॥ षष्टस्तरङ्गः ॥
विश्वास-प्रस्तुतिः
नेदं पर्णसमीरणाशनतपोमाहात्म्यमुक्षोरगौ पश्यैतावत एव सम्प्रति कृतौ तन्मात्रवृत्ती1 बहिः2 । 0001ab
प्रेम्णैर्वार्धमिदं चराचरगुरोः प्रापेयमात्मस्तुतीरेवं देववधूमुखाच्छ्रुतिसुखाः3 शृण्वन्त्यपर्णावतात् ॥ 0001cd
मूलम्

इच्छन्नलङ्घनीयत्वमथ कक्ष्यां विलङ्घयन् । 0002ab
प्रतीहारान्द्विजा दूरं वार्यन्तामिति सोन्वशात् ॥ 0002cd

वेत्रिवित्रास्यमानांस्तु तान्कृताञ्चलिरब्रवीत् । 0003ab
राज्यप्रदाश्च पूज्याश्च यूयं नो दैवतैः समाः ॥ 0003cd

राज्यदानाभिमानेन वर्तिष्यत मदोद्धताः । 0004ab
यत्कार्यकालादन्यत्र नागन्तव्यं मदन्तिकम् ॥ 0004cd

तदाकर्ण्याखिलो लोकस्तमधृष्यममन्यत । 0005ab
व्यस्मरत्सहसंवाससम्भूतमपि लाघवम् ॥ 0005cd

खिलीभूताः पूर्वराजव्यवस्थाः प्रतिभाबलात् । 0006ab
उन्नीतवान्स सुकविः प्राक्कविप्रक्रिया इव ॥ 0006cd

अचौराभूत्तथा भूमिर्यथा रात्रौ वणिक्पथा । 0007ab
अतिष्ठन्विवृतद्वारा मार्गाश्चाविघ्निताध्वगाः ॥ 0007cd

प्रत्यवेक्षापरे तस्मिन्नासीत्सर्वापहारिणाम् । 0008ab
कृष्यध्यक्षत्वमुसृज्य कृत्यं नान्यन्नियोगिनाम् ॥ 0008cd

ग्राम्याः कृषिपराधीना नापश्यन्राजमन्दिरम् । 0009ab
विप्राः स्वाध्यायसंसक्ता नाकुर्वञ्शस्त्रधारणम् । 0009cd

न विप्रगुरवः साम
गायन्तो मदिरां पपुः । 0010ab
न तापसाः पुत्र-दार-
पशु-धान्यान्य् अढौकयन् ॥ 0010cd
English
Brahmin preceptors58 did not drink wine while chanting the Sāmaveda, and ascetics did not take wives, children, cattle and corn.
मूलम्
न विप्रगुरवः साम गायन्तो मदिरां पपुः । 0010ab
न तापसाः पुत्रदारपशुधान्यान्यढौकयन् ॥ 0010cd
विश्वास-प्रस्तुतिः
न मूर्ख-गुरवो4 मत्स्या-
पूप-याग-विधायिनः । 0011ab
चक्रिरे स्व-कृतैर् ग्रन्थैस्
तर्कागम-परीक्षणम् ॥ 0011cd
English
Ignorant gurus, who perform ritual worship with fish and cakes,59 did not revise philosophical and scriptural statements60 in their own writings.
मूलम्
न मूर्खगुरवो4 मत्स्यापूपयागविधायिनः । 0011ab
चक्रिरे स्वकृतैर्ग्रन्थैस्तर्कागमपरीक्षणम् ॥ 0011cd
विश्वास-प्रस्तुतिः
नादृश्यन्त च गेहन्यो
गुरु-दीक्षोत्थ-देवताः । 0012ab
कुर्वाणा भर्तृ-शील-श्री-
निषेधं मूर्ध-धूननैः ॥ 0012cd
English
Housewives did not figure as deities during the initiation of gurus, denying their husbands’ virtue and dignity by the shaking of their heads / bringing their husbands, virtues and glory to contempt by shaking their heads.
मूलम्
नादृश्यन्त च गेहन्यो गुरुदीक्षोत्थदेवताः । 0012ab
कुर्वाणा भर्तृशीलश्रीनिषेधं मूर्धधूननैः ॥ 0012cd
विश्वास-प्रस्तुतिः
कार्तान्तिको भिषक्सभ्यो गुरुर्मन्त्री पुरोहितः । 0013ab
दूतः स्थेयो5 लेखको वा न तदाभूदपण्डितः ॥ 0013cd

प्रायोपवेशाधिकृतैर्बोधितेन6 महीभृता । 0014ab
प्रायोपविष्टो निकटं प्रापितः कश्चिदब्रवीत् ॥ 0014cd

अहमाड्योभवं पूर्वं वास्तव्योत्र महीपते । 0015ab
निष्किञ्चनत्वं शनकैरगच्छं दैवयोगतः ॥ 0015cd

उत्तमर्णैः पीडनस्य प्रवृद्धर्णस्य यस्य मे । 0016ab
निश्चयोभूदृणं छित्त्वा परिभ्रान्तुं दिगन्तरे ॥ 0016cd

अथ विक्रीय सर्वस्वमृणं शोधयता मया । 0017ab
महाधनाय वणिजे विक्रीतं निजमन्दिरम् ॥ 0017cd

भार्यामुद्दिश्य भर्त्रव्यामेक एव तु वर्जितः । 0018ab
सोपानकूपो विक्रीतान्महतो वेश्मनस्ततः ॥ 0018cd

निदाघे पुष्पताम्बूलीपर्णाद्यत्रतिशीतले । 0019ab
न्यस्यद्भिर्मालिकैर्दत्तात्मा7 जीवेद्भाटकादिति8 ॥ 0019cd

ततो दिगन्तराद्भ्रान्त्वा विम्शत्या वत्सरैरहम् । 0020ab
लब्धाल्पवित्तः सम्प्राप्तो जमभूमिमिमाम् पुनः ॥ 0020cd

अन्विष्यता मया साध्वी स्ववधूर्ददृशेथ सा । 0021ab
विवर्णदेहा जीवन्ती प्रेष्यात्वेनान्यवेश्मसु ॥ 0021cd

किं दत्तजीविकापि त्वमीदृशीं वृत्तिमाश्रिता । 0022ab
मयेति सा सदुःखेन पृष्टा स्वोदन्तमब्रवीत् ॥ 0022cd

[page 91]
विश्वास-प्रस्तुतिः
सोपानकूपं सम्प्राप्ता त्वयि याते दिगन्तरम् । 0023ab
लगुडैस्ताडयित्वाहं वणिजा तेनव् वारिता ॥ 0023cd

तदन्या कास्त मे वृत्तिरित्युक्त्वा विरराज सा । 0024ab
तदाकर्ण्य निमग्नोहमन्तरे शोककोपयोः ॥ 0024cd

कृतप्रायोपवेशोथ स्थेयैस्तैस्तैः पदे पदे । 0025ab
प्रत्यर्थिनो दत्तजयैः किमप्यस्मि पराजितः ॥ 0025cd

जडत्वाद्वेद्मि न न्यायं न विक्रीतो मया पुनः । 0026ab
सोपानकूप इत्यस्मिन्नर्थे प्राणा इमे पणः ॥ 0026cd

सोहं विपद्ये क्षीणार्थो द्वारि शास्तुस्तव ध्रुवम् । 0027ab
वृजिनादस्ति चेद्भीतिर्वस्तु निर्णीयतां स्वयम् ॥ 0027cd

राजेति तेन विज्ञप्तो दत्त्वा9 धर्मासनं स्वयम् । 0028ab
दङ्घटय्याखिलान्स्थेयानासीत्तत्त्वं विचारयन् ॥ 0028cd

स्थेयास्तमूचुर्बहुशो विचार्यायं पराजितः । 0029ab
शाद्यादगणयन्न्यायं दण्ड्यो लिखितदूषकः ॥ 0029cd

सोपानकूपसहितं विक्रीतं गृहमित्यथ । 0030ab
राजा विक्रयपत्रस्थान्स्वयम् वर्णानवाचयत् ॥ 0030cd

ततोधिगतमित्येव सभ्येषु निगदत्स्वपि । 0031ab
अन्तरात्मा जगादेव नृपतेरर्थिनो जयम् ॥ 0031cd

मुहूर्तमिव सञ्चिन्त्य राजान्याभिरभूच्चिरम् । 0032ab
कथाभिरतिचित्राभिर्मोहयन्सभ्यमण्डलम् ॥ 0032cd

कथान्तराले सर्वेभ्यो गृह्णन्रत्नानि वीक्षितुम् । 0033ab
हसन्प्रत्यर्थिनो हस्तादुपादत्ताङ्गुलीयकम् ॥ 0033cd

क्षणादेवाखिलैः10 स्थेयमित्थमेवेति सस्मितम् । 0034ab
वचो ब्रुवाणः प्रययौ पादक्षालनकैतवात् ॥ 0034cd

अभिज्ञानाय तत्रस्थः स वितीर्याङ्गुलीयकम् । 0035ab
भृत्यमेकं वणिग्वेश्म प्राहिणोद्दत्तवाचिकम् ॥ 0035cd

स वणिग्गणनाध्यक्षं ययाचे साङ्गुलीयकः । 0036ab
यत्राब्दे पत्रमुत्पन्नं गणनापत्रिकां11 ततः ॥ 0036cd

निणयेद्य तथा कृत्यमस्ति भाण्डपतेरिति । 0037ab
श्रुत्वादाद्गणनाध्यक्षस्ताम् गृहीताङ्गुलीयकः ॥ 0037cd

दीन्नाराणां12 दशशतीं तस्यां भूभृदवाचयत् । 0038ab
व्ययमध्येधिकरणलेखकाय13 समर्पिताम् ॥ 0038cd
विश्वास-प्रस्तुतिः
तस्मै मितधनार्हाथ बहुमूल्यार्पणान्नृपः14 । 0039ab
रेफे15 सकारं वणिजा कारितं निश्चिकाय सः ॥ 0039cd

सभायां तत्प्रदर्श्याथ पृष्ट्वा दत्त्वाभयं च तम् । 0040ab
आनीय लेखकं सभ्यान्सञ्जातप्रत्ययान्व्यधात् ॥ 0040cd

सभ्यैरभ्यर्च्यमानेन राज्ञा सार्धं वणिग्गृहम् । 0041ab
वितीर्णमर्थिने16 देशात्प्रत्यर्थी च प्रवासितः ॥ 0041cd

कृताह्निकं भोक्तुकामं तं दिनान्ते च भूपतिम् । 0042ab
अकालावेदनाद्बिभ्यत्क्षत्ता जातु व्यजिज्ञपत् ॥ 0042cd

देवः समाप्रकृत्योद्य विज्ञप्तौ श्वस्तव क्षणः । 0043ab
इत्युक्तो दर्शणे प्राणत्यागी वित्रो बहिः स्थितः ॥ 0043cd

