून्पुरुषरूपान्स नूनं भूभृत्पुपोष तान् । 1410ab
दुःखेनोदखनंस्तस्य ये तादृग्दैन्यमीयुषः ॥ 1410cd

युगान्तानपि जीवित्वा कायः सापाय एव यः403 । 1411ab
तत्यागमात्रसाध्येर्ये धिग्दैन्यमनुजीविनाम् ॥ 1411cd

योषितोपि विशन्त्यग्निं यं ध्यात्वा विस्मृतिं व्रजेत् । 1412ab
भर्तृस्नेहः स पुंसोपि यस्य कोन्यस्ततोधमः ॥ 1412cd

शैलूषस्येव ये शोकभयदैन्याद्यविक्रियाः । 1413ab
भर्तुः पश्यन्ति तैरेषा भूः सतीर्थाप्यपावनी । 1413cd

क्षुत्क्षामस्तनयो वधूः परगृहप्रेष्यावसन्नः सुहृद्दुग्धा गौरशनाद्यभावविवशा हम्बारवोद्गारिणी । 1414ab
निष्पथ्यौ पितरावदूरमरणौ स्वामी द्विषन्निर्जितो दृष्टो येन परं न तस्य निरये भोक्तव्यमस्त्यप्रियम् ॥ 1414cd

भूयोपि मानुषपशून्स तान्नृपतिरब्रवीत् । 1415ab
उदात्तकृत्योप्याविश्य भूतैरिव विमोहितः ॥ 1415cd

एतस्मिन्पश्चिमे काले भुक्तं राज्यं यथा मया । 1416ab
जानेविशालेच्छतया तथान्यो नोपभोक्ष्यते ॥ 1416cd

[page 157]

विश्वास-प्रस्तुतिः

यमः कुबेरश्चौष्ठाग्रे राज्ञां तिष्ठत इत्यसौ । 1417ab
मदेकशरणैवाभूत्ख्यातिरस्मिन्कलौ युगे ॥ 1417cd

रुद्रोपेन्द्रमहेन्द्राद्याः प्रयातारो यदध्वना । 1418ab
उपस्थितायां नियतौ तत्र मर्त्यस्य काः शुचः ॥ 1418cd

किं तु दूये यदेषा भूर्भूत्वा कुलवधूरिव । 1419ab
मद्दोषाद्घट्टचेटीव प्राप्ता प्रसभभोग्यताम् । 1419cd

इतः प्रभृति यः कश्चिद्राज्यस्यास्य गतौजसः । 1420ab
चक्रिकामात्रसाध्यत्वं जानन्नाशाम् करिष्यति ॥ 1420cd

अलौकिके कृते यद्यत्तद्वीक्ष्य फलबन्ध्यताम् । 1421ab
प्राप्तोदयैरल्पसत्त्वैर्दर्पान्नूनं हसिष्यते ॥ 1421cd

कार्यारम्भः फलोल्लासमालोक्य प्रायशो जनैः । 1422ab
अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ॥ 1422cd

पक्षान्तकोरिरवलम्बनभूः स नेत्रं दुग्धेन यस्य मरणं धियि कैरिवेत्थम् । 1423ab
पारं गते मथनकर्मणि मन्दराद्रेर्दोषोर्प्यते विगुणहेतुपरीक्षणेन ॥ 1423cd

शास्त्रसन्दर्भवित्त्वेपि श्रीगर्भत्वमर्दशयम् । 1424ab
जनोपजीवनार्थं यत्तज्जातं जाड्यसिद्धये ॥ 1424cd

उच्चलेनापि सत्कृत्ये हस्ताग्रोच्चेयचेतसा । 1425ab
दर्शितश्यामदशनं करिष्यन्ते विडम्बनाः ॥ 1425cd

ततोवमानान्न त्रासात्सम्प्राप्तोद्य विहस्ताम् । 1426ab
समर्थनेच्छुर्वाञ्छामि मृत्युमीदृशमप्यहम् ॥ 1426cd

स्वैरेव स हतो नो चेत्कस्तस्माद्वसुधां हरेत् । 1427ab
लब्धां रक्षितुमिच्छामि ख्यातिमेतेन हेतुना ॥ 1427cd

मुक्तापीडः पुरा राजा ज्वलित्वा मूर्ध्नि भूभुजाम् । 1428ab
कार्पण्यप्रणयं प्राप लब्धरन्ध्रो विरोधिभिः ॥ 1428cd

स ह्युत्तरापथे नानापथस्थगितसैनिकः । 1429ab
मितानुगोहितै रुद्धमार्गोभूद्दुर्गमेध्वनि ॥ 1429cd

तं शल्यो नाम सामग्र्यवैरल्पविवशं404 नृपः । 1430ab
बन्धुं प्रतिज्ञामकरोद्वाजिलक्षैर्युतोष्टभिः ॥ 1430cd

स सामप्रमुखोपायापायध्यानावसन्नधीः । 1431ab
भवस्वाम्यभिधं कृत्यमपृच्छन्मुख्यमन्त्रिणम् ॥ 1431cd

असाध्यां सोपि निर्ध्याय विनिपातप्रतिक्रियाम् । 1432ab
न्याये निश्चित्य नैयत्यं कर्तव्ये प्रत्युवाच तम् ॥ 1432cd

उपाययुक्तिप्रत्युक्ते कृत्ये कीर्त्यभिमानिनाम् । 1433ab
निःसम्भ्रमेव प्रतिभा लोभेनाक्षोभिते हृदि ॥ 1433cd

कृत्यं कृत्यविदो लब्धप्रसिद्धिपरिरक्षणम् । 1434ab
साम्राज्योपार्जनमुखो व्यापारस्त्वानुषङ्गिकः ॥ 1434cd

गच्छञ्शरीरविच्छेदादपि भस्मावशेषताम् । 1435ab
कर्पूरः सौरभेणेव जन्तुः ख्यात्यानुमीयते ॥ 1435cd

शान्तयोर्जीवितस्थानं द्वयमत्यद्भुतं द्वयोः । 1436ab
अनङ्गस्याङ्गनापाङ्गः स्तोतृजिह्वा यशस्विनः ॥ 1436cd

ख्यातिसंरक्षणं नाम जन्तोः कल्पान्तरस्थितिः । 1437ab
वर्तते कीर्तिकायस्य सम्पूर्णाः परमाणवः ॥ 1437cd

धीरैर्विधिश्च निर्ध्येयो विरोधिष्ववधानवान् । 1438ab
यस्तेषामुन्नतिधनध्वंसाय यततेन्वहम् । 1438cd

तुङ्गावपातहठव्यसनी विधाता स्वोत्पत्तिपद्मकुलजेपि सरोजषण्डे । 1439ab
सङ्कोचिनि द्विजपतावपि शुद्धिवन्ध्ये मातङ्गहस्तपतनैः कुरुतेवमानम् ॥ 1439cd

ये हठापातिनो धातुर्धियं405 ख्यातिनिपातने । 1440ab
रक्षितुं समुपेक्षन्ते तैः किं नाम ॰[^1440-2] रक्षितम् ॥ 1440cd

जातिः क्ष्माभृति वंशजाश्रयतया ख्यातिप्रतिष्ठाभिमामुद्दीप्यानलमुज्झितस्ववपुषः केप्यत्र वेत्राङ्कुराः । 1441ab
त्रातुं हन्त विदन्ति ये न विधिना क्रुद्धेन पृथ्वीभृता द्वारि द्वाःस्थकरैर्गतागतखलीकाराणि सम्प्रापिताः ॥ 1441cd

भोगान्निर्वाणभूयिष्ठानिष्टान्प्राप्तानवेत्य तत् । 1442ab
प्रतिष्ठासौष्ठवत्राणे संरब्धुं देव साम्प्रतम् ॥ 1442cd

[page 158]

विश्वास-प्रस्तुतिः

दण्डकालसकाख्यस्य तद्रोगस्याशुकारिणः । 1443ab
पार्थिवाकस्मिकोत्थानं मिषादद्य प्रकाश्यताम् ॥ 1443cd

श्वो वक्तास्म्यथ कर्तव्यं व्यापत्प्रक्षपणक्षमम् । 1444ab
उक्त्वेति स महामात्यो निर्गत्य स्वगृहानगात् ॥ 1444cd

दण्डकालसकं दण्डधरो व्यञ्जन्मिषात्ततः । 1445ab
अधीर इव चक्रन्द लुठन्निस्पन्दलोचनः ॥ 1445cd

स्वेदसम्वाहनस्नेहवमनाद्यैरुपक्रमैः । 1446ab
निःशैथिल्यव्यथं तेन मुमूर्षुं तं जनोवदत् ॥ 1446cd

ततो निश्चितमृत्युत्वं पत्युः कथयता कृतः । 1447ab
वह्निप्रवेशोमात्येन कृतज्ञत्वनिवेदकः ॥ 1447cd

कर्तव्यशेषं दाक्षिण्यादनाचक्षाणमग्रतः । 1448ab
युक्त्योक्तनिष्ठुराचारमन्तस्तुष्टाव तं नृपः ॥ 1448cd

अप्रौढः सोढुमुद्दामां व्यथामस्मीति वादिना । 1449ab
राज्ञाप्यनलासाद्देहं ततश्चक्रेभिमानिना ॥ 1449cd

तेन प्राणानुपेक्ष्यैवमन्यरूपातेर्मनस्विना । 1450ab
ऊर्ध्वादिरोहे सोपानं कृतं न निजकीर्तनात् ॥ 1450cd

एवं दैवोपनीतानामख्यातीनां चिकित्सितम् । 1451ab
स्वधियामात्यबुद्ध्या वा पारमेति मनस्विनाम् ॥ 1451cd

इत्युक्त्वा विरतो वम्शबीजरक्षार्थमात्मजः । 1452ab
भोजो विसृज्यतां कोटमेवमूचेथ मन्त्रिभिः ॥ 1452cd

तं राजपुत्रं प्रस्थानमङ्गलान्ते विनिर्गतम् । 1453ab
पुनर्व्यावर्तयामास दण्डनायकमोहितः ॥ 1453cd

सा धीः स साहसारम्भस्तदवैह्वल्यमापदि । 1454ab
नष्टमेकपदे तस्य नाशकाले ह्युपस्थिते ॥ 1454cd

लक्ष्मीतडिल्लता406 कीर्तिवलाका शौर्यगर्जितम् । 1455ab
प्रतापशक्रचापं च भागधेयाम्बुदानुगम् ॥ 1455cd

धीशौर्यादिगुणेन भाग्यसमये प्रागेष एको नृपः शक्रस्याक्रमणं क्रियेत न कुतोनेनेति सम्भाव्यते । 1456ab
मौग्ध्यं पङ्गुजडान्धवच्च स ततो गच्छन्नभाग्योदये दत्तोतेन पदक्रमो भुवि कथं नामेति सञ्चिन्त्यते ॥ 1456cd

विरोधिप्रतिरोधाय तन्त्रिसैन्यं विसर्जितम् । 1457ab
नगरस्थमपि क्ष्मापात्प्रवासधनमादधे ॥ 1457cd

दायादाश्रयणं राजभृत्याः सर्वेपि चक्रिरे । 1458ab
ये केचित्त्ववसन्गेहे ते देहैरेव केवलम् ॥ 1458cd

पराश्रयपरं द्वित्रा न सङ्कल्पमपि व्यधुः । 1459ab
किं वा स्तुतैस्तैर्ये स्त्रीवदमुञ्चन्नचिरादसून्407 ॥ 1459cd

यां काण्दश्रावतीनर्तक्यन्वये कापि नर्तकी । 1460ab
पुत्रीचक्रे क्वापि जातां जयमत्यभिधाथ सा ॥ 1460cd

भूत्वा गृहीतकौमारा तरुण्युच्चलरागिणी । 1461ab
धनलुब्धरुद्धात्वमभजन्मण्डलेशितुः ॥ 1461cd

तस्मिन्हते तदैवास्तापत्रपोच्चलमाययौ । 1462ab
तयैव दैवयोगेन पट्टदेव्या भविष्यते ॥ तिलकम्॥408 1462cd

आबद्धपङ्क्त्यश्चर्चामुञ्चलाश्रयिणीं व्यधुः । 1463ab
भूपालदर्शनेप्यस्तभीतयो राजसेवकाः ॥ 1463cd

वेतनस्वीकृतैः सर्वैः शिक्षाधायी पुरस्कृतः । 1464ab
लोभावमानावुद्घोष्य योधश्रद्धां हरन्युधि ॥ 1464cd

मन्दप्रतापतावाप्तो नर्मोक्त्या मर्मभेदकृत् । 1465ab
आहारादिक्षणे कर्ता प्रक्रियार्थनया कलेः ॥ 1465cd

अतीव प्रभुदानादिमाहात्म्याख्यानकोविदः । 1466ab
एक एकोकरोद्योधः पृतनानां विसूत्रणम् ॥ युग्मम्॥409 1466cd

श्रीलेखाभ्रातृसूनोर्यस्तनयो व्यड्डमङ्गलः । 1467ab
मल्लज्ञातीयकोपेन स राज्ञास्कन्द्य घातितः ॥ 1467cd

मातुलस्यात्मजा मल्लापत्ययोस्तस्य गेहिनी । 1468ab
श्वश्र्वा समं स्ववसतीरादीप्य दहने मृता ॥ 1468cd

मौनव्रतादिनियमच्छन्नक्रौर्योन्तकोपमः । 1469ab
करोत्यभ्यन्तरान्भिन्नान्मल्लः परमदाम्भिकः ॥ 1469cd

तदेष पुत्रराज्येछुर्वध्यतां410 निर्भयं रिपुः । 1470ab
शाहिपुत्रीभिरित्यूचे तस्मिन्नवसरे नृपः ॥ 1470cd

[page 159]

विश्वास-प्रस्तुतिः

स्वयं प्रादात्समास्कन्दं द्वारि स्थितवतः पुरः । 1471ab
तस्य प्राणार्थिनो वाञ्छापूर्त्यै मल्लश्च निर्ययौ ॥ 1471cd

स हि द्वैराज्यसज्जाभ्यां पुत्राभ्यां प्रार्थितोपि सन् । 1472ab
मुनिव्रतः सदाचारानुरोधान्नात्यजन्नृपम् ॥ 1472cd

विश्वासाय परं राज्ञो भ्रातॄन्राज्ञोर्भविष्यतोः । 1473ab
द्वैमातुरान्सल्हणादीन्नीविं दत्त्वावसद्गृहे ॥ 1473cd

आसेदुषे मुनिदशामाजमप्रीणिताग्रये । 1474ab
तदा स तस्मै चुक्रोध प्रत्यासन्नवधो नृपः ॥ 1474cd

