०२

॥ द्वितीयः तरङ्गः ॥

विश्वास-प्रस्तुतिः

विहितमजगोशृङ्गाग्राभ्यां1 धनुर्घटितं तथा नरकरटिनोर्देहार्धाभ्यां गणं परिगृह्णतः2 । 0001ab
विविधघटनावाल्लभ्यानां निधेरुचिता3 विभोर्जयति ललनापुम्भागाभ्यां शरीरविनिर्मितिः ॥ 0001cd

मूलम्

भूयोराज्यार्जनोद्योगस्तेनात्यज्यत भूभुजा । 0002ab
जरसा शमिवाण्या4 च कर्णमूलमवाप्तया ॥ 0002cd

अनयद्विनयोदात्तः समं स्वविषयेण तान् । 0003ab
विषयान्वशिनामग्र्यः स तान्पञ्चापि विस्मृतिम् ॥ 0003cd

धावन्राज्येच्छया दुर्गागलिकायां5 स्वमन्त्रिभिः । 0004ab
कालेन स्थापितो बद्ध्वेत्यभ्यधायि तु कैरपि ॥ 0004cd

अथ प्रतापादित्याख्यस्तैरानीय दिगन्तरात् । 0005ab
विक्रमादित्यभूभर्तुर्ज्ञातिरत्राभ्यषिच्यत ॥ 0005cd

शकारिर्विक्रमादित्य इति स भ्रममाश्रितैः6 । 0006ab
अन्यैरत्रान्यथालेखि विसंवादि7 कदर्थितम् ॥ 0006cd

इदं स्वभेदविधुरं हर्षादीनां धराभुजाम् । 0007ab
कञ्चित्कालमभूद्भोज्यं ततः प्रभृति मण्डलम् ॥ 0007cd

असपूर्वापि तेनोर्वी सपूर्वेव महीभुजा । 0008ab
आलिता हृदयज्ञेन पत्या नववधूरिव ॥ 0008cd

भुक्त्वा द्वात्रिंशतं वर्षान्भुवं तस्मिन्दिवं गते । 0009ab
जलौकास्तत्सुतो भूमेर्भूषणं समपद्यत ॥ 0009cd

पितुरेव समं कालं वृद्धिहेतोः स दिद्युते । 0010ab
विषुवत्पूर्णशीतांशुरिव शीतेतरार्चिषः ॥ 0010cd

अथ वाक्पुष्टया सार्धं देव्या दिव्यप्रभावया । 0011ab
भुवं तत्प्रभवो भुञ्जंस्तुञ्जीनोरञ्जयत्प्रजाः ॥ 0011cd

दम्पतिभ्यामियं ताभ्यामभूप्यत वसुन्धरा । 0012ab
गङ्गामृगाङ्कखण्डाभ्यां जटाभूरिव धूर्जटेः ॥ 0012cd

मण्डलं साध्वधत्तां तौ नानावर्णमनोरमम् । 0013ab
शतह्रदापयोवाहौ माहेन्द्रमिव कार्मुकम् ॥ 0013cd

चक्राते च माहाभागौ विभ्रमाभरणं भुवः । 0014ab
तुङ्गेश्वरं हरावासं कतिका(ख्यं)8 च पत्तनम् ॥ 0014cd

क्वचिन्मडवराज्यान्तःस्थाने चण्डातपोज्ज्वले9 । 0015ab
तत्प्रभावेण फलितं वृक्षैस्तत्क्षणरोपितैः ॥ 0015cd

नाट्यं सर्वजनप्रेक्ष्यं यश्चक्रे स महाकविः10 । 0016ab
द्वैपायनमुनेरंशस्तत्काले चन्दकोभवत् ॥ 0016cd

तयोः प्रभावमाहात्म्यजिज्ञासार्थमिवोद्यता । 0017ab
प्रजासु दुःसहा जातु व्यापद्दैवी11 व्यजृम्भत ॥ 0017cd

पाकोन्मुखशरच्छालिछन्नकेदारमण्डले । 0018ab
मासि भाद्रपदेकस्मात्पपात तुहिनं महत् ॥ 0018cd

तस्मिन्विश्वक्षयोद्युक्तकालाट्टझसितोपमे । 0019ab
न्यमज्जञ्शालयः साकं प्रजानां जीविताशया ॥ 0019cd

अथासीत्क्षुत्परिक्षामजनप्रेतकुलाकुलः । 0020ab
प्राकारो12 निरयस्येव घोरो दुर्भिक्षविप्लवः ॥ 0020cd

पत्रीप्रीतिं सुतस्नेहं पितृदाक्षिण्यमातुरः । 0021ab
कुक्षिभरिः क्षुदुत्तप्तो विसस्माराखिलो जनः ॥ 0021cd

[page 17]

विश्वास-प्रस्तुतिः

क्षुत्तापाद्व्यस्मरल्लज्जामभिमानं कुलोन्नतिम् । 0022ab
अशनाहङ्क्रियाघ्रातो लोको13 लक्ष्मीकटाक्षितः ॥ 0022cd

क्षामं कण्ठगतप्राणं याचमानं सुतं पिता । 0023ab
पुत्रो वा पितरं त्यक्त्वा चकार स्वस्य पोषणम् ॥ 0023cd

स्नाय्वस्थिशेषे बीभत्से स्वदेहेहङ्क्रियावताम् । 0024ab
अभूद्भोज्यार्थिनां युद्धं प्रेतानामिव देहिaनम् ॥ 0024cd

रूक्षाभिभाषी क्षुत्क्षामो घोरो दिक्ष्वक्षिणी क्षिपन् । 0025ab
एक एको जगज्जीवैरियेष स्वात्मपोषणम् ॥ 0025cd

तस्मिन्महाभये घोरे प्राणिनामतिदुःसहे । 0026ab
ददृशे लोकनाथस्य तस्यैव करुनार्द्रता ॥ 0026cd

