॥ पञ्चमस्तरङ्गः ॥
विश्वास-प्रस्तुतिः
काप्येतेषु[^0001-1] रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते गोभिः कण्ठतटस्य हृस्यति पुरो दृक्पश्य चक्षुःश्रुतेः । 0001ab
सन्धानेभिनवे मिथो भगवतोर्जिह्वापृथक्स्पन्दिनी[^0001-2] भिन्नार्थां सदृशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ 0001cd
मूलम्

अवन्तिवर्मा साम्राज्यं प्राप्य पाटितकण्टकः । 0002ab
चकार चरितैश्चित्रं सतां कण्टकितं वपुः ॥ 0002cd

आसतां क्षितिपामात्यौ तौ द्वावपि परस्परम् । 0003ab
आज्ञादाने1 परिवृढौ भृत्यावाज्ञापरिग्रहे ॥ 0003cd

कृतज्ञः क्षान्तिमान्क्ष्माभृन्मन्त्री भक्तः स्मयोज्झितः । 0004ab
अभङ्गुरोयं संयोगः सुकृतैर्जातु दृश्यते ॥ 0004cd

विवेक्ता प्राप्तराज्यः स क्ष्माभृद्वीक्ष्य नृपश्रियम् । 0005ab
अविलुप्तस्मृतिर्धीमानन्तरेवमचिन्तयत् ॥ 0005cd

गोभुजां वल्लभा लक्ष्मीर्मातङ्गोत्सङ्गलालिता । 0006ab
सेयं स्पृहां समुत्पाद्य दूषयत्युन्नतात्मनः । 0006cd

स नास्ति कश्चित्प्रथमं यः प्रदर्श्यानुकूलताम्2 । 0007ab
सन्ताप्यते न चरमं नीचप्रीत्येव नानया ॥ 0007cd

चपलाभिः प्रवृद्धेयं स्वर्वेश्याभिः सहाम्बुधौ । 0008ab
तदेकचारिणीवृत्तमनया शिक्षितं कुतः ॥ 0008cd

निःस्नेहा नान्वगात्कांश्चित्सुचिरं संस्तुताप्यसौ । 0009ab
परलोकाध्वगान्भूपानपायेनानबान्धवान् ॥ 0009cd

हेमभोजनभाण्डादि3 भाण्डागारे यदर्जितम् । 0010ab
कस्मादस्य न नाथास्ते लोकान्तरगता नृपाः ॥ 0010cd

अन्योच्छेष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः । 0011ab
कस्मान्न लज्जामवहञ्शौचचिन्तां न वा दधुः ॥ 0011cd

स्थूलेषु राजतस्थालकपालेष्ववलोकितैः । 0012ab
प्रेतभूपालनामाङ्कैः शङ्का कस्य न जायते ॥ 0012cd

कृष्टाः प्रविष्टे ये कालपाशे कण्ठान्मुमूर्षताम् । 0013ab
अशस्ता अपवित्राश्च ते हाराः कस्य हारिणः । 0013cd

सन्दूष्य बाष्पैर्दुःखोष्णैस्त्यक्तान्पूर्वैर्मुमूर्षुभिः । 0014ab
स्पृशन्नेतानलङ्कारान्न कः सङ्कोचमाप्नुयात् ॥ 0014cd

या वारिराशिसलिलान्तरसन्निधानसंसेवयापि सततं मलिनैव लक्ष्मीः । 0015ab
पात्रेषु रोरशिखिभागिषु4 सा विमुक्ता वैमल्यमेति हरिणीव हुताशशौचा5 ॥ 0015cd

[page 72]
विश्वास-प्रस्तुतिः
इति निर्धार्य नृपतिर्नीत्वा स्वर्णादि6 चूर्णताम् । 0016ab
निजैरञ्जलिभिः प्रादाद्द्विजन्मभ्यः करम्भकम्[^0016-3] ॥ 0016cd

साधु भूपेति वक्तव्ये हर्षान्निर्गौरवं द्विजः । 0017ab
साध्ववन्तिन्निति वदन्नेकः प्रापाञ्जलीन्बहून् ॥ 0017cd

लक्ष्मीं कृत्वार्थिसात्कृत्स्नां कृतिनावन्तिवर्मणा । 0018ab
विभूतिश्चामरच्छत्रमात्रशेषा व्यधीयत ॥ 0018cd

अनन्तसम्पत्सम्पन्नभूरिगोत्रजविप्लवे । 0019ab
राजश्रीर्दुर्जरा तस्य नवत्वे भूभुजोभवत् ॥ 0019cd

विप्लुतान्समरे भ्रातॄन्भ्रातृव्यांश्च विजित्य सः । 0020ab
चकार भूरिभिर्वारै राज्यं विगतकण्टकम् ॥ 0020cd

राज्यं निष्पाद्य निर्विघ्नमथ वात्सल्यपेशलः । 0021ab
विभज्य बन्धुभृत्येषु बुभुजे पार्थिवः श्रियम् ॥ 0021cd

भ्राता द्वैमातुरस्तेन शूरवर्माभिधः सुभीः । 0022ab
ज्ञातिप्रियेण वितते यौवराज्येभ्यषिच्यत ॥ 0022cd

खाधूयाहस्तिकर्णाख्यावग्रहारौ78 प्रदार्य9 यः । 0023ab
शूरवर्मस्वामिनं च गोकुलं च विनिर्ममे ॥ 0023cd

सम्पूर्णः पूर्णमहिमामर्त्यमाहात्म्यमन्दिरम्1011 । 0024ab
पञ्चहस्ताप्रदश्चक्रे12 मठं सुकृतकर्मठः ॥ 0024cd

भ्राता व्यधत्त नृपतेरपरः समराभिधः । 0025ab
केशवं चतुरात्मानं समरस्वामिनं13 तथा ॥ 0025cd

द्वौ श्रूरवरजौ धीरविन्नपाख्यौ निजाख्यया । 0026ab
व्यधत्तां विबुधावासौ द्वावन्यौ गणनापती ॥ 0026cd

भूत्वा बातूलताच्छन्नप्रभावानुभवौ14 भुवि । 0027ab
गतौ15 सविग्रहावेव हरावससाग्र्यसभ्यताम् ॥ युग्मम्॥ 0027cd

राजदौवारिकः श्रीमाञ्शूरस्यासीन्महोदयः । 0028ab
महोदयस्वामिनो16 यः प्रतिष्ठां समपादयत् ॥ 0028cd

रामटाख्यमुपाध्यायं ख्यातव्याकरणश्रमम् । 0029ab
व्याख्यातृपदकं चक्रे स तस्मिन्सुरमन्दिरे ॥ 0029cd

अमात्येन महीभर्तुः श्रीप्रभाकरवर्मणा । 0030ab
कृतं प्रभाकरस्वामिनाम्नो विष्णोर्निकेतनम् ॥ 0030cd

आयातेन शुकैः सार्धं17 दत्ता गृहशुकेन यः । 0031ab
मुक्ताः प्राप्य प्रतिष्ठायां चक्रे ख्यातां शुकावलीम्18 ॥ 0031cd

विच्छिन्नप्रसरा विद्या भूयः शूरेण मन्त्रिणा । 0032ab
सत्कृत्य विदुषः सभ्यान्देशेस्मिन्नवतारिता ॥ 0032cd

युग्यैः क्षितिभुजां योग्यैरुह्यमाना महर्द्धयः । 0033ab
बुधाः प्रवृद्धसत्कारा विविशुर्भूपतेः सभाम् ॥ 0033cd

मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः19 । 0034ab
प्रथां रत्नाकरश्चागात्साम्राज्येवन्तिवर्मणः19 ॥ 0034cd

आस्थाने कृतमन्दारो वन्दी शूरस्य मन्त्रिणः । 0035ab
सङ्कल्पस्मृतिमाधातुमिमामार्यां यदापठत् ॥ 0035cd

अयमवसर उपकृतये प्रकृतिचला यावदस्ति सम्पदियम् । 0036ab
विपदि सदाभ्युदयिन्यां20 पुनरुपकर्तुं कुतोवसरः ॥ 0036cd

कृतः सुरेश्वरीक्षेत्रे बहुगेहविधायिना । 0037ab
शिवयोर्मिश्रयोस्तेन प्रासादः सोव्ययस्थितिः ॥ 0037cd

शूरेश्वरं21 प्रतिष्ठाप्य स्ववेश्मेव समुन्नतम् । 0038ab
चक्रे शूरमठं धीमान्स भोगाय तपस्विनम् ॥ 0038cd

स्वकृते पत्तनवरे तेन शूरपुराभिधे । 0039ab
क्रमवर्तप्रदेशस्थो22 ढक्कोभूद्विनिवेशितः23 ॥ 0039cd
विश्वास-प्रस्तुतिः
सुरेश्वरीप्राङ्गनतश्चक्रे भूतेश्वरं हरम् । 0040ab
मठं शूरमठान्तश्च शूरजो रत्नवर्धनः ॥ 0040cd

काव्यदेव्यभिधा शूरवधूः शुद्धान्वया व्यधात् । 0041ab
सदाशिवं सुरेश्वर्यां काव्यदेवीश्वराभिधम् ॥ 0041cd

[page 73]
विश्वास-प्रस्तुतिः
निर्मत्सरोवन्तिवर्मा सोदरेभ्योनिपायिनीम् । 0042ab
शूराय च सपुत्राय नृपतिप्रक्रियां ददौ ॥ 0042cd

छन्दानुवर्ती भूपालो दैवतस्येव मन्त्रिणा । 0043ab
आ बाल्याद्वैष्णवोप्यासीच्छैवतामुपदर्शयन् ॥ 0043cd

क्षेत्रे विश्वैकसाराख्ये24 मृतानामपवर्गदे । 0044ab
भूरिभोगास्पदं राज्ञा25 तेनावन्दिपुरं कृतम् ॥ 0044cd

अवन्तिस्वामिनं तत्र प्राग्राज्याधिगमात्कृती । 0045ab
विधाय प्राप्तसाम्राज्यश्चक्रेवन्तीश्वरं तदा ॥ 0045cd

त्रिपुरेश्वरभूतेशविजयेशेषु भूभृता । 0046ab
स्नानद्रोण्या रुप्यमय्या तेन पीठत्रयं कृतम् ॥ 0046cd

शूरस्यापि नरेन्द्रं तं ध्यायतः स्वाधिदैवतम् । 0047ab
तत्प्रियार्थमुपेक्ष्योभूद्धर्मः प्राणाः सुतोपि वा ॥ 0047cd

तथा चार्चयितुं जातु26 यातो भूतेश्वरं नृपः । 0048ab
विभवानुगुणे स्वस्मिन्पूजोपकरणेर्पिते ॥ 0048cd

ददर्श पीठे देवस्य पूजकैरुपपादितम् । 0049ab
वन्यमुत्पलशाकाख्यं तिक्तशाकमवस्थितम् ॥ 0049cd

तत्रस्थाः क्ष्माभुजा पृष्टास्तन्निवेदनकारणम् । 0050ab
व्यजिज्ञपन्क्षितिन्यस्तजानुप्राञ्जलयस्ततः ॥ 0050cd

डामरो धन्वनामास्ति लहरे27 विषये बली । 0051ab
शूरस्य मन्त्रिणो देव सेवको यः सुतोपमः ॥ 0051cd

हृतेषु तेन ग्रामेषु निरवग्रहशक्तिना । 0052ab
निवेद्यमेतदेवास्मै भूतेशाय निवेद्यते ॥ 0052cd

अकाण्डशूलजनितां पार्हिवः कथयन्व्यथाम् । 0053ab
श्रुतमश्रुतवत्कृत्वा त्यक्तपूजोथ निर्ययौ ॥ 0053cd

पूजां सन्त्यज्य गमनं शूलं चाकस्मिकं प्रभोः । 0054ab
सहेतुकं विदञ्शूरो वृत्तान्तान्वेषकोभवत् ॥ 0054cd

ज्ञाततत्त्वस्ततस्तूर्णं भूतेशाभ्यर्णवर्तिनः । 0055ab
क्रुद्धः समातृचक्रस्य28 भैरवस्याविशद्गृहम् ॥ 0055cd

निषिद्धजनबाहुल्याद्भूत्वा29 विरलपार्श्वगः । 0056ab
प्रहिणोद्धन्वमानेतुं ततो दूतान्पुनः पुनः ॥ 0056cd

स क्षितिं पत्तिपृतनासम्मर्देन प्रकम्पयन् । 0057ab
अप्रकम्पतनुः प्राप क्रूरः शूरान्तिकं शनैः30 ॥ 0057cd

तस्य प्रविष्टमात्रस्य शस्त्रिणः शूरचोदिताः । 0058ab
मुण्डं सजीवितस्यैव चिच्छिदुर्भैरवाग्रतः ॥ 0058cd

आसन्ने सरसि क्षिप्त्वा रुधिरोद्गारि तद्वपुः । 0059ab
क्ष्मापतेः क्षालितामर्षो धीरः शूरो विनिर्ययौ ॥ 0059cd

तस्य श्रुत्वा शिरश्छिन्नं स्वपुत्रस्येव मन्त्रिणा । 0060ab
क्षीणमन्युः31 क्षितिपतिः सवैलक्ष्य इवाभवत् ॥ 0060cd

शूरोथ पृष्टकुशलो निर्वथोस्मीति भाषिणम् । 0061ab
उत्थाप्य तल्पात्तं देवं पूजाशेषमकारयत् ॥ 0061cd

इत्थं समस्तकृत्येषु भावज्ञः स महीपतेः । 0062ab
अनुक्त्वैव हितं तत्तत्प्राणांस्त्यक्त्वाप्यसाधयत् ॥ 0062cd

परस्परमनुत्पन्नमन्युकालुष्यदूषणौ । 0063ab
स दृष्टौ न श्रुतौ वान्यौ तादृशौ राजमन्त्रिणौ ॥ 0063cd

