॥प्रथमस्तरङ्गः ॥
ओं स्वस्ति ॥ श्रीगणेशाय नमः ॥
विश्वास-प्रस्तुतिः
भूषाभोगिफणारत्नरोचिःसिचयचारवे12 । 0001ab
नमः प्रलीनमुक्ताय हरकल्पमहीरुहे3 ॥ 0001cd
विश्वास-प्रस्तुतिः
भालं वह्निशिखाङ्कितं4 दधदधिश्रोत्रं5 वहन्सम्भृतक्रीडत्कुण्डलिजृम्भितं6 जलधिजच्छायाच्छकण्टच्छविः7 । 0002ab
वक्षो बिभ्रदहीनकञ्चुकचितं8 बद्धाङ्गनार्धस्य वो भागः पुङ्गवलक्ष्मणोस्तु यशसे वामोथ वा दक्षिणः ॥ 0002cd
मूलम्

वन्द्यः कोपि सुधास्यन्दास्कन्दी स सुकवेर्गुणः । 0003ab
येनायाति9 यशःकायः स्थैर्यं स्व्सय परस्य च ॥ 0003cd

कोन्यः कालमतिक्रान्तं नेतुं प्रत्यक्षतां क्षमः । 0004ab
कविप्रजापतींस्त्यक्त्वा[^0004-1] रम्यनिर्माणशालिनः ॥ 0004cd

न पश्येत्सर्वसंवेद्यान्भावान्प्रतिभया यदि । 0005ab
तदन्यद्दिव्यदृष्टित्वे किमिव ज्ञापकं कवेः ॥ 0005cd

कथादैर्घ्यानुरोधेन वैचित्र्येप्यप्रपञ्चिते । 0006ab
तदत्र किञ्चिदस्त्येव वस्तु यत्प्रीतये सताम् ॥ 0006cd

श्लाघ्यः स एव गुणवान्नागद्वेषवहिष्कृता । 0007ab
भूतार्थकथने यस्य स्थेयस्येव10 सरस्वती ॥ 0007cd

पूर्वैर्बद्धं कथावस्तु मयि भूयो निबध्नामि । 0008ab
प्रयोजनमाकर्ण्य वैमुख्यं नोचितं सताम् ॥ 0008cd

दृष्टं दृष्टं नृपोदन्तं बद्ध्वा प्रमयमीयुषाम् । 0009ab
अर्वाक्कालभवैर्वार्ता यत्प्रबन्धेषु पूर्यते ॥ 0009cd

दाक्ष्यं कियदिदं तस्मादस्मिन्भूतार्थवर्णने । 0010ab
सर्वप्रकारं स्खलिते योजनाय ममोद्यमः ॥ युगलकम् ॥ 0010cd

विस्तीर्णाः प्रथमे ग्रन्थाः स्मृत्यै सङ्क्षिपतो वचः । 0011ab
सुव्रतस्य प्रबन्धेन छिन्ना राजकथाश्रयाः ॥ 0011cd

या प्रथामगमन्नैति सापि वाच्यप्रकाशने । 0012ab
पाटवं दुष्टवैदुष्यतीव्रा सुव्रतभारती ॥ 0012cd

केनाप्यनवधानेन कविकर्माणि सत्यपि । 0013ab
अंशोपि नास्ति निर्दोषः क्षेमेन्द्रास्य नृपावलौ ॥ 0013cd

दृग्गोचरं पूर्वसूरिग्रन्था राजकथाश्रयाः । 0014ab
मम त्वेकादश गता मतं नीलमुनेरपि ॥ 0014cd

दृष्टैश्च पूर्वभूभर्तृप्रतिष्ठावस्तुशासनैः । 0015ab
प्रशस्तिपट्टैः शास्त्रैश्च शान्तोशेषभ्रमक्लमः ॥ 0015cd

द्वापञ्चाशतमाम्नायभ्रंशाद्यान्नास्मरन्नृपान्11 । 0016ab
तेभ्यो नीलमताद्दृष्टं गोनन्दादिचतुष्टयम् ॥ 0016cd

बद्धा द्वादशभिर्ग्रन्थसहस्रैः पार्थिवावलिः12 । 0017ab
प्राङ्महाव्रतिना येन13 हेलाराजद्विजन्मना14 ॥ 0017cd

<4>.
–1) The aksharas जाप effaced in A.
[page 1]
विश्वास-प्रस्तुतिः
तन्मतं पूर्वमिह15 दृष्ट्वाश्कादिपूर्वगान्16 । 0018ab
अष्टौ लवादीन्नृपतीन्स्वस्मिन्ग्रन्थे न्यदरशयत् ॥ युगलकम्॥ 0018cd

येप्यशोकाददयः पञ्च श्रीच्छविल्लाकरो17 ब्रवीत् । 0019ab
तान्द्वापञ्चाशतो मध्याच्छ्लोकस्तस्य तथा ह्ययम् ॥ 0019cd

आश्लोकादभिमन्योर्ये18 प्रोक्ताः पञ्च महीभुजः । 0020ab
ते द्वापञ्चाशतौ[^0020-3] मध्यादेव लब्धाः पुरातनैः ॥ 0020cd

इयं नृपाणामुल्लासे ह्रासे वा देशकालयोः । 0021ab
भैषज्यभूतसंवादिकथा युक्तोपयुज्यते ॥ 0021cd

सङ्क्रान्तप्राक्तनानन्तव्यवहारः सुचेतसः19 । 0022ab
कस्येदृशो न सन्दर्भि यदि वा हृदयङ्गमः ॥ 0022cd