दत्तप्रवेशादेशोथ रुद्धसूदेन भूभुजा । 0044ab
द्विजः प्रविष्टः पृष्टश्च17 तीव्रार्तिरिदमब्रवीत् ॥ 0044cd

सुवर्णरूपकशतं भ्रान्त्वा देशान्तरेर्जितम् । 0045ab
गृहीत्वा श्रुतसौराज्यः स्वदेशमहमागतः ॥ 0045cd

त्वय्यि राजनि निश्चौरैरध्वभिर्विशतः सुखम् । 0046ab
ह्योभवल्लवणोत्से मे दिनान्ते श्राम्यतः स्थितिः ॥ 0046cd

दीर्घाध्वलङ्घनक्लान्तस्तत्राहमकुतोभयः । 0047ab
मार्गारामतरोर्मूले त्रियामामात्यवाहयम् ॥ 0047cd

वेतनं ग्रन्थिबद्धं तदुत्थास्नोरपतन्मम18 । 0048ab
अरघट्टे समीपस्थे कक्षयोगादलक्षिते ॥ 0048cd

[page 92]
विश्वास-प्रस्तुतिः
तस्मिन्दुरवरोहेतिनिर्वसुत्वाज्जहद्वपुः । 0049ab
सोहं हारितसर्वस्वः शोचन्रुद्धिश्चिरं जनैः ॥ 0049cd

एकोध्यवसितः कोपि साहसे19 पुरुषोब्रवीत् । 0050ab
मह्यं दापितवित्ताय20 किं ददासीति मां ततः ॥ 0050cd

तमस्म्यवोचं विवशस्तस्यार्थस्यास्मि कः प्रभुः । 0051ab
तुभ्यं यद्रोचते मह्यं तत्ततो दीयतां त्वया ॥ 0051cd

अवरुह्याधिरूढोथ रूपकेभ्यो द्वयं मम । 0052ab
स प्रादात्स्पष्टमेवाष्टानवतिं स्वीचकार तु ॥ 0052cd

व्यवहारा वचोनिष्ठा[^0053-1] एव राज्ञि यशस्करे । 0053ab
निन्दन्व्यवस्थां तां लोकैर्न्यक्कृतोस्मीति वादिभिः ॥ 0053cd

उपचारोक्तिसारल्यच्छलहारितवेतनः21 । 0054ab
सोहं जहाम्यसून्द्वारे दुर्व्यवस्थापकस्य ते ॥ 0054cd

पुंसस्तस्य स राज्ञाथ पृष्टः प्रकृतिनामनी । 0055ab
वदनप्रत्यभिज्ञैव22 ममास्तीत्यभ्यभाषत ॥ 0055cd

प्रातस्तवेoसितावाप्तिं करिष्यामीति भूभुजा । 0056ab
प्रतिज्ञाय कथञ्चित्स स्वपार्श्वे कारितोशनम् ॥ 0056cd

लवणोत्सौकसां दूताहूतानां स विशां ततः । 0057ab
स्थितमन्तर्द्विजोन्येद्युस्तं राञ्जेदर्शयन्नरम् ॥ 0057cd

पृष्टः स राज्ञा विप्रेण यथैवोक्तं तथैव तत् । 0058ab
सर्वमूचे वाक्प्रतिष्ठं व्यवहारमुदीरयन् ॥ 0058cd

सत्यवाक्पारतन्त्र्यस्य वस्तुवृत्तस्य चान्तरम् । 0059ab
अलक्षयन्तः प्रैक्षन्त दोलाकुलधियो धराम् ॥ 0059cd

धर्मासनस्थो राजाथ रूपकाणामभाषत । 0060ab
तमष्टानवतेः पात्रं विप्रमन्यं द्वयस्य तु ॥ 0060cd

अनुयोक्तॄञ्जगादापि दुःसञ्चिन्त्या महात्मनः । 0061ab
धर्मस्याधर्ममुद्वृत्तं निहन्तुं धावतो गतिः ॥ 0061cd

सायं हुताशं प्रविशन्नम्मयं23 चेन्दुमण्डलम् । 0062ab
स्वतेजसा संविभजन्प्रदीपैर्ज्योत्स्नयाप्यसौ ॥ 0062cd

तदुत्थाय यथा भानुर्निहन्ति ध्वान्तमुद्धतम् । 0063ab
अनन्यकर्मा धर्मोयं तथाधर्मं व्यपोहति ॥ युग्मम्॥ 0063cd

दुःसंलक्ष्यस्तु धर्मोसावधर्मं बाधतेञ्जसा । 0064ab
तिष्ठन्नित्यमधुष्ठाय24 दाह्यं काष्ठमिवानलः ॥ 0064cd

ददाति यद्भवान्दत्तां तदित्याद्युक्तमुज्झतः । 0065ab
तुभ्यं रोचत इत्यादि वचोस्य निसृतं तदा ॥ 0065cd

रुचितास्य बभूवाष्टानवतिर्लोभनोस्य ताम् । 0066ab
नादादस्मायरुचितं रूपकाणां द्वयं ददत् ॥ 0066cd

इत्यादिसूक्ष्मेक्षिकया धर्माधर्मान्तरं विदन् । 0067ab
प्रत्यवेक्षापरः क्ष्माभृद्व्यधात्कृतयुगोदयम् ॥ 0067cd

इत्थं जनं स विनयन्हास्योभून्निजदुर्नयैः । 0068ab
परस्योपदिशन्पथ्यमथ्याशीव रोगहृत् ॥ 0068cd

श्रोत्रियेणेव25 तेनापि मृदम्भःशौचशालिना । 0069ab
डोम्बोच्छिष्ठभुजो भृत्याः26 पार्श्वान्न परिजह्रिरे ॥ 0069cd

यथोत्तरं संश्रितार्थैरन्योन्यं पृष्ठपातिभिः । 0070ab
नगराधिकृतैश्चक्रे27 चतुर्भिः सोर्थसङ्ग्रहम्28 ॥ 0070cd

लेभिरे निधनं तस्मात्सत्यङ्कारात्पदातयः । 0071ab
श्रीरणेश्वरपीठाग्रन्यस्तखड्गादपि प्रभोः ॥ 0071cd

स ज्येष्ठे भ्रातरि मृते तथाभून्मुदितश्चिरम्29 । 0072ab
तदुपज्ञं30 यथा प्राज्ञैर्तत्रोत्प्रैक्षि31 रसार्पणम्32 ॥ 0072cd

नीतस्य मण्डलेशत्वं वेलावित्तस्य33 भूभुजा । 0073ab
देवीः कामयमानस्य चक्रे गजनिमीलिका34 ॥ 0073cd

रामाच्छुद्धान्तकान्तानां मूर्धानमधिरोपिता । 0074ab
लल्ला नामाभवत्तस्य वेश्या वैवश्यकारिणी ॥ 0074cd

[page 93]
विश्वास-प्रस्तुतिः
अवकाशः सुवृत्तानां हृदयान्तर्न योषिताम् । 0075ab
इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ॥ 0075cd

उत्तमाधमसंसक्तौ जानन्सदृशवृत्तिताम् । 0076ab
नारीणां शुचिबाह्यानामङ्गनात्वं35 व्यधाद्विधिः ॥ 0076cd

सा लालितापि राञ्जा यल्लल्ला ललितलोचना । 0077ab
चण्डालयामिकेतनागाद्यामिनीषु36 समागमम् ॥ युग्मम्॥ 0077cd

सुभगङ्करणं किञ्चिच्चण्डालतरुणेभवत् । 0078ab
तं यत्प्रभावविवशा भेजे राजवधूरपि ॥ 0078cd

सा वा चण्डालकुलजा सा वा कार्मणकर्मवित्37 । 0079ab
अन्यथा सङ्गमः38 किं स्यादसम्भाव्यस्तथाविधः ॥ 0079cd

सोभूत्केन प्रकारेण तया सह समागतः । 0080ab
इत्येष लेभे वृत्तान्तः प्रतिभेदं न कुत्रचित् ॥ 0080cd

केवल्ं प्रत्यभात्तादृक्पापिनोः39 प्रेम तत्तयोः । 0081ab
दृग्व्यापारेक्षणात्क्षिप्रं हाडिनाम्नोधिकारिणः ॥ 0081cd

तमर्थमाथ तथ्येन वीक्ष्य प्रणिधिभिर्नृपः । 0082ab
प्रायश्चित्तानुवरणक्षामः कृष्णाजिनं दधौ ॥ 0082cd

कुपितोपि स यन्नैनां न्यवधीद्रागमोहितः40 । 0083ab
तेनैवागात्पुरोभागिवितर्कातङ्कपात्रताम् ॥ 0083cd

डोम्बोच्छिष्टानुगासङ्गादशुचित्वं यशस्करे । 0084ab
सङ्क्रान्तं कुष्ठिसंस्पर्शात्कुष्ठं दुःखमिवाभवत् ॥ 0084cd

सामान्येन सता कैश्चित्सदृशैः शुभकर्मभिः । 0085ab
जन्मान्तरीयैः साम्राज्यं मया प्रापीति चिन्तयन् ॥ 0085cd

साम्राज्यकामो नृपतिर्भाविष्वपि41 स जन्मसु । 0086ab
युक्त्या प्रादान्निरातङ्कां राज्यलक्ष्मीं द्विजन्मने ॥ 0086cd

भूभुजा दानशौण्डेन पैतृके स्थण्डिले कृतः42 । 0087ab
छात्राणामार्यदेश्यानां43 तेन विद्यार्थिनां मठः ॥ 0087cd

मठाधिपतये तत्र छत्रचामरहासिनीम् । 0088ab
स नरेन्द्रश्रियं44 प्रादाट्टङ्कान्तःपुरवर्जिताम् ॥ 0088cd

वितस्तापुलिने राजा नानोपकरणान्वितान् । 0089ab
ब्राह्मणेभ्यः सोग्रहारान्पञ्चपञ्चाशतं45 ददौ ॥ 0089cd

अथ जातोदरव्याधिर्मज्जातो नायमित्यसौ । 0090ab
जानन्सङ्ग्रामदेवाख्यं परिवर्ज्य निजात्मजम्46 ॥ 0090cd

समर्प्य सचिवैकाङ्गसामन्तानभ्यषेचयत् । 0091ab
रामदेवात्मजं राज्ये वर्णतं प्रपितृव्यजम् ॥ 0091cd

शक्ये राज्यादपाकर्तुं शिशावनभिपेचिते । 0092ab
निराशाः समपद्यन्त तदा राज्यजिहीर्षवः ॥ 0092cd

स पर्वगुप्तकौटिल्यप्रयुक्तेरुदयोन्मुखः । 0093ab
विपाककालस्तत्राह्नि47 भङ्गोन्मुख इवाभवत् ॥ 0093cd

राजधानीस्थितस्यापि वर्णटो राज्यदायिनः । 0094ab
आरोग्यवार्तयाप्यासीन्मुमूर्षोरनिरीक्षकः ॥ 0094cd