श्रीमेघवाहनस्येव साम्राज्येवन्तिवर्मणः । 0064ab
अशेषप्राणिनामासीदमारो दश वत्सरान् ॥ 0064cd

जलं जहद्भिः शिशिरं तटानेत्याकुतोभयैः । 0065ab
तत्कालं सेवितः पृष्टे पाठीनैः शरदातपः ॥ 0065cd

अनुग्रहाय लोकानां भट्टश्रीकल्लटादयः । 0066ab
अवन्तिवर्मणः काले सिद्धा भुवमवातरन् ॥ 0066cd

चरित्रे बहुवक्तव्ये येषामेकस्य पावनः । 0067ab
अयं प्रासङ्गिकः कश्चिद्वृत्तान्तो वर्णयिष्यते ॥ 0067cd

देशः प्रवलतोयोयं महापद्मसरोजलैः । 0068ab
कूलिनीभिश्च शबलः स्वल्पोत्पत्तिः सदाभवत् ॥ 0068cd

ललितादित्यभूभर्तुरुद्योगेन बलीयसा । 0069ab
किञ्चिदाकृष्टसलिलः प्राप्तोत्पत्तिं मनाक्ततः ॥ 0069cd

[page 74]
विश्वास-प्रस्तुतिः
जयापीडे क्रमाद्याते स्वल्पवीर्येषु राजसु । 0070ab
सलिलोपप्लवैरासीत्पुनरेवावृता क्षितिः ॥ 0070cd

दीन्नाराणां दशशती पञ्चाaशत्यधिकाभवत्32 । 0071ab
धान्यखारीक्रये33 हेतुर्देशे दुर्भिक्षविक्षिते ॥ 0071cd

अवन्तिवर्मणः पुण्यैर्जन्तूञ्जीवयितुं ततः । 0072ab
स्वयमन्नपतिः श्रीमान्सुय्यः क्षितिमवातरत् ॥ 0072cd

यस्याविज्ञातसम्भूतेस्तुर्ये34 कालेपि निश्चितम् । 0073ab
अयोनिजत्वं कृतिनश्चरितैर्भुवनाद्भुतैः ॥ 0073cd

पुरा रथ्यारजःपुञ्जं सम्मार्जन्ती पिधानवत् । 0074ab
सुय्याभिधाना35 चाण्डाली मृद्भाण्डं प्राप नूतनम् ॥ 0074cd

तस्मिन्पिधानमुद्धृत्य सापश्यन्मध्यशायिनम् । 0075ab
बालं कमलपत्राक्षं धयन्तं स्वकराङ्गुलीः ॥ 0075cd

मात्रा कयापि त्यक्तोसौ सुन्दरो मन्दभाग्यता । 0076ab
अथेति चिन्तयन्त्यासीत्सा स्नेहात्प्रस्नुतस्तनी ॥ 0076cd

अदूषन्त्या36 स्पर्शेन धात्र्या शूद्रस्त्रियो गृहे । 0077ab
तया विहितवृत्तिः स शिशुर्वृद्धिमनीयत ॥ 0077cd

स सुय्यनामा मतिमान्प्रवृद्धः शिक्षिताक्षरः । 0078ab
कस्याप्यासीद्गृहपतेरर्भकाध्यापको गृहे ॥ 0078cd

व्रतस्नानादिनियमैस्तं सतां हृदयङ्गमम् । 0079ab
गोष्टीषु विशदप्रज्ञम् विदग्धाः पर्यवारयन् ॥ 0079cd

तेषां कथाव्यवस्थासु निन्दताम् जलविप्लवम् । 0080ab
धीरस्ति मे निरर्थस्तु किं कुर्यामिति सोब्रवीत् ॥ 0080cd

उन्मत्तस्येव वदतस्तस्य तन्नियमाद्वचः । 0081ab
निशम्य भूभृच्चारेभ्यश्चिरमासीत्सविस्मयः ॥ 0081cd

ततस्तमानीय नृपः किं ब्रूष इति पृष्टवान् । 0082ab
धीरस्तीत्यादि राजाग्रेप्यवोचत्सोप्यसम्भ्रमः37 ॥ 0082cd

वातूलोसाविति निजैरुक्तोप्यथ महीपतिः । 0083ab
धियं दिदृक्षुर्विदधे तस्यायत्तं निजं[^0083-1] धनम् ॥ 0083cd

कोशाद्दीन्नारभाण्डानि बहून्यादाय हेलया । 0084ab
ययौ मडवराज्यं स नावमारुह्य रंहसा ॥ 0084cd

ग्रामे तत्र प्रवृद्धाम्बुनिमग्ने नन्दकाभिधे । 0085ab
एकं निक्षिप्य तां राजा तन्निष्ठान्वेषकोभवत् ॥ 0085cd

सत्यं वातूल एवासौ सभेष्वपि वदत्स्वपि । 0086ab
वार्तां निशम्य तां राजा तन्निष्ठान्वेषकोभवत् ॥ 0086cd

क्रमराज्यं स सम्प्राप्य देशे यक्षदराभिधे38 । 0087ab
अञ्जलिभ्यां निचिक्षेप दीन्नारान्सलिलान्तरे ॥ 0087cd

यत्र तीरद्वयालम्बिशैलनिर्लुठिताः शिलाः । 0088ab
चक्रुर्वितस्ताम् निष्पीड्य पयः प्रतिपथोन्मुखम् ॥ 0088cd

दुर्भिक्षोपहता ग्राम्या दीन्नारान्वेषिणस्तदा । 0089ab
शिलाः प्रवाहादुद्धृत्य वितस्तां समशोधयन् ॥ 0089cd

एवं दिनानि द्वित्राणि पयो युक्त्या विकृष्य तत् । 0090ab
वितस्तामेकतः स्थानात्कर्मकृद्भिरबन्धयत् ॥ 0090cd

पाषाणसेतुबन्धेन सुय्येनाद्भुतकर्मणा । 0091ab
सप्ताहमभवद्बद्धा निखिला नीलजा सरित् ॥ 0091cd

अधः प्रवाहं संशोध्य लुठदश्मप्रतिक्रियाम् । 0092ab
कृत्वा बद्धैः शिलाबन्धैः सेतुबन्धमपाटयत् ॥ 0092cd

चिरकालनिरोधेन सोत्कण्ठेवाम्बुधिं प्रति । 0093ab
ततः प्रावर्तत जवाद्गन्तुं सागरगामिनी ॥ 0093cd

जम्बालाङ्का स्फुरन्मीना भूर्बभौ सलिलोज्झिता । 0094ab
व्यक्तकार्ष्ण्या सनक्षत्रा निर्मेघेव नभःस्थली ॥ 0094cd

यत्र यत्र विवेदौघवेधं सलिलविप्लवे । 0095ab
तत्र तत्र वितस्तायाः प्रवाहान्नूतनान्व्यधात् ॥ 0095cd

मूलस्रोतोग्र्यनिष्ठ्यूतभूरिस्रोता बभौ सरित् । 0096ab
एकभोगाश्रयानेकफणेवासितपन्नगी ॥ 0096cd

वामेन सिन्धुस्त्रिग्राम्या वितस्ता दक्षिणेन तु । 0097ab
यान्त्यौ ये समगंसातां[^0097-1] प्राग्वैन्यस्वामिनोन्तिके ॥ 0097cd

वर्ततेद्य महानद्योः कल्पापायेप्यनत्ययः । 0098ab
सङ्गमो नगरोपान्ते स सुय्योपक्रमस्तयोः ॥ 0098cd

[page 75]
विश्वास-प्रस्तुतिः
अद्याप्यास्तां[^0099-1] फलपुरपरिहासपुरस्थितौ । 0099ab
विष्णुस्वामी सङ्गमस्य वैन्यस्वामी च तीरयोः ॥ 0099cd

सुन्दरीभवनाभ्यर्णप्राप्तस्याद्यतनस्य तु । 0100ab
योगशायी हृषीकेशः सुय्यस्याभ्यर्चितस्तटे ॥ 0100cd

दृश्यन्तेद्यापि सरितां पूर्वस्रोतस्तटोद्भवाः[^0101-1] । 0101ab
निषादाकृष्टनैरज्जुरेखाङ्का जीर्णपादपाः ॥ 0101cd

स्फुरत्तरङ्गजिह्वाह् स नदीर्मार्गमजिग्रहत् । 0102ab
तास्ताः स्वेच्छानुसारेण मान्त्रिकः पन्नगीरिव ॥ 0102cd

बद्ध्वा शैलमयान्सेतून्वितस्ताम् सप्तयोजनीम् । 0103ab
महापद्मसरोवारि स चकार नियन्त्रितम् ॥ 0103cd

महापद्मसरःकुण्डद्वितस्ता येन योजिता । 0104ab
अवान्निर्याति39 कोदण्डयन्त्रादिपुरिवाध्वना ॥ 0104cd

उद्धृत्य सलिलादुर्वीमेवमादिवराहवत् । 0105ab
अनेकजनसङ्कीर्णान्ग्रामान्नानाविधान्व्यधात् ॥ 0105cd

पालीभिरम्भः संरोध्य यान्कुण्डसदृशान्व्यधात् । 0106ab
कुण्डलानीति सर्वान्नसमृद्धान्ब्रुवते जनाः ॥ 0106cd

उत्खातकीलनिवहान्नद्योद्यापि शरत्कृशाः । 0107ab
व्यञ्जन्ति जलगन्धेभबन्धनस्तम्भसन्निभान् ॥ 0107cd

दीन्नारभाण्डानौज्झीत्स40 यदगाधजलान्तरे । 0108ab
नन्दिके निर्गतजले स्थलान्तात्तदलभ्यत ॥ 0108cd

अदेवमातृकान्ग्रामान्परीक्ष्य विविधाः क्षितीः । 0109ab
संविभेजे विभक्तेन नादेयेन स वारिणा ॥ 0109cd

असिञ्चच्च जलैर्ग्रामान्मृदमुपाहताम् । 0110ab
या यावता क्षणेनागाच्छोषम् तां तावता हृदि ॥ 0110cd

कालेन मत्वा सेकार्हां प्रतिग्रामं जलस्रुतेः । 0111ab
परिमाणं विभागं च परिकल्प्य निरस्त्ययम् ॥ 0111cd

चकार चानूलाद्याभिः सिन्धुभिः सर्वतो दिशः । 0112ab
सत्फलोदारकेदारसम्पत्सम्पन्नविभ्रमाः ॥ तिलकम्॥ 0112cd

न कश्यपेनोपकृतं न यत्सङ्कर्षणेन वा । 0113ab
हेलया मण्डलेमुष्मिंस्तत्सुय्येन सुकर्मणा ॥ 0113cd

भूमेर्जलादुद्धरणं द्विजक्षेत्रे तथार्पणम् । 0114ab
सेतुबन्धोश्मभिस्तोये यमनं कालियस्य च ॥ 0114cd

चतुर्षु सिद्धमिति41 यद्विष्णोः सत्कर्मजन्मसु । 0115ab
सुय्यस्य तत्पुण्यराशेरेकस्मिन्नेव जन्मनि ॥ युग्मम्॥42 0115cd

यस्मिन्महासुभिक्षेषु दीन्नाराणां शतद्वयी । 0116ab
धान्यखारेः43 प्राप्तिहेतुरा सर्गादभवत्पुरा ॥ 0116cd

ततः प्रभृति तत्रैव चित्रं कश्मीरमण्डले । 0117ab
षट्त्रिंशता44 धान्यखरोर्दीन्नारैरुदितः क्रयः ॥ 0117cd

निर्गताया45 महापद्मसलिलात्स्वर्गसम्बिभम् । 0118ab
वितस्तायास्तटे चक्रे स्वनामाङ्कं स पत्तनम् ॥ 0118cd

स्वकृता स्थापिता तेन सरसि व्याप्तदिक्तटे । 0119ab
आसंसारं स्थितामारमर्यादा46 झषपक्षिणाम् ॥ 0119cd

सुय्याकुण्डलनामानं47 ग्रामं कृत्वा द्विजातिसात् । 0120ab
सुय्यामुद्दिश्य48 तन्नाम्ना सुय्यासेतुं49 च निर्ममे ॥ 0120cd

तेनोद्धृतासु सलिलाद्भूषु ग्रामाः सहस्रशः । 0121ab
अवन्तिवर्मप्रमुखैर्जयस्थलमुखाः50 कृताः ॥ 0121cd

ईदृशैर्धर्म्यवृत्तान्तैः प्रवर्तितकृतोदयः । 0122ab
अवन्तिदेवः पातिस्म मान्धातेव वसुन्धराम् ॥ 0122cd

प्राणप्रयाणसोद्योगरोगग्रस्तस्ततो ययौ । 0123ab
क्षेत्रं स त्रिपुरेशाद्रिनिष्ठज्येष्ठेश्वराश्रितम् ॥ 0123cd

आत्मनस्तत्र निश्चित्र विपत्तिं चिरगोपिताम् । 0124ab
प्राणान्ते प्राञ्जलिः शूरो वैष्णवत्वमदर्शयत् ॥ 0124cd

तेनान्ते भगवद्गीताः शृण्वता भावितात्मना । 0125ab
ध्यायता वैष्णवं धाम निरमुच्यत जीवितम् ॥ 0125cd

:p 76.
विश्वास-प्रस्तुतिः
आषाढशुक्लपक्षस्य तृतीयस्याम् क्षमापतिः51 । 0126ab
वर्षे एकोनषष्ठे स क्ष्मावृषास्तमुपाययौ ॥ 0126cd

तस्मिन्प्रशान्ते प्रत्येकं विभवोत्सिक्तचेतसाम् । 0127ab
तुल्यमुत्पलवंश्यानां राज्येच्छा भूयसामभूत् ॥ 0127cd

ततश्चक्रे प्रतीहारः प्रयत्नाद्रत्नवर्धनः । 0128ab
नृपं शङ्करवर्माणमवन्तिनृपतेः सुतम् ॥ 0128cd