क्षणभङ्गिनि जन्तूनां स्फुरिते परिचिन्तिते । 0023ab
मूर्धाभिषेकः शान्तस्य रसस्यात्र विचार्यताम् ॥ 0023cd

तदमन्दरसस्यन्दसुन्दरेयं निपीयताम् । 0024ab
श्रोत्रशुक्तिपुटैः स्पष्टमङ्ग राजतरङ्गिणी ॥ 0024cd

पुरा सतीसरः कल्पारम्भात्प्रभृति भूरभूत् । 0025ab
कुक्षौ हिमाद्रेरणोभिः पूर्णा मन्वन्तराणि षट् ॥ 0025cd

अथ वैवस्वतीयेस्मिन्प्राप्ते मन्वन्तरे सुरान् । 0026ab
द्रुहिणोपेन्द्ररुदादीनवतार्य प्रजासृजा ॥ 0026cd

कश्यपेन तदन्तःस्थं घातयित्वा जलोद्भवम् । 0027ab
निर्ममे तत्सरो भूमौ कश्मीरा इति मण्डलम् ॥ युगलकम् ॥ 0027cd

उद्दद्वैतस्तनिःष्यन्तदण्डकुण्डातपत्रिणा20 । 0028ab
यत्सर्वनागाधीशेन नीलेन21 परिपाल्यते ॥ 0028cd

गुहोन्मुखी नागमुखापीतभूतिपया रुचिम् । 0029ab
गौरी यत्र वितस्तात्वं याताप्युज्झति नोचिताम्22 ॥ 0029cd

शङ्खपद्ममुखैर्नागैर्नानारत्नावभासिभिः । 0030ab
नगरं धनदस्येव निधिभिर्यन्निषेव्यते ॥ 0030cd

यत्तार्क्ष्यभीत्या प्राप्तानां नागानां गुप्तये ध्रुवम् । 0031ab
प्रसारितभुजं पृष्ठे शैलप्राकारलीलया ॥ 0031cd

भुक्तिमुक्तिफलप्राप्तिः काष्ठरूपमुमापतिम्23 । 0032ab
पापसूदनतीर्थान्तर्यत्र संस्पृशतां भवेत् ॥ 0032cd

सन्ध्यादेवी24 जलं यस्मिन्धत्ते25 निःसलिले गिरौ26 । 0033ab
दर्शनं पुण्यपापानामन्वयव्यतिरेकयोः ॥ 0033cd

स्वयम्भूर्यत्र27 हुतभुग्भुवो28 गर्भात्समुन्मिषन् । 0034ab
जह्नतां प्रतिगृह्णाति ज्वालाभुजवनैर्हविः ॥ 0034cd

देवी भेडगिरेः[^0035-1] शृङ्गे गङ्गोद्भेदशुचौ स्वयम् । 0035ab
सरोन्तर्दृश्यते यत्र हंसरूपा[^0035-2] सरस्वती ॥ 0035cd

नन्दिक्षेत्रे29 हरावासप्रासादे द्युचरार्पिताः । 0036ab
अद्यापि यत्र व्यज्यन्ते पूजाचन्दनबिन्दवः ॥ 0036cd

आलोक्य शारदां30 देवीं यत्र सम्प्राप्यते क्षणात् । 0037ab
तरङ्गिणी मधुमती वाणी च कविसेविता ॥ 0037cd

[page 2]
विश्वास-प्रस्तुतिः
चक्रभृद्विजयेशादिकेशवेशानभूषिते31 । 0038ab
तिलांशोपि न यत्रास्ति पृथ्व्यास्तीर्थैर्वहिष्कृतः ॥ 0038cd

विजीयते पुण्यबलैर्बलैर्यत्तु32 न शस्त्रिणाम् । 0039ab
परलोकात्ततो भीतिर्यस्मिन्निवसतां परम् ॥ 0039cd

सोष्मस्नानगृहाः शीते स्वस्थतीरास्पदा33 रये । 0040ab
यादोविरहिता यत्र निम्नगा निरुपद्रवाः ॥ 0040cd

असन्तापार्हतां34 जानन्यत्र पित्रा35 विनिर्मिते । 0041ab
गौरवादिव तिग्मांशुर्धत्ते ग्रीष्मेप्यतीव्रताम् ॥ 0041cd

विद्यावेश्मानि तुङ्गानि कुङ्कुमं सहिमं पयः । 0042ab
द्राक्षेति36 यत्र सामान्यमस्ति त्रिदिवदुर्लभम् ॥ 0042cd

त्रिलोक्यां रत्नभूः37 श्लाघ्या तस्यां धनपतेर्हरित् । 0043ab
तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम् ॥ 0043cd

तत्र कौरवकौन्तेयसमकालभवान्कलौ । 0044ab
आ गोनन्दात्स्मरन्ति38 स्म न द्वापञ्चाशतं नृपान् ॥ 0044cd

तस्मिन्काले ध्रुवं तेषां कुकृतैः39 काश्यपीभुजाम्40 । 0045ab
कर्तारः कीर्तिकायस्य नाभूवन्कविवेधसः ॥ 0045cd

भुजवनतरुच्छायां41 येषां निषेव्य महौजसां जलधिरशना मेदिन्यासीदसावकुतोभया । 0046ab
स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ॥ 0046cd

येप्यासान्निभकुम्भशायितपदा42 येपि श्रियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । 0047ab
तांल्लोकोयमवैति लोकतिलकान्स्वप्नेप्यजातानिव43 भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विवा ॥ 0047cd

