॥ तृतीयस्तरङ्गः ॥
विश्वास-प्रस्तुतिः
भुञ्जेभाजिनमस्य1 कुम्भकुहरे मुक्ताः कुचाग्रोचिताः किं भालज्वलनेन कज्जलमतः स्वीकार्यमक्ष्णोः कृते । 0001ab
सन्धाने वपुरर्धयोः प्रतिवदन्नेवं निषेधेप्यहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ 0001cd
मूलम्

अथोल्लसत्पृथुश्लाघमानिन्युर्मेघवाहनम् । 0002ab
गान्धारविषयं गत्वा सचिवाधिष्ठिताः प्रजाः ॥ 0002cd

रक्तप्रजस्य भूभर्तुः पश्चाल्लोकानुरञ्जनम् । 0003ab
तस्याज्ञायि जनैर्धौतक्षौमक्षालनसन्निभम् ॥ 0003cd

स पुनर्बोधिसत्त्वानामपि सत्त्वानुकम्पिनाम् । 0004ab
चर्यामुदात्तचरितैरत्यशेत महाशयः ॥ 0004cd

तस्याभिषेक एवाज्ञां धारयन्तोधिकारिणः । 0005ab
सर्वतोमारमर्यादापटहानुदघोषयन्2 ॥ 0005cd

कल्याणिना प्राणिवधे तेन राष्ट्रान्निवारिते । 0006ab
निष्पापां प्रापिता वृत्तिं स्वकोशात्सौनिकादयः ॥ 0006cd

तस्य राज्ये जिनस्येव मारविद्वेषिणः प्रभोः । 0007ab
क्रतौ घृतपशुः पिष्टपशुर्भूतबलावभूत् ॥ 0007cd

स मेघवननामानमग्रहारं विनिर्ममे । 0008ab
मयुष्टग्रामकृत्पुण्यज्येष्टं3 मेघमठं तदा[^0008-3] ॥ 0008cd

भोगाय देश्यभिक्षूणां4 वल्लभास्यामृतप्रभा । 0009ab
विहारमुच्चैरमृतभवनाख्यमकारयत् ॥ 0009cd

देशैकदेशाल्लोर्नाम्नः5 प्राप्तस्तस्याः पितुर्गुरुः । 0010ab
स्तुन्पा[^0010-3] तद्भाषया प्रोक्तो लोस्तोन्पास्तूपकार्यकृत् ॥ 0010cd

चक्रे नडवने राज्ञो यूकदेव्यभिधा6 वधूः । 0011ab
विहारमद्भुताकारं सपत्नीस्पर्धयोद्यता ॥ 0011cd

अर्धे यद्भिक्षवः शिक्षाचारास्तवार्पितास्तया । 0012ab
अर्धे गार्हस्थ्यगर्ह्याश्च सस्त्रीपुत्रपशुस्त्रियः ॥ 0012cd

अथेन्द्रदेवीभवनमिन्द्रद्र्व्यभिधा व्यधात् । 0013ab
विहारं सचतुःशालं स्तूपं भूपप्रियापरा ॥ 0013cd

अन्याभिः स्वादनासम्माप्रमुखाभिर्निजाख्यया । 0014ab
देवीभिस्तस्य महिता विहारा बहवः कृताः ॥ 0014cd

अर्वाक्कालोद्भवस्यापि राज्यकालोस्य भूपतेः । 0015ab
न्यक्कृतादिनृपोदन्तैर्वृत्तान्तैरद्भुतोभवत् ॥ 0015cd

स बहिर्विहरञ्जातु भूभृद्भीतैरुदीरितम् । 0016ab
चौरश्रौरोयमित्यारादशृणोत्क्रन्दितध्वनिम् ॥ 0016cd

कः कोत्र बध्यतां चौर इत्युक्ते तेन सक्रुधा । 0017ab
शशामाक्नदितध्वानो नच चौरो व्यभाव्यत ॥ 0017cd

पुनर्द्वित्रैर्दिनैस्तस्य निर्गतस्याग्रतस्त्रतः । 0018ab
अभवन्नभयार्थिन्यो द्वित्रा दिव्यप्रभाः स्त्रियः ॥ 0018cd

ताः संश्रुतेप्सितास्तेन रुद्धाश्वेन कृपालुना । 0019ab
अभ्यभावन्त सीमन्तपुञ्जिताaञ्जलयो वचः ॥ 0019cd

देव दिव्यप्रभावेण भुवने भवता धत्ते । 0020ab
अपरस्माद्भयं जातु कस्य स्यात्करुणानिधे ॥ 0020cd

तदानीं दिव्यप्रभावेण भुवने भवता धृते । 0021ab
अकाण्डकरकापातशङ्किभिः कार्यकैर्मृषा ॥ 0021cd

पक्वशालिवनस्हीतिरक्षाक्षुभितमानसैः7 । 0022ab
नागास्त्वत्कोपसंरम्भभूमितां8 गमिताः प्रभो ॥ 0022cd

[page 24]
विश्वास-प्रस्तुतिः
तेस्माकं पतयश्चौरश्चौर इत्यार्तभाषितम् । 0023ab
श्रुत्वा देवेन बध्यन्तामित्यवादि यदा क्रुधा ॥ 0023cd

तदा त्वदाज्ञामात्रेण न्यपतन्पाशवेष्टिताः । 0024ab
प्रसादः क्रियतां तेषामस्मत्करुणयाधुना ॥ चक्कलकम् ॥ 0024cd

तदाकर्ण्यावदद्राजा प्रसादविशदाननः । 0025ab
सर्वे ते बन्धनान्नागास्त्यज्यन्तामिति सस्मितः ॥ 0025cd

तथा तस्याज्ञया राज्ञो नागा विधुतबन्धनाः । 0026ab
प्रणम्य चरणौ तूर्णं प्रययुः सपरिग्रहाः ॥ 0026cd

अथ ग्राहयुतुं भूपानाज्ञां हिंसानिवृत्तये । 0027ab
स दिग्जयाय निर्व्याजधर्मचर्यो विनिर्ययौ ॥ 0027cd

अभूदभीतजनतावेक्षणश्लाघ्यविक्रमः । 0028ab
स्पृहणीयो जनस्यापि तदीयविजयोद्यमः ॥ 0028cd

प्रभावविजितान्कृत्वा सोहिंसादीक्षितान्नृपान् । 0029ab
अर्णसां पत्युरभ्यर्णमवापावर्णवर्जितः ॥ 0029cd

तत्र तालीवनच्छायासुखविश्रान्तासैनिकः9 । 0030ab
युक्तिं द्वीपान्तराक्रान्तौ क्षणमन्तर्व्यचिन्तयत् ॥ 0030cd

अथ वेलावनोपान्तात्तेनार्ताक्रन्दितध्वनिः । 0031ab
मेघवाहनराज्येपि हतोहमिति शुरुवे ॥ 0031cd

तप्तायःशङ्कुनेवान्तर्ब्रणितः स द्रुतं ततः । 0032ab
सञ्चारिनातपत्रेण सत्रा तां वसुधामगात् ॥ 0032cd

अपश्यदथ केनापि चण्डिकायतनाग्रतः । 0033ab
नरं शबरसेनान्या10 हन्यमानम् अधोमुखम् ॥ 0033cd

अनात्मज्ञ धिगेतत्ते कुकर्मेति महीभुजा । 0034ab
तर्जितः स भयादेवं शबरस्तं व्यजिज्ञपत् ॥ 0034cd

शिशुर्मुमूर्षुर्मे राजन्नयं रोगार्दितः सुतः । 0035ab
कर्मैतद्दैवतैरुक्तमस्य श्रेयोलवावहम् ॥ 0035cd

उपहारनिरोधेन सद्य एव11 विपद्यते । 0036ab
बन्धुवर्गमशेषं च विद्ध्येतज्जीवजीवितम् ॥ 0036cd

अरण्यगहनाल्लब्धमनाथं देव रक्षसि । 0037ab
बहुलोकाश्रयं बालं कथमेतमुपेक्षसे ॥ 0037cd

अथाभ्यधान्महात्मा स वचोभिः शबरस्य तैः । 0038ab
वध्यस्य दृष्टिपातैश्च विक्लवैर्विवशीकृतः ॥ 0038cd

किरात कातरो मा भूः स्वयम् संरक्ष्यते मया । 0039ab
बहुबन्धुस्तव सुतो बध्योप्ययमबान्धवः ॥ 0039cd

उपहारीकरोम्येष चण्डिकायै स्वविग्रहम् । 0040ab
मयि प्रहर निःशङ्कं जीवत्वेतज्जनद्वयम् ॥ 0040cd

तदद्भुतमहासत्त्वचित्तोदात्तत्वविस्मितः । 0041ab
उन्मिषद्रोमहर्षस्तं ततः स शबरोभ्यधात् ॥ 0041cd

अतिकारुण्यमिषतस्तवायं पृथिवीपते । 0042ab
कश्चिन्मतिविपर्यासप्रकारो हृदि रोहति ॥ 0042cd

त्रैलोक्यजीवितेनापि यो रक्ष्यो हेलयैव तम् । 0043ab
पृथिवीभोगसुभगं कथं कायमुपेक्षसे ॥ 0043cd

न मानं न यशो नार्थान्न दारान्न च बान्धवान् । 0044ab
न धर्मं न सुतान्भूपा रक्षन्ति प्राणतृष्णया ॥ 0044cd

तत्प्रसीद प्रजानाथ मा वध्येस्मिन्कृत्पां कृथाः । 0045ab
शिशुश्चैष प्रजाश्चैता जीवन्तु त्वयि जीवति ॥ 0045cd

उपाजिहीर्षुरात्मानं दन्तद्योतार्घडम्बरैः । 0046ab
अर्चयन्निव चामुण्डामथोवाच स पार्थिवः ॥ 0046cd

सदाचारसुधास्वादे के भवन्तो वनौकसः । 0047ab
जाह्नवीमज्जनप्रीतिं न जानन्ति मरुस्थिताः ॥ 0047cd

ध्रुवापायेन कायेन क्रीणतः कीर्तिमव्ययाम् । 0048ab
ममाभीष्टं12 प्रमार्ष्टुं ते मूढ रूढोयमाग्रहः ॥ 0048cd

मा वोचः किञ्चिदपरं प्रहर्तुं चेद्घृणा तव । 0049ab
न किं निजः कृपाणो मे शक्तह् प्रक्रान्तसिद्धये ॥ 0049cd

इत्युक्त्वा स स्वयं देहमुपहर्तुम् समुद्यतः । 0050ab
खण्डनाय स्वमुण्डस्य विकोशं शस्त्रमादधे ॥ 0050cd

ततः प्रहर्तुकामस्य तस्य द्युकुसुमैः शिरः । 0051ab
करश्च दिव्यवपुषा रुद्धः केनाप्यजायत ॥ 0051cd

[page 25]
विश्वास-प्रस्तुतिः
अथापश्यत्तथाभूतः किञ्चिद्दिव्याकृतिं पुरः । 0052ab
न चण्डिकां न तं वध्यं न किरातं न दारकम् ॥ 0052cd

स तं दिव्यस्तदावादीन्मां त्वम् सत्त्ववशीकृतम् । 0053ab
विद्धि मध्यमलोकेन्दो वरुणं करुणानिधे ॥ 0053cd

यदेतत्त्वामुपास्तेद्य छत्त्रं तन्मत्पुरात्पुरा । 0054ab
महाबलोहरद्भौमः पुराणश्वशुरस्तव ॥ 0054cd

रसातलैकतिलकं माहात्म्यवदिदम् विना । 0055ab
उपद्रवाः प्राणहराः पौराणां नः पदे पदे ॥ 0055cd

तदिदं प्राप्तुकामेन त्वदौदार्यं परीक्षितुम् । 0056ab
कारुण्यमय माथेयं निरमायि मयेदृशी ॥ 0056cd

त्वदादिर्यो व्यधाज्जन्तून्व्यसून्वसुकुलात्मजः13 । 0057ab
प्रायश्चित्तमभारेण चरसीव तदेनसः13 ॥ 0057cd

भयस्पृहाजनकयोर्धरणीधारणोचिते14 । 0058ab
शेषदेहे विषोद्गारफणारत्नौघयोरिव ॥ 0058cd

तमःप्रकाशावहयोस्तेजःक्रान्तदिगन्तरे । 0059ab
उषर्बुधे धूमज्वालापल्लवयोरिव ॥ 0059cd

क्लमाप्यायक्रियाभाजो रुद्धतेजस्विमण्डले । 0060ab
प्रावृट्पयोदच्छन्नेह्नि सन्तापासारयोरिव ॥ 0060cd

द्वयोरालोकितं चित्रं जन्मैकस्मिन्महाकुले । 0061ab
तस्य त्रिकोटिहन्तुश्च तत्राहिंसस्य च प्रभोः ॥ चक्कलकम्॥ 0061cd

नम्रः सम्राडथैवम् स वदतो यादसाम् प्रभोः । 0062ab
चकार पूजां स्तोत्रेण छत्त्रेण च कृताञ्जलिः ॥ 0062cd

तं च स प्रतिगृह्णन्तं प्रणयादुष्णवारणम् । 0063ab
जगाद गुणिनामग्न्यो वरुणं धरणीधरः ॥ 0063cd

कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् । 0064ab
अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ 0064cd

अवालम्बिष्यत छत्त्रं कथं नः पुण्यपण्यताम् । 0065ab
तत्प्रार्थयिष्यत15 न चेदार्तोपकृतये भवान् ॥ 0065cd

वदान्यः16 संविभाग्येभ्यः17 पूर्णं कुर्यादनुग्रहम् । 0066ab
छाययाप्याययन्दद्यात्फलान्यपि18 महीरुहः ॥ 0066cd

तदेवं19 विहितोदात्तसंविभागाभिचोदितः । 0067ab
जनोयं भ्गवन्किञ्चिद्वरम् प्रार्थयते परम् ॥ 0067cd

वशीकृतेयम् पृथिवी कृत्स्ना भवदनुग्रहात् । 0068ab
जेतुम् द्वीपान्कथ्यतां तु युक्तिह् पाथोधिलङ्घने ॥ 0068cd

इत्यर्थ्यमानोकथयद्भूमिपालं जलेश्वरः । 0069ab
तितीर्षौ भवति स्तम्भं नीयतेम्भो भयाम्बुधेः ॥ 0069cd

ततो महान्प्रससदोयमित्युक्ते पृथिवीभुजा । 0070ab
तिरोबभूव भगवान्वरुणः सोष्णवारणः ॥ 0070cd

अन्येद्युर्विस्मयस्मेरैर्बलैः सीमन्तयञ्जलम् । 0071ab
प्रभावस्तम्भितक्षोभं20 प्रोत्ततार स वारिधिम् ॥ 0071cd

