०४

॥ चतुर्थस्तरङ्गः ॥

विश्वास-प्रस्तुतिः

तद्वीतव्यतिरेकमद्रितनयादेहेन मिश्रीभवन्निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः । 0001ab
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता जूटाहेरपि यत्र भाति दयितामूर्त्येव पृक्ता तनुः ॥ 0001cd

मूलम्

स महीं राजकन्यां च प्राप्तवानेकतः कुलात् । 0002ab
रत्नानां च सुतानां च राजाभूद्भाजनं शनैः ॥ 0002cd

पतिगोपितदौःशील्या तुल्यसौभाग्यगौरवा । 0003ab
अनङ्गभवनं चक्रे विहारं नृपतिप्रिया ॥ 0003cd

शिशुरेवायुषोल्पत्वं दैवज्ञोक्तं विचिन्तयन् । 0004ab
राज्ञः सुतो मल्हणाख्यो मल्हणस्वामिनं व्यधात् ॥ 0004cd

परिविशोककोटादौ प्रदत्तप्रतिपत्तिना । 0005ab
अदीयत द्विजेन्द्रेभ्यश्चन्द्रग्रामः क्षमाभुजा ॥ 0005cd

श्रीनगर्यां प्रतिष्ठाप्य दुर्लभस्वामिनं हरिम् । 0006ab
षट्त्रिंशता स वर्षाणां क्ष्मावृषास्तमुपाययौ ॥ 0006cd

अनङ्गदेव्यां सम्भूतस्तस्य दुर्लभकः सुतः । 0007ab
शशास वासवसमस्ततो वसुमतीं कृती ॥ 0007cd

मातामहस्य यो मात्रा दौहित्रस्तनयीकृतः । 0008ab
प्रतपादित्य इत्याख्यां तत्कुलानुगुणां दधे ॥ 0008cd

औडेनैडबिडात्प्राप्तश्रिया यन्मन्त्रिणा कृताः । 0009ab
अग्रहारा हनुमता पुण्यानुमतसम्पदा ॥ 0009cd

प्रतापतापितारतिः प्रतापपुरपत्तनम्1 । 0010ab
मघवन्नगरस्पर्धे दीर्घबाहुर्व्यधत्त सः ॥ 0010cd

नानादिगन्तरायाततत्तत्क्रयिकसङ्कुले । 0011ab
नोणाभिधोवसत्तस्य देशे रौहीतको वणिक् ॥ 0011cd

रौहीतदेशे जातानां निवेशाय2 द्विजन्मनाम् । 0012ab
महागुणो नोणमठं पुण्यज्येष्ठं चकार सः ॥ 0012cd

स जातु राजभवने राज्ञा प्रीत्या निमन्त्रितः । 0013ab
अर्चितोभवदेकाहमुपचारैर्नृपोचितैः ॥ 0013cd

प्रातः सुखासिकां प्रेम्णा पृष्टोथ पृथिवीभुजा । 0014ab
शीर्षव्यथामकथयत्प्रजातां3 दीपकज्जलैः ॥ 0014cd

ततः क्रमेण नृपतिस्तेन जातु कृतार्थनः4 । 0015ab
वसंस्तदास्पदेद्राक्षीत्क्षपायां मणिदीपकान् ॥ 0015cd

विलासित्वेन लक्ष्म्या च तादृश्या तस्य विस्मितः । 0016ab
अथ द्वित्राण्यहान्यासीत्तत्रैव स कृतार्हणः ॥ 0016cd

एकदा तेन तत्क्रान्ता व्यलोकि ललिताकृतिः । 0017ab
श्रीनरेन्द्रप्रभा नाम हर्म्ये हिमकरानना ॥ 0017cd

उरोजपूर्णकुभाङ्का सदूर्वाहितविभ्रमा5 । 0018ab
मूर्तिमन्मङ्गलमिव स्मरस्य6 च गृहस्य च ॥ 0018cd

हर्म्यस्य निर्जनतया स निःशङ्कविहारिणीम् । 0019ab
मां विलोक्यानवद्याङ्गीमभिलाषेण पस्पृशे ॥ 0019cd

सापि दर्शितमालीभिः किञ्चित्साचीकृतानना । 0020ab
अपश्यत्काश्यपीकान्तं श्रोत्रविश्रान्तया दृशा ॥ 0020cd

प्राग्जन्मप्रेमवन्धाद्वा निदेशाद्वा7 मनोभुवः । 0021ab
सपक्षपातं सा तस्य दृष्ट्यैव विदधे मनः ॥ 0021cd

क्षणादलब्धस्पर्शोपि तां सौभाग्यसुधामयीम् । 0022ab
मज्जानमपि[^0022-1] संस्पृश्य स्थितामिव विवेद सः ॥ 0022cd

[page 44]

विश्वास-प्रस्तुतिः

हर्म्यस्तम्भच्छन्नगात्री क्षणं भूत्वा जगाम सा । 0023ab
व्यावर्त्य वक्त्रं पश्यन्ती पार्थिवं तं मुहुर्मुहुः ॥ 0023cd

गृहीतहृदयस्तन्व्यास्तावतैव महीपतिः । 0024ab
स चिन्ताजिह्मनयनो राजधानीं शनैर्ययौ ॥ 0024cd

तत्र तस्य तदाकारध्यानावहितचक्षुषः । 0025ab
सममन्तःपुरप्रीत्या प्रपेदे तानवं तनुः ॥ 0025cd

अचिन्तयत्स धिक्कष्टं रूढोयमशुभावहः । 0026ab
अस्मिन्मे मानसोद्याने रागनामा विषद्रुमः ॥ 0026cd

अहो नु सुभगा रागवृत्तिश्चित्तम् विजित्य या । 0027ab
विवेकादीन्व्यधाद्दूरे सुहृदः परिपन्थकान् ॥ 0027cd

भाव्यं कौलीनभीतेन येन भूमिभृता सता । 0028ab
तस्य मे दुःसहः कोयं सस्दाचारविपर्ययः8 ॥ 0028cd

यत्र दारापहरणं राजैव कुरुते विशाम् । 0029ab
परः को नाम तत्रास्तु शासिता9 नीत्यतिक्रमे ॥ 0029cd

विमृष्यन्निति भूपालो10 विस्मर्तुमभवत्क्षमः । 0030ab
न पद्धतिं साधुसेव्यां न च तां दीर्घलोचनाम् ॥ 0030cd

तमथ प्रथितास्वास्थ्यं नेदीयोमरणं वणिक् । 0031ab
स जनाज्ज्ञातवृत्तान्तः सुजनो विजनेब्रवीत् ॥ 0031cd

इमामवस्थां प्राप्नोसि किं धर्मेण निरुध्यसे । 0032ab
न प्राणसंशये जन्तोरकृत्यं नाम किञ्चन ॥ 0032cd

यन्मतानि प्रतीक्ष्यन्ते विबुधैर्धर्मसंशये । 0033ab
तेषामपीदृशे कृत्ये श्रूयते संयमव्ययः ॥ 0033cd

यशोनुरोधादुचितं11 नापि देहमुपेक्षितुम् । 0034ab
स्वकीर्तिर्न परासूनां कीर्णा12 कर्णरसायना ॥ 0034cd

माभून्मदनुरोधस्ते त्वत्प्रियार्थं हि पार्थिव । 0035ab
प्राणा अपि न मे गण्या इन्द्रियार्थेषु का कथा ॥ 0035cd

एवमुक्तोपि नादत्से तां चैतत्सा13 सुरास्पदात्14 । 0036ab
गृह्यतां नर्तकीभूत्वा नृत्तज्ञत्वान्मयार्पिता ॥ 0036cd

तेनेति प्रेर्यमाणः स बलिना च मनोभुवा । 0037ab
प्राग्लज्जामथ जग्राह कथञ्चित्ताम् सुलोचनाम् ॥ 0037cd

कृत्यैरुदात्तैः सापास्ततादृक्चारित्रलाघवा । 0038ab
नरेन्द्रमहिषी चक्रे श्रीनरेन्द्रेश्वरं हरम् ॥ 0038cd

क्रमेण च प्रजापुण्यैश्चन्द्रापीडाभिधं सुतम् । 0039ab
प्रासोष्ट पार्थिववधूर्निधानमिव मेदिनी ॥ 0039cd

तस्याभिजनमालिन्यं15 स्वच्छैरच्छेदि तद्गुणैः । 0040ab
शाणाश्मकषणैः16 कार्ष्ण्यमाकरोत्थं मणेरिव ॥ 0040cd

धूमाद्राढमलीमसाच्छुवि17 पयः सूते घनस्योद्गमो लोहस्यातिशितस्य जातिरचलात्कुण्टाश्ममालामयात् । 0041ab
किञ्चात्यन्तजडाज्जलाद्युतिमतो ज्वालाध्वजस्योद्भवो18 जन्मावन्यनुकारिणो19 न महतां सत्यम् स्वभावाः क्वचित् ॥ 0041cd

तारापीडोपि तनयः क्रमात्तस्यामजायत । 0042ab
अविमुक्तापीडनामा मुक्तापीडोपि भूपतेः ॥ 0042cd

वज्रादित्योदयादित्यललितादियसञ्ज्ञकाः । 0043ab
प्रतापादित्यजाः ख्याताश्चन्द्रापीडादयोपि ते ॥ 0043cd

वर्षान्पञ्चाशतं भुक्त्वा भुवं दुर्लभभूपतिः । 0044ab
पुण्यनिःश्रेणिभिः पुण्यामारुरोह दिवं शनैः ॥ 0044cd

राजचूडामणिः श्रीमांश्चन्द्रापीडस्ततोभवात् । 0045ab
पीडितेन्दुत्विषा कीर्त्या कलेः पीडां चकार यः ॥ 0045cd

एकपादाकृतिर्धर्मः समस्येवोज्झितो नृपैः । 0046ab
शुद्धश्लोककृता येन पादैः संयोजितस्त्रिभिः ॥ 0046cd

यं क्ष्माविक्रममुखाः परस्परविरोधिनः । 0047ab
सिषेविरे गुणास्तुल्यं दिव्योद्यानमिवर्तवः ॥ 0047cd

स्थाने स्थाने यदीया श्रीस्तुल्यमाप्याययन्त्यभूत् । 0048ab
द्रुमानुद्यानकुल्येव निखिलाननुजीविनः ॥ 0048cd

दोषांस्त्यक्त्वान्यभूपेषु यं शुद्धा श्रीरशिश्रियत् । 0049ab
मार्गाद्रिष्वोघकालुष्यं क्षिप्त्वा सिन्धुरिवार्णवम् ॥ 0049cd

[page 45]

विश्वास-प्रस्तुतिः

कार्यज्ञो यो न तच्चक्रे यत्फम्भूद्विविग्नधीः । 0050ab
परं समाचरन्स्तुत्यं20 स्तूयमानस्त्रपां दधे ॥ 0050cd

व्यनीयत न योमात्यैर्विनयं21 तान्स्वशिक्षयत् । 0051ab
वज्रं न भिद्यते कैश्चिद्भिनत्त्यन्यान्मणींस्तु22 तत् ॥ 0051cd

यस्याधर्मभयादासीत्सन्त्याज्यो23 धर्मसंशये । KR T_4_0052ab
निजोपि पक्षः कुलिशत्रासादिव गरुत्मनः24 ॥ 0052cd

न्याय्यं दर्शयत वर्त्म तेन राज्ञा प्रवर्तिताः । 0053ab
स्थितयो वीतमन्देहा25 भास्वतेव दिनक्रियाः ॥ 0053cd

नियन्त्रिता26 यद्भणितिस्तद्गुणोदीरणादियम् । 0054ab
अतिप्रसङ्गभङ्गात्तन्नेयत्तावाप्तितः पुनः ॥ 0054cd

तस्य त्रिभुवनस्वामिप्रासादारम्भकर्मणि । 0055ab
चर्मकृत्कोपि न प्रादात्कुटीं क्षेत्रोपयोगिनीम् ॥ 0055cd

शश्वत्प्रतिश्रुतार्थानां नवकर्माधिकारिणाम् । 0056ab
नैसर्गिकाग्रहग्रस्तः सूत्रापातं न चक्षमे ॥ 0056cd

विज्ञापितोथ तैरेत्य तमर्थं पृथिवीपतिः । 0057ab
तानेव सागसो मेने चर्मकारं न तं पुनः ॥ 0057cd

सोभ्यधात्तान्धिगेतेपामप्रेक्षापूर्वकारिताम् । 0058ab
प्रागेव यैरपृष्ट्वा तं प्रविष्टं नवकर्मणि ॥ 0058cd

नियम्यतां विनिर्माणं यद्वान्यत्र विधीयताम् । 0059ab
परभूम्यपहारेण सुकृतं कः कलङ्कयेत् ॥ 0059cd

ये द्रष्टारः सदसतां ते धर्मविगुणाः क्रियाः । 0060ab
वयमेव विदध्मश्चेद्यातु न्याय्येन कोध्वना ॥ 0060cd

इत्युक्तवति भूपाले प्रेषितो मन्त्रिपर्षदा । 0061ab
पार्श्वात्पादूकृतस्तस्य27 दूतः प्राप्तो व्यजिज्ञपत् ॥ 0061cd

इच्छति स्वामिनं स बहिर्दत्तदर्शनः । 0062ab
युक्तः प्रवेश आस्थाने बाह्याल्यवसरेस्तु तत् ॥ 0062cd

अन्येद्युरथ भूपेन स बहिर्दत्तदर्शनः । 0063ab
पुण्यकर्मणि नो विघ्नः किं त्वमेवेत्यपृच्छ्यत ॥ 0063cd

प्रतिभाति गृहं तच्चेद्रम्यं तव ततोधिकम् । 0064ab
तदर्थ्यतां धनं वापि भूर्येवं चाभ्यधीयत ॥ 0064cd

तूष्णीं स्थितं ततो भूपं चर्मकारो व्यजिज्ञपत् । 0065ab
दन्तांशुसूत्रैस्तत्सत्त्वमानं ज्ञातुमिवोद्यतः ॥ 0065cd

राजन्विज्ञाप्यते28 किञ्चिद्यदस्माभिर्यथाशयम्29 । 0066ab
न स्थेयमाबलिप्तेन तत्र द्रष्ट्रा सता त्वया ॥ 0066cd

नाहमूनः शुनो नास्ति[^0067-1] काकुत्स्थात्पार्थिवः पृथुः । 0067ab
क्षुभ्यन्तीवाद्य तत्सभ्याः शङ्कुभ्यामेव बध्यते ॥ 0067cd

जातस्य जन्तोः संसारे भङ्गुरः कायकञ्चुकः । 0068ab
अहन्ताममताख्याभ्यां शङ्कुभ्यामेव बध्यते ॥ 0068cd

कङ्कणाङ्गदहारादिशोभिनां भवतां यथा । 0069ab
निष्किञ्चनानामस्माकं स्वदेहेहङ्क्रिया तथा ॥ 0069cd

देवस्य राजधान्येषा यादृशी सौधहासिनी । 0070ab
कुटी घटमुखानद्धतमोरिस्तादृशी मम ॥ 0070cd

आ जन्मनः साक्षिणीयं मातेव सुखदुःखयोः । 0071ab
मठिका लोट्यमानाद्य नेक्षितुं क्षम्यते माय ॥ 0071cd

नृणां यद्वेश्महरणे दुःखमाख्यातुमीश्वरः । 0072ab
तद्विमानच्युतोमर्त्यो राज्यभ्रष्टोथ पार्थिवः ॥ 0072cd

एवमप्येत्य[^0073-1] मद्वेश्म सा चेद्देवेन[^0073-2] याच्यते । 0073ab
सदाचारानुरोधेन दातुं तदुचितं मम ॥ 0073cd

इति तेनोत्तरे दत्ते भूभृद्गत्वा तदास्पदम् । 0074ab
कुटीं जग्राह वित्तेन नाभिमानः शुभार्थिनाम् ॥ 0074cd

अवोचच्चर्मकारस्तं तत्र[^0075-1] स व्यञ्जिताञ्चलिः । 0075ab
राजन्धर्मानुरोधेन परवत्ता तवोचिता ॥ 0075cd

श्वविग्रहेण धर्मेण पाण्डुसूनोः पुरा पथा । 0076ab
धार्मिकत्वं तथा तेद्य मयास्पृश्येन30 वीक्षितम् ॥ 0076cd

स्वस्ति तुभ्यं चिरं स्थेयाव् धर्म्या वृत्तान्तपद्धतीः । 0077ab
दर्शयन्नीदृशी शुद्धाः श्रद्धेया धर्मचारिनाम् ॥ 0077cd

[page 46]

विश्वास-प्रस्तुतिः

एवं निष्कल्मषाचारः स चक्रे पावनीं भुवम् । 0078ab
राजा त्रिभुवनस्वामिकेशवस्य प्रतिष्ठया ॥ 0078cd

कृत्यैः प्रकाशदेव्याख्या प्रकाशाकाशकान्तिभिः । 0079ab
प्रकाशिकाविहारस्य तत्पत्नी कारयित्र्यभूत् ॥ 0079cd

गुरुर्मिहिरदत्ताख्यस्तस्योदात्तगुणोभवत् । 0080ab
विश्वम्भरस्य31 गम्भीरस्वामिनाम्नो32 विधायकः ॥ 0080cd

सर्वाधिकरणस्थैर्योच्छेत्ता छलितकाभिधः । 0081ab
नगराधिकृतस्तस्य छलितस्वामिनं व्यधात् ॥ 0081cd

कदाचन समासीनं पृष्ट्वा धर्माधिकारिभिः । 0082ab
प्रायोपविष्टा राजानं ब्राह्मणी काचिदब्रवीत् ॥ 0082cd

त्वयि प्रशासति महीमहो गर्हानिव्वर्हने । 0083ab
सुखसुप्तस्य मे पत्युर्हृतं33 केनापि जीवितम् ॥ 0083cd

एषैव महती लज्जा सदाचारस्य भूपतेः । 0084ab
यदकालभवो मृत्युस्तस्य संस्पृशति प्रजाः ॥ 0084cd

कलिकालबलात्तच्चेत्त्वादृशैरपि34 दृश्यते । 0085ab
पापात्पापतरेमुष्मिन्दोषे कथमुदास्यते ॥ 0085cd

चिन्तयन्त्यपि नावैमि भर्तुः कञ्चिद्विरोधिनम् । 0086ab
निर्दोषस्य हि तस्यासन्सर्वतः शीतला दिशः ॥ 0086cd

अनसूयो निरुत्सेकः35 प्रियवाग्गुणवत्सलः । 0087ab
पूर्वाभिभाषी निर्लोमो न विद्वेष्यो हि कस्यचित् ॥ 0087cd

तस्य तुल्यवया बाल्यात्प्रभृत्यध्ययनेधमः । 0088ab
माक्षिकस्वामिवास्तव्यो विप्रः शङ्क्योभिचारवित् ॥ 0088cd

गुणदारिद्र्यनिर्निद्रैः क्षुद्रैः कौशलशालिनाम् । 0089ab
प्रसिद्धिस्पर्धया वन्ध्यैर्बाध्यन्तेसूययासवः36 ॥ 0089cd

नापुंश्चलेयो दुःशीलो नाद्रोहो नित्यशङ्कितः । 0090ab
नावाचालो मृषाभाषी नाकायस्थः कृतघ्नधीः ॥ 0090cd

नादातृगृहजो लुब्धो नानीर्ष्यो नित्यदुःखितः । 0091ab
नास्त्रीजितः सर्वहास्यो नावृद्धः स्निग्धभाषितः ॥ 0091cd

नानन्यजः पितृद्वेषी नारागी निरपत्रपः । 0092ab
नाक्षुद्रविद्यः पापीयानिति भूतार्थसङ्ग्रहः ॥ तिलकम्॥ 0092cd

इत्युक्तवत्यां ब्राह्मण्यां तच्छङ्कावसतिम् द्विजम् । 0093ab
आनीय परिशुध्यस्वेत्यभ्यधाद्वसुधाधिपः ॥ 0093cd

भूयो ब्राह्मण्यवादीत्तं ख्यातः खार्खोदविद्यया । 0094ab
निःसम्भ्रमः स्तम्भयितुं देव दिव्यक्रियामयम् ॥ 0094cd

म्लायद्वक्त्र इवावदीत्ततस्तां37 मेदिनीपतिः । 0095ab
अदृष्टदोषे किं कुर्मो वयमत्राधिकारिणः ॥ 0095cd

नान्यस्मिन्नपि38 दण्डस्य प्रसङ्गोनिश्चितागसि । 0096ab
किं पुनर्ब्राह्मणो दण्ड्यो यो दोषेपि39 वधं विना ॥ 0096cd

उक्त्वेति विरते तस्मिन्द्विजजायाब्रवीत्पुनः । 0097ab
चतस्रः क्षणदाः क्षीणा राजन्ननशनस्य मे40 ॥ 0097cd

नान्वगां परिनेतारं हन्तुः प्रतिचिकीर्षया । 0098ab
तत्राविहितदण्डेस्मिंस्त्यजाम्यनशनैरसून्41 ॥ 0098cd

तथा स्थितायां ब्राह्मण्यां कृतप्रायोपवेशनः । 0099ab
स्वयम् त्रिभुवनस्मामिपादानुद्दिश्य सोभवत् ॥ 0099cd

त्रिरात्रोपोषितं तत्र राजानं रजनीक्षये । 0100ab
स्वप्नेस्वप्नोत्तमोवोचत्सत्योक्तिं सत्यवाहनः42 ॥ 0100cd

ईदृङ्न युज्यते राजन्सत्यस्यान्वेषणं कलौ । 0101ab
निशीथे43 कस्य सामर्थ्यं दिवि विकर्तनम्44 ॥ 0101cd

भवच्छक्त्यनुरोधेन[^0102-1] सकृदेतत्प्रवर्त्यते । 0102ab
मत्प्रासादाङ्गनेमुष्मिन्शालिचूर्णं[^0102-2] विकीर्यताम् ॥ 0102cd

प्रदक्षिणं कुर्वतोस्य त्रिरत्र यदि दृश्यते । 0103ab
ब्रह्महत्यापादमुद्रा[^0103-1] पादमुद्रानुयायिनी[^0103-2] ॥ 0103cd

[page 47]

विश्वास-प्रस्तुतिः

तदेष वधको भूत्वा सदृशं दण्डमर्हति । 0104ab
रात्रावेष विधिः कार्यो दिने पापहृदर्यमा ॥ 0104cd

अथ तत्कारयित्वा स दृष्टदोषे द्विजमनि । 0105ab
दण्डं दण्डधरश्चक्रे द्विजत्वाद्वधवर्जितम् ॥ 0105cd

महीमघोना भर्तृघ्ने तस्मिन्विहितशासने । 0106ab
ततो द्विजन्मजाया सा कृताशीरभ्यधादिदम् । 0106cd

इयत्यवनिभृत्सर्गे गूढपापानुशासनम् । 0107ab
कार्तवीर्यस्य वा दृष्टं तव वा पृथिवीपते ॥ 0107cd

दण्डधारे त्वयि क्ष्माप क्षितिमेताम् प्रशासति । 0108ab
को वैरस्नेहयोः पारमनासाद्यावसीदिति ॥ 0108cd

इत्थं कृतयुगध्येयैर्धर्म्यवृत्तान्तवस्तुभिः । 0109ab
स्वल्पोपि राज्यकालोस्य पर्याप्तैः पर्यपूर्यत ॥ 0109cd