स सुराभ्यर्चनं कुर्वन्नाह्वतः परिपन्थिभिः । 1475ab
रेजे तेनैव वेषेण समराय विनिर्गतः ॥ 1475cd

उपवीत्यक्षसूत्राङ्कपाणिर्दर्भोज्ज्वलाङ्गुलिः । 1476ab
भस्मस्मेरललाटाङ्को जामदग्न्य इवापरः ॥ 1476cd

स्नानार्द्रधवलश्यामलोलधम्मिल्ललीलया411 । 1477ab
देहत्यागे प्रयागाम्बु धारयन्निव मूधनि ॥ 1477cd

उष्णीषी वीरपट्टेन खेटकेनोष्णवारणी । 1478ab
सोसिधारातीर्थपान्थो दण्डी खड्गेन दिद्युते ॥ 1478cd

भोगे पुरस्कृताः केचित्तद्भृत्याः पूर्वनिर्गताः । 1479ab
अमर्त्यनारीभोगेपि तस्यासन्नग्रभागिनः ॥ 1479cd

द्वौ रय्यावट्टविजयौ द्विजौ पौरोगवस्तथा । 1480ab
कोष्ठकः सज्जकाख्यश्च योद्धा412 युद्धे हता बभुः ॥ 1480cd

क्षतोप्युदयराजाख्यः क्षत्तायुःशोषसत्तया413 । 1481ab
प्राणैर्नियोगभागाजौ नाज्जकोपि व्ययुज्यत ॥ 1481cd

विरोधियोधैर्नीरन्ध्रं द्वारमालोक्य सर्वतः । 1482ab
त्यक्तकम्पो ददौ झम्पां स तेषामेव मूधनि ॥ 1482cd

शेवलेष्विव खड्गेषु खेटकेष्वम्बुजेष्विव । 1483ab
जरसा धवलो भ्राम्यन्राजहंस इवाबभौ ॥ 1483cd

क्षणाच्च ददृशे शातशरशङ्कुशताचितः । 1484ab
प्रवीरो वीरशयने सुप्तो भीष्म इवापरः ॥ 1484cd

शोच्यं गतायुषो राज्ञः किं नाभूत्तस्य तादृशः । 1485ab
चिच्छेद यः शिरः पृष्ठे हयं च भ्रमयन्स्मयात् ॥ 1485cd

राज्ञी कुमुदलेखाख्या मल्लस्याला च वल्लभा । 1486ab
गृहेष्वजुहुतां वीतिहोत्रे गात्राणि सम्भृते ॥ 1486cd

राजावकल्ययोः पत्न्यौ बाले सल्हणरल्हयोः । 1487ab
स्तुषे मल्लस्यासमती सहजा चाग्निसाद्गते ॥ 1487cd

सर्वोपभोगभागिन्यस्तदन्तःपुरयोषिताम् । 1488ab
परिवाराङ्गना वह्नौ पट्वात्रैव विपेदिरे ॥ 1488cd

महागृहाग्नितापेन शोकोष्णैश्च जलास्रुभिः । 1489ab
तप्ताम्भसो वितस्तायास्तीरे वामे बभूव तत् ॥ 1489cd

प्रवर्धितायाः स्तन्येन द्रष्टुमक्षमया पयः । 1490ab
दास्यमानं निवापेषु पुत्र्याश्चान्द्र्याख्यया समम् ॥ 1490cd

धात्र्या परस्मिन्वै तस्मिंस्तीरे स्वान्तःपुरे स्थिता । 1491ab
माता भविष्यतो राज्ञोर्नन्दानिन्द्यकुलोद्भवा414 ॥ 1491cd

महानसाग्निधूमेन संलक्ष्यावीक्ष्य पुत्रयोः । 1492ab
सोत्कण्ठं कटकौ सौधादुदग्दक्षिणदिक्स्थयोः ॥ 1492cd

क्रियतां दिवसैरेव पुत्रौ शत्रोः पितृद्विषः । 1493ab
जामदग्न्यायितं वंशे शप्न्वेति नृपतिं सती ॥ 1493cd

अनिषण्णेव दीप्ताग्नौ गृहे स्वं निरदाहयत् । 1494ab
प्रनृत्यन्तीभिरालीभिरिव ज्वालाभिरावृता ॥ 1494cd

वधे दर्शनपालस्तु नृपे प्राप्ते प्रतिक्षणम् । 1495ab
अत्यद्भुतैरन्तराaयैरायुःशेषेण रक्षितः ॥ 1495cd

वर्षमात्रावशेषायुर्यद्वा द्रोहेण रक्षितः । 1496ab
सोवमानस्य पूयस्य रोगजस्य च भुक्तये ॥ 1496cd

कृष्णभाद्रनवम्यां तं वधं श्रुतवतोः पितुः । 1497ab
मल्लात्मजन्मनोः शोकः कोपेन निरपीयत ॥ 1497cd

आअवह्निपुरकग्रामान्प्रज्वलन्क्रोधवह्निना । 1498ab
श्रधावद्विजयक्षेत्रं सोन्येद्युरथ सुस्सलः ॥ 1498cd

योद्धुमभ्यापतन्तं415 तं चन्द्रराजोथ निर्गतः । 1499ab
पट्टदर्शनपालाद्यैः ससैन्यैः पर्यवर्ज्यत ॥ 1499cd

निजैरुपेक्षितश्चक्रे स चिरं तत्र दुष्करम् । 1500ab
स्वल्पसैन्योपि सङ्ग्रामं भूरिसैन्येन शत्रुणा ॥ 1500cd

[page 160]

विश्वास-प्रस्तुतिः

अक्षोटमल्लः समरे तत्र मल्लश्च चाचरिः । 1501ab
अगातां राजगृह्यौ द्वौ स्वर्गस्त्रीभोगभागिताम् ॥ 1501cd

रजोन्धकारे छत्त्रेन्दुद्योतिन्यालिङ्गितो हतः । 1502ab
चन्द्राराजः सुरस्त्रीभिरिन्दुराजोस्य416 चानुगः417 ॥ 1502cd

तस्मिन्नपि हते वीरे चक्रे हर्षमहीभुजः । 1503ab
आशारविन्दिनीमूलकन्दनिर्दलनं विधिः ॥ 1503cd

पट्टादयः प्रविश्याथ विजयेशाङ्गनं भयात् । 1504ab
प्रविष्टे सुस्स्सले देशम् द्वारं दत्तार्गलं व्यधुः ॥ 1504cd

आस्थानीयः परं पद्मनामा युद्ध्वा हतो बहिः । 1505ab
लक्ष्मीधरो मर्तुमिच्छुर्बद्ध्वा नीतः स डामरैः ॥ 1505cd

विजयेश्वरगञ्जाग्रसौधारूढोथ सुस्सलः । 1506ab
अधो ददर्श तान्सर्वान्पशूनिव भयाकुलान् ॥ 1506cd

धूर्तः स दत्तमध्यस्थो हसन्नानीतवान्पुनः । 1507ab
पट्टदर्शनपालौ द्वौ तेषां पूर्वं निजान्तिकम् ॥ 1507cd

निःश्रेण्यभावादारोढुमक्षमौ सुस्सलानुगैः । 1508ab
तौ मृताविव निर्बद्धपाणी रज्ज्वाधिरोपितौ ॥ 1508cd

तयोर्विदेशगमनं व्रीडादर्थायमानयोः । 1509ab
प्रतिश्रुत्याकरोद्धीमान्सुस्सलो म्लानिमार्जनम् ॥ 1509cd

स्निग्धोक्त्या मृष्टमांसादिभोगैस्तस्याग्रतस्तयोः । 1510ab
तस्मिन्नेवाह्नि मन्दत्वं विदेशौत्सुक्यमार्जनम् ॥ 1510cd

केनाप्यधिष्ठितश्चक्रे परेद्युर्यत्स सुस्सलः । 1511ab
जाने विश्वसृजोप्यङ्गरोमाञ्चयति तत्स्मृतिः ॥ 1511cd

जासटो नृपतिर्हर्षभूभर्तुर्मातुलात्मजः । 1512ab
उमाधरमुखाश्चान्ये राजानो यत्र च त्रयः ॥ 1512cd

राजपुत्रहयारोहतन्त्रिसामन्तसन्ततेः । 1513ab
न यत्र गणना काचिर्सैन्येष्वष्टादशस्वभूत् ॥ 1513cd

विजयेशाङ्गनस्थानां द्वारमुत्पाट्य सोविशत् । 1514ab
एकाक्येवान्तरं तेषां सासिराक्षेपरूक्षवाक् ॥ 1514cd

स तत्र साक्षिणं कृत्वा क्षमावान्विजयेश्वरम् । 1515ab
प्रतिश्रुत्याभयं तेभ्यः प्रणतेभ्यो विनिर्ययौ ॥ 1515cd

पुनः सौधाग्रमारूढस्तान्सर्वानर्पितायुधान् । 1516ab
रज्जुबद्धकरान्भृत्यैरानिनाय ततोन्तिकम् ॥ 1516cd

स्वर्णरूप्यत्सरुश्रेणिपूर्णायुधपरिष्कृता418 । 1517ab
कीर्णपुष्पोपकारेव सुस्सलास्थानभूरभूत् ॥ 1517cd

विन्यस्य पशुपालानां पशूनिव स तानकरे । 1518ab
संरक्षितुं डामराणाम् त्र्यहं तत्राकरोत्स्थितिम् ॥ 1518cd

तत्ः सुवर्णसानूरग्रामं स प्राप्य बन्धनात् । 1519ab
पट्टदर्शनपालौ द्वावौज्झीद्देशान्तरोन्मुखौ ॥ 1519cd

पट्टः शूरपुरं प्राप्तो भार्ययागतया गृहात् । 1520ab
संसृष्टमानोप्यस्मार्षीदल्पसत्त्वो दिगन्तरम् ॥ 1520cd

यावन्मात्राप्यौचिती सा विदेशौन्मुख्यलक्षणा । 1521ab
द्रोग्धुर्दर्शनपालस्य पट्टमैत्र्या विसूत्रिता ॥ 1521cd

अहम्पूर्विकया राज्यं जिघृक्षुरथ सुस्सलः । 1522ab
नगरासादनादैच्छदभिसन्धातुमग्रजम् ॥ 1522cd

समानप्रायवयसोः419 सर्वदोद्दामयोरभूत् । 1523ab
यस्माज्ज्येष्ठकनिष्ठत्वं प्रक्रियारहितं तयोः ॥ 1523cd

द्वित्रेष्वहःसु यातेषु क्रामंस्तां तां भुवं बली । 1524ab
उदतिष्ठद्राजधान्याः सविधादेव सुस्सलः ॥ 1524cd

निर्दग्धुं कलशा420 तत्प्रस्तुतं भूपतेः सुतः । 1525ab
बुप्पापराभिधो भोजदेवो योद्धुं विनिर्ययौ ॥ 1525cd

आत्मवच्छङ्कमानेन कुमाराणां प्रदुष्टताम् । 1526ab
यो भाव्यर्थबलात्पित्रा हतौजा विदधे सदा ॥ 1526cd

कृतो गत्यन्तराभावात्तदानीं तु निरङ्कुशः । 1527ab
केषु केषु न युद्धेषु योधानामग्रणीरभूत् ॥ 1527cd

प्रपितामहतुल्यः[^1528-1] स स्याच्चेत्प्रागेव वर्धितः । 1528ab
कुर्यादुत्साहसम्पन्नो निर्दायादा न किम् दिशः ॥ 1528cd

नानीतिविन्नाम कश्चित्प्रयोगस्तु विहीयते । 1529ab
अस्त्रविल्लभ्यते सर्वो विषयज्ञस्तु दुर्लभः ॥ 1529cd

[page 161]

विश्वास-प्रस्तुतिः

स राजसूनुरुद्दामविक्रमस्य रिपोरभूत् । 1530ab
अत्युद्दामोधिकं जातस्तिमेरिव तिमिङ्गिलः ॥ 1530cd

मृतघ्नभावं पितरि प्रपन्ने विगर्हणां नार्हति तत्प्रसूतिः । 1531ab
कल्कीभवेच्चेत्तिलमुज्झ्यते421 किं तैलेन दत्तः कुसुमाधिवासः ॥ 1531cd

देवेश्वरात्मजः पित्थः पार्थिवेनाधिगौरवम् । 1532ab
वर्धितोप्यभवत्पापः प्रतिपक्षसमाश्रयम् ॥ 1532cd

ततस्तदात्मजो मिल्लः प्रस्तिते सुस्सलाहवे । 1533ab
नृपेणार्थायमानोश्वं खेदात्सावज्ञमीक्षितः ॥ 1533cd

ज्ञास्यस्यद्यान्तरं राजन्ममेत्युक्त्वा विनिर्गतः । 1534ab
खड्गधाराजलैर्मानी म्लानिमक्षालयद्रणे ॥ 1534cd

सर्वनाशादभूद्दुःखं राजन्ममेत्युक्त्वा विनिर्गतः । 1535ab
तदन्तरापरिज्ञानात्कृतज्ञस्य यथाधिकम् ॥ 1535cd

विभवैर्नित्यसम्मूढा जानते त्वन्तरं नृपाः । 1536ab
तदा शक्या यदा तेषां प्रलापैरेव सत्क्रिया ॥ 1536cd

भोजेन निर्जितानीको विद्रुतः सुस्सलो रणात् । 1537ab
लवणोत्सं पलाय्यागाद्द्विर्दर्शितगतागतः ॥ 1537cd

प्रत्यावृत्तस्ततो भोजस्तीव्रातपकदर्थितः । 1538ab
उद्यानान्तस्तनुं तल्पे पित्रा सह मुहुर्जहौ ॥ 1538cd

अथोत्तरेणोदतिष्ठन्नादः पारान्नृपौकसः । 1539ab
ज्यायान्मल्लात्मजः प्राप्तः सेतुराच्छिद्यतामिति ॥ 1539cd

सुस्सलेन हृतं राज्यं नाद्यायासि द्रुतं यदि । 1540ab
स दण्डनायकेनाभूत्सन्दिष्ट इति पापिना ॥ 1540cd

अतो जव्न चाविक्षत्प्रथमं चावधीन्मृधे । 1541ab
नरेन्द्रेश्वरदेवग्रवर्तिनं देवनायकम् ॥ 1541cd

अथोज्जगाम स्थामस्थः सह व्यूहेन सादिनाम् । 1542ab
नगराधिकृतो नागस्तस्याग्राद्भूरिसैनिकः ॥ 1542cd

यत्रास्थां पार्थिवोबध्नात्प्रधानपृतनान्विते । 1543ab
बभार नोच्चलाशङ्कां सुस्सलाहवनिर्गतः ॥ 1543cd