गुणरत्नाaकरः शैलं स रत्नाकरशेखरम् । 0072ab
नानारत्नाकरं सैन्यैरारुरोहाथ रोहणम् ॥ 0072cd

तत्र तालीतरुवनच्छायाध्यासितसैनिकम् । 0073ab
प्रीत्या लङ्काधिराजस्तमुपतस्थे बिभीषणः ॥ 0073cd

समागमः स शुशुभे नरराक्षसराजयोः । 0074ab
वन्दिनादाश्रुतान्योन्यप्रथमालापसम्भ्रमः2122 ॥ 0074cd
विश्वास-प्रस्तुतिः
अथ रक्षःपतिर्लङ्कां नीत्वालङ्करणं क्षितेः । 0075ab
अमर्त्यसुलभाभिस्तं विभूतिभिरुपाचरत् ॥ 0075cd

यदासीत्पिशिताशा इत्यन्वर्थं नाम रक्षसाम् । 0076ab
तदा तदाज्जाग्रहणे प्रापि तद्रूढिशब्दताम् ॥ 0076cd

रक्षःशिरःप्रतिच्छन्दैः23 स्थिरप्रणतिसूचकैः । 0077ab
सनाथशिक्झरान्प्रादात्तस्मै रक्षःपतिर्ध्वान् ॥ 0077cd

पाराद्वारिनिधेः प्राप्ताः कश्मीरेष्वधुनापि ये । 0078ab
राज्जां यात्रासु निर्यान्ति ख्याताः पारध्वजाः पुरः । 0078cd

इत्थमाराक्षसकुलं प्राणिहिंसाम् निष्ध सः । 0079ab
स्वमण्डलं प्रति कृती न्यवर्तत नराधिपः ॥ 0079cd

[page 26]
विश्वास-प्रस्तुतिः
ततः24 प्रभृति तस्याज्ञा सार्वभौमस्य भूपतेः । 0080ab
हिंसाविरतिरूपा सा न कैश्चिदुदलङ्घ्यः ॥ 0080cd

क्षुद्रैरुध्रादिभिर्नाप्सु सिंहाद्यैर्गहने न च । 0081ab
न श्येनप्रमुखैर्व्योम्नि तद्राज्ये जन्तवो हताः[^0081-1] ॥ 0081cd

अतिक्रामति कालेथ कोपि शोकाकुलो द्विजः । 0082ab
पुत्रं गदार्तमादाय द्वारि चक्रन्द भूपतेः ॥ 0082cd

दुर्गया प्रार्थितं राजन्पश्वाहारं25 विनैष मे । 0083ab
अनन्यसन्ततेः सूनुर्ज्वरेनाद्य विपद्यते ॥ 0083cd

यद्यहिंसाग्रहेणेमं क्षितिपाल न रक्षसि । 0084ab
एतद्विपत्तौ तत्कोन्यो निमित्तं प्रतिभाति मे ॥ 0084cd

निणयो वर्णगुरुना त्वयैवैष प्रदीयताम् । 0085ab
ब्राह्मणस्य पशोर्वा स्यात्प्राणानां कियदन्तरम् ॥ 0085cd

तपःस्थानपि ये जघ्नुर्ब्राह्मणप्रानलब्धये । 0086ab
हा मातस्तेधुना भूमे प्रजापालास्तिरोहिताः ॥ 0086cd

इति ब्रुवति साक्षेपं शोकरूक्षाक्षरं द्विजे । 0087ab
आपन्नार्तिहरो राजा चिरमेवम् व्यचिन्तयत् ॥ 0087cd

न वध्याः प्राणिन इति प्राङ्मया समयः कृतः26 । 0088ab
विप्रार्थमपि किं कुर्यां स प्रतिज्जातविप्लवम् ॥ 0088cd

निमित्तीकृत्य मामद्य विपद्येत द्विजो यदि । 0089ab
तत्राप्यत्यन्तपापीयानर्थह् सङ्कल्पविप्लवः ॥ 0089cd

नैति मे संशयभ्रान्तमेकपक्षावलम्बनम् । 0090ab
सम्भेदावर्तपतितं प्रसूनमिव मानसम् ॥ 0090cd

तत्स्वदेहोपहारेण दुर्गां तोषयता मया । 0091ab
प्रतिज्जया समं न्याय्यं रक्षितुं जीवितं द्वयोः ॥ 0091cd

इति सञ्चिन्त्य सुचिरं देहदानोद्यतो नृपः । 0092ab
श्वः प्रियं तव कर्तास्मीत्युक्त्वा विप्रं व्यसर्जयत् ॥ 0092cd

क्षपायां क्ष्मापतिमथ स्वमुपाहर्तुमुद्यतम् । 0093ab
निषिध्य दुर्गा व्यधित प्रकृतिस्थं द्विजन्मजम् ॥ 0093cd

इत्याद्यद्यतनस्यापि चरितं तस्य भूपतेः । 0094ab
पृथग्जनेष्वसम्भाव्यं वर्णयन्तस्त्रपामहे ॥ 0094cd

अथवा27 रचनानिर्विशेषमार्षेण वर्त्मना । 0095ab
प्रस्थिता28 नानुरुन्धन्ति श्रोतृचित्तानुवर्तनम् ॥ 0095cd

तस्मिन्नस्तम्गते भुक्त्वा क्ष्मां चत्रुस्त्रिंशतम् समाः । 0096ab
अनादित्यमिवाशेषं निरालोकमभूज्जगत् ॥ 0096cd

अथ क्ष्माभृद्ररक्ष क्ष्मां श्रेष्ठसेनस्तदात्मजः । 0097ab
आहुः प्रवरसेनं यम् तुज्जीनं चाञ्जसा जनाः ॥ 0097cd

दोःस्तम्भसम्भृतासक्तौ कृपाणमणिदर्पणे । 0098ab
सङ्क्रान्तेवोन्मुखी यस्य भुवनश्रीर्व्यभाव्यत ॥ 0098cd

समातृचक्रं निमाय यः पूर्वं प्रवरेश्वरम् । 0099ab
पुण्याः पुराणाधिष्ठाने प्रतिष्ठा विविधा व्यधात् ॥ 0099cd

गृहाङ्गनमिव क्षोणीं गणयन्वशवर्तिनीम् । 0100ab
त्रिगर्तोर्वीं ग्राममध्ये29 प्रवरेशाय यो ददौ ॥ 0100cd

ईशो नृपाणां निःशेषक्ष्माकेदारकुटुम्बिनाम् । 0101ab
स समास्त्रिंशतम् भूभृदानिस्त्रिंशाशयोभवत् ॥ 0101cd

हिरण्यतोरमाणाख्यौ व्यधत्तामथ तत्सुतौ । 0102ab
साम्राज्ययुवराज्यत्वभाजने रञ्जनं क्षितेः ॥ 0102cd

बलाहतनां30 प्राचुर्यं विनिवार्यासमञ्जसम् । 0103ab
तोरमाणेन दीन्नाराः31 स्वाहताः32 सम्प्रवर्तिताः ॥ 0103cd

मामवज्ञाय राज्ञेव कस्मादेतेन33 वल्गितम् । 0104ab
इति तं पूर्वजो राजा क्रोधनो बन्धने व्यधात् ॥ 0104cd

चिरंस्थितित्यक्तशुचस्तत्र तस्याञ्जनाभिधा । 0105ab
ऐक्ष्वाकस्यात्मजा राज्ञी वज्रेन्द्रस्यास्त गुर्विणी ॥ 0105cd

आसन्नप्रसवा भर्त्रा सा त्रपार्तेन34 बोधिता । 0106ab
सुतं प्रविष्टा प्रासोष्ट कुलालनिलये क्वचित् ॥ 0106cd

स कुम्भकारगेहिन्या काक्येव पिकशाबकः । 0107ab
पुत्रीकृतो राजपुत्रः प्र्याप्तं पर्यवर्धत ॥ 0107cd

[page 27]
विश्वास-प्रस्तुतिः
जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोभवत् । 0108ab
रत्नसूतेर्भुजङ्ग्याश्च[^0108-1] प्रच्छन्न इव शेवधिः ॥ 0108cd

पौत्रः प्रवरसेनस्य गिरा मातुर्नृपात्मजः । 0109ab
पैतामहेन नाम्नैव कुलाल्या ख्यापितोभवत् ॥ 0109cd

वर्धमानः स सम्पर्कं न सेहे सहवासिनाम् । 0110ab
तेजस्विमैत्रीरसिकः शिशुः पद्म इवाम्भसाम् ॥ 0110cd

तं कुलीनैश्च शूरैश्च विद्याविद्भिश्च दारकैः । 0111ab
अन्वीतमेव ददृशुः क्रीडन्तं विस्मयाज्जनाः ॥ 0111cd

स्ववृन्दस्यात्युदारौजा35 राजा चक्रे स दारकैः । 0112ab
मृगेन्द्रशावः क्रीडद्भिर्वने बालमृगैरिव ॥ 0112cd

संविभेजेनुजग्राह वशीचक्रे च सोर्भकान् । 0113ab
अराजोचितमाचारम् नैव कञ्चिदसेवत36 ॥ 0113cd

भाण्डादि कर्तुम् मृत्पिण्डं कुम्भकारैः समर्पितम् । 0114ab
स्वीकृत्य चक्रिरे तेन शिवलिङ्गपरम्पराः ॥ 0114cd

तथा साश्चर्यचर्यः स क्रीडञ्जातु व्यलोक्यत । 0115ab
मातुलेन जयेन्द्रेण सादरं चाभ्यनन्द्यत ॥ 0115cd

आवेद्यमानं शिशुभिस्तं जयेन्द्रोयमित्यसौ37 । 0116ab
भूपालवत्सावहेलं पश्यन्नन्वग्रहीदिव ॥ 0116cd

सम्भाव्य सत्त्वावष्टम्भात्तमसामान्यवंशजम् । 0117ab
सादृश्याद्भगिनीभिर्तुर्भागिनेयमशङ्कत ॥ 0117cd

सत्वरस्तत्त्वजिज्ञासारसेनानुससार तम् । 0118ab
प्राप्तस्तद्गृहमौत्सुक्यात्स्वसारं च व्यलोकयत् ॥ 0118cd

सा स चान्योन्यमुन्मन्यू पश्यन्तौ भ्रातरौ चिरात् । 0119ab
निःश्वासद्विगुणोष्माणि मुहुरस्रूण्यमुञ्चताम् ॥ 0119cd

कुलाल्या दारको मातः कावेताविति पृष्टवान् । 0120ab
अकथ्यतेत्थं वत्सैषा मातायां मातुलश्च ते ॥ 0120cd

पितुर्बन्धेन सक्रोधं तम् कालापेक्षयाक्षमम् । 0121ab
शिक्षयित्वा जयेन्द्रोथ कार्यशेषाय निर्ययौ ॥ 0121cd

उत्पिञ्जोत्पादनासज्जे38 तस्मिन्भ्रात्रा यदृच्छया । 0122ab
बन्धात्त्यक्तो नृतरणिस्तोरमाणोस्तमाययौ ॥ 0122cd

निवार्य मरणोद्योगं मातुर्निर्वेदखेदितः । 0123ab
ययौ प्रवरसेनोथ तीर्थौत्सुक्याद्दिगन्तरम् ॥ 0123cd

रक्षित्वा दशमासोनाः क्ष्मामेकत्रिंशतिम् समाः । 0124ab
तस्मिन्क्षणे हिरण्योपि शान्तिं निःसन्ततिर्ययौ ॥ 0124cd

तत्रानेहस्युज्जयिन्याम् श्रीमान्हर्षापराभिधः । 0125ab
एकच्छत्त्रश्चक्रवर्ती विक्रमादित्य इत्यभूत् ॥ 0125cd

भूपमद्भुतसौभाग्यं श्रीर्बद्धरभसाभजत् । 0126ab
विहाय हरिबाहूंश्च चतुरः सागरांश्च यम् ॥ 0126cd

लक्ष्मिं कृत्वोपकरणं गुणे येन प्रवर्धिते39 । 0127ab
श्रीमत्सु गुणिनोद्यापि तिष्ठन्त्युद्धुरकन्धराः ॥ 0127cd

म्लेच्छोच्छेदाय वसुधाम् हरेरवतरिष्यतः40 । 0128ab
शकान्विनाश्य येनादौ कार्यभारो लघूकृतः ॥ 0128cd

नानादिगन्तराख्यातं गुणवत्सुलभं नृपम् । 0129ab
तं कविर्मातृगुप्ताख्यः सर्वास्थानस्थमासदत्[^0129-1] ॥ 0129cd

स गम्भीरस्य भूभर्तुरनुभावं महाद्भुतम् । 0130ab
विविधास्थानसंवृद्धस्तस्याभ्यूह्य व्यचिन्तयत् ॥ 0130cd

सोयमासादितः पुण्यैः क्षोणिपालो गुणिप्रियः । 0131ab
परभागोपलम्भाय पूर्वेमुष्य महीभुजः ॥ 0131cd

यस्मिन्नाजनि41 तत्त्वज्ञैः सूरिभिः सम्भृतश्रुतैः । 0132ab
नाञ्जलिर्दीयते जातु मानाय च गुणाय च ॥ 0132cd

भङ्ग्यामुष्मिन्विदधती स्वाभिप्रायप्रकाशनम् । 0133ab
वैदग्ध्यबन्ध्यतां नैति बुद्धिह् कुलवधूरिव ॥ 0133cd

खिलीकृतखलालापे युक्तायुक्तविवेक्तरि । 0134ab
नायातिसेव्यमानेस्मिन्स्वगुणोनर्थकारिताम् ॥ 0134cd

अनाप्नुवद्भिः सावद्यदुर्विद्यसम्शीर्षिकाम् । 0135ab
जीवन्मरणस्याग्रे गुणिभिर्नानुभूयते ॥ 0135cd

[page 28]
विश्वास-प्रस्तुतिः
सम्भावनानुसारेण42 प्रवृत्तोस्माद्विवेकिनः । 0136ab
शोच्यते नाञ्चितोच्छ्वासं प्रीतिदायो महाशयैः ॥ 0136cd

गृह्णन्यथागुणं स्वान्तमुचितप्रतिपत्तिभिः43 । 0137ab
अन्तरज्ञः समस्तानामयमुत्साहवर्धनः ॥ 0137cd

सेवया दृष्टकष्टस्य दाक्षिण्योत्पादने श्रमः । 0138ab
अस्य यो न स भृत्यानां हिमाद्रौ हिमविक्रयः ॥ 0138cd