स्रष्टुर्विष्टरपाथोजसंसर्गेण निरर्गलः । 0110ab
निविडम् जडिमा जाने व्यधत्त धियि सन्निधिम् ॥ 0110cd

विभक्तवर्णशोभस्य तस्यासावन्यथा45 कथम् । 0111ab
माहेन्द्रस्येव धनुषो विदधे दृष्टनष्टताम्46 । 0111cd

कारयित्वाभिचारं तं निग्रहोग्ररुषं द्विजम् । 0112ab
तं यशःशेषतामीशं तारापीडोनुजोनयत् ॥ 0112cd

दुष्कर्मदुर्भगान्भोगान्भोक्तुं पापा गुणोन्नतम् । 0113ab
मृद्गन्ति कण्टकान्प्राप्तुं करभा इव केतकम् ॥ 0113cd

ततः प्रभृति भूपानां राज्येच्छूनां गुरून्प्रति । 0114ab
दुष्टाः प्रवृत्ता राज्येस्मिन्नभिचारादिकाः क्रियाः ॥ 0114cd

श्रीचन्द्रापीडदेवस्य तत्क्षमित्वमपश्चिमम् । 0115ab
संस्मर्यमाणं कुरुते न कस्योत्पुलकं वपुः ॥ 0115cd

मुमूर्षुर्यत्स लब्ध्वापि तं कृत्व्याधायिनम्[^0116-1] द्विजम् । 0116ab
वराकेन्यप्रयुक्तेस्मिन्को दोष इति नावधीत् ॥ 0116cd

विस्मृतः सकृतक्ष्माभृत्पङ्क्तिमध्येद्य47 वेधसा । 0117ab
दत्त्वा काकपदं48 नूनं न्यस्तः कलिनृपावलौ ॥ 0117cd

अष्टौ वर्षान्साष्टमासाननुगृह्येति मेदिनीम् । 0118ab
प्रविवेश वशी स्वर्गमनिषं49 च सतां मनः ॥ 0118cd

भ्रातृद्रोहास्रसुहृदा50 प्रतापेन भयावहः । 0119ab
उवाह51 तारापीडः स चण्डः क्ष्मामण्डलं ततः ॥ 0119cd

पूर्णपात्रप्रतिभटं52 द्विषाम् लुण्टयता यशः । 0120ab
शिशोः प्रतापस्योत्पत्तौ कबन्धा येन नर्तिताः । 0120cd

तस्यातिदुष्टचेष्टस्य लक्ष्मीर्दीप्तापि सर्वतः । 0121ab
अभूदुद्वेगजननी श्मशानाग्नेरिव द्युतिः ॥ 0121cd

मन्त्रैः प्रभावसान्निध्यं देवानां क्रियते द्विजैः । 0122ab
मत्वेति देवद्वेषी स द्विजानां दण्डमत्यजत्53 ॥ 0122cd

मासं54 गूढाभिचारेण54 विहितायुःक्षयो द्विजैः । 0123ab
स प्राभवद्गुरुद्रोहप्ररोहत्सुकृतात्ययः55 ॥ 0123cd

अथ गूढाभिचारेण56 विहितायुःक्षयो द्विजैः । 0124ab
स भ्रातुः सदृशीं शान्तिं प्रपेदे न पुनर्गतिम् ॥ 0124cd

योयं परापकरणाय सृजत्युपायं तेनैव तस्य नियमेन भवेद्विनाशः । 0125ab
धूमं प्रसौति नयनान्ध्यकरं यमग्निर्भूत्वाम्बुदः57 स शमयेत्सलिलैस्तमेव ॥ 0125cd

राजा श्रीललितादित्यः सार्वभौमस्ततोभवत् । 0126ab
प्रादेशिकेश्वरस्रुष्टुर्विधेर्बुद्धेरगोचरः ॥ 0126cd

प्रतापांशुच्छटाकूटैः पटवाससधर्मभिः । 0127ab
जम्बुद्वीपद्विपेन्द्रस्य येनातन्यत मण्डनम् ॥ 0127cd

नयाञ्जलिषु बद्धेषु राजभिर्विजयोद्यमे । 0128ab
पार्थिवः पृथुविक्रान्तिर्युधि क्रोधं मुमोच यः ॥ 0128cd

विनिःसरज्जनतया भयाद्गर्भानिवामुचन् । 0129ab
द्विषां वसतयो यस्य निशम्यास्कन्ददुन्दुभिम् ॥ 0129cd

[page 48]

विश्वास-प्रस्तुतिः

विलोलतिलकान्तैर्यः सनेत्राम्भोभिराननैः । 0130ab
निवापाञ्जलिदानानि द्विषां नारीरकारयत्58 ॥ 0130cd

क्षितिं प्रदक्षिणयतो रवेरिव महीपतेः । 0131ab
जिगीषोः प्रायशस्तस्य यात्रास्वेव वयो ययौ ॥ 0131cd

करं पूर्वदिशो गृह्णन्प्रतापानलसन्निधौ । 0132ab
अन्तर्वेद्यां59 महाराजः स्वकीर्त्युष्णीषभ्ःद्बभौ ॥ 0132cd

कन्यानां यत्र कुब्जत्वं व्यधाद्गधिपुरे मरुत् । 0133ab
तत्रैव शंसनीयः स पुंसां चक्रे भयस्पृशम्60 ॥ 0133cd

यशोवर्माद्रिवाहिन्याः क्षणात्कुर्वन्विशेषणम् । 0134ab
नृपतिर्ललितादित्यः प्रतापादियतां61 ययौ ॥ 0134cd

मतिमान्कन्यकुब्जेन्द्रः प्र्त्यभात्कृत्यवेदिनाम् । 0135ab
दीप्तं यल्ललितादित्यं पृष्टं दत्त्वा न्यषेवत ॥ 0135cd

तत्सहायास्ततोप्यासन्निकाममभिमानिनः । 0136ab
कुसुमाकरतोप्युच्चैः सुरभिश्चन्दनानिलः ॥ 0136cd

श्रीयशोवर्मणः सन्धौ सान्धिविग्रहको न यत् । 0137ab
नयं नियमनालेखे मित्रशर्मास्य चक्षमे ॥ 0137cd

सोभूत्सन्धिर्यशोवर्मललितादित्ययोरिति[^0138-1] । 0138ab
लिखितेनादिनिर्देशादनर्हत्वं विदन्प्रभोः ॥ युगलकम्॥[^0138-2] 0138cd

सुदीर्घविग्रहाशान्तैः सेनानीभिरसूयितान्62 । 0139ab
औचित्यापेक्षतां63 तस्य क्षितिभृद्बह्वमन्यत ॥ 0139cd

प्रीतः64 पञ्चमहाशब्दभाजनं तं व्यधत्त सः । 0140ab
यशोवर्मनृपं तं तु[^0140-2] समूलमुदपाटयत् ॥ 0140cd

अष्टादशानामुपरि प्राक्सिद्धानां तदुद्भवैः । 0141ab
कर्मस्थानैः स्थितिः प्राप्ता ततः प्रभृति पञ्चभिः ॥ 0141cd

महाप्रतीहारपीडा65 स महासन्धिविग्रहः । 0142ab
महाश्वशालापि महाभाण्डागारश्च पञ्चमः ॥ 0142cd

महासाधनभागश्चेत्येता यैराभिधाः श्रिताः । 0143ab
शाहिमुख्या येष्वभवन्नध्यक्षाः पृथिवीभुजः ॥ 0143cd

कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः । 0144ab
जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥ 0144cd

किमन्यत्कन्यकुब्जोर्वी66 यमुनापारतोस्य सा67 । 0145ab
अभूदाकालिकातीरं[^0145-3]67 गृहप्राङ्गनवद्वशे ॥ 0145cd

यशोवर्मानमुल्लङ्घ्य हिमाद्रिमिव जाह्नवी । 0146ab
उखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् ॥ 0146cd

पश्यद्भिर्जन्मवसुधां[^0147-1] सेर्ष्याधारेणभर्त्सितैः । 0147ab
तन्मातङ्गैः कलिङ्गेभ्यः[^0147-1] कथञ्चित्प्रस्थितं पथि ॥ 0147cd

आकृष्टलक्ष्मीपर्यङ्कदन्तिसख्यादिवागताः । 0148ab
अशिश्रयंस्तं निःशेषा दन्तिनो गौडमण्डलात् ॥ 0148cd

कटकेभघटाहस्तकृतवीचिकचग्रहः । 0149ab
अदृश्यताग्रगैस्तस्य गृहीतः पूर्ववारिधिः ॥ 0149cd

वनराजिश्यामलेन दिशं वैवस्वताङ्किताम्68 । 0150ab
स प्रतस्थेब्धितीरेण तत्कृपाणेन69 तु द्विषः ॥ 0150cd

तस्योर्ध्वजूटाः कार्णाटाः कृतप्रणतयोनयन् । 0151ab
सुवर्णकेतकीस्त्यक्त्वा प्रतापमवतंसताम् ॥ 0151cd

तस्मिन्प्रसङ्गे रट्टाख्या70 कर्णाटी चटुलेक्षणा । 0152ab
अपासीन्नृपतिर्भूत्वा पृथुश्रीर्दक्षिणापथम्71 ॥ 0152cd

विन्ध्याद्रिमार्गाः पर्याप्ता निष्पर्यन्तप्रभावया । 0153ab
दुर्गयेव तया देव्या कृता निहतकण्टकाः ॥ 0153cd

ललितादियपादाब्जनखदर्पणमण्डले । 0154ab
स्वमूर्तिं वीक्ष्य सङ्क्रान्तां प्रणता सापि पिप्रिये ॥ 0154cd

[page 49]

विश्वास-प्रस्तुतिः

तालीतरुतलाचान्तनारिकेरसुरोर्मयः[^0155-1] । 0155ab
कावेरीतीरपवनैस्तद्योधाः क्लममत्यजन् ॥ 0155cd

चन्दनाद्रेस्तदास्कन्दत्रासभ्रश्यदहिच्छलात्7273 । 0156ab
श्रीखण्डद्रुमदोःषण्डान्मण्डलाग्रा7475 इवापतन् ॥ 0156cd

उत्तराश्मस्विव76 पदं क्षिप्त्वा द्वीपेष्वविघ्नतः । 0157ab
स कुल्याया इवाम्भोधेः क्षिप्तं चक्रे गतागतम् ॥ 0157cd

तेनोब्धिवीचिनिर्घोषैरुद्गीतजयमङ्गलः । 0158ab
प्रतस्थे पश्चिमामाशां जिगीषूणामपश्चिमः ॥ 0158cd

आक्रम्य क्रमुकान्सप्त77 कौण्कणान्सप्त ताप्यत् । 0159ab
तुरगानिव तिग्मांशोः78 प्रतापस्तस्य पप्रथे ॥ 0159cd

पश्चिमाब्धेर्मरुद्व्यस्तवीचेराविर्भवन्त्यभूत् । 0160ab
द्वारका तस्य सैन्यानां प्रवेशौत्सुक्यदायिनी ॥ 0160cd

विन्ध्याद्रिस्तद्बलक्षुण्णधातुरेण्वावृताम्बरः[^0161-1] । 0161ab
प्रत्यभात्त्यक्तमर्यादः कोपताम्र इवोन्नमन् ॥ 0161cd

त्रिशतां दशनश्रेण्यस्तस्यावन्तिषु दन्तिनाम् । 0162ab
महाकालकिरीटेन्दुज्योत्स्नया खण्डिताः परम् ॥ 0162cd

सर्वतोदिक्कमालोक्य जितप्रायांस्ततो नृपान् । 0163ab
स प्राविशत्सुविस्तीर्णमपथेनोत्तरापथम् ॥ 0163cd

राजभिस्तस्य तत्रोग्रैः सङ्ग्रामोभूत्पदे पदे । 0164ab
कुलाद्रिभिरिवेन्द्रस्य पक्षच्छेदोद्यमस्पृशः ॥ 0164cd

काम्बोजानां वाजिशाला जायन्ते स्म हयोज्झिताः । 0165ab
ध्वान्तच्छलात्तद्विरुद्धैर्निरुद्धा महिषैरिव ॥ 0165cd

तुःखाराः79 शिखरश्रेणीर्यान्तः सन्त्यज्य वाजिवः । 0166ab
कुण्टभावं80 तदुत्कण्ठां निन्युर्दृष्ट्वा हयाननान्81 ॥ 0166cd

त्रीन्वारान्समरे जित्वा जितं मेने स मुम्मुनिम्82 । 0167ab
सकृज्जयमरेर्वीरा मन्यन्ते हि घुणाक्षरम् ॥ 0167cd

चिन्ता न दृष्टा भौट्टानां83 वक्त्रे प्रकृतिपाण्डुरे । 0168ab
वनौकसामिव84 क्रोधः स्वभावकपिले मुखे ॥ 0168cd

तस्य प्रतापो दरदां न सेहेनारतं मधु । 0169ab
दरीणामोषधिज्योतिः प्रत्यूषार्क इवोदितः ॥ 0169cd

कस्तूरीमृगसंस्पर्शी धूतकुङ्कुमकेसरः । 0170ab
सैन्यसीमन्तिनीस्तस्य सञ्चस्कारोत्तरानिलः ॥ 0170cd

शून्ये प्राग्ज्योतिषपुरे निर्जिहानं ददर्श सः । 0171ab
धूपधूमं वनप्लुष्टात्कालागुरुवनात्परम् ॥ 0171cd

मरीचिकावितीर्णार्णोविभ्रमे बालुकाम्बुधौ । 0172ab
तद्गजेन्द्रा महाग्राहसमूहसमतां ययुः ॥ 0172cd

तद्योधान्विगलद्धैर्यान्स्त्रीराज्ये स्त्रीजनोकरोत् । 0173ab
तुङ्गौ स्तनौ पुरस्कृत्य न तु कुम्भौ कवाटिनाम् ॥ 0173cd

स्त्रीराज्यदेव्यास्तस्याग्रे वीक्ष्य कम्पादिविक्रियाम् । 0174ab
सन्त्रासमभिलाषं वा निश्चिकाय न कश्चन ॥ 0174cd

उत्तराः कुरवोविक्षंस्तद्भयाज्जन्मपदपान् । 0175ab
उरगान्तकसन्त्रासाद्विलानीव महोरगाः ॥ 0175cd

जयार्जितधनः सोथ प्रविवेश स्वमण्डलम् । 0176ab
भिन्नेभमौक्तिकापूर्णपाणिः सिंहः इवाचलम् ॥ 0176cd

जालन्धरं लोहरं च मण्डलानीतराणि च । 0177ab
प्रसादीकृत्य विदधे राजत्वं सोनुजीविनाम् ॥ 0177cd

पराजयव्यञ्जनार्थं नना लिङ्गानि पार्थिवाः । 0178ab
उग्रेण ग्राहितास्तेन वहन्त्यद्यापि निर्मदाः ॥ 0178cd

बन्धमुद्राभिधानाय पञ्चाद्बाहू तदाज्ञया । 0179ab
तुरुष्का दधते व्यक्तं मूर्धानं चार्धमुण्डितम् ॥ 0179cd

क्षितिभृद्दक्षिनात्यानां तिर्यक्त्वज्ञापनाय सः । 0180ab
पुच्छं महीतलस्पर्शि चक्रे कौपीनवाससि ॥ 0180cd

न तत्पुरं न स ग्रामो न सा सिन्धुर्न सोर्णवः । 0181ab
न स द्वीपोस्ति यत्रासौ प्रतिष्ठां न विनिर्ममे ॥ 0181cd

[page 50]

विश्वास-प्रस्तुतिः

क्वचिच्चेष्टासमुचितं क्वचिच्च समयानुगम् । 0182ab
बाहुल्येन प्रतिष्ठानां स मानी85 नाम सन्दधे ॥ 0182cd

मुनिश्चितपुरं चक्रे दिग्जये कृतनिश्चयः । 0183ab
सगर्वो86 दर्पितपुरं कृतवान्कृतकेशवम्87 ॥ 0183cd

फलं गृह्णन्फलपुरं पर्णोत्सं पर्णमाददत् । 0184ab
क्रीडारामविहारं88 च क्रीडन्राजा विनिर्ममे ॥ 0184cd

एकमूर्ध्वं नयद्रत्नमधः कर्षत्तथापरम् । 0185ab
बद्ध्वा89 व्यधान्निरालम्बं स्त्रीराज्ये नृहरिं च सः ॥ 0185cd

दिगन्तरस्ये भूपाले तस्मिंस्तत्कर्मकृत्किल90 । 0186ab
पुरं विधाय तन्नाम्ना तत्कोपफलमन्वभूत्9091 ॥ 0186cd

ललिताख्ये92 पुरे तस्मिन्नादित्याय स भूपतिः । 0187ab
सग्रामां कन्यकुब्जोर्वीमभिमानोर्जितो ददौ ॥ 0187cd

तेन हुष्कपुरे श्रीमान्मुक्तस्वामी व्यधीयत । 0188ab
बृहद्विहारो भूपेन सस्तूपश्च महात्मना ॥ 0188cd

एकां कोटिं गृहीत्वा स दिग्जयाय विनिर्गतः । 0189ab
भूतेशाय ददौ शुद्ध्यै कोटीरेकादशागतः ॥ 0189cd

स तत्र ज्येष्ठरुद्रस्य शिलाप्रासादयोजनम् । 0190ab
भूमिग्रामप्रदानं93 च विदधे वसुधाधिपः ॥ 0190cd

चक्रे चक्रधरे[^0191-1] तेन वितस्ताम्भःप्रतारणम् । 0191ab
विनिर्मायारघट्टालीस्तांस्तान्ग्रामान्प्रयच्छता । 0191cd

सोखण्डिताश्मप्राकारं प्रासादान्तर्व्यधत्त च । 0192ab
मार्तण्डस्याद्भुतं दाता द्राक्षास्फीतं च पत्तनम् ॥ 0192cd

लोकपुण्ये पुरं94 कृत्वा नानोपकरणावलीम् । 0193ab
प्रतिपादितवाञ्जिष्णुर्ग्रामैः95 साकं स विष्णवे ॥ 0193cd

ततः परं96 परीहासशीलो भूलोकवासवः । 0194ab
विहसद्वासवावासं परिहासपुरं97 व्यधात् ॥ 0194cd

विरेजे राजतो देवः श्रीपरीहासकेशवः । 0195ab
लिप्तो रत्नाaकरस्वापे मुक्ताज्योतिर्मरैरिव ॥ 0195cd

नाभीनलिनलिञ्जल्कपुञ्जेनेवानुरञ्जितः । 0196ab
अचकात्काञ्चनमयः[^0196-1] श्रीमुक्ताकेशवो हरिः ॥ 0196cd

महावराहः शुशुभे काञ्चनं कवचं दधत् । 0197ab
पाताले तिमिरं हन्तुं[^0197-1] वहन्निव रविः[^0197-2] प्रभाः ॥ 0197cd

गोवर्धनधरो देवो राजतस्तेन कारितः । 0198ab
यो गोकुलपयः पूरैरिव पाण्डुरतां दधे ॥ 0198cd

चतुष्पञ्चाशतं हस्तान्रोपयित्वा98 महाशिलान् । 0199ab
ध्वजाग्रे दितिजारातेस्तार्क्ष्यस्तेन निवेशितः ॥ 0199cd

चक्रे बृहच्चतुःशालावृहच्चैत्यबृहज्जिनैः । 0200ab
राजा राजविहारं स विरजाः सततोर्जितम् ॥ 0200cd

तोलकानां सहस्राणि चतुर्भिरधिकानि[^0201-1] सः । 0201ab
अशीतिं निदधे हेम्नो मुक्ताकेशवविग्रहे ॥ 0201cd

तावन्त्येव सहरानि पलानां रजतस्य च । 0202ab
सन्धाय शुद्धधीश्चक्रे श्रीपरीहासकेशवम् ॥ 0202cd

रीतिप्रस्थसहस्रैस्तु तेन तावद्भिरेव सः । 0203ab
व्योमव्यापिवपुः श्रीमान्बृहद्बुद्धो व्यधीयत ॥ 0203cd

चतुःशालां च चैत्यं च तावता तावता व्यधात् । 0204ab
धनेनैवेति तस्यासन्पञ्च निर्मितयः[^0204-1] समाः ॥ 0204cd

राजतान्क्वापि सौवर्णान्क्वापि देवान्विनिर्ममे । 0205ab
पार्श्वेषु मुख्यदेवानां पार्षदो99 धनदोपमः ॥ 0205cd

कियन्ति तत्र रत्नानि ग्रामान्परिकरांस्तथा[^0206-1] । 0206ab
स प्रादादिति कः शक्तः परिच्छेत्तुमियत्तया ॥ 0206cd

अवरोधैरमात्यैश्च सेवकैश्च नरेश्वरैः । 0207ab
तत्र प्रतिष्ठाः शतशो विहिता भुवनाद्भुताः ॥ 0207cd

[page 51]

विश्वास-प्रस्तुतिः

राज्ञी कमलवत्यस्य100 कमलाहट्टकारिणी । 0208ab
राजतम् त्रिपुलाकारं कमालाकेशवं व्यधात् ॥ 0208cd

अमात्यो मित्रशर्मापि चक्रे मित्रेश्वरं हरम् । 0209ab
श्रीकय्यस्वामिनं चक्रे लाटः कय्याभिधो नृपः ॥ 0209cd

श्रीमान्कय्यविहारोपि तेनैव विदधेद्भुतः । 0210ab
भिक्षुः सर्वज्ञमित्रोभूत्क्रमाद्यत्र जिनोपमः ॥ 0210cd

तुःखारश्चङ्कुणश्चक्रे101 स चङ्कुणविहारकृत् । 0211ab
भूपचित्तोन्नतं स्तूपं जिनान्हेममयांस्तथा ॥ 0211cd

ईशानदेव्या तत्पत्न्या खाताम्बु प्रतिपादितम् । 0212ab
सुधारसमिव[^0212-1] स्वच्छमारोग्याधायि रोगिणाम् ॥ 0212cd

ललितादित्यभूभर्तुर्वल्लभा102 चक्रमर्दिका । 0213ab
सहस्राण्योकसां सप्त तत्र चक्रपुरं व्यधात् ॥ 0213cd

आचार्यो भप्पटो103 नाम विदधे भप्पटेश्वरम् । 0214ab
अन्येपि रक्छटेशाद्या104 बहवो बहुभिः कृताः ॥ 0214cd

अधिष्ठानान्तरेप्यत्र चङ्कुणेनाप्यमन्त्रिणा । 0215ab
सचैत्यः सुकृतोदारो विहारो निरमीयत ॥ 0215cd

भिषगीशानचन्द्राख्यः स्यालश्चङ्कुणमन्त्रिणः । 0216ab
विहारमकरोल्लब्ध्वा तक्षकानुग्रहाच्छ्रियम् ॥ 0216cd

एवं हेममयीमुर्वीं स कुर्वन्नुर्वरापतिः105 । 0217ab
गुणैरौदार्यशौर्याद्यैर्मघवानमलङ्घयत् ॥ 0217cd

हेलयापि विनिर्यान्ती वक्त्राद्वसुमतीपतेः । 0218ab
न कदाचन तस्याज्ञा देवैरप्युदलङ्घ्यत ॥ 0218cd

तथाहि पूर्वपाथोधेस्तटे सकटको वसन् । 0219ab
आनीयन्तां कपित्थानीत्यादिदेश स जातु चित् ॥ 0219cd