अल्पसैन्यो मल्लसूनुर्यावत्तस्मादशङ्कत । 1544ab
अपनीतिशिरस्त्राणस्तावस्स तमवन्दत ॥ 1544cd

मण्डलेश्वरवत्तं स प्रियं शत्रोरविश्वसन् । 1545ab
ऊचे स्ववेश्म याहीति स च पापस्तथाकरोत् ॥ 1545cd

तस्य द्रोहफलं दृष्टमेतस्मिन्नेव जन्मनि । 1546ab
मण्डले यदनन्यस्मिन्भिक्षित्वा जीवितं जहौ ॥ 1546cd

ततो राजा सरित्तीरं प्राप्तः प्रैक्षत डामरान् । 1547ab
सेत्वग्रे श्यामविकृतान्दावदग्धान्द्रुमानिव ॥ 1547cd

बलक्षवारबाणस्य तेषां मध्ये वपुर्बभौ । 1548ab
परं जनकचन्द्रस्य शुक्रस्येव तमोन्तरे ॥ 1548cd

महासेतुः सघटितो राज्ञा नौभिः स्वसिद्धये । 1549ab
पर्यवस्यन्विधिवशाच्छत्रूणां सिद्धये पुनः ॥ 1549cd

अथारुरुहुरादाय वह्निं हर्म्यचतुष्किकाम् । 1550ab
शतद्वारे मर्तुकाम देव्यः शाहिसुतादिकाः ॥ 1550cd

लोको विरक्तः सेत्यग्रे दायादैः सह सङ्गरम् । 1551ab
ददर्शाश्वयुजीलागिमिव निर्विक्रियः प्रभोः ॥ 1551cd

विजये सावशेषेसौ422 वह्निदानोद्यताः प्रियाः । 1552ab
अनिशं वारयन्राजा सेत्वग्रे रणमग्रहीत् ॥ 1552cd

अथ विन्यस्तवर्माणं राजसेनागजं शरैः । 1553ab
सेतोर्जनकचन्द्राद्याः प्रमुखस्थमताडयन् ॥ 1553cd

स विद्धो मर्मसु शरैः पूत्कारोद्गारकृद्गजः । 1554ab
स्वचमूमेव चरणैरमृद्राद्विमुखीकृतः ॥ 1554cd

विधिनेव विरुद्धेन सिन्धुरेण कदर्थिता । 1555ab
भ्रश्यत्पत्तिहयारोहा समपद्यत वाहिनी ॥ 1555cd

सेतुं तीर्णस्ततो वैरिसैनिकैर्विमुखीकृतः । 1556ab
शतद्वाराङ्गनं त्रस्तः साश्वारोहोविशन्नृपः ॥ 1556cd

उदात्तवेषरहितो423 रहोपि ददृशे न यः । 1557ab
भुञ्जानस्यापि यस्यास्यमुद्रा नैव व्यभाव्यत ॥ 1557cd

[page 162]

विश्वास-प्रस्तुतिः

स भयद्द्विगुणार्कांशुस्वेदप्रस्विन्नविग्रहः । 1558ab
पुनः पुनः क्षिप्यमाणस्रस्तवर्मांसयोर्निजैः ॥ 1558cd

अनवस्थितपार्ष्ण्यन्ताघातप्रचलितं हयम् । 1559ab
निरोद्धुं बहुशः कर्षन्नष्टवल्गाग्रहं करम् ॥ 1559cd

खल्वाटशीर्षपर्यन्तलम्बिनीः कुन्तलच्छटाः । 1560ab
प्रापयञ्श्रवणोपान्तं करेण गलितासिना ॥ 1560cd

लडत्प्रलम्बनिर्भूषश्रोत्रपालिलताच्छलात् । 1561ab
कालाहिनेव भूर्तेन वेष्टितोच्छुष्ककन्दरः ॥ 1561cd

निस्ताम्बूलतयोच्छुष्कौ जतुपीताविवासकृत् । 1562ab
ओष्ठावुत्क्षिप्य कृच्छ्रेण विह्वलो जिह्नया लिहन् ॥ 1562cd

कनीनिकासक्तकरेण क्षामधूसरमाननम् । 1563ab
उत्तानीकृत्य पृष्ठस्थाः पश्यन्दीनमनाः प्रियाः ॥ 1563cd

परिभ्रमन्नङ्गनान्तस्त्रस्तः स ददृश्ये जनैः । 1564ab
वह्निदानोद्यतास्ताश्च वारयन्करसञ्ज्ञया ॥ 1564cd

मल्लराजस्य वेश्माभूद्राजधान्यन्तिकेपि यत् । 1565ab
तीर्त्वा जनकचन्द्रेण तत्र वह्निरदीयत ॥ 1565cd

राजधान्युन्मुखं दृष्ट्वा ज्वलन्तं वह्निमागतम् । 1566ab
भेजे पलायनं भोजो राज्यं विश्चित्य हारितम् ॥ 1566cd

स शूलैर्विद्विषां भीमैर्नडैरिव तिरोहितम् । 1567ab
द्वारं भित्त्वा तुरङ्गस्थः प्राङ्गनान्निर्ययौ बहिः ॥ 1567cd

पञ्चषैः सादिभिः सार्धं लोहरौन्मुख्यमाश्रितः । 1568ab
प्रतस्थे सेतुमुत्तीर्य सिहराजमठाग्रगम् ॥ 1568cd

वातस्य दृक्पथात्सूनोः सास्रालोकयन्दिशम् । 1569ab
राजाश्ववारैः सहितो वेश्मनां बहिरभ्रमीत् ॥ 1569cd

अत्रान्तरे मर्तुकामास्त्रातुं काश्चिन्नृपाङ्गनाः । 1570ab
अश्मभिस्तत्परिजनैरभज्यत चतुष्किका ॥ 1570cd

शाहिपुत्र्यस्तदज्ञात्वा[^1571-1] शत्रवः पतिता इति । 1571ab
मत्वा चतुष्किकाशृङ्गे ततोग्निमुददीपयन् ॥ 1571cd

वास्तव्या डामराश्चाथ घ्नन्तोन्योन्यमुदायुधाः । 1572ab
ज्वलतः क्ष्मापतिगृहाद्भाण्डागाराद्यलुण्ठयन् ॥ 1572cd

केचित्तत्र वधं प्रापुर्विपदं केचनात्यजन् । 1573ab
अदृष्टवस्तुसम्प्राप्तिः केषाञ्चिद्घास्यदाभवत् ॥ 1573cd

सितेयं शर्करेत्येकः कर्पूरं वदनेक्षिपत् । 1574ab
ततः सरिति तद्भाण्डं निर्दग्धवदनो व्यधात् ॥ 1574cd

पामरैः स्वर्णचित्राणि कैश्चित्स्वर्णग्रहेच्छया । 1575ab
विनिर्दग्धानि वासांसि विचितं भस्म चादरात् ॥ 1575cd

अविद्धमौक्तिकस्तोमः सिततण्डुलविभ्रमात्424 । 1576ab
क्वचित्पामरनारीभिर्घरट्टेषु विचूर्णितः ॥ 1576cd

वसन्त्यदृश्ये देशेस्मिन्खलीकारेण तादृशा । 1577ab
एवं विडम्बिता लक्ष्मीर्न पुनः क्वाप्यदृश्यत ॥ 1577cd

विद्याधरीरिवोदात्तवेषाः425 क्ष्मापतिसुन्दरीः । 1578ab
हरन्तो डामराः क्रूरा दृश्यन्ते स्म पदे पदे ॥ 1578cd

वसन्तलेखाप्रमुखाः सस्नुषास्तत्र चक्रिरे । 1579ab
निर्यातशेषाः स्वान्देहान्राज्ञ्यः सप्तदशाग्निसात् ॥ 1579cd

गृहाणां दह्यमानानामश्रूयत426 चटत्कृतिः । 1580ab
गाढोष्मक्वथामानाभ्रसिन्धुघोषप्रतीतिकृत् ॥ 1580cd

श्रीपद्मश्रीप्रपापार्श्वस्थितस्तद्वीक्ष्य पार्थिवः । 1581ab
आर्षं श्लोकमिमं शोकात्स्मृत्वापाठीत्पुनः पुनः ॥ 1581cd

प्रजापीडनसन्तापात्समुद्भूतो हृताशनः । 1582ab
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ 1582cd

दग्ध्वाथ राजधानीं तामञ्चलो डामरान्वितः । 1583ab
अत्यक्तसैन्यं वीक्ष्यारिं पारमेवातरत्पुनः ॥ 1583cd

ततो युद्ध्वा मर्तुमिच्छन्निन्ये राजाकुलात्मताम् । 1584ab
उच्चावचैर्मतिद्वैधैः पदातीनां क्षणे क्षणे ॥ 1584cd

गच्छन्ननतपालादिराजपुत्रधिया मृधम् । 1585ab
दण्डनायकवाक्येन न्यषिध्यत पदे पदे ॥ 1585cd

युध्यस्व लोहरं वापि याहीत्यूचे च427 चण्णकः । 1586ab
प्रयोगस्योत्तरं पक्षः प्रत्यभान्नाग्रिमः पुनः ॥ 1586cd

[page 163]

विश्वास-प्रस्तुतिः

वार्तामबुद्ध्वा पुत्रस्य नृपतिर्व्याकुलीभवन् । 1587ab
पदवीं भोजदेवस्य याहीत्याह स्म चण्णकम् ॥ 1587cd

प्रयागमात्रानुचरो राजन्सम्पत्स्यसे क्षणात् । 1588ab
तस्मान्मामपि मा त्याक्षीरित्यूचे तं स निःश्वसन् ॥ 1588cd

सोन्तर्बाष्पस्तं बभाषे निर्द्रोहोसीति कथ्यते । 1589ab
त्वयाप्यस्मिन्क्षणे कस्मात्तस्मादुल्लङ्घ्यते वचः ॥ 1589cd

विना पुत्रं न पश्यामि सार्केपि दिवसे दिशः । 1590ab
त्वं तस्मिन्नङ्कसंवृद्धे न मन्युं कर्तुमर्हसि ॥ 1590cd

अश्वनिमित्तं कलहस्तेष्वेव दिवसेष्वभूत् । 1591ab
मन्त्रिणो राजपुत्रेण तेन तस्याभिमानिना ॥ 1591cd

गिरा प्रभोरुपालब्धस्तदागूरणगर्भया । 1592ab
स लज्जानम्रवदनो राजपुत्रानुसार्यगात् ॥ 1592cd

पञ्चाशताश्ववारैः स भ्रातृभृत्यादिभिः समम् । 1593ab
उत्तीर्णः सरितः पारमात्मना पञ्चमोभवत् ॥ 1593cd

भ्रातृद्वयेश्ववारे428 च शेषाराजात्मजे429 पथि । 1594ab
हताश्वे ततिते सोभूद्धनकेनान्वितो भ्रमन् ॥ 1594cd

अनाप्तवन्राजसूनोर्वार्तां वा वर्त्मनाप्यटन् । 1595ab
गलितेहनि सम्प्राप वितस्तासिन्धुसंवमम् ॥ 1595cd

एवमाप्तान्परान्पुत्रमन्वेटुं प्राहिणोन्नृपः । 1596ab
अन्येपि तन्मिषं लब्ध्वा तस्य पार्श्ववाचलन् ॥ 1596cd

उत्कोचादायिना क्रुद्धं राजपुर्यादिविग्रहे । 1597ab
योग्यानसहता भूत्यान्निःसारः430 कटकः कृतः ॥ 1597cd

लोहरप्रस्थितौ विघ्नं राजा431 पुत्रस्य कारितः । 1598ab
प्रवेशितः पुरं वैरी राज्यन्यन्याहवाकुले ॥ 1598cd

सर्वस्वध्वंसिना येन स एव नृपतेरभूत् । 1599ab
तताप्युचितकर्तव्यनिषेद्धा दण्डनायकः ॥ तिलकम्॥432 1599cd

राज्ञः कृत्स्नावसन्नस्य शृण्वतो बहुमन्त्रितम् । 1600ab
नैकत्र रूढिः कर्तव्ये क्वाप्यधीरधियोभवत् ॥ 1600cd

सर्वैर्यथा निखिलरन्ध्रमुखेन वंशः सम्पूरितो न खलु शब्दमपाकरोति । 1601ab
तैस्तैस्तथा बहुपथप्रचयेन मन्त्रः सम्पक्ल्पितः किल न निश्चयमभुपैति ॥ 1601cd

भाग्यक्षयस्यैतदेव लक्षणं प्राकृतोपि यत् । 1602ab
अपृष्टः कथयेद्धार्ष्ट्यान्मन्त्रं स्वहृदयोचितम् ॥ 1602cd

त्रैलोक्यनाम्ना सूतेन शंसता दण्डनायकम् । 1603ab
निरोध्य वल्गामित्यूचे भूयः क्ष्माभृद्रणोन्मुखः ॥ 1603cd

एकाङ्गैः साश्ववारैः प्राग्जिगाय त्वत्पितामहः433 । 1604ab
तद्गच्छामोक्षपटलोपान्तं तत्सङ्ग्रहेच्छया ॥ 1604cd

पदातिप्रायसैन्यांस्तान्निहन्मः संहताaन्रिपून् । 1605ab
पश्चान्निपत्य तैः साकं श्येना इव विहङ्गमान् ॥ 1605cd

ततश्चिचलिषावेव राज्ञि तत्कटको दिशः । 1606ab
सवृष्ट्यमबुहतो रङ्गप्रेक्षिलोक इवागमत् ॥ 1606cd

पारेवितस्तां प्राप्तेभ्यः पाथेयायात्मजन्मनः । 1607ab
स शेयाराजजन्मभ्यो434 रत्नग्रैवेयकाद्यदात् ॥ 1607cd

श्रारामिकैस्तैः सम्प्राप्ते राजचिह्ने क्षणादिव । 1608ab
तेजःस्फारोर्जितो राजा गतश्रीर्ददृशे जनैः ॥ 1608cd

पदे पदे भ्रश्यमानसैन्योक्षपटलादिषु । 1609ab
स्थानेषु चाभ्रमीत्कश्चिन्न च तस्यापदन्तिकम् ॥ 1609cd

संश्रयार्थ्यथ बभ्राम सायं वेश्मानि मन्त्रिणाम् । 1610ab
प्रवेशं प्रददौ चास्य न कोपि द्वारि तस्थुषः ॥ 1610cd

प्रायोपवेशकुशलाः शक्तास्त्वन्ते न कुत्रचित् । 1611ab
मिथ्यासम्भावनाभूमिर्भूपानां ब्रह्मबन्धवः ॥ 1611cd

ये केपि देशे सन्त्यस्मिंस्तद्गेहेष्वास्थया भ्रमन् । 1612ab
प्रविविक्षुर्गृहान्प्राप कपिलाख्यस्य मन्त्रिणः ॥ 1612cd

तस्मिंस्ल्लोहरकोट्टस्थे तत्पत्न्या स्थातुमर्थितः । 1613ab
नौभिश्च कोट्टं गन्तुं न प्राविक्षद्दैवमोहितः ॥ 1613cd

.