मिथ्याख्यातगुणो नाप्तो नामात्यः कलहप्रियः । 0139ab
असत्यसन्धः स्थेयो वा नास्थानेस्य महीपतेः ॥ 0139cd

अश्लीलापिनोन्योन्यं नर्मोक्त्या मर्मभेदिनः । 0140ab
अन्यप्रवेशासहनाः संहता नास्य सेवकाः ॥ 0140cd

छन्दानुवर्तिनामेष निजविज्ञानवन्दिनाम् । 0141ab
सर्वज्ञम्मन्यतान्धानां मुखप्रेक्षी न पार्थिवः ॥ 0141cd

अनेन सह सञ्जातः संलापो विपुलोदयः । 0142ab
लभ्यते नान्तराच्छेत्तुं दुर्जातैर्जातु दुर्जनैः ॥ 0142cd

सर्वदेदोषोज्झितं सेव्यं नृपमेवमिमं मम । 0143ab
समासादयतः पुण्यैरदूरे स्वार्थसिद्धयः ॥ 0143cd

गम्भीरश्च गुणज्ञश्च स्थिरबुद्धिश्च पार्थिवः । 0144ab
एष क्लेशभयं त्यक्त्वा निषेव्यः प्रतिभाति मे ॥ 0144cd

न चास्माद्धनमादाय रञ्जितादन्यराजवत् । 0145ab
भ्राम्यते44 भूतलेमुष्मिन्सेव्योन्यः प्रतिभाति मे ॥ 0145cd

इति सञ्चिन्त्य सुदृढं स नवामिव तां सभाम् । 0146ab
नारञ्जयन्न45 चास्ते स्म गुणिगोष्ठीषु मध्यगः ॥ 0146cd

मृदुपूर्वं गुणानेवं दर्शयन्तं विशाम्पतिः । 0147ab
विशिष्टयोग्यताज्ञप्त्यै विवेदाराधनोन्मुखम् ॥ 0147cd

अचिन्तयच्च नायं स्याद्गुणिमात्रं महाशयः । 0148ab
उदात्तं सत्क्रियार्हत्वं वदत्यस्य गभीरता ॥ 0148cd

इति सञ्चिन्त्य राज्ञापि ज्ञातुम् तस्यान्तरं मतेः । 0149ab
नाक्रियन्त परीक्षार्थं यथावल्लाभसत्क्रियाः ॥ 0149cd

स तेनानुपचारेण तमुहात्ताशयम् नृपम् । 0150ab
स्वीकर्तारं विदन्धीमान्सिषेवे प्रीतिमाश्रितः ॥ 0150cd

क्रमोपचीयमानेन सेवाभ्यासेन धीमतः । 0151ab
तस्य नोद्वेगमगमत्स्वकाय इव पार्थिवः ॥ 0151cd

नातीव स्वल्पया स्थित्या नातीवाप्यथ दीर्घया । 0152ab
शरन्निशाक्षणेनेव राजा46 निन्ये47 प्रसन्नताम् ॥ 0152cd

नर्मभिर्गर्भचेटानां द्वाःस्थानां विक्रियाक्रमैः । 0153ab
मिथ्यास्तवैर्विटानां च न स क्षोभमनीयत ॥ 0153cd

प्रसन्नालापसम्प्राप्तौ छायाग्रह इवाचलः । 0154ab
प्रतिस्पर्धीव च क्रुध्यन्नावज्ञायामभूत्प्रभोः ॥ 0154cd

वीक्षणं राजदासीनाम् राजद्विष्टैः48 सहासनम् । 0155ab
राजाग्रे च कथां नीचैः कालविन्नाच्चार सः ॥ 0155cd

स्वभावाद्राजपुरुषैः सजनै राजनिन्दकैः । 0156ab
नास्मात्प्रभोरुपालम्भो49 लेभे पैशुन्यजीविभिः ॥ 0156cd

वदद्भिरादरात्स्थैर्ये वैफल्याद्व्यन्वहं प्रभोः । 0157ab
निन्ये नोत्साहशैथिल्यं सेवोत्साहासहिष्णुभिः ॥ 0157cd

अन्योत्कर्षाaनपि वदन्प्रसङ्गेन निराग्रहः । 0158ab
स्वविद्याद्योतकः सोभूत्सभ्यानां हृदयङ्गमः ॥ 0158cd

एवं स सेवमानस्तमुद्योगेन बलीयसा । 0159ab
अनिर्विण्णो50 मातृगुप्तः षदृतूनत्यवाहयत् ॥ 0159cd

अथ तं कृशसर्वाङ्गं धूसरं जीर्णवाससम् । 0160ab
बहिर्जातु विनिर्यातो राजा वीक्ष्य व्यचिन्तयत् ॥ 0160cd

वैदेशिको निःशरणो गुणवान्बान्धवोज्झितः । 0161ab
दार्द्यं जिज्ञासुना कष्टम् सोयमायासितो मया ॥ 0161cd

कोस्याश्रयः किमशनं कानि प्रावरणानि वा । 0162ab
इत्यैर्श्वर्यविमूढेन मया हन्त न चिन्तितम् ॥ 0162cd

वसन्तेनेव न मया शोभयाद्यापि योजितः । 0163ab
शीतवातातपैः शुष्यन्सोयं पुरुषपादपः ॥ 0163cd

[page 29]
विश्वास-प्रस्तुतिः
अस्य ग्लानस्य भैषज्यं निविण्णस्य विनोदनम् । 0164ab
श्रान्तस्य वा क्लमच्छेदं को विदध्यादसम्पदः ॥ 0164cd

नास्मै चिन्तामणिं दध्यां नामृतं वा निषेवितः51 । 0165ab
मया यदयमेतावद्व्यामूढेन परीक्ष्यते ॥ 0165cd

तदमुष्य गुणित्वस्य तीव्रसेवाश्रमस्य च । 0166ab
प्रतिपत्त्या52 कतमया तावदानृण्यमाप्नुयाम् ॥ 0166cd

इति चिन्तयतस्तस्य राज्ञस्तं सेवकं प्रति । 0167ab
स्वप्रसादोचिता काचित्प्रत्यभान्नैव53 सत्क्रिया ॥ 0167cd

तत्ः प्रावर्तत स्फारनीहारलववाहिभिः । 0168ab
दहन्निवाङ्गं प्रालेयपवमानैर्हिमागमः ॥ 0168cd

सन्ततध्वान्तमिषतस्तीव्रशीतवशीकृताः । 0169ab
आशाश्चकाशिरे नीलनिचोलाच्छादिता इव ॥ 0169cd

शीतार्त्या द्युमाणवौर्वदहनोष्माभिलाषतः । 0170ab
द्रुतं यातीव जलधिं दिनानि लघुतां ययुः ॥ 0170cd

अथ दीपोज्ज्वले धाम्नि लसद्दीप्तहसन्तिके54 । 0171ab
कदाचिन्नृपतिर्दैवादर्धरात्रे व्यबुध्यत ॥ 0171cd

स हेमन्तानिलैर्भूरिभाङ्कारपरुषैः पुरः । 0172ab
दीपान्प्रकम्पितानीषत्प्रविष्टैर्धाम्नि दृष्टवान् ॥ 0172cd

तानुज्ज्वलयितुं भृत्यानन्दिष्यन्नभ्यधात्ततः । 0173ab
यामिकेषु55 बहिः सज्जः को वर्तत इति स्फुटम् ॥ 0173cd

सुखसुप्तेषु सर्वेषु बाह्यकक्ष्यान्तरत्ततः । 0174ab
राजन्नयमहं मातृगुप्त इत्यशृणोद्वचः ॥ 0174cd

प्रविशेति स्वयं राञ्जा दत्तानुज्ञस्ततो गृहम् । 0175ab
लक्ष्मीसान्निध्यरम्यं तदपृष्टोन्यैर्विवेश56 सः ॥ 0175cd

दीपानुज्ज्वलयेत्युक्तो निष्पाद्य चतुरैः पदैः । 0176ab
बहिर्यियासुरूचेथ57 क्षणं तिष्ठेति भूभुजा ॥ 0176cd

स भयद्वोगुणीभूतशीतकम्पः प्रभोः पुरः । 0177ab
किं स्विद्वक्तीति विमृषन्नातिदूरेभ्युपाविशत् ॥ 0177cd

अथ पप्रच्छ भूपालः कियत्यस्ति निशेति तम् । 0178ab
सोभ्यधाद्देव्य यामिन्या यामः सार्धोवशिष्यते ॥ 0178cd

ततो भूभृदुवाचैनं कथं सम्यङ्निशाक्षणः । 0179ab
त्वयावधारितो निद्रा कथं नाभूच्च ते निशि ॥ 0179cd

अथ कृत्वा क्षणाच्छ्लोकमेतं तं स व्यजिज्ञपत् । 0180ab
अवस्थावेदनादाशां58 दैन्यं वा त्यक्तुमुद्यतः ॥ 0180cd

शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे । 0181ab
निद्रा क्वाप्यवमानितेव दयिता सन्त्यज्य दूरं गता सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ 0181cd

तदाकर्ण्य महीपालः साधुवादैः परिश्रमम् । 0182ab
अभिनन्द्य कवीन्द्रं तं पूर्वस्थानं व्यसर्जयत् ॥ 0182cd

अचिन्तयच्च धिङ्मां यः सगुणात्खिन्नचेतसः । 0183ab
दुःखोत्तप्तं वचः शृण्वन्नेवमेवाधुना स्थितः ॥ 0183cd

निरर्थकान्साधुवादाननयस्येव विदन्मम । 0184ab
अयमज्ञातहृदयो दुःखमास्ते ध्रुवं बहिः ॥ 0184cd

चिरं चिन्तयतो यत्नात्सदृशीमस्य सत्क्रियाम् । 0185ab
देयं महार्हमद्यापि न किञ्चित्प्रतिभाति मे ॥ 0185cd

अथ वास्यैव सूक्तेन59 स्मारितोस्म्यधुना यथा । 0186ab
वर्तते राजरहितं काम्यं कश्मीरमण्डलम् ॥ 0186cd

पात्रायास्मै मही तस्मात्सा मया प्रतिपाद्यते । 0187ab
अवधीर्य महीपालान्महतोप्यर्थनापरान् ॥ 0187cd

इति निश्चित्य चतुरं क्षपायामेव पार्थिवः । 0188ab
गूढं व्यसर्जयद्दूतान्काश्मीरीः प्रकृतीः प्रति60 ॥ 0188cd

आदिदेश च तान्यो वो दर्शयेच्छासनं मम । 0189ab
मातृगुप्ताभिधो राज्ये निःशङ्कं सोभिषिच्यताम् ॥ 0189cd

अथ दूतेषु यातेषु लेखयित्वा स्वशासनम् । 0190ab
क्ष्मापतिस्तं क्षपाशेषं कृतकृत्योत्यवाहयत् ॥ 0190cd

[page 30]
विश्वास-प्रस्तुतिः
मातृगुप्तस्तु नृपतेः संलापमपि निष्फलम् । 0191ab
ध्यायन्गृहीतनैराश्यस्त्यक्तभार इवाभवत् ॥ 0191cd

अन्तर्दध्यौ च कर्तव्यं कृतं शान्तोद्य संशयः । 0192ab
आशापिशाचिकात्यक्तश्चरिष्याम्यधुना सुखम् ॥ 0192cd

गतानुगतिकत्वेन कोयमासीन्मम भ्रमः । 0193ab
जनप्रवादात्सेव्यत्वं येनास्य ज्ञातवानहम् ॥ 0193cd

भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः । 0194ab
यश्चाभ्यन्तरसम्भृतोष्मविकृतिः प्रोक्तः शमी च द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ॥ 0194cd

अथ वा विद्यतेमुष्य न काप्यनभिगम्यता । 0195ab
लक्ष्मीप्रणयिनो येन कृताः प्रणयिनां गृहाः ॥ 0195cd

त्यागिनो निष्कलङ्कस्य को दोषोस्य महीपतेः । 0196ab
ममापुण्यं तु तन्निन्द्यं यच्छ्रेयःप्रतिबन्धकम् ॥ 0196cd

रत्नोज्ज्वलाः प्रविक्रिरंल्लहरीः समीरैरब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः । 0197ab
दोषोर्थिनः स खलु भाग्यविपर्ययाणां61 दातुर्मन्नागपि न तस्य तु दातृतायाः ॥ 0197cd

उत्तानफललुब्धानां वरं राजोपजीविनः । 0198ab
न तु तत्स्वामिनस्तीव्रपरिक्लेशैः62 फलन्ति ये ॥ 0198cd

तिष्ठन्ति ये पशुपतेः किल पादमूले सम्प्राप्यते झटिति तैर्नहि भस्मनोन्यत् । 0199ab
ये तद्वृषस्य तु समुज्ज्वलजातरूपप्राप्त्या न कानि सुदिनानि अदैव तेषाम् ॥ 0199cd

चिन्तयन्नपि पश्यामि न कञ्चिद्दोषमात्मनः । 0200ab
यातो विरक्तिं यं ज्ञात्वा सेव्यमानोप्ययं नृपः ॥ 0200cd

अथ वानादृतोन्येन सम्प्राप्तोन्तिकमाप्नुयात् । 0201ab
कः फलेनाभिसम्बन्धं गतानुगतिकात्प्रभोः ॥ 0201cd

अन्तर्ये सततं लुठन्त्यगणितास्तानेव63 पाथोधरैरात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ । 0202ab
व्यक्तं मौक्तिकरत्नतां जलकणान्सम्प्रापयत्यम्बुधिः प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते64 स्वामिभिः ॥ 0202cd

इदं सञ्चिन्त्ययन्सोभूत्सेव्ये तस्मिन्निरादरः । 0203ab
खिन्नस्य हि विपर्येति तत्त्वज्ञस्यापि शेमुषी ॥ 0203cd

प्रभातायां विभावर्यामथास्थानस्हितो नृपः । 0204ab
आकार्यतां मातृगुप्त इति क्षत्तारमादिशत्65 ॥ 0204cd

ततः प्रधावितानेकप्रतीहारप्रविशेतः । 0205ab
प्रविवेश महीभर्तुस्त्यक्ताश इव सोन्तिकम् ॥ 0205cd

तस्मै कृतप्रणामाय मुहूर्तादेव पार्थिवः । 0206ab
भ्रूसञ्ज्ञितेन व्यतरल्लेखं लेकहदिकारिणा ॥ 0206cd

स्वयम् च तमुवाचाङ्ग कश्मीरान्वेत्ति किं भवान् । 0207ab
गत्वा तत्राधिकारिभ्य एतच्छासनमर्प्यताम् ॥ 0207cd