किङ्कर्तव्यतयान्धेषु106 पुरोगेषु स्थितेष्वथ । 0220ab
उपानयत्कपित्थानि[^0220-3] द्विव्यः कोपि पुमान्पुरः ॥ 0220cd

अग्रादुपायनं107 गृह्णन्कृतसञ्ज्ञो भ्रुवा प्रभोः । 0221ab
कस्य त्वमिति पप्रच्छ प्रतीहारः प्रसृत्य तम् ॥ 0221cd

सोभ्यधात्तं कपित्थानि दत्त्वा राज्ञः । 0222ab
प्रहितोद्य महेन्द्रेण नन्दनोद्यानपालकः ॥ 0222cd

रहो महेन्द्रसन्दिष्टं वक्तव्यं किञ्चिदस्ति मे । 0223ab
इति श्रुत्वा प्रतीहारं सभां चक्रे स निर्जनाम् ॥ 0223cd

ततो दिव्यः पुमानूचे शक्रस्त्वां वक्ति भूपते । 0224ab
क्षन्तव्यं पथ्यमप्येतत्सौजन्यान्निष्ठुरं वचः ॥ 0224cd

तुर्ये युगेपि भूपाल दिक्पाला अपि ते वयम् । 0225ab
विभृमो यत्प्रणम्याज्ञां श्रूयतां तत्र कारणम् ॥ 0225cd

पुरा ग्रामगृहस्थस्य108 कस्यचित्पृथुसम्पदः । 0226ab
जन्मान्तरे कर्मकरो हालिकोभूद्भवान्किल ॥ 0226cd

एकदा तस्य ते ग्रीष्मे वाहयित्वा महावृषान् । 0227ab
श्रान्तस्य निर्जलेरण्ये क्षीणप्रायमभूदहः ॥ 0227cd

ततः स्वाभिगृहात्क्षुत्तृट्खिन्नस्य भवतोन्तिकम् । 0228ab
वारिकुम्भीमपूपं च गृहीत्वा कश्चिदाययौ । 0228cd

निर्धौतपाणिपादस्त्वं भोक्तुं स्म्प्रस्तुतस्ततः ॥ 0229ab
विप्रं कण्ठगतप्राणमपश्यः पुरतोतिथिम् ॥ 0229cd

स त्वामवोचन्मा भुङ्क्ष्व109 दुर्भिक्षोपहतस्य मे । 0230ab
कण्ठे यियासवः प्राणा वर्तन्ते भोजनं विना ॥ 0230cd

वारितः पार्श्वगेनापि तस्मै त्वं प्रीतिपूर्वकम् । 0231ab
पूपार्धं वारिकुम्भीं च प्रादाः प्रियमुदीरयन् ॥ 0231cd

पात्रे प्रसन्नचित्तस्य काले दानेन तेन ते । 0232ab
अखण्डितानामाज्ञानां शतमासीत्त्रिविष्टपे ॥ 0232cd

तेन वारिप्रदानेन वाञ्छामात्रेपि दर्शिते । 0233ab
प्रादुर्भवन्ति सुस्वादा नद्यो मरुपथेष्वपि ॥ 0233cd

सत्क्षेत्रप्रतिपादितः110 प्रियवचोबद्धालवालावलिर्निर्दोषेण मनःप्रसादपयसा निष्पन्नसेकक्रियः । 0234ab
दातुस्तत्तदभीप्सितं110 किल फलन्कालेतिबालोप्यसौ रजन्दानमहीरुहो विजयते कल्पद्रुमादीनपि ॥ 0234cd

[page 52]

विश्वास-प्रस्तुतिः

अल्पावशेषास्तास्त्वद्य सन्त्याज्ञास्तव भूपते । 0235ab
वचोलङ्घ्यं क्षपयतो यत्र तत्राविचारतः ॥ 0235cd

अपि चेतरभूपालसुलभं111 महतः सतः । 0236ab
कस्माद्विचारशून्यत्वं तवापि हृदि रोहति ॥ 0236cd

दिनानि कतिचिद्यानि कश्मीरेषु घनागमे । 0237ab
जायन्ते तानि पूर्वाब्धौ फलानि शिशिरे कुतः ॥ 0237cd

विगाहसे दिशं यां यां तत्र तत्रैव तत्पतेः112 । 0238ab
त्वदाज्ञाग्रहणे यत्नः पूर्वदानप्रभावतः ॥ 0238cd

आशां श्रितस्य माहेन्द्रीमाज्ञा स्वल्पापि तेधुना । 0239ab
गृहीता कथमप्येषा शक्रेणाभग्नशक्तिना ॥ 0239cd

विना प्रयोजनं मुख्यं तस्मादाज्ञास्त्वया113 क्वचित् । 0240ab
नैवमेव पुनर्देया विरलाः सन्ति सा यतः ॥ 0240cd

इत्युक्त्वान्तर्हिते तस्मिन्भूपालो विपुलाशयः । 0241ab
चिन्तयन्दानमाहात्म्यं परं विस्मयमाययौ ॥ 0241cd

तत्ः प्रभृति तादृक्षयोग्यार्थप्राप्तिलालसः । 0242ab
परिहासपुरे चक्रे स्थिरां गुर्वीं स पर्विणीम् ॥ 0242cd

सहस्रभक्तमित्येवं प्रख्यातायां सदक्षिणम् । 0243ab
लक्षमेकोत्तरं भक्तपात्राणां यत्र दीयते ॥ 0243cd

अभिप्रायेण तेनैव पत्तनान्यूषरेषु सः । 0244ab
चक्रे यद्येषु तृष्णार्तः कश्चिज्जातु पिबेदपः ॥ 0244cd

सञ्जग्राह स देशेभ्यस्तांस्तानन्तरविन्नरान् । 0245ab
विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ 0245cd

तेन कङ्कणवर्षस्य रससिद्धस्य सोदरः । 0246ab
चङ्कुणो नाम भुःखारदेशान्नीतो114115 गुणोन्नतः ॥ 0246cd

स रसेन समातन्वन्कोशे बहुसुवर्णताम् । 0247ab
पद्माकर इवाब्जस्य भूभृतोभूच्छुभावहः ॥ 0247cd

रुद्धः पञ्चनदे जातु दुस्तरैः सिन्धुसङ्गमैः । 0248ab
तटे स्तम्भितसैन्योभूद्राजा116 चिन्तापरः क्षणम् ॥ 0248cd

ततोम्बुतरणोपायं सरिन्नीरं ससैनिकः । 0249ab
अगाधेम्भसि रोधःस्थश्चङ्कुणो मणिमक्षिपत् ॥ 0249cd

तत्प्रभावाद्द्विधाभूतं सरिन्नीरं ससैनिकः । 0250ab
उत्तीर्णो नृपतिस्तूर्णं परं पारं समासदत् ॥ 0250cd

मणिमन्थेन मणिना चङ्कुणोप्याचकर्ष तम् । 0251ab
सलिलं प्रागवस्थं च क्षणेन सरितामभूत् ॥ 0251cd

परिभाव्याद्भुतं117 तत्स प्रशंसामुखराननः । 0252ab
प्रणयाच्चङ्कुणं राजा मणियुग्ममयाचत ॥ 0252cd

स तमाह स्म विहसन्कर्मेमौ कुरुते मणी । 0253ab
योग्यौ तस्य का शोभा विविधोत्कृष्टवस्तुषु[^0253-1] ॥ 0253cd

सामान्येष्वेव लभते सोत्कर्षं वस्तु सम्प्रथाम् । 0254ab
महत्सु तस्य का शोभा विविधोत्कृष्टवस्तुषु118 ॥ 0254cd

प्रस्यन्दनं शिशिमणेर्गणयन्ति119 तावद्यावत्स्थितो जलनिधेः पुलिनैकदेशे । 0255ab
120 स्वीक्रियते यदि तेन121 ततस्तदास्य स्यन्दः122 स्फुरन्नपि न तत्सलिले विभाव्यः121 ॥ 0255cd

इत्युक्त्वा विरते तस्मिन्राजा सस्मितमब्रवीत् । 0256ab
सम्भावयसि किं रत्नमाभ्यामभ्यधिकं मम ॥ 0256cd

अतोधिकतरं123 यद्वा किञ्चित्त्वं124 माम् पश्यसि । 0257ab
तदादाय प्रयच्छेदं निष्क्रयेण मणिद्वयम् ॥ 0257cd

ततो महान्प्रसादोयमित्युक्त्वा चङ्कुणोब्रवीत् । 0258ab
स्वायत्ते स्वामिनो रत्ने मह्यमिष्टं तु दीयताम् ॥ 0258cd

गजस्कन्धेधिरोप्यैतम्मागधेभ्यो यदाहृतम् । 0259ab
दत्त्वा सुगतबिम्बं125 तज्जनोयमनुगृह्यताम् ॥ 0259cd

सलिकोत्तरणोपायो मणी देवेन गृह्यताम्126 । 0260ab
संसारोत्तरणोपायः सुगतो मह्यमर्प्यताम् ॥ 0260cd

[page 53]

विश्वास-प्रस्तुतिः

इति तेनार्थितो युक्त्या जिनबिम्बं ददौ नृपः । 0261ab
वाग्मिनां कस्य सामर्थ्यं परिपन्थयितुं वचः ॥ 0261cd

स्वविहारेथ भगवान्स तेन विनिवेशितः । 0262ab
कपिशाभिः सकाषाय इव यो भाति कान्तिभिः ॥ 0262cd

दृश्यतेद्यापि कटकैरायसैः परिवेष्टितः । 0263ab
गजस्कन्धनिबद्धस्य127 सूचको128 यस्य विष्टरः ॥ 0263cd

अभिप्रायानुसारेण प्रकटीकुरुते प्रियम् । 0264ab
अहो महाप्रभावाणां भूपतीनां वसुन्धरा ॥ 0264cd

अशिक्षितं कदाचित्स स्वयं दमयितुं हयम् । 0265ab
निनायारण्यमेकाकी हयविद्याविशारदः ॥ 0265cd

दूरान्निर्मानुषे तत्र ललनां ललिताकृतिम् । 0266ab
एकां ददर्श गायन्तीम् नृत्यन्तीमपरामपि ॥ 0266cd

क्षणाच्च ते समापय्य गीतनृत्ते मृगीदृशौ । 0267ab
प्रणम्य किञ्चिद्गच्छन्त्यावपश्यद्दमयन्हयम् ॥ 0267cd

तुरगं तं समारुह्य तत्रागच्छद्दिने दिने । 0268ab
दृष्ट्वा तथैव ते कान्ते गत्वापृच्छत्सविस्मयः ॥ 0268cd

तमूचतुस्ते नर्तक्यावाचां देवगृहाश्रिते[^0269-1] । 0269ab
यः शूरवर्धमानोयं ग्रामस्तत्रावयोर्गृहम् ॥ 0269cd

इहत्यजीवनभुजां मातॄणामुपदेशतः । 0270ab
अस्मत्कुलेन129 नियतं नृत्तमत्र130 विधीयते ॥ 0270cd

रूढिः परम्परायाता सेयमस्मद्गृहे स्थिता । 0271ab
आवामन्योपि वा नात्र निमित्तं ज्ञातुमीश्वरः ॥ 0271cd

एवं वचस्तयोः श्रुत्वा नृपोन्येद्युः सविस्मयः । 0272ab
तदुक्त्या131 मेदिनीं कृत्स्नां132 कारुभिर्निरदारयत् ॥ 0272cd

दूरं133 निर्हृतमृद्भिस्तैरथाद्राक्षीन्निवेदितम् । 0273ab
नृपतिः पिहितद्वारं जीर्णं देवगृहद्वयम् ॥ 0273cd

उद्घाटिताररिर्वर्णैः134 पीठोत्कीर्णैर्निवेदितौ । 0274ab
अपश्यत्केशवौ तत्र रामलक्ष्मणनिर्मितौ ॥ 0274cd

परिहासहरेः पार्श्वे पृथक्कृत्वा शिलागृहम् । 0275ab
स रामस्वामिनः श्रीमान्प्रतिष्ठाकर्म निर्ममे ॥ 0275cd

देवोपि लक्ष्मणस्वामी तथैवाभ्यर्थ्य पार्थिवम् । 0276ab
चक्रमर्गिकया चक्रेश्वरपार्श्वे निवेशितः ॥ 0276cd

दिग्जये पुरुषः कश्चिद्वृत्तप्रत्यग्रनिग्रहः । 0277ab
अग्रे न्यक्षिपदात्मानं गजारूढस्य भूभुजः ॥ 0277cd

तं कृत्तपाणिघ्राणादिब्रणैः शोणितवर्षिणम् । 0278ab
त्राणार्थिनं कारुणिकः स्वोदन्तं पृष्टवान्नृपः ॥ 0278cd

स तस्मै सिकतासिन्धुसविधस्थस्य भूपतेः । 0279ab
प्रख्यातमूचे सचिवमात्मानं135 हितकारिणम् ॥ 0279cd

प्रणतिर्ललितादित्यनृपतेः क्रियतामिति । 0280ab
हितं136 कथयतः स्वस्य निग्रहं च ततो नृपात् ॥ युग्मम् ॥ 0280cd

प्रतिजज्ञे च भूपेन ततस्तत्स्वामिनिग्रहः । 0281ab
रूढव्रणोगदङ्कारैः स चाकार्यत सत्कृतैः ॥ 0281cd

ततो विहितयात्रं तं स मन्त्री कृतसत्क्रियः । 0282ab
कदाचिदेवमवदद्विहने137 जगतीभुजम् ॥ 0282cd

एवंविधस्य कायस्य राजन्यत्परिरक्षणम् । 0283ab
तत्र वैरविशुद्ध्याशा विडम्बयति गामियम् ॥ 0283cd

बाष्पैर्जलाञ्जलिं दत्त्वा दुःखाय च सुखाय च । 0284ab
कृतकृत्यो ध्रुवं जह्मामवमानहतानसून्138 ॥ 0284cd

अपकृत्याधिकं शत्रोरपकारं जयेन्मितम् । 0285ab
गम्भीरं प्रतिनद्येव निनादं नदतो गिरिः ॥ 0285cd

इतो मासैस्त्रिभिर्गम्या भूः प्राप्या त्वरितं कथम् । 0286ab
यदा वा प्राप्यते वैरी तदा तत्रैव किं वसेत् ॥ 0286cd

मासार्धलङ्घ्यं पन्थानं तस्मादुपदिशामि ते । 0287ab
गृहीता स139 जलं गम्यश्चमूनां किं तु निर्जलः ॥ 0287cd

तद्भूमिजा बन्धवो मे न वक्ष्यन्ति तवदागमम् । 0288ab
सामात्यान्तःपुरो राजा छद्मनानेन गृह्यते ॥ 0288cd

[page 54]

विश्वास-प्रस्तुतिः

इत्युक्त्वा सोकरोत्तस्य प्रवेशं बालुकार्णवे । 0289ab
पक्षे क्षीणे च कटको निस्तोयः समपद्यत ॥ 0289cd

तत्राप्यहानि द्वित्राणि वहन्नेवाभवन्नृपः । 0290ab
तृणार्तं वीक्ष्य सैन्यं च मन्त्रिणं तमभाषत ॥ 0290cd

उक्तकालाधिका यावद्वासरा गमिताः पथि । 0291ab
मुमूर्षु तृष्णया सैन्यम् तदध्वा शिष्यते कियान् ॥ 0291cd

ततो विहस्य सोवादीज्जिगीषो शेषमध्वनः । 0292ab
किं पृच्छत्यरिराष्ट्रस्य यमराष्ट्रस्य वा भवान् ॥ 0292cd

त्वं हि स्वामिहितायैव समुपेक्ष्य स्वजीवितम् । 0293ab
मृत्युवक्त्रं सकटको मया युक्त्या प्रविशितः ॥ 0293cd

नेदं मरुमंहीमात्रं भीमोयं बालुकार्णवः । 0294ab
नाम्भोत्र लभ्यते क्वापि कस्त्राता तेद्य भूपते ॥ 0294cd

श्रुत्वेति पृतना कृत्स्ना समभूद्वीतसौष्ठवा । 0295ab
करकाभ्रंशितफला140 स्तम्भशेषेव शालिभूः ॥ 0295cd

सन्त्यक्तजीविताशानां भीरूणां क्रन्दितध्वनिम् । 0296ab
भुजमुद्यम्य शमयंस्ततो नृपतिरब्रवीत् ॥ 0296cd

अमात्य तव कृत्येन प्रीताः स्वामिहितैषिणः । 0297ab
मरावप्यत्र शीतार्ता इव रोमाञ्चिता वयम् ॥ 0297cd

अभेद्यसारे मयि तु व्यक्तमेवंविधोपि ते141 । 0298ab
प्रयासः142 कुण्ठतां यातो लोहं वज्रमणाविव ॥ 0298cd

मणिभ्रमाद्वह्निकणं143 गृह्णन्दग्धा इवाङ्गुलीः । 0299ab
त्वं मिथ्यावयवांल्लूनानद्य शोचिष्यसि ध्रुवम् ॥ 0299cd

निदेशेनैव144 मे पश्य पयः सूतेद्य मेदिनी । 0300ab
रसितेनाम्बुवाहस्य रत्नं वैडूर्यभूरिव ॥ 0300cd

इत्युक्त्वा सोम्बु निष्क्रष्टुं कुन्तेनोर्वीं व्यदारयत् । 0301ab
उज्जिहीर्षुर्वितस्ताम्भः शूलेनेव त्रिलोचनः ॥ 0301cd

अथोज्जगाम पाताललक्ष्मीलीलस्मितच्छविः । 0302ab
रसातलात्सरित्साकं सैन्यानां जीविताशया ॥ 0302cd

तस्य सेनाचराणां सा क्लमं चिच्छेद वाहिनी । 0303ab
वृथाव्ययीकृताङ्गस्य मन्त्रिणस्तस्य चेप्सितम् ॥ 0303cd

लूनाङ्गोमङ्गलाशंसी स मन्त्री विफलश्रमः । 0304ab
स्वस्य भर्तुर्विवेशादौ नगरीमन्तक्रस्ततः145 ॥ 0304cd

राञ्जापि कुटिलाचारो निगृह्य स महीपतिः । 0305ab
निजस्य मन्त्रिणस्तस्य तुल्यावस्थो व्यधीयत ॥ 0305cd

यथोपयोगं तेनैव स्थाने स्थाने प्रवर्तितः । 0306ab
अद्यापि कुन्तवाहिन्यः प्रवहन्त्युत्तरापथे ॥ 0306cd

सहस्रशः सम्भवन्तोप्यपरे भुवनाद्भुताः । 0307ab
अतिप्रसङ्गभङ्गेन तद्वृत्तान्ता न दर्शिताः ॥ 0307cd

यन्निःशब्दजला घनाश्मपरुषे देशेतिघोरारवा यच्चाच्छाः समये पयोदमलिने कालुष्यसन्दूषिताः । 0308ab
दृश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ146 तत्सत्यं महतामपि स्वसदृशाचारप्रवृत्तिप्रदौ ॥ 0308cd

कलेर्वायं प्रभावः स्यान्नरनाथासनस्य वा । 0309ab
यत्सोपिo भीमकलुषाः प्रवृत्तीः समदर्शयत् ॥ युग्मम्॥ 0309cd

अवरोधसखो राजा परिहासपुरे स्थितः । 0310ab
स जातु मदिराक्षीव सचिवानेवमन्वशात् ॥ 0310cd

कृतं प्रवरसेनेन यदेतत्प्रवरं पुरम् । 0311ab
तन्निर्दहथ मन्यध्वे मत्पुरस्येव147 चेच्छ्रियम् ॥ 0311cd

घोरामलङ्घिताज्ञस्य श्रुत्वेत्याज्ञां महीपतेः । 0312ab
गत्वाश्वघासकूटानि148 तेदहन्वातुलानके । 0312cd

हर्म्याग्राद्वीक्षमाणस्तद्वह्निज्वालोज्ज्वलाननः । 0313ab
उल्कामुख इवाभूत्स हर्षाट्टहाससितोत्कटः ॥ 0313cd

द्वेषादिवैकृतवतः प्रतिभासतेन्यो मिथ्यैव चित्रमधिको विशदात्मनोपि । 0314ab
चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या तेजोमयं तिमिरदोषहतं हि चक्षुः ॥ 0314cd

[page 55]

विश्वास-प्रस्तुतिः

नैवं चेदेकमपि तत्पुरं प्रवरभूपतेः । 0315ab
असख्यपुरनिर्माता स विवेदाधिकं कुतः ॥ युग्मम्॥ 0315cd

क्षीणक्षैव्योथ निर्ध्याय नगरप्लोषकिल्विषम् । 0316ab
उष्णनिःश्वाससुहृदा पस्पर्शेनुशयाग्निना ॥ 0316cd

नत्कुर्वतेन्तःसुषिरा[^0317-1] गूढं[^0317-2] येनातनुक्षयम्[^0317-3] । 0317ab
दह्यन्ते[^0317-4] जीर्णतरवः कोटरस्थानला इव ॥ 0317cd

प्रातस्तमथ शोचन्तं सदुःखं वीक्ष्य मन्त्रिणः । 0318ab
चिन्तानिवर्तनायोचुः पुरप्लोषं मृषैव तत् ॥ 0318cd

श्रुतेप्रनष्टे नगरे निःशोकोभून्महीपतिः । 0319ab
स्वप्रान्तर्हारिते पुत्रे प्रबुद्धोग्र इव स्थिते ॥ 0319cd

कार्यं न जातु तद्वाक्यं यत्क्षीवेन मयोच्यते । 0320ab
तान्युक्तकारिणोमात्यान्प्रशंसन्निति सोब्रवीत् ॥ 0320cd

प्रियमनुचितं क्ष्मापण्यस्त्रीक्षणप्रभुरीश्वरो रमयति यतो धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः । 0321ab
नृपमपथगं पान्ति प्रानानुपेक्ष्य निजामपि प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥ 0321cd

अतीन्द्रमपि माहात्म्यं राज्ञस्तस्याध्तिष्ठतः । 0322ab
अयमन्योपि दोषोभूदितरक्षितिपोचितः ॥ 0322cd

दत्त्वापि यत्स मध्यस्थं श्रीपरीहासकेशवम् । 0323ab
जघान तीक्ष्णपुरुषैस्त्रिग्राम्यां गौडपार्थिवम् ॥ 0323cd

गौडोपजीविनामासीत्सत्त्वमत्यद्भुतं तदा । 0324ab
जहुर्ये जीवितं धीराः परोक्षस्य प्रभोः कृते ॥ 0324cd

शारदादर्शनमिषात्कश्मीरान्सम्प्रविश्य ते । 0325ab
मध्यस्थदेवावसथं संहताः समवेष्टयन् ॥ 0325cd

दिगन्तरस्थे भूपाले प्रविवेक्षूनवेक्ष्य तान् । 0326ab
परिहासहरिं चक्रुः पूजकाः पिहिताaरिम् । 0326cd

ते रामस्वामिनं प्राप्य राजतं विक्रमोर्जिताः । 0327ab
परिहासहरिभ्रान्त्या चक्रुरुत्पाद्य रेणुशः ॥ 0327cd

तिलम् तिलं तं कृत्वा च चिक्षिपुर्दिक्षु सर्वतः । 0328ab
नगरान्निर्गतैः सैन्यैर्हन्यमानाः पदे पदे ॥ 0328cd

श्यामला रक्तसंसिक्तास्तेपतन्निहता भुवि । 0329ab
अञ्जनाद्रिदृषत्खण्डा धातुस्यन्दोज्ज्वला इव ॥ 0329cd

तदीयरुधिरासारैः समभूदुज्ज्वलीकृता । 0330ab
स्वामिभक्तिरसामान्या धन्या चेयं वसुन्धरा ॥ 0330cd

वज्राद्वज्रकृतं भयं विरमति श्रीः पद्मरागाद्भवेन्नानाकारमपि प्रशसम्यति विषं गारुत्मतादश्मनः । 0331ab
एकैकं क्रियते प्रभावनियमात्कर्मेति149 रत्नैः परं पुंरत्नैः पुनरप्रमेयमहिमोन्नद्धरिन150 किं साध्यते ॥ 0331cd

क्वदीर्घकाललङ्घ्योध्वा शान्ते भक्तिः क्व च प्रभौ । 0332ab
विधातुरप्यसाध्यं तद्यद्गौडैर्विहितं तदा ॥ 0332cd

लोकोत्तरस्वामिभक्तिप्रभावाणि151 पदे पदे । 0333ab
तादृशानि तदाभूवन्भृत्यरत्नानि भूभृताम् । 0333cd

राज्ञः प्रियो रक्षितोभूद्गौडराक्षसविप्लवे । 0334ab
रामस्वाम्युपहारेण श्रीपरीहासकेशवः ॥ 0334cd

अद्यापि दृश्यते शून्यं रामस्वामिपुरास्पदम् । 0335ab
ब्रह्माण्डं गौडवीराणां सनाथम् यशसा पुनः ॥ 0335cd

एवं नानाविधोदन्तैर्वासराः क्ष्मापतेर्ययुः । 0336ab
विरलाः स्वपुरे तस्य भूयांसस्तु दिगन्तरे ॥ 0336cd

अनन्याक्रान्तपृथिवीसमालोकनकौतुकी152 । 0337ab
अपारं प्रविवेशाथ पुनरेवोत्तरापथम् ॥ 0337cd

कर्तुं प्रभावजिज्ञासां प्रहितैर्धनदादिभिः । 0338ab
नैरृतैः सह वृत्तान्तास्तस्य ते ते तदाभवमन् ॥ 0338cd

नाद्यापि या भुवो दृष्टा जाने भानुकरैरपि । 0339ab
राज्ञस्तस्य बभूवाज्ञा तत्र[^0339-1] स्वैरविहारिणी ॥ 0339cd

चिरमज्ञातवृत्तान्तैर्मन्त्रिभिः प्रहितस्तनः । 0340ab
प्रत्यावृत्तस्तस्य पार्श्वाद्दूतस्तानेवमुक्तवान् ॥ 0340cd

[^0339] A3 तासु.