निवारितप्रतीहारः स रत्नौषधिशोभिना । 0027ab
दर्शनेनैव दीनानामलक्ष्मीक्लममच्छिनत् ॥ 0027cd

सपत्नीको निजैः कोशैह् सञ्चयैर्मन्त्रिणामपि । 0028ab
क्रीतान्नः स दिवारात्रं प्राणिनः समजीवयत् ॥ 0028cd

अटवीषु श्मशानेषु रथ्यास्ववसथेषु च । 0029ab
क्षुत्क्षामः क्ष्माभुजा तेन नहि कश्चिदुपैक्ष्यत[^0029-1] ॥ 0029cd

ततो निःशेषितधनः क्षीणान्नां वीक्ष्य मेदिनीम् । 0030ab
क्षपायामेकदा देवीमेवमूचे स14 दुःखितः ॥ 0030cd

देव्यस्मदपचारेण ध्रुवं केनापि दुस्तरा । 0031ab
जाता निरपराधानां जनानां व्यापदीदृशी ॥ 0031cd

धिङ्मामधन्यं यस्याग्रे लोकोयं शोकपीडितः । 0032ab
पश्यन्नशरणामुर्वीमनुग्राह्यो विपद्यते ॥ 0032cd

प्रजा निःशरणा एता अन्योन्यं बान्धवोज्झिताः । 0033ab
अरक्षतो भयेमुष्मिन्किं कार्यं जीवितेन मे ॥ 0033cd

यथा कथञ्चिल्लोकोयं दिनान्येतानि यत्नतः । 0034ab
मयातिवाहितः सर्वो न च कोपि व्यपद्यत ॥ 0034cd

अतिक्रान्तप्रभावेयं कालदौरात्म्यपीडिता । 0035ab
निष्किञ्चनाद्य सञ्जाता पृथिवी गतगौरवा ॥ 0035cd

तदिमाः सर्वतो मग्ना दारुणे व्यसनार्णवे । 0036ab
उपायः कतमस्तावत्समुद्धर्तुं क्षमः प्रजाः ॥ 0036cd

निरालोको हि लोकोयं दुर्दिनग्रस्तभास्करः । 0037ab
कालरात्रिकुलैर्विश्वक्परीत इव वर्तते ॥ 0037cd

हिमसङ्घातदुर्लङ्ह्यक्षितिभृद्रुद्धनिर्गमाः15 । 0038ab
बद्धद्वारकुलायस्थखगवद्विवशा16 जनाः ॥ 0038cd

शूराश्च मतिमन्तश्च विद्यावन्तश्च जन्तवः । 0039ab
कालदौरात्म्यतः पश्य जाता निहतयोग्यताः ॥ 0039cd

आशाः काञ्चनपुष्पकुट्मलकुलच्छन्ना न काः क्ष्मातले सौजन्यामृतवर्षिभिस्तिलकितं सेव्यैर्न किं मण्डलम् । 0040ab
पन्थानः सुचिरोपचाररुचिरैर्व्याप्ता17 न कैः संस्तुतैस्तेषामत्र[^0040-2] वसन्ति निह्नुतगुणाः कालेन ये18 मोहिताः ॥ 0040cd

तदेष गलितोपायो जुहोमि ज्वलने तनुम् । 0041ab
नतु द्रष्टुं समर्थोस्मि प्रजानां नाशमीदृशम् ॥ 0041cd

धन्यास्ते पृथिवीपालाः सुखं ये निशि शेरते । 0042ab
पौरान्पुत्रानिव पुरः सर्वतो वीक्ष्य निर्वृतान् ॥ 0042cd

इत्युत्वा करुणाविष्टो मुखमाच्छाद्य वाससा । 0043ab
निपत्य तल्पे निःशब्दं19 रुरोद पृथिवीपतिः ॥ 0043cd

निवातस्तिमितैर्दीपैरुद्ग्रीवैः कौतुकादिव । 0044ab
वीक्षमाणाथ तं देवी जगाद जगतीभुजम् ॥ 0044cd

राजन्प्रजानां कुकृतैः कोयं मतिविपर्ययः । 0045ab
येनेतर इव स्वैरमधीरोचितमीहसे ॥ 0045cd

यद्यसाध्यानि दुःखानि छेत्तुं न प्रभविष्णुता । 0046ab
तन्महीपालः महतां महत्त्वस्य किमङ्कनम् ॥ 0046cd

कः शक्रः कतमः स्रष्टा वराकः कतमो यमः । 0047ab
सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥ 0047cd

पत्यौ भक्तिर्व्रतं स्त्रीणामद्रोहो मन्त्रिणां व्रतम् । 0048ab
प्रजानुपालनेनन्यकर्मता भूभृतां व्रतम् ॥ 0048cd

[page 18]

विश्वास-प्रस्तुतिः

उत्तिष्ठ व्रतिनामग्र्य क्व विपर्येति मद्वचः । 0049ab
प्रजापाल प्रजानां ते नास्त्येव क्षुत्कृतं भयम् ॥ 0049cd

इति संरम्भतः प्रोक्ते तयानुध्याय20 देवताः । 0050ab
प्रतिगेहं गतप्राणः कपोतनिवहोततत् ॥ 0050cd

प्रातस्तन्नृपतिर्वीक्ष्य व्यरंसीन्मरणोद्यमात् । 0051ab खृट्\_2\_0051चद् प्रजाश्च प्रयहं प्राप्तैः कपोतैर्जीवितं दधुः ॥:
विश्वास-प्रस्तुतिः

वस्त्वन्तरं किमपि तत्साध्वी नूनं ससर्ज सा । 0052ab
जनताजीवितावाप्त्यै न कपोतास्तु तेभवन्21 ॥ 0052cd

तादृशां नहि निर्व्याजप्रानिकारुण्यशालिनाम् । 0053ab
हिंसया धर्मचर्यायाः शक्यं क्वापि कलङ्कनम् ॥ 0053cd