स शापितोस्मद्देहेन यो लेखं वाचयेत्पथि । 0208ab
संविदेषा66 प्रयत्नेन विस्मर्तव्या न जातु चित् ॥ 0208cd

अविज्ञाताशयो राज्ञस्तामाज्ञां क्लेशशङ्कितः । 0209ab
सोबुद्ध दहनज्वालां न तु रत्नाङ्कुरद्युतिम् ॥ 0209cd

यथादेशस्त्तथेत्युक्त्वा मातृगुप्ते विनिर्गते । 0210ab
निर्गर्वः पूर्ववद्राजा तस्थावाप्तैः सहालपन् ॥ 0210cd

अथाक्लेशोचितं67 क्षाममपाथेयमबान्धवम् । 0211ab
दृष्ट्वा यान्तं मातृगुप्तं निनिन्देति नृपं जनः ॥ 0211cd

अहो नरेश्वरस्येयं यत्किञ्चनविधायिता । 0212ab
पृथग्जनोचिते कर्मण्यर्हतो68 निदधाति यः ॥ 0212cd

दुराशया धृतक्लेशं सेवमानमहर्निशम् । 0213ab
ध्रुवं क्लेशार्हमेवैनं ज्ञातवानबुधो नृपः ॥ 0213cd

उपायं यं69 पुरस्कृत्य सेवते सेवकः प्रभुम् । 0214ab
अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ 0214cd

:p 31.
विश्वास-प्रस्तुतिः
सुखार्थी नागारिप्रतिभयशमात्प्रत्युत जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् । 0215ab
यतस्तेनामुष्मिन्नधिगतवता क्लेशसहतां श्रमादायि न्यस्तं निरवधि धराभारवहनम् ॥ 0215cd

अयमेतद्गृहीतेषु गुनवत्सु गुणाधिकम् । 0216ab
आत्मानं गुणवान्पश्यन्नास्थयैनमशिश्रियत् ॥ 0216cd

अनन्तरज्ञः70 कोन्योस्माद्गुणान्दर्शयतेधिकान् । 0217ab
अस्मै गुणवते पूजां यश्चकार किलेदृशीम् ॥ 0217cd

यो नानाद्युतिमत्पदार्थरसिकोसरेपि शक्रायुधे सप्रेमा स विलोक्य वर्हमिह मे किं किं न कुर्यात्प्रियम् । 0218ab
इत्याविष्कृतवर्हराजि नटते यो वर्हिणोम्भोलवान्नान्यन्मुञ्चति तं विहाय71 जलदं कोन्योस्ति शून्याशयः ॥ 0218cd

गच्छतो मातृगुप्तस्य
निर्दैन्यस्यैव वर्त्मसु । 0219ab
नाभूद् भाव्य्-अर्थ-माहात्म्याद्
विकल्पः कोपि चेतसि ॥ 0219cd
मूलम्
गच्छतो मातृगुप्तस्य निर्दैन्यस्यैव वर्त्मसु । 0219ab
नाभूद्भाव्यर्थमाहात्म्याद्विकल्पः कोपि चेतसि ॥ 0219cd
विश्वास-प्रस्तुतिः
अहम्पूर्विकयोद्व्यद्भिर्निमित्तैः शुभशंसिभिः । 0220ab
स वितीर्णकरालम्भ इव न श्रममाददे ॥ 0220cd

अपश्यत्स फणाकोटौ खञ्जरीटमहेः पथि । 0221ab
स्वप्ने प्रासादमारुह्य स्वम् चोल्लङ्घितसागरम् ॥ 0221cd

अचिन्तयच्च शास्त्रज्ञो निमित्तैः शुभशंसिभिः । 0222ab
एतैर्भूभर्तुरादेशो ध्रुवं मे स्याच्छुभावहः ॥ 0222cd

फलं मम तनीयोपि कश्मीरेषु भवेद्यदि । 0223ab
अनर्घदेशमाहात्म्यात्किं किं नातिशयेत तत् ॥ 0223cd

अकृच्छ्रलङ्घ्याः पन्थानो वल्लभातिथयो गृहाः । 0224ab
उपानमन्गच्छतोस्य सत्क्रियाश्च पदे पदे ॥ 0224cd

इत्थं विलङ्घिताध्वा स लोलानोकहशाद्वलम्72 । 0225ab
मङ्गल्यदधिपात्राभं ददर्शाग्रे हिमाचलम् ॥ 0225cd

सरलस्यन्दसुभगा गङ्गाशीकरवाहिनः । 0226ab
प्रत्युद्ययुस्तं मरुतः पाल्यायाः73 संस्तुता भुवः ॥ 0226cd

क्रमवर्ताभिधाने स प्रदेशे प्राप्तवांस्ततः । 0227ab
ढक्कं काम्बुवनामानं योद्य शूरपुरे स्थितः ॥ 0227cd

नानाजनपदाकीर्णे स्थाने तत्राथ शुश्रुवान् । 0228ab
काश्मीरिकान्महामात्यान्स्थितान्केनापि हेतुना ॥ 0228cd

ततोपनीतप्राग्वेषः प्रावृतो धवलांशुकैः । 0229ab
स जगामान्तिकं तेषां दातुं दातुं नृपतिशासनम् ॥ 0229cd

तं प्रयान्तं समुद्यद्भिः शकुनैः सूचितोद्यम् । 0230ab
पान्थाः केप्यन्वयुर्द्रष्टुं निमित्तानां फलोद्गमम् ॥ 0230cd

श्रुत्वाथ विक्रमादित्यदूतः प्राप्त इति द्रुतम् । 0231ab
द्वाःस्थाः काश्मीरमन्त्रिभ्यस्तमासन्नं न्यवेदयन् ॥ 0231cd

आगच्छत प्रविशतेत्युच्यमानोथ सर्वतः । 0232ab
स तान्समस्तसामन्तानाससादानिवारितः ॥ 0232cd

यथाप्रधानं सचिवैर्विहितोचितसत्क्रियः । 0233ab
ततः परार्ध्यमध्यास्त तन्निदर्शितमासनम् ॥ 0233cd

कृतार्हणैरथामात्यैराज्ञां पृष्टो महीभुजः । 0234ab
शनैस्तच्छासनं तेभ्यो लज्जमान इवार्पिपत् ॥ 0234cd

तेभिवन्द्य प्रभोर्लेखमुपांशु74 मिलितास्ततः । 0235ab
उन्मुच्य वाचयित्वैतमवोचन्विनयान्विताः ॥ 0235cd

मातृगुप्त इति श्लाघ्यं भवतामेव नाम किम् । 0236ab
एवमेवैतदित्यूचे सोपि तान्विहितस्मितः ॥ 0236cd

कः कोत्र सन्निधातॄणामित्यश्रूयत वाक्ततः । 0237ab
राज्याभिषेकसम्भारो दृश्यते स्म च सम्भृतः ॥ 0237cd

ततः कलकलोत्तालभूरिलोकसमाकुलः । 0238ab
प्रदेशः क्षणमात्रेण सोभूत्क्षुभ्यन्निवार्णवः ॥ 0238cd

अथ प्राङ्मुखसौवर्नभद्रपीठप्रतिष्ठितः । 0239ab
सन्निपत्य प्रकृतिभिर्मातृगुप्तोभ्यषिच्यत ॥ 0239cd

तस्य विन्ध्यतटव्यूढवक्षसः परिनिर्लुठत् । 0240ab
सशब्दमभिषेकाम्बु रेवास्रोत75 इवावभवौ ॥ 0240cd

अथ स्नातानुलिप्ताङ्गं सर्वाङ्गामुक्तभूषणम् । 0241ab
व्यजिज्ञपंस्तं राजानं क्रान्तराजासनं प्रजाः ॥ 0241cd

[page 32]
विश्वास-प्रस्तुतिः
अर्थितेन स्वयं त्रातुं विक्रमादित्यभूभुजा । 0242ab
निदिष्टः स्वसमानस्त्वं शाधि नः पृथिवीमिमाम् ॥ 0242cd

मण्डलानि विलभ्यन्ते76 येनानेन प्रतिक्षणम् । 0243ab
मा मंस्था मण्डलं राजन्विलब्धं77 तदिदं परैः ॥ 0243cd

कर्मभिः स्वरिaवाप्तस्य जन्मनः पितरौ यथा । 0244ab
राज्ञां तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ 0244cd

इत्थं स्थितेपरं कञ्चित्त्वदीयोस्मीति शंसता । 0245ab
न नेया भवता राजन्वयमात्मा78 च लाघवम् ॥ 0245cd

इति तैस्तथ्यमुक्तोपि संस्मरन्स्वामिसत्क्रियाम् । 0246ab
मातृगुप्तो79 महीपालः क्षणमासीत्कृतस्मितः ॥ 0246cd

दानेन सुदिनं कुर्वन्नवराज्योर्जितेन सः । 0247ab
तत्रैव मङ्गलोदग्रं तदहो निरवर्तयत्80 ॥ 0247cd

पुरप्रवेशायान्येद्युरर्थ्यमानोथ मन्त्रिभिः । 0248ab
अद्भुतप्राभृतं दूतं राज्यदातुर्व्यसर्जयत् ॥ 0248cd

देशौन्नत्यानुसारेण स्पर्धामिव च ताम् विदन् । 0249ab
स्वामिनो मनसि ह्रीतः सागसं स्वममन्यत ॥ 0249cd

अथाहूयापरान्भृत्यान्वक्तुं सेवास्मृतिं प्रभोः । 0250ab
अल्पार्धाण्यपि सात्म्यानि81 प्राहिणोत्प्राभृतानि सः ॥ 0250cd

असामान्याब्गुणांस्तस्य स्मरन्पर्यस्रुलोचनः । 0251ab
स्वयं लिखित्वा श्लोकं च स्वकमेकं व्यसर्जयत् ॥ 0251cd

नाकारमुद्वहसि नैव विकत्थसे त्वं दित्सां न सूचयसि मुञ्चसि सत्फलानि । 0252ab
निःशब्दवर्षणमिवाम्बुधरस्य राजन्संलक्ष्यते फलत एव तव82 प्रसादः ॥ 0252cd

ततः प्रविश्य नगरं सैन्यैः पिहितदिक्तटैः । 0253ab
क्रमागतामिव महीं यथावत्पर्यपालयत् ॥ 0253cd

त्यागे वा पौरुषे वापि तस्यौचित्योन्नतात्मनः83 । 0254ab
क्ष्माभुजस्तर्कुकस्येव[^0254-2] नाभूत्परिमितेच्छता ॥ 0254cd

यष्टुं यज्ञान्धृतोद्योगस्त्यागी विततदक्षिणान् । 0255ab
पशुबन्धमनुध्याय करुणाकूणितोभवत्[^0255-1] ॥ 0255cd

अमारमादिशेशाथ यावद्राज्यं स्वमण्डले । 0256ab
चूर्णीकृत्य सुवर्णादि प्रददौ च करम्भकम् ॥ 0256cd

करम्भके कीर्यमाणे मातृगुप्तेन भूभुजा । 0257ab
वैतृष्ण्यमुन्मिषत्तोषो न को नाम न्यषेवत ॥ 0257cd

गुणी च दृष्टकष्टश्च वदान्यश्च[^0258-1] स पार्थिवः । 0258ab
विक्रमादित्यतोप्यासीदभिगम्यः शुभार्थिनाम् ॥ 0258cd

विवेकतया तस्य श्लाघ्यया सुरभीकृताः । 0259ab
लक्ष्मीविलासाः क्ष्माभर्तुरशोभन्त मनीषिषु ॥ 0259cd

हयग्रीववधं84 मेण्ठस्तदग्रे दर्शयन्नवम् । 0260ab
आसमाप्ति ततो नापत्साध्वसाध्विति वा वचः ॥ 0260cd

अथ ग्रथयितुं तस्मिन्पुस्तकं प्रस्तुते न्यधात् । 0261ab
लावण्यनिर्याणभिया तदधः85 स्वर्णभाजनम् ॥ 0261cd

अन्तरज्ञतया तस्य तादृश्या कृतसत्कृतिः । 0262ab
भर्तृमेण्ठः कविर्मेने पुनरुक्तं श्रियोर्पणम् ॥ 0262cd

स मातृगुप्तस्वाम्याख्यं निर्ममे मधुसूदनम् । 0263ab
कालेनादत्त यद्वामान्मम्मः स्वसुरसद्मने86 ॥ 0263cd

इत्यासादितराज्यस्य शासतः क्ष्मां क्षमापतेः । 0264ab
त्रिमासोना ययुस्तस्य सैकाहाः पञ्च वत्सराः ॥ 0264cd

कृतार्थतां तीर्थतोयैराञ्जनेयोनयन्पितॄन्87 । 0265ab
जातं तादृशमश्रौषीत्स्वस्मिन्देशे पराक्रमम्88 ॥ 0265cd

पितृशोकार्द्रता तस्य क्रोधेनान्तरधीयत । 0266ab
तरोरिवार्कतापेन नैशाम्बुलवसिक्तता ॥ 0266cd

श्रीपर्वते पाशुपतव्रतिवेषस्तमागतम्89 । 0267ab
आचख्यावश्वपादाख्यः सिद्धः कन्दाशनं ददत् ॥ 0267cd

[page 33]
विश्वास-प्रस्तुतिः
जन्मान्तरे लब्धसिद्धिस्त्वामस्म्युपरि90 साधकम् । 0268ab
वाञ्छामपृच्छं राज्यार्थमभिलाषस्तु तेभवत् ॥ 0268cd

सयत्रं तत्र कर्तुं तन्मनोरथमनन्यथा । 0269ab
अथ मामित्थमादिक्षत्क्षपारमणशेखरः9192 ॥ 0269cd
विश्वास-प्रस्तुतिः
गणोयं मामकः सिद्धो यस्तवोपरि साधकः । 0270ab
जन्मान्तरेस्य राज्येच्छां कुर्यामहमनन्यथा ॥ 0270cd

भावं भवस्तद्भवतो भगवान्दत्तदर्शनः । 0271ab
साफल्यं नेष्यतीत्येवमभिधाय तिरोदधे93 ॥ 0271cd

साम्राज्येच्छोः समामेकां तत्र तस्य94 तपस्यतः । 0272ab
लब्धस्मृतिः95 सिद्धगिरा प्रददौ दर्शनं शिवः ॥ 0272cd

व्रतिवेषं तमादिष्टवाञ्छितार्थसमर्पणम् । 0273ab
स जगन्निर्जयोन्निद्रं नरेन्द्रत्वमयाचत ॥ 0273cd

उपेक्ष्य मोक्षं किम् क्ष्माभृद्भोगानिच्छसि भङ्गुरान् । 0274ab
इति जिज्ञासुना भावं शम्भुना सोभ्यधीयत ॥ 0274cd