[page 56]

विश्वास-प्रस्तुतिः

इत्यादिशति वः स्वामी कोयम् मोहो भवादृशाम् । 0341ab
क्ष्मामिमाम् मे प्रविष्ठस्य प्रतीक्षध्वे153 यदागमम् ॥ 0341cd

नवं नवं प्रतिदिनं सन्त्यज्य विजयार्जनम् । 0342ab
स्वराष्ट्रं सम्प्रविष्टस्य किं कार्यं माम् पश्यथ ॥ 0342cd

विनिर्गतानां स्वभुवः सरितां सलिलाकरः । 0343ab
न निर्व्याजजिगीषूणां154 दृश्यते ह्यवधिः क्वचित् ॥ 0343cd

तस्मादाचारसारं वो वक्ष्ये स्वविषयोचितम् । 0344ab
राज्यं तदनुसारेण निर्विघ्नं कुरुतानघाः ॥ 0344cd

अत्रस्थैः सर्वदा स्वभेदः प्रभविष्णुभिः । 0345ab
चार्वाकाणामिवैषां हि भयं न परलोकतः ॥ 0345cd

अपराधं विनाप्यत्र दण्ड्या गह्वरवासिनः । 0346ab
ते हि सम्भृतवित्ताः स्युर्दुर्भेद्या155 दुर्गसंश्रयाः ॥ 0346cd

वर्षोपभोग्यान्यन्नानि क्षेत्रभूसम्मिता वृषाः । 0347ab
ग्राम्याणां नातिरिच्यन्ते यथा कार्यं तथासकृत् ॥ 0347cd

श्रधिकीभूतवित्ता हि वत्सरेणैव ते भृशम् । 0348ab
भवेयुर्डामराः क्रूरा नृपाज्ञातिक्रमक्षमाः ॥ 0348cd

वस्त्रं स्त्रियः कुथा भोज्यमलङ्कारा हया गृहाः । 0349ab
आसाद्यन्ते यदा जातु ग्रामीणैर्नगरोचिताः ॥ 0349cd

मदाद्दुर्गाण्युपेक्ष्यन्ते संरक्ष्याणि यदा नृपैः । 0350ab
यदा चानन्तरज्ञत्वं तेषां भृत्येषु दृश्यते ॥ 0350cd

प्रदेशादेकतो रूढा यदा वृत्तिश्च शस्त्रिणाम् । 0351ab
अन्योन्योद्वाहसम्बन्धैः कायस्थाः संहता यदि ॥ 0351cd

कर्मस्थानानि वीक्षन्ते क्ष्मापाः कायस्थवद्यदा । 0352ab
तदा निःसंशयं ज्ञेयः प्रजाभाग्यविपर्ययः ॥ चक्कलकम्॥ 0352cd

चेष्टानुसारेणोन्नीय गूढमाशयसंविदम् । 0353ab
मयोक्तं हृदये कार्यमन्तरं राजवीजिनाम् ॥ 0353cd

प्रत्यासत्तिं मदकरटिनो156 दानगन्धेन वायुर्गर्जोद्भूतिं प्रकटितरुचिश्चञ्जलैवाम्बुदस्य । 0354ab
चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्या जन्तोर्जन्मान्तरपरिचितां निश्चलां चित्तवृत्तिम् ॥ 0354cd

पुत्रः कुवलयादित्यो वज्रादित्यश्च मे समौ । 0355ab
भिन्नशीला तयोर्भ्रात्रोर्धीर्द्विमातुरयोः पुनः ॥ 0355cd

ज्यायान्राज्येभिषेक्तव्यः157158 स च स्याद्बलवान्यदा । 0356ab
तस्याज्ञातिक्रमः कार्यो भवद्भिर्नियमात्तदा ॥ 0356cd

उत्सृजञ्जीवितं वापि राज्यं वापि स पार्थिवः । 0357ab
शोचनीयो न केनापि स्मरतेदं वचो मम ॥ 0357cd

कार्यः कनीयान्न नृपः प्रमादात्क्रियते यदि । 0358ab
नोल्लङ्घनीया तस्याज्ञा रक्ष्यश्च विषमोपि सः ॥ 0358cd

पौत्रेषु मे कनीयान्यो जयापीडोस्मि दारकः । 0359ab
पितामहसमो भूया इति वाच्यः स सर्वदा ॥ 0359cd

भर्तुर्गृहीतनैराश्याः साभिप्रायां प्रणम्य ताम् । 0360ab
आनर्चुः प्रश्चिमामाज्ञां ते बाष्पार्धकणत्यजः ॥ 0360cd

उवाच चङ्कुणो जातु सन्निपत्याखिलाः प्रजाः । 0361ab
बाष्पैः पतिवियोगाग्नितप्तां सिञ्चन्वसुन्धराम् ॥ 0361cd

राज्ये कुवलापीडो राजपुत्रोभिषिच्यताम् । 0362ab
सुगृहीताभिधो राजा गतः स सुकृती दिवम् ॥ 0362cd

ससृजे यस्य कृतिनो दैवतैह् कोशवृद्धये । 0363ab
रससिद्धिरकस्मान्मे यस्मात्सास्तमुपागता ॥ 0363cd

दूरस्थोपि हि भूभृत्स भाग्यशक्त्या कयाचन । 0364ab
कार्याणि घटयन्नासीद्दुर्घटान्यपि हेलया ॥ 0364cd

अम्भोजानि घनाघनव्यवहितोप्युल्लाघयत्यंशुमान्दूरस्थोपि पयोधरोतिशिशिरस्पर्शं करोत्यातपम् । 0365ab
शक्तिः काप्यपरिक्षतास्ति महतां स्वैरं दविष्ठ्यान्यहो यन्माहात्मयवशेन यान्ति घटनां कार्याणि निर्यन्त्रणाम्159 ॥ 0365cd

सैकादशदिनान्सप्त मासान्षट्त्रिंशतं समाः । 0366ab
एवमाह्लाद्य स महीं प्रजाचन्द्रोस्तमाययौ ॥ 0366cd

[page 57]

विश्वास-प्रस्तुतिः

तुषारवर्षैर्वेहलैस्तमकाण्डनिपातिभिः । 0367ab
आर्याणकाभिधे देशे विपन्नं केचिदूचिरे ॥ 0367cd

राजप्रष्टां160 प्रित्ष्ठां स सक्षितुं चिरसञ्चिताम् । 0368ab
सङ्कटे क्वापि दहनं प्राविक्षदिति केचन ॥ 0368cd

केषाञ्चित्तु मते भूभृद्दवीयस्युत्तरापथे । 0369ab
सोमर्त्यसुलभां भूमिं प्रविष्टः कटकान्वितः ॥ 0369cd

अत्यद्भुतानि कृत्यानि श्रुतान्यस्य यथा किल । 0370ab
विपत्तिरपि भुयुभर्तुस्तथैवात्यद्भुता श्रुता ॥ 0370cd

यातोस्तं द्युमणिः पयोधिसलिलं कैश्चित्प्रविष्टोपरैः सम्प्राप्तो दहनं गतः किल परैर्लोकान्तरं कीर्त्यते । 0371ab
जायन्ते महतामहो निरुपमप्रस्थानहेवाकिनां निःसामान्यमहत्त्वयोगपिशुना वार्ता विपत्तावपि ॥ 0371cd

ततः कुवलयापीडो भेजे कुवलयेशताम्161 । 0372ab
जातः कमलदेव्या यः श्रीमाज्शक्र इवादितेः ॥ 0372cd

त्यागेन चक्रे विशदाम् योनुरक्तां नृपश्रियम् । 0373ab
महोरगस्त्वचमिव स्वभावमलिनामपि ॥ 0373cd

भ्रात्रा तुल्यप्रभावेण कञ्चित्कालं हृतप्रभः । 0374ab
स हुताशोष्मणाक्रान्तः प्रदीप इव नारुचत् ॥ 0374cd

भृङ्गैरिवानुगैर्दानलोभात्पर्यायवृत्तिभिः । 0375ab
श्रीदुःस्थाभूत्तयोरन्तर्मत्तेभकटयोरिव ॥ 0375cd

अथोभयधनादायिभृत्यचक्रिकया162 समम् । 0376ab
राजा कुवलयापीडो बभञ्जानुजमञ्जसा ॥ 0376cd

राज्यं निष्कण्टकं कृत्वा ततः प्राप्तबलो नृपः । 0377ab
दिग्जयायोर्जितक्रान्तिः सोभूत्सम्भृतसाधनः ॥ 0377cd

एकस्तस्मिन्क्षणे मन्त्री तस्याज्ञामुदलङ्घयत् । 0378ab
स्मरन्वा तत्पितुर्वाचं भजन्वा दर्पविक्रियाम् ॥ 0378cd

प्राप्तायामथ यामिन्यां तल्पे कोपाकुलो नृपः । 0379ab
तमाज्ञातिक्रमं धायन्न निद्रां क्षणमप्यगात् ॥ 0379cd

एवं163 कृतागसं हन्तुं सस्पृहस्य तदाश्रयात् । 0380ab
बहवः प्रत्यभासन्त वध्यास्तस्योद्यतक्रुधः ॥ 0380cd

विचारशैaल्मथिता तस्य चित्तमहोदधेः । 0381ab
प्रकोपकालकूटस्य पश्चाच्छमसुधोदगात् ॥ 0381cd

दध्यौ सोथ गतक्रोधः प्रवृद्धः प्राणिसङ्क्षयः । 0382ab
एतावान्कस्य नु कृते कर्तव्यः प्रत्यभान्मम ॥ 0382cd

अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम् । 0383ab
विधीयते हितं यस्य स164 देहः कस्य सुस्थिरः ॥ 0383cd

कृतघ्नस्यास्य कायस्य हेतोरगलितस्मृतेः । 0384ab
हन्तव्याः कस्य पन्थानः प्रतिभान्त्यनपायिनः ॥ 0384cd

विदन्ति जन्तवो हन्त पश्यमानस्य नात्मनः । 0385ab
अवस्थां कालसूदेन कृतां तां तां क्षणे क्षणे ॥ 0385cd

ह्यः पश्यद्भिरकारणस्मितसितं पाथोजकोशाकृति श्मश्रूद्भेदकठोरमद्य165 रभसादुत्तप्तताम्रप्रभम् । 0386ab
प्रातर्जीर्णवलक्षकेशविकृतं वृद्धाजशीर्षोपमं वक्त्रं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायुभिः ॥ 0386cd

इत्याद्यनित्यताचिन्तादत्तशान्तिसुखादरः । 0387ab
राज्यं सन्त्यज्य स वनं प्लक्षप्रस्रवणं166 ययौ ॥ 0387cd

गच्छ भद्र वनायैव तपस्याधीयतां मनः । 0388ab
सापायाः क्षणभङ्गिन्य एवम्प्राया विभूतयः ॥ 0388cd

तेन सन्त्यजता राज्यं लिखितेन निजासने । 0389ab
वैराग्यवासनोत्सेकः श्लोकेनानेन सूचितः ॥ 0389cd

अभग्नशमसंवेगलब्धसिद्धिर्नराधिपः । 0390ab
श्रीपर्वतादावद्यापि भव्यानामेति दृक्पथम् ॥ 0390cd

तथा याते पुत्रे मित्रशर्मा[^0391-1] शुचान्वितः । 0391ab
वितस्तासिन्धुसम्भेदे सभार्यो जीवितं जहौ । 0391cd

राज्यं समां समासार्धां कृत्वा स वसुधाधिपः । 0392ab
निःश्रेय्तसाप्तिनिःश्रेणीं सुधीः सिद्धिं समासदत् ॥ 0392cd

[page 58]

विश्वास-प्रस्तुतिः

वज्रादित्यो बप्पियको ललिताधित्य167 इत्यपि । 0393ab
ख्यातोथ भूभृदभवद्यन्माता चक्रमर्दिका ॥ 0393cd

स क्रूरचरितो भ्रातुः प्रहाज्लादविधायिनः । 0394ab
सुधांशोरिव दुर्वासा नूनं168 विसदृशोभवत् ॥ 0394cd

परिहासपुरात्पित्र्यां नानोपकरणावलीम् । 0395ab
स जहार दुराचारो भूभृल्लोभवशंवदः ॥ 0395cd

रागिणो भूमिपालस्य भूयस्योन्तःपरस्त्रियः । 0396ab
बीजाश्वस्येव बडवास्तास्ताः समभवन्प्रियाः ॥ 0396cd

विक्रयेण प्रयच्छन्स म्लेच्छेभ्यः प्रुरुषान्बहून् । 0397ab
म्लेच्छोचिताम् व्यवहृतिं प्रावर्तयत मण्डले ॥ 0397cd

सप्ताब्दान्वसुधाम् भुक्त्वा सोतिसम्भोगजन्मना । 0398ab
जगाम सङ्क्षयं क्ष्माभृत्क्षयरोगेण किल्विषी ॥ 0398cd

तस्मान्मञ्जरिकादेव्यां जातो राजा प्रजान्तकः । 0399ab
ततः पृथिव्यापीडोभूत्समासाश्चतुरः समाः ॥ 0399cd

जातो मम्माभिधानायां राज्यं नैव व्यराजत । 0400ab
सङ्ग्रामापीडनामाथ तमुत्पाद्याभवन्नृपः ॥ 0400cd

भ्रातरौ तौ समासाद्य राज्यं नैव व्यराजत । 0401ab
हेमन्तशिशिरावाप्य चण्डांशोरिव मण्डलम् ॥ 0401cd

शान्तेथ सङ्ग्रामापीडे कनीयान्बप्पियात्मजः । 0402ab
राजा श्रीमाञ्जयापीडः प्राप राज्यं ततः क्रमात् ॥ 0402cd

पितामहसमो भूयादित्यमात्यवचः स्मरन् । 0403ab
जिगीषुः सम्भृतबलो दिग्जयाय स निर्ययौ ॥ 0403cd

स्वदेशादेव नयविद्वशं नीतैः समं नृपैः । 0404ab
वृद्धान्पप्रच्छ निर्गच्छन्कश्मीरद्वारगोचरान् ॥ 0404cd

पितामहस्य नः सैन्यं कियन्निर्गच्छतोभवत् । 0405ab
इति ब्रूताद्य यात्रासु यूयं सङ्ख्यातसैनिकाः ॥ 0405cd

कृतस्मितास्तमूचुस्ते किं प्रश्नेनामुना प्रभो । 0406ab
वस्तु कश्चिदतिक्रान्तं नानुकर्तुं क्षमोधुना ॥ 0406cd

कर्णीरथानां तस्यासीत्सपादं लक्षमीशितुः । 0407ab
अशीतिस्तु सहस्राणि देवस्याद्य जयोद्यमे ॥ 0407cd

तदाकर्ण्य जयापीडो बहु मेने न निर्जयम् । 0408ab
क्षिप्रं क्षितेः सङ्कुचन्त्याः कालस्य बलवत्तया ॥ 0408cd

जिगीषोः क्ष्माभुजस्तस्य भावमालोक्य तादृशम् । 0409ab
दधुर्भावज्ञताम् वृद्धा ललितादित्यभूपतेः ॥ 0409cd

तस्य दूरप्रयातस्य स्यालो जज्जाभिधो बलात् । 0410ab
द्रोहेणाक्रम्य कश्मीरान्स्वयं भेजे नृपासनम् ॥ 0410cd

दिने दिने राजसैन्यात्स्वदेशस्मारिणस्ततः । 0411ab
सैनिकाः सन्न्यवर्तन्त169 स्वामिभक्तिप्राङ्मुखाः ॥ 0411cd

प्रख्यापयिष्यन्स्वामेव शक्तिं परिकरं विना । 0412ab
निश्चिकाय जयापीडो युक्तां काञ्चित्तु संविदम् ॥ 0412cd

अभङ्गुरास्तेभिमानास्तस्यैवासन्मनस्विनः । 0413ab
अत्यर्वर्तत यैरेष वैधात्रीरपि वामताः ॥ 0413cd

स विसृज्य भुवं स्वाम् स्वाम् स मनोजवान् । 0414ab
प्रयागमगमत्सैन्यैः परिमेयैर्निजैः समम् ॥ 0414cd

तत्रावशिष्टानुच्चित्य वाजिनः स मनोजवान् । 0415ab
द्विजेभ्यो लक्षमेकोनं प्रददौ भूरिदक्षिणम् ॥ 0415cd

सम्पूर्णमन्यो लक्षं यः प्रदद्यादत्र वाजिनाम् । 0416ab
तन्मुद्रयेयं मम्नुद्रा विनिवार्येत्युदीर्य च ॥ 0416cd

श्रीजयापीडदेवस्येत्यक्षरैरुपलक्षिताम् । 0417ab
दिग्देशगामिनो मुद्रां गाङ्गस्य पयसो ददौ ॥ 0417cd

तन्मुद्राङ्कं पयः पीत्वा गाङ्गमद्यापि निर्मलम् । 0418ab
चित्ते प्रवर्धते तापो भूपानामभिमानिनाम् ॥ 0418cd

स्वदेशगम्नानुज्ञां सैन्यस्याप्तमुखेन170 सः । 0419ab
दत्त्वा171 निशायामेकाकी निययौ कटकान्तरम् ॥ 0419cd

मण्डलेषु नरेन्द्राणां पयोदानामिवार्यमा । 0420ab
गौडराजाश्रयं गुप्तं जयन्ताख्येन भूभुजा ॥ 0420cd

प्रविवेश क्रमेणाथ नगरं पौण्ड्रवर्धनम् । 0421ab
यस्मिन्सौराज्यरम्याभिः[^0421-1] प्रीतः[^0421-1] पौरविभूतिभिः ॥ 0421cd

[page 59]

विश्वास-प्रस्तुतिः

लास्यं स द्रष्टुमविशत्कार्तिकेयनिकेतनम्172 । 0422ab
भरतानुगमालक्ष्यनृत्तगीतादिशास्त्रवित्173 ॥ 0422cd

ततो देवगृहद्वारशिलामध्यास्त स क्षणम् ।174 0423ab
… … … … … … … … … … … ॥ 0423cd

तेजोविशेषचकितैर्जनैः परिहृतान्तिकम् । 0424ab
नर्तकी कमला नाम कान्तिमन्तं ददर्श तम् ॥ 0424cd

असामान्याकृतेः पुंसः सा ददर्श सविस्मया । 0425ab
अंसपृष्ठेन175 धावन्तं करं तस्यान्तरान्तरा ॥ 0425cd

अचिन्तयत्ततो गूढं चरन्नेष भवेद्भुवम् । 0426ab
राजा वा राजपुत्रो वा लोकोत्तरकुलोद्भवः ॥ 0426cd

एवं176 महीतुमभ्यासः177 पृष्ठस्थाः पर्णवीटिकाः । 0427ab
अंसपृष्ठेन येनायं लसत्पाणिः178 प्रतिक्षणम् ॥ 0427cd

लोलश्रोत्रपुटो मदोत्कमधुपापातात्ययोपि द्विपः सिंहोसत्यपि[^0428-1] पृष्ठतः करिकुले व्यावृत्य विप्रेक्षिता । 0428ab
मेघौन्मुख्यशमेप्यशान्तवदनोद्गीर्णस्वरो बर्हिणश्चेष्टानां विरमेन्न हेतुविगमेप्यभ्यासदीर्घा स्थितिः ॥ 0428cd

इत्यन्तश्चिन्तयन्ती सा कृत्वा सङ्क्रान्तसंविदम् । 0429ab
सखीमभिन्नहृदयां विससर्ज तदन्तिकम् ॥ 0429cd

प्राग्वत्पृष्ठं गते पाणौ पूगख्ण्डांस्तयार्पितान् । 0430ab
वक्त्रेक्षिपज्जयापीडः परिवृत्य ददर्श ताम् ॥ 0430cd

भ्रूसञ्ज्ञयासि कस्य त्वं पृष्टाया इति सुभ्रुवः । 0431ab
ददत्या[^0431-1] वीटिकास्तस्या वृत्तान्तमुपलब्धवान् ॥ 0431cd

तथा जनितदाक्षिण्यतैस्तैर्मधुरभाषितैः । 0432ab
सख्याः समाप्तनृत्ताया निन्ये स[^0432-1] वसतिं शनैः ॥ 0432cd

अग्राम्यपेशलालापा तथा तं सा विलासिनी । 0433ab
उपाचरत्परार्ध्यश्रीः सोप्यभूद्विस्मितो यथा ॥ 0433cd

ततः शशाङ्कधवले सञ्जाते रजनीमुखे । 0434ab
पाणिनालम्ब्य भ्रूपालं शय्यावेश्म विवेश सा ॥ 0434cd

ततः काञ्चनपर्यङ्कशायी मैरेयमत्तया । 0435ab
तथार्थितोपि शिथिलं विदधे नाधरांशुकम् ॥ 0435cd

प्रवेशयन्निदं बृहद्वक्षस्ताम् सत्रपां ततः । 0436ab
दीर्घबाहुः समाश्लिष्य स शनैर्दमब्रवीत् ॥ 0436cd