अष्टषष्ट्यधिकामब्दशतद्वाविंशतिं44 नृपाः । 0048ab
अपीपलंस्ते कश्मीरान्गोनन्दाद्याः45 कलौ युगे ॥ 0048cd

भारतं[^0049-1] द्वापरान्तेभूद्वार्तयेति विमोदिताः । 0049ab
केचिदेतां[^0049-2] मृषा तेषां कालसङ्ख्यां प्रचक्रिरे ॥ युग्मम्॥ 0049cd

लब्धाधिपत्यसङ्ख्यानां वर्षान्सङ्ख्याय भूभुजाम् । 0050ab
भुक्तात्कालात्कलेः शेषो नास्त्येवं तद्विवर्जितान् ॥ 0050cd

शतेषु षट्सु सार्धेषु त्र्यधिकेषु च भूतले । 0051ab
कलेर्गतेषु वर्षाणामभून्कुरुपाण्डवाः ॥ 0051cd

लौकिकेब्दे चतुर्विंशे शककालस्य साम्प्रतम्46 । 0052ab
सप्तत्यभ्यधिकं यातं सहस्रं परिवत्सराः ॥ 0052cd

प्रायस्तृतीयगोनन्दादारभ्य शरदां तदा47 । 0053ab
द्वे सहस्रे गते त्रिंशदधिकं च शतत्रयम् ॥ 0053cd

वर्षाणाम् द्वादशशती षष्टिः षड्भिश्च संयुता । 0054ab
भूभुजां कालसङ्ख्यायां तद्द्वापञ्चाशतो मता ॥ 0054cd

ऋक्षादृक्षं शतेनाब्दैर्यात्सु चित्रशिखण्डिषु । 0055ab
तच्चारे[^0055-1] संहिताकारैरेवं दत्तात्र निर्णयः । 0055cd

55
–1) A1 उच्चारे; corrected by A3 into तच्चारे and explained by marginal gloss तेषां चारे. (The mistake of A1 is due to the resemblance of Sharada त and उ).
[page 3]
विश्वास-प्रस्तुतिः
आसन्मघासु48 मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ । 0056ab
षड्द्विकपञ्चद्वियुतः शककालस्तस्य राज्यस्य ॥ 0056cd

कश्मीरेन्द्रः स गोनन्दो वेल्लद्गङ्गादुगूलया । 0057ab
दिशा कैलासहासिन्या प्रतापी पर्युपास्यत ॥ 0057cd

विहाय देहं शेषाहेर्विषाश्लेषभयादिव । 0058ab
भूर्गारुत्मतरत्नाङ्के भेजे तस्य भुजे स्थितिम् ॥ 0058cd

साहायकार्थामाहूतो जरासन्धेन बन्धुना । 0059ab
स संरुदोध कंसारेर्मथुरां पृथुभिर्बलैः ॥ 0059cd

तेनोपकूलं कालिन्द्याः स्कन्दावारं निबन्ध्नता । 0060ab
यादवीहसितैः49 सार्धं योधानां मालितं यशः ॥ 0060cd

एकदा सर्वतो भग्नाः स्वसेनास्त्रातुमुद्यतः । 0061ab
तं संरुरोध योद्धारं सङ्गरे लाङ्गलध्वजः ॥ 0061cd

तयोस्तुल्यौजसोर्युद्धे चिराय करवर्तिनी । 0062ab
मम्लौ विजयसन्देहे किं यजस्रग्जयश्रियः50 ॥ 0062cd

अथ शस्त्रक्षतैरङ्गैरालिलिङ्ग रणाङ्गने । 0063ab
भुवं काश्मीरिको51 राजा यादवस्तु जयश्रियम् ॥ 0063cd

गतिं प्रवीरसुलभां तस्मिन्सुक्षत्रिये गते । 0064ab
श्रीमान्दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥ 0064cd

भोगयोगोर्जितं राज्यं प्राप्तवानपि भूपतिः । 0065ab
ध्यायन्पितृवधं मानी नोपलेभे स निर्वृतिम् ॥ 0065cd

अथोपसिन्धु गान्धारैह् सज्जे कन्यास्वयंवरे । 0066ab
निमन्त्र्य शुश्रावानीतान्वृष्णीन्दर्पोष्णदोर्द्रुमः52 ॥ 0066cd

ततस्तस्यातिसंरम्भात्तानदूरस्थितान्प्रति । 0067ab
यात्राभूद्ध्वजिनीवाजिरेणुग्रस्तनभस्तला ॥ 0067cd

तदाहवे विवाहोत्का निघ्नति53 स्म पर्तिंवरा । 0068ab
आसीत्तु द्युपुरन्ध्रीणां गान्धारेषु स्वयंवरः ॥ 0068cd

तदाक्रान्तासुहृच्चक्रः54 स चक्रायुधसङ्गरे55 । 0069ab
चक्रधाराध्वना धीरश्चक्रवर्ती दिवं ययौ ॥ 0069cd

अन्तर्वत्नीं तस्य पत्नीं तदा यदुकुलोद्वहः । 0070ab
राज्ये यशोवतीं56 नाम द्विजैः कृष्नोभ्यषेचयत् ॥ 0070cd

तस्मिन्काले स्वसचिवान्सासूयान्विन्यवीवरत्5758 । 0071ab
इमं पौराणिकं श्लोकमुदीर्य मधुसूदनः ॥ 0071cd

कश्मीराः पार्वती59 तत्र राजा ज्ञेयो हरांशजः60 । 0072ab
नावज्ञेयः स दुष्टोपि विदुषा61 भूतिमिच्छता ॥ 0072cd