स तं बभाषे शम्भुं त्वां बुद्ध्वा व्याजतपोधनम् । 0275ab
अभ्यधामिदमद्धा त्वं न स देवो जगद्गुरुः ॥ 0275cd

महान्तो ह्यर्थिताः स्वल्पं फलन्त्यल्पेतरत्स्वयम्96 । 0276ab
उदन्यया97 वदान्योदाद्दुग्धाब्धिं98 स99 पोयोर्थिने ॥ 0276cd

अस्य वैकल्यकैवल्यलाभनिश्चलचेतसः । 0277ab
नो वेत्स्यभिजनस्याभिभूतिं100 मर्मव्यथावहाम् ॥ 0277cd

जगत्परिवृढः101 प्रौढप्रीतिस्तं सफलार्थनम्102 । 0278ab
कृत्वा प्रादुष्कृतवपुस्ततो भूयोभ्यभाषत ॥ 0278cd

मज्जतो राज्यसौख्येषु सायुज्यावाप्तिदूतिकाम्103 । 0279ab
मदाज्ञयाश्वपादस्ते सञ्ज्ञां काले करिष्यति ॥ 0279cd

इत्युक्त्वान्तर्हिते देवे स कृतव्रतपारणः । 0280ab
आगच्छदश्वपादं104 तमापृच्छयाभिमतां भुवम् ॥ 0280cd

ततो विदितवृत्तान्तो105 मातृगुप्ताभिषेणनात् । 0281ab
निषिध्य सविधायातानमात्यानब्रवीद्वचः106 ॥ 0281cd

विक्रमादित्यमुत्सिक्तमुच्छेत्तुं यतते मनः । 0282ab
मातृगुप्तं प्रति न नो रोषेणारूषितं मनः ॥ 0282cd

अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः । 0283ab
ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ 0283cd

यान्यब्जान्युदयं द्विषन्ति शशिनः कोन्यस्ततोसम्मतस्तन्निर्माथिकरीन्द्रदन्तदलनं107 यन्नाम कोयं नयः । 0284ab
सामर्थ्यप्रथनाय चित्रमसमैः108 स्पर्धां विधूयोन्नता ये तेषु प्रभवन्ति तत्र जहति व्यक्तं प्ररूढा रुषः ॥ 0284cd

त्रिगर्तानां भुवं जित्वा स व्रजन्नथ भूपतिः । 0285ab
विक्रमादित्यमशृणोत्कालधर्ममुपागतम् ॥ 0285cd

तस्मिन्नहनि भूभर्त्रा शोकान्निःश्वसतानिशम्109 । 0286ab
नास्नायि नाशि नास्वापि स्थितेनावनताननम् ॥ 0286cd

अन्येद्युर्भुवमुत्सृज्य कश्मीरेभ्यो विनिर्गतम् । 0287ab
शुश्राव मातृगुप्तं स नातिदूरे कृतस्थितिम् ॥ 0287cd

कैश्चिन्निर्वासितो मा स्विन्मदीयैरिति शङ्कितः । 0288ab
ययौ प्रवरसेनोस्य पार्श्वं मितपरिच्छदः ॥ 0288cd

कृतार्हणं सुखासीनं ततः पप्रच्छ तं शनैः । 0289ab
विनयावनतो राजा110 राज्यत्यागस्य कारणम् ॥ 0289cd

बभाषे तं क्षणं स्थित्वा स111 निःश्वस्य112 विहस्य च । 0290ab
गतः स सुकृती112 राजन्येन भूमिभुजो वयम् ॥ 0290cd

यावन्मूर्ध्नि रवेः पादास्तावद्द्योतयते दिशः । 0291ab
द्योतने नान्यथा किञ्चिद्ग्रावैव113 तपनोपल्अः[^0291-2] ॥ 0291cd

[page 34]
विश्वास-प्रस्तुतिः
अथ राजाभ्यधात्केन राजन्नपकृतं तव । 0292ab
यत्प्रत्यपपचिकीर्षायै114 तमीशमनुशोचसि ॥ 0292cd

मातृगुप्तस्ततोवादीत्कोपस्मितसिताधरः । 0293ab
अस्मानुत्सहते कश्चिन्नापकर्तुं बलाधिकः ॥ 0293cd

नयता गण्यतामस्मानन्तरज्ञेन तेन115 हि । 0294ab
न भस्मनि हुतं सर्पिनोर्नोप्तं वा सस्यमूषरे ॥ 0294cd

उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः116 । 0295ab
पदवीमुपकर्तॄणां यान्ति निश्चेतना अपि ॥ 0295cd

निर्वाणमनुनिर्वाति तपनं तपनोपलः । 0296ab
इन्दुमिन्दुमणिः किं च शुष्यन्तमनुशुष्यति ॥ 0296cd

पुण्यां वाराणसीं गत्वा तस्माच्छमसुखोन्मुखः । 0297ab
इच्छामि सर्वसन्न्यासं कर्तुं द्विजनोचितम् ॥ 0297cd

मणिदीपमिवेशं117 तमन्तरेणान्धकारिताम् । 0298ab
बिभेमि द्रष्टुमप्युर्वी भोगयोगे कथैव का ॥ 0298cd

इत्यौचित्यनिधेस्तस्य वाणीमाकर्ण्य विस्मितः । 0299ab
धीरः प्रवरसेनोपि व्याजहारोचितं वचः ॥ 0299cd

सत्यं विश्वम्भरा देवी भूपते रत्नसूरियम् । 0300ab
उत्पत्त्या द्योतने धर्म्यैः कृतज्ञैर्या भवादृशैः ॥ 0300cd

अन्तरज्ञतया श्लाघ्यः कोन्यस्तस्मान्महीभुजः[^0301-1] । 0301ab
इत्थं जडे जगत्येकस्त्वां यथावद्विवेद यः ॥ 0301cd

चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः । 0302ab
धीर त्वयैव न त्वामु118 सञ्चारो यदि दर्श्यते119 ॥ 0302cd

पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम् । 0303ab
मत्तो रन्ध्रदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तःपुरुषाधमः कलयति प्रायः कृतोपक्रियः ॥ 0303cd

अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । 0304ab
शतशाखीभवत्येव यावन्मात्रापि सत्क्रिया ॥ 0304cd

तत्त्वं गुणवतामग्र्यस्तत्त्वज्ञ्जैश्चाभिनन्दितः । 0305ab
परीक्षितो मणिरिव व्यक्तं बहुमतः सताम् ॥ 0305cd

तस्मादनुगृहाणास्मान्मा स्म त्याक्षीर्नरेन्द्रताम् । 0306ab
ममापि ख्यातिमायातु गुणवत्पक्षपातिता ॥ 0306cd

पूर्वं तेनाथ चरमं मयापि प्रतिपादिताम् । 0307ab
भवान्प्रतिप्रणयिनीं120 विदधातु पुनर्भुवम् ॥ 0307cd

अव्याजौदार्यचर्यस्य श्रुत्वेति नृपतेर्वचः । 0308ab
कृतस्मितो मातृगुप्तः शनैर्वचनमब्रवीत् ॥ 0308cd

यान्यक्षराण्यन्तरेण121 वाच्यं वक्तुं न पार्यते । 0309ab
का गतिस्तदुपादाने मर्यादोल्लङ्घनं विना ॥ 0309cd

अतः122 परुषमप्यद्य किञ्चिदेव मयोच्यते । 0310ab
अव्याजार्जवमप्येतदार्थत्वमवधीर्यते ॥ 0310cd

सर्वः स्मरति सर्वस्य प्रागवस्थासु लाघवम् । 0311ab
आत्मैव वेत्ति माहात्म्यं वर्तमाने क्षणे पुनः ॥ 0311cd

पूर्वावस्था मदीया ते त्वदीया या च मे हृदि । 0312ab
ताभ्यां विमोहितावावां न विद्वोन्योन्यमाशयम् ॥ 0312cd

राजा भूत्वा कथं मादृक्प्रतिगृह्णातु सम्पदः । 0313ab
कथमेकपदे सर्वमौचित्यं परिमार्जतु ॥ 0313cd

असाधारणमौदार्यमाहात्म्यं तस्य भूपतेः । 0314ab
भोगमात्रकृते मादृक्किं साधारणतां नयेत् ॥ 0314cd

अपि च स्पृहयालुः स्यां भोगेभ्यो यदि भूपते । 0315ab
ध्रियमाणेभिमाने मे केन ते123 विनिवारिताः ॥ 0315cd

यन्ममोपकृतं तेन तद्विना प्रत्युपक्रियाम् । 0316ab
जीर्णमेवाधुनाङ्गेषु प्रभवत्वेष निश्चयः ॥ 0316cd

या गतिर्भूभुजोमुष्य मया तामनुगच्छता । 0317ab
पात्रापात्रविवेक्तृत्वख्यातिर्नेया प्रकाश्यताम् ॥ 0317cd

एतावत्येव कर्तव्ये यातेस्मिन्कीर्तिशेषताम्124 । 0318ab
भोगमात्रपरित्यागाद्विदध्यां सत्यसन्धताम् ॥ 0318cd

[page 35]
विश्वास-प्रस्तुतिः
इत्युक्त्वा विरते तस्मिञ्ज्गाद जगातीपतिः । 0319ab
त्वदीया न मया स्पृशयास्त्वयि जीवति सम्पदः ॥ 0319cd

अथ वाराणसीं गत्वा कृतकाषायसङ्ग्रहः । 0320ab
सर्वं सन्न्यस्य सुकृती मातृगुप्तोभवद्यतिः ॥ 0320cd

राजा प्रवरसेनोपि काश्मीरोत्पत्तिमञ्जसा । 0321ab
निखिलां मातृगुप्ताय प्राहिणोद्दृढनिश्चयः ॥ 0321cd

स्स हठापतितां लक्ष्मीं भिक्षाभुक्प्रतिपादयन् । 0322ab
सर्वाaर्थिभ्यः कृती वर्षान्दश प्राणानधारयत् ॥ 0322cd

अन्योन्यं साभिमानानामन्योन्यौचित्यशालिनाम् । 0323ab
त्रयाणामपि125 वृत्तान्त एष त्रिपथगापयः ॥ 0323cd

राजा प्रवरसेनोथ नमयन्नवनीधरान् । 0324ab
अकृच्छ्रलङ्घ्याः ककुभो वृद्धस्य यशसो व्यधात् ॥ 0324cd

पीताब्धिर्लङ्घितोर्वीभृत्कुम्भयोनिरिवानयत् । 0325ab
तस्य प्रतापः प्रभवन्भुवनानि126 प्रसन्नताम् ॥ 0325cd

शुष्यत्तमालपन्नाणि शीर्णताडीदलानि च । 0326ab
तत्सेनार्णवतीराणि चक्रेरिस्त्रीमुखानि च ॥ 0326cd

स गङ्गालिङ्गिताङ्गस्य पूर्ववारिनिधेर्व्यधात् । 0327ab
सैन्येभमदनिष्पन्दैः कालिन्दीसङ्गमाश्रियम् ॥ 0327cd

रोधस्यपरपाथोधेः कटकैः स्पृष्टदिक्तटैः । 0328ab
चकारोत्पाट्य सौराष्ट्रानसौ राष्ट्रविपाटनम् ॥ 0328cd

यशोर्थिनः पार्थिवेषु द्वेषरागवहिष्कृतः । 0329ab
ववृधे धर्मविजयस्तस्य क्षितिशतक्रतोः ॥ 0329cd

वैरिनिर्वासितं पित्र्ये विक्रमादित्यजं न्यधात् । 0330ab
राज्ये प्रतापशीलं स शीलादित्यापराभिधम् ॥ 0330cd

सिंहासनं स्ववंश्यानां तेनाहितहृतं ततः । 0331ab
विक्रमादित्यवसतेरानीतं स्वपुरं पुनः ॥ 0331cd

हेतूनुदीर्य विविधानमन्वानं पराजयम् । 0332ab
सप्त वारान्स127 तत्याज जित्वा मुम्मुनिभूभुजम्127 ॥ 0332cd

धार्ष्ट्यादथाष्टमे वारे हेतुमाख्यातुमुद्यतम् । 0333ab
धिक्पशून्बध्यतां सोयमित्यूचे नृपतिः क्रुधा ॥ 0333cd

अवध्योहं पशुत्वेन वीरेत्युक्त्वाभयोत्सुकः । 0334ab
मध्येसमं ननर्तास्य सोनुकुर्वन्कलापिनम् ॥ 0334cd

नृत्तं केकां च शिखिनो128 दृष्ट्वास्मै द्रविणं नृपः । 0335ab
अभयेन समं प्रादात्ताaलावचरणोचितम्129 ॥ 0335cd

वसतोस्य दिशो जित्वा नप्तुः पैतामहे पुरे । 0336ab
कर्तुं पुरं स्वनामाङ्कं प्रथते स्म मानोरथः ॥ 0336cd

रात्रौ क्षेत्रं च लग्नं च दिव्यं ज्ञातुमथैकदा । 0337ab
स वीरो वीरचर्यायां निर्ययौ पार्थिवार्यमा ॥ 0337cd

गच्छतः क्ष्मापतेस्तस्य मौलिरत्राग्रबिम्बितः130 । 0338ab
बभार ताराप्रकरो रक्षासर्षपविभ्रमम् ॥ 0338cd

अथानन्तचितालोकस्पष्टभीमतटद्रुमाम् । 0339ab
श्मशानप्रान्ततटिनीं पर्यटन्नाससाद सः ॥ 0339cd

ततस्तस्य सरित्पारे मुक्तसंरावमग्रतः । 0340ab
ऊर्ध्वबाहु महद्भूतं प्रादुरासीन्महौजसः ॥ 0340cd

नृपतिस्तस्य दृक्पातैर्ज्वलद्भिः कपिशीकृतः । 0341ab
उल्काज्योतिःकृताश्लेषः कुलाद्रिरिव दिद्युते ॥ 0341cd

तमथ प्रतिशब्देन घोरेणापूरयन्दिशः । 0342ab
अत्रासं विहसन्नुच्चैरुवाच क्षणदाचरः ॥ 0342cd

सन्त्यज्य विक्रमादित्यं सत्त्वोद्रिक्तं च शूद्रकम् । 0343ab
त्वाम् च भूपाल पर्याप्तं धैर्यमन्यत्र दुर्लभम् ॥ 0343cd

वसुधाधिपते वाञ्छासिद्धिस्तव विधीयते । 0344ab
सेतुमेतं समुत्तीर्य पार्श्वसीमन्तितां मम ॥ 0344cd