अभवन्निर्मलं व्योम देवीकृत्यैः सह क्रमात् । 0054ab
साकं भूपालशोकेन दुर्भिक्षं च शमं ययौ ॥ 0054cd

सा भूतिविभवोदग्रमग्रहारं द्विजन्मनाम् । 0055ab
सती कतीमुषं22 चक्रे रामुषं23 चापकल्मषा ॥ 0055cd

वैषैः षट्त्रिंशता शान्ते पत्यौ विरहजो ज्वरः । 0056ab
तत्यजे ज्वलनज्वालानलिनप्रच्छदे तया ॥ 0056cd

सा यत्र शुचिचारित्रा विपन्नं पतिमन्वगात् । 0057ab
स्थानं जनैस्तद्वाक्पुष्टाटवीत्यद्यापि गद्यते ॥ 0057cd

चारुचारित्रया तत्र तथा सत्त्रेवतारिते । 0058ab
नानापथागतानाथसार्थैरद्यापि भुज्यते ॥ 0058cd

आभ्यामभ्यधिकं कर्तुं शक्तिः कस्येति निश्चितम् । 0059ab
विचिन्त्यारोचकी धाता नापत्यं निर्ममे तयोः ॥ 0059cd

वेधाः परां धुरमुपैति परीक्षकाणामिक्षोः फलप्रजननेन कृतश्रमो यः । 0060ab
विस्मारितोद्धुरसुधारसयोग्यतां तत्तस्मादुदेत्य24[^0060-2] किमिवाभ्यधिकं विदध्यात् ॥ 0060cd

दीर्घदुर्दिननष्टार्कं राष्ट्रमात्मापचारतः । 0061ab
ज्ञात्वा राज्ञ्यग्रिसाद्देहं सा चकारेति केचन ॥ 0061cd

ततोन्यकुलजो राजा विजयोष्टावभूत्समाः । 0062ab
पत्तनेन परीतं यश्चकार विजयेश्वरम् ॥ 0062cd

सुतो महीमहेन्द्रस्य जयेन्द्रस्तस्य भूपतेः । 0063ab
क्ष्मामाजानुभुजो राजा बुभोजाथ पृथुप्रथः ॥ 0063cd

अलोलकीर्तिकल्लोलदुगूलवलनोज्ज्वलाम्25 । 0064ab
बभार यद्भुजस्तम्भो जयश्रीसालभञ्जिकाम्2627 ॥ 0064cd

तस्याभूदद्भुतोदन्तभवभक्तिविभूषितः28 । 0065ab
राज्ञः सन्धिमतिर्नाम मन्त्री मतिमतां वरः ॥ 0065cd

नास्त्युपायः स संसारे कोपि योगोहितुं क्षमः । 0066ab
भूपालमत्तकरिणामेषं चपलकर्णताम् ॥ 0066cd

अत्यद्भुतमतिः शङ्क्यः सोयमुक्त्वेति यद्विटैः । 0067ab
तस्मिन्धीसचिवे द्वेषस्तेनाग्राह्यत भूभुजा ॥ युग्मम्॥ 0067cd

निवारितप्रवेशोथ सकोपस्तमहेतुकम्29 । 0068ab
निनाय हृतसर्वस्वं यावदायुर्दरिद्रताम् ॥ 0068cd

तस्य भूपतिविद्वेषग्रीष्मोष्मपरिशोषिणः । 0069ab
आप्यायं राजपुरुषा वार्तयापि न चक्रिरे ॥ 0069cd

गिरं गभीरो गृह्णाति क्ष्माभृद्यावत्तदग्रगाः । 0070ab
उक्तानुवादिनस्तावद्व्यक्तं प्रतिरवा इव ॥ 0070cd

स तु राजविरुद्धत्वदारिद्र्याभ्यां न विव्यथे । 0071ab
गतप्रत्यूहया प्रीतः प्राप्तया हरसेवया ॥ 0071cd

अथ भाव्यर्थमाहात्म्यात्पप्रथे प्रतिमन्दिरम्30 । 0072ab
राज्यं सन्धिमतेर्भावीत्यश्रुतापि सरस्वती ॥ 0072cd

नाचोदिता वाक्चरतीत्याप्तेभ्यः श्रुतवान्नृपः । 0073ab
ततः सम्भूतसन्त्रासः31 कारावेश्मनि तं न्यधात्32 ॥ 0073cd

[page 19]

विश्वास-प्रस्तुतिः

तत्र तस्योग्रनिगडैः पीडिताड्घ्रेर्विशुष्यतः । 0074ab
पूर्णोभूद्दशमो वर्षो भूपतेश्चायुषोविधिः ॥ 0074cd

निष्पुत्रः स महीपालो मुमूर्षुर्दाहमादधे । 0075ab
रोगोत्थया पीडया च चिन्तया च तदीयया ॥ 0075cd

ऊष्मायमाणो विद्वेषवह्निना ज्वलतानिशम् । 0076ab
न विना दद्वधं मेने भावितव्यप्रतिक्रियाम् ॥ 0076cd

भाव्यर्थस्याबुधाः33 कुर्युरुपायं स्थगनाय यम् । 0077ab
स एवापावृतं द्वारं ज्ञेयं दैवेन कल्पितम् ॥ 0077cd

दग्धाङ्गारकदम्बके विलुठतः स्तोकोन्मिषत्तेजसो वेधा वह्निकणस्य शक्तिमतुलामाधातुकामो हठात् । 0078ab
तन्निर्वापणमिच्छतः प्रतनुते पुंसः समीपस्थिते34 सन्तापद्रुतभूरिसर्पिषि घटे पानीयकुम्भभ्रमम् ॥ 0078cd