[page 164]

विश्वास-प्रस्तुतिः

आर्तस्य तस्य तत्पुत्रैः पितृवद्द्रोहकारिभिः । 1614ab
ऋणकैरुत्तमर्णस्य स्वं निःस्वैरिव गोपितः ॥ 1614cd

सदोषोस्मीति सोज्ञासीत्स्वयम् शृण्वन्विगर्हणाम् । 1615ab
तदैव गोपिताशेषकृत्यो दुर्मन्त्रिभिः पुरा ॥ 1615cd

गृहीतसर्वनैराश्यः पार्श्वस्येष्वप्यविश्वसन् । 1616ab
अभूत्प्रद्युम्नमुत्तीर्णो नितरां विरलानुगः ॥ 1616cd

प्रख्यापयन्तः सम्भूतिं षट्त्रिंशति कुलेषु ये । 1617ab
तेजस्विनो भास्वतोपि सहन्ते नोच्चकैः स्थितिम् ॥ 1617cd

तेप्यन्तेनन्तपालाद्या राजपुत्रास्तमत्यजन् । 1618ab
सान्द्रतां दधति ध्वान्ते स्थगिताश्वाः पदे पदे ॥ 1618cd

वाहनाज्जोहिलमठोपान्तं प्राप्यावतीर्णवान् । 1619ab
स दण्डनायकेनापि तत्यजे सानुजन्मना435 ॥ 1619cd

इहास्मच्छ्वशुरावासस्तत्र वस्तुमिमां निशम्436 । 1620ab
वीक्ष्य ते स्थानमेष्यामीत्युक्त्वा व्याजेन सोचलत् ॥ 1620cd

यियासोरनुजं तस्य पाथेयार्थं प्रयागकः । 1621ab
ययाचेङ्गदमस्मै स प्रादात्सक्तून्न तत्पुनः437 ॥ 1621cd

एकांशुकावशेषश्रीस्ततो वा शेषजीवितः । 1622ab
प्रयागाशेषानुचरो नृपतिः समपद्यत ॥ 1622cd

सूदश्चप्पकभृत्यस्य जेलकाख्यस्य तत्क्षणम् । 1623ab
मुक्तो नामान्तिकं प्राप्तो नृपतेराप्ततामगात् ॥ 1623cd

उदीपविहितैः खातैरग्रे दुःसञ्चरा क्षितिः । 1624ab
भ्राम्यतस्तानुवाचेति नारी काचिद्गुहान्तरात् ॥ 1624cd

ततस्तीरे वितस्ताया निषण्णेस्मिन्प्रयागकः । 1625ab
गन्तुं जयपुरं कोट्टमाजुहाव स नाविकान् ॥ 1625cd

स हि प्राक्संविदं चक्रे तत्रत्यैः सह शस्त्रिभिः । 1626ab
नृपं प्रेयाश्रयं नेतुं भीमादेवस्य438 मन्दिरम् ॥ 1626cd

उच्चलाश्रयिणाप्यूचे भीमादेवेन येन सः । 1627ab
राज्ञोनुगो गमिष्यामि प्रविष्टस्योपवेशनम् ॥ 1627cd

नौचरैराहृतां नावमारुरोह न भूपतिः । 1628ab
नाशोन्मुखः समासन्नदृष्टिपातभयाकुलः ॥ 1628cd

पर्यापतत्कालकरस्थभोगिसन्दर्शनेनेव मतिप्रदीपः । 1629ab
क्षिप्रं प्रशान्त्युन्मुखतामुपैति विनाशकालेषु शरीरभाजाम् ॥ 1629cd

तस्मिन्द्रोहसुभिक्षेपि यस्य मानवतः परम् । 1630ab
अनन्यालोकिनी दृष्टिर्भेजे कुलवधूव्रतम् ॥ 1630cd

नीलाश्वीयः स बिम्बाख्यो डामरोमिलितोहितैः439 । 1631ab
तदापि प्रययौ राज्ञो विस्मृतिं संश्रयार्थिनः ॥ युगलम्॥ 1631cd

ततः प्रावर्तत त्यक्तुं वारि वारिमुचां गणः । 1632ab
क्ष्मामिव क्षालयितुं द्रोहस्पर्शेन दूषिताम् ॥ 1632cd

भूर्निर्जना वृष्टिपातस्तमिश्रा दुःसहायिता440 । 1633ab
वैरिभीतिरिति प्राभूत्किं किं तस्य न दुःखदम् ॥ 1633cd

इति वृत्तानुरोधेन धिग्दुष्कर्मविधायिनाम् । 1634ab
अस्मर्तव्यमपि व्यक्तं नाम पाहिष्यतेधुना ॥ 1634cd

सोमानानदाभिधानस्य पूज्याः सिद्धस्य देवताः । 1635ab
सोमेश्वराभिधाः सन्ति काश्चित्पितृवनान्तरे441 ॥ 1635cd

तल्लाञ्छिताङ्गना तुङ्गतरुप्रच्छन्नवाटिका । 1636ab
अभूद्गुणाभिधानस्य442 कुटी क्षुद्रतपस्विनः ॥ 1636cd

वारस्त्रिया443 स विरहभुजङ्गीतिप्रसिद्ध्या । 1637ab
भिश्चाख्यया समं भेजे चेष्टितं कुट्टिनोचितम् ॥ 1637cd

तस्य प्रतापगौरीशदेवागारान्तिकस्थितेः । 1638ab
कुटीं मुक्तेन तां निन्ये क्ष्माभृद्वस्तुं स तां क्षपाम्444 ॥ 1638cd

मुक्तमालम्ब्य नृपतिस्तमालम्ब्य प्रयागकः । 1639ab
यान्ति स्म विद्युद्द्योतेन क्ष्मां पश्यन्तोन्तरान्तरा ॥ 1639cd

निरुष्णीषोङ्गसंस्यूतक्रूतवासाः स्खलन्नृपः । 1640ab
स तां प्रयागमुक्ताभ्यां कथञ्चित्प्रापितः कुटीम् ॥ 1640cd

[page 165]

विश्वास-प्रस्तुतिः

तदा कुमन्त्रिनिष्कृष्टं स व्यापद्वारणक्षमम् । 1641ab
शोचन्सस्मार कन्दर्पं रुद्रं दैत्यमिवोत्पलः ॥ 1641cd

प्राकारमूर्ध्ना मुक्तेन प्रविष्टेन हृतार्गलाम् । 1642ab
नृपः कुटीप्राङ्गनोर्वीं विवेशास्थिततापसाम् ॥ 1642cd

विशतोश्मक्षतः पादस्तस्यासृग्दक्षिणोत्यजत् । 1643ab
मेने तेनानिमित्तेन स मृत्युं समुपस्थितम् ॥ 1643cd

कुद्यामर्गलरुद्धायां निषण्णस्याङ्गने ययौ । 1644ab
रात्रिर्भीतिमतो445 भीमा तस्य घोराभ्रमालिनी ॥ 1644cd

पङ्कोपलिप्तः पङ्काङ्कस्थण्डिलस्थो निनाय ताम् । 1645ab
दासकम्बलिकाच्छन्नगात्रो वृष्ट्युत्तरां निशम् ॥ 1645cd

विसस्मारन्तराद्दुःखमासीनप्रचलायितैः । 1646ab
निर्निद्रस्त्वभवच्छ्वभ्राद्भ्रश्यन्निव समाकुलः ॥ 1646cd

कोहं केनाभिभूतोद्य क्व वर्ते कोनुगोधुना । 1647ab
किं कृत्यमिति निर्ध्याय मुहुर्मुहुरकम्पत ॥ 1647cd

हृतं राज्यम् प्रिया दग्धा भ्रष्टः सूनुरबान्धवः । 1648ab
जातोस्म्येकाक्यपाथेयो लुठन्भिक्षाभुजोङ्गने ॥ 1648cd

इत्येकैकं च निर्ध्याय दुःखं नैक्षिष्ट सोपरम् । 1649ab
प्राप्तावसादं शोचन्तमात्मतुल्यं कथास्वपि ॥ युग्मम्॥ 1649cd

भोजस्तु वाजिभिर्द्वित्रैरवशिष्टैः समं व्रजन् । 1650ab
हस्तिकर्णान्तरं प्राप निर्गत्य नगरान्तरात् ॥ 1650cd

व्रजतस्तस्य धीरासीन्नियतं पञ्चषैर्दिनैः । 1651ab
पुनः सम्प्राप्नुयां राज्यं यदीन्द्रोपि भवेद्रिपुः ॥ 1651cd

गर्भवास इव पौरुषे स्फुरन्किं न कर्म पुरुषश्चिकीर्षति । 1652ab
कर्मवायुरिव संस्पृशन्हठान्मूढमेव कुरुते तु तं विधिः ॥ 1652cd

मातृभिर्दत्तपाथेयं भृत्यं नागेश्वराभिधम् । 1653ab
प्रतीक्षमाणश्चक्रे स रङ्गवाटान्तरे स्थितिम् ॥ 1653cd

शून्ये देवगृहे तत्र तिष्ठञ्श्रुत्वा तमागतम् । 1654ab
स निर्ययौ तेन तस्मिन्निःशङ्कं प्रहृतं पुनः ॥ 1654cd

तत्र प्रादुष्कृतद्रोहे क्षत्रधर्मादविच्युतः । 1655ab
राजपुत्रः स यश्चक्रे न तत्कस्याद्भुतावहम् ॥ 1655cd

स सिंह इव संहारं कृत्वा युधि विरोधिनाम् । 1656ab
अस्राङ्गरागलिप्ताङ्गो वीरशय्यामभूषयत् ॥ 1656cd

भ्रातास्य मातुलापत्यं विपेदे पद्मकाभिधः । 1657ab
खेलो लालितवच्चैव सङ्ख्येसङ्ख्यपराक्रमः ॥ 1657cd

मठं सूर्यमतीदेव्याः शर्वर्यामु लोविशत् । 1658ab
भ्राताप्यस्य रणश्रान्तो लवणोत्सात्समाययौ ॥ 1658cd

हतं भोजं श्रुतवतोर्हर्षमात्रे स्थितोe तयोः । 1659ab
मनस्युत्खातशूलेश्रिरेवैका पर्यशिष्यत ॥ 1659cd

प्राप्तमप्राप्तवद्राज्यम् तथापि प्रत्यभात्तयोः । 1660ab
प्रवासे विस्मृते राज्यमुखे लन्धे च कुत्रचित् ॥ 1660cd

प्राह्णे कुतश्चिदानीतो446 मुक्तेनान्विष्य तापसः446 । 1661ab
प्रणम्य नृपतिं चक्रे स्वकुटीं तां446 निरर्गलाम् ॥ 1661cd

तां दंशमशकाकीर्णामास्तीर्णतृणविष्टराम्447448 । 1662ab
कृताम्बुसेकां मुक्तेन नृपतिः प्राविशत्कुटीम् ॥ 1662cd

यद्गिरा बहुमानोभूच्छ्रुतया भूभुजामपि । 1663ab
स भूभृच्चाटुकारित्वं भीतो भिक्षाभुजोप्यगात् ॥ 1663cd

भिक्षाकस्योचितं ग्राम्यमनुदात्तं त्रपावहम् । 1664ab
आलापाभ्यवहाराभ्यां तस्य शृण्वन्स विव्यथे ॥ 1664cd

स भिक्षाकः प्रयागेन विक्रयायाधरांशुकम् । 1665ab
निजं दत्त्वा विससृजे विपणिं भोज्यसिद्धये ॥ 1665cd

कदुक्तिः कटुवागग्रे परोक्षं भेदभीतिकृत् । 1666ab
कुतपसो दौस्थ्यहेतुर्नृपस्यारिर्यथाप्यभूत् ॥ 1666cd

मध्याह्ने स्कन्धविन्यस्तभोज्यभाण्डकरण्डिका । 1667ab
तपस्विन्याप्यथानिन्ये तेन क्षुद्रतपस्विना ॥ 1667cd

भृत्यभिक्षाकयोः पूर्वं स्त्रिया अप्यथ पार्थिवः । 1668ab
स्वं वीक्ष्य गोचरीभूतं निराशो जीवितेभवत् ॥ 1668cd

[page 166]

विश्वास-प्रस्तुतिः

तेन प्रयागोपहृतं भोज्यं तदनुरोधतः । 1669ab
स्पृटमेव न भुक्तं तु तीव्रदुःखोल्बणात्मना ॥ 1669cd

का वार्तेति प्रयागेन प्राङ्गनस्थेन पृष्टया । 1670ab
तापस्या ग्राम्यया व्यक्तमुक्तो भोजवधस्ततः ॥ 1670cd

मिथ्यैतदिति तेनाथ449 कथ्यमानोपि पार्थिवः । 1671ab
श्रुतिं तामङ्गशकुनं परीक्ष्याबुद्ध नान्यथा ॥ 1671cd

नारोहति गिरं शत्रोरप्रियाख्यायिनोपि यत । 1672ab
तस्य संववqते दुःखं निमग्नस्य तदापदि ॥ 1672cd

स शोचन्नात्मजं बाल्ये नीत्यै यां यन्त्रणां व्यधात् । 1673ab
आजन्मदुःखदायित्वं मेन तस्यात्मनस्तया450 ॥ 1673cd

हतः स समरे वृत्त्या प्रवीरस्पृहणीयया । 1674ab
जज्ञे तेनातिवात्सल्यादङ्कशायीव घातिनः ॥ 1674cd

गात्रेषु हारान्पुत्रस्य यौवनव्यूढवक्षसि । 1675ab
पश्यन्नात्मनि सङ्कल्पैर्विह्वलः सोकृताशिषः ॥ 1675cd

रक्षणीयो हतो451 बालो वृद्धस्त्वेवं स्वजीवितम् । 1676ab
रक्षाम्यनुचिताचारैर्जिह्रायेति452[^1676-3] स चिन्तयन् ॥ 1676cd

एवं स पुत्रशोकेन धृतावाच्यव्यथो व्यथन् । 1677ab
निनाय तापसावासे द्वितीयामपि यामिनीम् ॥ 1677cd

कृतार्थनः प्रयागेन प्रयातुं भगवन्मठम् । 1678ab
शोकहारितधी रात्रौ न सङ्कल्पमपि व्यधात् ॥ 1678cd