पुंसां निर्गौरवा भोज्ये इव याः स्त्रीजने दृशः । 0073ab
प्रजानां मातरं तास्तामपश्यन्देवतामिव ॥ 0073cd

अथ वैजनने मासि आ देवी62 दिव्यलक्षणम् । 0074ab
निर्दग्धस्यान्वयतरोरङ्कुरं सुषुवे सुतम् ॥ 0074cd

तस्य राज्याभिषेकादिविधिभिः सह सम्भृताः । 0075ab
द्विजेन्द्रैर्निरवर्त्यन्त जातकर्मादिकाः क्रियाः ॥ 0075cd

स नरेन्द्रश्रिया सार्धं लब्धवान् बालभूपतिः । 0076ab
नाम गोनन्द इत्येवं नप्ता पितामहं क्रमात् ॥ 0076cd

आस्तां बालस्य सन्नद्धे द्वे धात्र्यौ तस्य वृद्धये । 0077ab
एका63 पयःप्रस्रविणी64 सर्वसम्पत्प्रसूः परा65 ॥ 0077cd

[page 4]
विश्वास-प्रस्तुतिः
तस्यावन्ध्यप्रसादत्वं रक्षन्तः पितृमन्त्रिणः । 0078ab
पार्श्वगेभ्यो ददुर्वित्तमनिमित्तस्मितेष्वपि ॥ 0078cd

अबुद्ध्वाननुतिष्ठन्तस्तस्याव्यक्तम्ं66 शिशोर्वचः । 0079ab
कृतागसमिवात्मानममन्यन्ताधिकारिणः67 ॥ 0079cd

पितुः सिंहासनं तेन क्रामता बालभूभुजा । 0080ab
नोत्कण्टा पादपीठस्य लम्बमानाङ्घ्रिणा हृता ॥ 0080cd

तं चामरमरुल्लोलकाकपक्षं नृपासने । 0081ab
विधाय मन्त्रिणोशृण्वन्प्रजानां धर्मसंशयम् ॥ 0081cd

इति काश्मीरिको राजा वर्तमानः स शैशवे । 0082ab
साहायकाय समरे न निन्ये कुरुपाण्दवैः ॥ 0082cd

आम्नायभङ्गात्रिर्नष्टनामकृत्यास्ततः परम् । 0083ab
पञ्चत्रिंशन्महीपाला68 मग्ना विस्मृतिसागरे ॥ 0083cd

अथाभवल्लवो नाम भूपालो भूमिभूषणम् । 0084ab
वेल्लद्यशोदुगूलायाः प्रीत्पात्रं जयश्रियः ॥ 0084cd

यस्य सेनानिनादेन जगदौन्निद्य्रादायिना । 0085ab
निन्यिरे वैरिणश्चित्रं दीर्घनिद्राविधेयताम् ॥ 0085cd

तेन षोडशाभिर्लक्षैर्विहीनामश्मवेश्मनाम् । 0086ab
कोटिं69 निष्पाद्य नगरं लोलोरं70 निरमीयत ॥ 0086cd

दत्त्वाग्रहारं लेदयी लेवारं द्विजपर्षदे । 0087ab
स द्यामनिन्द्यशौर्यश्रीरारुरोह महाभुजः ॥ 0087cd

कुशेशयाक्षस्तत्पुत्रः71 प्रतापकुशलः कुशः । 0088ab
कुरुहाराग्रहारस्य72 दाताभूत्तदनन्तरम् ॥ 0088cd

ततस्तस्य सुतः प्राप रिपुनागकुलान्तकः । 0089ab
धुर्यः शौर्याश्रयः श्रीमान्खगेन्द्रः पार्थिवेन्द्रताम् ॥ 0089cd

स खागिखोनमुषयोः कर्ता मुख्याग्रहारयोः । 0090ab
हरहाससितैः कृत्यैः क्रीतांल्लोकान्क्रमाद्ययौ ॥ 0090cd

अनर्घमहिमा दीर्घमघवत्तावहिष्कृतः । 0091ab
अथ साश्चर्यचर्योभूत्सुरेन्द्रस्तत्सुतो नृपः ॥ 0091cd

शतमन्युः शान्तमन्योर्गोत्रभिद्गोत्ररक्षिणः । 0092ab
लेभे यस्य73 सुरेन्द्रस्य सुरेन्द्रो नोपमानताम्74 ॥ 0092cd

दरद्देशान्तिके कृत्वा सोरकाख्यं स पत्तनम् । 0093ab
श्रीमान्विहारं विदधे नरेन्द्रभवनाभिधम् ॥ 0093cd

तेन स्वमण्डलेखण्डयशसा पुण्यकर्मणा । 0094ab
विहारः सुकृतोदारो निर्मितः सौरसाभिधः75 ॥ 0094cd

तस्मिन्निःसन्ततौ राज्ञि प्रशान्तेन्यकुलोद्भवः । 0095ab
बभार गोधरो नाम सभूधरवरां धराम् ॥ 0095cd

गोधराहस्तिशालाख्यमग्रहारमुदारधीः76 । 0096ab
स प्रदाय द्विजन्मभ्यः पुण्यकर्मा दिवं ययौ ॥ 0096cd

तस्य सूनुः सुवर्णाख्यस्तनोभूत्स्वर्णदोर्थिनाम् । 0097ab
सुवर्णमणिकुल्यायाः77 कराले78 यः प्रवर्तकः ॥ 0097cd