अथ राजाज्ञया क्रूरैर्वधकर्माधिकारिभिः । 0079ab
निशि सन्धिमतिः शूले समारोप्य विपादितः ॥ 0079cd

प्रोतशूले श्रुते तस्मिञ्चोकशङ्कुर्महीपतेः । 0080ab
निरगाद्रोगभग्नस्य पूर्वं पश्चात्तु जीवितम् ॥ 0080cd

सप्तत्रिंशतिवर्षेषु यातेष्वस्मिन्निरन्वये । 0081ab
प्रशान्तभूमिपालाभूत्कतिचिद्दिवसानि भूः ॥ 0081cd

अथ सन्धिमतिं बुद्ध्वा तथा व्यापादितं गुरोः । 0082ab
ईशानाख्यस्य हृदयं विवशं वशिनोप्यभूत् ॥ 0082cd

शिरीष इव संसारे सुखोच्छेद्ये मनीषिणाम् । 0083ab
हन्तानृशंस्यं तद्वृन्तमिवैकमवशिष्यते ॥ 0083cd

स श्मशानभुवं प्रापादनाथस्येव शुष्यतः । 0084ab
कर्तुं विनयिनस्तस्य स्वोचितामन्तसत्क्रियाम् ॥ 0084cd

तं चास्थिशेषमद्राक्षीत्कृष्यमाणं बलाद्वृकैः । 0085ab
शूलमूलावबद्धास्थिखण्डावष्टम्भनिश्चलम् ॥ 0085cd

समीरणसमाकीर्णमुण्डरन्ध्राग्रनिर्गतैः35 । 0086ab
ध्वनितैरनुशोचन्तमिवावस्थां तथाविधाम् ॥ 0086cd

हा वत्स द्रष्टुमीदृक्ते जीवाभ्यद्येति वादिना । 0087ab
तस्याकृष्यत शूलान्तःप्रोतं तेनाथ कीकसम् ॥ 0087cd

वेष्टिताङ्घ्रिः शिरःशीर्णैस्तत्कचैर्धूलिधूसरैः । 0088ab
अनैषीत्तं स कङ्कलं वारयन्भषतो वृकान् ॥ 0088cd

उचिताम् सत्क्रियां कर्तुं ततस्तस्य समुद्यतः । 0089ab
भाले विधातृलिखितं श्लोकमेतमवाचयत् ॥ 0089cd

यावज्जीवं दरिद्रत्वं दश वर्षाणि बन्धनम् । 0090ab
शूलस्य पृष्ठे मरणं पुना36 राज्यं भविष्यति ॥ 0090cd

पादत्रयस्य दृष्टार्थः37 श्लोकस्यासीत्स योगिवत् । 0091ab
द्रष्टव्ये तुर्यपादार्थप्रत्यये3839 कौतुकान्वितः ॥ 0091cd

अचिन्तयच्च सम्भ्रान्तः कथमेतद्भविष्यति40 । 0092ab
उवाच च विधेः शक्तिमचिन्त्यां कलयंश्चिरम् ॥ 0092cd

तत्तत्कर्मव्यतिकरकृतः पारतन्त्र्यानुरोधात्सज्जाः सर्वे व्यवसितहठोन्मूलनाय प्रयत्नात् । 0093ab
चित्रं तत्राप्युदयति विधेः शक्तिरत्यद्भुतेयं यन्माहात्म्याद्विविधघटनासिद्धयो निर्निरोधाः ॥ 0093cd

मणिपूरपुरे पार्थं निहितं समजीवयत् । 0094ab
फणिकन्याप्रभावेण सर्वाश्चर्यनिधिर्विधिः ॥ 0094cd

द्रोणपुत्रास्त्रनिर्दग्धं मातुर्गर्भे परीक्षितम् । 0095ab
जीवयन्कृष्णमाहात्म्याद्धाता धुर्योधिकारिणाम् ॥ 0095cd

कचं भस्मीकृतं दैत्यैर्नागांस्तार्क्ष्येण भक्षितान् । 0096ab
पुनर्जीवयितुं को वा दैवादन्यः प्रगल्भते ॥ 0096cd

इत्युक्त्वा भाविनोर्थस्य द्रष्टुं सिद्धिं समुद्यतः । 0097ab
तत्रैव बद्धवसतिः कङ्कालं स ररक्ष तम् ॥ 0097cd

अथार्धरात्रे निर्निद्रस्तथैवाद्भुतचिन्तया । 0098ab
धूपाधिवासमीशानो व्रातवान्दिव्यमेकदा ॥ 0098cd

उच्चण्डलाडनादण्डोद्घृष्टघण्टौघटाङ्कृतैः41 । 0099ab
चण्डैर्डमरुनिर्घोषैर्घर्घरं42 श्रुतवान्ध्वनिम् ॥ 0099cd

[page 20]

विश्वास-प्रस्तुतिः

उड्घाटिततमोरिः43 स ततः पितृवनावनौ । 0100ab
ददर्श योगिनीस्तेजःपरिवेषान्तरस्थिताः ॥ 0100cd

तासां सम्भ्रममालक्ष्य कङ्कालं चापवाहितम् । 0101ab
ईशानस्तां श्मशानोर्वीं धृतासिश्चकितो ययौ ॥ 0101cd

अथापश्यत्तरुच्छन्नः शायितं मण्डलान्तरे । 0102ab
सन्धीयमानसर्वाङ्गं कङ्कालं योगिनीगणैः ॥ 0102cd

उल्लसद्वरसम्भोगवाञ्छा मद्यपदेवताः[^0103-1] । 0103ab
वीरालाभात्समन्विष्य कङ्कालं तमपाहरन्[^0103-2] । 0103cd

एकमेकं स्वमङ्गं च विनिधाय क्षणादथ । 0104ab
कुतोप्र्यानीय[^0104-1] पुंलक्ष्म[^0104-2] पूर्णाङ्गं तं प्रचक्रिरे ॥ 0104cd