लम्बेन्दुवदनसान्द्रावश्यायाम्भोस्रुवर्षिणी453454 । 1679ab
रथाङ्गाक्रन्दिनी रात्रिः सशोकेवाथ सागमत् ॥ 1679cd

क्षुत्पिपासापरिक्षामं प्रभुं वीक्ष्य स तापसः । 1680ab
प्रार्थ्यते स्म प्रयागेन प्रातर्भोक्तव्यसिद्धये ॥ 1680cd

उपनिन्ये विनिर्गत्य प्रविष्टस्तापसस्तयोः । 1681ab
सव्यञ्जनाम्नपूर्णे द्वे पात्रे ॰ ॰ क्षणात्पुरः455 ॥ 1681cd

कस्यापि गृहिणो यागोत्सवादेते मयाहृते । 1682ab
तस्मिन्नित्युक्तवत्यूचे विनिश्वस्य प्रयागकः ॥ 1682cd

राजन्स्वामिवियोगेस्मिन्पश्य लोकस्य सुस्थताम् । 1683ab
स तं जगाद विहसन्किं मूढ उव भाषसे ॥ 1683cd

यो गतो गत एवासौ तत्क्षत्या नापरः क्षतः । 1684ab
सर्वो निजसुखापेक्षी न किञ्चित्कोपि शोचति ॥ 1684cd

लोकैकचक्षुषि गते परलोकमर्के लोकः स्वपित्यखिल एव सुखं गृहेषु । 1685ab
कोन्यो विचिन्तयितुमर्हति विश्वमेतत्तिष्ठेन्मया विरहमेत्य कथं किलेति ॥ 1685cd

पुत्रस्य स्नेहविश्वासः पूर्वमास्त456 क्षये श्रुते । 1686ab
यथैकः प्रभवेन्नान्यस्तथा स्नेहोपि देहिनः ॥ 1686cd

अहमेव हतं पुत्रं श्रुत्वा जीवितजीवितम् । 1687ab
तिष्ठामि स्वस्थवद्यत्र तत्रान्यो निन्द्यतां कथम् ॥ 1687cd

इत्युक्त्वा विरते राज्ञि पुनर्गूढं प्रयागकः । 1688ab
प्रैरयत्तापसं457 भोज्यं कर्तुं ते भाजते त्यजन् ॥ 1688cd

ह्यस्तनव्ययशिष्टं मे पर्याप्तं नास्ति चेतनम् । 1689ab
यते तथापीयुक्त्वा स सखेद इव निर्ययौ ॥ 1689cd

गोप्यं रहस्यभणितमत्यल्पहृदयातिथि । 1690ab
अमृतं पारतमिव नाल्पसत्त्वैः सुदुर्जरम् ॥ 1690cd

कुल्यो मनोरथो नाम विप्रस्य वनवासिनः । 1691ab
सुजृत्तपस्विनस्तस्य तां कथामुपलब्धवान् ॥ 1691cd

राज्ञः सन्दर्श्य दायादं भवावो भूतिभाजनम् । 1692ab
इत्युक्त्वा तेन निन्ये स द्रोग्धृतां458 क्षुद्रतापसः ॥ 1692cd

जज्ञे भृत्येन गर्ह्येण जातः सोन्त्येन केनचित् । 1693ab
सदृशं यत्सदसतोर्ज्ञापकं जन्मकर्मणोः ॥ 1693cd

इल्लाराजस्तां प्रवृत्तिं बुद्ध्वा ताभ्यां न्यवेदयत् । 1694ab
उच्चलाय समादिक्षत्कार्ये तत्र तमेव सः ॥ 1694cd

[page 167]

विश्वास-प्रस्तुतिः

केचित्तु भूतिभिश्चाख्यमिल्लाराजोपसर्पणे459 । 1695ab
कायस्थं कारणं प्राहुस्तयोस्तापसविप्रयोः ॥ 1695cd

वार्ता वेदवगीतेयं सुबहुश्रोत्रसङ्कुले । 1696ab
काले तद्भृत्यपाशस्य तस्यैव द्रोहमुख्यता ॥ 1696cd

श्वपाकस्कन्धमारूढो लब्ध्वा तास्ता विमाननाः । 1697ab
विपेदे यत्स कारायां युक्तं तत्तस्य कर्मणः ॥ 1697cd

क्षुत्तप्तो हर्षदेवस्तु प्रयोगेनार्थितोसकृत् । 1698ab
प्रत्यग्रे पुत्रशोकेपि भोजनायाकरोन्मनः ॥ 1698cd

गृहीतभोजनं जानन्प्राप्तं प्राप्तं स तापसम् । 1699ab
तमोरेर्बहिरैक्षिष्ट नीडाच्छिशुरिवाण्डजः ॥ 1699cd

अपश्यच्च कुटीं कृत्स्नां वेष्टितामेत्य शस्त्रिभिः । 1700ab
शुश्राव चाङ्गनद्वाराद्वार्यमाणार्गलाद्ध्वनिम् ॥ 1700cd

जानञ्जातं ततो द्रोहमङ्गनात्तापसाधमम् । 1701ab
सशस्त्रिणं मुक्तमेहीत्याह्वयन्तं व्यलोकयत् ॥ 1701cd

मुक्तं विसृज्य कृत्वा च द्वारमुद्घाटितारारि । 1702ab
त्यक्तभीरादधे लघ्वीं क्षुरिकामन्तिकस्थिताम् ॥ 1702cd

एकस्तत्सविधं क्रूरः साहसाहङ्क्रियेन्मदः । 1703ab
आरुरोहाथ कृष्टासिधेनुः कवचितो भटः ॥ 1703cd

तं राजा सङ्कटकुटीरुद्धायामोष्यपातयत्460 । 1704ab
क्षितौ व्यायामकुशलो नावधीत्कृत्पया पुनः ॥ 1704cd

पतितेन हतेनार्थो वराकेणामुना न मे । 1705ab
इत्तूचे दुरहङ्कारग्रस्तस्तस्मिन्नपि क्षणे ॥ 1705cd

नीध्रमुत्पाद्य निपतन्नेकोन्योप्युत्पतन्भटः । 1706ab
भयाद्भूमौ न्यपततां तंविलोक्योद्यतायुधम् ॥ 1706cd

पृष्टे पूर्वं प्रविष्टस्य461 तिष्ठन्स्थानकनिष्ठुरः । 1707ab
स रुरोरिव चामुण्डा रेजे दण्डाकृतिः क्षणम् ॥ 1707cd

न सिंहनादैर्नो भेरीतूर्यघोषैर्न वोन्मदैः । 1708ab
शस्त्रशब्दैः स शुशुभे भूपस्यान्तक्षणे रणः ॥ 1708cd

आखोर्भाण्डप्रवेशस्य विडाला इव डामराः । 1709ab
परं प्रवेशितास्तस्य निःशब्दं शस्त्रिणः कुटीम् ॥ 1709cd

अथान्यो नीध्रमार्गेण सम्प्रविष्टः प्रयागकम् । 1710ab
हत्वादोष्णि च शीर्षे च राजानं समुपाद्रवत् ॥ 1710cd

राज्ञः प्रहरतः शस्त्रं वञ्चयित्वा स शस्त्रभृत् । 1711ab
वक्षसि क्षुरिकाघातद्वयं प्रादात्कृतत्वरः ॥ 1711cd

वर्णान्महेश्वरेत्येनान्द्विरुक्त्वा गतजीवितः । 1712ab
पपात निहतो भूमौ छिन्नमूल इव द्रुमः ॥ 1712cd

पलाय्य सम्प्रविशतो योग्यश्चौरस्य यादृशः । 1713ab
चक्रवर्त्यपि स प्राप वधं वेश्मनि तादृशम् ॥ 1713cd

नान्यः स इव कालेस्मिन्ददृशे भूतिमान्नृपः । 1714ab
गर्ह्यनिर्हरणत्वं च तस्येवान्यस्य नेक्षितम् ॥ 1714cd

यद्वैकेनैव सङ्ग्रामवैमुख्येनोन्नतात्मनः । 1715ab
सर्वप्रकारसुभगं माहात्म्यं तस्य खण्डितम् ॥ 1715cd

नेयबुद्धित्वमेवासीदथ वा तस्य दूषणम् । 1716ab
सर्वक्लेशावहा दोषाः कृत्स्नास्तन्मन्त्रिणां पुनः ॥ 1716cd

द्वाचत्वारिंशतिः462 साष्टमासा यस्य वयःसमाः । 1717ab
स शुक्लभास्रपञ्चम्यां हतोब्दे सप्तसप्तते ॥ 1717cd

राजा दुर्योधन इव स्ववंशच्छेदमिच्छता । 1718ab
सोभूज्जातकयोगेन कारितः स्वकुलक्षयम् ॥ 1718cd

तस्यासन्क्ष्मार्कजौ जीवबुधौ शुक्रोष्णगू463 शशी । 1719ab
तनयामित्रजामित्रखेषु कर्कटजन्मनः464 ॥ 1719cd

[page 168]

विश्वास-प्रस्तुतिः

चन्द्रदैत्येज्यपापेषु465 खमदात्मजगेषु यत् । 1720ab
आहुः सुसंहिताकाराः कौरवादीन्कुलान्तकान् ॥ 1720cd

निर्ब्रह्मण्यो जनः कृत्स्नो देशेस्मिन्वैर्णोन्तिकम् । 1721ab
दस्योरिव शिरश्छित्वा स्वामिनोपि निनाय तत् ॥ 1721cd

तस्योत्तमाङ्गे भूभर्तुश्छिद्यमाने ससागरा । 1722ab
चकम्पे भूर्निरभ्रापि द्यौर्वृष्टिं महतीं जहौ ॥ 1722cd

तन्मुण्डे लगुडारूढे यदयुक्तं जनो व्यधात् । 1723ab
अब्न्हूत्तेनाभिशापेन सोग्रे दीर्घोपसर्गभाक् ॥ 1723cd

मण्डले देवबिम्बानां यथामुष्मिन्विपाटनम् । 1724ab
तथा नवं प्रववृते भूपतेर्मुण्डखण्डनम् ॥ 1724cd

नैक्षिष्ट तच्छिरः प्राप्तमौचित्यादुच्चलो नृपः । 1725ab
भूत्वा चिरमुदस्रुस्तु कारयामास वह्निसात् ॥ 1725cd

धिक्क्षष्टं तस्करस्येव तादृशश्चक्रवर्तिनः । 1726ab
नोच्चलाज्ञां विना प्राप्ता शरीरेणान्तसत्क्रिया ॥ 1726cd

भृत्यत्यक्तो नष्टवंशो गौरकाख्येन केनचित् । 1727ab
स काष्ठागारिणा चक्रे नग्नोनाथ इवाग्निसात् ॥ 1727cd

दीर्घो हर्षनृपोदन्तः सोयं कोप्यद्भुतावहः । 1728ab
रामायणस्य नियतं प्रकारो भारतस्य वा ॥ 1728cd

भाग्याम्बुवाहतडितस्तरलाः श्रियस्तास्तच्चावसानविरसं प्रसभोन्नतत्वम् । 1729ab
तत्रापि नैष वत मोहहताशयानां शान्तिं प्रयाति विभवानुभवाभिमानः ॥ 1729cd

तावत्यप्यवरोधिकापरिकरे नैकापि चक्रन्द तं तावत्स्वप्यनुगेषु नानुसृतवान्कोप्यास्त तीर्थे न वा । 1730ab
लोकस्य स्वसुखोपलिप्तमनसो वीक्ष्येति निःस्नेहतां निeवेदं समुपेत्य नाश्रयति धिक्स्वान्तं वनान्ते रतिम् ॥ 1730cd

नादौ किञ्चिद्भवति नियतं यच्च पश्चान्न किञ्चिन्मध्येकस्मात्सपदि घटयन्सौस्थ्यानुरोधम् । 1731ab
निःशीर्षाङ्घ्रीर्नट इव मुहुः कोपि जन्तुर्नटित्वा नो जानीमो भवजवनिकान्तर्हितः क्व प्रयाति ॥ 1731cd

श्रीः सातवाहनकुलेकृत466 कान्तिराजवंशे467 त्यजन्त्युदयराजकुले प्रतिष्ठाम् । 1732ab
शृङ्गं दुरैर्विरहितं जहती हिमाद्रेर्दिव्ये तटे सुरगिरेरिव वासरश्रीः ॥ 1732cd

इति काश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कवेः कृतौ राजतरङ्गिण्यां सप्तमस्तरङ्गः ॥ समाष्टानवतावस्यां त्र्यहोनायां महीभुजः । षडत्रोदयराजस्य वंशे जाताः प्रकीर्तिताः ॥ राजानः 6 श्लोकाः 1723468

[page 169]