तत्सूनुर्जनको नाम प्रजानां जनकोपमः । 0098ab
विहारमग्रहारं च जालोराख्यं च निर्ममे ॥ 0098cd

शचीनरस्तस्य सूनुः क्षितिं क्षितिशचीपतिः । 0099ab
ततः श्रीमान्क्षमाशीलो ररक्षाक्षतशासनः ॥ 0099cd

राजाग्रहारयोः कर्ता79 शमाङ्गासाशनारयोः80 । 0100ab
सोभूदपुत्रः सुत्रामविष्टरार्धसमाश्रयी ॥ 0100cd

[page 5]
विश्वास-प्रस्तुतिः
प्रपौत्रः शकुनेस्तस्य भूपतेः प्रपितृव्यजः । 0101ab
अथावहदशोकाख्यः सत्यसन्धो वसुन्धराम् ॥ 0101cd

यः शान्तवृजिनो राजा प्रपन्नो जिनशासनम् । 0102ab
शुष्कलेत्रचितस्तात्रौ81 तस्तार स्तूपमण्डलैः82 ॥ 0102cd

धर्माण्यविहारान्तर्वितस्तात्रपुरेभवत्83 । 0103ab
यत्कृतं चैत्यमुत्सेधावधिप्राप्त्यक्षमेक्षणम् ॥ 0103cd

स षण्नव्त्या गेहानां लक्षैर्लक्ष्मीसमुज्ज्वलैः । 0104ab
गरीयसीं पुरीं श्रीमांश्चक्रे श्रीनगरीं नृपः ॥ 0104cd

जीर्णं श्रीविजयेशस्य निविवार्यव् सुधामयम्84 । 0105ab
निष्कल्मषेणाश्ममयः प्राकारो85 येन कारितः85 ॥ 0105cd

सभायां विजयेश्यस्य समीपे च विनिर्ममे । 0106ab
शान्तावसादः86 प्रासादावशोकेश्वरसञ्ज्ञितौ ॥ 0106cd

म्लेच्छैः सञ्च्छादिते देशे स तदुच्छित्तये नृपः । 0107ab
तपःसन्तोषिताल्लेभे भूतेशात्सुकृती सुतम् ॥ 0107cd

सोथ भूभृज्जलौकोभूद्भूलोकसुरनायकः87 । 0108ab
यो यशःसुधया88 शुद्धं व्यधाद्ब्रह्माण्डमण्डलम् ॥ 0108cd

यस्य दिव्यप्रभावस्य कथाः श्रुतिपथं गताः । 0109ab
आश्चर्याचार्यतां89 यान्ति नियतं90 द्युषदामपि91 ॥ 0109cd

कोटिवेधिनि9293 सिद्धे हि स रसे हाटकार्पणैः । 0110ab
आसीत्सुषिरतां94 हर्तुं95 हेमाण्डस्य96 ध्रुवं क्षमः ॥ 0110cd

संस्तम्भ्याम्भः प्रविष्टेन तेन नागसरोन्तरम् । 0111ab
तारुण्यं फणिकन्यानां निन्ये सम्भोगभव्यताम् ॥ 0111cd

तत्कालप्रबलप्रेद्धबौद्धवादिसमूहजित् । 0112ab
अवधूतोभवत्सिद्धस्तस्य ज्ञानोपदेशकृत् ॥ 0112cd

निजयेश्वरनन्दीशक्षेत्रज्येष्ठेशपूजने । 0113ab
तस्य सत्यगिरो राज्ञः प्रतिज्ञा सर्वदाभवत् ॥ 0113cd

ग्रामे ग्रामे स्थितैरश्वैर्धावनं प्रतिषिद्धवान् । 0114ab
स्वेनावहत्तं सततं नागः कोपि सुहृत्तया ॥ 0114cd

स रुद्धवसुधान्म्लेच्छात्रिर्वास्याखर्वविक्रमः । 0115ab
जिगाय जैत्रयात्राभिर्महीमर्णवमेखलात् ॥ 0115cd

ते यत्रोज्झटितास्तेन97 म्लेच्छाश्छादितमण्डलाः । 0116ab
स्थानमुज्झटडिम्बं तज्जनैरद्यापि गद्यते ॥ 0116cd

जित्वोर्वीं कन्यकुब्जाद्यां तत्रत्यं स98 न्यवेशयत् । 0117ab
चातुर्वर्ण्यं निजे देशे धर्म्यांश्च व्यवहारिणः ॥ 0117cd

यथावद्वृद्धिमप्राप्ते99 व्यवहारधनादिभिः । 0118ab
सामान्यदेशवद्राज्यं100 तावदस्मिन्हि मण्डले ॥ 0118cd

धर्माध्यक्षो धनाध्यक्षः कोशाध्यक्षभूपतिः । 0119ab
दूतः पुरोधा दैवज्ञः सप्त प्रकृतयोभवन् ॥ युगलकम्॥ 0119cd

कर्मस्थानानि धर्म्याणि तेनाष्टादश कुर्वता । 0120ab
ततःप्रभृति भूपेन कृता यौधिष्ठिरी स्थितिः ॥ 0120cd

स विक्रमप्रभावाभ्यां समुपार्जितया श्रिया । 0121ab
विदधे वारबालादीनग्रहारानुदग्रधीः[^0121-1] ॥ 0121cd

द्वारादिषु101 प्रदेशेषु प्रभावोग्राण्युदग्रया । 0122ab
ईशानदेव्या तत्पत्न्या मातृचक्राणि चक्रिरे ॥ 0122cd