न त्वं पद्मपलाशाक्षि न मे हृदयहारिणी । 0437ab
किं तु कालानुरोधोयं सापराधं करोति माम् ॥ 0437cd

दासस्तवायं कल्याणि गुणैः क्रीतोस्म्यकृत्रिमैः । 0438ab
अचिराज्ज्ञातवृत्तान्ता ध्रुवं दाक्षिण्यमेष्यसि ॥ 0438cd

कार्यशेषमनिष्पाद्य सज्जं मानिनि कञ्चन । 0439ab
अभोगे कृतसङ्कल्पं सुखानां त्वमवेहि माम् ॥ 0439cd

तामेवमुक्त्वा पर्यङ्कं साङ्गुलीयेन पाणिना । 0440ab
वादयन्निव179 निःश्वस्य श्लोकमेतं पपाठ सः ॥ 0440cd

असमाप्तिजिगीषस्य स्त्रीचिन्ता का मनस्विनः । 0441ab
अनाक्रम्य जगत्कृत्स्नं[^0441-1] नो सन्ध्यां भजते रविः ॥ 0441cd

श्लोकेनात्मगतं तेन पठितेन महीभुजा । 0442ab
सा कलाकुशलाज्ञासीन्महान्तं कञ्चिदेव तम् ॥ 0442cd

गन्तुकामं च तं प्रातर्नृपं प्रणयिनी बलात् । 0443ab
अर्थयित्वा चिरं180 कालमप्रस्थानमयाचत ॥ 0443cd

एकदा वन्दितुं सन्ध्यां प्रयातः सरितस्तटम्181 । 0444ab
शिरायातो गृहं तस्या ददर्श भृशविह्वलम्182 ॥ 0444cd

किमेतदिति पृष्टाय तमूचे सा शिचिस्मिता । 0445ab
सिंहोत्र सुमहान्रात्रौ निपत्याहन्ति देहिनः ॥ 0445cd

नरनागाश्वसंहारः कृतस्तेन दिने दिने । 0446ab
त्वय्यभूवं चिरायाते तद्भयेन समाकुला ॥ 0446cd

राजानो राजपुत्रा ता तद्भयेन विसूत्रिता । 0447ab
गृहेभ्यो नात्र निर्यान्ति प्रवृत्ते क्षनादाक्षणे ॥ 0447cd

तामिति ब्रुवतीं183 मुग्धां निषिध्य च विहस्य च । 0448ab
सन्नीड इव तां रात्रिं जयापीडोत्यवाहयत् ॥ 0448cd

[page 60]

विश्वास-प्रस्तुतिः

अपरेद्युर्दिनापाये निर्गतो नगरान्तरात् । 0449ab
सिंहागमप्रतीक्षोभून्महावटतरोरधः ॥ 0449cd

अदृश्यत ततो दूरादुत्फुल्लबकुलच्छविः । 0450ab
अट्टहासः कृतान्तस्य सञ्चारीव मृगाधिपः ॥ 0450cd

अध्वनान्येन यान्तं तमथ मन्थरगामिनम् । 0451ab
राजसिंहो184 नदसिंहं समाह्वयत हेलया ॥ 0451cd

स्तब्धश्रोत्रे व्यात्तवक्त्रः कम्प्रकूर्चः185 प्रदीप्तदृक् । 0452ab
उदस्तपूर्वकायस्तं सर्गजः समुपाद्रवत् ॥ 0452cd

तस्य न्यस्याननबिले कफोणिं पततः क्रुधा । 0453ab
क्षिप्रकारी जयापीडो वक्षः क्षुरिकयाभिनत्186 ॥ 0453cd

शोणितं जग्धगन्धेभसिन्दूराभं विमुञ्चता । 0454ab
एकप्रहारभिन्नेन तेनात्यज्यत जीवितम् ॥ 0454cd

आमुक्तव्रणपट्टः स कफोणिमथ गोपयन् । 0455ab
प्रविश्य नर्तकीवेश्म निशि सुष्वाप पूर्ववत् ॥ 0455cd

प्रभातायां विभवर्यां श्रुत्वा सिंहं हतं नृपः । 0456ab
प्रहृष्टः कौतुकाद्द्रष्टुं जयन्ती निर्ययौ स्वयन् ॥ 0456cd

स दृष्ट्वा तं महाकायमेकप्रहृतिसंहृतम् । 0457ab
साश्चर्यो निश्चयान्मेने प्रहर्तारममानुषम् ॥ 0457cd

तस्य दन्तान्तराल्लब्धं केयूरं पार्श्वगार्पितम् । 0458ab
श्रीजयापीडनामाङ्कं ददर्शाथ सविस्मयः ॥ 0458cd

स्यात्कुतोत्र स भूपाल इति ब्रुवति पार्थिवे । 0459ab
जयापीडागमाशङ्कि पुरमासीद्भयाकुलम् ॥ 0459cd

ततः पौरान्विमृश्यैवं जयन्तः क्षितिपोब्रवीत् । 0460ab
प्रहर्षावसरे मूढाः कस्माद्वो भयसम्भवः ॥ 0460cd

श्रूयते हि जयापीडो राजा भुजबलोर्जितः । 0461ab
केनापि हेतुना भ्राम्यन्नेकाक्येव दिगन्तरे ॥ 0461cd

राजपुत्रः कल्लट इत्युक्ता कल्याणदेव्यसौ । 0462ab
तस्मै नियमिता दातुं निष्पुत्रेण सता मया ॥ 0462cd

सोन्वेष्यश्चेत्स्वयं प्राप्तस्तद्रत्नाहरणेच्छया187 । 0463ab
रत्नद्वीपं प्रतिष्ठासोर्निधानासादनं गृहात् ॥ 0463cd

अस्मिन्नेव पुरे तेन भाव्यं भुवनशासिना । 0464ab
ब्रूयादेनं समान्वेष्य योस्मै दद्यामभीप्सितम् ॥ 0464cd

वाचि सप्रत्ययाः188 पौराः भूपतेः सत्यवादिनः । 0465ab
अन्विष्य कमलावासवर्तिनं तं न्यवेदयन् ॥ 0465cd

सामात्यान्तःपुरोभ्येत्य प्रयत्नेन प्रसाद्य तम् । 0466ab
ततः स्ववेश्म नृपतिर्निनाय विहितोत्सवः ॥ 0466cd

कल्याणदेव्यास्तेनाथ कल्याणाभिनिवेशिना । 0467ab
राजलक्ष्म्या व्यपास्ताया इव सोजिग्रहत्करम् ॥ 0467cd

व्यधाद्विनापि सामग्रीं तत्र शक्तिं प्रकाशयन् । 0468ab
पञ्च गौडाधिपाञ्जित्वा श्वशुरं तदधीश्वरम् ॥ 0468cd

गतशेषं189 प्रभुत्यक्तं सैन्यं संवाहयन्स्थितः । 0469ab
मित्रशर्मात्मजो देवशर्मामात्यस्तमाययौ ॥ 0469cd

निजदेशं प्रति ततः स प्रतस्थे तदर्थितः । 0470ab
अग्रे जयश्रियं कुर्वन्पश्चात्तेथ सुलोचने190 ॥ 0470cd

सिंहासनं जितादाजौ191 कन्यकुब्जमहीभुजः । 0471ab
स राज्यककुदं राजा जहारोदारपौरुषः ॥ 0471cd

तस्मिन्प्रविष्टे स्वभुवं स्फूर्जदूर्जितविक्रमे । 0472ab
सैन्यैः समं समित्सज्जैर्जज्जो योद्धुं विनिर्ययौ ॥ 0472cd

शुष्कलेत्राभिधे ग्रामे तेन सार्धं सुदारुणः[^0473-1] । 0473ab
जयापीडस्य सङ्ग्रामः सुबहूनि दिनान्यभूत् ॥ 0473cd

अनुरक्तप्रजो राजा जज्जराज्यासहिष्णुभिः । 0474ab
युधि सोन्वीयमानोभूद्ग्राम्याटविकमण्डलैः192 ॥ 0474cd

श्रीदेवो ग्रामचण्डालः प्राप्तो ग्राम्यैः समं युधि । 0475ab
कोत्र जज्ज इति भ्राम्यन्योधान्पप्रच्छ सर्वतः ॥ 0475cd

तृष्णार्तं स्वर्णभृङ्गारात्पिबन्तं वारि तस्य ते । 0476ab
रणमध्ये हयारूढं तं दूरात्समदर्शयन् ॥ 0476cd

[page 61]

विश्वास-प्रस्तुतिः

भ्रमयन्क्षेपणीयं स क्षिप्त्वाश्मानं तदानने । 0477ab
सोयं हतो मया जज्ज इत्यमोचक्रियोनदन् ॥ 0477cd

साहायकाय193 राज्ञोहं यामीत्युक्त्वार्थिताशनः194 । 0478ab
मातुर्हसन्त्या जज्जस्य प्रतिज्ञायाययौ वधम् ॥ 0478cd

अश्मसंरुग्णभीमास्यं195 मुमूर्षुं पतितं हयात् । 0479ab
विवेष्टमानं मेदिन्यां जज्जं त्यक्त्वा ययुर्निजाः ॥ 0479cd

स समर्थाहितापातचिन्तासततदुःस्थितः । 0480ab
द्रोहार्जितेन196 राज्येन त्रिभिर्वर्षैर्व्ययुज्यत ॥ 0480cd

न्यासापहाराद्वणिजां वेश्यानां कामिवञ्चनात् । 0481ab
द्रोहाच्चोपनता197 राज्ञामस्थिरा एव सम्पदः ॥ 0481cd

हते जज्जे जयापीडः प्रत्यावृत्य निजां श्रियम् । 0482ab
जग्राह दोष्णा भूभारं कृत्येन च सतां मनः ॥ 0482cd

प्रपेदे यत्र कल्याणं स विरोधिवधान्नृपः । 0483ab
देशे कल्याणपुरकृत्तत्र कल्याणदेव्यभूत् ॥ 0483cd

राजा मल्हाणपुरकृच्चक्रे198 विपुलकेशवम्198 । 0484ab
कमला सा199 स्वनाम्नापि कम्लाख्यं[^0484-4] पुरं व्यधात् ॥ 0484cd

महाप्रतीहारपीटाधिकारं200 प्रतिपद्य सः । 0485ab
कल्याणदेवीदाक्षिण्यादकरोदधिकोन्नतिम्201[^0485-3] ॥ 0485cd

उत्पत्तिभूमौ देशेस्मिन्दूरदूरतिरोहिता[^0486-2] । 0486ab
कश्यपेन वितस्तेव तेन विद्यावतारिता ॥ 0486cd

वचोमूर्खोयमित्येव कस्मैचिद्वदते स्फुटम् । 0487ab
सर्वज्ञानान्ददच्चक्रे202 सर्वान्विद्याभियोगिनः ॥ 0487cd

देशान्तरादागमय्य203 व्याचक्षाणान्क्षमापतिः204 । 0488ab
प्रावर्तयत विच्छिन्नं महाभाष्यं स्वमण्डले ॥ 0488cd

क्षीराभिधाच्छब्दविद्योपाध्यायात्सम्भृतश्रुतः205 । 0489ab
बुधैः सह ययौ वृद्धिं स जयापीडपण्डितः ॥ 0489cd

भूपतेरात्मना स्पर्धा चक्षमे न स कस्यचित् । 0490ab
आत्मनस्तु बुधैः स्पर्धी शुद्धधीर्वह्वमन्यत ॥ 0490cd

तावत्पण्डितशब्देभूद्राजशब्दादपि प्रथा । 0491ab
तैस्तैर्दोषैर्न तु म्लानिं कालान्तरवदाययौ ॥ 0491cd

नृपतौ विद्वदायत्ते राजसाम्मुख्यकाङ्क्षिभिः206 । 0492ab
गृहा बभूवुर्विदुषां व्याप्ताः सेवागतैर्नृपैः ॥ 0492cd

समग्रहीत्तथा राजा सोन्विष्य निखिलान्बुधान् । 0493ab
विद्वद्दुर्भिक्षमभवद्यथान्यनृपमण्डले ॥ 0493cd

अध्यक्षो भक्तशालायां शुक्रदन्तस्य मन्त्रिणः । 0494ab
विद्वत्तया थक्कियाख्यस्तेन207 स्वीकृत्य वर्धितः ॥ 0494cd

विद्वान्दीनारलक्षेण प्रत्यहं कृतवेतनः । 0495ab
भट्टोभूदुद्भटस्तस्य208 भूमिभर्तुः सभापतिः ॥ 0495cd

स दामोदरगुप्ताख्यं कुट्टनीमतकारिणम्209 । 0496ab
कविं कविं209 बलिरिव धुर्यं धीसचिवं व्यधात् ॥ 0496cd

मनोरथः शङ्खदन्तश्चटकः सन्धिमांस्तथा । 0497ab
बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥ 0497cd

स स्वप्ने210 पश्चिमाशायां लक्षयन्नुदयं रवेः । 0498ab
देशे धर्मोत्तराचार्यं प्रविष्टं साध्वमन्यत ॥ 0498cd

सचेताः संस्तवव्यक्तविवक्तृत्वो बभूव सः । 0499ab
भावानां भुज्यमानानामास्वादान्तरविन्नृपः ॥ 0499cd

अपश्यद्भिर्महास्वादान्भावान्स्वादुविवेकिभिः । 0500ab
किं ज्ञेयमशनादन्यत्क्ष्मापैरन्धैरिवोक्षभिः211 ॥ 0500cd

[page 62]

विश्वास-प्रस्तुतिः

आरूढस्य चितां कृतानुमरणोद्योगप्रियाकुङ्गनं212 पुण्ड्रेक्षद्रवपानमुल्बणमहामोहप्रलुप्तस्मृतेः । 0501ab
वीतासोरवतंसमाल्यवलयामोदश्च यादृग्भवेद्भावानां सुभगः स्वभावमहिमा निश्चेतसस्तादृशः ॥ 0501cd

मन्त्रविक्रमयोस्तस्य द्वयोर्दर्पणयोरिव । 0502ab
एकैव बिम्बिता मूर्तिः सहस्रगुणतां ययौ ॥ 0502cd

आङ्कुर्वन्विगुणामाज्ञां213 लङ्केकन्द्रात्पञ्च213 राक्षसान् । 0503ab
तेनानयेति जगदे दूतो जातु पुरः स्थितः ॥ 0503cd

सान्धिविग्रहिकः214 सोथ गच्छन्पोताच्च्युतोम्बुधौ । 0504ab
प्राप पारं तिमिग्रासं तिमिमुत्पाट्य निर्गतः ॥ 0504cd

प्रियमर्त्यो रामभक्त्या नृपाज्ञालेखदायिनम् । 0505ab
स्वदेशमनयद्दत्तै रक्षोभिस्तं विभीषणः ॥ 0505cd

दूतं वित्तैः पूरयित्वा सरोगाधं च राक्षसैः । 0506ab
चक्रे जयपुरं कोट्टं त्रिविष्टपसमं नृपः ॥ 0506cd

बुद्धत्रयं215 महाकारं विहारं च विधाय सः । 0507ab
नगरान्तर्जयादेवीं पुण्यकर्मा स निर्ममे ॥ 0507cd

तत्पुरे चतुरात्मा च शेषशायी च केशवः । 0508ab
विष्णुलोकस्थितिं त्यक्त्वा ध्रुवं बध्नाति सन्निधिम् ॥ 0508cd

अन्यत्कर्मान्तरं किञ्चित्कारयित्वा स राक्षसान् । 0509ab
प्यधात्कारुभिरेवाम्भ इति शंसन्ति केचन ॥ 0509cd

स हि स्वप्ने जलान्तर्मे कुरु द्वारवतीमिति । 0510ab
उक्तः कंसारिणा चक्रे विनिर्माणं तथाविधम् ॥ 0510cd

श्रीद्वारवत्यधिष्ठानं बाह्यं216 कोट्टं तथा ह्यसौ । 0511ab
अभ्यन्तरं217 जयपुरं ब्रूतेद्याप्यखिलो जनः ॥ 0511cd

मन्त्री पञ्चमहाशब्दभाजनं जगतीभुजः । 0512ab
तस्मिञ्जयपुरे कोट्टे जयदत्तो व्यधान्मठम् ॥ 0512cd

राजक्षत्तुः प्रमोदस्य जामाता मथुरापतेः218 । 0513ab
आचाभिधो व्यरचयच्छुचिराचेश्वरं हरम् ॥ 0513cd

पुनः सम्भृतसामग्र्यो दिग्जयाय विनिर्ययौ । 0514ab
बलैर्जलधिवेलाद्रीन्द्राघयन्नलघुद्विपैः ॥ 0514cd

सम्प्रविष्टापि पूर्वाब्धिमविच्छिन्ना219 हिमाचले । 0515ab
भगीरथस्य गङ्गेव रेजे तस्यानुगा चमूः ॥ 0515cd

सार्धं प्रचण्डैश्चण्डालैरटन्तः कटकाद्बहिः । 0516ab
तस्यासन्यामिका रात्रौ मुम्मुनिप्रमुखा नृपाः ॥ 0516cd

नामान्यट्टिनयादित्य इति प्रख्यापयन्नृपः । 0517ab
पूर्वाशां विनयादित्यपुरेणालङ्कृतां व्यधात् ॥ 0517cd

अत्युत्सेकेन महसा220 साहसाध्यवसायिनाम्221 । 0518ab
श्रीरारोहति सन्देहं महतामपि भूभृताम् ॥ 0518cd

भीमसेनाभिधनस्य स दुर्गं पूर्वदिक्पतेः222 । 0519ab
निःशब्दो व्रतिभिः सार्धं व्रतिलिङ्गी विवेश यत् ॥ 0519cd

तं रन्ध्रान्वेषिणं तत्र परिज्ञाय चिरस्थितः । 0520ab
भ्राता जज्जस्य सिद्धाख्यो गत्वा राज्ञे न्यवेदयत् ॥ 0520cd

भूपतिं223 भीमसेनोथ राजाकस्माद्बबन्ध तम् । 0521ab
नहुषाजगरो भीममिव भीमपराक्रमम् ॥ 0521cd

तस्मिन्वीरे तथा बद्धे धुर्ये पुरुषकारिणाम् । 0522ab
पौरुषद्वेषिणा जाने दैवेनोन्नमितं शिरः ॥ 0522cd

जयापीडस्त्वसम्मूढो व्यसनेप्यतिदारुणे । 0523ab
तांस्तान्सञ्चिन्तयन्नासीदुपायानुदयोन्मुखः ॥ 0523cd

अत्रान्तरे नरपतेः पौराणामतिदुस्तरा । 0524ab
लूतामयकृता224 व्यापदुदपद्यत मण्डले ॥ 0524cd

[page 63]

विश्वास-प्रस्तुतिः

आमयः स्पर्शसञ्चारी225 तत्र व्यापादकश्च सः । 0525ab
देशदोषादतो जन्तुर्लूताव्याप्तो विवर्ज्यते ॥ 0525cd

तदाकर्ण्य जयापीडो जातोपायप्रयुक्तधीः । 0526ab
स्वभृत्येनोपयुक्तानि द्रव्याण्यानीतवान्रहः ॥ 0526cd

तैः पित्तोद्रेचकैर्भुक्तैर्ज्वलत्पित्तोवहज्ज्वरम् । 0527ab
वज्रवृक्षपयश्चाङ्गे क्षिप्त्वा सपिटकोभवत् ॥ 0527cd

तं लूताव्याप्तमाकर्ण्य त्रिपक्षो रक्षिणां मुखात् । 0528ab
विपत्स्यते ध्रुवमिति ध्यात्वा देशाद्बहिर्व्यधात् ॥ 0528cd

एवं स्वमतिमाहात्म्यात्सन्तीर्णो विपदर्णवात् । 0529ab
व्याप्तव्योमाग्रहीद्दुगं यशश्च अरिपन्थिनः ॥ 0529cd

यः सर्वकालमबुधैः परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । 0530ab
व्यापत्सु शास्त्रविटपी स फलं प्रसूय पुंसः किलैकपद एव लुनात्यलक्ष्मीम् ॥ 0530cd

तमैच्छदभिसन्धातुं विद्याविक्रमसंयुतः । 0531ab
मायाव्यरमुडिर्नाम राजा नेपालपालकः ॥ 0531cd

अकृतप्रणतिस्तस्य226227 प्रविष्टस्य स्वमण्डलम् । 0532ab
अग्रात्सुदूरमध्वानं[^0532-3] ससैन्योपससार सः ॥ 0532cd

जिगीषोस्तस्य228 तु तथा तत्तत्पार्थिवनिर्जयः । 0533ab
पृथक्प्रयत्ननिर्वर्त्यो नाभूत्तदनुसारिणः ॥ 0533cd

मग्नं क्वापि क्वचिद्दृश्यं प्रतिदेशं स वैरिणम् । 0534ab
श्येनः229 कपोतं कक्ष्यान्तैवान्विष्यञ्जगाम230 सः ॥ 0534cd

ततो निःशेषितापाये तस्मिन्कुर्वन्स दिग्जयम् । 0535ab
आसन्नाब्धेस्तटे सिन्धोः231 समुपावेशयद्बलम् ॥ 0535cd

प्रतस्थे दिवसैर्द्वित्रैरथ पूर्वार्णवोन्मुखः । 0536ab
कर्षन्वेलानिलस्पर्शोत्सृष्टध्वजपटाश्रमूः ॥ 0536cd

ततस्तस्मिन्सरित्पारे दक्षिणस्मिन्क्षमापतेः । 0537ab
तस्थावरमुडिः232 सैन्यं स्वच्छत्राङ्कं प्रकाशयन् ॥ 0537cd

भूरिभेरीरवोद्गारि प्रबलं वीक्ष्य तद्बलम् । 0538ab
प्रजज्वाल जयापीडः पीतसर्पिरिवानलः ॥ 0538cd

स जानुदघ्रं निर्विघ्नं पश्यन्नग्रे सरिज्जलम् । 0539ab
अपूर्वत्वादभूमिज्ञः क्रुद्धस्तर्तुं233 व्यगाहत ॥ 0539cd

मध्यं प्राप्ते नृपे पूर्णा वेलया वर्धमानया । 0540ab
अकालेभूदगाधाम्भाः सार्णवाभ्यर्णगा सरित् ॥ 0540cd

नरनागाश्वबहुलं तथा सैन्यं महीपतेः । 0541ab
प्रवृद्धया प्लाव्यमानं क्षणात्सङ्क्षयमाययौ ॥ 0541cd

नृपतिर्वीचिसम्मर्दभ्रंशिताभरणांशुकः234 । 0542ab
बाहुभ्यां लहरीश्छिन्दञ्जलैर्दूरमनीयत ॥ 0542cd

एकस्य करुणाक्रन्दैः सैन्यस्यान्यस्य गर्जितैः । 0543ab
सरित्तरङ्गघोषैश्च बभूवुस्तुमुला दिशः ॥ 0543cd

क्षिप्रकारी सदृतिभिः235 सन्नद्धैः सरितोन्तरात् । 0544ab
स चाकृष्य जयापीडं बबध विहितोत्सवः । 0544cd

दैवस्याम्बुमुचश्च नास्ति नियमः कोप्यानुकूल्यं प्रति व्यञ्जन्यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् । 0545ab
क्षिप्रं दीर्घनिदाघवासरविपत्सन्तापनिर्वापणं प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गं च यः ॥ 0545cd

स कालगण्डिकातीराश्रयात्युच्चाश्मवेश्मनि । 0546ab
निचिक्षेप जयापीडमाप्तानां236 रक्षिणां करे ॥ 0546cd