अथ पुर्यष्टकं भ्राम्यदनाक्रान्तान्यविग्रहम्[^0105-1] । 0105ab
योगेनाकृष्य योगेश्यस्तत्र[^0105-2] सस्न्धिमतेर्न्यधुः ॥ 0105cd

ततः सुप्तोत्थित[^0106-1] इव प्रत्तदिव्यविलेपनः । 0106ab
समभुज्यत ताभिः स यथेच्छं चक्रनायकः ॥ 0106cd

ईशानस्तस्तस्य[^0107-1] देवीनां वितीर्णाङ्गाहृतिं पुनः । 0107ab
क्षपायां क्षीयमाणायां चकितः पर्यशङ्कत ॥ 0107cd

नदंस्तद्रक्षया धीरः स च तत्स्थानमाययौ । 0108ab
तच्च योगेश्वरीचक्रं क्षिप्रमन्तरधीयत ॥ 0108cd

अथाश्रूयत वाक्तासां माभूदीशान भीस्तव । 0109ab
नास्त्यङ्गहानिरस्माकं वृते चास्मिन्न वञ्चना ॥ 0109cd

अस्मद्वराद्दिव्यवपुःसन्धितः सन्धिमानसौ । 0110ab
आर्यत्वादार्यराजश्च ख्यातो भुवि[^0110-1] भविष्यति ॥ 0110cd

ततो दिव्याम्बरः स्रग्वी दिव्यभूषणभूषितः । 0111ab
ववन्दे सन्धिमान्प्रह्वः प्राप्तपूर्वस्मृतिर्गुरुम् ॥ 0111cd

ईशानोपि तमालिङ्ग्य स्वप्रेष्वपि सुद्रुलभम् । 0112ab
भूमिकामाललम्बे कामिति को वक्तुमर्हति ॥ 0112cd

असारं च विचित्रं च संसारं ध्यायतोर्मिथः । 0113ab
विवेकविशदा तत्र प्रावर्तत तयोः कथा ॥ 0113cd

अथ वार्तां विदित्वेमां कुतोपि नगरौकसः । 0114ab
सबालवृद्धाः सामात्यास्तमेवोद्देशमाययुः ॥ 0114cd

पूवाकृतिविसंवादाद्भ्रमो नायं स इत्यथ । 0115ab
तेनाच्छिद्यत संवादिनिखिलान्पृच्छता वचः ॥ 0115cd

अर्थानां शासितुं राष्ट्रं पौराणामपराजकम् । 0116ab
सोन्वमन्यत कृच्छ्रेण निःस्पृहः शासनाद्गुरोः ॥ 0116cd

प्रापय्योपवनोपान्तं तं दिव्याकृतिशोभिनम् । 0117ab
सतूर्यं स्नापयामासुरभिषेकाम्बुभिर्द्विजाः ॥ 0117cd

नवराजोचिताचारे न स शिक्षामपैक्षत । 0118ab
दृष्टकर्मा समस्तास्तु निस्तुषाः प्रक्रिया व्यधात् ॥ 0118cd

स राजोचितनेपथ्यः पौराशीर्घोषशोभिनीम् । 0119ab
सौधोन्मिषल्लाजवर्षां ससैन्यः[^0119-1] प्राविशत्पुरीम् ॥ 0119cd

तस्मिन्विरजसि प्राज्यमाक्रामति नृपासनम् । 0120ab
आचक्राम प्रजा व्यापन्न दैवी न च मानुषी ॥ 0120cd

अहरन्हृदयं तस्य शृङ्गारहितविभ्रमाः[^0121-1] । 0121ab
नितम्बिन्यो वनभुवः शमिनो[^0121-2] न तु योषितः ॥ 0121cd

वनप्रसूनसम्पर्कपुण्यगन्धैस्तपस्विनाम् । 0122ab
कर्पूरधूपसुरभिः करैः स्पृष्टः स पिप्रिये ॥ 0122cd

भूतेशवर्धमानेशविजयेशानपश्यतः । 0123ab
नियमो राजकार्येषु तस्याभूत्प्रतिवासरम् ॥ 0123cd

हरायतनसोपानक्षालनाम्भःकणाञ्चितैः । 0124ab
संस्पृष्टः पवनैः सोभूदानन्दास्पन्दविग्रहः ॥ 0124cd

पूवपूजापनयने निराडम्बरसुन्दरः[^0125-1] । 0125ab
तेनैव द्रष्टुमज्ञायि स्नपितो विजयेश्वरः ॥ 0125cd

लिङ्गपीठलुटत्स्नानकुम्भाम्भःक्षोभभूर्ध्वनिः । 0126ab
शयानस्याप्यभूत्तस्य वल्लभो वल्लकीद्विषः ॥ 0126cd

[page 21]

विश्वास-प्रस्तुतिः

तापसैर्भस्मरुद्राक्षजटाजूटाङ्कितैर्बभौ । 0127ab
तस्य माहेश्वरी पर्षदिव भूमिपतेः सभाः ॥ 0127cd

शिवलिङ्गसहस्रस्य प्रतिष्ठाकर्मणि प्रभोः । 0128ab
प्रतिज्ञा प्रत्यहं तस्य नाभूद्विघटिता क्वचित् ॥ 0128cd

प्रमादात्तदनिष्पत्तौ शिलामुत्कीर्य कल्पिता । 0129ab
सहस्रलिङ्गी तद्भृत्यैः सर्वतोद्यापि दृश्यते ॥ 0129cd

तासु तासु स वापीषु लिङ्गव्याजादरोपयत् । 0130ab
स्वपुण्यपुण्डरीकानां जन्मनेक्षपरम्पराम् ॥ 0130cd

स्थाने स्थाने जलान्तश्च बहुसङ्ख्यैर्निवेशितैः । 0131ab
अनयन्नर्मदाभङ्गिं शिवलिङ्गैस्तरङ्गिणीः ॥ 0131cd