ततः सानुशयो राजा ताम्यन्प्रैर्यत मन्त्रिभिः । 0095ab
राज्यं सङ्ग्रामदेवाय48 दातुमाश्वासकारिभिः ॥ 0095cd

राजाज्ञया निशामेकां बद्धोष्टस्तम्भमण्डपात् । 0096ab
बहिर्दत्तार्गलात्प्रातर्वर्णटो निरवर्त्स्यत49 ॥ 0096cd

भयात्प्रजागराद्वापि तद्भृत्यानां विवेकिनाम् । 0097ab
आस्थानमण्डपं प्राप पायुक्षालनभूमिताम् ॥ 0097cd

एकाहराजपुरुषस्तदसिं50 विजयेश्वरे । 0098ab
व्रीडाद्देवप्रसादाख्यो राजबीजी समर्पयत् ॥ 0098cd

अथाभिषिच्य सङ्ग्रामदेवं तीव्रीभवद्व्यथः । 0099ab
स राजधान्या निर्गत्य मर्तुं निजभटं ययौ ॥ 0099cd

धीः केशश्मश्रुवपने शिरः शाटकवर्जनम् । 0100ab
कषायग्रहणोद्वेगः शस्त्रत्यागग्रहश्च यः ॥ 0100cd

राजभृत्यैः प्रतिज्ञातः स तस्मिन्निश्चितक्षये । 0101ab
जीवत्येव कृतज्ञत्वव्यञ्जकैः परिवर्जितः ॥ युग्मम्॥ 0101cd

[page 94]
विश्वास-प्रस्तुतिः
द्वे सहस्रे सुवर्णस्य सार्धे बद्धा51 पटाञ्चले । 0102ab
यो निर्जगाम राजासौ मुमूर्षुर्निजमन्दिरात् ॥ 0102cd

पञ्चाभिः पर्वगुप्ताद्यैर्द्योतकं तस्य मन्त्रिभिः । 0103ab
हृतं सजीवितस्यैव विभक्तान्योन्यमग्रतः ॥ युग्मम्॥ 0103cd

विवेष्टमानः शय्यायां व्याधिदग्धान्तरे नृपः । 0104ab
तिष्ठन्मठाङ्गनकुटीगर्भे ध्वान्तान्धकारिते ॥ 0104cd

अजातसंविद्भ्रंशोग्रे पश्यन्द्रोहपरान्निजान् । 0105ab
प्राणैरहनि द्वित्राणि न यदा निरमुच्यत ॥ 0105cd

तदा सुहृद्बन्धुभृत्यवेलावित्तैः कृतत्वरैः । 0106ab
जिहीर्षुभिश्च साम्राज्यं विषं दत्त्वा विपादितः ॥ 0106cd

अवरोधवधूमध्यात्सती तं पतिमन्वगात् । 0107ab
एका त्रैलोक्यदेव्येव स्वप्रभेव विरोचनम् ॥ 0107cd

वर्णाश्रमप्रतवेक्षाबद्धकक्ष्यः क्षितीश्वरः । 0108ab
चक्रभान्वभिधं चक्रमेलके52 द्विजतापसम् ॥ 0108cd

कृतात्याचारमालोक्य53 राजा धर्मवंशवदः । 0109ab
निजग्राह श्वपादेन ललाटतटमङ्कयन् ॥ 0109cd

तन्मातुलेन54 तद्रोषाद्वीरनाथेन योगिना । 0110ab
सान्धिविग्रहिकेणाथ55 स स्वेनैव न्यगृह्यत ॥ 0110cd

पूर्वाचार्यप्रभावेण स्वमाहात्म्याधिरोपणम् । 0111ab
प्रख्यापयद्भिर्गुरुभिः श्रद्धयेति यदुच्यते ॥ 0111cd

तत्ख्यापितैव सप्ताहात्स विपन्न इति श्रुतिः । 0112ab
दीर्घव्याधिहते तस्मिन्नुपपत्तिः कथं भवेत् ॥ 0112cd

अथामयान्तरेवाभूत्सा वार्तेत्युच्यते यदि । 0113ab
वर्णटाद्यभिशापोपि तदायात्वत्र हेतुताम् ॥ 0113cd

भुक्तैश्वर्यो नव56 समाश्चतुर्विंशे स हायने । 0114ab
मासि भाद्रपदे कृष्णतृतीयस्यां व्यपद्यत ॥ 0114cd

पितामहीं पितामह्या तान्व्यापाद्येतरान्बली । 0115ab
भूभटाद्यैः समं प्राभूत्पर्वगुप्तोथ[^0115-3] पञ्चभिः ॥ 0115cd

क्रमात्समं पितामह्या तान्व्यापाद्येतरान्बली । 0116ab
एकः स एवमाक्रान्तः57 प्रबभूव नृपास्पदे ॥ 0116cd

स पार्थिवत्वमन्त्रित्वमिश्रया चेष्टया स्फुरन्58 । 0117ab
राजा राजानकश्चेति59 मिश्रामेवं धियं व्यधात् ॥ 0117cd

सेवमानः स्वयं बालभूपं भोज्यार्पणादिभिः । 0118ab
ऋजूनां प्रत्यभात्पर्वगुप्तो द्रोहबहिष्कृतः ॥ 0118cd

यान्द्रोहभीरून्सम्भाव्य संविभेजे यशस्करः । 0119ab
तस्य तत्तनयोच्छेदे त एवासन्प्रयोजकाः ॥ 0119cd

करभाङ्गरुहापिङ्गे श्मश्रुणि क्षितिपालवत् । 0120ab
स ददौ कुङ्कुमालेपं वर्चः शाद्वलविस्तृते ॥ 0120cd

बिभ्यदेकाङ्गसङ्घातातात्प्रकटोत्पाटनाक्षमः । 0121ab
प्रमापणाय प्रयुङ्क्त शिशोः कर्माभिचारिकम् ॥ 0121cd

न्याय्यं ते सान्वयस्यास्ति राज्यं चैत्रादिवासरे । 0122ab
अन्यथाचरतो नाशः क्षिप्रं वंशायुषोर्भवेत् ॥ 0122cd

इतीमामपि यामिन्यां श्रुतवान्भूतभारतीम् । 0123ab
अभिचारस्य वन्ध्यत्वं निर्ध्यायाधिकशङ्कितः ॥ 0123cd

एकाङ्गेभ्यो विभिन्नेभ्यो बिभ्यदुद्भिन्नसम्भ्रमः । 0124ab
उदताम्यत्तथा चिन्तालुप्तसंविद्दिवानिशम् ॥ 0124cd

यथा महाहिमापातनिःसञ्चारजेन दिने । 0125ab
अकस्मात्सम्भृतबलो राजधानीं निरुद्भवान् ॥ 0125cd

विरोधकारिणं बुद्धाभिधेन सह सूनुना । 0126ab
निर्द्रोहमाहवे हत्वा मन्त्रिणं रामवर्धनम् ॥ 0126cd

[page 95]
विश्वास-प्रस्तुतिः
पित्र्येण वेलावित्तेन प्राभृतार्थमुपाहृताम्60 । 0127ab
गले पुष्पस्रजं बद्ध्वा पातितं पार्थिवासनम् ॥ 0127cd

स तं वक्राङ्घ्रिसङ्ग्रामं हतमन्यत्र मन्दिरे । 0128ab
पातयित्वा वितस्तान्तः कण्ठवद्धशिलं निशि ॥ 0128cd

चतुर्विंशस्य वर्षस्य दशम्यां कृष्णफाल्गुणे । 0129ab
पापः सखड्गकवचो न्यविक्षत नृपासने ॥ चक्कलकम्॥61 0129cd

पारेविशोकं62 दिविराज्जातस्याभिनवाभिधात् । 0130ab
सूनुः सङ्ग्रामगुप्तस्य स तदा63 पार्थिवोभवत् ॥ 0130cd

केचित्तं प्रयवस्थानं64 ये पुरा प्रतिजज्ञिरे । 0131ab
ते सर्व एव तद्भीताः प्रातरेव प्रणेमिरे ॥ 0131cd

पार्थिवैकाङ्गसामन्तमन्त्रिकायस्थतन्त्रिणाम् । 0132ab
तद्भीत्या द्रोहवृत्तीनां द्रोहाद्वैतमदृश्यत65 ॥ 0132cd

एकाङ्गस्य तदास्थाने सुय्याभिजनजन्मनः । 0133ab
प्रमादान्मदनादित्यनाम्नो ढक्का व्यदीर्यत ॥ 0133cd

हतांशुकेन भूभर्त्रा कुपितेन खलीकृतः । 0134ab
स निकृत्तकचश्मश्रुस्तपस्वी समपद्यत ॥ 0134cd

तादृशस्य पुनस्तस्य सखीपुत्रत्वमीयुषः । 0135ab
अद्याप्यभिजने जाता वसन्ति त्रिपुरेश्वरे ॥ 0135cd

कुर्वता पर्वगुप्तेन भूभृता द्रविनार्जनम् । 0136ab
प्रापिताः पुनरुत्साहं प्रजारोगा नियोगिनः ॥ 0136cd

व्यधत्त स्कन्दभवनविहारवसुधान्तिके । 0137ab
पर्वगुप्तेश्वरं सोपि वृजिनार्जितया श्रिया ॥ 0137cd

श्रीयशस्करभूभर्तृशुद्धान्तस्य विशुद्धधीः । 0138ab
कौलीनमलुनादेका6667 गौरीव नृपसुन्दरी ॥ 0138cd

सुचिराङ्कुरितप्रीतेः पर्वगुप्तस्य याकरोत् । 0139ab
समागार्थिनो युक्त्या वञ्चनामुचिताम् सती ॥ 0139cd

इदं यशस्कारस्वामिसुरवेश्मार्धनिर्मितम् । 0140ab
त्यक्त्वा पत्युर्विपन्नस्य कृत्वा निर्माणपूरणम्68 ॥ 0140cd

अमोघमस्मि69 नियमाद्विधास्यामि त्वदीप्सितम् । 0141ab
स ह्युपच्छन्दयन्नेवं सुभ्रुवाभिहितस्तया ॥ 0141cd

अथ प्रवृद्धगर्वेण तत्स्वल्पैरेव वासरैः । 0142ab
सम्पूर्णतां सुरगृहं गमितं तेन भूभुजा ॥ 0142cd

सा यागज्वलने राजललना पीतसर्पिषि । 0143ab
पूर्णाहृत्या समं साध्वी जुहाव सहसा तनुम् ॥ 0143cd

उपर्यस्या निरस्तासोः पुष्टाः कुसुमवृष्टयः । 0144ab
तत्काङ्क्षिणस्तु न्यपतन्नवर्णमुखरा गिरः ॥ 0144cd

सुदीर्घसाहसारम्भचिन्तासंरम्भशोषितः । 0145ab
पूर्वगुप्तो बभूवाय तृष्णामयपथातिथिः ॥ 0145cd