कर्णपो विन्नपामात्यस्तनूजं52 शूरवर्मणः53 । 0129ab
तद्द्वेषात्सुखवर्माख्यं यौवराज्येप्ययोजयत् ॥ 0129cd

अतस्तयोरभूद्वैरं क्षितीशयुवराजयोः । 0130ab
यस्मिन्क्षने क्षणे राज्यमासीद्दोलाभिवाश्रयत् ॥ 0130cd

शिवशक्त्यादयो वीराः स्वामिकार्योज्झितासवः । 0131ab
यत्राभूवन्स्वसत्त्वस्य परीक्षाक्षनलाभिनः ॥ 0131cd

कुर्वतां स्वामिशत्रूणां दानमानप्रतिश्रवम् । 0132ab
सत्त्वैकाग्र्यान्न ते यस्मादानुकूल्यमशिश्रियन् ॥ 0132cd

पिण्डस्पृहां परित्यज्याहङ्कृताः शिक्षिताः क्वचित् । 0133ab
तावन्न वीततमसह् श्ववृत्तिमनुजीविनः ॥ 0133cd

कथञ्चिदथ निर्जित्य युवराजं54 महौजसम् । 0134ab
प्राज्यः स्वविजयोङ्कारश्चक्रे शङ्करवर्मणा ॥ 0134cd

सम्राट्समरवर्माद्यैर्वितीर्णसमरोसकृत् । 0135ab
कीर्तिं श्रिया प्रणयिनीं लब्धयाधिविवेद सः ॥ 0135cd

अथ निर्जित्य दायादांल्लब्ध्वा लक्ष्मीं क्षितीश्वरः । 0136ab
जिष्णुर्दिग्विजयं कर्तुं श्रीमानासीन्महोद्यमः ॥ 0136cd

तस्य कालबलाद्देशे प्रक्षीणजनसम्पदि । 0137ab
लक्षाणि नव पत्तीनां द्वारान्निष्क्रामतोभवन् ॥ 0137cd

स्वपुरस्योपकण्ठेपि योभूत्कुण्ठितशासनः । 0138ab
स एव रत्नोत्तंसेषु राज्ञामाज्ञां न्यवेशयत् ॥ 0138cd

गच्छन्नाम्नायविच्छेदसम्प्रदायः ककुभये । 0139ab
स्वप्रज्ञया समुन्नीतो राज्ञा शङ्करवर्मणा ॥ 0139cd

तत्सेना नरनाथानां पृतनाभिः पदे पदे । 0140ab
कुलापगेव कुल्याभिर्विशन्तीभिरवर्ध्यत ॥ 0140cd

दार्वाभिसारराजेन5556 त्रस्यता57 समुपाश्रिताः । 0141ab
अद्रिद्रोण्यो न वाहिन्यंस्तत्सेनानादमादधुः ॥ 0141cd

जनोल्बणैर्हरिगणैर्गृह्णन्हरिगणं क्षणात् । 0142ab
अनासादितदुर्गं स चक्रे दुर्गान्तरातिथिम् ॥ 0142cd

लक्षाणि नव पतीनां वारणानां शतत्रयी । 0143ab
लक्षं च वाजिनामासीद्यस्य सेनापुरःसरम् ॥ 0143cd

स गूर्जरजयव्ययः स्वपराभवशङ्किनम् । 0144ab
त्रैगर्तं58 पृथिवीचन्द्रं निन्ये तमसि हास्यताम् ॥ 0144cd

पुत्रं भुवनचन्द्राख्यं नीविं[^0145-1] प्रागेव दत्तवान् । 0145ab
स ह्यभूत्प्रणतिं कर्तुं तस्याभ्यर्णमुपागतः ॥ 0145cd

अथ तत्कटकं भ्राम्यद्भूरिमण्डलनायकम् । 0146ab
वीक्ष्य सम्मुखमायान्तं महार्णवमिवोल्बणम् ॥ 0146cd

समागमक्षये यस्माच्छङ्गमानः स्वबन्धनम् । 0147ab
पलाय्य प्रययौ दूरं निर्वाणौजोविजृम्भितः59 ॥ तिलकम्॥ 0147cd

यमप्रतिमसौन्दर्यमद्याप्याहुः पुराविदः । 0148ab
तमेवाद्राक्षुरुत्रस्ता नृपाः कालमिवोल्बणम् ॥ 0148cd

उच्चखानालखानस्य सङ्ख्ये गूर्जरभुभूजः । 0149ab
बद्धमूलां क्षणाल्लक्ष्मीं शुचं दीर्घामरोपयत् ॥ 0149cd

तस्मै दत्त्वा टक्कदेशं60 विनयादङ्गुलीमिव । 0150ab
स्वशरीरमिवापासीन्मण्डलं गूर्जराधिपः ॥ 0150cd

हृतं भोजाधिराजेन स साम्राज्यमदापयत् । 0151ab
प्रतीहारतया भृत्यीभूते थक्कियक्रान्वये ॥ 0151cd

[page 77]
विश्वास-प्रस्तुतिः
दरत्तुरुष्काधिपयोर्थः केसरिवराहयोः । 0152ab
हिमवद्विन्ध्ययोरासीदार्यावर्त इवानतरे ॥ 0152cd

उदभाण्डपुरे61 तस्थुर्यदीये निर्भया नृपाः । 0153ab
पक्षच्छेदव्यथात्रस्ता महार्णव इवाद्रयः ॥ 0153cd

नक्षत्रेष्विव भूपेषु नभसीवोत्तरापथे । 0154ab
यस्यैव विपुला ख्यातिर्मार्तण्डस्येव62 मण्दलम् ॥ 0154cd

स श्रीमांल्लल्लियः63 शाहिरलखानाश्रयः क्रिधा । 0155ab
निराकरिष्णोः64 साम्राज्यात्तस्य सेवां न लब्धवान् ॥ 0155cd

एवं दिग्विजयं कृत्वा प्राप्तः स[^0156-1] निजमण्डलम् । 0156ab
प्रदेशे पञ्चसत्राख्ये स्वनाम्नां विदधे पुराम् ॥ 0156cd

तस्य65 श्रीस्वामिराजस्य तनयोदक्पथप्रभोः66 । 0157ab
पूर्णिमेव क्षपाबन्धोः सुगन्धाख्याभवत्प्रिया ॥ 0157cd

तया समं पुरवरे सुरराजोपमो नृपः । 0158ab
तस्मिञ्शङ्करगौरीशसुगन्धेशौ67 विनिर्ममे ॥ 0158cd

द्विजस्तयोर्नायकाख्यो गौरीशसुरसद्मनोः । 0159ab
चातुर्विद्यः कृतस्तेन वाग्देवीकुलमन्दिरम् ॥ 0159cd

परकाव्येन कवयः परद्रव्येण चेश्वराः । 0160ab
निर्लोटितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥ 0160cd

स्वल्पसत्त्वो नरपतिः स्वपुरख्यापनाय सः । 0161ab
सारापहारमकरोत्परिहासपुरस्य यत् ॥ 0161cd

ख्यातिहेतुः पट्टवानम् पशूनां क्रियविक्रयौ । 0162ab
इत्यादि यत्पत्तनेस्ति तत्तस्मिन्हि पुरोभवत् ॥ 0162cd

राज्यप्रेदेन नृपते रत्नवर्धनमन्त्रिणा । 0163ab
श्रीरत्नवर्धनेशाख्यो व्यधीयत सदाशिवः ॥ 0163cd

चित्रं नृपद्विपाः पूतमूर्तयः कीर्तिनिर्झरैः । 0164ab
भवन्ति व्यसनासक्तिपांसुस्नानमलीमसः ॥ 0164cd

अथ क्रमेण नृपतिर्लोभाभ्यासेन भूयसा । 0165ab
आधीयमानचित्तोभूत्प्रजापीडनपण्डितः68 ॥ 0165cd

आरब्धैर्व्यसनैर्भूम्ना क्षीणकोशः क्षणे क्षणे । 0166ab
देवादीनां स सर्वस्वं जहारायासयुक्तिभिः ॥ 0166cd

कर्मस्थाने पुरगृहग्रामादिधनहारिणा । 0167ab
तेनाaट्टपतिभागाख्यगृहकृत्याभिधे कृते ॥ 0167cd

धूपचन्दनतैलादिविक्रयोत्थं69 समाददे । 0168ab
द्रविणं देववेश्मभ्यः क्रयमूल्यकलाच्छलात्7071 ॥ 0168cd

प्रत्यवेक्षां मुखे दत्त्वा विभक्तैरधिकारिभिः । 0169ab
चतुःषष्टिं सुरगृहान्मुमोषेतरदञ्जसा72 ॥ 0169cd

ग्रामान्देवगृहग्राह्यान्राजा प्रतिकरेण सः । 0170ab
स्वयं स्वीकृत्य चोत्पत्तिं क्ष्मां कार्षक इव व्यधात् ॥ 0170cd

तुलां कृत्वा त्रिभागोनां वर्षदेयां स पर्षदे । 0171ab
भुक्तिकम्बलमूल्यादिदम्भादभ्यधिकं7374 ददौ ॥ 0171cd

दिगन्तरस्थो ग्रामीणानूढभाराननागतान् । 0172ab
तद्देशार्धैर्भारमूल्यं वर्षमेकमदण्डयत् ॥ 0172cd

वर्षेपरस्मिन्निखिलान्भारमूल्यं निरागतान् । 0173ab
तयैव सङ्ख्यया ग्राम्यान्प्रतिग्राममदण्डयत् ॥ 0173cd

इत्येषा रूढभारोढिः प्रथमं तेन पातिता । 0174ab
दारिद्र्यदूती ग्रामाणां या त्रयोदशधा स्थिता ॥ 0174cd

स्कन्दकग्रामकायस्थमासवृत्त्यादिसङ्ग्रहैः । 0175ab
अन्यैश्च विविधायासरिव्यधाद्ग्रामान्स निर्धनान् ॥ 0175cd

तुलापहारोपचयग्रामदण्डादिसङ्ग्रहैः । 0176ab
इत्येष तेन संवाहो गृहकृत्ये प्रवर्तितः ॥ 0176cd

व्यधत्त पञ्च दिविरान्स75 तस्मिन्भिन्नकर्मणि । 0177ab
षष्ठं तथा गञ्जवरं शकचं लवटाभिधम् ॥ 0177cd

[page 78]
विश्वास-प्रस्तुतिः
आत्मनो निरयं मूढः सोङ्गीकृत्येत्युपक्रियाम् । 0178ab
भाविनामकरोद्राज्ञां पापी यद्वा76 नियोगिनाम्77 ॥ 0178cd

निमित्तं मण्डलेमुष्मिन्सविद्यानामनादरे । 0179ab
राज्ञां प्रतापहानौ च नान्यः शङ्करवर्मणः ॥ 0179cd

मुख्येन गुणिनां राज्ञा धनहान्या प्रथापहाः । 0180ab
मूर्खेण येन कायस्था दास्याः पुत्राः प्रवर्तिताः ॥ 0180cd

तथा कायस्थभोज्या भूर्जाता तत्प्रत्यवेक्षया । 0181ab
यथा सञ्जायतेवर्णं78 हरणादिव भूभुजाम् ॥ 0181cd

तस्मिन्घोरे प्रजादुःखे कृपार्द्रः पृथिवीपतिम् । 0182ab
पुत्रो गोपालवर्माख्यः कदाचिदिदमब्रवीत् ॥ 0182cd

प्रदातुस्तात भवतः पूर्वं न्यासीकृतः स्थितः । 0183ab
वरो यः सत्यसन्धस्य सोधुना प्रार्थ्यते मया ॥ 0183cd

कायस्थप्रेरणादेतैर्देवेनाद्य प्रवर्तितैः । 0184ab
आयाससैः श्वासशेषैव प्राणवृत्तिः शरीरिणाम् ॥ 0184cd

न च नामास्ति तातस्य काचिल्लोकद्वयोचिता । 0185ab
मनागपि हितप्राप्तिरेतया जनपीडया ॥ 0185cd

अदृष्टविषयां वार्तां गहनां विवृणोति कः । 0186ab
दृष्टेप्यनिष्टादन्यन्न कर्मणानेन दृश्यते ॥ 0186cd

एकतो व्याधिदुर्भिक्षप्रमुखा विपदोखिलाः । 0187ab
प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ॥ 0187cd

भूभुजोभ्यस्तलोभस्य श्रीः कैश्चिन्नाभिनन्द्यते । 0188ab
अकालकुसुमस्येव फलसम्भावनोज्झिता ॥ 0188cd

दानं च सूनृता सूक्तिर्विश्वसंवननं प्रभोः । 0189ab
लोभः पूर्वं तयोरेव विनाशाय महोद्यमः ॥ 0189cd

प्रतापमायतिं शोभां हेमन्ताहस्य वारिदः । 0190ab
स्मृतिशेषां करोत्येव लोभश्च पृथिवीभुजाम् ॥ 0190cd

दायादा व्ययभीरुतापरिहृतारब्धेर्भवन्त्युन्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न केपि प्रियम् । 0191ab
राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूमर्तुः क्रियते द्विषेव रभसाल्लोभेन किं नाप्रियम् ॥ 0191cd

राजसंवाहनामायं नवायासो जनासुहृत् । 0192ab
तदेष लोभप्रभवः प्रजानाथनिवार्यताम् ॥ 0192cd

श्रुत्वेति राजपुत्रस्य सौजन्येनोज्ज्वलं वचः । 0193ab
स्मितधौताधरो राजा शनैर्वचनमब्रवीत् ॥ 0193cd

तत्राकृत्यविसंवादि वचः सौजन्यपेशलम् । 0194ab
स्मारयत्यद्य मामेतच्चित्तवृत्तिं पुरातनीम् ॥ 0194cd