प्रतिलिङ्गं महाग्रामाः प्रत्यपाद्यन्त तेन ये । 0132ab
पर्षदामद्य तद्भोगः कालेनान्तर्धिमागतः ॥ 0132cd

अकरोत्स महाहर्म्यैर्महालिङ्गैर्महावृषैः । 0133ab
महात्रिशूलैर्महतीं महामाहेश्वरो महीम् ॥ 0133cd

कृत्वा सन्धीश्वरं44 देहसन्धानपितृकानने । 0134ab
ईशानस्य गुरोर्नाम्ना व्यधादीशेश्वरं45 हरम् ॥ 0134cd

थेदां च भीमादेवीं च देशांश्चान्यान्पदेपदे । 0135ab
स मठप्रतिमालिङ्गैर्हर्म्यैर्निन्ये महार्घताम् ॥ 0135cd

स्वयम्भूमिश्च तीर्थैश्च पूतं भक्तिविभूषितः46 । 0136ab
स एव भोक्तुमज्ञासीत्प्राज्ञः47 कश्मीरमण्डलम्48 ॥ 0136cd

स्नातस्य निर्झराम्भोभिः पुष्पलिङ्गार्चनोत्सवैः । 0137ab
राज्ञस्तस्य वनोर्वीषु मासः पुष्पाकरो ययौ ॥ 0137cd

स चातिरम्यः काश्मीरो ग्रीष्मस्त्रिदिवदुर्लभः । 0138ab
हिमलिङार्चनैः प्रायाद्वनान्तेषु कृतार्थताम् ॥ 0138cd

फुल्लाब्जषण्डरुद्धाशाः प्राप्य पुष्करिणीतटीः । 0139ab
लक्ष्मीसखः स खण्डेन्दुचूडध्यानपरोभवत्49 ॥ 0139cd

नीलोत्पलवतीर्वापीरगस्त्योदयनिर्विषाः । 0140ab
अवगाह्य हरार्चाभिः शरदं निर्विवेश सः ॥ 0140cd

सार्धं तपोधनैस्तैस्तैर्भजतो जागरोत्सवान् । 0141ab
तस्याभूवन्भुवो भर्तुरमोघा माघरात्रयः ॥ 0141cd

अत्यद्भुतं राज्यलाभमित्थं सफलयन्कृती । 0142ab
पञ्चाशतं त्रिवर्षोनामत्यक्रामत्स वत्सरान् ॥ 0142cd

शमव्यसनिनस्तस्य राज्यकार्याण्यपश्यतः । 0143ab
तस्मिन्काले प्रकृतयो विरागं प्रतिपेदिरे ॥ 0143cd

अन्वैष्यत नृपस्ताभिः कश्चिद्राज्याय शुश्रुवे । 0144ab
राजपुत्रो जिगीषुश्च श्रीमान्यौधिष्ठिरे कुले ॥ 0144cd

जुगोप गोपादित्याख्यं50 कश्मीरेन्द्रजिगीषया । 0145ab
युधिष्ठिरप्रपौत्रं हि गान्धाराधिपतिस्तदा ॥ 0145cd

वसन्नप्राप्तसाम्राज्यः51 स तत्र तनयं क्रमात् । 0146ab
अवाप लक्षणैर्दिव्यैरमोघं मेघवाहनम् ॥ 0146cd

स तत्र52 पितुरादेशाद्वैष्णवान्वयजन्मनः । 0147ab
राष्ट्रं प्राग्ज्योतिषेन्द्रस्य ययौ कन्यास्वयंवरे ॥ 0147cd

तत्र तं वारुणं छत्रं छायया राजसन्निधौ । 0148ab
भेजे वरस्रजा राजकन्यका चामृतप्रभा ॥ 0148cd

तेन तस्य निमित्तेन वृद्धिमागामिनीम् जनाः । 0149ab
अजानन्नम्बुवाहस्य पाश्चात्येनेव वायुना ॥ 0149cd

राज्ञा हि नरकेणैतद्वरुणादुष्णवारणम् । 0150ab
आनीतमकरोच्छायां न विना चक्रवर्तिनम् ॥ 0150cd

तमन्तिकं पितुः प्राप्तं पत्न्या लक्ष्म्या च संश्रितम् । 0151ab
भुवा निमन्त्रयामासुर्मन्त्रिणो वंशयोग्यया ॥ 0151cd

अथार्यराजो विज्ञाय स्वराज्यं भेदजर्जरम् । 0152ab
प्रतिचक्रे न शक्तोपि तस्थौ तु त्यक्तुमुत्सुकः ॥ 0152cd

अचिन्तयच्च सत्यं मे सम्प्रीतो भूतभावनः । 0153ab
सिद्धिविघ्नानभून्दीर्घानपाकर्तुं समुद्यतः ॥ 0153cd

कृत्ये बहुनि निष्पाद्ये श्रमात्कौसीद्ययाश्रयन्5354 । 0154ab
प्रावृषीवाध्वगो दिष्ट्या मोहितोस्मि न निद्रवा ॥ 0154cd

स्वकाले55 त्यजता लक्ष्मीं विरक्तां56 बन्धकीमिव । 0155ab
हठनिर्वासनव्रीडा दिष्ट्या नासादिता मया ॥ 0155cd

[page 22]

विश्वास-प्रस्तुतिः

शैलूषस्येव मे राज्यरङ्गेस्मिन्वल्गतश्चिरम् । 0156ab
निर्व्यूढमपि57 वैरस्यं दिष्ट्या न प्रेक्षका गताः ॥ 0156cd

दिष्ट्या सदैव वैमुख्यनुच्चैरुद्घोषयञ्श्रियः । 0157ab
त्यागक्षणे न भीतोस्मि विकत्थन इवाहवे ॥ 0157cd