  1. A3 निर्मिते. ↩︎ ↩︎

  2. A3 gloss भुवं क्षान्तिं च. ↩︎ ↩︎

  3. A3 gloss सेनापतीन् समुद्रांश्च. ↩︎ ↩︎

  4. गा supplied by A2. ↩︎ ↩︎

  5. A3 gloss कोशं । दिव्यं । अपाययत् अकारयत् । पीतकोशान् कृतवती इत्यर्थः. ↩︎ ↩︎

  6. Thus corr. by A3 from A1 प्रार्थितो. ↩︎ ↩︎

  7. A3 ॰प्रायैस्तु॰. ↩︎ ↩︎

  8. Thus corr. by A3 from A1 राज्ञस्तु॰. ↩︎ ↩︎

  9. A3 gloss निःसारणं. ↩︎ ↩︎

  10. यं supplied by A3. ↩︎ ↩︎

  11. A4 gloss तुङ्गगृहे. ↩︎ ↩︎

  12. A4 gloss तुङ्गानुजेन. ↩︎ ↩︎

  13. A3 gloss वृद्धिकरः. ↩︎ ↩︎

  14. Thus emended with C; A R G ,,सीद्स्यल॰. ↩︎ ↩︎

  15. A2 gloss गोमयविक्रयित्वं. ↩︎ ↩︎

  16. Thus corr. by A3 from A1 ॰क्रयिकादि. ↩︎ ↩︎

  17. Thus first half of this verse has been omitted by A1 and supplied by A3 in margin. ↩︎ ↩︎

  18. Thus corr. by A3 from A1 ॰कारी. ↩︎ ↩︎

  19. A4 gloss तुरुष्कसमरे. ↩︎ ↩︎

  20. A4 gloss तुङ्गं. ↩︎ ↩︎

  21. Thus A3; A1 स तथा. ↩︎ ↩︎

  22. र supplied by A3 in space left by A1. ↩︎ ↩︎

  23. Thus corr. by A3 from A1 ॰पश्यत्तं. ↩︎ ↩︎

  24. Thus corr. by A3 from A1 ॰नोक्ताः. ↩︎ ↩︎

  25. Thus A1; altered by later hand to हस्मी॰; G as above. ↩︎ ↩︎

  26. Thus corr. by A2 from A1 ॰प्राय; A3 gloss तौषी नाम नदी. ↩︎ ↩︎

  27. स्त supplied by A3. ↩︎ ↩︎

  28. Thus A3; A1 ॰रेणोद्गच्छ॰. ↩︎ ↩︎

  29. Thus A3 with gloss सङ्ग्रामस्यापत्यं साङ्ग्रामिः; A1 सङ्ग्रामे. ↩︎ ↩︎

  30. Thus A3; A1 रिपुम॰. ↩︎ ↩︎

  31. A3 gloss यस्य देशस्य भूमेः वैपुल्यं. ↩︎ ↩︎

  32. पशोर supplied by A3 in space left by A1. ↩︎ ↩︎

  33. Emended; A राज्यो॰. ↩︎ ↩︎

  34. Thus A1; altered by later hand to भूभुजाम् which is found also in G R. ↩︎ ↩︎

  35. A3 gloss वयं देव्या पीतकोशः कृता इति स्मरणात्. ↩︎ ↩︎

  36. Thus corr. by A3 from A1 ह्ययमा॰. ↩︎ ↩︎

  37. Thus corr. by A3 from A1 गृहान्. ↩︎ ↩︎

  38. Emended; A R G रुद्धश्वासो॰. ↩︎ ↩︎

  39. च supplied by A3 in space left by A1. ↩︎ ↩︎

  40. Thus corr. by A3 from A1 रञ्जन्तेर्गलितं हतः. ↩︎ ↩︎

  41. Thus corr. by A3 from A1 ॰ख्य कृत्वा. ↩︎ ↩︎

  42. A1 निस्सृतो; A3 निसृतो. ↩︎ ↩︎

  43. Thus corr. by A3 from A1 भ्रातृपुत्रसुत॰. ↩︎ ↩︎

  44. Emended; A ॰चर्षिणी. ↩︎ ↩︎

  45. A3 gloss रक्षो हि रात्रौ चरति. ↩︎ ↩︎

  46. A3 gloss कन्द्र्पसिंहः. ↩︎ ↩︎

  47. युग्मम्. added by A3. ↩︎ ↩︎

  48. Emended with G C; A R भूभर्तुः सतङ्गः. ↩︎ ↩︎

  49. A3 gloss कोशलिकार्थं. ↩︎ ↩︎

  50. Thus A1; A3 ॰पदेर्पणम्. ↩︎ ↩︎

  51. Thus corr. by A3 from A1 ॰लक्ष्मीं. ↩︎ ↩︎

  52. Thus words from गञ्जादिगञ्जस्रष्टा॰ to मयग्रामीण in the following verse have been omitted by A1 and supplied in margin by A3; they are found in G R. ↩︎ ↩︎

  53. A3 gloss पण्डितैः पुपैश्च. ↩︎ ↩︎

  54. A3 gloss आकाङ्क्षा दिशश्च. ↩︎ ↩︎

  55. Thus corr. by A3 from A1 पुण्यबोध्यां and निषीथिन्यां. ↩︎ ↩︎

  56. Thus A3; A1 ॰ज्ञाचिन्तनोन्नतिः. ↩︎ ↩︎

  57. त्यविगाता supplied by A3 in space left by A1. ↩︎ ↩︎

  58. A4 gloss तस्या अपरः पुत्रः. ↩︎ ↩︎

  59. Thus A3; A1 रत्नं. ↩︎ ↩︎

  60. Thus A R; G C हन्तुं. ↩︎ ↩︎

  61. Thus corr. by A3 from A1 प्रविष्टो. ↩︎ ↩︎

  62. Thus corr. by A3 from A1 ॰मापटले. ↩︎ ↩︎

  63. प supplied by A3. ↩︎ ↩︎

  64. मास supplied by A3 in space left by A1. ↩︎ ↩︎

  65. Thus A1; A3 किञ्चिदिव. ↩︎ ↩︎

  66. A3 gloss चचाल. ↩︎ ↩︎

  67. A3 gloss शौटीर्यं अभिमानः प्रागल्भ्यं वा. ↩︎ ↩︎

  68. A3 gloss शिशुसदृशः. ↩︎ ↩︎

  69. Thus corr. by A3 from A1 मोघवक्रियम्. ↩︎ ↩︎

  70. Emended with G C; A कृपः. ↩︎ ↩︎

  71. A3 gloss ब्रह्मराजेन. ↩︎ ↩︎

  72. दचलमङ्गलः supplied by A3 in space left by A1; A3 gloss नाम. ↩︎ ↩︎

  73. Thus A1; A3 स्यरपृष्ठा॰, with gloss स्वरोद् इति ग्रामः क्रमराज्ये. ↩︎ ↩︎

  74. Emended; A विदन्. ↩︎ ↩︎

  75. A3 gloss उत्तंसभूताः या मुक्ताः कुम्तामणयः तासां यो द्योतः दीप्तिः स एवाम्भः तेन क्षालिता अस्रस्य रुधिरस्य झलज्झलाकाचकच्यं प्रकाशः स्फार इति यावत् यस्य तत् इति शिरोविशेषणम् । झलज्झला नु शोभायामिति कोशः मुक्ताफलदीप्तेरतिशुक्लत्वादम्भस्त्वेन रूपणम् । जलस्य हि शुक्लं रूपमिति वैशेषिकाः ॥. ↩︎ ↩︎

  76. Thus corr. by A3 from A1 झलज्जलम्. ↩︎ ↩︎

  77. Thus A3; A1 तथा ह्येवं॰. ↩︎ ↩︎

  78. Thus corr. by A3 from A1 रूढा. ↩︎ ↩︎

  79. Thus corr. by A3 from A1 ॰लुण्ठा. ↩︎ ↩︎

  80. Thus corr. by later hand from A1 ॰भोञ्जैः. ↩︎ ↩︎

  81. A3 gloss प्रतिज्ञां. ↩︎ ↩︎

  82. Thus corr. by later hand from A1 प्रहितै काशक॰. ↩︎ ↩︎

  83. A3 gloss शेष इति भाषया. ↩︎ ↩︎

  84. A3 gloss ग्रामविशेषः. ↩︎ ↩︎

  85. Thus corr. by later hand from A1 ॰सनं. ↩︎ ↩︎

  86. Thus corr. by later hand from A1 शीलेना. ↩︎ ↩︎

  87. Thus corr. by A3 from A1 गुह्यता॰/ ↩︎ ↩︎

  88. Thus corr. by A3 from A1 ॰स्थान॰. ↩︎ ↩︎

  89. Thus corr. by later hand from A1 कैशवो. ↩︎ ↩︎

  90. Thus A1; A3 भूत्रिह॰. ↩︎ ↩︎

  91. Thus A1; A3 ॰शुद्धेन. ↩︎ ↩︎

  92. Thus corr. by A3 from A1 ॰न्म्तरम्. ↩︎ ↩︎

  93. Thus A1; A3 सर्वकार्यधु॰. ↩︎ ↩︎

  94. Thus A3; A1 ज्ञाने. ↩︎ ↩︎

  95. Thus corr. by A3 from A1 कश्चित्स्व॰; A3 gloss क्चत् देदीप्यमानं स्वर्णं येषां तैः. ↩︎ ↩︎

  96. Thus corr. by A3 from A1 ॰भवत्. ↩︎ ↩︎

  97. तुक्का supplied by A3 in space left by A1. ↩︎ ↩︎

  98. Thus corr. by A3 from A1 मार्गात्सं॰. ↩︎ ↩︎

  99. सज्जं supplied by A3 in space left by A1. ↩︎ ↩︎

  100. A3 gloss तेनानन्तदेवेन रणादित्यनामा क्षत्ता प्रतीहारः अभिषेचनं सज्जं कारित इत्यन्वयः कथं भूतः एवंवादी अपि. ↩︎ ↩︎

  101. A2 gloss कलशः. ↩︎ ↩︎

  102. Thus corr. by later hand from A1 बहु॰; A2 gloss कार्तिकस्य. ↩︎ ↩︎

  103. प supplied by A2. ↩︎ ↩︎

  104. A2 gloss विप्रेमा निस्स्नेहा>;् A3 ँ क्षिप्रमेवानुतापिनी इत्यन्यादर्शे>. ↩︎ ↩︎

  105. ँ ज्ञः> सुप्प्लिeद् बय् A3 इन् स्पचे लेFत् बय् A1. ↩︎ ↩︎

  106. ठुस् A1;् A3 ँ नीलपूरराजं>. ↩︎ ↩︎

  107. ठुस् चोरर्. बय् A3 Fरोम् A1 ँ ॰रालब्धिं>;् A3 gloss आस्कन्दं>. ↩︎ ↩︎

  108. ँ दत्त> सुप्प्लिeद् बय् A3 इन् स्पचे लेFत् बय् A1. ↩︎ ↩︎

  109. A4 gloss कलशदेवस्य द्वौ पुत्रौ हर्षदेव एकः कनिष्ठ उत्कर्षो द्वितीयः>. ↩︎ ↩︎

  110. A4 ग्gloss अनन्तदेवः>. ↩︎ ↩︎

  111. A4 gloss भोजराजश्च>. ↩︎ ↩︎

  112. A3 गिवेस् इन् मर्गिन् अ गेनेaलोगिचल् लिसत् स्होड़िनग् थे देस्चेन्दनतस् ओF थे ब्रोथेरस् ँ उदयराज> अनद् ँ कान्तिराजः उदयराज, सङ्ग्रामदेव, अनन्तदेव, कलश>, अनद् ँ कान्तिराज, जस्सराज. तन्वङ्ग>. – A4 ग्लोसस् (तो ँ पितुः>) ँ सङ्ग्रामदेवस्य>. ↩︎ ↩︎

  113. A4 gloss कान्तिराजपुत्रजस्सराजात>. ↩︎ ↩︎

  114. A4 gloss तन्वङ्गस्य>. ↩︎ ↩︎

  115. ठुस् चोरर्. बय् A3 Fरोम् A1 ँ तन्वन्राज॰>. ↩︎ ↩︎

  116. A4 gloss पौत्र उत्कर्षः>. ↩︎ ↩︎

  117. ठुस् चोरर्. बय् A3 Fरोम् A1 ँ इत्यु॰>. ↩︎ ↩︎

  118. A3 ँ दूरं नृपतीत्यन्यादर्शे>. ↩︎ ↩︎

  119. ठुस् A1;् A2 ँ गत्वा>. ↩︎ ↩︎

  120. A3 gloss देगामो इति भाषया>. ↩︎ ↩︎

  121. A4 gloss कलशेन. ↩︎ ↩︎

  122. A4 gloss अनन्तदेवगञ्जपतेर्नागनाम्नी भृत्यस्य पुत्रः. ↩︎ ↩︎

  123. A4 gloss हलधरेण. ↩︎ ↩︎

  124. Emended; A R G ॰भवद्विज्ज॰. ↩︎ ↩︎

  125. A4 gloss तुङ्गभ्रातुः. ↩︎ ↩︎

  126. Thus corr. by A3 from A1 तज्जनशि॰. ↩︎

  127. र supplied by A3; A3 gloss स्वा आत्मीया चासौ पुत्री तस्याः सुरते सम्भोगे. ↩︎

  128. Thus corr. by A3 from A1 विडाज॰. ↩︎ ↩︎

  129. Thus corr. by A3 from A1 विडालनाम इत्या॰. ↩︎ ↩︎

  130. This verse has been omitted by A1 and added in margin by A3; found in R G. ↩︎ ↩︎

  131. Thus A3; A1 ॰जागराद्रात्रौ. ↩︎ ↩︎

  132. Thus corr. by A3 from A1 क्षिप्रम॰. ↩︎ ↩︎

  133. Thus corr. by A3 from A1 कौढ॰. ↩︎ ↩︎

  134. Thus A3; A1 कथामाप्तो - पाहेतुं. ↩︎ ↩︎

  135. Thus R G; A यश्चक्रे. ↩︎ ↩︎

  136. Thus A B G; C भिक्षुकः. ↩︎ ↩︎

  137. A3 gloss भ्रडीमइ. ↩︎ ↩︎

  138. A4 gloss व्योमशिवेन. ↩︎ ↩︎ ↩︎ ↩︎

  139. A1 indicate here a lacuna of two padas. ↩︎ ↩︎

  140. Thus corr. by two dots. ↩︎ ↩︎

  141. A4 gloss चमकं विटं. ↩︎ ↩︎

  142. Thus emended with C and G sec. manu; A ॰कटाक्षा. ↩︎ ↩︎

  143. प suipplied by A3. ↩︎ ↩︎

  144. A3 gloss जयानन्दः नागपुत्रः तुङ्गभ्रातृपुत्रः. ↩︎ ↩︎

  145. Thus corr. by A3 from A1 न व्याज्यं. ↩︎ ↩︎

  146. ण्डीनरपतेः and न्नवसरेभवत् supplied by A2 in space left by A1. ↩︎ ↩︎ ↩︎ ↩︎

  147. सिध्यतो supplied by A2 in space left by A1. ↩︎ ↩︎

  148. र्वनाशाद्वा बन्ध supplied by A2 in space left by A1. ↩︎ ↩︎

  149. Emended: A1 बन्धुं; A3 बन्द्धुं. ↩︎ ↩︎

  150. द्धतः supplied by A3 in space left by A1. ↩︎ ↩︎

  151. Emended; A बिश्चाव॰. ↩︎ ↩︎

  152. कुतस्या supplied by A3. ↩︎ ↩︎

  153. Thus corr. by A3 from A1 व्यक्त्त्वा. ↩︎ ↩︎

  154. A3 gloss, partly effaced, दुर्मतौ दुष्टबुद्धिविशिष्टेँ पुत्रे मया एताः प्रजाः त्यकत्[आः] पुत्र एव राज्य[स्या]पनादित्यपि [ध्या]त्वा दुष्टस्य पुत्रस्य वाच्यता निन्दा कर्तुं न समुचिता ते — त्यन्वयः. ↩︎ ↩︎