इत्युदीर्य निजं जानुं रक्षः पारात्प्रसारयत्131 । 0345ab
तन्महासरितो वारि सेतुसीमन्तितं व्यधात् ॥ 0345cd

अङ्गेन रक्षःकायस्य ज्ञात्वा सेतुं प्रकल्पितम् । 0346ab
वीरः प्रवरसेनोथ विकोशां क्षुरिकां दधे ॥ 0346cd

[page 36]
विश्वास-प्रस्तुतिः
स तयोत्कृत्त्य तन्मांसं कृतसोपानपद्धतिः । 0347ab
अतरद्यत्र तत्स्थानं क्षुरिकाबल132 उच्यते ॥ 0347cd

पार्श्वस्थं तं लग्नमुक्त्वा प्रातर्मत्सूत्रपातनम् । 0348ab
दृष्ट्वा पुरं विधेहीति वदद्भूतं तिरोदधे ॥ 0348cd

देव्या शारिकयाट्टेन यक्षेणाधिष्ठिते133 च सः । 0349ab
ग्रामे शारीटकेपश्यत्सूत्रं133 वेतालपातितम् ॥ 0349cd

भक्त्या प्रतिष्ठां प्राक्तस्मिन्निनीषौ प्रवरेश्वरम् । 0350ab
जयस्वामी स्वयं पीठे भित्त्वा यन्त्रमुपाविशत् ॥ 0350cd

वेतलावेदितं लग्नं जानतो जगतीभुजा । 0351ab
स्थपतेः स ज्याख्यस्य134 नाम्ना प्रख्यापितोभवत् ॥ 0351cd

नगराप्रतिलोम्याय भक्त्या तस्य विनायकः । 0352ab
प्रत्यङ्मुखः प्राङ्मुखतां भीमस्वामी स्वयं ययौ ॥ 0352cd

सद्भावश्र्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः । 0353ab
पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन्निवेशिताः ॥ 0353cd

वितस्तायां स भूपालो बृहत्सेतुमकारयत् । 0354ab
ख्याता ततः135 प्रभृत्येव तादृग्रौसेतुकल्पना ॥ 0354cd

श्रीजयेन्द्रविहारस्य बृहद्बुद्धस्य च व्यधात् । 0355ab
मातुलः स नरेन्द्रस्य जयेन्द्रो विनिवेशनम्136 ॥ 0355cd

बुभोज सिंहलादीन्यो द्वीपान्स सचिवोकरोत् । 0356ab
मोराकनामा मोराकभवनं भुवनाद्भुतम् ॥ 0356cd

षट्विंशद्गृहलक्षाणि पुरं तत्प्रमथे पुरा । 0357ab
यस्यास्तां वर्धनस्वामी विश्वकर्मा च सीमयोः ॥ 0357cd

दक्षिणस्मिन्नेव पारे वितस्तायाः पुरा किल । 0358ab
निर्मितं तेन नगरं विभक्तैर्युक्तमापणैः ॥ 0358cd

ते तत्राभ्रंलिहाः सौधा यानध्यारुह्य दृश्यते । 0359ab
वृष्टिस्निग्धं निदाघान्ते चैत्रे चोत्कुसुमं जगत् ॥ 0359cd

तद्विना नगरं कुत्र पवित्राः सुलभा भुवि । 0360ab
सुभगाः सिन्धुसम्भेदाः क्रीडावसथवीथिषु ॥ 0360cd

दृष्टः क्रीडानगोन्यत्र न मध्येनगरं क्वचित् । 0361ab
यतः सर्वोकसां लक्ष्मीः संलक्ष्या द्युपथादिव ॥ 0361cd

वैतस्तं वारि वास्तव्यैर्बृहत्तुहिनशर्करम्[^0362-1] । 0362ab
ग्रीष्मोग्रेह्नि स्ववेश्माग्रात्क्व ततोन्यत्र लभ्यते ॥ 0362cd

प्रतिदेवगृहं कोशास्ते तस्मिन्नर्पिता नृपैः । 0363ab
सहस्रशः शक्यते यैः क्रेतुं भूः सागराम्बरा ॥ 0363cd

पुरे निवसतस्तस्मिंस्तस्य राजप्रजासृजः । 0364ab
शनैः साम्राज्यलाभस्य षष्टिः संवत्सरा ययुः ॥ 0364cd

ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः । 0365ab
तस्य शम्भुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥ 0365cd

अथाश्वपादेनेशाननिदेशात्तत्क्षणागतः[^0366-1] । 0366ab
काश्मीरिको जयन्ताख्यो द्विजमायोजि पार्श्वगः ॥ 0366cd

श्रान्तोस्यध्वन्य नान्यस्माद्देशात्तेभिमतं भवेत् । 0367ab
राज्ञे प्रवरसेनाय लेख एष प्रदर्श्यताम् ॥ 0367cd

इत्युक्त्वार्पितलेखोसावसमर्थः पथः पृथून् । 0368ab
गन्तुं प्रस्थानखिन्नोस्मि सद्यस्तेनेत्यगद्यत ॥ 0368cd

स्नाह्यद्य तावत्त्वं स्पृष्टो द्विजः कापालिना मया । 0369ab
उक्त्वेति तेन क्षिप्तोसावासन्ने दीर्घिकाजले ॥ 0369cd

उन्मीलितेक्षणोद्राक्षीत्स्वं स्वदेशादथोत्थितम् । 0370ab
तस्थुषश्चार्चने राज्ञो भृत्यान्व्यग्राञ्जलाहतौ ॥ 0370cd

स्वमावेदयितुं नद्या नीयमाने नृपान्तिकम् । 0371ab
अव्याक्षिप्तोक्षिपल्लेखं स स्नानकलशे ततः ॥ 0371cd

प्रवरेशं स्नापयता स्रस्तं तत्कलशात्पुनः । 0372ab
राञ्जा लेखं वाचयित्वा जयन्तः प्रापितोन्तिकम् ॥ 0372cd

कृतं कृत्यं महद्दत्तं भोगा भ्क्ता वयो गतम् । 0373ab
किमन्यत्करणीयं ते यदि गच्छ शिवालयम् ॥ 0373cd

ततस्तं वृत्तसङ्केतः सन्तोष्याभिमतार्पणात् । 0374ab
भित्त्वा तमश्मप्रासादं जगाहे विमलं नभः ॥ 0374cd

जनैः स ददृशे गच्छन्कैलासतिलकां दिशम् । 0375ab
विशदे घटयन्व्योम्नि द्वितीयतपनोदयम् ॥ 0375cd

[page 37]
विश्वास-प्रस्तुतिः
जयन्तेनाद्भुतोदन्तहेतुनावाप्य सम्पदः । 0376ab
स्वनामाङ्काग्रहारादिकर्मभिर्निर्मलाः कृताः ॥ 0376cd

एवं स भुवनैश्वर्यं भुक्त्वा137 भूमिभृतां वरः । 0377ab
अनेनैव शरीरेण भेजे भूतपतेः सभाम् ॥ 0377cd

प्रासादे प्रवरेशस्य सिद्धिक्षेत्रे क्षमापतेः । 0378ab
स्वर्गद्वारप्रतिभटं द्वारमद्यापि138 लक्ष्यते ॥ 0378cd

तस्य रत्नप्रभादेव्यां जातो राजा युधिष्ठिरः । 0379ab
अपासीन्नवमासोनाः क्ष्मां चत्वारिंशतिं139 समाः ॥ 0379cd

सर्वरत्नजयस्कन्दगुप्तशब्दाङ्किताभिधाः । 0380ab
आसन्विहारचैत्यादिकृत्यैस्तत्सचिवा वराः ॥ 0380cd

भवच्छेदाभिधं140 ग्रामं स्तुत्यं चैत्यादिसिद्धिभिः । 0381ab
यो व्यधात्सोस्य वज्रेन्द्रोप्यासीन्मन्त्री जयेन्द्रजः ॥ 0381cd

दिक्कामिनीमुखोत्कीर्णकीर्तिचन्दनचित्रकाः । 0382ab
आसन्कुमारसेनाद्यास्तस्यान्येप्यग्र्यमन्त्रिणः ॥ 0382cd

पद्मावत्यां सुतस्तस्य नरेन्द्रादित्य इत्यभूत् । 0383ab
लङ्खणापरनामा[^0383-1] यो नरेन्द्रस्वामिनं व्यधात् ॥ 0383cd

वज्रेन्द्रतनयौ वज्रकनकौ यस्य मन्त्रिणौ । 0384ab
अभूतां सुकृतोदन्तौ राज्ञी च विमलप्रभा ॥ 0384cd

स विधायाधिकरणं लिखितस्थितये निजम् । 0385ab
द्यां त्रयोदशभिर्वर्षैरारुरोह महाभुजः ॥ 0385cd

तस्यानुजो धरणिभृद्रणादित्यस्तनोभवत् । 0386ab
तुञ्जीनापरनामानं यं जनाः प्राहुरञ्जसा ॥ 0386cd

जगद्विलक्षणं यस्य शङ्खमुद्राङ्कितं शिरः । 0387ab
अपूर्वशर्वरीशान्तर्लीनभानुश्रियं दधे ॥ 0387cd

रिपुकण्ठाटवीष्वासीद्यस्य धाराधरः पतन् । 0388ab
तद्वधूनेत्रकुण्डैस्तु जलाधिक्यमधार्यत ॥ 0388cd

अपूर्वो यत्प्रतापाग्निः प्रविश्योर्वी द्विषाम् न्यधात् । 0389ab
नारीनेत्रेषु नीरोर्मीन्मन्दिरेषु तृणाङ्कुरान् ॥ 0389cd

यस्य पाणिप्रणयितां कृपाणे समुपागते । 0390ab
कबन्धेभ्यः परो नृत्तं व्यधत्त द्विषद्बले141 ॥ 0390cd

तस्याव्यपोह्यमाहात्म्या देवी दिव्याकृतेः प्रिया । 0391ab
विष्णुशक्तिः क्षितिं प्राप्ता रणारम्भाभिधाभवत् ॥ 0391cd

स हि जन्मान्तरे पूर्वं द्यूतकारोभवत्किल । 0392ab
कदापि प्राप निर्वेदं सर्वस्वं कितवैर्जितः ॥ 0392cd

देहत्यागोद्यतोप्यासीत्प्राप्यं किञ्चिद्विचिन्तयन् । 0393ab
न पर्यन्तेप्युपेक्षन्ते कितवाः स्वार्थसाधनम् ॥ 0393cd

अवन्ध्यदर्शनां विन्ध्ये देवीं भ्रमरवासिनीम् । 0394ab
द्रष्टुमैच्छद्वराकाङ्क्षी निर्व्यपेक्षः स्वजीविते ॥ 0394cd

भ्रमरैः शङ्कुपुच्छाद्यैः खण्ड्यमानस्य देहिनः । 0395ab
तदास्पदं हि विशतो दुर्लङ्घ्या पञ्चयोजनी । 0395cd

स वज्रशङ्कुपुच्छानां धीमांस्तेषां प्रतिक्रियाम् । 0396ab
देहेवश्यपरित्याज्ये मन्वानोभूददुष्कराम् ॥ 0396cd

प्रागयोवर्मणा देहं ततो महिषचर्मणा । 0397ab
तेन छादयता दत्तो मृल्लेपोथ सगोमयः ॥ 0397cd

अथ भानुकरोच्छुष्कमृल्लेपाम्रेडिताङ्गकः । 0398ab
स लोष्ट इव सञ्चारी प्रतस्थे क्रूरनिश्चयः ॥ 0398cd

सरलां सरणिं त्यक्त्वा जीवितस्पृहया समम् । 0399ab
गुहा तेन ततः सान्द्रतमोभीमा व्यगाह्यत ॥ 0399cd

अथोदतिष्ठन्गर्तेभ्यो घोरा भ्रमरमण्डलाः । 0400ab
पक्षशब्दैः श्रुतिं घ्नन्तो मृत्युतूर्यरवैरिव ॥ 0400cd

ते तमुच्छुष्कमृल्लेपरेणुव्रणितलोचनाः । 0401ab
सहसा नाक्रमन्ते स्म प्रहन्तोपि बाधितुम् ॥ 0401cd

रेणुभिर्येन्धितदृशस्ते न्यवर्तन्त षट्पदाः । 0402ab
तेखण्डयंस्तु मृल्लेपं न्यपतन्ये नवा नवाः ॥ 0402cd

तैः खण्ड्यमानमुच्चण्डैर्व्रजतो योजनत्रयीम् । 0403ab
क्रमान्मृत्कवचं तस्य पथि सङ्क्षयमाययौ ॥ 0403cd

ततो मुहुः प्रहरतां तेषां महिषचर्मणि । 0404ab
घोरश्चटचटाघोषः प्रादुरासीद्भयङ्करः ॥ 0404cd

[page 38]
विश्वास-प्रस्तुतिः
चतुर्थयोजनस्यार्धमतिक्रम्य विवेद सः । 0405ab
रणत्कारैर्द्विरेफांस्तानयोवर्मनिपातिनः ॥ 0405cd

धावंस्ततोतिवेगेन खण्ड्यमानेन षट्पदैः । 0406ab
स शस्त्रवर्मणामोचि चित्तं142 धर्येण नो पुनः ॥ 0406cd

गव्यूतिमात्रमासन्ने देवीधामनि धैर्यवान् । 0407ab
धुन्वन्कराभ्यां मधुपान्धावति स्म स धीरधीः ॥ 0407cd

अथ स्नाय्वस्थिशेषाङ्गो लूनमांसः षडङ्घ्रिभिः । 0408ab
कराभ्यामक्षिणी रक्षन्देव्यायतनमासदत् ॥ 0408cd

प्रशान्ते भृग्गसम्पाते प्रकाशमवलोकयत् । 0409ab
स देव्याः पादयोरग्रे पपातोद्भ्रान्तजीवितः ॥ 0409cd

स्तोकावशेषप्राणं तं देव्याश्वासयितुं ततः । 0410ab
अभिरामं वपुः कृत्वा पस्पर्शाङ्गेषु पाणिना ॥ 0410cd

दिव्येन पाणिस्पर्शेन तेन पीयूषवर्षिणा । 0411ab
स क्षिप्रसादितस्वास्थ्यो दिक्षु चक्षेप चक्षुषी ॥ 0411cd

प्रविष्टमात्रः प्रैक्षिष्ट सिंहविटरसीम्नि याम् । 0412ab
घोराकारां स तां देवीं तदाद्राक्षीन्न तां पुनः॥143 0412cd

ददर्श पुनरुद्यानलतावासे विलासिनिम् । 0413ab
स्थितां पुष्करिणीतीरे श्यामां पुष्करलोचनाम् ॥ 0413cd