[page 6]
विश्वास-प्रस्तुतिः
श्रुतनन्दिपुराणः स व्यासान्तेवासिनो नृपः । 0123ab
सेवनं सोदरादीनां नन्दीशस्पर्धया व्यधात् ॥ 0123cd

प्रतिष्ठां जेष्ठरुद्रस्य श्रीनगर्यां वितन्वता । 0124ab
तेन नन्दीशसंस्पर्धा न मेने सोदरं विना ॥ 0124cd

विस्मारितो नित्यकृत्यं कार्यव्यग्रतयैकदा । 0125ab
विदूरसोदरजलाप्लावनालाभदुर्मनाः ॥ 0125cd

अपश्यन्निर्जलात्स्थानादकस्मादुत्थितं पयः । 0126ab
स सोदराविसंवादि102 वर्णास्वादादिभिर्गुणैः ॥ युगलकम्॥ 0126cd

प्रादुर्भूते ततस्तस्मिंस्तीर्थे कृतनिमज्जनः । 0127ab
स नन्दिरुद्रस्पर्धायां मानी पर्याप्तिमासदत् ॥ 0127cd

तेन जातु103 परीक्षार्थं निक्षिप्तःञ् सोदरान्तरे । 0128ab
सपिधानाननः स्वर्णभृङ्गारः सुषिरोदरः ॥ 0128cd

दिनद्वयेन सार्धेन श्रीनगर्युद्भवाम्भसः । 0129ab
उन्मग्नः स महीभर्तुस्तस्य चिच्छेद संशयम् ॥ 0129cd

नूनं नदीश एवासौ भोक्तुं भोगानवातरत् । 0130ab
दृष्टादृष्टक्रियासिद्धिर्न भवेत्तादृगन्यथा ॥ 0130cd

राज्ञस्तस्य कदाचित्तु व्रजतो विजयेश्वरम् । 0131ab
ययाचे काचिदबला भोजनं मार्गमध्यगा ॥ 0131cd

यथेष्टमशनं104 दातुं ततोनेन प्रतिश्रुते । 0132ab
व्यवृणोद्विकृता भूत्वा सा नृमांसाश्रयां स्पृहाम् ॥ 0132cd

स सत्त्वहिंसाविरतस्तस्यै मांसं105 स्वविग्रहात् । 0133ab
अनुज्ञां प्रददौ भोक्तुं यदा सैवं तदाब्रवीत् ॥ 0133cd

बोधिसत्त्वोसि भूपाल कोप्ऽइ सत्त्वोर्जितव्रतः । 0134ab
कारुण्यं प्राणिषु दृढं यस्येदृक्ते महात्मनः ॥ 0134cd

बौद्धभाषामजानानो माहेश्वरतया नृपः । 0135ab
को बोधिसत्त्वो यं भद्रे मां वेत्सीति जगाद ताम् ॥ 0135cd

पुनर्बभाषे सा भूपं श्रोतव्यं मत्प्रयोजनम् । 0136ab
अहं ह्युत्थाaपिता बौद्धैः क्रोधाद्विप्रकृतैस्त्वया ॥ 0136cd

लोकालोकाद्रिपार्श्वस्थास्तामस्यः कृत्तिका वयम् । 0137ab
बोधिसत्त्वैकशरणः काङ्क्षन्त्यस्तमसः106 क्षयम् ॥ 0137cd

लोके भगवतो लोकनाथादारभ्य केचन । 0138ab
ये जन्तवो गतक्लेशा बोधिसत्त्वानवेहि तान् ॥ 0138cd

सागसेपि न कुप्यन्ति क्षमया107 चोपकुर्वते । 0139ab
बोधिं108 स्वस्यैव नेष्यन्ति109 ते विश्वधरणोद्यताः110 ॥ 0139cd

विहारतूर्यनिर्घोषैरुन्निद्रः प्रेरितः खलैः । 0140ab
पुरा भवान्व्यधात्क्रोधाद्विहारोद्दलनं यदा111 ॥ 0140cd

महाशाक्यः[^0141-1] स नृपतिर्न शक्यो बाधितुं त्वया । 0141ab
तस्मिन्दृष्टे तु कल्याणि भविता ते तमःक्षयः ॥ 0141cd

अस्मद्गिरा प्रेरणीयो विहारकरणाय सः112 । 0142ab
दत्त्वा स्वहेमसम्भारं त्वया मलिनितः113 खलैः ॥ 0142cd

तस्मिन्कृते न जायेत विहारच्छेदवैशसम् । 0143ab
तस्य114 तत्प्रेरकाणां च प्रायश्चित्तं कृतं भवेत् ॥ 0143cd

क्रुद्धैर्बौद्धैरनुध्याता त्वद्वधाय[^0144-2] प्रधाविता । 0144ab
अनुशिष्टा समाहूय बोधिसत्त्वैस्तदेत्यहम् ॥ कुलकम्॥ 0144cd

तस्मात्सत्त्वातिरेकस्ते115 मिषादेवं परीक्षितः । 0145ab
क्षीणपापाद्य संवृत्ता116 स्वस्ति ते साधयाम्यहम्[^0145-3] ॥ 0145cd

कृतप्रतिश्रवे राज्ञि विहारकृतये पुनः[^0146-1] । 0146ab
प्रहर्षोत्फुल्लनयना कृत्यादेवी तिरोदधे ॥ 0146cd

अथ कृत्याश्रमे कृत्वा विहारं वसुधाधिपः । 0147ab
तत्रैव क्षीणतमसं कृत्यादेवीमसन्धयत्[^0147-1] ॥ 0147cd