इति सञ्चिन्तयन्नन्तः सर्वत्यागोन्मुखो नृपः । 0158ab
मनोराज्यानि कुर्वाणो दरिद्र इव पिप्रिये ॥ 0158cd

अन्येद्युः प्रकृतीः सर्वाः सन्निपत्य सभान्तरे । 0159ab
ताभ्यः प्रत्यर्पयन्न्यासमिव राज्यं सुरक्षितम् ॥ 0159cd

उज्झितं स्वेच्छया तच्च58 प्रयत्नेनापि नाशकत् । 0160ab
तं स्वीकारयितुं कश्चित्फणीन्द्रमिव कञ्चुकम् ॥ 0160cd

अर्चालिङ्गमुपादाaय सोथ प्रायादुदङ्मुखः । 0161ab
धौतवासा निरुष्णीषः पद्भ्यामेव प्रजेश्वरः ॥ 0161cd

तस्य पादार्पितदृशो व्रजतो मौनिनः प्रभोः । 0162ab
पन्थानं जगृहुः पौरा निःशब्दस्रवदस्रवः ॥ 0162cd

स विलङ्घितगव्यूतिरुपविश्य तरोरधः । 0163ab
जनमेकैकमुद्बाष्पं न्यवर्तयत सान्त्वयन् ॥ 0163cd

पथि शिखरिनां मूले विलम्ब्य जहज्जनान्मितपरिकरो गच्छन्नूर्ध्वं क्रमात्समदृश्यत । 0164ab
गहनवसुधाः सम्पूर्योच्चैर्व्रजन्स निजात्पदान्नद इव विनिर्यातः स्तोकैः कृतानुगमो59 जलैः ॥ 0164cd

निःशेषं निकटात्स लोकमटवीमध्ये निरुन्धन्पदं60 शोकावेशसबाष्पगद्गदपदं सम्मान्य चोत्सार्य च । 0165ab
भूजत्वक्परिरोधमर्मरमरुन्निद्राणसिद्धाध्वगश्रेणीमौलिमणिप्रभोज्ज्वलगुहागेहं61616263 जगाहे वनम् ॥ 0165cd

अथ वनसरसीतटद्रुमाधः पुटकघटोदरसम्भृताम्बुपूराम् । 0166ab
वसतिमकृत वासरावसाने शुचितरुपल्लवकल्पितोच्चतल्पाम् ॥ 0166cd

शृङ्गासक्तसितातपाः शवलितच्छायाभुवः शाद्वलैरुत्फुल्लामलमल्लिकातलमिलत्सुप्तव्रजस्त्रीजनाः64 । 0167ab
सध्वाना वनपालवेणुरणितोन्मिश्रैः65 प्रपाताम्बुभिः श्रान्तं दृक्पथमागतास्तमनयन्निद्रामदूराद्रयः66 ॥ 0167cd

वनकरिरसितैः67 पदे पदे स प्रतिभटताम् पतहध्वनेर्दधानैः । 0168ab
अमनुत रटितैश्च कर्करेटोः परिगलितां गमनोन्मुखस्त्रियामाम् ॥ 0168cd

अन्येद्युर्विधिवदुपास्य पूर्वसन्ध्यामासन्ने नलिनसरस्यपास्तनिद्रः । 0169ab
क्ष्मापालः परिचितसोदराम्बुतीर्थं नन्दीशाध्युषितमवाप भूतभर्तुः ॥ 0169cd

नन्दिक्षेत्रे त्रिभुवनगुरोः सोग्रतस्तत्र यावत्तस्थौ तावत्स्वयमभिमतावाप्तये68 जायते स्म । 0170ab
भस्मस्मेरः सुघटितजटाजूतबन्धोक्षसूत्री रुद्राक्षाङ्को जरढमुनिभिः सस्पृहं वीक्ष्यमाणः ॥ 0170cd

भ्राम्यञ्श्रीकन्ठदत्तव्रतजनितमहासन्क्रियो[^0171-1] भैक्षहेतोर्भिक्षादानोद्यतासु प्रतिमुनिनिलयं सम्भ्रमात्तापसीषु । 0171ab वृक्षैर्भिक्षाकपाले शुचिफलकुसुमश्रेणिभिः पूर्यमाणे मान्यो वैराग्ययोगेप्यनुपनतपरप्रार्थनालाघवोभूत्[^0171-2][^0171-3] ॥ 0171cd6॥ 171 ॥ आदितः ॥ग्रं 543 ॥

इति श्रीकाश्मीरिकमहामात्यश्रीचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां द्वितीयस्तरङ्गः ॥ शतद्वये वत्सराणामष्टभिः परिवर्जिते । अस्मिन्द्वितीये व्याख्याताः षट्प्रख्यातगुणा नृपाः ॥

[page 23]

  1. Thus corr. by A3 from A1 ॰गोशृङ्गा॰. ↩︎ ↩︎

  2. Thus corr. by A3 from A1 प्रतिगृह्यतः. ↩︎ ↩︎

  3. A4 gloss अभ्यस्ता. ↩︎ ↩︎

  4. A2 gloss जितेन्द्रियाणां. ↩︎ ↩︎

  5. A2 gloss दुगज्यन्. ↩︎ ↩︎

  6. A3 स इति भ्रमम॰; R G follow this reading and write ॰दित्यः. ↩︎ ↩︎

  7. A2 विसंवादक॰. ↩︎ ↩︎

  8. A2 gloss कैय्. ↩︎ ↩︎

  9. A3 ॰तपोल्बणे. ↩︎ ↩︎

  10. Thus A3 also R G; A1 ॰कवेः. ↩︎ ↩︎

  11. A3 gloss देवैः कृतत्वाद्देवानां सम्बन्धिनी दैवी. ↩︎ ↩︎

  12. Thus A1; altered by A3 into प्रकारो. ↩︎ ↩︎

  13. A1 लोकोऽलक्ष्मी॰. ↩︎ ↩︎

  14. Thus corr. by A3 from A2 सु॰. ↩︎ ↩︎

  15. A3 हिमसम्पातदुर्लक्षक्षि॰. ↩︎ ↩︎

  16. A2 gloss नीडं. ↩︎ ↩︎

  17. A3 संस्तुतैरेषा॰, with gloss एषां श्रूरमतिमदादीनाम् निह्नुतगुनाः ये शूराद्या अत्र अस्मिन्नेव देशे वसन्ति देशान्तरं न गच्छन्ति ते कालेन मोहिताः. ↩︎ ↩︎