  155. A3 gloss भाण्डागारं. ↩︎ ↩︎

  156. Emended: A प्रसादा॰; C प्रमादा॰. ↩︎ ↩︎

  157. Thus corr. by A3 from A1 ॰स्तदाप्यासी॰. ↩︎ ↩︎

  158. Thus corr. by A3 from A1 क्व. ↩︎ ↩︎

  159. A2 gloss शावाः पोताः तेषां भरणं पोषणम्. ↩︎ ↩︎

  160. A2 गण्डाल्यः गण्यः इति भाषया. ↩︎ ↩︎

  161. Thus corr. A3 from A2 ॰गुङ्गा॰. ↩︎ ↩︎

  162. A2 gloss अनन्तदेवः. ↩︎ ↩︎ ↩︎ ↩︎

  163. A3 gloss धनरहिताम्. ↩︎ ↩︎

  164. त्र supplied by A3 in space left by A1. ↩︎ ↩︎

  165. A3 gloss वितस्तात्रं नाम यत्पुरं । तस्मादुद्भवो यस्य स वितस्तात्रपुरोद्भवः. ↩︎ ↩︎

  166. Thus corr. by A3 from A1 यो-. ↩︎ ↩︎

  167. A3 gloss कलशेन. ↩︎ ↩︎

  168. वे supplied by A3 in space left by A1. ↩︎ ↩︎

  169. संरम्भा supplie A2 in space left by A1. ↩︎ ↩︎

  170. Thus corr. by A3 from A1 दीशिषे. ↩︎ ↩︎

  171. A3 gloss अश्वं. ↩︎ ↩︎

  172. Thus corr. by A3 from A1 भुङ्क्त. ↩︎ ↩︎

  173. A3 gloss अनन्तकलशयोः. ↩︎ ↩︎

  174. रूप supplied by A3 in space left by A1. ↩︎ ↩︎

  175. ॰त्तुच्छ upplied by A3 in space left by A1. ↩︎ ↩︎

  176. Thus A3; A1 तदा. ↩︎ ↩︎

  177. Thus corr. by A3 from A1 स्वन्व॰. ↩︎ ↩︎

  178. A3 gloss पितामहयोः पितामहपितामह्योः. ↩︎ ↩︎

  179. A2 gloss पितराविति पितरौ राजा राज्ञी च राजा थक्कडामरनाम्ना समीपगैः कथ्यमानः राज्ञी च लुड्डाभिधा कैवर्ती नाम्ना कथ्यमाना उपहासार्थमित्यर्थः. ↩︎ ↩︎

  180. Thus corr. by A3 from A1 नृपात्मजा. ↩︎ ↩︎ ↩︎ ↩︎

  181. नडत्वक् । पिचू इति भाषया. ↩︎ ↩︎

  182. दसून्काश्चि supplied by A2 in space left by A1. ↩︎ ↩︎

  183. Thus A3; A1 ॰योगं लघु॰. ↩︎ ↩︎

  184. A2 gloss धान्यं धनिका धान्यवल् इति भाषया । तदम्बु. ↩︎ ↩︎

  185. Thus corr. by A3 from A1 क्षपान्तिके. ↩︎ ↩︎

  186. Thus corr. by A1 सोभवत्. ↩︎ ↩︎

  187. A3 gloss दिव्यं. ↩︎ ↩︎

  188. उत्थि supplied by A2 in space left by A1. ↩︎ ↩︎

  189. A3 gloss आत्ता गृहीता लता यथा. ↩︎ ↩︎

  190. A3 gloss द्वास्स्थत्वं. ↩︎ ↩︎

  191. A3 gloss वितीर्णाः दत्ताः स्कन्दाः भुजशिरांसि शिविकावाहार्थं यैः तेषां. ↩︎ ↩︎

  192. Thus corr. by A3 from A1 पश्यन्त्यपश्चि॰. ↩︎ ↩︎

  193. Thus corr. by A3 from A1 ॰गमाशया. ↩︎ ↩︎

  194. A3 gloss चेतोरूपे काचघटे शीश इति प्रसिद्धे. ↩︎ ↩︎

  195. Thus emended with G; A पुत्रवरे. ↩︎ ↩︎

  196. शस्प supplied by A3 in space left by A1. ↩︎ ↩︎

  197. Thus corr. by A2 from A1 र्धतामगात्. ↩︎ ↩︎

  198. Emended; A तद्दीना॰. ↩︎ ↩︎

  199. Thus corr. by A3 from A1 ॰स्ताता. ↩︎ ↩︎

  200. ततः supplied by A3 in space left by A1. ↩︎ ↩︎

  201. Thus corr. by A3 from A1 ॰वान्तिकम्. ↩︎ ↩︎

  202. Thus A3; A1 तुरुष्केन. ↩︎ ↩︎

  203. A3 gloss वृष्यैः वाजीकरणैः. A2 quotes: वृष्यकल्पतरौ पारिभद्ररसेनैव हिङ्गुलं याममात्रकम् । मर्दयित्वा पारदवत्पातयेत्पूर्वयुक्तितः । योजयेत्सर्वयोगेषु सप्तकञ्चुकवर्जितम्॥. ↩︎ ↩︎

  204. न supplied by A3 in space left by A1. ↩︎ ↩︎

  205. A3 gloss राजविर् इति भाषया. ↩︎ ↩︎

  206. Thus corr. by A3 from A1 सङ्ग्रामराजस्य. ↩︎ ↩︎

  207. A4 gloss जयानन्दः. ↩︎ ↩︎

  208. Thus emended with G sec. manu; A शक्यतां. ↩︎ ↩︎

  209. Thus corr. by later hand from A1 राज्य॰. ↩︎ ↩︎

  210. A3 gloss हूरपुर्. ↩︎ ↩︎

  211. A2 gloss आकस्मिके प्रमये मारीदोष इत्यर्थः. ↩︎ ↩︎

  212. Thus A1; A3 R G पाजकाः. ↩︎ ↩︎ ↩︎ ↩︎

  213. Thus A1; A3 द्वित्रास्तु द्वैध॰. ↩︎ ↩︎ ↩︎ ↩︎

  214. पि supplied by A3. ↩︎ ↩︎

  215. Thus corr. by A3 from A1 ॰शेमाति. ↩︎ ↩︎

  216. A3 gloss मदनपालः. ↩︎ ↩︎

  217. स supplied by A3. ↩︎ ↩︎

  218. Thus corr. by A3 from A1 कन्दर्पोभ॰. ↩︎ ↩︎

  219. Thus corr. by A3 from A1 ॰च्छिन्नाश्रयो॰. ↩︎ ↩︎

  220. A3 gloss अर्जुनस्य. ↩︎ ↩︎

  221. Thus A1; A3 द्रुतं. ↩︎ ↩︎

  222. Emended; A R G ॰कलशं. ↩︎ ↩︎

  223. Thus A1; A3 नीत॰. ↩︎ ↩︎

  224. Thus corr. by later hand from A1 कन्दर्पः समः. ↩︎ ↩︎

  225. जाह्न supplied by A3 in space left by A1. ↩︎ ↩︎

  226. Thus A1; A3 ॰स्येदितस्यासीदा॰. ↩︎ ↩︎

  227. Emended; A ॰तोषकैः. ↩︎ ↩︎

  228. Thus A1; A3 क्षुभ्यद्वै॰. ↩︎ ↩︎

  229. Thus corr. by A3 from A1 कुमाराः. ↩︎ ↩︎

  230. Emended; A धर्मटेँना॰. ↩︎ ↩︎

  231. Thus corr. by A3 from A1 दुःशीलान्य॰. ↩︎ ↩︎

  232. रं supplied by A3. ↩︎ ↩︎

  233. A1 तत्रार्थेऽशान्त॰. ↩︎ ↩︎

  234. Emended; A दम्मटो॰. ↩︎ ↩︎

  235. Emended; A बुद्ध्वा. ↩︎ ↩︎

  236. A3 gloss धम्मटस्य. ↩︎ ↩︎

  237. यावावां तत्प्रवेशा supplied by A3 in space left by A1. ↩︎ ↩︎

  238. Thus corr. by A3 from A1 ॰पुत्रस्तस्त॰. ↩︎ ↩︎

  239. A4 gloss पुत्रस्य. ↩︎ ↩︎

  240. A4 gloss अनन्तदेवसम्बन्धिनं. ↩︎ ↩︎

  241. Emended with C; A समर्पयम्. ↩︎ ↩︎

  242. Thus R G C; A पुत्रः. ↩︎ ↩︎

  243. Emended; A सावसथं. ↩︎ ↩︎

  244. A2 gloss कारणानि ब्रह्मादीनि पञ्च. ↩︎ ↩︎

  245. Fol. 166 of A ends with पश्चात्प्र; fol. 167 which ended with verse 688, is now lost. ↩︎ ↩︎

  246. Thus R; G केशश्च. ↩︎ ↩︎

  247. Thus R G sec. manu; C G prima manu माध्यस्थ॰. ↩︎ ↩︎

  248. Thus G C; R रसे. ↩︎ ↩︎

  249. Thus emended with C; A R G तेनात्तेन. ↩︎ ↩︎

  250. Emended; A अवु॰. ↩︎ ↩︎

  251. Emended with C; A गोप्तृन्नि. ↩︎ ↩︎

  252. Emended with C; A अथोजग॰. ↩︎ ↩︎

  253. Emended with C; A ॰देशोधि॰. ↩︎ ↩︎

  254. A2 gloss हर्ष आनीयतामिति राज्ञो भावमभिप्रायं निह्नोतुं आदर्शो नोनकेना नित इत्यर्थः हर्षः आदर्श इति पाठमात्रसाम्यादित्यर्थः. ↩︎ ↩︎

  255. A2 gloss उरद्धा इति वेद्यभाषया. ↩︎ ↩︎

  256. Emended with C; A अन्त्येष्टि॰. ↩︎ ↩︎

  257. ज supplied by A3. ↩︎ ↩︎

  258. Emended; A तदैवो॰. ↩︎ ↩︎

  259. Thus corr. by A3 from A1 ॰न्नस्मि. ↩︎ ↩︎

  260. Thus corr. by A3 from A1 राज्यात्सन्त्य॰. ↩︎ ↩︎

  261. Emended; A ॰दर्थमान. ↩︎ ↩︎

  262. ताड supplied by A3 in space left by A1. ↩︎ ↩︎

  263. येन वा supplied by A3 in space left by A1. ↩︎ ↩︎

  264. A3 gloss उत्कम्पी दानसस्मये सकम्प इत्यर्थः. ↩︎ ↩︎

  265. A4 gloss हेतुना. ↩︎ ↩︎

  266. मध्यस्थ supplied by A3 in space left by A1. ↩︎ ↩︎

  267. Thus corr. by A3 from A1 ॰स्तस्या-. ↩︎ ↩︎

  268. Thus corr. by A3 from A1 त्यक्तोत्क॰. ↩︎ ↩︎

  269. Emended; A वैरि – वि॰; C वैरिकानवि॰. ↩︎ ↩︎ ↩︎ ↩︎

  270. Thus A; R ॰वार्षिकान्. ↩︎ ↩︎

  271. Thus corr. by A1 from ॰प्रतापम्; A3 ॰प्रभाते. ↩︎ ↩︎

  272. Thus corr. by A3 from A1 शुचोद॰. ↩︎ ↩︎

  273. Doubtful; thus A R G. ↩︎ ↩︎

  274. A2 gloss यः पातार्थमिति एतद्वृत्तद्वयोपाख्यानं महाभारते द्रोणपर्वणि ज्ञेयम्. ↩︎ ↩︎

  275. A3 gloss आभीजन् इति देशभाषया. ↩︎ ↩︎

  276. कं नृत्यन्तो supplied by A3 in space left by A1. ↩︎ ↩︎

  277. Emended A R G तेनुज्ञः. ↩︎ ↩︎

  278. त्काम्या supplied by A3 in space left by A1. ↩︎ ↩︎

  279. Emended with C; A ॰न्नुपकर्त्रूप॰. ↩︎ ↩︎

  280. Thus A; perhaps, ॰पक्षि॰. ↩︎ ↩︎

  281. The same hand which has supplemented the marginal note of A3 in i. 110, writes here: नक्रास्याच्चलतश्च मज्जनमयी शङ्का प्लवस्याम्बुधौ इत्यन्यादर्शे with the gloss नक्रः जलप्राणिविशेषः यो जलहस्तिनोपीरयति तन्मुखात्सकाशाद्दैववशाच्चलितस्यापि ब्रुडनमयी शङ्का उडुपस्य स्यादेवेत्यर्थः. ↩︎ ↩︎

  282. अवसाद supplied by A3 in space left by A1. ↩︎ ↩︎

  283. Thus corr. by A3 from A1 मघा॰. ↩︎ ↩︎

  284. कर्ण्य and तृष्णा supplied by A3 in space left by A1. ↩︎ ↩︎ ↩︎ ↩︎

  285. A1 indicates here a lacuna of two aksharas; C विगतोत्तापे; perhaps, विगतोद्वेगे(?). ↩︎ ↩︎

  286. Emended; A ॰मासीन्नाशी॰. ↩︎ ↩︎

  287. Thus corr. by A3; A1 —– सन्त्यज्य कार्येषु नियोजिताः. ↩︎ ↩︎

  288. Thus corr. by later hand from A1 स्मृत्वोप॰. ↩︎ ↩︎

  289. Thus A; perhaps, to be read विश्शावट्टो; cf. vii. 617, 621,630. ↩︎ ↩︎

  290. A2 gloss मधौ वसन्ते भूविवरोत्थिता भृङ्गा नीज्यन्नम्बर इति भाषाया प्रसिद्धाः ये अस्तावलम्बिनि सूर्ये सूक्ष्मेभ्यः भूविवरेभ्यः वसन्तसमये उत्तिष्ठन्ति शाद्वलोपरि सञ्चारार्थं ॥ ↩︎ ↩︎