तथा काश्मीरिको राजा निमग्नो व्यसने पुनः । 0547ab
स किङ्कर्तव्यतामूढः शुचा गूढमदह्यत ॥ 0547cd

कलावत्सु शशाङ्कोपि तेजस्विष्वर्यमापि तम् । 0548ab
न ददर्श यथा धीमान्स ररक्ष तथा नृपः ॥ 0548cd

अपश्यन्निर्गतः237 किञ्चिदालोकन्यस्तलोचनः238 । 0549ab
आसन्नां तटिनीमासीदुपायांश्च स चिन्तयन् ॥ 0549cd

[page 64]

विश्वास-प्रस्तुतिः

अवस्थावेदकास्तत्र239 ग्रथिताः पृथिवीभुजा । 0550ab
आर्द्रान्तःकरणैः श्लोकाः स्मर्यन्तेद्यापि सूरिभिः ॥ 0550cd

यथा तस्मिन्स्थिते240 मानी देवशर्मनैव मन्त्रिषु । 0551ab
चिन्तयन्स्वामिसन्नानमनिशं पर्यतप्यत ॥ 0551cd

भर्तुः स्वदेहत्यागेन241 स हितं कर्तुमुद्यतः । 0552ab
दूतैररमुडेश्चक्रे242 प्रियवाग्भिः प्रलोभबम्242 ॥ 0552cd

जयापीडश्रिया साकं राज्यं कश्मीरमण्डले । 0553ab
दास्यामि तुभ्यमित्यस्य दूतैः स श्रावितोभवत् ॥ 0553cd

प्राप्तेषु प्रतिदूतेषु पूर्णायामथ संविदि । 0554ab
गृहीतकटको मन्त्री नेपालविषयं ययौ ॥ 0554cd

स कालगण्डिकासिन्धोरर्वाचि कटकं तटे । 0555ab
स्थापयित्वा परं पारं ययौ मितपरिच्छदः ॥ 0555cd

सामन्तैरग्रमायातैस्ताम् सभां सम्प्रवेशितम् । 0556ab
सत्कृत्यारमुडिः243 प्रह्नं न्यवेशयत विष्ठरे ॥ 0556cd

अध्वश्रान्त इति क्षिप्रं प्रतिमुक्तः244 क्षमाभुजा । 0557ab
तद्विसृष्टोपचारस्तन्निनायावसथे दिनम् । 0557cd

स चारमुडिभूभृच्च पीतकोशौ245 परस्परम् । 0558ab
आसतां निर्जनेन्येद्युः कर्तव्यकृतनिश्चयौ ॥ 0558cd

नृपमूचेथ सचिवो जयापीडार्जितं धनम् । 0559ab
अस्ति सैन्ये तदाप्तानां तस्य वा विदितं च तत् ॥ 0559cd

दानेन भविता मोक्षस्तवेत्युक्त्वा विमोहयन् । 0560ab
तस्मात्तं प्रष्टुमिच्छामि क्व व् असु न्यस्तमित्यहम् ॥ 0560cd

अत एव मया सैन्यं संहतं न प्रवेशितम् । 0561ab
यदेतन्मध्यगाः246 शक्या न बन्द्धुं246 न्यासधारिणः ॥ 0561cd

तस्मादेकैकमाहूय तेषु बद्धेषु सैनिकः । 0562ab
कोपमज्ञातहृदया न यास्यन्ति विवक्षवः ॥ 0562cd

एवं विमोहितात्तस्मात्प्राज्ञोनुज्ञां[^0563-1] स लब्धवान् । 0563ab
बद्धस्य प्रययौ पार्श्वं जयापीडमहीभुजः ॥ 0563cd

तदालोकनजं शोकं गोपयन्धैर्यसागरः247 । 0564ab
गृहं तन्निर्जनं कृत्वा क्षिप्रं पप्रच्छ तं नृपम् ॥ 0564cd

अपि त्वया निजं तेजो भित्तिभूतं न हारितम् । 0565ab
तस्मिन्हि सति सिध्यन्ति साहसालेख्यकल्पनाः ॥ 0565cd

स तं बभाषे निःशस्त्रो मन्त्रिन्नेवं व्यवस्थितः । 0566ab
अद्भुतं कर्म किं कुर्यां ध्रियमाणेन तेजसा ॥ 0566cd

मन्त्री तमूचे तेजश्चेद्राजन्न निसृतं तव । 0567ab
जानीहि तत्क्षणेनैव लङ्घितं विपदर्णवम् ॥ 0567cd

अपि वातायनादस्मात्पतित्वा निम्नगाम्भसि । 0568ab
पारं गन्तुं समर्थोसि सैन्यं दूरपाताद्विदीर्यते ॥ 0568cd

राजा जगाद तं नास्मात्पतित्र्वोत्थीयतेम्भसः । 0569ab
विना दूतिं दृतिश्चात्र दूरपाताद्विदीर्यते ॥ 0569cd

तस्मान्नायमुपायोत्र न च नाम विमानितः । 0570ab
बहु मन्ये तनुत्यागमनिर्मथ्यापकारिणम् ॥ 0570cd

ततो248 निश्चित्य सोमात्यस्तमवादीन्महीपते । 0571ab
बहिः केनाप्युपायेन बहेस्त्वं249 नालिकाद्वयम्[^0571-3] ॥ 0571cd

प्रविश्यैकाकिनैवाथ द्रष्टव्यः सम्भृतो मया । 0572ab
सरिदुत्तरणोपायः सोनुष्ठेयोप्यशङ्कितम् ॥ 0572cd

श्रुत्वेति निर्गतो गत्वा पायुक्षालनवेश्म250 सः । 0573ab
सविलम्बं बहिर्वेलां251 तदुक्तामत्यवाहयत् ॥ 0573cd

एकाकी सम्प्रविष्टोथ तं ददर्श च्युतं क्षितौ । 0574ab
विपन्नं गलमुद्बध्य दृढया चेलचीरया ॥ 0574cd

[page 65]

विश्वास-प्रस्तुतिः

सद्यो252 व्यापादिततनुः श्वासापूरितविग्रहः253 । 0575ab
अभेद्योहं तव धृतिर्मामारुह्य254255 तरापगाम् ॥ 0575cd

आरोढुरूरुबन्धाय256 स्वोर्वोरुष्णीषपट्टिका257 । 0576ab
बद्धा मया तं प्राविश्य क्षिप्रमेव पताम्भसि ॥ 0576cd

नखनिर्भिन्नगात्रास्रलिखितामिति संविदम् । 0577ab
दृष्ट्वा चावाचयत्कण्ठनिबद्धांशुकपल्लवे ॥ तिलकम्॥ 0577cd

विस्मयस्नेहयोः पश्चात्पूर्वं स सरितस्ततः । 0578ab
प्रवाहे पतितो राजा परं पारं समासदत् ॥ 0578cd

प्राप्तसैन्यः प्रविश्याथ क्षणेनैव निनाय सः । 0579ab
तमशेषं सभापालं नेपालविषयं क्षयम् ॥ 0579cd

रक्षिणोपि न यावत्तमजानन्बन्धनाच्च्युतम् । 0580ab
तावदेव कथाशेषं तं चकार सः ॥ 0580cd

नृत्यत्कबन्धः स्वर्गस्त्रीमुक्तस्रक्तूर्यघोषवान् । 0581ab
भूपतेर्बन्धनान्मोक्षे बभूव समरोत्सवः ॥ 0581cd

दावानलोल्बणभुवो गिरयो निदाघे यत्रैव दूरमितरे परिवर्जनीयाः । 0582ab
तत्रैव सम्भवति सान्द्रहिमद्रवार्द्रश्चित्रं तुषारशिखरी नितरां निषेव्यः ॥ 0582cd

जज्जादीनां क्षणे258 यत्र हब्न स्वानुद्रुहामभूत् । 0583ab
तत्रैव मन्त्रिणश्चित्रं कृतिनो देवशर्मणः ॥ 0583cd

नाभूद्धि सदृशः259 सूनुः स पितुर्मित्रशर्मणः । 0584ab
तमोमयो भासुरस्य260 भानोरिव शनैश्चरः ॥ 0584cd

रक्षारत्नोपमे तस्मिन्सचिवेस्तमुपागते । 0585ab
प्राप्तामपि श्रियं मेने नृपतिर्हरितामिव ॥ 0585cd

तस्य दिग्विजयस्यान्ते मानम्लानिर्विनिर्ययौ । 0586ab
मानसात्पृथिवीभर्तुर्नामात्योपक्रिया पुनः ॥ 0586cd

चित्रं जितवतस्तस्य स्त्रीराज्ये मण्डलं महत् । 0587ab
इन्द्रियग्रामविजयं बह्वमन्यन्त भूभुजः ॥ 0587cd

कर्णश्रीपटमाबध्य स्त्रीराज्यान्निर्जिताद्धृतम् । 0588ab
धर्माधिकरणाख्यं च कर्मस्थानं विनिर्ममे ॥ 0588cd

द्वितीयं चलगञ्जाख्यं कर्मस्थानमपि व्यधात् । 0589ab
उपयुक्तं प्रयाणेषु गञ्जे दूरस्थिते निजे ॥ 0589cd

किमन्यत्तद्भुजावासनिवासिन्या जयश्रियः । 0590ab
चत्वारोम्बुधयोभूवन्विलासमणिदर्पणाः ॥ 0590cd

पुनः प्रविश्य कश्मीरान्स भूपैः परिवारितः । 0591ab
चिराय बुभुजे राजा विजयोपार्जितां श्रियम् ॥ 0591cd

तं कदाचिन्नृपं स्वप्ने सर्वाशाविजयोर्जितम् । 0592ab
पुमान्दिव्याकृतिः कोपि व्याजहार कृताञ्जलिः ॥ 0592cd

सुखं त्वद्विषये राजन्वसन्नस्मि सबान्धवः । 0593ab
नागेन्द्रोहं महापद्मनामा त्वाम् शरणं श्रितः ॥ 0593cd

द्राविडो मान्त्रिकः कश्चिन्मामितो नेतुमुद्यतः । 0594ab
जलाकाङ्क्षिणि वित्तेन विक्रेतुं मरुमण्डले ॥ 0594cd

तस्माच्चेत्पासि मां तत्ते स्वर्णधातुभुवं गिरिम् । 0595ab
स्वदेशे दर्शयिष्यामि स्फीतोपकृतिकारिणः ॥ 0595cd

राजा स्वप्ने निशम्येति दिक्षु सम्प्रेरितैश्चरैः261 । 0596ab
कुतोपि प्राप्तमानीय तां पप्रच्छ चिकीर्षितम् ॥ 0596cd

दत्ताभयः स नागोक्तं यथावत्सर्वमुक्तवान् । 0597ab
सविस्मयेन भूभर्त्रा स्वयं भूयोप्यपृछ्यत ॥ 0597cd

भूरियोजनविस्तीर्णात्सरसोभ्यन्तरात्त्वया । 0598ab
नागः प्रभावोत्कृष्टः स निष्क्रष्टुं शक्यते कथम् ॥ 0598cd

स तं व्यजिज्ञपद्राजन्नचिन्त्या मन्त्रशक्तयः । 0599ab
ताश्चेद्दिदृक्षसे क्षिप्रमेत्याश्चर्यं विलोक्यताम् ॥ 0599cd

अथानुगम्यमानः स राज्ञा प्राप्तः सरोन्तिकम् । 0600ab
अभिमन्त्र्योज्झितैर्बाणैर्बद्धाशोशोषयज्जलम् ॥ 0600cd

[page 66]

विश्वास-प्रस्तुतिः

राजापश्यत्ततः पङ्के लुठन्तं मानुषाननम् । 0601ab
वितस्तिदेश्यमुरगं भूरिह्रस्वोरगाaन्वितम् ॥ 0601cd

मन्त्रसङ्कोचितं राजन्गृह्णाम्यमुमिति ब्रुवन् । 0602ab
मा ग्रहीरिति भूपेन सोभिधाय262 न्यषिध्यत ॥ 0602cd

तूर्णं राजाज्ञया तेन263 मन्त्रवीर्येथ संहृते । 0603ab
सरोभूत्प्रागवस्थं तत्पुनर्व्याप्तदिगन्तरम् ॥ 0603cd

द्राविडं द्रविणं दत्त्वा विसृज्याचिन्तयन्नृपः । 0604ab
दद्यान्नाद्याप्यसौ नागः कथं स्वर्णाकारं गिरिम् । 0604cd

ध्यायन्तमेव तं स्वप्ने ततः प्रोवाच पन्नगः । 0605ab
केनोपकारेण गिरिः स्वर्णसूस्तव दर्श्यते ॥ 0605cd

स्वदेशोयं विदेशोयमिति बुद्धेः प्रवर्तकः । 0606ab
अन्वयव्यतिरेकाभ्याम् स्थित्यभ्यासः शरीरिणम् ॥ 0606cd

शरणं त्वामहमगामवमानभयात्पुनः । 0607ab
शरण्येन सता तत्तु भवतैव प्रदर्शितम् ॥ 0607cd

उदन्वानिव योक्षोभ्यो ज्ञायते संश्रितैः प्रभुः । 0608ab
का ह्रीस्ततोन्या सोन्यैर्यत्तेषामग्रेभिभूयते264 ॥ 0608cd

याभिरन्याभिभूताभिरीक्षितस्त्रातुमक्षमः । 0609ab
तासां केनाभिमानेन स्त्रीणां द्रक्ष्याम्यहं मुखम् ॥ 0609cd

येकारणसधर्माणो265 व्यामूढस्य भवाम ते । 0610ab
विडम्ब्यमानाः क्रीडायै ते वयं प्राकृता इव ॥ 0610cd

अथ वा श्रीमदान्धानामप्रेक्षापूर्वकारिणाम् । 0611ab
यत्किञ्चनविधायित्वं पार्थिवानां किमद्भुतम् ॥ 0611cd

मन्यन्ते क्ष्माभुजः क्रीडामुन्नतानां विमाननाम्266 । 0612ab
यावज्जीवं तु सश्वासं मरणं तां विदन्ति ते ॥ 0612cd

उपेक्ष्यपक्षे267 भूपानां मानः स्वार्थस्य सिद्धये । 0613ab
स तु प्राणानुपेक्ष्यापि ग्राह्यपक्षे मनस्विनाम् । 0613cd

महतो येवमन्यन्ते घटन्ते च विमानितैः । 0614ab
मनःस्वरूपाभिज्ञत्वं तेषां केनानुमीयते ॥ 0614cd

भवन्त इव तत्रापि न वयं व्यर्थदर्शयाः । 0615ab
ताम्रधातुरसस्यन्दी दर्श्यते तद्गिरिस्तव ॥ 0615cd

इत्युक्त्वा संविदं तस्मै स्वप्न एव स तां ददौ । 0616ab
यथा प्रबुद्धः प्रत्यूषे प्राप ताम्राकरं गिरिम् ॥ 0616cd

स तस्मात्क्रमराज्यस्थात्ताम्रमाकृष्य निर्ममे । 0617ab
शतं दीनारकोटीनामेकोनं268 स्वाभिधाङ्कितम् ॥ 0617cd

पूर्णं कोटिशतं कुर्याद्यः स मां निर्जयेदिति । 0618ab
दर्पभङ्गाय भूपानां समयं स्थापयन्नृपः ॥ 0618cd

समस्या इव स क्ष्माभृत्सावशेषैर्विचेष्टितैः । 0619ab
चिक्षेप तुल्यनिर्माणकुण्ठत्वायेति भूभृताम् ॥ 0619cd

अथाकस्मान्महीपालः प्रजाभाग्यविपर्ययैः । 0620ab
त्यक्त्वा पैतामहं मार्गं ययौ पित्र्येण सोध्वनाः ॥ 0620cd

किं दिग्जयादिभिः क्लेशैः स्वदेशादर्ज्यतां धनम् । 0621ab
इत्यर्थ्यमानः कायस्थैः स्वमण्डलमदण्डयत् ॥ 0621cd

शिवदासादिभिर्लुब्धैर्धनस्थानाधिकारिभिः269 । 0622ab
प्रविवर्धितवित्तेच्छः सोभूल्लोभवशंवदः ॥ 0622cd

काश्मीरिकाणामुत्पन्नं270 निजाज्ञाव्यवधायकम् । 0623ab
कायस्थवक्त्रप्रेक्षित्वं ततः प्रभृति भूभृताम् ॥ 0623cd

मन्त्रस्तस्य महीभर्तुर्योभूत्तत्तन्नृपग्रहे[^0624-1] । 0624ab
वास्तव्यबन्धचिन्तायां स एव स्थैर्यमाययौ ॥ 0624cd

यत्सतां प्रशमाधायि पापस्योपदिदेश तत् । 0625ab
जयापीडस्य पाण्डित्यं प्रजापीडनशौण्डताम् ॥ 0625cd

स सौदास इवानेकलोकप्रानापहारकृत् । 0626ab
अस्तुत्यकृत्यसौहित्यं स्वप्नेपि न समाययौ ॥ 0626cd

कुर्मः किल्विषमेतदेव हृदये कृत्वेति कौतूहलात्स्वैरिण्यः क्षित्पाश्च धिक्चपलतां क्रौर्यं च कुर्युः सकृत् । 0627ab
पापाक्रान्तधियो भवन्त्यथ तथा271 नान्त्यान्स्पृशन्त्योपि ता दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोपि शान्तत्रपाः ॥ 0627cd

[page 67]

विश्वास-प्रस्तुतिः

लोभाभ्यासात्तथा क्रौर्यं स ययौ वत्सरत्रयम् । 0628ab
सह कार्षकभागेन यथाहार्षीच्छरत्फलम् ॥ 0628cd

लुब्धत्वध्वस्तधीर्भूभृत्स्वल्पवित्तलवप्रदान् । 0629ab
सर्वस्वहारिणो मेने कायस्थान्हितकारिणः ॥ 0629cd

सामुद्रास्तिमयो नृपाश्च सदृशा एके हृतादम्भसः272 स्वस्मादेव कणान्धनस्य जहतो जानन्ति ये दातृताम् । 0630ab
सर्वस्मात्स्फुटलुण्ठिताद्वितरतो273 लेशान्किलान्येपि ये दुष्कायस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥ 0630cd

सर्वकालं ब्राह्मणानामहो धैर्यमकुण्ठितम् । 0631ab
निस्त्रिंशस्य बभूवुर्ये तस्यापि परिपन्थिनः ॥ 0631cd

देशान्तरं प्रयातेभ्यो ये शेषास्ते व्यरंसिषुः । 0632ab
विक्रोशन्तो न मरणाद्धरणान्नापि पार्थिवः[^0632-1] ॥ 0632cd

विप्राणां शतमेकोनमेकाहेन274 विपद्यते । 0633ab
निवेद्यमेतदित्यूचे क्रौर्याक्रान्तोथ पार्थिवः ॥ 0633cd

विपर्यस्तचरित्रस्य तस्य क्रूरस्य भूपतेः । 0634ab
एवं स्तुतिविपर्यासः काव्येष्वपि बुधैः कृतः ॥ 0634cd

नितान्तं कृतकृत्यस्य गुणवृद्धिविधायिनः । 0635ab
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥ 0635cd

भाष्यव्याख्याक्षणे श्लोकैर्वैचक्षण्यहृतैः275 कृतः । 0636ab
सोयं तस्य विपर्यासो276 बुधैरेवं प्रवर्तितः[^0636-3] ॥ 0636cd

कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः277 । 0637ab
श्रीयजापीडस्य पाणिनेश्च किमन्तरम् ॥ 0637cd

तूलमूल्यापहर्ता278 च चन्द्रभागातटे स्थितः । 0638ab
विप्राणां शतमेकोनमशृणोत्तज्जले मृतम् ॥ 0638cd

ततोग्रहारहरणादेव प्रविरतोभवत् । 0639ab
वास्तव्यानां हृतां भूमिं न तु निःशेषतो जहौ ॥ 0639cd

अथ विज्जप्तिसमये तूलमूल्यौकसो279 द्विजाः । 0640ab
चुक्रुशुर्जातु तस्याग्रे प्रतीहारकराहताः ॥ 0640cd

मनुमान्धातृरामाद्या बभूवुः प्रवरा नृपाः । 0641ab
अन्यभावि तदग्रेपि ब्राह्मणैर्न विमानना ॥ 0641cd

सेन्द्रं स्वर्गं सशैलां क्ष्माम् सनागेन्द्रम् रसातलम् । 0642ab
निर्दग्धुं हि क्षणेनैव विप्राः शक्ताः प्रकोपिताः ॥ 0642cd

तदाकर्ण्यास्त सामन्तत्यक्तपृष्ठः क्षमापतिः । 0643ab
उल्लासितैकभ्रूलेखो दर्पाद्वचनमब्रवीत् ॥ 0643cd

भिक्षाकणभुजां कोयं शठानां वो मदज्वरः । 0644ab
येनर्षय इव ब्रूथ प्रभावख्यापकं280 वचः ॥ 0644cd

भीमभ्रूभङ्गभीतेषु तेषु तूष्णीं281 स्थितेष्वथ । 0645ab
इट्टिलाख्यस्तमाह281 स्म ब्रह्मतेजोनिधिर्द्विजः ॥ 0645cd

राजन्युगानुरूप्येण भावाभावानुवर्तिनः[^0646-3] । 0646ab
शासितुस्तेनुसारेण न कस्मादृषयो वयम् ॥ 0646cd

आह स्म विश्वामित्रो वा वसिष्ठो वा तपोनिधिः । 0647ab
त्वमगस्त्योथ वा किं स्या इति दर्पेण तं नृपः ॥ 0647cd

ज्वलन्निव ततः स्फूर्जतेजोदुष्प्रेक्ष्यविग्रहः282 । 0648ab
स फणीवोत्फणस्ताम्यन्कोपान्नृपतिमब्रवीत् ॥ 0648cd

भवान्यत्र283 हरिश्चन्द्रस्त्रिशङ्कुर्नहुषोपि वा । 0649ab
विश्वामित्रमुखेभ्योहं तत्रैको भवितुं क्षमः ॥ 0649cd

विहस्योवाच तं राजा विश्वामित्रादिकोपतः । 0650ab
हरिश्चन्द्रादयो नष्टास्त्वयि क्रुद्धे तु किं भवेत् ॥ 0650cd

पाणिना ताडयन्नुर्वीं ततः क्रुद्धोभ्यधाद्द्विजः । 0651ab
मयि क्रुद्धे क्षनादेव ब्रह्मदण्डः पतेन्न किम् ॥ 0651cd

तच्छ्रुत्वा विहसन्राजा कोपाद्ब्राह्मणमब्रवीत् । 0652ab
पततु ब्रह्मदण्डोसौ किमद्यापि विलम्बते ॥ 0652cd

नन्वयं पतितो जाल्मेत्यथ विप्रेण भाषिते । 0653ab
राज्ञः कनकदण्डोङ्गे वितानस्खलितोपतत् ॥ 0653cd

[page 68]

विश्वास-प्रस्तुतिः

कृतव्रणः स तेनाङ्गे विमर्दक्लिन्नविग्रहः284 । 0654ab
कीर्यमाणक्रिमिकुलः क्रकचैश्वारितैरभूत् ॥ 0654cd

अनुभाष्य व्यथां भाविनिरयक्लेशवर्णिकाम् । 0655ab
गणरात्रेण तं प्राणाः काङ्क्षितापगमा जहुः ॥ 0655cd

ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः । 0656ab
अकाण्डदण्डस्रष्टाथ ययौ दण्डधरान्तिकम् ॥ 0656cd

तस्यानियतचित्तस्य त्रिंशतं परिवत्सरान् । 0657ab
एवं प्रतापिनः सैकान्भूभोगो भूपतेरभूत् ॥ 0657cd

तथा भूभृन्मत्स्या द्रविणकलुषाम्भःकृततृषः स्थितिं285 स्वमुज्झन्तो विदधति कुमार्गानुसरणम् । 0658ab
क्रियन्ते कार्तान्तानुगविकृतकैवर्तनिवहैर्यथा ह्येतेकस्मात्स्थिरनिरयजालप्रणयिनः ॥ 0658cd

लृतपापं तमुद्दिश्य विपन्नममृतप्रभा । 0659ab
मृतोद्धाराय तन्माता व्यधत्तामृतकेशवम् ॥ 0659cd

ललितापीडनामाभूत्ततो वसुमतीपतिः । 0660ab
देव्यां दुर्गाभिधायां यो जयापीडादजायत ॥ 0660cd

बभूव रागिणो राज्ये राज्यकार्याण्यपश्यतः । 0661ab
यस्य वाराङ्गनाभोज्यं राज्यं दुर्नयदूषितम् ॥ 0661cd

दुष्कृतेनार्जितं वित्तं पित्रा निरयभागिना । 0662ab
यश्चारणादिषु286 न्यस्यन्ननुरूपं व्ययं व्यधात् ॥ 0662cd

बन्धकीबन्धुभावेन प्राप्तराजगृहाश्रयाः । 0663ab
तं पौंश्चलीयविद्यानामन्तरङ्गं व्यधुर्विटाः ॥ 0663cd

केशान्स्त्रीदशनच्छिन्नान्वक्षस्तन्नखलाञ्छितम् । 0664ab
वपुषो मण्डनां मेने किरीटकटकोज्झितः ॥ 0664cd

यो यो वेश्याकथाभिज्ञो287 यो यो नर्मविचक्षणः । 0665ab
स स तत्प्रियतां लेभे न शूरो न च पण्डितः ॥ 0665cd

अतृप्तः स्त्रीभिरल्पाभिरुग्ररागः स पार्थिवः । 0666ab
जडं मेने जयापीडं स्त्रीराज्यान्निर्गतं जितात् ॥ 0666cd

दिङ्निर्जयव्यसनिनः पूर्वभूपाञ्जहास सः । 0667ab
गणिकाभोगसुखितः स्वसामयिकमध्यगः ॥ 0667cd

सङ्कोचकारिणो वृद्धान्नर्मोक्त्योद्वेज्य वारयन् । 0668ab
तस्माद्विटजनो लेभे सम्प्रीतात्पारितोषकम् ॥ 0668cd

अट्टचेट इव स्पष्टपरिहासविचक्षणः । 0669ab
सोलज्जयन्मन्त्रिवृद्धानास्थाने गणिकासखः ॥ 0669cd

बन्धकीपादमुद्राङ्कं चारु प्रावरणादि सः । 0670ab
गौरावार्हान्दुराचारः सचित्रान्पर्यधापयत् ॥ 0670cd

मानी मनोरथो मन्त्री परं परिजहार तम्288 । 0671ab
अशक्नुवन्यमयितुं मध्यपातपराङ्मुखः ॥ 0671cd

कुकृत्यं योगराहित्यं289 वैधुर्यं द्रोहवृत्तिता । 0672ab
… … …[^0672-2] दुर्वृत्तस्य प्रभोरन्यत्परिहारान्न भेषजम् ॥ 0672cd

सुवर्णपार्श्वं[^0673-1] विप्रेभ्यो दधत्फलपुरं[^0673-2] तथा । 0673ab
भूभृत्स लोचनोत्सं च द्वादशाब्दानभूद्विभुः ॥ 0673cd

कल्याणदेव्यां सञ्जातो जयापीडमहीभुजः । 0674ab
सङ्ग्रामापीडनामाथ बभूव भुवनेश्वरः ॥ 0674cd

पृथिव्यापीड इत्यन्यन्नाम विभ्रत्स भूपतिः । 0675ab
समाप्तिं सप्तभिर्वर्षैः साम्राज्यस्य समासदत् ॥ 0675cd

श्रीचिप्पटजयापीड इत्यन्यन्नाम विभ्रत्स भूपतिः । 0676ab
ललितापीडजो राजा शिशुदेश्यस्ततोभवत् ॥ 0676cd

रागग्रहगृहीतस्य ललितापीडभूपतेः । 0677ab
वेश्यायां कल्यपाल्यां यो जयादेव्यामजायत ॥ 0677cd

उप्पाख्यस्याखुवग्रामकल्यपालस्य290 तां सुताम् । 0678ab
रूपलुब्धोवरुद्धात्वमनैषीत्स291 हि भूपतिः ॥ 0678cd

पद्मोत्पलककल्याणमम्मधर्मैः292 स मातुलैः । 0679ab
बालकैः पाल्यमानोभूत्पृथिवीभोगभागिभिः ॥ 0679cd

[page 69]

विश्वास-प्रस्तुतिः

तस्य पञ्च महाशब्दाञ्ज्यायानुत्पलकोग्रहीत् । 0680ab
अन्ये जगृहिरेन्यानि कर्मस्थानानि293 मातुलाः ॥ 0680cd

आयत्तीकृतसाम्राज्यैर्भ्रातृभिर्वन्दिताज्ञया । 0681ab
भूभृज्जनन्या विदधे जयादेव्या जयेश्वरः ॥ 0681cd

राञ्जां कृपणवित्तैर्यत्प्रविष्टैर्दूष्यते धनम् । 0682ab
अचिरान्नीयते शान्तिमपूर्वैः कैश्चिदेव तत् ॥ 0682cd

जयापीडस्य यत्किञ्चित्सूनुना294 हि व्ययीकृतम् । 0683ab
सूनुस्यालैरशेषं294 तत्तैः क्रमेण हृतं वसु ॥ 0683cd

भगिनीभगसौभाग्यसम्भवैर्विभवैः कृताः । 0684ab
तेभङ्गुराणां भोगानां भोत्कारो भाग्यभागिनः ॥ 0684cd

निरङ्कुशं चेष्टमानाः शनकैस्त्यक्तशैशवात् । 0685ab
ते स्वस्रीयान्नृपान्नाशमकुलीनाः शशाङ्किरे ॥ 0685cd

अथाभिचारक्रियया मिथः सम्मन्त्र्य पापिभिः । 0686ab
राज्येच्छया तैः स्वस्रीयः स्वामी च स नृपि हतः ॥ 0686cd

भुक्तक्षितौ द्वादशाब्दांस्तस्मिन्व्यापादिते तथा । 0687ab
नैच्छन्नेकस्य ते राज्यं परस्परमहङ्कृताः ॥ 0687cd

तेषामाक्रान्तदेशानां295 नाममात्रमहीपतीन् । 0688ab
तांस्तान्कर्तुमसामान्यान्विरोधोन्योन्यमुद्ययौ296296 ॥ 0688cd

अथ मेघावैiदेव्यां जातो बप्पियभूपतेः । 0689ab
ज्येठोप्यचाक्रिकतया योभूद्राज्यविवर्जितः ॥ 0689cd

सोयं त्रिभुवनापीडो जयादेव्यामजीजनत् । 0690ab
राजानमजितापीडं तं बलादुत्पलो व्यधात् ॥ युग्मम्297 ॥ 0690cd

शेडादिगणनास्थाननिष्यन्दोत्थान्नृपाय298 ते । 0691ab
पञ्चमाद्गणनास्थानादशनाच्छादने299 ददुः ॥ 0691cd

एकसम्भाषणात्खेदं यात्स्वन्येषु दिने दिने । 0692ab
पञ्च तुल्यमुखान्नैच्छद्दुःस्थो300 राजा तदाश्रितः ॥ 0692cd

ते राजन्यजितापीडे राज्योत्पत्त्यपहारिणः । 0693ab
पुरदेवगृहादीनां प्रतिष्ठाकर्म चक्रिरे ॥ 0693cd

सापत्यास्ते बुभुजिरे राज्यं स्वामिविवर्जितम् । 0694ab
निर्जने महिषं शान्तं मिथः सेर्ष्या वृका इव ॥ 0694cd

उत्पलेनोत्पलस्वामी तथोत्पलपुरं कृतम् । 0695ab
पद्मस्य पद्मस्वाम्यास्ते कृतिः पद्मपुरं तथा ॥ 0695cd

वधूर्व्यधत्त पद्मस्य गुणादेवी गुणोज्ज्वला । 0696ab
मठमेकमधिष्ठाने द्वितीयं विजयेश्वरे ॥ 0696cd

धर्मो धर्मोद्यमी हेतुर्धर्मस्वामिविनिर्मितेः । 0697ab
कल्याणवर्मा सत्कर्मा कल्याणस्वामिकेशवे ॥ 0697cd

दीन्नाराणां सहस्राणि पञ्चोपकरणं कृती । 0698ab
एकैकस्याः सुधीर्धेनोःञ् कृत्वा मम्मो महाधनः ॥ 0698cd

पञ्चाशीतिसहस्राणि गवां दत्त्वा प्रकल्पयन् । 0699ab
कुम्भप्रतिष्ठासम्भारं यो मम्मस्वामिनं व्यधात्301 ॥ 0699cd

तस्यैकस्यैव सामग्र्यां कः सङ्ख्यां कर्तुमर्हति । 0700ab
भ्रातॄणां किं पुनस्तेषां सर्वेषां भूरिसम्पदाम् ॥ 0700cd

द्रोहार्जितास्तु वा लक्ष्मीः सुकृतोपार्जिताथ वा । 0701ab
सर्वेषां स्पृहणीयैव तेषां दातृतया तया ॥ 0701cd

कृता देवगृहास्तैर्ये तत्पार्श्वेन्यसुरास्पदैः । 0702ab
दिङ्मातङ्गसमीपस्थकलभौपम्यमाश्रितम् । 0702cd

एकोननवते वर्षे स्वस्रीये शान्तिमागते । 0703ab
निविघ्नभोगास्तेभूवन्षड्विंशाब्दात्ययावधि ॥ 0703cd

अथ मम्मोत्पलकयोरुद्रभूद्दारुणो रणः । 0704ab
रुद्धप्रवाहा यत्रासीद्वितस्ता सुभटैर्हतैः ॥ 0704cd

कविर्बुधमनःसिन्धुशशाङ्कः शङ्कुकाभिधः302 । 0705ab
यमुद्दिश्याकरोत्काव्यं भुवनाभ्युदयाभिधम् ॥ 0705cd

[page 70]

विश्वास-प्रस्तुतिः

मम्मसूनुर्यशोवर्मा सङ्ग्राग्रे व्यापाहरत् । 0706ab
स यत्र तेजः शूराणां नक्षत्राणामिवार्यमा ॥ 0706cd

अथोत्पाट्याजितापीडं सङ्ग्रामापीडसम्भवः । 0707ab
अनङ्गापीडनामाभूत्कृतो मम्मादिभिर्नृपः ॥ 0707cd

मम्मोत्साहासहिष्णुत्वात्सम्भृतामर्षवैकृतः । 0708ab
तस्य राज्यं द्विषन्नासीत्सुखवर्मोत्पलात्मजः ॥ 0708cd

वर्षत्रयेणोत्पलके ततः प्रमथमागते । 0709ab
303 चकारोत्पलापीडमजितापीडजं नृपम् ॥ 0709cd

तेषामाश्वयुजीराजसदृशानां304 महीभुजाम् । 0710ab
भूत्वापि भृत्याः कृतिनो305 विभूतिं केपि लेभिरे ॥ 0710cd

सान्धिविग्रहिकस्तस्य रत्नो नाम विभूतिभाक् । 0711ab
तस्मिन्कालेपि यश्चक्रे रत्नस्वामिसुरास्पदम् ॥ 0711cd

भेहुर्दार्वाभिसारादीन्देशानुत्तम्ब्य भूपताम् । 0712ab
विमलाश्वा ग्रामभुजो नराद्या व्यवहारिणः । 0712cd

राज्ञां कार्कोटवंश्यानां क्षीणप्रायमभूत्कुलम् । 0713ab
वंशस्तूत्पलकुल्यानां भुवि वैपुल्यमाययौ ॥ 0713cd

सामर्ह्योपनतप्रायपार्थिवत्वो व्यपद्यत । 0714ab
विद्वेषात्सुखवश्र्माथ शुष्काख्येन स्वबन्धुना ॥ 0714cd

ततः शूराभिधो मन्त्री सुखवर्मात्मजेकरोत् । 0715ab
राज्ययोग्योयमित्यास्थां सगुणेवन्तिवर्मणि ॥ 0715cd

एकत्रिंशे स वर्षेथ प्रजाविप्लवशान्तये । 0716ab
विनिवार्योत्पलापीडं तमेव306 नृपतिं व्यधात् ॥ 0716cd

यत्कृते विफलक्लेशा आसन्पितृपितामहाः । 0717ab
पौत्रेण हेलया प्राप्ता सा सिद्धिः पुण्यकर्मणा ॥ 0717cd

कुम्भाः पयोनिधिपयोहरणप्रवृत्ता नित्यं वहन्ति किल ये विफलश्रमत्वम् । 0718ab
चित्रं क्षणादिह तदेकसमुद्भवेन सन्दर्शिता निखिलवारिधिपानलीला । 0718cd

अभृत तदनु307 मूर्ध्नि राजलक्ष्मीघटितकटाक्षकृतादिपट्टबन्धे । 0719ab
कनकघटमुखान्नवाभिषेकं झटिति पतन्तमवन्तिवर्मदेवः ॥ 0719cd

सम्प्राप्तावुपदेष्टुमिन्दुतपनावुक्तं308 स्ववंशोद्भवैर्भूपालैर्नवराज्यतन्त्रमिव स श्रोत्रद्वये धारयन् । 0720ab
राजा मण्डनकुण्डलद्वयमिषात्स्वच्छातपत्रच्छलाल्लक्ष्मीविष्टरपुण्डरीकघटितच्छायोदयो दिद्युते ॥ 0720cd

309इति श्रीकाश्मीरिकमहामात्यचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरःहिण्यां चतुर्थस्तरङ्गः ॥ समाशतद्वये षष्टियुते मासेषु षट्सु च । निर्दशाहेषु कार्कोटवंशे सप्तदशाभवन् ॥

[page 71]

  1. A3 gloss तापर्. ↩︎ ↩︎

  2. A3 gloss स्थितये. ↩︎ ↩︎

  3. Thus corr. by A3 from A1 प्रजानां. ↩︎ ↩︎

  4. Thus corr. by A3; A1 seems to have read कृताननः. ↩︎ ↩︎

  5. A1 gloss सन्तौ च तावूरू सदूरू ताभ्यां आहितो विश्रमो यथा. ↩︎ ↩︎

  6. व स्मरस्य supplied by A3 in space left by A1. ↩︎ ↩︎

  7. Thus corr. by later hand from A1 मज्जानामपि. ↩︎ ↩︎

  8. चार supplied by A3 in space left by A1. ↩︎ ↩︎

  9. सिता supplied by A3 in space left by A1. ↩︎ ↩︎

  10. पालो supplied by A3 in space left by A1. ↩︎ ↩︎

  11. Thus corr. by A3 from A1 ॰दुदितं. ↩︎ ↩︎

  12. Thus corr. by A3 from A1 कीर्णक॰. ↩︎ ↩︎

  13. A3 तदा. ↩︎ ↩︎

  14. A1 gloss देवगृहात्. ↩︎ ↩︎

  15. A3 gloss कुलदोषं. ↩︎ ↩︎

  16. Thus corr. by A3 from A1 ॰ककणैः. ↩︎ ↩︎

  17. Thus corr. by A1 from धूमोद्गा॰. ↩︎ ↩︎

  18. Thus corr. by A3 from A1 ॰ध्वलस्यो॰. ↩︎ ↩︎

  19. Thus A, with A3 gloss भूमि R G Edd wrongly जन्मावध्य॰. ↩︎ ↩︎

  20. Thus A3; A1 ॰चरस्स्तुत्यं. ↩︎ ↩︎

  21. Thus A3; A1 मान्यैर्वि॰. G R Edd. follow A3. ↩︎ ↩︎

  22. A3 gloss रत्नैः. ↩︎ ↩︎

  23. Thus corr. by A3 from A1 यस्य ध॰. ↩︎ ↩︎

  24. Thus A3; A1 ॰त्मता. ↩︎ ↩︎

  25. A1 gloss मन्देहा नाम राक्षसविशेषाश्च. ↩︎ ↩︎

  26. A3 gloss अस्माभिः. ↩︎ ↩︎

  27. A1 gloss चर्मकारस्य. ↩︎ ↩︎

  28. A3 विज्ञप्यसे. ↩︎ ↩︎

  29. Thus corr. by A1 from यथायथम्. ↩︎ ↩︎

  30. A1 मयास्पृश्येन; A3 gloss अधमेन. ↩︎ ↩︎

  31. A3 gloss नारायणस्य. ↩︎ ↩︎

  32. A3 gloss गम्भीरसङ्गम्. ↩︎ ↩︎

  33. A1 varia lectio मत्पत्युः. ↩︎ ↩︎

  34. A3 gloss अकालमरण. ↩︎ ↩︎

  35. A3 gloss निरहङ्कारः. ↩︎ ↩︎

  36. A3 gloss रहितैः. ↩︎ ↩︎

  37. Thus corr. by later hand from A1 तं. ↩︎ ↩︎

  38. Ae gloss शूद्रादौ. ↩︎ ↩︎

  39. A3 gloss सति. ↩︎ ↩︎

  40. Thus A3; A1 राजन्नपि शस्यते. ↩︎ ↩︎

  41. A3 gloss हन्तरि. ↩︎ ↩︎

  42. A3 gloss नारायण and सत्यस्तु गरुडे धुवे. ↩︎ ↩︎

  43. A later hand, not met with elsewhere, adds in margin of A th following note: ब्रह्महत्या इति । यः कश्चिद्ब्रह्महत्यां करोति तस्य ब्रह्महत्या मूर्तिमती अदृष्टा वा अनुगामिनी भवति । द्रुहिणशिरच्छेदेन महादेववत् । इत्यभिप्रायवानाह ब्रह्महत्यादि विकीर्णे शालिचूर्णे प्रासादाङ्गने त्रिः परिक्रम्य यदि ब्रह्महत्यायाः कृत्याविशेषस्य पादमुद्रा चरणस्थापनमुद्रायुगलं अस्य वधकस्य पादमुद्रानुगामिनी दृश्यते । ब्रह्महत्याचरणद्वयमुद्रा वधकद्विजपादद्वयमुद्रा च यद्यनुभवविषयीभवति तर्हि एष एव द्विजो वधकः तर्हि शालिचूर्णयुक्तेङ्गने पादचारोवश्यं कारयितव्यः तेनानुमानं । अनेनैव वधः कृतः यतः पादमुद्राद्वयं अधिकं ज्ञातं । एवं ब्रह्महत्याचारणमुद्रानुगच्छतीति स्वय्ं भगवता उपायः सूचितः. ↩︎ ↩︎

  44. A3 gloss द्विजसम्बन्धि. ↩︎ ↩︎

  45. A3 gloss ब्रह्मा जाड्यं विना. ↩︎ ↩︎

  46. A3 gloss आदौ दृष्टः पश्चान्नष्टः. ↩︎ ↩︎

  47. A3 gloss चन्द्रापीडः कृतयुगराजपङ्क्तिमध्ये. ↩︎ ↩︎

  48. A3 gloss काकपदं कावछेदो । इति भाषया लिपिर्यथा +. ↩︎ ↩︎

  49. A3 स्वर्गं विषदं(* विषादं). ↩︎ ↩︎

  50. A3 भ्रातृदेहासुसुहृदा. ↩︎ ↩︎

  51. Thus corr. by A3 from A1 उवाच. ↩︎ ↩︎

  52. A3 gloss सदृशं. ↩︎ ↩︎

  53. A3 gloss अक्षिपदित्यर्थः. ↩︎ ↩︎

  54. Thus corr. by A3 from मासैः. ↩︎ ↩︎ ↩︎ ↩︎

  55. A3 gloss पुण्यनाशः. ↩︎ ↩︎

  56. The text from here to नयनान्ध्यकरं यम in following verse has been supplied by A3 in space left by A1. ↩︎ ↩︎

  57. See note to preceeding verse. ↩︎ ↩︎

  58. Thus corr. by A3 from A1 ॰कारयन्. ↩︎ ↩︎

  59. A3 gloss प्रयागदेशे गङ्गायमुनयोरन्तरालभूमिरन्तर्वेदी. ↩︎ ↩︎

  60. A3 gloss कुब्जत्वं. ↩︎ ↩︎

  61. A3 प्रलयादित्यतां. ↩︎ ↩︎

  62. Thus corr. by later hand from A1 ॰तम्. ↩︎ ↩︎

  63. Thus A G R; Edd. ॰पेक्षितां. ↩︎ ↩︎

  64. A1 has left before this verse a blank space for four lines, writing in the middle न किञ्चित्पतितम्. ↩︎ ↩︎

  65. Thus A G R; perhaps to be emended to ॰पीठं. Cf. महाप्रतीहारपीठाधिकारं iv.485. ↩︎ ↩︎

  66. Thus corr. by later hand from A1 कान्य॰. ↩︎ ↩︎

  67. तोस्य सा and कातीरं supplied by A3 in spaces left by A1. ↩︎ ↩︎ ↩︎ ↩︎

  68.  ↩︎ ↩︎
  69. A4 gives the notes यमत्रिद्वितां दक्षिणां दिशं and तस्य राज्ञः कृपाणेन खङ्गेन नु पुनर्द्विषो रिपवो वैवस्वताङ्कां दिशं प्रतस्थिरे इत्यर्थः. ↩︎ ↩︎

  70. द्वा supplied by A3 in space left by A1. ↩︎ ↩︎

  71. A1 पृथुश्रीदक्षि, corr. by later hand into ॰श्रीः. ↩︎ ↩︎

  72. A3 gloss मलयात्. ↩︎ ↩︎

  73. A3 gloss प्रसभमवमर्दनमास्कन्दः. ↩︎ ↩︎

  74. A3 gloss श्रीखण्डद्रुनाः चन्दनवृक्षा एव दोष्पण्डाः भुजसमूहा यस्य सः तथाविधात्. ↩︎ ↩︎

  75. A3 gloss खड्गाः. ↩︎ ↩︎

  76. A2 gloss उत्तरणार्थ अश्मानः उत्तसदनानः ये कुल्यायां मध्ये भवन्ति; to this gloss A3 has added उटवटपल् इति भाषया. ↩︎ ↩︎