कुमारभावे पूर्वं मे तवेवार्द्रान्तरात्मनः । 0195ab
प्रजावत्सलता वत्स पर्याप्ता पर्यववर्धत ॥ 0195cd

सोहं घर्मे महद्वर्म शीते दत्त्वाछमंशुकम्79 । 0196ab
पदातिरपपादत्रः पित्रा सञ्चारितोभवम् ॥ 0196cd

मृगव्यादौ हयैः सार्धमटन्तं80 कण्टकक्षतम् । 0197ab
अन्तर्बाष्पं मां विलोक्य तमसूयिषुरग्रगाः ॥ 0197cd

स तानुवाच सामान्यो भूत्वाहं राज्यमाप्तवान् । 0198ab
काले काले सेवकानां जाने सेवापरिश्रमम् ॥ 0198cd

ईदृग्दुःखमयं भुक्त्वा ज्ञास्यत्यन्यव्यथां ध्रुवम् । 0199ab
प्राप्तैश्वर्यो भवेन्मूढो गर्भेश्वरतयान्यथा ॥ 0199cd

उपायैरीदृशैर्योहं कृतः पित्रा सुशिक्षितः81 । 0200ab
तेनापि प्राप्तराज्येन मयैवं पीडिताः प्रजाः ॥ 0200cd

गर्भवासव्यथां जातः शरीरो विस्मरेद्यथा । 0201ab
प्राप्तराज्यस्तथा राजा नियतं पूर्वचिन्तनम्[^0201-1] ॥ 0201cd

त्वयैव तस्मादेकोद्य वरो मह्यं प्रदीयताम् । 0202ab
प्राप्तराज्यः प्रजापीडां मा कार्षीस्त्वमतोधिकाम् ॥ 0202cd

सासूयमिति तेनोक्तः कृतान्योन्यस्मितैर्विटैः । 0203ab
राजाप्तैर्वीक्षितश्चासीत्कुमारो ह्रीनताननः ॥ 0203cd

त्यागभीरुतया तस्मिन्गुणिसङपराङ्मुखः । 0204ab
आसेवन्तावरा वृत्तीः कवयो भल्लटादयः ॥ 0204cd

निर्वेतनाः तु कवयो भारिको लवटस्त्वभूत् । 0205ab
प्रसादात्तस्य दीन्नारसहस्रद्वयवेतनः ॥ 0205cd

[page 79]
विश्वास-प्रस्तुतिः
कल्यपालकुले जन्म तत्तेनैव प्रमाणितम् । 0206ab
क्षीवोचितापभ्रंशोक्तेर्दैवी वाग्यस्य नाभवत् ॥ 0206cd

वेष्टितश्मश्रुरुष्णीषो घ्राणस्याग्रे प्रदेशिनी । 0207ab
धानैकाया दृगित्यासीत्सुखराजस्य82 मन्त्रिणः ॥ 0207cd

योयमार्योचितो वेषो दुर्नयासेविनः प्रभोः । 0208ab
छन्दानुवृत्त्या स प्राप नटस्येव विडम्वनम् ॥ युग्मम्॥ 0208cd

सोनुगैः सह निर्द्रोहं जघान द्रोहशङ्कया । 0209ab
शूरं दार्वाभिसारेशम् शर्वर्यां नरवाहनम् ॥ 0209cd

प्रजाभिशापे पतिते नृपस्योन्मार्गवर्तिनः83 । 0210ab
त्रिंशद्विंशाः84 सुतास्तस्य व्यपद्यन्तामयं विना ॥ 0210cd

वंशः श्रीर्जीवितं दारा नामापि पृथिवीभुजाम् । 0211ab
क्षणादेव क्षयं याति प्रजाविप्रियकारिणाम् । 0211cd

इत्युक्तं वक्ष्यते चाग्रे व्यक्तमेतत्तु चिन्त्यताम् । 0212ab
प्रनष्टं तस्य नामापि यथा क्रूरेण कर्मणा ॥ 0212cd

नाम्ना पत्तनमित्येव85 प्रख्यातं स्वपुरं कृतम् । 0213ab
कस्यान्यस्याभिधाध्वंसि यथा शङ्करवर्मणः ॥ 0213cd

स्वस्रीयः सुखराजस्य तेन द्वाराधिपः कृतः । 0214ab
वीरानकाभिधे86 स्थाने प्रमादादासदद्वधम्87 ॥ 0214cd

तत्कोपात्स स्वयं राजा दत्तयात्रो मदोर्जितः । 0215ab
वीरानकं समुन्मूल्य प्रविवेशोत्तरापथम् ॥ 0215cd

सिन्धुकूलाश्रयान्देशाञ्जित्वा भूरीन्भयातुरैः । 0216ab
कृतानतिर्महीपालैः प्रत्यावृत्तोभवत्ततः ॥ 0216cd

उरशां88 विशतस्तस्य वास्तव्यैरौरशैः समम् । 0217ab
निकेतहेतोः सैन्यानामकस्मादुदभूत्कलिः ॥ 0217cd

गिरिशृङ्गाधिरूढेन श्वपाकेन निपातितः । 0218ab
वेगवाही शरस्तस्य प्रमादादविशद्गलम् ॥ 0218cd

मुमूर्षुराप्तान्कटकं संरक्ष्य नयतेति सः । 0219ab
उक्त्वा कर्णीरथारूढः89 स्थानात्तस्माद्विनिर्ययौ ॥ 0219cd

हीनदर्शनसामर्थ्यः परिज्ञाय शनैर्गिरा । 0220ab
क्रन्दन्त्या वपुरालिङ्ग्य90 स्थितायाः क्षामभाषितः ॥ 0220cd

पुत्रं गोपालवर्माख्यं न्यासीकृत्य च रक्षितुम् । 0221ab
शिशुदेश्यं महादेव्याः सुगन्धाया अवान्धवम् ॥ 0221cd

फाल्गुणे कृष्णसप्तम्यां वत्सरे सप्तसप्ततौ । 0222ab
उत्खायमानविशिखो मार्ग एव व्यपद्यत ॥ तिलकम्॥ 0222cd

सुखराजादयः91 सैन्यं रक्षन्तह् परभूमिषु । 0223ab
वृत्तान्तैर्गोपयन्तस्तं92 यान्त एवाभ्वन्पति ॥ 0223cd

तं यन्त्रसूत्रैस्ते मूर्ध्नो नम्रतोन्नम्रतावहैः । 0224ab
प्रतिप्रणामं प्राप्तानां सामन्तानामकारयन् ॥ 0224cd

षड्भिर्दिनैर्निजे स्थाने प्राप्ते बोल्यासकाभिधे93 । 0225ab
चक्रिरे गतसन्त्रासास्ततस्तस्यान्तसत्क्रियाम् ॥ 0225cd

तिस्रः सुरेन्द्रवत्याद्या राज्ञ्ये राजानमन्वयुः । 0226ab
वेलावित्तः94 कृतज्ञश्च जयसिंहाद्वयः कृती ॥ 0226cd

द्वौ लोडो वज्रसारश्च तं भृत्यावनुजग्मतुः । 0227ab
इति षड्भिश्चितारूढैः सहसाक्रियताग्निसात् ॥ 0227cd

ततो जुगोप गोपालवर्मा धार्मिकतोज्ज्वलः । 0228ab
सुगन्धया पाल्यमानः सत्यसन्धो वसुन्धराम् ॥ 0228cd

मध्ये लालितकादीनां95 दुर्वृत्तानां वसन्नपि । 0229ab
अनतिक्रान्तबाल्योपि दुःसंस्कारान्न सोग्रहीत् ॥ 0229cd

भूपालजननी भोगैर्वैधव्येधिकमुन्मदा । 0230ab
सा प्रभाकरदेवाख्यमचीकमत मन्त्रिणाम् ॥ 0230cd

तथा निर्भरसम्भोगप्रीतया स व्यधीयत । 0231ab
सौभाग्यपदशृङ्गारमौलिचक्रत्रयाङ्कितः ॥ 0231cd

कोशाध्यक्षेण रागिण्यास्तस्या लुण्ठितसम्पदा । 0232ab
उदभाण्डपुरे96 तेन शाहिराज्यं व्यजीयत97 ॥ 0232cd

[page 80]
विश्वास-प्रस्तुतिः
आज्ञातिक्रमिणः शाहिः कृत्वा कमलुकाभिधाम्98 । 0233ab
तोरमाणाय99 स प्रादाद्राज्यं लल्लियसूनवे ॥ 0233cd

प्रत्यावृत्तोथ नगरं विवेश विजयोर्जितः । 0234ab
शौर्यशृग्गारवसतौ साभिमानः स्वविग्रहे ॥ 0234cd

स राजजननीजारः साहङ्कारो100 जयार्जनात् । 0235ab
मानक्षतिमधिक्षेपैर्वीराणां101 व्यधितान्वहम् ॥ 0235cd

क्षुद्रेण कामिना वेश्यावेश्मनीव नृपास्पदे । 0236ab
तेनावृते सम्प्रवेशो माभूदन्यस्य कस्यचित् ॥ 0236cd

शनैर्विज्ञातवार्तस्य धनमानापहारकृत्102 । 0237ab
सोभूदक्षिगतोत्यर्थं राज्ञो गोपालवर्मणः ॥ 0237cd

विद्यते यन्न गञ्जेस्मिंस्तत्सर्वं शाहिविग्रहे । 0238ab
गतमित्यब्रवीद्भूपं स कोशगणनोद्यतम् ॥ 0238cd

अथ गञ्जाधिपो103 राजभूतः खार्खोदवेदिनम् । 0239ab
रामदेवाह्वयं बन्धुमभिचारमकारयत् ॥ 0239cd

तयाभिचारक्रियया भुक्तभूर्वत्सरद्वयम् । 0240ab
गोपालवर्मनृपतिर्जातदाहो व्यपद्यत ॥ 0240cd

व्यक्तीभूतकुकर्मा स राजदण्डभयाकुलः । 0241ab
रामदेवोवधीत्पापः स्वयमेव स्वविग्रहम् ॥ 0241cd

रथ्यागृहीतो गोपालवर्मभ्राताथ सङ्कटः । 0242ab
बभूव प्राप्तराज्यः स दशभिर्दिवसैर्व्यसुः ॥ 0242cd

अथ वंशक्षये वृत्ते राज्ञः शङ्करवर्मणः । 0243ab
प्रजाप्रार्थनया राज्यं सुगन्धा104 विदधे स्वयम्105 ॥ 0243cd

गोपालपुरगोपालमठगोपालकेशवान्106 । 0244ab
सा पुरं च स्वनामाङ्कं विदधे धर्मवृद्धये ॥ 0244cd

गोपालवर्मणो जाया नन्दानिन्द्यान्वयोद्भवा । 0245ab
शिशुरप्यभवन्नन्दामठकेशवधारिणी107 ॥ 0245cd

अन्तर्यत्न्याः क्षणे तस्मिन्पत्न्या गोपालवर्मणः । 0246ab
जयलक्ष्म्यां बबन्धास्थां श्वश्रूः सन्तानकाङ्क्षिणी ॥ 0246cd

तस्यां विपन्नापत्यायां प्रसवान्तेतिदुःखिता । 0247ab
साभूदन्वयिने राज्यं कस्मैचिद्दातुमुद्यता ॥ 0247cd

तस्मिन्काले महीपालनिग्रहानुग्रहक्षमम्108 । 0248ab
तत्र तन्त्रिपदातीनां109 कृतसंहत्यभूत्कुलम् ॥ 0248cd

ततः समाश्रितैकाङ्गा स्वयं संवत्सरद्वयम् । 0249ab
सुगन्धा विदधे राज्यं सा110 मित्रत्वेन तन्त्रिणाम्[^0249-3] ॥ 0249cd

योग्याय दातुं साम्राज्यं कस्मैचित्सा111 किलैकदा । 0250ab
मन्त्राय मन्त्रिसामन्तांस्तन्त्र्यैकाङ्गानढौकयत्111 ॥ 0250cd

अवन्तिवर्मवंशान्ते नप्तारं शूरवर्मणः । 0251ab
गग्गायाः स्वकुटुम्बिन्याः सञ्जातं सुखवर्मणा ॥ 0251cd

अनुव्रतो मे सम्बन्धिस्नेहादेवं भवेदिति । 0252ab
राज्ये निर्जितवर्माख्यं कर्तुं तस्या मनोभवत् ॥ युग्मम्॥ 0252cd

तया तदुक्तं विषयव्यसनित्वेन जागरात् । 0253ab
रात्रौ दिवाशयतया योप्यनुत्थानदूषितः ॥ 0253cd

नाम पङ्गुरिति112 प्राप राज्ये का तस्य योग्यता । 0254ab
इत्युदीर्याभवन्घ्नन्तो यावत्केचन मन्त्रिणः ॥ 0254cd

संहतैर्भेदनिर्यातैस्तावन्निर्जितवर्मजः । 0255ab
दशवर्षः कृतो राजा पार्थस्तन्त्रिपदातिभिः ॥ तिलकम्॥ 0255cd

ते113 गञ्जाधिपवाक्यानां सुगन्धोत्पाटनात्कृतम् । 0256ab
प्रायश्चित्तममन्यन्त मानक्षतिविधायिनाम् ॥ 0256cd

ता राजधान्याः114 साम्राज्यपरिभ्रष्टा विनिर्ययौ । 0257ab
कृताधिकारा115 हारस्य पातितैर्बाष्पबिन्दुभिः ॥ 0257cd

शरणं प्रत्यभाद्भृत्यो यो यस्तस्याः क्रमागतः । 0258ab
तं तमेक्षिष्ट निर्यान्ती विपक्षैः सह सङ्गतम् ॥ 0258cd

वर्षे एकान्ननवते116 सम्भूयैकाङ्गसैनिकाः । 0259ab
गत्वा सुगन्धामानिन्युः पुनर्हुष्कपुरस्थिताम्117 ॥ 0259cd