गृहीतहारमुक्तार्घां बद्ध्वा144 पीनास्तनाञ्जलिम् । 0414ab
महार्हैः कान्तिकुसुमैर्यौवनेनार्चिताङ्गकाम् ॥ 0414cd

यावकाहारिणौ पादौ दधतीं कृच्छ्रचारिणौ । 0415ab
स्तनच्छन्नमुखं द्रष्टुं तपस्यन्ताविवान्वहम् ॥ 0415cd

भास्वद्बिम्बाधरां कृष्णकेशीं सितकराननाम् । 0416ab
हरिमध्यां शिवाकाराम् सर्वदेवमयीमिव ॥ 0416cd

तां विभाव्यानवद्याङ्गीं निर्जने यौवनोर्जिताम् । 0417ab
निन्येवारितवामेन145 स कामेन विधेयताम् । 0417cd

दधती रूपमाधुर्यपूरच्छन्नामधृष्यताम् । 0418ab
अप्सराः प्रत्यभात्तस्य सा हि चित्ते न146 देवता ॥ 0418cd

कृपामृदुरवादीत्तं व्यथितोसि चिरम् पथि । 0419ab
मुहुः सोम्य समाश्वस्य प्रार्थ्यतामुचितो वरः ॥ 0419cd

स तां बभाषे शान्तो मे भवत्या दर्शनाच्छ्रमः । 0420ab
अदेवी किं तु भवती वरं दातुं कथं क्षमा ॥ 0420cd

देवी जगाद तं भद्र कोयं ते मनसि भ्रमः । 0421ab
देवीं वा स्यामदेवी व्चा वरीतुं त्वां तु शक्नुयातम् ॥ 0421cd

इति सोभीष्टसम्प्राप्तौ कारयित्वा प्रतिश्रवम् । 0422ab
दूरमुत्क्रान्तमर्यादः सङ्गमं तामयाचत ॥ 0422cd

तमभ्यधात्सा दुर्बुद्धे कोयं तेनुचितो विधिः । 0423ab
प्रार्थयस्वेतरद्यस्मात्साहं भ्रमरवासिनी ॥ 0423cd

देवीं तां जानतोप्यस्य नाभूदवहितं मनः । 0424ab
निरुद्धा वासनाः केन जन्मान्तरनिबन्धनाः ॥ 0424cd

स तामुवाच सत्यां147 चेद्देवि स्वां गिरिमिच्छसि । 0425ab
प्रमाणीकुरु मद्वाणीमहमन्यन्न कामये ॥ 0425cd

पूर्वमेव हि जन्तूनां योधिवासो निलीयते । 0426ab
तिलानामिव तेषां स पर्यन्तेपि न शीर्यते ॥ 0426cd

देवी वा भव कान्ता वा भीमा वा शोभनापि वा । 0427ab
उआदृशीं पूर्वमद्राक्षं तादृश्येवावभासि मे ॥ 0427cd

तमित्थं कथयन्तं सा ज्ञात्वा निश्चलनिश्चयम् । 0428ab
एवं जन्मान्तरे भावीत्यभ्यधादनुरोधतः ॥ 0428cd

उत्सहन्ते हि संस्प्रष्टुं न दिव्या148 मर्त्यधर्मिणः । 0429ab
तद्गच्छ क्रूरसङ्कल्पेत्युक्त्वा सान्तर्दधे ततः ॥ 0429cd

अशून्यजन्मा भूयासं तया देव्येति चिन्तयन् । 0430ab
प्रयागवटशाखाग्रादहासीत्स वपुस्ततः ॥ 0430cd

सोजायत रणादित्यो रणारम्भा च सा भुवि । 0431ab
मर्त्यभावेपि या नैव जहौ जन्मान्तरस्मृतिम् ॥ 0431cd

रतिसेनाभिधश्चोलराजः सज्जोब्धिपूजने । 0432ab
तां तरङ्गान्ताल्लेभे रत्नराजिमिवोज्ज्वलम् ॥ 0432cd

[page 39]
विश्वास-प्रस्तुतिः
आ बाल्याद्व्यक्तिदिव्योक्तिं तामलङ्कृतयौवनाम् । 0433ab
दिव्यार्हां पृथिवीशेभ्यो नार्थिभ्योपि ददौ नृपः ॥ 0433cd

रणादित्यनृपामात्ये दूत्यायाते तथैव तम् । 0434ab
प्रत्याख्यानेच्छुमाचख्यौ सैव तद्वरणं वरम् ॥ 0434cd

तदर्थमेव कथितस्वोत्पत्तिं तां ततः पिता । 0435ab
द्रुतं कुलूतभूभर्तुः सुहृदः प्राहिणोद्गृहान् ॥ 0435cd

प्रहृष्टो विप्रकृष्टं तं देशं गत्वा व्यधत्त ताम् । 0436ab
परिणीय रणादित्यः शुद्धान्तस्याधिदेवताम् ॥ 0436cd

मर्त्यसंस्पर्शभीरुः सा महादेवी भवन्त्यपि । 0437ab
तं मायया मोहयन्ती न पस्पर्श कदाचन ॥ 0437cd

व्यधान्मयामयीं राज्ञस्तल्पे स्वसदृशीं स्त्रियम् । 0438ab
स्वयं सा भ्रमरीरूपा निर्जगाम बहिर्निशि ॥ 0438cd

स नाम्ना स्वस्य देव्याश्च कृत्वा सुरगृहद्वयम् । 0439ab
माहेश्वरः शैललिङ्गे कारयामास कारुभिः ॥ 0439cd

श्वः प्रतिष्ठाप्रसङ्गेथ सज्जे तल्लिङ्गयोर्द्वयम्149 । 0440ab
देशान्तरागतः कश्चिद्दूषयामास दैववित् ॥ 0440cd

स दृष्टप्रत्ययः शश्वत्तयोर्घटितलिङ्गयोः । 0441ab
अश्मखण्डैः समण्डूकैर्बभाषे गर्भमावृतम् ॥ 0441cd

किङ्कर्तव्यतया मूढं प्रतिष्ठाविन्नविह्वलम् । 0442ab
दिव्यदृष्टिः स्वयम् देवी ततो राजानमब्रवीत् ॥ 0442cd

राजन्गिरिसुतोद्वाहे पौरोहित्यं पुरा भजन् । 0443ab
स्वमर्चादेवमादत्त150 पूजाभाण्डात्प्रजापतिः ॥ 0443cd

तां विष्णोः प्रतिमां वीक्ष्य पूजितां तेन धूर्जटिः । 0444ab
शून्यामिव तदा मेने शक्तिरूपां विना शिवम् ॥ 0444cd

निमन्त्रितैर्ढौकितानि रत्नान्यथ सुरासुरैः । 0445ab
पिण्डीकृत्य स्वयं चक्रे लिङ्गं भुवनवन्दितम् ॥ 0445cd

तां विष्णुप्रतिमां तच्च लिङ्गमीशानपूजितम् । 0446ab
स्वयं प्रजासृजः पूज्यं कालेनादत्त रावणः ॥ 0446cd

तेनाप्यभ्यर्च्यमानं तल्लङ्कायामभवच्चिरम् । 0447ab
देवद्वयं रावणान्ते नीतमासीच्च वानरैः ॥ 0447cd

तिर्यक्तया ते कपयो मुग्धा हिमनगौकसः । 0448ab
शान्तौत्सुक्याः शनैर्देवौ न्यधुरुत्तरमानसे ॥ 0448cd

प्रागेव सरसस्तस्मात्कुशलैः शिल्पिभिर्मया । 0449ab
तावद्धृतौ प्रातरत्र प्राप्तौ द्रक्ष्यस्यसंशयम् ॥ 0449cd

तयोः प्रतिष्ठा क्रियतामित्युक्त्वा पृथिवीभुजम् । 0450ab
देवी प्रयाता श्र्द्धान्तं सिद्धान्सस्मार खेचरान् ॥ 0450cd

ते151 ध्यातमात्राः152 सम्प्राप्ता देव्यादेशेन पाथसः153 । 0451ab
उद्धृत्य नृपतेर्धाम्नि देवौ हरिहरौ न्यधुः154 ॥ 0451cd

दिव्यैः प्रसूनैः संवीतौ हरनारायणौ जनः । 0452ab
प्रातर्नृपगृहे दृष्ट्वा परं विस्मयमाययौ ॥ 0452cd

तज्जे प्रतिष्ठालग्नेथ155 माहेश्वरतया नृपः । 0453ab
रणेश्वरप्रतिष्ठायां पूर्वं यावत्समुद्यतः ॥ 0453cd

रणारम्भानुभावेन तावदेवाद्भुतावहः । 0454ab
स्वयं पीठे रणस्वामी भित्त्वा यन्त्रमुपाविशत् ॥ 0454cd

कर्तुं प्रभावजिज्ञासाम् राज्ञ्या156 दत्तधनस्ततः । 0455ab
स स्वयम्भूः स्वयम् भक्तांस्तांस्तान्ग्रामानदापयत्156 ॥ 0455cd

कुम्भदासतया छन्नः सिद्धो ब्रह्माभिधो वसन् । 0456ab
परिज्ञाय तयोर्दिव्या प्रतिष्ठां गूढमादधे ॥ 0456cd

स वृत्तप्रत्यभिज्ञः सन्प्रतिष्ठाप्य रणेश्वरम् । 0457ab
व्योम्ना व्रजन्रणस्वामिप्रतिष्ठां गूढमादधे ॥ 0457cd

जनास्त्वलक्षयन्यत्स स्वयं पीठमवातरत् । 0458ab
इति केषामपि हृदि प्रवादोद्यापि157 वर्तते ॥ 0458cd

सा158 ब्रह्मप्रतिभं सिद्धं देवी ब्रह्मविदां वरम् । 0459ab
अकारयत्तमुद्दिश्य परार्ध्यं159 ब्रह्ममण्डपम्160 । 0459cd

रणारम्भास्वामिदेवौ दम्पतिभ्यां व्यधीयत । 0460ab
मठः पाशुपतानां च ताभ्यां प्रद्युम्नमूर्धनि161 ॥ 0460cd

[page 40]
विश्वास-प्रस्तुतिः
आरोग्यशाला निरधाप्युल्लाघत्वाय रोगिणाम् । 0461ab
तेन सेनामुखीदेवीभयशान्त्यै च कारिता ॥ 0461cd

ख्यातिं रणपुरस्वामिसञ्ज्ञया सर्वतो गतम् । 0462ab
स सिंहरोत्सिकाग्रामे मार्तण्डं प्रत्यपादयत् ॥ 0462cd

अमृतप्रभया तस्य राज्ञः पत्न्यान्यया कृतः । 0463ab
दक्षिणेस्मिन्नणेशस्य पार्श्वे देवोमृतेश्वरः ॥ 0463cd

मेघवाहनभूभर्तृपत्न्या भिन्नाख्यया कृते । 0464ab
विहारेपि तया बुद्धबिम्बं साधु निवेशितम् ॥ 0464cd

राज्ञे देव्यनुरक्ताय सानुक्रोशाय सैकदा । 0465ab
पातालसिद्धिदं मन्त्रं प्रददौ हाटकेश्वरम् ॥ 0465cd

मा भून्मोघास्य मत्प्राप्तिरिति मत्वा तयार्पितम् । 0466ab
असाधयत्स तं प्राप्य वशान्तं162 वत्सरान्बहून् ॥ 0466cd

कृत्वेष्टिकापये कष्टं तपो163 नन्दिशिलां गतः । 0467ab
भूरिभिर्वत्सरैर्मन्त्रसिद्धेः प्रणयितां ययौ ॥ 0467cd

स्वप्नैश्च सिद्धिलिङ्गैश्च जाताभङ्गुरनिश्चयः । 0468ab
चन्द्रभागाजलं164 भित्त्वा नमुचेः प्राविशद्बिलम् ॥ 0468cd

विलेपावृततां याते दिवसान्येकविंशतिम् । 0469ab
प्रविश्य पौरान्प्राग्निन्ये दैत्यस्त्रीभोगभोगिताम् ॥ 0469cd

एवं स भूपतिर्भुक्त्वा165 भुवं वर्षशतत्रयम् । 0470ab
निर्वाणश्लाघ्यनिर्व्यूढि पातालैश्वर्यमासदत्166 ॥ 0470cd

सानुगे नृपतौ याते दैवतेयदयितान्तिकम् । 0471ab
देवी सा वैष्णवी शक्तिः श्वेतद्वीपमगाहत ॥ 0471cd

राजवंशेष्वनेकेषु राज्ञोर्वंशद्वये परम् । 0472ab
द्वयोरेवात्र निर्व्यूढिं प्रजावात्सल्यमागतम् ॥ 0472cd

रणादित्यस्य गोनन्दवंशे रामस्य राघवे167 । 0473ab
लोकान्तरसुखस्यापि ययोरंशभुजः168 प्रजाः ॥ 0473cd

विक्रमाक्रान्तविश्वस्य विक्रमेश्वरकृत्सुतः । 0474ab
तस्यासीद्विक्रमादित्यस्त्रिविक्रमपराक्रमः ॥ 0474cd

राजा ब्रह्मगलूनाभ्यां169 सचिवाभ्यां समं महीम् । 0475ab
सोपासीद्वासवसमो द्वाचत्वारिंशतिं समाः ॥ 0475cd

चक्रे ब्रह्ममठं ब्रह्मा गलूनो लूनदुष्कृतः । 0476ab
रत्नावल्याख्यया बध्वा विहारं निरमापयत् ॥ 0476cd

राज्ञोनन्तरजस्तस्य राजाभूत्तदन्तरम् । 0477ab
तापितारातिभूपालो बालादित्यो बलेर्जितः ॥ 0477cd

लवणार्णवपानेन तर्षोत्कर्षमिवोद्वहन् । 0478ab
यत्प्रतापो रिपुस्त्रीणां सनेत्राम्भोभजन्मुखम् ॥ 0478cd

आसन्येरिमनोगाधबोधदण्डा इवाहृताः । 0479ab
यस्याद्यापि जयस्तम्भाः सन्ति ते पूर्ववारिधौ ॥ 0479cd

प्रभावाङ्केन वङ्काaलाञ्जित्वा येन व्यधीयत । 0480ab
काश्मीरिकनिवासाय कालम्ब्याख्यो170 जनाश्रयः ॥ 0480cd

कश्मीरेषु धनोदग्रमग्रहारं द्विजन्मनाम् । 0481ab
राजा मडवराज्ये यो भेडराख्यमकारयत्171 ॥ 0481cd

विशां विपाटितारिष्टमरिष्टोत्सादने172 व्यधात् । 0482ab
वल्लभा यस्य बिम्बोष्ठी बिम्बा बिम्बेश्वरं हरम् ॥ 0482cd