व्याध्याधिप्रशमायासैर्ज्ञात्वाप्यस्थायिनीं स्थितिम् । 0146ab
मूढाः प्ररूढिं नोज्झन्ति द्रोहश्रीलोभमोहिताः ॥ 0146cd

आशङ्क्य तादृङ्निष्ठोपि सोकुण्ठैः प्राप्तनैः शुभैः । 0147ab
कैश्चित्सुरेश्वरीक्षेत्रे परासुः समपद्यत ॥ 0147cd

षड्विंशवत्सराषाढबहुलेह्नि त्रयोदशे । 0148ab
द्रोहार्जितेन नृपतिः स राज्येन व्ययुज्यत ॥ 0148cd

अतीन्द्रियायाम् परलोकवृत्ताविहैव तीव्राश्रुभपाकशंसी । 0149ab
दृश्येत नाशो यदि नाम नाशु न कः कुकृत्येन यतेन भूत्यै ॥ 0149cd

क्षेमगुप्ताभिधानोभूदथ राजा तदात्मजः । 0150ab
आसवासेवनोत्सिक्तवित्ततारुण्यसञ्ज्वरः ॥ 0150cd

सोभूत्स्वभावदुर्वृत्तो नितरां दुर्जनाश्रयात् । 0151ab
कृष्णक्षपाक्षणो घोरमेघान्ध इव भीतिकृत् ॥ 0151cd

स्वतुल्यवेषालङ्कारः70 शतं लालितका71 नृपम् । 0152ab
तं फल्गुणप्रभृतयो दुराचाराः सिषेविरे ॥ 0152cd

द्यूतासवाङ्गनासेवाव्यसनेपि स पार्थिवः । 0153ab
विटनिर्लुण्द्यमानोपि नाभूल्लक्ष्मीबहिष्कृतः ॥ 0153cd

[page 96]
विश्वास-प्रस्तुतिः
रागी मधुप्रणयवान्विहिताक्षसक्तिर्यः सख्यमेति मधुपरिहृतकोशसारैः । 0154ab
पद्मे प्रयाति दिनमात्रमपि प्रसक्तिं श्रीस्तत्र चेत्किमिव तन्न कुतूहलाय ॥ 0154cd

विटाः प्रविष्टा हृदयं जिष्णुजा वामनादयः । 0155ab
पिशाचस्येव रुचितामशुचिं तस्यचक्रिरे ॥ 0155cd

परोपहासकुशलः परनारीरतिप्रियः । 0156ab
परायत्ताशयस्तस्थौ पार्थिवोनर्थतत्परः ॥ 0156cd

ष्ठीवनं श्मश्रुमालासु गालयः श्रोत्रपालिषु72 । 0157ab
तेन क्षिप्ताः प्रतीक्ष्याणां करोटीषु च टक्कराः ॥ 0157cd

कटिसङ्घटनैर्नार्यो73 मृगव्यज्ञा74 वनाटनैः । 0158ab
विटाश्चाश्लीलरटनैर्वाल्लभ्यं तस्य लेभिरे ॥ 0158cd

पुंश्चलीजाल्मवैधेयवालकद्रोग्धृनिर्भरा । 0159ab
समभूदप्रवेशार्हा राजपर्षन्मनस्विनाम् ॥ 0159cd

जिष्णुपुत्रैः क्षेमगुप्तक्षमाभृद्यन्त्रपुत्रकः । 0160ab
चारणत्वगुणाकृष्टः किं न धूर्तैरनर्त्यत75 ॥ 0160cd

तस्य कङ्कणवर्षोसीत्यभिधानं विधाय ते । 0161ab
तोषिताश्चासकृच्चक्रुर्दोष्णोः कङ्कणवार्षिताम् ॥ 0161cd

निर्दोषदोषाविष्कारे नववस्तुप्रदर्शने । 0162ab
अधृष्यटक्कराधाने प्रसादः प्रापि तैर्नृपात् ॥ 0162cd

संलक्ष्यकुचकक्ष्यान्ताः कृत्वा निजवधूः पुरः । 0163ab
रागी राजा गृहान्नीतो द्यूते तरिनिर्धनः कृतः ॥ 0163cd

सम्भोगाभग्नसौभाग्यकृतस्पर्धैः परस्परम् । 0164ab
सम्भुज्यैता भवान्वक्तु विशेषमिति चोदितः ॥ 0164cd

उपभोगं स्वभार्याणां निर्लज्जैस्तैः स कारितः । 0165ab
का हृद्येति च रत्यन्ते पृष्टोभीष्टधनप्रदः ॥ युग्मम्॥76 0165cd

तस्य लालितकेष्वास्तां मूढौ सम्भोगढौकने । 0166ab
मात्रोश्चारित्ररक्षित्वाद्भिक्षाकौ77 हरिधूर्जटी ॥ 0166cd

नीत्वा नर्मकथाङ्गतां निजवपुर्मुञ्जन्ति मानोन्नतिं सन्दूष्य स्वयमङ्गनाः शुचितया त्यक्तं कुलं कुर्वते । 0167ab
सौख्यं घ्नन्ति सुदीर्घसेवनसमासक्त्या यदर्थं श्रमः प्रत्याख्याय तदेव वेद्मि न विटैः किं प्रार्थ्यते सेवया ॥ 0167cd

यशस्करस्य भूत्वापि सचिवो भट्टफल्गुणः । 0168ab
तस्याभूदनुजीव्यन्ते धिग्भोगाभ्यासवासनाम् ॥ 0168cd

फल्गुणस्वामिमुख्यानां प्रतिष्ठानां विधायिनः । 0169ab
तस्योपदेशो भूभर्त्रा पर्यहास्यसकृद्रहः ॥ 0169cd

गृह्णन्विद्वेषितां78 हन्तुं टक्करादि बलात्ततः । 0170ab
वृद्धो रक्कः कम्पनेशो दुर्गोष्ठीमध्यगोभवत् ॥ 0170cd

तीक्ष्णाक्षेपे सम्प्रविष्टं हन्तुं सङ्ग्रामडामरम् । 0171ab
श्रीजयेन्द्रविहारं स निर्घृणो निरदाहयत् ॥ 0171cd

सुगतप्रतिमारीतिं हत्वा दुग्धात्ततोखिलात्79 । 0172ab
जरद्देवगृहेभ्यश्च सङ्गृह्य80 ग्रावसञ्चयम् ॥ 0172cd

सुरप्रतिष्ठया दार्ढ्यं मूढः स्वयशसो विदन् । 0173ab
नगरापणवीथ्यन्तः क्षेमगौरीश्वरं व्यधात् ॥ 0173cd

एकः प्रयात्युपरमं द्रविणं तदीयं हृत्वापरः81 प्रसभमुद्वहति प्रमोदम् । 0174ab
नो वेत्ति तत्स्वनिधने परकोशगामि धिग्वासनामसममोहकृतान्धकराम् ॥ 0174cd

त्यागिना क्षेपगुप्तेन भुक्त्यर्थं खशभूभुजे82 । 0175ab
हत्वा विहारान्निर्दग्धान्ग्रामाः षट्त्रिंशदर्पिताः ॥ 0175cd

दुर्गाणां लोहरादीनां शास्ता शतमखोपमः83 । 0176ab
नृपतिः सिंहराजाख्यस्तस्मै स्वां तनयां ददौ ॥ 0176cd

स तस्यां शाहिदौहित्र्यां दिद्दायां सक्तमानसः । 0177ab
दिद्दाक्षेम इति ख्यातिं ययौ लज्जावहां नृपः ॥ 0177cd

मातामहेन भूभर्तृवध्वास्तस्या व्यधीयत । 0178ab
श्रीभीमशाहिनोदात्तप्रासादो84 भीमकेशवः ॥ 0178cd

[page 97]
विश्वास-प्रस्तुतिः
चन्द्रलेखाभिधां कन्यां राज्ञे85 दत्तवताभवत् । 0179ab
फल्गुणद्वारपतिना समं दिद्दा समत्सरा ॥ 0179cd

गुरूपदेशः सुमहान्कुन्तविद्याश्रमस्तथा । 0180ab
तस्य निर्वहणाद्गर्ह्याद्भूभुजो86 हास्यतां ययौ ॥ 0180cd

अमोघपतनान्प्रासान्योग्यान्सङ्ग्रामकर्मसु8788 । 0181ab
सृगालमृगयासक्त्या स हि श्लाघ्यानमन्यत[^0181-3] ॥ 0181cd

तं वृतं वागुरावाहिडोम्बाटविकपेटकैः89 । 0182ab
पर्यटन्त श्वभिः सार्धमपश्यन्सततं जनाः ॥ 0182cd

तस्य दामोदरारण्यलल्यानशिमिकादिषु । 0183ab
स्थानेषु क्रोष्टुमृगयारसिकस्य वयोगमत् ॥ 0183cd

अथ कृष्णचतुर्दश्यां स कुर्वन्मृगयां नृपः । 0184ab
ज्वालामपश्यत्क्रोशन्त्याः मृगाल्या निर्गतां मुखात् ॥ 0184cd

तदालोकनसञ्जातसत्रासाकम्पितस्ततः90 । 0185ab
लूतामयज्वरेणाभूत्परीतो मृत्युहेतुना ॥ 0185cd

मर्तुं ययौ च वाराहक्षेत्रं यत्र विधायकः । 0186ab
श्रीकण्ठक्षेममठयोरासीद्धुष्कपुरान्तिके ॥ 0186cd

मसूरविदलाकारलूताक्लिन्नकलेवरः । 0187ab
पौषे चाब्दे चतुस्त्रिंशे नवमेह्नि91 सिते मृतः ॥ 0187cd

क्षेमगुप्तात्मजः क्ष्माभृदभिमन्युरभूत्ततः । 0188ab
शिशुनिस्त्रिंशधर्मिण्या दिद्दादेव्यानुपालितः ॥ 0188cd

सन्धिविग्रहशुद्धान्तमुख्यकर्माधिकारिणः92 । 0189ab
नःसाध्वसं राजवधूमवन्ध्यशयनां व्यधुः ॥ 0189cd

अभिमन्यौ क्षितिं रक्षत्यकस्मादेव दारुणः । 0190ab
तुङ्गेश्वरापणोपान्तादुज्जगाम हुताशनः ॥ 0190cd

वर्धनस्वामिपार्श्वस्थभिक्षुकीपारकावधिः । 0191ab
वेतालसूत्रपातस्थान्स दहाह महागृहान् ॥ 0191cd

डोम्बचण्डालसंस्पृष्टभूपसम्पर्कदूषितान् । 0192ab
दग्ध्वा महागृहान्वह्निर्भुवः शुद्धिमिवाकरोत् ॥ 0192cd

रक्षित्री क्ष्मापतेर्माता स्त्रीस्वभावाद्विमूढधीः । 0193ab
सारासारविचारेण लोलकर्णी न पस्पृशे ॥ 0193cd