:p 81.
विश्वास-प्रस्तुतिः
तामापतन्तीमाकर्ण्य पार्थानुग्रहका मदात् । 0260ab
चैत्रान्ते तन्त्रिणः सर्वे निर्ययुः समरोन्मुखाः ॥ 0260cd

ते जित्वा नवते वर्षे वैशाखे भिन्नसंहतीन् । 0261ab
एकाङ्गान्व्यूढसङ्घातान्बबन्धुस्तां पलायिताम् ॥ 0261cd

निष्पालकविहारान्तस्तैर्बद्धा स व्यपद्यत । 0262ab
अनित्यपतनोच्छ्राया विचित्रा भाग्यवृत्तयः ॥ 0262cd

अस्मिन्धनजनक्षैण्यनिमित्तं मण्डलोत्तमे । 0263ab
सर्वतोदिक्कमुत्तस्थावथानर्थपरम्परा ॥ 0263cd

जनकः पालको भूत्वा पङ्गुर्बालस्य118 भूपतेः । 0264ab
सामात्योपीडयल्लोकमुत्कोचग्रहतत्परः ॥ 0264cd

भूभुजो ग्रामकायस्था इवान्योन्यविपाटनम् । 0265ab
दत्ताधिकाधिकोत्कोचा विदधुस्तन्त्रिसेवया ॥ 0265cd

यद्राजैः119 कन्यकुब्जाद्या विलब्धास्तत्र मण्डले । 0266ab
तन्त्रिणां हुण्डिकादानाद्भूभुजां जीविकाभवत् ॥ 0266cd

विष्णुः पुराणाधिष्ठाने120 मेरुवर्धनमन्त्रिणा121 । 0267ab
श्रीमेरुवर्धनस्वामिनामा येन व्यधीयत ॥ 0267cd

तदात्मजाः122 क्षणे तस्मिन्गहनद्रोहचाक्रिकाः । 0268ab
चक्रुर्निगूढराज्येच्छाः प्रजायासैर्धार्जनम् ॥ युग्मम्॥ 0268cd

सार्धं सुगन्धादित्येन123 गूढं शङ्करवर्धनः । 0269ab
तेषां ज्येष्ठो बद्धसख्यो124 मुमोष नृपमन्दिरम् ॥ 0269cd

क्षीणप्रजे क्षणे तस्मिन्क्षारपात इव क्षते । 0270ab
उदीपः125 प्लाविताशेषशरच्छालिरजृम्भत ॥ 0270cd

खार्यां सहस्रक्रेयायां दुर्लभे भोजनेभवत् । 0271ab
वर्षे त्रिनवते126 घोरे दुर्भिक्षेण जनक्षयः ॥ 0271cd

शवैश्चिरप्रविष्टाम्बुसंसेकोच्छूनविग्रहैः । 0272ab
वितस्ता सर्वतश्छन्ना दुर्लक्ष्यसलिलाभवत्127 ॥ 0272cd

विश्वतोस्थिमये जाते128 नैविद्यात्क्षितिमण्डले । 0273ab
सर्वभूतभयादपि श्मशानैक्यमजायत ॥ 0273cd

महार्हधान्यसम्भारविक्रयप्राप्तसम्पदः129 । 0274ab
मन्त्रिणः क्ष्मापतेः प्रापुस्तान्त्रिणश्च धनाढ्यताम् ॥ 0274cd

आधेयः130 क्ष्माभुजः सोभून्मन्त्री यस्तादृशीः प्रजाः । 0275ab
विक्रीय वाहयन्नासीत्तन्त्रिणां हुण्डिकाधनम् ॥ 0275cd

अटव्यां वृष्टिसम्पाते131 वातवर्षैरुपद्रुतम् । 0276ab
बहिः सर्वं जनं पश्यन्कश्चित्प्राप्नोष्णमन्दिरः ॥ 0276cd

यथा तथा जनं दुःस्थं वीक्ष्य कापुरुषश्चिरम् । 0277ab
राजधानीस्थितः पङ्गुः स्वसुखं वह्वमन्यत ॥ युग्मम्॥ 0277cd

तुञ्जीनचन्द्रापीडादिप्रजापालप्रियाः प्रजाः । 0278ab
एवं तस्मिन्क्षणे नीताः सङ्क्षयं राजराक्षसैः ॥ 0278cd

प्रापुश्चिरमवस्थानं पार्थिवा न तदा क्वचित् । 0279ab
धारासम्पातसम्भूता बुद्बुदा इव दुर्दिने ॥ 0279cd

पार्थः पितरमुत्पद्य कदाचित्प्राभवत्स्वयम् । 0280ab
कदाचित्स तमुत्पाद्य तन्त्रिचक्रिकयाप्यभूत् ॥ 0280cd

अप्रीणयत्पङ्गुवधूवडवामण्डलं युवा । 0281ab
सुगन्धादित्यवीजाश्वो132 व्यवायविधिसेवया133 ॥ 0281cd
विश्वास-प्रस्तुतिः
राज्ञ्या134 बप्पटदेव्याः स निर्दयैः सुरतोत्सवैः । 0282ab
खण्डयामास कण्डूतिं साप्यस्यार्थेषणां धनैः ॥ 0282cd

भगिनीभगसौभाग्यबद्धराज्याः स्वयं ददुः । 0283ab
यां पङ्गवे मनोज्ञाङ्गीं मेरुवर्धनसूनवः ॥ 0283cd

सुगन्धादित्यमौत्सुक्यात्सापि देवी मृगावती । 0284ab
स्वयं सम्बुभुजेभ्यर्थ्य कान्ता कामितकामिनी ॥ 0284cd

पर्यायेणाभवद्भृत्यः स तयोर्भोगवृद्धये135 । 0285ab
दरिद्रयोषितोरेकं भुक्तिपात्रमिवान्वहम् ॥ 0285cd

[page 82]
विश्वास-प्रस्तुतिः
पुत्रयो राज्यलाभाय स्पर्धयाभ्यां स्वमन्त्रिणे । 0286ab
दत्ता निधुवनश्रद्धा धनदानैः136 सदक्षिणा ॥ 0286cd

अथा पार्थं समुत्पाद्य तत्पिता पङ्गुराश्रितः । 0287ab
तन्त्रिभिः सप्तनवते वर्षे पौषेभिषेचितः ॥ 0287cd

माघेष्टानवते वर्षे सोभिष्य्च्य शिशुं सुतम् । 0288ab
चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत ॥ 0288cd

पैतृकं वाञ्छतो राज्यं पार्थस्यानुचरा व्यधुः । 0289ab
एकाङ्गैः सह सङ्ग्रामं तत्र तन्त्रिपदातयः ॥ 0289cd

मातुर्बप्पटदेव्याः स कञ्चित्कालं शिशुर्नृपः । 0290ab
मातामह्याः क्षिल्लिकायाः137 पाल्यस्त्वासीत्समा दश ॥ 0290cd

बाल्यादव्यक्तदौःशील्ये तस्मिंस्तत्पालनं तयोः । 0291ab
निर्दोषमासीदण्डस्थफणिलालनसनिभम् ॥ 0291cd

जातः पङ्गोर्मृगावत्यां138 नवमेब्देथ तन्त्रिभिः139 । 0292ab
चक्रवर्त्माणमुत्पाद्य शूरवर्मा नृपः कृतः ॥ 0292cd

निःस्नेहा मातुलामत्याः प्रययुः स्वार्थतत्पराः । 0293ab
अदत्त्वा तन्त्रिणां देयम् तस्योत्पाटनहेतुताम् ॥ 0293cd

अदुर्वृत्तोपि स क्ष्माभृद्विना भूरिधार्पणम् । 0294ab
गुणवानिव वेश्यानां तन्त्रिणां नाभवत्प्रियः ॥ 0294cd

वर्षे गते तमुत्पाद्य दृष्टोत्पत्तितया नृपम् । 0295ab
बह्वर्थदं पुनः पार्थं व्यधुतन्त्रिपदातयः ॥ 0295cd

अभूत्साम्बवती वेश्या साम्बेश्वरविधायिनी140 । 0296ab
पार्थप्रिया तन्त्रिचक्रसङ्ग्रहे ज्ञातचक्रिका ॥ 0296cd

कालापेक्षी चक्रवर्मा ततोप्यैच्छद्धनं बहु । 0297ab
एकादशाब्दस्याषाढे कृतो भूयोपि तत्न्त्रिभिः ॥ 0297cd

पार्थादीन्यैः141 समुत्पाद्य भुक्तं चक्रिकया पुरा । 0298ab
तैस्तैः स्थानैश्च ये तेभ्यो142 जीवनाद्युपलेभिरे ॥ 0298cd

पिता143 भ्राता144 च यैरस्य145 राज्यादुत्पाटितोभवत् । 0299ab
सम्बन्धिभ्योपि यैर्द्रुग्धं कन्यां146 दत्त्वेतरेतम्147 ॥ 0299cd

अकरोद्दृष्टदोषाणां तेषामेव स नष्टधीः । 0300ab
मेरुवर्धनपुत्राणामधिकारसमर्पणम् ॥ तिलकम्॥ 0300cd

कृतोक्षपटलाधीशस्तेन शङ्करवर्धनः । 0301ab
गृहकृत्येप्यसत्कृत्यो दाम्भिकः शम्भ्वर्धनः ॥ 0301cd

पौषे तस्यैव वर्षस्य धनाभावात्स तन्त्रिणाम् । 0302ab
अदत्तहुण्डिकादेयः पलायिष्ट भयाकुलः ॥ 0302cd

स्थिते मडवराज्यान्तस्तस्मिञ्शङ्करवर्धनः । 0303ab
राज्यार्थी तन्त्रिणां दूतं प्राहिणोच्छम्भुवर्धनम् ॥ 0303cd

आवर्जितैः स निखिलैरधिकोत्कोचचर्चया । 0304ab
वञ्चयित्वाग्रजं राज्ये तैः स्वमेवाभ्यषेचयत् ॥ 0304cd

तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्क्ते मौनी बकस्तिमिमुपेत्य वनान्तवासी । 0305ab
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते पात्राण्युपर्युपरि वञ्चनचञ्चुतायाः148 ॥ 0305cd

भ्रष्टश्रीश्चक्रवर्माय निशि श्रिढक्ववासिनः । 0306ab
एकदा डामराग्र्यस्य सङ्ग्रामस्याविशद्गृहम् ॥ 0306cd

ज्ञात्वा कान्तिविशेषेण राजानं स कृताञ्जलिः । 0307ab
प्रणम्य ग्राहयामास सम्भ्रमान्निजमासनम् ॥ 0307cd

राज्यभ्रंशादिवृत्तान्तमुक्त्वा साहायकार्थिनम् । 0308ab
तं विपत्पेशलं प्रह्वो विचिन्त्योवाच डामरः ॥ 0308cd

तन्त्रिणां वा तृणानां वा राजन्का गणना रणे । 0309ab
त्वत्सेवनार्थं सामर्थ्यं कस्मिन्न मम कर्मणि ॥ 0309cd

प्राप्तोत्साहः पुनर्नूतनमस्मानेव149 हनिष्यसि । 0310ab
विस्मरन्त्युपकारं हि कृतकार्या महीभुजः ॥ 0310cd

ऊर्ध्वारोहे य आलम्बहेतुर्भूभृच्छिनत्ति तम् । 0311ab
कुठारिकस्तरुस्कन्धमिवाधोगमनोन्मुखः ॥ 0311cd

धीधैर्यादिप्रकर्षेण येनोपक्रियते नृपः । 0312ab
प्राप्तोदयः स तेनैव शङ्क्यं वेत्त्युपकारिणम् ॥ 0312cd

[page 83]
विश्वास-प्रस्तुतिः
अस्मिन्स्थिते विपदभूदिति सञ्चिन्त्य वर्ज्यते । 0313ab
मूढैः परिवृढैरापत्सेवको मङ्गलेच्छुभिः ॥ 0313cd

सम्पद्यापत्सहायस्य विस्मृतोपक्रिया नृपाः । 0314ab
मध्ये प्रमादस्खलितमुत्पन्नं हृदि कुर्वते ॥ 0314cd

आमयार्तिपुत्रासक्षुदादौ दृष्टवैकृतान् । 0315ab
लब्धोदया ह्रीभयेन क्ष्मापा घ्नन्त्यनुयायिनः ॥ 0315cd

राज्ञः150 सतोपि नाश्वासो यस्येभस्येव कर्णयोः । 0316ab
अविशुद्धप्रकृतयो151 ध्वनन्ति मधुपा इव ॥ 0316cd

दिवसे सन्निधानेन पिशुनप्रेरणा प्रभोः । 0317ab
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ॥ 0317cd

राजन्रजन्युपाध्यायो देवी यच्छिक्षयेद्रहः । 0318ab
तत्र प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥ 0318cd

कथञ्चिदह्नि हृदये कुशलैर्विनिवेशिता । 0319ab
शिक्षा गौरखरेणेव152 राज्ञा विस्मार्यते निशि ॥ 0319cd

न के लोभं153 समुत्पाद्य जिह्वया स्निग्धदीर्घया । 0320ab
पिपीलिका इव ग्रस्ताः क्ष्मापालैः शल्यकैरिव ॥ 0320cd

जानाति हन्तुं हन्तव्यमासन्नं न तु दूरगम् । 0321ab
एको बकः परः154 सत्यं द्रोहवृत्तिर्महीपतिः ॥ 0321cd

न नाम कण्टकाकीर्णः कौटिल्यं लक्ष्यतां नयेत् । 0322ab
कालापेक्षी क्षितिपतिः शरीरमिव जाहकः155 ॥ 0322cd

नमन्नपि हरिर्हन्यादाश्लिष्यन्नपि पन्नगः । 0323ab
विहसन्नपि वेतालः स्तुवन्नपि महीपतिः ॥ 0323cd