  77. Thus A1; A3 क्रमुकश्यानान्कौ॰. ↩︎ ↩︎

  78. Thus A3; A1 तिग्मांशुः. ↩︎ ↩︎

  79. A1 तु X खाराः; A3 G R भुस्दखाराः. ↩︎ ↩︎

  80. Thus corr. by later hand from A1 ॰भावां. ↩︎ ↩︎

  81. Thus A3; A1 ॰ननाम्. ↩︎ ↩︎

  82. Thus A; misread दुस्सनिम् m G R and Edd. A4 gloss सुसेन् खान्. Cf.iii.332; v.516; vii. 2180 (C). ↩︎ ↩︎

  83. Thus A1; corr. by later hand into भोट्टानां. ↩︎ ↩︎

  84. A3 gloss वानराणां. ↩︎ ↩︎

  85. Thus corr. by A3 from A1 मुनी. ↩︎ ↩︎

  86. A3 सदर्पो. ↩︎ ↩︎

  87. A3 कृतधीः. ↩︎ ↩︎

  88. A3 क्रीडाराजवि॰. ↩︎ ↩︎

  89. Thus corr. by A3 from A1 बुद्धा. ↩︎ ↩︎

  90. A4 पुरनिर्माणाधिकारी. ↩︎ ↩︎ ↩︎ ↩︎

  91. त्को and न्व supplied A3. ↩︎ ↩︎

  92. A2 gloss लितपुर. ↩︎ ↩︎

  93. Thus corr. by later hand from A1 भूमिग्रामे. ↩︎ ↩︎

  94. Thus corr. by A3 from A1 पुरे. ↩︎ ↩︎

  95. Thus A3; A1 जिष्णुग्रामैः. ↩︎ ↩︎

  96. Thus corr. by later hand from A1 ॰पारं. ↩︎ ↩︎

  97. Over हासपुरं A2 from A1 तर्तुं. ↩︎ ↩︎

  98. Thus corr. by later hand from A1 हस्ताद्रो॰. ↩︎ ↩︎

  99. Thus A1; A3 पार्थिवो. ↩︎ ↩︎

  100. Thus A1; A3 कमलदेव्य॰. ↩︎ ↩︎

  101. A1 तु X खार॰. ↩︎ ↩︎

  102. Thus A3; A1 वल्लभादित्य॰. G R copy both readings, Edd. follow A3. ↩︎ ↩︎

  103. Emended with Edd.; A भपटो. ↩︎ ↩︎

  104. Thus A1; A3 कर्कदेशा॰. ↩︎ ↩︎

  105. Thus corr. by A3 from A1 उर्वरी॰. ↩︎ ↩︎

  106. Thus corr. by A3 from A1 ॰नयन्कपि॰. ↩︎ ↩︎

  107. A4 gloss राज्ञोग्रे इत्यर्थः. ↩︎ ↩︎

  108. Thus corr. by later hand from A1 ग्रामे. ↩︎ ↩︎

  109. Thus A3; A1 भुङ्क्ता(for भुङ्क्थाः ?). ↩︎ ↩︎

  110. A3 ॰प्रतिरोपितः. ↩︎ ↩︎ ↩︎ ↩︎

  111. Thus A3; A1 चेतसि भूपाल सु॰. ↩︎ ↩︎

  112. A4 gloss तद्दिक्पालस्य. ↩︎ ↩︎

  113. Thus A3; A1 ॰दाञ्जा त्वया. ↩︎ ↩︎

  114. A भु X3 ख्रर॰. ↩︎ ↩︎

  115. Thus corr. by A3 from A1 ॰देशानीतो. ↩︎ ↩︎

  116. Thus A1; A3 स्तिमित॰. ↩︎ ↩︎

  117. A3 प्रतिभाव्या॰. ↩︎ ↩︎

  118. A3 ॰त्कृष्टभूमिषु. ↩︎ ↩︎

  119. A3 gloss चन्द्रकान्तस्य. ↩︎ ↩︎

  120. A3 gloss शशिमणिः. ↩︎ ↩︎

  121. A3 gloss जलनिधिना. ↩︎ ↩︎ ↩︎ ↩︎

  122. Thus corr. by A3 from A1 स्यन्दं. ↩︎ ↩︎

  123. Thus A3; A1 ततो. ↩︎ ↩︎

  124. Thus A1; A3 in margin कोशे त्वं. ↩︎ ↩︎

  125. A3 gloss बुद्ध. ↩︎ ↩︎

  126. A2 gloss मणी एव संसारतरणोपाय इत्यारोपः । अत एव गुqह्यतामित्येकवचनान्तं क्रियापदम् मणी एव संसारतरणोपायस्त्व्यया गृह्यतामित्यन्वयः. ↩︎ ↩︎

  127. Thus emended with Edd. A1 ॰स्कन्द॰. ↩︎ ↩︎

  128. Thus A1; A3 सूचकैर्यस्य. ↩︎ ↩︎

  129.  ↩︎ ↩︎
  130. A4 glosses अस्मत्कुलजेन and देवगृहे. ↩︎ ↩︎

  131. Thus corr. by A1 from तदुक्तौ; A3 ॰क्तां. ↩︎ ↩︎

  132. Thus A3; A1 कृच्छ्रां. ↩︎ ↩︎

  133. Thus A1; altered by later hand to दूरनि. ↩︎ ↩︎

  134. A1 gloss अक्षरैः. ↩︎ ↩︎

  135. Thus corr. by A3v from A1 ॰नाख्यातं. ↩︎ ↩︎

  136. A4 gloss ललितादित्याय प्रणमं कुर्विति मदुक्तं हितमहितं श्रुत्वा तेन राज्ञा मम कर्णनासादयोवयवाः कृत्ताः. ↩︎ ↩︎

  137. Thus A3; A1 ॰द्विजेन. ↩︎ ↩︎

  138. Thus A3; A1 जह्नाद॰. ↩︎ ↩︎

  139. A3 gloss पन्थाः. ↩︎ ↩︎

  140. A3 gloss दुष्टवर्षणं. ↩︎ ↩︎

  141. Thus corr. by A3; A2 ॰मेवोविधोपि तु. ↩︎ ↩︎

  142. Thus A3; A1 प्रयोगः. ↩︎ ↩︎

  143. Thus corr. by A3 from A2 वज्जकणं. ↩︎ ↩︎

  144. Thus Edd. and G sec. manu; A R and G prima manu दिनेशेनैव. ↩︎ ↩︎

  145. A4 gloss ललितादित्य एव यमः. ↩︎ ↩︎

  146. Thus corr. by A2 from A1 धिग्देश॰; A2 gloss दिशि देशः दिग्देशः स च कालश्च तौ. ↩︎ ↩︎

  147. Thus A1; A3 मत्पुरस्यैव. ↩︎ ↩︎

  148. Thus corr. by A3 from A1 गत्वाशुघास॰. ↩︎ ↩︎

  149. Thus corr. by A3 from A1 कर्माति॰. ↩︎ ↩︎

  150. Thus corr. by A3 from A1 परम॰. ↩︎ ↩︎

  151. र supplied by A3. ↩︎ ↩︎

  152. Thus corr. A3 from A1 अनन्यक्रा॰. ↩︎ ↩︎

  153. The words from प्रतीक्ष्यध्वे to सम्प्रविष्टस्य in the following verse have been omitted by A1 and supplied in margin by A3. ↩︎ ↩︎

  154. Thus corr. by later hand from A1 निर्व्याजं. ↩︎ ↩︎

  155. Thus A1; altered by later hand to दुर्भेदा which is found in R G. ↩︎ ↩︎

  156. A3 gloss करटी हस्ती. ↩︎ ↩︎

  157. A4 gloss कुवलयापीडः. ↩︎ ↩︎

  158. Emended; A षिक्तव्यः. ↩︎ ↩︎

  159. Thus corr. by A3 from A1 ॰यन्त्रणम्. ↩︎ ↩︎

  160. Thus A1; A3 ॰प्रष्ठः. ↩︎ ↩︎

  161. Thus corr. by A2 from A1 भूवलयो॰; A2 adds the gloss को भूमेः वलयः कुवलयः. ↩︎ ↩︎

  162. A चिक्कि॰. ↩︎ ↩︎

  163. This and the following verse have been omitted by A1 and supplied in margin A3. ↩︎ ↩︎

  164. A3 देहं तत्कस्य सुस्थिरम्. ↩︎ ↩︎

  165. Thus A3; A1 श्मश्रूद्बोध॰. ↩︎ ↩︎

  166. A4 gloss मन्त्री. ↩︎ ↩︎

  167. A3 ललितापीड. ↩︎ ↩︎

  168. A3 दूरं. ↩︎ ↩︎

  169. Thus A3; A1 स्वा न्यवर्तन्त. ↩︎ ↩︎

  170. Thus corr. by A3 from A1 ॰प्तसुक्योथ सः. ↩︎ ↩︎

  171. Thus corr. by A3 from A1 कृत्वा(?). ↩︎ ↩︎

  172. Thus corr. by A3 from A1 तस्मि॰ and प्रीतिं. ↩︎ ↩︎

  173. A3 gloss भरताचार्यकृतगीतशास्त्रसदृशं ज्ञात्वा. ↩︎ ↩︎

  174. Here two padas seem to be wanting. ↩︎ ↩︎

  175. Thus A1; A2 ॰पृष्ठेथ. ↩︎ ↩︎

  176. A3 नूनं. ↩︎ ↩︎

  177. Emended; A गृहीतु॰. ↩︎ ↩︎

  178. Thus corr. by A3 from A1 स्व. ↩︎ ↩︎

  179. Thus A3; A1 जगच्चित्रं. ↩︎ ↩︎

  180. A3 नितं. ↩︎ ↩︎

  181. A3 स सरित्तटम्. ↩︎ ↩︎

  182. Thus A1; altered by later hand to ॰ह्वलाम्. ↩︎ ↩︎

  183. Thus corr. by later hand from A1 ब्रुवतां. ↩︎ ↩︎

  184. Thus corr. by A3 from A1 ॰सिंहं. ↩︎ ↩︎

  185. Thus corr. by A3 from A1 कम्प॰. ↩︎ ↩︎

  186. A3 gloss खञ्जर्. ↩︎ ↩︎

  187. A2 gloss दृष्टान्तोयम्. ↩︎ ↩︎

  188. A4 gloss सविश्वासाः. ↩︎ ↩︎

  189. Thus A3; A1 ॰दादौ. ↩︎ ↩︎

  190. A4 gloss कमलानर्तकीं कल्याणदेवीं च. ↩︎ ↩︎

  191. Thus A3; A1 ॰दादौ. ↩︎ ↩︎

  192. Thus A3; A1 सोन्विष्यमानो. ↩︎ ↩︎

  193. A2 indicates by asterisks and the marginal note मण्डलैः साहायकाय, a different reading in which this verse followed after verse 474. ↩︎ ↩︎

  194. Thus A2; A1 हिताशनः. ↩︎ ↩︎

  195. Thus A1; A3 ॰संरोध॰. ↩︎ ↩︎

  196. Thus A3; A1 द्रोहाज्जितेन. ↩︎ ↩︎

  197. Thus corr. by A3 from A1 स्वा. ↩︎ ↩︎

  198. A1 gloss मलरो इति भाषया. ↩︎ ↩︎ ↩︎ ↩︎

  199. Thus corr. by A3 from A1 स्वा. ↩︎ ↩︎

  200. Thus corr. by A2 from A1 ॰पेडाधि॰. Cf. महाप्रतीहारपीडा iv 142. ↩︎ ↩︎

  201. Thus A1; A3 ॰देवीं and ॰न्नताम्. ↩︎ ↩︎

  202. वैज्ञाना supplied by A3 in space left by A1. ↩︎ ↩︎

  203. A3 gloss प्रापय्य. ↩︎ ↩︎

  204. Thus A3; A1 ॰चक्षाणः. ↩︎ ↩︎

  205. A2 gloss क्षीरस्वामिनः. ↩︎ ↩︎

  206. Thus corr. by A1 from राज्य॰. ↩︎ ↩︎

  207. Thus corr. by later hand from A1 थाक्वया. ↩︎ ↩︎

  208. A2 gloss भट्टोद्भट आलङ्कारिकः. ↩︎ ↩︎

  209. A3 ॰कारणम्. ↩︎ ↩︎ ↩︎ ↩︎

  210. Thus A3; A1 सुस्वप्नं, ↩︎ ↩︎

  211. Thus corr. by A2 from A1 ॰रन्यैरि॰. ↩︎ ↩︎

  212. A2 note in margin; आरूढस्येत्यादिस्थाने षण्ढस्योन्मदबालपङ्कजमुखीपीनस्तनालिङ्गनमित्यपि पाठो रम्यः. ↩︎ ↩︎

  213. The original reading of A1, अकुर्वन्वि॰, has been corrected into आकुर्वन्त्वि॰ by a later hand, probably A2; A2 explains the latter reading by the gloss विगुणानपि आज्ञामाकुर्वन् आं अङ्गीकारे. A3 gives the interlinear note अकुर्वन्विगुणामित्यन्यादर्शे, and explains this reading in margin: दूतः किं कुर्वन् आज्ञां राजसम्बन्धिनां निष्फलां अकुर्वन् न विरचयन् मानयन्नाज्ञामित्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  214. Thus corr. by later hand from A1 ॰ग्रहक. ↩︎ ↩︎

  215. चुद्ध supplied by A3 in space left by A1; found also in G R; C पुर॰. ↩︎ ↩︎

  216. Thus A R G; C राज्यं. ↩︎ ↩︎

  217. A3 gloss अन्तर्कोट् इति भाषया. ↩︎ ↩︎

  218. Thus corr. by A2 from A1 मधुरा॰. ↩︎ ↩︎

  219. Thus corr. by A3 from A1 ॰द्रिम्. ↩︎ ↩︎

  220. Thus A3; A1 सहसा. ↩︎ ↩︎

  221. Thus corr. A3 from A1 सहसाव्यवसायिनाम्; A3 gloss साहसेन हिताहितानपेक्षेण कर्मणा अद्यवसायो येषां. ↩︎ ↩︎

  222. Thus A3; A1 ॰भूपते. ↩︎ ↩︎

  223. Thus corr. by A3 from A1 ॰पतिर्भीम॰. ↩︎ ↩︎

  224. A2 gloss उच्छूनो रक्तवर्णः पिटकाकृतिविस्तृतः सञ्चारी च त्वचि रोगविशेषः लूताख्यः लोत् इति प्रसिद्धः. ↩︎ ↩︎

  225. Thus corr. by A1 from सर्वसं॰. ↩︎ ↩︎

  226. A1 gloss आरमुडिः. ↩︎ ↩︎

  227. A4 gloss जयापीडस्य. ↩︎ ↩︎

  228. A4 gloss जयापीडस्य. ↩︎ ↩︎

  229. A3 gloss श्येनः कपोतं भक्षयतीति प्रसिद्धिः. ↩︎ ↩︎

  230. Emended; A G R ॰न्वेष्य॰. ↩︎ ↩︎

  231. A2 gloss सरितः. ↩︎ ↩︎

  232. Thus corr. by A3 from A1 तस्यावुरसुडेः. ↩︎ ↩︎

  233. Thus corr. by A2 from A1 ॰स्तन्तं. ↩︎ ↩︎

  234. Thus corr. by A2 from A1 ॰मर्म॰. ↩︎ ↩︎

  235. A2 gloss दृतिः जलोत्तरणार्थं श्नाहा इति प्रसिद्धा. ↩︎ ↩︎

  236. Thus corr. by A3 from A1 ॰पीडं सप्तानां. ↩︎ ↩︎

  237. Thus corr. by later hand from A1 निर्गतं. ↩︎ ↩︎

  238. A3 gloss आलोक्यतेतेनेत्यालोकः वातायनं । तस्मिन् न्यस्ते लोचने येन सः. ↩︎ ↩︎

  239. A3 gloss बन्धनवेश्मनि. ↩︎ ↩︎

  240. Thus corr. by later hand from A1 ॰न्स्थितो. ↩︎ ↩︎

  241. न supplied by A3. ↩︎ ↩︎

  242. Enended; A1 ॰रारमुडैश्चक्रे, changed by later hand to ॰मुडेश्चक्रे. ↩︎ ↩︎ ↩︎ ↩︎

  243. Thus corr. by A3 from A1 ॰डेः. ↩︎ ↩︎

  244. Thus A1; A3 प्रतिक्षिप्त. ↩︎ ↩︎

  245. A2 gloss पीतकोशौ कृतद्रौहिकावित्यर्थः; to द्रौहिका॰ A2 adds the note शपथः. ↩︎ ↩︎

  246. Thus corr. A13 from A1 यदि जन्म॰; A3 gloss follow A3. ↩︎ ↩︎ ↩︎ ↩︎

  247. Thus corr. by A3 from A1 दर्शय॰. ↩︎ ↩︎

  248. THus corr. by A3 from A1 इति. ↩︎ ↩︎

  249. Thus corr. by later hand from A1 वहस्त्वं; A3 gloss वहेः गमयेत्यर्थः. ↩︎ ↩︎

  250. Thus corr. by A2 from A1 पाद॰. ↩︎ ↩︎

  251. A3 gloss घटिकाद्वयरूपां. ↩︎ ↩︎

  252. A2 gloss सद्यो व्यापादिततनुरित्यादि पताम्भसीत्यन्ता शिक्षा राज्ञः कृते नखनिर्भिन्नस्वशरीररक्तेन लिखिता तेन कृतज्ञेन सन्त्रिवरेण स्वकीयकण्ठनिबद्धे वस्त्रखण्डे. ↩︎ ↩︎

  253. A2 gloss अत एव दृतिविदित्यर्थः. ↩︎ ↩︎

  254. A1 originally दृतेर्मा॰; to this reading refers the gloss of A1: दृतेः सकाशादप्यभेद्योहमित्यर्थः. On altering the reading to दृतिर्मा॰, A2 has struck out the first gloss and added a fresh one: अहमभेद्यो दृतिरस्मि. ↩︎ ↩︎

  255. A2 gloss मां दृतिरूपं. ↩︎ ↩︎

  256. Thus corr. by later hand from A1 ॰रूढबन्धाय. ↩︎ ↩︎

  257. A2 gloss उष्णीषपद्दिका वेष्टनाञ्चलद्वयपद्दिकेत्यर्थः. ↩︎ ↩︎

  258. Thus corr. by later hand from A1 क्षणं. ↩︎ ↩︎

  259. Thus A R G; C नाभूद्विसदृशः. ↩︎ ↩︎

  260. Thus A1; A3 भास्वरस्य. ↩︎ ↩︎

  261. Thus A1; A3 ॰प्रेषितैश्च॰. ↩︎ ↩︎

  262. Emended; A सोभ्यधाय. ↩︎ ↩︎

  263. Thus corr. by A3 from A1 याते. ↩︎ ↩︎

  264. Thus corr. by A3 from A1 ॰भूतये. ↩︎ ↩︎

  265. A1 येऽकारण॰. ↩︎ ↩︎

  266. Thus corr. by later hand from A1 विमानिनाम्. ↩︎ ↩︎

  267. A2 gloss त्याज्य. ↩︎ ↩︎

  268. Thus A1; A3 दीन्नार॰. ↩︎ ↩︎

  269. Thus corr. by A3 from A1 ॰कारादिभिः. ↩︎ ↩︎

  270. Thus corr. by A3 from A1 काश्मीरका॰. ↩︎ ↩︎

  271. Thus A3; A1 यथा. ↩︎ ↩︎

  272. Thus A1; A2 हृतान॰. ↩︎ ↩︎

  273. Thus A1; A3 ॰तान्वि॰. ↩︎ ↩︎

  274. Thus A1; A3 ॰काहे चेद्वि॰. ↩︎ ↩︎

  275. Thus A1; A3 ओके वै॰. ↩︎ ↩︎

  276. Thus corr. by A3 from A1 विपर्यासे. ↩︎ ↩︎

  277. A3 gloss निष्ठाशब्द इह नाशवाची. ↩︎ ↩︎

  278. Thus corr. by A2 from A1 तूलमूला॰. ↩︎ ↩︎

  279. Thus A2; A1 तूलमूलौ॰. A2 gloss तूलमूलाख्यो ग्रामः. ↩︎ ↩︎

  280. Thus corr. by A3 from A1 ॰व्यापकं. ↩︎ ↩︎

  281. Thus corr. by A3 from A1 तूर्णी. ↩︎ ↩︎ ↩︎ ↩︎

  282. Thus A1; A3 दुष्प्रेक्ष॰. ↩︎ ↩︎

  283. A2 gloss भवान्यत्रेति विश्वामित्रशापाद्धरिश्चन्द्रो भ्रष्टः स्वपदात् वसिष्ठशापाचिशङ्कुर्भ्रष्टः अगस्त्यशापाच्च नहुषो भ्रष्टः इति तद्दृष्टान्तोत्र दत्तः. ↩︎ ↩︎

  284. Thus corr. by A3 from A1 विसर्प॰. ↩︎ ↩︎

  285. Thus corr. by A2 from A1 क्षितिं. ↩︎ ↩︎

  286. A1 seems to have read यच्चा॰; corrected by A3. ↩︎ ↩︎

  287. Thus corr. by A3 from A1 ॰कथादिज्ञो. ↩︎ ↩︎

  288. Thus corr. by A3 from A1 तत्. ↩︎ ↩︎

  289. A1 gloss परिहासपुरसमीपे. ↩︎ ↩︎

  290. A3 gloss कल्यं सुरां पालयतीति कल्यपालः कलवाल् इति भाषया. ↩︎ ↩︎

  291. Thus corr. by A3; two aksharas of A1, corresponding to रुद्धा, are illegible on account of an ink blot. A3 gloss अवरुद्धा उरद्धा इति भाषया. ↩︎ ↩︎

  292. Thus A1; A3 ॰धम्मैः. ↩︎ ↩︎

  293. A2 gloss कर्मस्थानानि कार्खान इति प्रसिद्धानि. ↩︎ ↩︎

  294. A4 glosses ललितापीडेन and पद्मोत्पलकादिभिः. ↩︎ ↩︎ ↩︎ ↩︎

  295. Thus corr. A3 from A1 ॰देहानां. ↩︎ ↩︎

  296. A1 wrote ॰मसामान्याद्वि॰; A2 altered this to ॰मसम्मत्या; A3 has struck out the reading of A2 and has written above ॰मसामान्यान्वि॰. ↩︎ ↩︎ ↩︎ ↩︎

  297. युग्मम् added by A3. ↩︎ ↩︎

  298. Thus corr. by a later hand from A1 वेडा॰; G वेडा॰. Cf. viii. 578(C) ↩︎ ↩︎

  299. A2 gives the marginal note शलस्थूलं नामेल्याणकं मिथान नवग्Fरामादि एषां चतुर्णां सम्बन्धी एकोत्पत्तिप्रवेशः स पञ्चमगणनास्थानमिति लोकाश्रायः. ↩︎ ↩︎

  300. Thus A1; A2 ॰मुखान्यै॰. ↩︎ ↩︎

  301. To this verse seems to refer the gloss og A2: मलूनायां. ↩︎ ↩︎

  302. A2 gloss श्रीशङ्कुकाभिधः प्रसिद्ध आलङ्कारिकः यस्य मतं रसनिरूपणे काव्यप्रकाशे चतुर्थोल्लासे श्रीमम्मटाचार्येण निरूपितम्. ↩︎ ↩︎

  303. A4 gloss सुखवर्मा. ↩︎ ↩︎

  304. Thus corr. by A1 from ॰युजे मासस॰; A2 gloss आश्वयुजे मासि चश्चर्यर्थं ये निर्गच्छन्ति ते हेयारया इति प्रसिद्धास्तत्सदृशानां. ↩︎ ↩︎

  305. Thus A3; A1 कठिना. ↩︎ ↩︎

  306. A4 gloss अवन्तिवर्माणम्. ↩︎ ↩︎

  307. Thus corr. by A3 from A1 तदुरु. ↩︎ ↩︎

  308. A1; A3 ॰तपनौ युक्तं. ↩︎ ↩︎

  309. A3 inserts before this the following note: रा 17 ग्रं 116 आदितः राजानः 70 ग्रं 1785. ↩︎