विधाय सोश्मप्रासादं117 नन्दिक्षेत्रे क्षमापतिः । 0148ab
भूतेशाय क्षमां118 कोशैः पूजां रत्नमयीं ददौ ॥ 0148cd

141
–1) Thus corr. by later hand from A1 ॰शक्यः; A3 gloss राज्ञः.
[page 7]
विश्वास-प्रस्तुतिः
चीरमोचनतीर्यान्तर्गणरात्रं तपस्यता । 0149ab
ब्रह्मासननिविष्टेन ध्याननिःस्पन्दमूर्तिना ॥ 0149cd

राज्ञा कनकवाहिन्यः सुचिरात्पुण्यकर्मणा । 0150ab
नन्दीशस्पर्शनोत्कण्ठा119 तेनानीयत कुण्ठताम्120 ॥ 0150cd

ह्लादोदयान्नृत्तगीतक्षणे नर्तितुमुत्थितम् । 0151ab
प्रददौ ज्येष्ठरुद्राय स्वावरोधवधूशतम्[^0151-1] ॥ 0151cd

भुक्त्वैश्वर्यं स पर्यन्ते प्रविष्टश्चीरमोचनम् । 0152ab
पत्न्या समं ययौ राजा सायुज्यं गिरिजापतेः ॥ 0152cd

अथाशोककुलोत्पन्नो यद्वान्याभिजनोद्भवः121 । 0153ab
भूमिं दामोदरो नाम जुगोप जगतीपतिः ॥ 0153cd

ऋद्ध्या जाज्वलितस्योच्चैर्माहेश्वरशिखामणेः । 0154ab
अद्यापि122 श्रूयते यस्य प्रभावो भुवनाद्भुतः ॥ 0154cd

हरप्रसादपात्रेण123 सच्चरित्रानुरागिणा । 0155ab
बबन्ध सुखिना सख्यं येन वैश्रवणः स्वयम् ॥ 0155cd

कुबेर इव यो राज्ञामग्र्यः स्वाज्ञाविधायिनः । 0156ab
आदिश्य गुह्यलान्दीर्घं गुद्दसेतुमबन्धयत् ॥ 0156cd

सूदे दामोदरीये124 यत्तस्यासीत्स्वकृतं पुरम् । 0157ab
सेतुना तेन तत्रैव्च्छत्कर्तुं सोम्भःप्रतारणम् ॥ 0157cd

हितं लोकोत्तरं किञ्चिच्चिकीर्षोरुन्नतात्मनः । 0158ab
रोहन्ति हा धिक्प्रत्यूहा मितपुण्यतया नृणाम् ॥ 0158cd

स हि कारयितुं यक्षैर्यतते स्म स्वमण्डले । 0159ab
दीर्घानश्ममयान्सेतूंस्तोयविप्लवशान्तये ॥ 0159cd

तपोविभूतयोचिन्त्या125 द्विजानामुग्रतेजसाम् । 0160ab
तादृशामपि126 ये कुर्युः प्रभावस्य विपर्ययम् ॥ 0160cd

दायादादिबलैर्नष्टा127 दृष्टा भूयः समुत्थिता । 0161ab
श्रीर्विप्रावज्ञया राज्ञामपुनःसम्भवा पुनः ॥ 0161cd

श्राधार्थमुत्थितः स्नातुं द्विजैः कैश्चिद्बुभुक्षितैः । 0162ab
प्राक्स्नानाद्भोजनं राजा स कदाचिदयाच्यत ॥ 0162cd

यियासुना वितस्तान्तर्यदा तेनावधीरितम् । 0163ab
तदा प्रभावात्ते128 तस्य तां धुनीमग्रतो129 व्यधुः130 ॥ 0163cd

सेयं वितस्ता दृष्ट्वैनां131 भोजयास्मान्स132 तैरिति । 0164ab
उक्तोपि मायाविहितामज्ञासीत्सरिदाहतिम्133 ॥ 0164cd

भोज्यं ददामि नास्नातो विप्राः सर्पत साम्प्रतम् । 0165ab
तेनेत्युक्तास्तमशपंस्ततः सर्पो भवेति ते134 ॥ 0165cd

अशेषमेकेनैवाह्ना श्रुत्वा रामायणं तव । 0166ab
शापस्य शान्तिर्भवितेत्यूचिरे ते135 प्रसादिताः ॥ 0166cd

स दामोदरसूदान्तर्धावन्दूरमुदन्यया136 । 0167ab
शापोष्णश्वासधूमेन137 जनैरद्यापि लक्ष्यते ॥ 0167cd

अथाभवन्स्वनामाङ्कपुरत्रयविधायिनः । 0168ab
हुष्कजुष्ककनिष्काख्यास्त्रयस्तत्रैव[^0168-1] पार्थिवाः ॥ 0168cd

स विहारस्य निर्माता जुष्को जुष्कपुरस्य[^0169-1] यः । 0169ab
जयस्वामिपुरस्यापि[^0169-1] शुद्धधीः संविधायकः ॥ 0169cd

ते तुरुष्कान्वयोद्भूता अपि पुण्याश्रया138 नृपाः । 0170ab
शुष्कलेवादिदेशेषु139 मटचैत्यादि139 चक्रिरे ॥ 0170cd

प्राज्ये राज्यक्षणे तेषां प्रायः कश्मीरमण्डलम् । 0171ab
भोज्यमास्ते स्म बौद्धानां प्रव्रज्योर्जिततेजसाम्140 ॥ 0171cd