अद्रोहवृत्त्या तस्मात्त्वं द्रक्ष्यस्यस्यस्मान्सदा यदि । 0324ab
ससैन्यस्ते तदेषोहं प्रातरेव पुरःसरः ॥ 0324cd

तदाकर्ण्याब्रवीद्राजा लज्जास्मितसिताधरः । 0325ab
स्वात्मेव यूयं संरक्ष्या मम पूर्वोपकारिणः ॥ 0325cd

ततो निक्षिप्य चरणं रक्ताक्ते मेषचर्मणि । 0326ab
कोशं156 चक्रतुरन्योन्यं सखड्गौ नृपडामरौ ॥ 0326cd

अथ सङ्घटितासङ्ख्यचण्डडामरमण्डलः । 0327ab
चक्रवर्माकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ 0327cd

तस्मिन्क्षणे पुरस्कृत्य योद्धुं शङ्करवर्धनम् । 0328ab
विनिर्ययुः सिताष्टम्यां चैत्रे तन्त्रिपदातयः ॥ 0328cd

कालानुवृत्तिप्रच्छन्नं तेषां सम्भावनोज्झितम् । 0329ab
स तत्वरे पुरस्कर्तुं चक्रवर्मा स्वविक्रमम् ॥ 0329cd

अथ प्रवृत्ते सङ्ग्रामे घोरे पद्मपुराद्बहिः । 0330ab
जघान प्रेरितहयः पूर्वं शङ्करवर्धनम् ॥ 0330cd

हते सेनाधिपे तत्र शतधा तन्त्रिवाहिनी । 0331ab
प्रययौ पवनाघातप्रेरिता157 नौरिवार्णवे ॥ 0331cd

पृष्ठानुसरणोद्युक्तो158 नृपस्तेषामपाहरत् । 0332ab
गतिं तुरगवेगेन शिरःश्रेणिं तथासिना ॥ 0332cd

भ्रमतः समरे बभ्रुर्वीरपट्टाञ्चलच्छटाः159160 । 0333ab
चक्रवर्ममृगेन्द्रस्य सटापटलविभ्रमम् । 0333cd

किमन्यत्पञ्चपाण्यासन्सहस्राणि रणाङ्गने । 0334ab
पतितानि क्षणादेव हतानां तत्र तन्त्रिणाम् ॥ 0334cd

तन्त्रिणो रणसंरम्भपरिश्रान्ताः क्षमातले । 0335ab
गृध्रपक्षकृतच्छाये शायिताश्चक्रवर्मणा ॥ 0335cd

विशुद्धवंश्यैर्गुणिभिर्निहतैः161 संश्रितैः समम् । 0336ab
अभूषयद्वीरशय्यां शूरः शङ्करवर्धनः ॥ 0336cd

उदयं संहता एव संहता एव च क्षयम् । 0337ab
प्रयान्तः स्पृहणीयत्वं तन्त्रिणः कस्य नागमन् ॥ 0337cd

माननीयानधृष्यांश्च महावंश्यान्महीपतीन् । 0338ab
अहीनिव खिलीकृत्य भिक्षयन्तः क्षणे क्षणे ॥ 0338cd

[page 84]
विश्वास-प्रस्तुतिः
अनयन्क्रीडया व्रीडां माद्यन्तो जीविकाकृते । 0339ab
प्रागाहितुण्डिकाः क्रूरा इव ये गर्ह्यवृत्तयः ॥ 0339cd

ते तेन्त्रिणः क्षणाद्दग्धा गूढवैरविषाग्निना । 0340ab
विमाननाविविग्नेन चक्रवर्ममहाहिना ॥ तिलकम्॥ 0340cd

अथ द्वितीये दिवसे भग्नानामपि तन्त्रिनाम् । 0341ab
वीरः सङ्घटनां यावदकरोच्छम्भुवर्धनः ॥ 0341cd

तावन्मिलितसामान्तसचिवैकाङ्गलालितः । 0342ab
सैन्यैर्नानापथायातैर्नदद्भिर्व्याप्तदिक्पथः ॥ 0342cd

वल्गन्मध्येश्ववाराणां नृत्यतेवाग्र्यवाजिना । 0343ab
वल्गाङ्केनोद्वहंल्लम्बं शिरश्च वामपाणिना ॥ 0343cd

सस्वेदेतरहस्ताग्रवेष्टनोल्लासनस्पृशः162 । 0344ab
खड्गस्य बिम्बितार्कस्य भाभिर्द्योतितकुण्डलः ॥ 0344cd

कवचोत्सेधसंरब्धकण्ठायासेन163 ताम्यता । 0345ab
बद्धभ्रुकुटिबन्धेन164 वदनेन भयावहः ॥ 0345cd
विश्वास-प्रस्तुतिः
तर्जयन्कृतहुङ्कारांल्लुण्ठितापणान् । 0346ab
शिरोक्षिसञ्ज्ञया त्रस्तवास्तव्यकृतसान्त्वनः ॥ 0346cd

भेरीरवैः श्रुतिं भिन्दन्पौराशीर्घोषरोधिभिः । 0347ab
सङ्ग्रामजयशोभाङ्कश्चक्रवर्माविशत्पुरम् ॥ कुलकम्॥ 0347cd

तस्मिन्सिंहासनं प्राज्यमाक्रामति165 जयोर्जिते । 0348ab
बद्ध्वा कुतश्चिदानिन्ये भूभटः शम्भुवर्धनम् ॥ 0348cd

राज्ञः पुरस्तात्तं शस्त्रपातभीमीलितेक्षणम् । 0349ab
भक्तिं प्रदर्शयन्पापश्चण्डाल इव सोवधीत् ॥ 0349cd

उज्झतां धर्ममर्यादां भृत्यानां जनकोपमान् । 0350ab
हन्तुं नरेन्द्रान्द्रोहेण प्रारम्भः शम्भुवर्धनः166 । 0350cd

प्राप्य निष्कण्टकं राज्यं चक्रवर्मनृपः क्रमात् । 0351ab
अजायत धृतोत्सेको नृशंसविषमक्रियः ॥ 0351cd

स्वविक्रमकथास्तोत्ररोमन्थप्रियताहृतः । 0352ab
सोभवद्विटवन्द्यादिचाटुकारविधेयधीः ॥ 0352cd

आत्मानं दैवतमिव स्तुतिमोहितचेतसः । 0353ab
जानतः प्राभवंस्तस्य विवेकविगुणाः क्रियाः ॥ 0353cd

तस्मिन्प्रसङ्गे रङ्गाख्यः प्रख्यातो डोम्बगायनः । 0354ab
वैदेशिकोभवद्राज्ञा वितीर्णावसरो बहिः ॥ 0354cd

प्राप्तान्सचिवसामन्तान्विन्यस्यन्तो यथाक्रमम् । 0355ab
प्रतीहारा नृपस्याग्रमनयन्त विविक्तताम् ॥ 0355cd

विबभौ धवलोष्णीषा सभा दीपप्रभोज्ज्वला । 0356ab
शेषशय्येव मणिभिः कृतालोका फणोद्भवैः ॥ 0356cd

कृतावरोधधम्मिल्लमालान्दोलनकेलिभिः । 0357ab
प्रदोषपवनैश्चक्रे शिशिरैर्त्राणतर्पणम् ॥ 0357cd

जातगीतदिदृक्षाणां गवाक्षावलयो बभुः । 0358ab
आसवामेदिभिर्वक्त्रैरवरोधमृगीदृशाम् ॥ 0358cd

हारकङ्कणकेयूरपारिहार्यादिशोभिना । 0359ab
स्ववृन्देनानुयातोथ प्राविशड्डोम्बगायनः ॥ 0359cd

हंसी नागलता चास्य सुते ललितलोचने । 0360ab
चक्रतुः कौतुकोद्ग्रीवां सभां चित्रार्पितामिव ॥ 0360cd

तयोर्विलासवलितैश्चलितापाङ्गविभ्रमैः । 0361ab
द्वितीयपुष्पप्रकरो व्यकीर्यत सभान्तरे ॥ 0361cd

गायनैर्जय जीवेति कृतकोलाहलैरभूत् । 0362ab
सदः सशब्दं कुर्वद्भिस्तत्तन्नृपगुणग्रहम्[^0362-1] ॥ 0362cd

भुक्तोत्तरोचितोदञ्चत्पञ्चमस्थानचारिणः । 0363ab
वंशै रागविशेषस्य दत्ते स्थाने167 ततः शनैः ॥ 0363cd

अविक्रियशिरःकम्पभ्रूनेत्रभ्रमशोभितः । 0364ab
अभिन्न इव गायन्योर्गीतध्वनिरजृम्भत168 ॥ 0364cd

अथ ताम्बूलरोमन्थत्यागनिश्चलमूर्तिना । 0365ab
जातं राजकुरङ्गेण प्रमोदास्पन्ददृष्टिना ॥ 0365cd

गायन्यौ169 भावमालक्ष्य169 तस्य स्निग्धमगायताम् । 0366ab
अधिकोद्रेचिताभिख्यं विलासस्मितविभ्रमैः ॥ 0366cd

[page 85]
विश्वास-प्रस्तुतिः
राज्ञस्तयोश्च संसक्तचित्रयोरितरेतरम् । 0367ab
दृग्व्यापारैः स्वसंवेद्यैः संलाप इव पप्रथे ॥ 0367cd

नृपं हारितचित्तं तं विज्ञायैकः प्रियो विटः । 0368ab
ततः170 प्रसङ्गे प्रोवाच प्रीतिवृद्धिकरं वचः ॥ 0368cd

देव गीतमिदं यातं सम्प्रप्यैते मनोरमे । 0369ab
कर्पूरपारीपतितं मैरेयमिव हारिताम्171 ॥ 0369cd

गायन्योर्मार्जितामेतां172 रागाद्दन्तचतुष्किकाम्173174 । 0370ab
अनयोः प्रतिमाव्याजाच्चुमबीव निशाकरः ॥ 0370cd

करन्यस्तकपोलान्तमुद्गायन्त्याविमे ध्रुवम् । 0371ab
कटाक्षैः कुतुतो व्योम्नि वैमानिकविमोहनम् ॥ 0371cd

जानत्यास्वाश्रयां चर्चामनयोरेकयात्रयोः । 0372ab
असूरास्मितगर्भोयं कटाक्षः पश्य पातितः ॥ 0372cd

गायन्त्येकानतमुखी कर्णव्यालोलकुण्डला । 0373ab
विपरीतरतोद्रेककृतारम्भेव शोभते ॥ 0373cd

सफलं तस्य तारुण्यमीदृश्यो निर्जने स्त्रियः । 0374ab
औत्सुक्याद्विरहे यस्य गायन्त्येवंविधैः स्वरैः ॥ 0374cd

उपपत्तिपरित्यक्तशास्त्रानुष्ठानमोहितैः । 0375ab
एकसार्थप्रयातेभ्यः कथमेको विवर्ज्यते ॥ 0375cd

नेत्रस्य रूपं श्रोत्रस्य ध्वनिं संस्पृशतो न चेत्175 । 0376ab
तदङ्गस्यान्यकान्ताङ्गं176 स्पृशतो दुष्कृतं कुतः ॥ 0376cd

अभिलाषाङ्कुरः सिक्त इव तैर्विटभाषितैः । 0377ab
राज्ञः स्वभावलोलस्य शतशाखस्वमाययौ ॥ 0377cd

ये177 विस्तारितवर्णसङ्कररुचः178 सन्दर्श्य गोत्रान्तकृद्बद्धावस्थितिचापलङ्घनमलं179 पार्श्वे ध्वनन्त्युद्धताः । 0378ab
नीयन्ते180 विपथावपातपरतां181 लब्धोदयैस्तैः क्षनात्सिंहा वारिधरैरमी च रभसाद्भूपालसिंहा182 विटैः ॥ 0378cd

वस्तु क्षणादनुपपत्त्युपपत्तियुक्तं कृत्वा जडान्यदि विमोहयितुं समर्थाः । 0379ab
न स्युर्विटा अथ कुतर्कपथस्थिताश्च नित्योद्वसेषु183 निरयेषु मृगाश्चरेयुः ॥ 0379cd

सन्तोष्य हारकेयूरकुण्डलैर्डोम्बमण्डलम् । 0380ab
अमार्गत्यागराधेयः184 शुद्धान्तमगमन्नृपः ॥ 0380cd

कान्तोस्याः क्षितिवल्लभोयमभिधेत्युर्वीपतेरेकतो185186 ब्रूतेसावतिचण्डताण्डवयुतं187 डोम्बः स्वनामान्यतः188 । 0381ab
मध्ये यत्किमपेति189 गीतरचना काव्यं190 यदेतद्विदो191 यल्लक्ष्मीं192 क्षपयन्ति[^0381-9] तान्धिगबुधान्कीर्त्यर्थिनः पार्थिवान् ॥ 0381cd

वेश्यानुरागस्य महेन्द्रचापधाम्नो हरिद्रारसरञ्जनस्य । 0382ab
ज्याङ्गगीतस्य च हारिणोपि सौन्दर्यमस्यैर्यहतप्रकर्षम् ॥ 0382cd

दर्शनाभ्याससंवृद्धचक्षूरागः क्षमापतिः । 0383ab
विना श्वपाककन्ये ते न पुनः प्राप निर्वृतिम् ॥ 0383cd

गायन्त्यौ शयनोपान्ते शनैर्विहितचुम्बनम् । 0384ab
नृपं रतिमुखाभिज्ञं तं हटात्ते पचक्रतुः ॥ 0384cd

समागमेन नव्येन तयोर्वैयात्यशोभिना । 0385ab
चक्रे क्षपितसामर्थ्यः स लज्जोद्वहनाक्षमः ॥ 0385cd

रत्यन्तसुलभोद्भेदैर्निःसृतैः स्वेदबिन्दुभिः । 0386ab
भाग्योष्मसङ्क्षयजडं वपुस्तस्य व्यधीयत ॥ 0386cd