राज्ञः सुतार्पणाद्धवैरातस्थौ पुरा यतः । 0194ab
पतिवत्न्येव93 सा सार्धं फल्गुणेनाग्र्यमन्त्रिणा ॥ 0194cd

पत्यौ94 मृते सपत्नीनां दृष्ट्वानुमरणं95 ततः । 0195ab
दम्भेनानुमुमूर्षन्तीमनुमेने स तां द्रुतम् ॥ 0195cd

निषिषेधानुबन्धात्तु सानुतापां चितान्तिके । 0196ab
कृपालुर्मरणादेताममात्यो नरवाहनः ॥ 0196cd

अतो निसर्गपिशुनो रक्कस्तां मन्युदूषिताम् । 0197ab
फल्गुणाद्राज्यहरणाशङ्कां राज्ञीमजिग्रहत् ॥ 0197cd

विरागशंसिभिर्लङ्गैस्तां ज्ञात्वा विषमाशयाम् । 0198ab
समन्युं साखिलामात्यां फल्गुणोप्यास्त शङ्कितः ॥ 0198cd

स हि सर्वाधिकारस्थः सर्वस्याक्षिगतोभवत् । 0199ab
दीप्यमानोधिकं मन्त्रशौर्योत्साहादिभिर्गुणैः96 ॥ 0199cd

अस्थीनि क्षेमगुप्तस्य गृहीत्वा जाह्नवीं गते । 0200ab
पुत्रे कर्दमराजाख्ये प्रबलैरन्वितो बलैः ॥ 0200cd

तत्प्रत्यागमपर्यन्तं पर्णोत्से स्थातुमुद्यतः । 0201ab
अविश्वसन्नृपगृहे फल्गुणो वैरिशाङ्कितः ॥ 0201cd

निर्गत्य नगराद्यावत्सभाण्डागारिसैनिकः । 0202ab
काष्ठावाटान्तिकं प्राप97 तावद्रक्कादिचोदिता ॥ 0202cd

आकलय्य द्रुतं दिद्दा सन्त्यज्य प्रार्थनादिकम् । 0203ab
पृष्ठे प्रत्युत याष्टीकांस्तस्य हन्तुं व्यसर्जयत् ॥ 0203cd

नवावमानखिन्नः स मिलितानन्तसैनिकः । 0204ab
प्रत्यावृत्त्य ततो मानी वाराहं क्षेत्रमाययौ ॥ 0204cd

श्रुत्वा समेतसैन्यं तं प्रत्यायातं प्रतापिनम् । 0205ab
आस्कन्दशङ्किनी दिद्दा सामात्या समकम्पत ॥ 0205cd

[page 98]
विश्वास-प्रस्तुतिः
तस्मिन्क्षेत्रे गतं शान्तं विलप्य स्वामिनं चिरम् । 0206ab
वराहपादसविधे तेन98 शस्त्रं समर्पितम् ॥ 0206cd

देoहसम्भावनापापं शस्त्रत्यागेन मन्त्रिणा । 0207ab
स्वस्य सम्मार्जितं तेन राजमातुश्च साध्वसम् ॥ 0207cd

युक्तायुक्तविचारबाह्यमनसः सेवा महद्वैशसं क्रुद्धेस्मिन्प्रतिकारकर्म गहनद्रोहापवादावहम् । 0208ab
येन न्यूनगुणोदृशोपकरणीभावोपि तस्मै परं कोपः कोपि विवेकिनः समुचितःशस्त्राय शस्त्राय वा ॥ 0208cd

पर्णोत्समेव शनकैः ससैन्ये फल्गुणे गते । 0209ab
विगताध्यापका बाला इवामोदन्त मन्त्रिणः ॥ 0209cd

योगक्षेमौ चिन्तयन्ती क्षेमगुप्तधूरपि । 0210ab
अनिशं प्रजजागार स्वयं कण्टकपाटने ॥ 0210cd

राज्यप्रार्थी पर्वगुप्तो मन्त्रिणौ कोशपीथिनौ । 0211ab
अजिग्रहत्करौ पूर्वं पुत्र्योर्यौ99 छोजभूभटौ ॥ 0211cd

तयोः प्रजातौ तनयौ ख्यातौ महिमपाटलौ । 0212ab
अवर्धिपतां यौ राजमन्दिरे राजपुत्रवत् ॥ 0212cd

तौ तत्रावस्थितावेव तत्कालं राज्यलालसौ । 0213ab
सम्मन्त्र्य समगम्मातामुद्दामैर्हिम्मकादिभिः100 ॥ 0213cd

बलिनौ तावबलया राज्ञ्यापास्तौ नृपास्पदात् । 0214ab
समन्यू स्वगृहादास्तां यावत्कृतगतागतौ ॥ 0214cd

एकतः पृष्ठतः प्रादान्महिम्नो निर्गतस्य सा । 0215ab
निर्वासनाय याष्टीकांस्तावत्प्रकटवैकृता ॥ 0215cd

शक्तिसेनाभिधानस्य101 श्वशुरस्य निवेशनम् । 0216ab
प्रविवेश स तज्ज्ञात्वा तं ते तत्रापि दुद्रुवुः ॥ 0216cd

शक्तिसेनेन याष्टीकाः सान्त्विता नाचलन्यदा । 0217ab
तदा भीतस्य जामातुर्व्यक्तं प्रादात्स संश्रयम् ॥ 0217cd

तं102 लब्धसंश्रयं प्राप हिम्मको मुकुलस्तथा । 0218ab
एरमन्तकनामा च परिहासपुराश्रयः ॥ 0218cd

श्रीमानुदयगुप्ताख्योप्यमृताकरनन्दनः । 0219ab
ललितादित्यपुरजा यशोधरमुखा अपि ॥ 0219cd

एकैके ते103 मिथः सैन्यैर्भुवनक्षोभकारिणः । 0220ab
सम्भूय चक्रुर्द्रैराज्यं महिम्नः पक्षमाश्रिताः ॥ 0220cd

तस्मिन्महाभये दिद्दापक्षं मन्त्री सबान्धवः । 0221ab
एक एव तु तत्याज नाद्रोहो नरवाहनः ॥ 0221cd

प्रवर्धमानपृतना योद्धुं बद्धोद्यमास्ततः । 0222ab
पद्मस्वाम्यन्तिकं प्रापुर्दीप्यमानायुधा द्विषः ॥ 0222cd

अथ शूरमठे दिद्दा विसृज्यात्मजमाकुला । 0223ab
आपच्छान्तिक्षमांस्तांस्तानुपायान्समचिन्तयत् ॥ 0223cd

ललितादित्यपुरजान्द्विजान्स्वर्णेन भूरिणा । 0224ab
तूर्णम् स्वीकृत्य विदधे रिपूणां सङ्घभेदनम् ॥ 0224cd

एकाक्षेपेखिलैः कोपो विधेय इति वादिभिः । 0225ab
महिम्नः पीतकोशैस्तैः सन्धिर्देव्या समं कृतः ॥ 0225cd

गोष्पदोल्लङ्घने यस्याः शक्तिर्नाज्ञायि केनचित् । 0226ab
वायुपुत्रायितं पङ्ग्वा तया सङ्घाब्धिलङ्घने ॥ 0226cd

यत्सङ्ग्रहो रत्नमहौषधीनां करोति सर्वव्यसनावसानम् । 0227ab
त्यागेन तद्यस्य भवेन्नमोस्तु चित्रप्रभावाय धनाय104 तस्मै ॥ 0227cd

उत्कोचकाञ्चनादानेप्युच्चां ध्यायन्त्युपक्रियाम् । 0228ab
दिद्दा यशोधरादिभ्यः कम्पनादि समार्पयत्105 ॥ 0228cd

अभिचारं महिम्नश्च कृतवत्या मितैर्दिनैः । 0229ab
मण्डलेखण्डिताज्ञत्वं रण्डायाः106 समजृम्भत ॥ 0229cd

कदाचित्थक्कनाख्यस्य107 शाहीशस्योपरि क्रुधा । 0230ab
सत्रा स्ववंशजैर्यात्रा कम्पनाधिपतिर्ददौ ॥ 0230cd

तद्देशं निमन्गाशैलदुर्गं प्रविशता जवात् । 0231ab
अखण्डशक्तिना तेन बलादग्राहि थक्कनः ॥ 0231cd

[page 99]
विश्वास-प्रस्तुतिः
स कृतप्रणतेस्तस्य करमादाय भूपतेः । 0232ab
अभिषेकाम्बुभिश्चक्रे श्रीलताप्यायनं108 पुनः ॥ 0232cd

लब्धप्रवेशैः109 समये तस्मिन्रक्कादिभिः खलैः । 0233ab
कम्पनाधिपतौ राज्ञ्या विद्वेषोग्राहि मूढया ॥ 0233cd

उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदयस्य चान्तः । 0234ab
असन्निधानात्सततस्थितीनामन्योपरागः110 कुरुते प्रवेशम् ॥ 0234cd

स्वचित्तसंवादि वचो वदन्तो धूर्ता वितन्वन्ति मनःप्रवेशम् । 0235ab
पृथग्जनानां गणिकावधूनां विटाः प्रभूणामपि गर्भचेटाः ॥ 0235cd

द्रोग्धायं थक्कनं रक्षन्धनादायीति पैशुनम् । 0236ab
तथ्यमेव तदीयं सा स्वयंवादादमन्यत111 ॥ 0236cd

अथ स्ववसतिं प्राप्ते कम्पनेशे जयोर्जिते । 0237ab
याष्टीकान्व्यसृजद्दिद्दा स्फुटं निर्वासनोद्यता ॥ 0237cd

तदाक्षेपं समाकर्ण्य स्मरन्तः कोशदंविदम्112 । 0238ab
ते हिम्मकैरमन्ताद्याः पूर्ववद्विक्रियां ययुः ॥ 0238cd

नरवाहनख्यास्तु113 राक्षीपक्षं न तत्यजुः । 0239ab
विभेदं पूर्ववत्प्रापदेवं निजबलं पुनः ॥ 0239cd

प्रविष्टेषु ततः कोपात्परं शुभदरादिषु । 0240ab
भट्टारकामठे दिद्दा भूयः व्यसर्जयत् ॥ 0240cd

दत्तार्गले नृपगृहे स्थितां तां दैवमोहिताः । 0241ab
ते तदैव विना पुत्रं विमूढा नोदपाटयन्114 ॥ 0241cd

राश्याः सञ्जघटे लोकः परस्मिन्नेव वासरे । 0242ab
यद्बलेन तदा स्थैर्यं सा किञ्चित्समदर्शयत् ॥ 0242cd

जयाभट्टारिकापार्श्वाद्यावच्छूरमठान्तिकम् । 0243ab
व्याप्य स्थितैर्द्विषत्सैन्यैरथ प्रववृते रणः ॥ 0243cd

राजधानीं राजसैन्ये प्रविष्टे त्रासविद्रुते । 0244ab
सिंहद्वारे घटाबन्धमेकाङ्गाः समदर्शयन् ॥ 0244cd