भ्रातरो मन्त्रिणस्तस्य त्रयो मठसुरौकसोः । 0483ab
सेतोश्च कारका173 आसन्खङ्खशत्रुघ्नमालवाः ॥ 0483cd

बभूव तस्य भूभर्तुर्भुवनाद्भुतविभ्रमा । 0484ab
तनयानङ्गलेखाख्या शृग्गारोदधिकौमुदी ॥ 0484cd

तां वीक्ष्य लक्षणोपेतां मृगाक्षीं पितुरन्तिके । 0485ab
अमोघप्रत्ययो व्यक्तं व्याजहारेति दैववित् ॥ 0485cd

भविता तत्र जामाता जगतीभोगभाजनम् । 0486ab
त्वदन्तमेव साम्राज्यं गोनन्दान्वयजन्मनाम् ॥ 0486cd

सुतासन्तानसाम्राज्यमनिच्छन्नथ पार्थिवः । 0487ab
दैवं पुरुषकारेण जेतुमासीत्कृतोद्यमः ॥ 0487cd

[page 41]
विश्वास-प्रस्तुतिः
अराजान्वयिने174 दत्त्वा नेयं साम्राज्यहारिणी । 0488ab
मत्वेति प्रददौ कन्यां न कस्मैचन भूभुजे ॥ 0488cd

हेतुं स रूपतामात्रं कृत्वा जामातरं175 नृपः । 0489ab
अथाश्वघासकायस्थं चक्रे दुर्लभवर्धनम् ॥ 0489cd

मातुः कार्कोटनागेन सुस्नातायाः समीयुषा176 । 0490ab
राज्यायैव हि सञ्जातो राज्ञा नाज्ञायि तेन सः[^0490-2] ॥ 0490cd

निश्चिन्वते हि ज्ञम्मन्या यमेवायोग्यमाग्रहात् । 0491ab
जिगीषयेव तत्रैव निदधाति विधिः शुभम् ॥ 0491cd

मात्सर्येण जहद्ग्रहान्विसदृशे177 धूमध्वजे योग्यतां ज्ञात्वा स्वां निदधत्त्विषं दिनपतिर्हास्यः प्रशान्त्युन्मुखः । 0492ab
दैवं वेत्ति न यः शिखी तु178 परतो179 नामास्तु तत्सम्भवाः स्युर्दीपा अपि यद्वशेन जगतस्तिग्मांशुविस्मारकाः ॥ 0492cd

धिया भाग्यानुगामिन्या चेष्टमानो नयोचितम् । 0493ab
अभूत्सर्वस्य चक्षुष्यः स तु दुर्लभवर्धनः ॥ 0493cd

प्रज्ञया द्योतमानं तं प्रज्ञादित्य इति प्रथाम् । 0494ab
कौवीरभाग्यस्वाभ्यां च शनकैः श्वशुरोनयत् ॥ 0494cd

पित्रोः प्रेयस्तयोद्वृत्ता180 तारुण्यादिमदेन च । 0495ab
राजपुत्री यथावत्तु गणयामास नैव तम् ॥ 0495cd

स्वैरिणीसङ्गमो भोगा युवानोग्रे पितुर्गृहम् । 0496ab
पत्युर्मृदुत्वमित्यस्याः किं नाभूच्छीलविघ्नकृत् ॥ 0496cd

सा नित्यदर्शनाभ्यासाच्छनकैर्विशता मनः । 0497ab
अनङ्गलेखा खङ्खेन सम्प्रायुज्यत181 मन्त्रिणा ॥ 0497cd

छन्नप्रेमसुखाभ्यासनष्टह्रीभीतिसम्भ्रमा । 0498ab
धार्ष्ट्यं दिनाद्दिनं यान्ती ततस्तन्मयतां ययौ ॥ 0498cd

स मन्त्री दानमानाभ्यां वशीकृतपरिच्छदः । 0499ab
अन्तःपुरे यथाकामं विजहार तया सह182 ॥ 0499cd

उपलेभे च शनकैस्तस्यास्तं शीलविप्रलवम् । 0500ab
विरागलिङ्गैरुद्यद्भिर्धीमान्दुर्लभवर्धनः183 ॥ 0500cd

सखीमध्ये रहः स्मेरा विवर्णा भर्तृदर्शने । 0501ab
अकाण्ड एव प्रेत्याथ पश्यन्ती सस्मितं पथः ॥ 0501cd

पत्युः कोपे कृतावज्ञा भ्रूनेत्रचिबुकाञ्चनैः । 0502ab
तदप्रियं भाषमाणे सस्मितं न्यस्तलोचना ॥ 0502cd

तत्तुल्यगुणनिर्विण्णा तद्विपक्षस्तुतौ रता । 0503ab
रिरंसां तस्य संलक्ष्य सखीभिर्बद्धसङ्कथा ॥ 0503cd

तच्चुम्बने भुग्नकण्ठी तदाश्लेषेसहाङ्गका । 0504ab
तत्सम्भोगे त्यक्तहर्षा तत्तल्पे व्याजनिद्रिता184 ॥ 0504cd

भवेद्धि प्रायशो योषित्प्रेमविक्रीतचेतना । 0505ab
निवेदयन्ती दौःशील्यपिशाचावेशवैकृतम् ॥ कुलकम्॥ 0505cd

निगूढदारदौरात्म्यचिन्ताकृशवपुस्ततः । 0506ab
शुद्धान्तमविशज्जातु निशि दुर्लभवर्धनः ॥ 0506cd

सोपश्यत्सुरतक्लान्तिसुलभस्वापनिःसहाम् । 0507ab
दुर्जारभर्तुरङ्गेषु185 प्रत्युप्तामिव वल्लभाम्186 ॥ 0507cd

श्वासैरगलितावेगैः कम्पयद्भिः कुचाङ्कुरौ । 0508ab
निवेदयन्तीं187 तत्कालमेव निर्वहणं रतेः ॥ 0508cd

अन्यस्यापि क्रुधो हेतुं पुनरप्यक्षमावहाम् । 0509ab
तां तथावस्थितां वीक्ष्य सं प्रजज्वाल मन्युना ॥ 0509cd

प्रजिहीर्षुः स रोषेण विमर्शेन निवारितः । 0510ab
प्रहृत्येव प्रहृत्येव निवृत्तं स्वममन्यत ॥ 0510cd

ततस्तथाविधः क्षुभ्यत्प्रकोपावेशसागरः । 0511ab
विचारवेलया तस्य बलाच्छममनीयत ॥ 0511cd

नमस्तस्मै ततः कोन्यो गण्यते वशिनां धुरि । 0512ab
जीर्यन्ते येन पर्याप्ता ईर्ष्याविषविषूचिकाः ॥ 0512cd

सोचिन्तयदहो कष्टाश्चेष्टारागानुगा188 इमाः । 0513ab
विचारवन्ध्याः क्षिप्यन्ते क्षिप्रं याभिरधो नराः ॥ 0513cd

[page 42]
विश्वास-प्रस्तुतिः
स्त्रीति नामेन्द्रियार्थोयमिन्द्रियर्था यथा परे । 0514ab
तथैव सर्वसामान्या वशिनामत्र काः क्रुधः ॥ 0514cd

निसर्गतरला नारीः को नियन्त्रयितुं क्षमः । 0515ab
नियन्त्रणेन किं वा स्याद्यत्सतां स्मरणोचितम् ॥ 0515cd

यः शृणोरिव सङ्घर्ष189 एकार्थाभिनिविष्टयोः । 0516ab
रागिणोर्यदि मानः स कोवमानस्ततः परः ॥ 0516cd

ममकारो मृगाक्षीषु क्व इवायं सचेतसाम् । 0517ab
स्वदेहेनुपपन्नोपि यः सोन्यत्र कथं मतः ॥ 0517cd

उद्वेगोत्पादनादेषा बध्या चेत्र्प्रतिभाति मे । 0518ab
रागस्तद्विस्मृतः कस्मान्मूलमुद्वेगशाखिनः ॥ 0518cd

सप्तपातालनिक्षिप्तमूलो रागमहीरुहः । 0519ab
भूमिभूतमनुत्पाद्य द्वेषमुन्मूल्यते कथम् ॥ 0519cd

द्वेषो नामैष दुर्धर्षो जितो येन विवेकिना । 0520ab
क्षणार्धेनैव रागस्य तेन नामापि नाशितम् ॥ 0520cd

वीक्ष्यैतद्दिव्यया दृष्ट्या रागिणाम् वाच्यमौषधम् । 0521ab
ईर्ष्या जेया ततो रागः स्वयमाशाः पलायते ॥ 0521cd

इति ध्यात्वालिखद्वर्णान्खड्खस्यांशुकपल्लवे190 । 0522ab
बध्योपि न हतो यत्त्वं स्मर्तव्यं तत्तवेत्यसौ ॥ 0522cd

जनैरलक्ष्यमानेथ याते दुर्लभवर्धने । 0523ab
त्यक्तनिद्रः स मन्त्री तद्दृष्ट्वा191 वर्णानवाचयत् ॥ 0523cd

दाक्षिण्यात्प्राणदस्यास्य खङ्खः स मनसा तदा192 । 0524ab
विसस्मारानङ्गलेखां दध्यौ तु प्रत्युपक्रियाम् ॥ 0524cd

तस्योपकर्तुरुचितं प्रतिकारमिच्छोश्चिन्ताविशन्न तु मनः स्मरबाणपङ्क्तिः । 0525ab
दृग्गोचरे परिचयप्रणयं प्रपेदे निर्निद्रता न तु कदाचन राजपुत्री ॥ 0525cd

भूत्वा सप्तत्रिंशतिमब्दान्स193 चतुर्भिर्मासैर्वन्ध्यां194 मूर्धनि रत्नं नृपतीनाम् । 0526ab
तस्मिन्काले लोकमवापोज्ज्वलकृत्यो बालादित्यो बालशशाङ्काङ्कितमौलेः । 0526cd

पूर्वं विपन्नतनयेभिजनस्य शेषे गोनन्दसन्ततिरजायत तत्र195 शान्ते । 0527ab
प्राग्दन्तिभुग्ननलिनाथ हठप्रविष्टतोयौघपाटितविसा नलिनीव दीना ॥ 0527cd

अथ शिथिलितमुख्यामात्यवैमत्यविघ्नः कनकघटविमुक्तैः पावनं तीर्थतोयैः । 0528ab
कथमपि स196 कृतज्ञो राजजामातुरुच्चैर्व्यधितं विधिवदिष्टं मूर्ध्नि राज्याभिषेकम् ॥ 0528cd

कार्कोटप्रभवः[^0529-1] प्रभुः मुकुटप्रत्युप्तमुक्ताकणद्योतश्रेणिफणाङ्कुराङ्कितबृहद्बाहुर्महीमुद्वहन् । 0529ab
ज्ञातिप्रीतिसतोषशेषफणभृत्सम्फुल्लदृक्पल्लवन्यासावर्जकहाटकाब्जपटलस्रग्धामशोभोभवत् ॥ 0529cd

अथ विगलिता गोनन्दोर्वीभुजोभिजनाच्छुचेरतिशुचिनि भूः कार्कोटाहेः कुले व्यधित स्थितिम् । 0530ab
चिरपरिचितात्स्वर्गाभोगाध्वनः पतनं श्रिता त्रिभुवनगुरोः शम्भोर्मौलाविवामरनिम्नगा ॥ 0530cd

इति श्रीकाश्मीरिकमहामात्यश्रीचण्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां तृतीयस्तरङ्गः ॥
[page 43]
-
The aksharas न्व्यसून्वसुकु and मारेण चरसीव तदेनसः supplied by A3 in spaces left by A1. ↩︎ ↩︎ ↩︎ ↩︎
-
A3 gloss स्वाहताः स्वनामाक्षरमुद्राङ्कदानेन आहताः सम्प्रवर्तिताः व्यवहारविषयाः कृताः. ↩︎ ↩︎
-
Thus A1; A1 has given a varia lectio in margin of which only उत्पिञ्जोद्वास is legible ( उत्पिञ्जोद्वासनासज्ञ्जे ?). A3 उत्पिञ्जोत्पादने सज्जे, with gloss द्वन्द्वयुद्धस्य कोलाहले सज्जे सति. ↩︎ ↩︎
-
A3 gloss प्रतिपत्तिः सत्कारः सत्क्रिया पूजनं माननमिति यावत्. ↩︎ ↩︎
-
A1 glosses राज्ञोपजीविनः पुरुषाः, तत्स्वामिनः तेषां स्वामिनः कर्तारः न वरं. ↩︎ ↩︎
-
Doutful emendation; on account of an ink blot only the following is legible in the handwriting of A1: उपाय — स्कृत्य. A4 reads उपायनं पुरस्कृत्य; this reading is found in R. G and Edd. read उपायं तं. ↩︎ ↩︎
-
A1 gloss परैर्न श्रूयते यत्तदुपांशु परिकीर्तितम्; A2 adds मन्त्रकरणे. ↩︎ ↩︎
- ↩︎ ↩︎
-
Thus corr. by later hand from A1 ॰गुप्तम॰; G R as above. ↩︎ ↩︎
- ↩︎ ↩︎
-
Thus A1; corr. by later hand into ॰स्मृतेः, as found also in R. ↩︎ ↩︎
-
Thus A1; corr. by A3 into द्योतयेन्नान्यथा किं न which reading is found also in G R Edd. ↩︎ ↩︎
-
This verse has been omitted by A1 and supplied in margin by A3; found in R G. ↩︎ ↩︎
-
A3 indicates a varia lectio in the marginal note अन्यत् कबन्धेभ्यः परं नृत्तं न न्यधत्त द्विषद्बलम्; over the last word the gloss कर्तृ by the same hand. ↩︎ ↩︎
-
Thus A1; altered by A3 to ॰मुक्तार्घान्बद्ध्वा. A3 reads in margin गृहीतहारमुक्तार्घां बद्ध्वपीनस्तनाञ्जलिम्, with gloss मुक्ता एवार्घाः. G and R follow A1. ↩︎ ↩︎
-
Thus corr. by later hand from A1 सत्यं; स्त्यां also in G and R. ↩︎ ↩︎
- ↩︎ ↩︎
- ↩︎ ↩︎
-
The words from कालाम्ब्याख्यो to कारका in verse 483 have been supplied by A1 at a later date and in a smaller handwriting., partly in space left for this purpose, partly in margin. ↩︎ ↩︎
-
The text from मान्दुर्लभवर्धनः to the end ofv verse 507 below has been supplied bv A3, partly in space left by A1, partly in margin. ↩︎ ↩︎