रागान्धेन कृता हंसी महादेवी महीभुजा । 0387ab
भेजे राजवधूमध्ये बालव्यजनवीजनम् ॥ 0387cd

[page 86]
विश्वास-प्रस्तुतिः
तस्य यैर्भुक्तमुच्छिष्टं ते यथा चक्रवर्मणः । 0388ab
नृपान्तराणामन्येषामप्यभुवन्सभासदः ॥ 0388cd

मन्त्रिणामक्षपटलप्रख्यमुख्याधिकारदा193 । 0389ab
प्रवृद्धिहेतुतां प्राप डोम्बसेवनचक्रिका ॥ 0389cd

मौर्ख्यात्सचिवतां केचिच्छ्वपाका न व्यधुः स्वयम् । 0390ab
केचित्त्वकुर्वन्नीतिज्ञा राजकार्याणि मन्त्रिवत् ॥ 0390cd

मन्त्रिणस्तस्करा राज्ञी श्वपाकी श्वपचाः प्रियाः । 0391ab
किं च लोकोत्तरमभूद्भूपतेश्चक्रवर्मणः ॥ 0391cd

ऋतुस्नातार्तवाङ्कानि194 श्वपाकी स्वांशुकान्यदात् । 0392ab
तदाच्छादनदृप्तेच्छा मन्त्रिणः प्रावैशन्सभाम् ॥ 0392cd

कैश्चित्क्षित्भुजा वैरमङ्गीकृत्यापि तत्क्षणम् । 0393ab
यैर्नाशि श्वपचोच्छिष्टं तेभूवन्तोमपैः समाः ॥ 0393cd

मण्डलेस्मिन्प्रभावोग्रा न देवा न्यवसन्ध्रुवम् । 0394ab
तद्वेश्मानि तदा नो चेच्छ्वपाकी प्राविशोत्कथम् ॥ 0394cd

तां रणस्वामिनं द्रष्टुं तिलद्वादश्यहे गताम् । 0395ab
सामन्तेभ्यः साभिमाना नान्वयुर्डामराः परम्195 ॥ 0395cd

राजकौटुम्ब्यदृप्तानां डोम्बानां निर्गता मुखात् । 0396ab
राज्ञामिवाज्ञा दुर्लङ्घ्या न केनाप्युदलङ्घ्यत ॥ 0396cd

राज्ञा प्रदत्ते रङ्गाय हेलुग्रामेग्रहारवत्196 । 0397ab
लिलेख पट्टोपाध्यायो न यदा दानपट्टकम् ॥ 0397cd

तदाक्षपटलं गत्वा रङ्गः कोपात्तमब्रवीत् । 0398ab
रङ्गस्स हेलु दिण्णेति197 दासीसुत न लिख्यते ॥ 0398cd

लिलेखः सोथ सन्त्रासाद्रङ्गभ्रूभङ्गतर्जितः । 0399ab
को198 न राजनि दुर्वृत्ते भवेन्नीतिव्यतिक्रमः199 ॥ 0399cd

अन्त्यागमनपापस्य पापः पृच्छन्स निष्कृतिम् । 0400ab
विटैर्हास्यावहान्येव प्रायश्चित्तानि कारितः ॥ 0400cd

हिमेनैव हिमं शाम्येडुष्कृतेनैव दुष्कृतम् । 0401ab
सोनुशिष्टो विटैरेवम् दधत्पामरसारताम्200 ॥ 0401cd

पवित्रास्पर्शतोस्पृश्यास्पर्शपापं जिहीर्षुणा । 0402ab
तेनादूष्यत विप्रस्य योषिन्मासोपवासिनः ॥ 0402cd

ततोपि पापिनोभूवन्केपि तस्मिन्क्षणे द्विजाः । 0403ab
तस्मादप्यग्रहारान्ये जगृहुर्गृहभोजिनः ॥ 0403cd

चक्रे चक्रमठं सोपि पापः पाशुपताश्रयम् । 0404ab
तस्मिन्हतेर्धनिष्पन्नं तद्वधूर्यमयोजयत्201 ॥ 0404cd

पूर्वोपकारान्विस्मृत्य डामरान्स निरागसः । 0405ab
नृपतिः श्वपचाकामी विश्वस्तांश्छद्मनावधीत् ॥ 0405cd

हन्तुंव्याजेन विश्वस्ताः केचिड्डामरतस्कराः । 0406ab
तस्थुस्तस्यान्तिके द्रोहच्छिद्रानेहःप्रतीक्षिणः ॥ 0406cd

श्वपाकीशयनावासासन्नावस्करमन्दिरे । 0407ab
शौचस्थितं तं शिःशस्त्रं ते रात्रौ प्रापुरेकदा ॥ 0407cd

अथ तैः प्राप्तमयैरकस्मात्तस्य सर्वतः । 0408ab
क्षिप्रं न्यपात्यताशेषशातशस्त्रपरम्परा ॥ 0408cd

सुप्रस्तटाद्ध्रदे भ्रष्ट इव निद्रालसेक्षणः । 0409ab
प्रबुद्धः शस्त्रपातैः स व्यमुचद्भैरवान्रवान् ॥ 0409cd

निःशस्त्रः शस्त्रमन्विष्यन्क्षरत्क्षतजनिर्झरः । 0410ab
अनुद्रुतोरिभिर्धावञ्छय्यावेश्म विवेश तत् ॥ 0410cd

अप्राप्तहेतिं क्रन्दन्त्या श्वपाक्यालिङ्गिताङ्गकम् । 0411ab
तत्कुचोत्सङ्गलग्नाङ्गं जघ्नुस्तेनुप्रविश्य तम् ॥ 0411cd

स्वैरेव प्रेरिता दारैस्ते तस्य नृपतेः किल । 0412ab
मुमूर्षोर्जानुनी स्वैरं शिलया202 समचूर्णयन् ॥ 0412cd

त्रयोदशाब्दे ज्यौष्ठस्य शुक्लाष्टम्यां क्षपाक्षणे । 0413ab
श्वपाकभोग्यः स श्वेवावस्करे तस्करैर्हतः ॥ 0413cd

उन्मत्तावन्तिनामाथ पार्थसूनुर्दुराशयः । 0414ab
अभ्यषिच्यत वैधेयैः सचिवैः शर्वटादिभिः ॥ 0414cd

श्वपाकीकामुके पापे निहते निशि तस्करैः । 0415ab
प्रजानां पाप्मना सोभूत्पापात्पापतरो नृपः ॥ 0415cd

[page 87]
विश्वास-प्रस्तुतिः
स्थगिता तत्कथापापस्पर्शभीत्या सरस्वती । 0416ab
कथञ्चित्त्रस्नुरश्वेव सेयं प्रस्थाप्यते मया ॥ 0416cd

आसीत्पितृकुलं तस्य भक्ष्यं दुर्नृपरक्षसः । 0417ab
और्वाभिधस्य हव्याशविशेषस्येव जीवनम् ॥ 0417cd

तस्यासंष्टक्कराघातसटाङ्कारकरोटिकाः । 0418ab
घ्राणस्कन्दादिवाद्यज्ञाः सभायां मुख्यमन्त्रिणः ॥ 0418cd

तेमात्याश्चारणत्वेन निर्लज्जास्तमरञ्जयन् । 0419ab
कालान्तरेण यैरेव भूमिपालैर्भविष्यते ॥ 0419cd

पर्वगुप्तोभवत्तस्य सर्वेभ्योप्यधिकं प्रियः । 0420ab
आस्थाने नर्तनं कुर्वन्नपाकृतकटीपटः ॥ 0420cd

आ तन्त्रिविप्लवाद्दृष्ट्वा कीटप्रायान्महिपतीन् । 0421ab
पर्वगुपः सर्वदाभूद्राज्यावाप्तिकृतोद्यमः ॥ 0421cd

तदा निगूढराज्येच्छः सख्यं मुख्यैः स मन्त्रिभिः । 0422ab
पीतकोशैः प्रविदधे पञ्चभिर्भूभटादिभिः ॥ 0422cd

भूभटः शर्वटश्छोजः कुमुदः सोमृताकरः । 0423ab
पर्वगुप्तेन सम्बन्धं चक्रिरे कोशपीथिनः ॥ 0423cd

गवाक्षासरसि प्राप्तश्रीजलोवागलद्द्विजः । 0424ab
सङ्ग्रामडामर्गृहे यो रक्कः ख्यातपौरुषः ॥ 0424cd

पदातिमात्रो भूपेन दृष्टशौर्यः स संयुगे । 0425ab
महोदरो महाकायः प्रापितो मुख्यमन्त्रिताम् ॥ 0425cd

यादृशी तेन ददृशे देवी श्रीः सरसोन्तरे । 0426ab
तादृग्रक्कजयादेवीत्यभिधानेन203 निर्ममे ॥ 0426cd

राज्यं निष्कण्टकं कृत्वा धूतेनापजिहीर्षुणा । 0427ab
प्रेरितः पर्वगुप्तेन भूभृच्चक्रे कुलक्षयम् ॥ 0427cd

तेन लुण्ठितसर्वस्वः पार्थस्तस्थौ कलत्रवान् । 0428ab
श्रीजयेन्द्रविहारान्तः श्रमणैर्दत्तभोजनः ॥ 0428cd

शिशूञ्शङ्करवर्मादीन्भ्रातॄन्द्वारान्निरोध्य सः । 0429ab
तत्र स्थिताननशनैरुत्क्रान्तासूनकारयत् ॥ 0429cd

उद्यतः पितरं हन्तुं मन्त्रिणोनुमतप्रदान् । 0430ab
बद्धपट्टान्व्यधाद्बद्धनिगडानितरान्पुनः ॥ 0430cd

एकदा मन्त्रिसामन्ततन्त्रिकायस्थसैनिकाः । 0431ab
पार्थं तदाज्ञामासाद्य निशायां पर्यवेष्टयन् ॥ 0431cd

म्लानक्षीणाम्बरां पत्नीं रुद्धद्वारां निपात्य204 ते । 0432ab
आलिङ्ग्यमानां क्रन्दद्भिस्तर्णकैरिव दारकैः ॥ 0432cd

केशानालम्ब्य कर्षन्तः शर्करोत्पाटिताङ्गकम् । 0433ab
विपन्नं गोकुलाद्दान्तमिव निर्हृत्य तं गृहात् ॥ 0433cd

क्षुत्क्षामरूक्षं क्रन्दन्तम् निजघ्नुर्नग्नविग्रहम् । 0434ab
चण्डाला इव निःशस्त्रं कुमुदाद्या नृपप्रियाः ॥ 0434cd

पितरं निहतं श्रुत्वा राजा सञ्जातकौतुकः । 0435ab
प्रातः स्वसचिवैः सार्धं गत्वा हृष्टोथ दृष्टवान् ॥ 0435cd

अत्राङ्गेस्य प्रहारोयं मद्दत्त इति वादिनः । 0436ab
तस्याग्रे राजपुरुषाः शशंसुर्निजविक्रमम् ॥ 0436cd

न्यक्कृत्य स्वीकृतो राज्ञा तदा तद्रञ्जनोद्यतः । 0437ab
अचूचुदत्पर्वगुप्तो देवगुप्ताभिधं सुतम् ॥ 0437cd

पार्थस्य निहतस्याङ्गे सोक्षिपत्क्षुरिकां ततः । 0438ab
रञ्जितो येन भूपालो जातहासोभवच्चिरम् ॥ 0438cd

डामरैर्लुण्ठितो देशः प्रणाशे चक्रवर्मणः । 0439ab
उत्थाप्य पापान्कायस्थांस्तेन भूयोपि दण्डितः ॥ 0439cd

सम्प्रेरितः कुसचिवैः शस्त्राभ्यासं चकार सः । 0440ab
पाटयन्क्षुरिकाघातैः कोटवीस्तनकोटरम्205 ॥ 0440cd

गर्भिणीनां च जठरं गर्भान्द्रष्टुमपाटयत् । 0441ab
काठिन्यस्य परीक्षार्थमङ्गं कर्मकृतामपि ॥ 0441cd

प्रतिग्रहाद्घोराद्यद्वा वधभयाद्द्विजाः206 । 0442ab
प्रत्यगृह्णन्नग्रहारांस्तस्मादपि नृपाधमात् ॥ 0442cd

क्रूरपापानुरूपेण क्षयरोगेण पार्थिवः । 0443ab
ततोनुबाध्यमानोभूदपर्यन्तव्यथातुरः ॥ 0443cd

व्यथया तस्य तादृश्या प्रजा एव न केवलम् । 0444ab
तुतुषुर्निजशुद्धान्तमहिष्योपि चतुर्दश ॥ 0444cd

[page 88]
विश्वास-प्रस्तुतिः
अथान्तःपुरदासीभिर्यः कुतश्चिदुपाहृतः । 0445ab
क्षितिपालात्प्रजातोयमिति प्रख्यापितो मृषा ॥ 0445cd

तं शिशुं शूरवर्माख्यं विनिवेश्य नृपासने । 0446ab
हस्ते निक्षिप्य सामन्तसचिवैकाङ्गतन्त्रिणाम् ॥ 0446cd

कम्पनाधिपतेर्बद्धद्वेषः कमलवर्धनात् । 0447ab
बिभ्यन्मडवराज्यस्थाड्डामरोत्पाठनक्षमात् ॥ 0447cd

आसन्ननिरयप्राप्तिः207 पितृहा पार्थिवाधमः । 0448ab
शुचौ पञ्चदशाब्दस्य प्रजापुण्यैः क्षयम् ययौ ॥ चक्कलकम्॥ 0448cd

पितृघातिसुतो राजा जयस्वामिविरोचनम् । 0449ab
आषाढशुक्लसप्तम्यां208 शिशुर्द्रष्टुं विनिर्ययौ ॥ 0449cd

नवा विरेजे राजश्रीर्बालस्य पृथिवीपतेः । 0450ab
कृपाणवेणिललिता छत्रचामरहासिनी ॥ 0450cd