शरीरनिरपेक्षास्ते भीतं संस्तम्भ्य तद्बल । 0245ab
अधावन्विद्विषां115 सैन्यं चेलुः116 केचिच्च शत्रवः ॥ 0245cd

तस्मिन्नवसरे राजकुलभट्टः समाययौ । 0246ab
तूर्यघोषैर्द्विषां सैन्यं भिन्दन्नानन्दयन्निजम्117 ॥ 0246cd

तस्मिन्प्राप्ते द्विषां सैन्यं विननाश विनश्वरम्118 । 0247ab
न द्रोहाविनयं जातु सहन्ते शस्त्रदेवताः ॥ 0247cd

त्रोटयत्यायसान्बन्धान्स्फोटयत्युपलानिति119 । 0248ab
यः ख्यातिमवहत्तथ्यां120 हिम्मको भीमविक्रमः ॥ 0248cd

तस्यासिना राजकुलभट्टदेहार्धपातिना । 0249ab
चर्ममात्रं न तुत्रोट कङ्कटस्यातिसङ्कटे ॥ 0249cd

विलोक्य तदसम्भाव्यं सैन्ये दैन्यं समाश्रिते । 0250ab
अघानि हिम्मको योधैरवाष्टम्भि121 यशोधरः ॥ 0250cd

तथाप्यासीत्स्फुरन्सङ्ख्ये य एरमन्तकः122 क्षणम् । 0251ab
स भग्नासिश्च्युतो वाहाज्जीवग्राहमगृह्यत ॥ 0251cd

नाजौ तैरेष्यताधातुं यः श्रीमान्राजबान्धवः । 0252ab
जगामोदयगुप्तः स क्वापि त्यक्त्वा महाहवम् ॥ 0252cd

इत्थं लब्धजया राज्ञी तत्क्षणान्न्यग्रहीद्रुषा । 0253ab
यशोधरं शुभधरं मुकुलं च सवान्धवम् ॥ 0253cd

काश्मीरिकाणां123 यः श्राद्धशुल्कोच्छेत्ता124 गयान्तरे125 । 0254ab
सोप्येरमन्तकः शूरः परिहासपुराश्रयः126 ॥ 0254cd

बद्ध्वा महाशिलां कण्ठे वितस्ताम्भसि पातितः । 0255ab
स्वदुर्नयफलं देव्याः प्रकोपेनानुभावितः ॥ 0255cd

[page 100]
विश्वास-प्रस्तुतिः
ये सप्तसप्ताद्वर्षादा गोपालनृपात्पुरा । 0256ab
अभिमन्युं यावदासन्षोडशानां महीभुजाम् ॥ 0256cd

वर्षषष्टिं प्रतापायुःश्रीहरा द्रोहवृत्तयः । 0257ab
ते क्षिप्रं मन्त्रिणः सर्वे सान्ववायाः सहानुगाः ॥ 0257cd

भीमभ्रूभङ्गमात्रेण दिद्दादेव्या सकोपया । 0258ab
आसन्निःशेषतां नीता दुर्गयेव महासुराः ॥ तिलकम्॥ 0258cd

अभयन्विहिता राज्ञ्या तानुपाद्य महोद्धतान् । 0259ab
रक्कादयः कम्पनादिकर्मस्थानाधिकारिणः ॥ 0259cd

इत्थं मन्त्रिप्रकाण्डः स रण्डामाखण्डलोपमाम् । 0260ab
अखण्डमण्डलां चक्रे निर्द्रोहो नरवाहनः ॥ 0260cd

राज्ञी कृतज्ञभावेन सापि मन्त्रिसभान्तरे । 0261ab
तमाजुहाव निर्द्रोहं स्वयं राजानकाख्यया । 0261cd

सुप्ते सुष्वाप निष्पन्नभोजनेस्मिन्नभुङ्क्त सा । 0262ab
हृष्टे जहर्ष निर्विण्णे निर्विवेदानुकूल्यतः ॥ 0262cd

आरोग्यान्वेषणं शिक्षाप्रार्थनां गृहवर्तिनः । 0263ab
सात्मवस्तुविसर्गं च नाकृत्वा तस्य पिप्रिये ॥ 0263cd

अभूतां युग्यवाहस्य कुय्यनाम्नः सुतौ पुरा । 0264ab
यौ सिन्धुभुय्यौ तज्ज्यायान्सिन्धुर्ललितकः किल ॥ 0264cd

पर्वगुप्तगृहे भूत्वा गञ्जाध्यक्षे127 स्थिते128 क्रमात् । 0265ab
लब्ध्वा गञ्जाधिकारित्वं तस्या राज्ञ्याः शनैरभूत् ॥ 0265cd

रूड्ःया तयैव गञ्जेशो नवायासविधायकः129 । 0266ab
कर्मस्थानस्य निर्माता सिन्धुगञ्जाभिधस्य यः ॥ 0266cd

प्रायशो हृतराज्यस्ते वर्तते नरवाहनः । 0267ab
इति नेयधियं राज्ञीं सोभ्यधत्त दुराशयः ॥ 0267cd

सा तथेत्यब्रवीद्यावत्तावत्प्रेम्णा स जातुचित् । 0268ab
मन्त्री तां प्रार्थयामास भोक्तुं निजगृहागमम् ॥ 0268cd

सा सानुगां तत्र यातां ध्रुवं त्वामेव भन्त्स्यति130 । 0269ab
इत्युक्ता सिन्धुनाaपृच्छत्तत्कर्तव्यं भयाकुला ॥ 0269cd

अनुक्त्वैव प्रचलिता राजधानीमलक्षिता । 0270ab
स्त्रीधर्मिण्यस्मि जातेति पश्चाद्वार्तां व्यसर्जयत् ॥ 0270cd

सम्प्रवृत्तोपचारायां131 गतायां तत्पथात्तथा132 । 0271ab
राज्ञ्यां नाशममात्यस्य प्रीतिः संविच्च सा ययौ ॥ 0271cd

तयोस्ततः प्रभृत्येव निष्कृष्टस्नेहयोः कृतम् । 0272ab
चाक्रिकैरतिरूक्षत्वं तिलपिण्याकयोरिव ॥ 0272cd

कुलिशं सर्वलोहानामम्भसां शैलसेतवः । 0273ab
श्भेद्याः प्रतिभाव्यन्ते न किञ्चिदसतां पुनः ॥ 0273cd

ये बालादपि सम्मूढाः प्राज्ञाः सुरगुरोरपि । 0274ab
तेषां न विद्मः के133 तावन्निर्माणपरमाणवः ॥ 0274cd

विश्वासोज्झितधीः शिशून्कलयते काकोन्यदीयान्निजान्हंसः क्षीरपयोविभागकुशलस्त्रस्यत्यसाराद्घनात् । 0275ab
लोकावेक्षणतीक्ष्णधीः खलगिरं जानाति सत्यां नृपो धिग्वैदग्ध्यविमुग्धताव्यतिकरस्पृष्टं विधानं विधेः ॥ 0275cd

मूढा चरणहीना सा श्रुतिवाह्यतया तया । 0276ab
वैधेयविप्रप्रकृतिरिव प्रायाद्विगर्ह्यताम् ॥ 0276cd

उद्वेजितस्तया शश्वत्तया स नरवाहनः । 0277ab
यथा विमाननोत्तप्तः स्वयं तत्याज जीवितम् ॥ 0277cd

प्रकुप्यप्रतीकार्ये स्वतेजस्तप्तचेतसाम् । 0278ab
शरणं मरणं किमिवान्यद्यशोर्थिनाम् ॥ 0278cd

शशिहीनेव रजनी सत्यत्यक्तेव भारती । 0279ab
विरराज न राजश्रीर्नरवाहनवर्जिता ॥ 0279cd

सा क्रौर्याभ्यासविषमा हन्तुं विततविक्रमान् । 0280ab
सङ्ग्रामडामरसुतान्समीपस्थानचिन्तयत् ॥ 0280cd

निजमुत्तरघोषं ते तद्भयेन विनिर्गताः । 0281ab
कय्यकद्वारपत्यादीन्कृतारब्धीन्व्यपादयन् ॥ 0281cd

उत्पिञ्जभितया[^0282-1] राज्ञ्या त्यक्त्वा परिभवत्रपाम् । 0282ab
ते यत्नात्समपद्यन्त मानः स्वार्थार्थिनां कुतः ॥ 0282cd

[page 101]
विश्वास-प्रस्तुतिः
स्थानेश्वरादिभुर्मुख्यैर्डामरैरितरैः समम् । 0283ab
ते भीताः पुरतस्तस्याः पुनरेत्य जजृम्भिरे ॥ 0283cd

अथ तद्भीतया राज्ञ्या रक्के प्रमयमागते । 0284ab
आनीतः फल्गुणो भूयो वीरार्थिन्या निजान्तिकम् ॥ 0284cd

राजकार्याणि कुर्वाणः स भूयः शस्त्रमग्रहीत् । 0285ab
न्यस्तशस्त्रोपि यत्सत्यं दुस्त्यजा भोगवासना ॥ 0285cd

महिमा राजपुर्यादिजयिनस्तस्य पश्चिमः । 0286ab
अद्भुतो वृद्धबन्धक्या अवरुद्ध इवाभवत् ॥ 0286cd

अभूदुदयराजस्य देवीभ्रातुरतिप्रियः । 0287ab
यः सहायोक्षपटले जयगुप्ताभिधः कुधीः ॥ 0287cd

अन्येधिकारिणस्तेन सहिताः क्रूरवृत्तयः । 0288ab
कश्मीरेषु व्यधुर्लुण्ढिं दुष्कृतैस्तदुपार्जितैः ॥ 0288cd

सौःशील्यभाजो मातुश्च पाप्मभिर्विधुरीकृतः । 0289ab
अभिमन्युः क्षणे तस्मिन्क्षयरोगेण पस्पृशे ॥ 0289cd

पण्डितः पुण्डरीकाक्षो विद्वत्पुत्रैरुपस्कृतः । 0290ab
कृतश्रुतः स वैदुष्यतारुण्याभ्यां विदिद्युते ॥ 0290cd

तथा विशुद्धप्रकृतेस्तस्य दुष्कृतसङ्गमः । 0291ab
शोषाधायी शिरीषस्य रविताप इवाभवत् ॥ 0291cd

अर्धमानः134 प्रजाचन्द्रस्तृतीयस्यां स कार्तिके । 0292ab
शुक्लेष्टचत्वारिंशाब्दे ग्रस्तो नियतिराहुणा ॥ 0292cd

तत्पुत्रो नन्दिगुप्तस्तु बालश्चक्रे निजासने । 0293ab
वृद्धस्तनयशोकस्तु विहाय हृदये पदम् ॥ 0293cd

सा शोकपिहितक्रौर्या तस्थौ प्रशमशीतला । 0294ab
रविरत्नशलाकेव ध्वान्तच्छन्नोष्मवैकृता ॥ 0294cd