  291. Here A1 indicates a lacuna; C ॰नृशंस्याद्विचक्षणः. ↩︎ ↩︎

  292. थास्कन्द supplied by A3 in space left by A1. ↩︎ ↩︎

  293. Emended; A ॰नोद्यतम्. ↩︎ ↩︎

  294. संहरं supplied by A3 in space left by A1. ↩︎ ↩︎

  295. Thus A; perhaps, to be read प्राक्कृतानीव. ↩︎ ↩︎

  296. सजानिर supplied by A5 in space left by A1. ↩︎ ↩︎

  297. Thus corr. by A3 from A1 ॰तरन्दो॰. ↩︎ ↩︎

  298. Thus corr. by A3 from A1 ॰तार्य. ↩︎ ↩︎

  299. Thus corr. by A3 from A1 ॰वामक॰. ↩︎ ↩︎

  300. त्पत्न्या and नं supplied by A3 in space left by A1. ↩︎ ↩︎

  301. Thus corr. by A3 from A1 पुरम॰. ↩︎ ↩︎

  302. प्रभयतो लग्नं राज्यं supplied by A3 in space left by A1. ↩︎ ↩︎

  303. A3 gloss ललाटलम्ब्यलङ्कारश्चटुलातिलको मतः. ↩︎ ↩︎

  304. Emended; A ॰पुंवेशा. ↩︎ ↩︎

  305. Thus corr. by A3 from A1 ॰टश्चे. ↩︎ ↩︎

  306. Thus corr. by later hand from A1 सौवर्णामाल॰. ↩︎ ↩︎

  307. राढ्या supplied by A3 in space left by A1. ↩︎ ↩︎

  308. Emended; ॰भवो तप्ताः. ↩︎ ↩︎

  309. Thus A; perhaps, to be read स्वभुवं. ↩︎ ↩︎

  310. Thus A1; A3 वासनं. ↩︎ ↩︎

  311. Thus corr. by A3 from A1 मुष्टिरिव. ↩︎ ↩︎

  312. A4 gloss मन्त्रिणं. ↩︎ ↩︎

  313. Thus A2; A1 रक्किं. ↩︎ ↩︎

  314. Emended with C; A ॰न्सेवकत्पुरः. ↩︎ ↩︎

  315. Emended; A बद्धुमु॰. ↩︎ ↩︎

  316. Doubtful emendation; A apparently निस्त्वक्त्यं; R G निस्त्वथ्यं. ↩︎ ↩︎

  317. Emended; A काश्मीरकाणां. ↩︎ ↩︎

  318. च has been erased by A1. ↩︎ ↩︎

  319. Thus A1; corr. by later hand दुर्मन्त्रिशेषाः. ↩︎ ↩︎

  320. Thus corr. by later hand from A1 वेश्या॰. ↩︎ ↩︎

  321. Thus corr. by later hand from A1 स्थितिम्. ↩︎ ↩︎

  322. Thus corr. by A2 from A1 पूर्तये; A2 in margin भोजने. ↩︎ ↩︎

  323. Thus corr. by A2 from A1 प्रायम्. ↩︎ ↩︎

  324. Emended; A मन्त्रिय॰. ↩︎ ↩︎

  325. A here and elsewhere प्रयोगेण. ↩︎ ↩︎

  326. Emended; A ॰त्सशङ्कमा॰. ↩︎ ↩︎

  327. युधो supplied by A3 in space left by A1. ↩︎ ↩︎

  328. Emended; A ॰स्कन्दाद्यास्तु. ↩︎ ↩︎

  329. Emended; A ॰नप्तो यत्पूर्वं. ↩︎ ↩︎

  330. Thus A1; altered by later hand into ॰गोणाश्म॰. ↩︎ ↩︎

  331. Emended; A प्रसिस्थे. ↩︎ ↩︎

  332. Emended; A गोप्तृ॰. ↩︎ ↩︎

  333. Emended; A तद्गोप्तृ॰. ↩︎ ↩︎

  334. Emended; A जान जनक॰. ↩︎ ↩︎

  335. य supplied by A2. ↩︎ ↩︎

  336. Two aksharas are wanting; A does not indicate the lacuna. ↩︎ ↩︎

  337. Emended; A भीमश्शाहिर॰. Cf. vi. 178. ↩︎ ↩︎

  338. Doubtful emendation; A ॰त्परिपत्यानां. Cf. vii. 1088. ↩︎ ↩︎

  339. Emended; A ॰त्कोशचौर॰. ↩︎ ↩︎

  340. Emended; A यत्रेदृद्वस्तु. ↩︎ ↩︎

  341. Emended with C; A कीदृक्कुत्रा॰. ↩︎ ↩︎

  342. Thus A; G C सुराकुहरणे. ↩︎ ↩︎

  343. Emended with R C; A ॰त्पाटनायकम्. ↩︎ ↩︎

  344. Emended; A ॰रुप्या॰. ↩︎ ↩︎

  345. Thus corr. by later hand from A1 रुग्नन॰. ↩︎ ↩︎

  346. Emended; A ॰भूपतिः. ↩︎ ↩︎

  347. Emended; A च हेलकः. Cf. vii. 1170, 1319, 1358, 1359. ↩︎ ↩︎

  348. Emended; A बाधिका. Cf. vii. 319. ↩︎ ↩︎

  349. Emended; A ॰तामस्रे. ↩︎ ↩︎

  350. Emended; A स्वजात्येन; C स्वजन्येन. ↩︎ ↩︎

  351. Emended; A सर्वशुद्धनिधेः. ↩︎ ↩︎

  352. Emended; A प्रमन्यमाने. ↩︎ ↩︎

  353. Emended; A न्यगृही॰. ↩︎ ↩︎

  354. Conjectural reading; A दुग्धे. ↩︎ ↩︎

  355. Emended; A निह्रादे. ↩︎ ↩︎

  356. Emendedl; A वातगण्डस्तदु॰. ↩︎ ↩︎

  357. Thus or, perhaps, विसूत्रितेपि to be read fro A विसूत्रितापि. ↩︎ ↩︎

  358. Emended; A काश्मीरकाः. ↩︎ ↩︎

  359. Emended; A तत्पुत्रो. ↩︎ ↩︎

  360. Emended; A ठक्क. ↩︎ ↩︎

  361. Emended; A व्यवहृता. ↩︎ ↩︎

  362. Emended; A रोलम्भैर॰. ↩︎ ↩︎

  363. Thus A2; A1 ॰वादयन्; G ॰वागलन्. ↩︎ ↩︎

  364. Emended; A व्याप्ता विस्तीर्णतोरणा. ↩︎ ↩︎

  365. A2 gloss नूतन — यावल्लोकभवनं ( three akshara illegible). ↩︎ ↩︎

  366. Emended; A चक्रोधा॰. ↩︎ ↩︎

  367. A1 indicates a lacuna of two aksharas. ↩︎ ↩︎

  368. Thus A1; A2 gloss उचसो, corr. by later hand into उत्रास; A3 reads उत्त्रास. ↩︎ ↩︎

  369. Thus corr. by A1 from कालि॰. ↩︎ ↩︎

  370. Emended; A . ↩︎ ↩︎

  371. Thus A1; A later hand corrects डामरांस्तु महोत्साहांस्त॰ and विप्रकृतान्दू॰. ↩︎ ↩︎ ↩︎ ↩︎

  372. Emended; A तन्नाश॰. ↩︎ ↩︎

  373. Emended; A कृतो. ↩︎ ↩︎

  374. Emended; A खशादीशं. ↩︎ ↩︎

  375. Emended; A सार्थवाहनं. Cf. vi.367. ↩︎ ↩︎

  376. Thus corr. by A3 from A1 ॰स्यास्सज्जरा॰. ↩︎ ↩︎

  377. Emended; A काश्मीरकाणां. ↩︎ ↩︎

  378. Thus A1; corr. by later hand into लोष्टवद्दा॰. ↩︎ ↩︎

  379. Emended; A1 वद्द॰. ↩︎ ↩︎

  380. न्विप्लवा and र्त्म supplied by A3 in space left by A1. ↩︎ ↩︎ ↩︎ ↩︎

  381. Thus A; perhaps, to be emended क्षेमटा॰. Cf. vii. 482. ↩︎ ↩︎

  382. Thus A1; corr. by later hand into काङ्काद्यवैश्य॰. ↩︎ ↩︎

  383. Emended; A सहलो. ↩︎ ↩︎

  384. Emended; A ॰भूमहन्तमः. ↩︎ ↩︎

  385. Doubtful; thus emended with C; A ॰सीत्पारैर॰. ↩︎ ↩︎

  386. Thus A1; corr. by later hand into प्रविष्टा. ↩︎ ↩︎

  387. A2 gloss परिहासपुरसमीपे गुरिकाबलमस्ति. ↩︎ ↩︎

  388. Emended; A ॰कारदेशे॰. ↩︎ ↩︎

  389. Thus A1; A2(?) अशनाहे; A3 gloss पौदुपावग्रामे. ↩︎ ↩︎

  390. Emended; A मोहौवहं. ↩︎ ↩︎

  391. Emended; A ॰नीकान्पत्ति॰. ↩︎ ↩︎

  392. Emended; A क्रमता. ↩︎ ↩︎

  393. Emended; A धान्व॰. ↩︎ ↩︎

  394. Emended; A नियुक्या. ↩︎ ↩︎

  395. Emended; A ता भर्तु॰. ↩︎ ↩︎

  396. Thus A1; corr. by later hand into सैन्य॰. ↩︎ ↩︎

  397. ह supplied by A3 in space left by A1. ↩︎ ↩︎

  398. Thus corr. by later hand from A1 तत्प्रभावः. ↩︎ ↩︎

  399. Emended; A1 has written first ॰उधुरनख and corrected this into ॰द्धुरनटो. ↩︎ ↩︎

  400. Thus corr. A1 from ज्वालाग्र. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  401. Thus A; perhaps, to be emended सञ्चिन्त्य. ↩︎ ↩︎

  402. Emended; A पुरुषं. ↩︎ ↩︎

  403. Emended; A वः. ↩︎ ↩︎

  404. Thus A1; A2 ॰वैबल्य॰. ↩︎ ↩︎

  405. Thus corr. by A1 or a later hand from ॰धातुरियं. ↩︎ ↩︎

  406. Emended; A लक्ष्मीस्तडि॰. ↩︎ ↩︎

  407. Emended; A ॰मुञ्चदचि॰. ↩︎ ↩︎

  408. A1 writes here 3 instead of तिलकम्. ↩︎ ↩︎

  409. A1 writes here 2 instead og युग्मम्( युगलकम्). ↩︎ ↩︎

  410. Emended; A ॰र्बध्यतां. ↩︎ ↩︎

  411. Emended; A ॰धम्मिल॰. ↩︎ ↩︎

  412. Emended; A योधा. ↩︎ ↩︎

  413. Emended; A क्षतायुः॰. ↩︎ ↩︎

  414. Emended A राज्ञो नन्दा॰. ↩︎ ↩︎

  415. Emended; A योद्धुमस्याप॰. ↩︎ ↩︎

  416. Thus corr. by A1 from ॰भिर्नन्द्रराजो॰. ↩︎ ↩︎

  417. Thus corr. by A1 from चात्मजः. ↩︎ ↩︎

  418. Emended; A ॰रुप्य॰. ↩︎ ↩︎

  419. Emended with C; A वयसो. ↩︎ ↩︎

  420. Thus A1; C कलशाख्यं; doubtful. ↩︎ ↩︎

  421. Emended; A शङ्की॰, corr. by later hand into शल्की॰. Cf. Böhtlingk, Sanskrit Wörterbuch in kürzerer Fassung, vi. 214 b. ↩︎ ↩︎

  422. Emended; A सावशेषोसौ. ↩︎ ↩︎

  423. Emended; A ॰वेशर॰. ↩︎ ↩︎

  424. Emended; A ॰स्तोमसित॰. ↩︎ ↩︎

  425. Emended; A ॰वेशाः. ↩︎ ↩︎

  426. Emended; A ॰श्रूयन्त. ↩︎ ↩︎

  427. च wanting in A; supplied with R C. ↩︎ ↩︎

  428. Emended; A भ्रातृद्वारे. ↩︎ ↩︎

  429. Thus A; cf. vii. 1607. ↩︎ ↩︎

  430. Emended; A ॰न्निसारः. ↩︎ ↩︎

  431. Emended A राजपुत्रस्य. Cf. vii.1453 ↩︎ ↩︎

  432. A1 writes here 3 instead of तिलकम्. ↩︎ ↩︎

  433. Emended; A प्राग्जगायन्तत्सिता॰ C ॰गाय तत्पिता॰. ↩︎ ↩︎

  434. A1 शेया– राजन्मभ्यो; ज subsequently supplied by A1 or later hand; or but comp. शेषा राजात्मजे. vii.1594. ↩︎ ↩︎

  435. Emended; A सोनुजन्मना. Cf. vii. 894 ↩︎ ↩︎

  436. Emended; A निजम्. ↩︎ ↩︎

  437. Emended with C; A तं पुनः. ↩︎ ↩︎

  438. Emended; A भूमादेवस्य. ↩︎ ↩︎

  439. Emended; A डामरामि॰. ↩︎ ↩︎

  440. Thus A. ↩︎ ↩︎

  441. Thus A3; A1 ॰वनान्तिके. ↩︎ ↩︎

  442. Thus A3; A1 अभूच्छिन्नाभि॰. ↩︎ ↩︎

  443. वारस्त्रिया supplied by A3 in space left by A1. ↩︎ ↩︎

  444. Emended; A क्षमम्. ↩︎ ↩︎

  445. Emended with C; A ॰र्भीतिवतो. ↩︎ ↩︎

  446. प्राह्ने कुतश्चि, पसः, चक्रे स्वकुटीं तां, supplied by A3 in space left by A1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  447. Thus corr. by A2 from A1 चाधम॰. ↩︎ ↩︎

  448. Emended; A ॰मषका॰. ↩︎ ↩︎

  449. Emended; A तेनार्ध. ↩︎ ↩︎

  450. स्तया supplied by A3 in space left by A1. ↩︎ ↩︎

  451. Thus corr. by A3 from A1 ह्नुतो. ↩︎ ↩︎

  452. रक्ष्याम्यनु and ताचारै supplied by A3 in space left by A1. ↩︎ ↩︎

  453. Thus corr. by later hand from A1 ॰वदना. ↩︎ ↩︎

  454. Emended with C; A ॰श्यायोम्भो॰. ↩︎ ↩︎

  455. Two aksharas wanting in fourth ; the lacuna not marked in A; C तद्वीक्षणात्पुरः. ↩︎ ↩︎

  456. Thus A1; A3 पूर्वमाप्तक्षये. ↩︎ ↩︎

  457. प्रैरयत्तापसं supplied by A3 in space left by A1. ↩︎ ↩︎

  458. Emended; A दोग्धृतां. ↩︎ ↩︎

  459. Emended; A भूमिश्चा॰. Cf. viii. 94. ↩︎ ↩︎

  460. Emended; A सङ्कटी कु॰. ↩︎ ↩︎

  461. Emended with C; A प्रविष्ट. ↩︎ ↩︎

  462. Emended; A द्वाचत्वारिंशतः. ↩︎ ↩︎

  463. Emended with C; A ॰ष्णगी. ↩︎ ↩︎

  464. A2 explains this verse by the following janmachakra: कं । सिं । क । मि । वृ । मे चं । मी । कुं । म सू शु । ध्ं बु जी । वृं भौ श । तुं । ↩︎ ↩︎

  465. A2 gloss शु. ↩︎ ↩︎

  466. Emended; A श्रीसात॰. ↩︎ ↩︎

  467. Emended; A कान्तराज॰. Cf. vii. 1285. ↩︎ ↩︎

  468. Thus A1, perhaps for 1732. A1 adds here लिखितश्चैष मया राजानकरत्नकण्ठेन. ↩︎