  18. A3 ते. ↩︎ ↩︎

  19. Thus corr. by A3 from A1 ॰शङ्कं. ↩︎ ↩︎

  20. A3 देव्या. ↩︎ ↩︎

  21. A3 पतन्. ↩︎ ↩︎

  22. A2 gloss कैमोह. ↩︎ ↩︎

  23. A3 gloss रोमाह्. ↩︎ ↩︎

  24. Thus A1; A3 योग्यतात्तत्; G योग्यताचात्, explained by योग्यतयात्तो गृहीतः and subsequently corrected into योग्यता तु. ↩︎ ↩︎

  25. G आलोल॰. ↩︎ ↩︎

  26. Thus corr. by A3 from A1 ॰स्त्री॰. ↩︎ ↩︎

  27. A2 gloss पुत्तलिकाम्. ↩︎ ↩︎

  28. A3 ॰दात्तो. ↩︎ ↩︎

  29. A3 कोपात्तम्. ↩︎ ↩︎

  30. Thus corr. by A2 from A1 नवम॰; A2 had explained in margin the original reading by a note which has been struck out: राज्यं सन्धिमतो (sic) भावीत्यश्रुतापि सरस्वती एव नवमन्दिरं पप्रथे सन्धिमतेर्वराकस्य विषमपूर्ववृत्त्यपरिपोषकरूपत्वान्नवमन्दिररूपं तन्नात्र श्रुतवाक् श्रवणमभूदित्यर्थः येन च तदुपरि राजातीव क्रूरश्रेष्ठोभूदिति भावः. ↩︎ ↩︎

  31. Thus corr. by A2 from A1 सद्भूत॰. ↩︎ ↩︎

  32. Thus corr. by A3 from A1 व्यधात्. ↩︎ ↩︎

  33. Thus corr. by later hand from A1 ॰र्थस्य बुधाः. ↩︎ ↩︎

  34. Another hand alters this to ॰स्थितेः. ↩︎ ↩︎

  35. A2 ॰समापूर्णमु॰ with gloss शिरः over मुण्ड. ↩︎ ↩︎

  36. Thus A1; A3 पुनराज्यं. ↩︎ ↩︎

  37. Thus corr. by later hand from A1 ॰दृष्टार्थे. ↩︎ ↩︎

  38. A2 gloss चतुर्थ. ↩︎ ↩︎

  39. Thus corr. by later hand from A1 ॰पाशार्थे. ↩︎ ↩︎

  40. Thus corr. by A2 from A1 कार्थमे॰. ↩︎ ↩︎

  41. A3 gloss लाडना अन्तर्गता शलाका आण्टु इति भाषया. ↩︎ ↩︎

  42. A3 ॰डमरुघोष्यैश्च. ↩︎ ↩︎

  43. A2 gloss तमोरिः त्राव् इति भाषया. ↩︎ ↩︎

  44. The aksharas श्वरं supplied by A3 in space left by A1. ↩︎ ↩︎

  45. A2 gloss ईशाभ्राडू इति प्रसिद्धस्थले. ↩︎ ↩︎

  46. A3 ॰विशेषतः. ↩︎ ↩︎

  47. Thus A3; A1 प्राज्यः. ↩︎ ↩︎

  48. Thus corr. by later hand from A1 काश्मीर॰. ↩︎ ↩︎

  49. Thus corr. by later hand from A1 चूडाध्या॰. ↩︎ ↩︎

  50. Thus corr. by A1 from ॰त्याख्यः. ↩︎ ↩︎

  51. Thus A3; A1 वसन्नपास्तसा॰. ↩︎ ↩︎

  52. A3 युवा. ↩︎ ↩︎

  53. A2 glosses आलस्यम् and —- न कर्म कौसीद्यं. ↩︎ ↩︎

  54. Thus corr. by A3 from A1 ॰श्रयम्. ↩︎ ↩︎

  55. Thus A1; A3 स्वकुले. ↩︎ ↩︎

  56. Thus corr. by A3 from A1 सरक्ताम्. ↩︎ ↩︎

  57. Thus A1; the v. l. of A2 निर्व्यूढावपि has been struck out again; G R निर्व्यूढमपि. ↩︎ ↩︎

  58. Thus corr. by later hand from A1 तं च. ↩︎ ↩︎

  59. Thus corr. by A3 from A1 स्तोकानुगमो. ↩︎ ↩︎

  60. Thus A3; A1 निरुद्ध्यत्पदं. ↩︎ ↩︎

  61. Thus corr. by later hand from A1 भूर्जत्वत्प॰. ↩︎ ↩︎ ↩︎ ↩︎

  62. The akshara लि supplied by A3 in space left by A1. ↩︎ ↩︎

  63. The gloss भोमजोवो written by A4 at the foot og the page, probably refers to this word. ↩︎ ↩︎

  64. Thus corr. by A2 from A1 शाद्वलैरुल्लासल॰; the latter reading repeated in margin by A3. ↩︎ ↩︎

  65. Thus G sec manu and P; A R C ॰पालरेणु॰. ↩︎ ↩︎

  66. A3 gloss पर्वताः. ↩︎ ↩︎

  67. A3 वनहरि॰. ↩︎ ↩︎

  68. A1 यावत्तावत्; supplemented as above by A2. ↩︎ ↩︎