ततः प्रभृत्यद्भुताभिस्तस्या धर्मप्रवृत्तिभिः । 0295ab
कुकर्मभिरुपोढापि लक्ष्मीः प्राप्ता पवित्रताम् ॥ 0295cd

नगराधिपतिर्भुय्यः सिन्धुभ्राता शुभाशयः । 0296ab
तदीयधर्मचर्यायां बभूव परिपोषकः ॥ 0296cd

सा तेनोत्पादितानर्वजनरागा गतैनसा । 0297ab
ततः प्रभृत्यभूद्देवी सर्वलोकस्य सम्मता ॥ 0297cd

राज्ञः स सचिवः सत्यं दुष्प्रापो लुप्तचण्डिमा । 0298ab
कुर्याद्यः सुखसेव्यत्वं हेमन्त इव भास्वतः ॥ 0298cd

सा निर्मात्री विपन्नस्य सूनोः सुकृतवृद्धये । 0299ab
अभिमन्युस्वामिनोभूदभिमन्युपुरस्य च ॥ 0299cd

अथ दिद्दापुरोपेतो दिद्दास्वामी तया कृतः । 0300ab
मठश्च मध्यदेशीयलाटशौडोत्रसंश्रयः135 ॥ 0300cd

भर्तुः कङ्कणवर्षस्य पुण्योत्कर्षाभिवृद्धये । 0301ab
चकार कङ्कणपुरं रमणी स्वर्णवर्षिणी ॥ 0301cd

श्वेतशैलमयं चान्यं सा दिद्दास्वामिनं व्यधात् । 0302ab
धवलं चरणोद्भूतगङ्गाम्भःप्लवनैरिव ॥ 0302cd

चक्रे काश्मीरिकाणां च वैशिकानां समाश्रयः136 । 0303ab
तयात्युच्चचतुःशालो विहारश्चारुसम्पदा ॥ 0303cd

श्रीसिंहस्वामिनं नाम्ना सिःहराजस्य सा पितुः । 0304ab
मठं च विदधे स्थित्यै137 दैशिकानां द्विजन्मनाम् ॥ 0304cd

मठप्रतिष्ठावैकुण्ठनिर्माणाद्यैः स्वकर्मभिः । 0305ab
तयातिपावनश्चक्रे वितस्तासिन्धुसङ्गमः ॥ 0305cd

तेषु तेषु प्रदेशेषु किमुक्तैर्भूरिभिः शुभैः138 । 0306ab
सा प्रतिष्ठा व्यरचयच्चतुःषष्टिमिति श्रुतिः ॥ 0306cd

जीर्णोद्धारकृता देव्या प्लुष्टप्राकारमण्डलाः । 0307ab
प्रायः सुरगृहाः सर्वे शिलावप्रावृताः कृताः ॥ 0307cd

क्रीडाचङ्क्रमेण राज्ञ्याः पङ्ग्वा विग्रहवाहिनी । 0308ab
वल्गाभिधा वैवधिकी वल्गामठमकारयत् ॥ 0308cd

तीर्थासेवनमौनभागपि तिमिः सक्तः स्वकुल्याशने वाताशान्प्रसते शिखी घनपयोमात्राशनोप्यन्वहम् । 0309ab
विश्वस्ताञ्जलचारिणः प्रकटितध्यानोपि भुङ्क्ते बकः सत्कर्माचरणेपि दोषविकृतौ139 न प्रत्ययः पापिनाम् ॥ 0309cd

चर्षणी[^0310-1] वर्षमात्रेण शान्तशोका बभूव सा । 0310ab
भोगोत्सुकार्भके तस्मिन्नप्तरि व्यभिचारकृत् ॥ 0310cd

[page 102]
विश्वास-प्रस्तुतिः
वर्ष एकान्नपञ्चाशे140 नीतः पक्षे सिते क्षयम् । 0311ab
स मार्गशीर्षद्वादश्याममार्गव्यग्रया तया ॥ 0311cd

पौत्रस्त्रिभुवनो नाम मार्गशीर्षे141 सितेहनि । 0312ab
पञ्चमेप्येकपञ्चाशे वर्षे तद्वत्तया हतः ॥ 0312cd

अथ मृत्युपथे राज्यनाम्नि स्वैरं निवेशितः । 0313ab
क्रूरया चरमः पौत्रो भीमगुप्ताभिधस्तया ॥ 0313cd

तस्मिन्नवसरे वृद्धः फल्गुणोपि व्यपद्यत । 0314ab
निगूढक्रौर्यदौःशील्या दिहा यद्गौरवाद्भूत् ॥ 0314cd

बभूव साथ142 सुस्पष्टदुष्टचेष्टाशतोत्कटा । 0315ab
भ्रष्टवक्त्रपटा मत्तदन्तिमूर्तिरिवोत्कटा ॥ 0315cd

महाभिजनजातानामपि हा धिङ्निसर्गतः । 0316ab
सरितामिव नारीणां वृत्तिर्निम्नानुसारिणी ॥ 0316cd

स्रोतोधिराज्यमधिगम्य विराजमानास्सिन्धोः प्रसूय कम्लाल्पपयोनिकेते । 0317ab
जाते सरस्यविरतं जलजे प्रसक्ता नार्यो महाभिजनजा अपि नीचभोग्याः ॥ 0317cd

खशस्य बद्दिवासाख्यपर्णोत्सग्रामजन्मनः143 । 0318ab
बाणस्य सूनुस्तुङ्गाख्योविशन्महिषपालकः ॥ 0318cd

प्रविष्टो जातु कश्मीरांल्लेखहारककर्मणा144 । 0319ab
सुगन्धिसीहप्रकटनागाट्टयिकषण्मुखैः ॥ 0319cd

पञ्चभिर्भ्रातृभिः सार्धं सान्धिविग्रहिकान्तिके145146 । 0320ab
देव्या दृग्गोचरं यातो हृदयावर्जकोभवत् ॥ तिलकम्॥ 0320cd

रहःप्रवेशितो दूत्या स भाव्यर्थबलाद्युवा । 0321ab
सम्भुक्तभूरिजाराया अपि तस्याः प्रियोभवत् ॥ 0321cd

तुङ्गानुरागिणी राज्ञी पापा लज्जोज्झिता ततः । 0322ab
रसदानेन वैमुख्यमाजं भुय्यमघातयत् ॥ 0322cd

धिङ्निर्विचारान्कुपतीन्येषां विषमचेतसाम् । 0323ab
फलशून्या स्तुतिस्तोषे दोषे प्राणधनक्षयः ॥ 0323cd

रक्कजो देवकलशो वेलावित्तः कृतस्तया । 0324ab
भुय्याधिकारे कौट्टन्यमाaचर्न्निस्त्रपो विटः ॥ 0324cd

येपि कर्दमराजाद्या वीरा द्वारादिनायकाः । 0325ab
तेपि कौट्टन्यमभजन्नन्येषां147 गणनैव का ॥ 0325cd

चतुष्पञ्चानि वर्षाणि तिष्ठन्नृपगृeहे शिशुः । 0326ab
भीमगुiप्तोभवद्यावत्किञ्चित्प्रौढीभवन्मतिः ॥ 0326cd

राज्यव्यवस्था यावच्च पितामह्याश्च वृत्तयः । 0327ab
दुःस्थिताः प्रत्यभासनत संस्थाप्यास्तस्य चेतसि ॥ 0327cd

अङ्गशीलविहीनाया निर्घृणाया विसर्गतः । 0328ab
नावन्नेयधियस्तस्याः स चिन्त्यः समपद्यत ॥ 0328cd

अभिमन्युवधूस्तं148 हि चक्रे गूढप्रवेशितम् । 0329ab
महाभिजनजं पुत्रं तस्मात्सोभूत्तथाविधः ॥ 0329cd

सा देवकलशेनाथ दत्तमन्त्रा विशङ्किता । 0330ab
त्रपोज्झिता स्पष्टमेव भीमगुप्तमबन्धयत् ॥ 0330cd

निगूढे नन्दिगुप्तादिद्रोहे लोकस्य योभवत् । 0331ab
सन्देहः स तथा तेन व्यक्तकृत्येन वारितः ॥ 0331cd

ताभिस्ताभिर्यातनाभिर्भीमगुप्तं निपात्य सा । 0332ab
षट्पञ्चाशेभवद्वर्षे स्वयं क्रान्तनृपासना ॥ 0332cd

प्रवृद्धरागया राज्ञ्या दत्तोद्रेको दिने दिने । 0333ab
सर्वाधिकारी तुङ्गोथ बभूवाधरिताखिलः149 ॥ 0333cd

सभ्रातृकेन तुङ्गेन मीलिताः पूर्वमन्त्रिणः । 0334ab
राज्यविप्लवमाधातुमयतन्त विरागिणः ॥ 0334cd

तेथ सम्मन्त्र्य कश्मीरानानिन्युः क्रूरपौरुषम् । 0335ab
उग्रं विग्रहराजाख्यं दिद्दाभ्रातुः सुतं नृपम् ॥ 0335cd

मुख्याग्रहारान्स प्राप्तो विधातुं राज्यविप्लवम् । 0336ab
धीमान्प्रायोपवेशाय150 द्रुतं प्रावेशयद्द्विजान्151 ॥ 0336cd

त्रिहितैक्येषु विप्रेषु लोकः सर्वोपि विप्लुतः । 0337ab
अन्वियेषान्वहं तुङ्गं तत्र तत्र जिघांसया ॥ 0337cd

[page 103]
विश्वास-प्रस्तुतिः
कस्मिंश्चित्पिहितद्वारे तुङ्गं प्रच्छाद्य वेश्मनि । 0338ab
दिनानि कतिचिद्दिहा तस्थावास्कन्दशङ्किनी ॥ 0338cd

तथा स्वर्णप्रदानेन सुमनोमन्तकादयः । 0339ab
ब्राह्मणाः समगृह्यन्त ततः प्रायो व्यवर्तत ॥ 0339cd

एवं तस्मिन्महाक्षेपे तथा दानेन वारिते । 0340ab
ययौ विग्रहराजः स भग्नशक्तिर्यथागतम् ॥ 0340cd

अथ दार्द्यं सभासाद्य तुङ्गाद्याः प्रभविष्णवः । 0341ab
शनैः कर्दमराजादीञ्जिश्नुर्विहितविप्लवान् ॥ 0341cd

सुलक्कनो रक्कसूनुस्तथान्ये मुख्यमन्त्रिणः । 0342ab
रुष्टैर्निर्वासिता देशात्तुष्टैस्तैः सम्प्रवेशिताः ॥ 0342cd

प्रवर्धमानवैरेण गूढदूतैर्विसर्जितैः । 0343ab
प्रायं विग्रहराजेन ब्राह्मणः कारिताः पुनः ॥ 0343cd

उत्क्रोचादित्सया विप्रा भूयः प्रायविधायिनः । 0344ab
लब्धस्थैर्येण तुङ्गेन सन्निपत्यापहस्तिताः ॥ 0344cd