अत्रान्तरे जवायातैश्चरौरावेदितश्रुतः209 । 0451ab
सामन्तैर्नगरोपान्तं प्राप्तः कमलवर्धनः ॥ 0451cd

एकाङ्गतन्त्रिसामन्तस्यालहारकसादिभिः । 0452ab
नगरं प्रविशञ्श्रान्तः समं सैन्यैररुध्यत ॥ 0452cd

विरुद्धडामरानीकान्युद्ध्वा मार्गेषु निर्गतः । 0453ab
श्रान्तोप्यसौ वैरिसेनामजयद्विक्रमोर्जितः ॥ 0453cd

सहस्रमश्ववाराणां विद्राव्य तुरगैर्मितैः । 0454ab
राजधानीमसंरुद्धः प्रविवेश ततः क्षणात् ॥ 0454cd

तं लब्धजयमाकर्ण्य सैन्यैस्त्यक्तं पलायितैः । 0455ab
एकाकिनं क्वाप्यनयज्जननी शिशुभूपतिम् ॥ 0455cd

प्राक्कर्मभिर्मोहितो वा प्रेरितो वा कुमन्त्रिभिः । 0456ab
नाभूत्सिंहासनारूढो मूढः कमलवर्धनः ॥ 0456cd

तदानीं स्वगृहान्यातो राज्यकामोन्यवासरे । 0457ab
सङ्घट्टयन्द्विजान्सर्वानचूचुददनीतिवित्210 ॥ 0457cd

प्रौढं शक्तं च कुरुत क्ष्मापं कञ्चित्स्वदेशजम् । 0458ab
मामेव कुर्युः सामर्थ्यादिति मूढः स चिन्तयन् ॥ 0458cd

एकाकिनीं रहः क्षीबां लब्ध्वा दुर्लभयोषितम् । 0459ab
अप्रौढोनुपभुज्यान्यदिने दूत्यार्थयेत यः211 ॥ 0459cd

विभूतिं रभसावाप्तां यश्च सन्त्यज्य तत्क्षणम् । 0460ab
नीत्या कामयतेन्येद्युः शोच्यस्ताभ्यां परोस्ति कः ॥ युग्मम्॥ 0460cd

अथोत्पुलकुले212213 छिन्ने स्थूलकम्बलवाहिनः । 0461ab
अशृङ्गोक्षनिभा विप्राः समगंसत गोकुले ॥ 0461cd

धूमनिर्दग्धकूर्चानाम् राज्ञस्तांस्तांशकीर्षताम् । 0462ab
राज्यव्यवस्थोपन्यासस्तेषाम् चिरमवर्धत ॥ 0462cd

वैमत्येन मिथस्तेषां नान्यः कोप्यभ्यषिच्यत । 0463ab
कूर्चा214 भाषणनिष्ट्यूतैः स्वकूर्चष्ठीवनैः परम् ॥ 0463cd

राज्यार्हान्वेषिभिर्विप्रैः प्राप्तः215 स्वस्मृतिकॢप्तये । 0464ab
अवार्यतेष्टकावातैर्मुग्धः कमलवर्धनः ॥ 0464cd

पञ्चषाणि दिनान्येव यावत्तस्थुर्द्विजातयः । 0465ab
काहलाकांस्यतालादिवाद्यकोलाहलाकुलम् ॥ 0465cd

उत्पताकध्वजच्छन्नशोभि युग्यार्पितासनम्216 । 0466ab
अशेषं पारिषद्यानां तावत्तत्रामिलद्बलम् ॥ युग्मम्॥ 0466cd

स्वपत्नीं बन्धकीभूतामिवान्यवशवर्तिनीम् । 0467ab
वीक्ष्य राजश्रियं शोचन्नासीत्कमलवर्धनः ॥ 0467cd

पितृधातिबधूश्छन्नपुत्रराज्यार्थिनी ततः । 0468ab
प्राहिणोद्राजपुरुषान्पार्श्वं प्रायोपवेशिनाम् ॥ 0468cd

पिशाचकपुरग्रामे वीरदेवाभिधस्य यः । 0469ab
कुटुम्बिनः कामदेवनामा मूनुरजायत ॥ 0469cd

स शिक्षिताक्षरो लब्ध्वा मेरुवर्धनमन्दिरे । 0470ab
बालाध्यापकतां स्नानशीलादिगुणभूषितः ॥ 0470cd

क्रामाद्गञ्जाधिकार्यासीदथ तस्यात्मजः शनैः । 0471ab
लेभे गञ्जाधिकारित्वं राज्ञः शङ्करवर्मणः ॥ 0471cd

[page 89]
विश्वास-प्रस्तुतिः
यः प्रभाकरदेवोपि सुगन्धाच्छन्नकामुकः । 0472ab
लक्ष्म्या सरस्वतीद्वेषाद्देशविप्लवतोथ वा217 ॥ 0472cd

विद्वान्यशस्करो नाम तत्पुत्रोत्यन्तदुर्गतः । 0473ab
सख्या फल्गुणकाख्येन समं देशान्तरं गतः ॥ 0473cd

सुस्वप्रदर्शनैह् पीठदेव्याशीर्भिश्च हर्षलः । 0474ab
तस्मिन्प्रसङ्गे सोत्साहः प्रत्यावृत्तो निजां भुवम् ॥ 0474cd

पितृघातिवधूदूतैर्यातैर्बोधयितुं द्विजान् । 0475ab
मध्ये गृहीतो वाग्मित्वात्प्रविवेश तदन्तिकम् ॥ कुलकम्॥ 0475cd

दृष्ट्वैव तं दैववशादैकमत्यस्पृशो द्विजाः । 0476ab
ध्वनिं राजायमेवास्त्वित्युच्चकैरुदचारयन् ॥ 0476cd

अथाभ्यषिच्यत क्षिप्रं विप्रैरेत्य यशस्करः । 0477ab
क्ष्माधृतिप्रौढसामर्थ्यः218 सानुमानिव तोयदैः ॥ 0477cd

दग्धं वेणुवनम् परस्परमहासङ्घर्षजेनाग्निना तन्मूलोद्धृतिरम्भसा क्षणधृतोद्रेकेण सम्पादिता । 0478ab
वात्वावेगविपाटितं विटपिनं प्राप्तं कुतश्चिद्दृढां रूढिं नेतुमहो महाद्रिकुहरे219 धात्रा न किं सूत्रितम्220 ॥ 0478cd

भृत्यप्रेरणया वंशं पार्थजः स्वं न चेद्दहेत् । 0479ab
तत्पुत्रोत्पाटनं कुर्यान्न चेत्कमलवर्धनः ॥ 0479cd

अनुच्चकुलजातस्य221 दरिद्रस्याटतः क्षितिम् । 0480ab
ताद्यशस्करदेवस्य राज्यप्राप्तिः कथं भवेत् ॥ 0480cd

पद्भ्यां व्रजन्निरनुगो ददृशे जनेन यस्तत्क्षणं निखिललोकसमानमूर्तिः222 । 0481ab
साम्राज्यरम्यममुमीक्षितुमास्त नारीदृङ्नीरजस्तवकितो नरनाथमार्गः ॥ 0481cd

नृपतिवसतिं प्रत्यागच्छन्यशस्करभूपतिः पुरमृगदृशामाशीर्मध्ये वचोपि विवक्षितम् । 0482ab
स्तिमितवलितापाङ्गं शृण्वन्निमीलदहङ्कृतिः कृतपरिकरस्तज्ज्ञैर्जञ्जे प्रजापरिपालने ॥ 0482cd

प्रतिमितरविदीपोद्भासिशुभ्रातपत्रप्रचयारजतपात्रासूत्रितारात्रिकाश्रीः । 0483ab
अथ मुखरितमाशीर्मङ्गलैरङ्गनानामवनिहरिणधामा राजधाम223 प्रपेदे ॥ 0483cd

इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां पञ्चमस्तरङ्गः ।
त्रयधिकायां समाशीतौ मासेषु च चतुर्ष्वगात् ।
कल्यपालाष्टकं रथ्याहृतस्त्रीसचिवा अपि ॥
[page 90]
-
A1 ॰शौचे altered by later hand to ॰शौचा; A3 glosses: अग्निशौचानां मृगाणां अग्निना लोमशुद्धिः अग्निशौचवसनवत्, and हुताशेनाग्निना शौचं शुद्धिर्यस्याः सा हुताशशौचा । हरिणी मृगी इव यथा सा अग्नौ प्रक्षिप्तदेहा सती शुद्धलोमा भवति तद्वद्. ↩︎ ↩︎
-
तू written above the line by A3; corresponding letter of A1 smeared over. A3 gloss इमौ वातूलावुन्मत्ताविति स्वस्य तद्भावमिव विधाय लोकविषये गोपितनिजप्रभावावित्यर्थः. ↩︎ ↩︎
-
A2 gloss आनन्दवर्धनः काव्यालङ्कारध्वनिग्रन्थकारः. ↩︎ ↩︎ ↩︎ ↩︎
-
A2 separates स from the following and gives the gloss शूरः to स. ↩︎ ↩︎
-
A2 gloss द्वादशदीनाराणां बाहगन्ये इति कश्मीरदेशभाषया परिगणने षट्त्रिंशद्दीन्नाराः त्रिबाहगन्य इति ज्ञेयाः. ↩︎ ↩︎
-
A1 gloss तक्कदेशः अट्किनदीतटे शकरवो नाम भुद्ददेशाद्दूरं वर्तमानो योजनविंशतिकेन. ↩︎ ↩︎
-
A1 विपुलख्याति मा॰; A3 has altered this to विपुला ख्यातिर्मा॰, but has subsequently restored the reading of A1. G follow A1, R reads as A3. ↩︎ ↩︎
-
Thus A1. Cf. vi. 130; vii. 111, 119; misread शिविरान्स in R G Edd. ↩︎ ↩︎
-
Emended: A R बालावित्तः; G बालाविभुः. Cf. वेलावित्तः vi 73, 106, 324. ↩︎ ↩︎
-
Thus corr. from A1 उदाभाण्ड॰ by A2 which adds the gloss हैभङ्; R G read as A2. Cf. उदभाण्डुपुरे v. 153. ↩︎ ↩︎
-
A2 gloss निर्जितवर्मजाः तदात्मजाः चक्रवमी शूरवर्मा । शम्भुवर्धनः शङ्करवर्धनः मेरुवर्धनपुत्राः. ↩︎ ↩︎
-
Thus corr. by later hand from A1 उद्द्वीपः; A4 gloss य्योपो( ). ↩︎ ↩︎
-
A3 note न विशुद्धा प्रकृतिर्येषां ते । अविशुद्धप्रकृतयः सूचकाः यस्य राज्ञः कर्णयोर्विषये ध्वनन्ति । तस्य सतोपि साधोरपि स्वयं नाश्वासः । इभस्येव । यथा हस्तिनः कर्णयोर्मलिनाः मधुपा ध्वनन्ति ॥. ↩︎ ↩︎
-
Thus A1 and R; misread in G and Edd. जार्यकः: A3 gloss जार्यको घूकमार्जारखट्टाकैरण्डकासु चेति विश्वः. ↩︎ ↩︎
-
A3 gloss दिव्यमित्यर्थः । उभौ मैत्रीसम्बन्धार्थं रक्ताक्ते मेषचर्मणि(gloss भ्रस्त्रायां) परस्परं पादप्रक्षेपं कुरुत इति शपथसम्प्रदायः दिव्ये च कोशः पुष्पादिकुद्वलासिपिधानयोरिति मङ्खः. ↩︎ ↩︎
-
A2 gloss शिरस्त्रबन्धनार्थं दत्तो यो वीरपट्टः डोपट्ट इति प्रसिद्धः तस्य असलच्छटाः फिते इति प्रसिद्धाः. ↩︎ ↩︎
-
A3 gloss हरति मन इति हारी तस्य भावः तत्ता तं यातमिति सम्बन्धः. ↩︎ ↩︎
-
A3 gloss गोत्रान्तकृति इन्द्रे बद्धा अवस्थिर्येन स चासौ चापः धनुः इन्द्रचापः तस्य लङ्घनं । गोत्रान्तकृद्भिः कुलक्षयकारिभिः पापिभिः बद्धा स्थितिर्यस्य । तत् चापलं प्रदर्श्य ध्वनन्ति इति च घनं निविडं इति चापलविशेषणं. ↩︎ ↩︎
-
A3 gloss डोम्बेनोच्चरारिता उर्वीपतेः अभिधा नामधेयं एकतः इत्यस्ति इति कथमिति कान्तोस्या इति. ↩︎ ↩︎
-
A3 gloss यत्किमपीति । यत्किञ्चिदालजालप्रायं लौकिकं गीतं । तस्य रचना एव काव्यं. ↩︎ ↩︎
-
A2 gloss गणनार्थं गणनाधिपतिस्थानस्य अक्षपटलस्य अट्टले इति भाषया नाम शिष्टदेश इति केचित्. ↩︎ ↩︎
-
Thus corr. by later hand here and in following verse from A1 हलु॰. ↩︎ ↩︎
-
G sec manus अप्रौढो नोपभुङ्क्तेन्यदिने दूत्यार्थयन्नु यः. ↩︎ ↩︎
-
A3 gloss उत्पलो नाम बाल्यपालः तेन चिप्पटजयापीडं स्वस्रीयं निहत्याभिचारक्रियया स्वकीयभ्रातुःपुत्रः अजितपीडः राज्ये स्थापितः । ततः प्रभृति कल्यपालकुलराज्यं । उन्मत्तावन्तिपर्यन्तं प्राप्य कल्यपालकुलस्य च्छेदः । अत एवोक्तं । उत्पलकुले च्छिन्ने इति ।. ↩︎ ↩︎
-
A3 gloss क्ष्मायाः भूमेः धृतिः धारणं तस्मिन् प्रौढं सामर्थ्यं यस्य सः. ↩︎ ↩︎