तेषां मध्ये वसन्गूढमादित्याख्यः पलायितः । 0345ab
हतो विग्रहराजस्य प्रियः कटकवारिकः ॥ 0345cd

शस्त्रक्षतः प्रतीहारो वत्सराजाभिधः पुनः । 0346ab
न्यङ्कोतकादिभिर्धावञ्जीवग्राहमगृह्यत ॥ 0346cd

ते स्वर्णाग्राहिणो विप्राः सुमनोमन्तकादयः । 0347ab
सर्वेपि बद्धास्तुङ्गेन कारागारं प्रवेशिताः ॥ 0347cd

अथ फल्गुणनाशेन दृप्ते राजपुरीपितौ । 0348ab
तां प्रत्यारब्धिरभवत्क्रुद्यतां सर्वमन्त्रिणाम् । 0348cd

निपत्य सङ्कटे वीरः पृथ्वीपालाभिधस्ततः । 0349ab
चक्रे राजपुरीराजः काश्मीरिकाबलक्षयम् ॥ 0349cd

शिपाटको हंसराजो विपन्नौ तत्र मन्त्रिणौ । 0350ab
चन्द्राद्यैर्दुर्गतिर्दृष्टा152 मरणं यत्र भेषजम्153 ॥ 0350cd

अथान्येन पथाकस्मात्तुङ्गः सार्धं सहोदरैः । 0351ab
कृत्स्नां राजपुरीं वीरः प्रविश्य सहसादहत् ॥ 0351cd

ननाश तेनोपायेन पृत्वीपालः स पार्थिवः । 0352ab
शेषाणां मन्त्रिणां सैन्यं प्राप मुक्तिं च सङ्कटात् ॥ 0352cd

अबलः सन्स भूपालस्तुङ्गाय प्रददौ करम् । 0353ab
एवं कृतं तदा तेन नष्टस्थार्थस्य154 योजनम् ॥ 0353cd

प्रविशन्नगरं तुङ्गस्ततः स्वीकृतकम्पनः । 0354ab
चकार डामरग्रामसंहारं सिंहविक्रमः ॥ 0354cd

दिद्दाप्युदयराजस्य भ्रातुःञ् पुत्रं परीक्षितम् । 0355ab
चक्रे सङ्ग्रामराजाख्यं युवराजमशङ्किता ॥ 0355cd

सा हि सर्वाञ्शिशुप्रायान्पुरो भ्रातृसुतान्स्थितान् । 0356ab
परीक्षितुं मुमोचाग्रे पालेवतफलावलिम् ॥ 0356cd

शक्तः कियन्ति कः प्राप्तुं फलान्यत्रेतिवादिनी । 0357ab
साभवद्राजपुत्राणां तेषाम् कलहकारणम् ॥ 0357cd

गृहीताल्पफलांलग्नप्रहारांस्तान्ददर्श च । 0358ab
सङ्ग्रामराजं155 र्वस्वल्पफलभाजमविक्षतम् ॥ 0358cd

अनन्तफलसम्प्राप्तावक्षतत्वे च कारणम् । 0359ab
सविस्मयं तथा पृष्टः स तामेवं तदान्नवीत् ॥ 0359cd

अन्योन्यकलहव्यग्रानेतान्कृत्वा पृथग्वसन् । 0360ab
समवापं फलान्यस्मिन्न चाभूवं परिक्षतः ॥ 0360cd

व्यसनं सम्प्रवेश्यान्यान्स्थितानामप्रमादिनाम्156 । 0361ab
न काः क्लेशाविहीनानां157 घटन्ते स्वार्थसिद्धयः ॥ 0361cd

श्रुत्वेति तस्य सा वाचमप्रमत्तत्वदूतिकाम् । 0362ab
भीरुर्नारीस्वभावेन राज्येमन्यत योग्यताम् ॥ 0362cd

शूरस्य लभ्यं शौर्येण भीरोर्भीरुतया यथा । 0363ab
कार्यं हि प्रतिभात्यन्तर्न भवेच्च तदन्यथा ॥ 0363cd

काष्ठं बह्न्युज्झितमपि भवेच्छीतशान्त्यै कपीनां लोम्नां शुद्ध्यै सलिलमनलश्चाग्निशौचैणकानाम्158 । 0364ab
जन्तोर्भावा विदधति यथा भाविनः159 कार्यसिद्धिं तत्त्वं तेषां क्वचन वस्तुतो नास्ति किञ्चित् ॥ 0364cd

[page 104]
विश्वास-प्रस्तुतिः
तस्यामेकान्नशीत्यब्दशुक्लभाद्राष्टमीदिने । 0365ab
देव्यां दिवं प्रयतायां युवराजोभवन्नृपः ॥ 0365cd

स्त्रीसम्बन्धेन भूपालवंश्यानां160 भुवनाद्भुतः । 0366ab
तृतीयः परिवर्तोयं वर्ततेमुत्र मण्डले ॥ 0366cd

निर्नष्टकण्टककुले161 वसुसम्पदाद्ये श्रीसातवाहकुलमाप162 महीतलेस्मिन् । 0367ab
दावाग्निदग्धकुतरौ जलदाम्बुसिक्ते चूतप्ररोह इव केलिवने प्रवृद्धिम्163 ॥ 0367cd

अथ स मृदुतयान्तर्गूढधैर्यानुभावः सुखमवनिमशेषां दोष्णि सङ्ग्रामराजः । 0368ab
विसकुलनिभशोभानिह्नुतप्राणसारः फणकुल164 उरगाणामीशितेव न्यधत्त ॥ 0368cd

165इति श्रीकाश्मीरिकमहामात्यचप्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां षष्ठस्तरङ्गः166 ॥
अत्र वर्षचतुःषष्टौ मासेप्यर्धे दिनेषु च ।
अष्टस्वभूवन्भूपाला दश भूभोगभोगिनः167 ॥
[page 105]
-
A3 gloss मृतावनशने प्रायो बाहुल्ये सदृशे त्रिषु इति कोशः. ↩︎ ↩︎
-
Thus A; G has sec. manu the conjuctural reading गत्वा. ↩︎ ↩︎
-
A2 gloss यत्सन्निधौ अर्थिप्रत्यर्थिनावुभौ भूमेः क्रयविक्रयं कुरुतः । येन चावस्तरमानं क्रियते सोधिकरणलेखकः । अवस्तरपरिमाणलेखपत्रकारी सराफ् इति भाषया . ↩︎ ↩︎
-
A2 gloss गृहविक्रयिणा यदिना विक्रयपत्रे लिखितं । सोपानकूपरहितं विक्रीतं गृहमिति । ततस्तेन लुब्धेन वणिजा प्रत्यर्थिना रेफविषये सकारः कारितः अधिकरणलेखकहस्तेन । उत्कोचं दीन्नारदशशत्याख्यं दत्त्वा कूपसहितं गृहं विक्रीतमिति लेखितं । ततोनन्तरं राञ्जानुमितं लेखपत्रचित्रणार्थं किमर्थं दीन्नारदशशती । बहुमूल्यत्वादिति रेफस्य सकार एव कृतोनेन इति ॥. ↩︎ ↩︎
-
A3 gloss वचसि वाक्य एव निष्ठा येषां । न तु न्यायविचारणे इति व्यवस्थां निन्दन्. ↩︎ ↩︎
-
A4 gloss वदनमेव केवलं तदीयं विदितं माम् न तु नामप्रकृती इत्यर्थः. ↩︎ ↩︎
-
Thus corr. by A3; reading of A1 illegible; A3 in margin ॰ङ्गनाख्यां. ↩︎ ↩︎
-
A3 gloss काषट्ःएलतीर्थविषये यशस्करस्याग्रहारा अभवन्नित्याहुः लोकाः. ↩︎ ↩︎
-
Thus A1; A3 निरवास्यत; perhaps to be emended निरवत्स्यत. ↩︎ ↩︎
-
A3 gloss, partly effaced चक्र…. जने…. क्ररक्षा…. चक्रमेल…. वे…. . ↩︎ ↩︎
-
A3 gloss सन्धिविग्रहशुद्धान्तमुख्यकर्माधिकारी सान्धिविग्राहिकः कटकपालः. ↩︎ ↩︎
-
Emended with G Edd; A1 एव साङ्क्रान्तिः which A3 alters to एवमाक्रान्तिः. ↩︎ ↩︎
-
A2 gloss राज्ञा पार्थिवः राजानकः मन्त्री । राज्ञः अनः प्राणनं । जिवनं धरित्रीरक्षणलक्षणं । यस्मात्सः राजानः अनश्वसप्राणने । राजान एव राजानकः । स्वार्थे कः यद्वा अत्र लिङ्गात् । कः सादृश्ये देवदत्त इव देवदत्तक इतिवत् । यथा प्राणनं विना देहस्थितिर्नास्ति । तथा धीसचिवं मन्त्त्रिणं विना पार्थिवानां स्वयं कार्याकार्यविवेककौशलातिशयो न सम्भवेदिति । राजानकमपेक्षते राजा ॥ यद्वा राज्ञः अनः प्राण इव राजानक इत्यर्थः ॥. ↩︎ ↩︎
-
Thus A3; A1 श्रीभूमिस्वामिनो॰. Cf. Alberuni’s Indica(trans. by Sachau), ii. 13. ↩︎ ↩︎
-
Thus corr. by later hand from A1 प्राप्य; A3 gloss प्राप्त इत्यर्थः. ↩︎ ↩︎
-
Thus corr. by A3 from A1 तैर्लब्ध॰; A3 gloss तं महिमानं. ↩︎ ↩︎
-
The words from चैलुः to सैन्यं in the following verse are omitted by A1 and supplied in margin by A3. ↩︎ ↩︎
-
A3 gloss स्यनौ सुरागृहे गञ्जा भण्डागारे पुमानथेति कोशः. ↩︎ ↩︎
-
Thus A R G; perhaps, to be emended with G sec. manu गञ्जाध्यक्षस्ततः क्रमात्. ↩︎ ↩︎
-
Thus emended according to conjectural reading ( sec manu) in G; A R G ( prima manu) नवायामदि॰. ↩︎ ↩︎
-
Emended; A1 वन्त्स्यति; G P वत्स्यति; R भर्त्स्यति; C वत्स्यति. ↩︎ ↩︎
-
Thus A R G; Edd. वर्धमानः, found also sec. manu in R G. A2 gloss अर्धवयाः खण्डबिम्बश्च. ↩︎ ↩︎
-
A3 gloss अग्निशौचा मृगा अग्निमश्नन्ति विषमूषकाः विषं च न विपद्यन्ते जीविता—–. ↩︎ ↩︎
-
A3 inserts here the note: रा॰ 10 ग्र 369 ॥ आदितः रा॰ 92 ग्रन्थः 1663 ॥. ↩︎
-
A1 adds here: लिखितश्चैष राजानकरत्नकण्टेन. ↩︎
-
A3 भागिनः. ↩︎