तदा भगवतः शाक्यसिंहस्य परनिर्वृत्तेः । 0172ab
अस्मिन्महीलोकधातौ सार्धं वर्षशतं ह्यगात् ॥ 0172cd

बोधिसत्त्वश्च देशेस्मिन्नेको भूमीश्वरोभवत्141142 । 0173ab
स च नागार्जुनः श्रीमान्षडर्हद्वनसंश्रयी143 ॥ 0173cd

अथ निष्कण्टको राजा कण्टकोत्साग्रहारदः144 । 0174ab
अभीर्बभूवाभिमन्युः शतमन्युरिवापरः ॥ 0174cd

[page 8]
विश्वास-प्रस्तुतिः
स्वनामाङ्कं[^0175-1] शशाङ्काङ्कशेखरं[^0175-2] विरचय्य सः । 0175ab
परार्ध्यविभवं श्रीमानभिमन्युपुरं व्यधात् ॥ 0175cd

चन्द्राचार्यादिभिर्लब्ध्वा देशात्तस्मात्तदागमम्145 । 0176ab
प्रवर्तितं महाभाष्यं स्वं च व्याकरणं146 कृतम् ॥ 0176cd

तस्मिन्नवसरे बौद्धा देशे प्रबलतां ययुः । 0177ab
नागार्जुनेन सुधिना बोधिसत्त्वेन पालिताः ॥ 0177cd

ते वादिनः पराजित्य वादेन निखिलान्बुधान् । 0178ab
क्रियां नीलपुराणोक्तामच्छिन्दन्नागमद्विषः ॥ 0178cd

मण्डले विप्लुताचारे विच्छिन्नबलिकर्मभिः । 0179ab
नागैर्जनक्षयश्चक्रे प्रभूतहिमवर्षिभिः ॥ 0179cd

हिमान्यां बौद्धबाधाय पतन्त्यां प्रतिवत्सरम् । 0180ab
शीते दार्वाभिसारादौ147 षण्मासान्पार्थिवोवसत् ॥ 0180cd

तदा प्रभावः कोप्यासीद्बलिहोमविधायिनः[^0181-1] । 0181ab
नानश्यन्यद्वशाद्विप्रा बौद्धाश्च निधनं गताः ॥ 0181cd

नीलमुद्दिश्य देशस्य रक्षितारमहीश्वरम् । 0182ab
काश्यपश्चन्द्रदेवाख्यस्तपस्तेपे148 ततो द्विजः ॥ 0182cd

तस्य प्रत्यक्षतां यातो नीलस्तुहिनविप्लवम् । 0183ab
न्यवारयञ्जगादापि स्वपुराणविधिं पुनः ॥ 0183cd

आद्येन चन्द्रदेवेन शमितो यक्षवुप्लवः । 0184ab
द्वितीयेन तु देशेस्मिन्दुःसहो भिक्षुविप्लुवः149 ॥ 0184cd

राजा तृतीयो गोनन्दः प्राप्तो राज्ये150 तदन्तरे । 0185ab
यात्रायागादि151 नागानां प्रावर्तयत पूर्ववत् ॥ 0185cd

राज्ञा प्रवर्तिते तेन पुनर्नीलोदिते विधौ । 0186ab
भिक्षवो हिमदोषाश्च सर्वतः प्रशमं ययुः ॥ 0186cd

काले काले प्रजापुण्यैः सम्भवन्ति महीभुजः । 0187ab
यैर्मण्डलस्य क्रियते दूरोत्सन्नस्य योजनम् ॥ 0187cd

ये प्रजापीडनपरास्ते विनश्यन्ति सान्वयाः152 । 0188ab
नष्टं तु ये योजयेयुस्तेषां वंशानुगाः श्रियः ॥ 0188cd

इत्येतत्प्रतिवृत्तान्तं देशेस्मिन्वीक्ष्य153 लक्षणम् । 0189ab
भाविनां भूमिपालानां प्राज्ञैर्ज्ञेयं शुभाशुभम् ॥ 0189cd

नवीकृतवतो देशं तस्य[^0190-1] वंश्यैरियं मही । 0190ab
सिद्धैः प्रवरसेनाद्यैश्चिरं भुक्ता सुकर्मभिः ॥ 0190cd

गोनन्दान्वयिनामाद्यः स रघूनां रघुर्यथा । 0191ab
नृपतिः काश्यपीं वर्षान्पञ्चत्रिंशतिमन्वशात् ॥ 0191cd

वर्षषष्टिं सषण्मासैह् षड्भिर्वैषैर्विवर्जिताम् । 0192ab
विभीषणाभिधोरक्षत्क्षितिं गोनन्दनन्दनः ॥ 0192cd

इन्द्रजिद्रावणावास्तां पितापुत्रौ नृपौ क्रमात् । 0193ab
पञ्चत्रिंशत्सहार्धाश्च वर्षास्त्रिंशद्ययोर्ययुः ॥ 0193cd

बिन्दुरेखाच्छविर्यस्य दृष्ट्वा भाव्यर्थशंसिनी । 0194ab
स रावणस्य154 पूजार्थं155 लिङ्गं भाति वटेश्वरः ॥ 0194cd

चतुःशालामठस्यान्तःकृतायादायि भूभुजा । 0195ab
वटेश्वराय निखिलं तेन कश्मीरमण्डलम् ॥ 0195cd

पञ्चत्रिंशतमब्दानां क्षमां बुभोज महाभुजः । 0196ab
रावणक्षोणिभृत्सूनुः सार्धामन्यो विभीषणः ॥ 0196cd

किन्नरापरनामाथ किन्नरैर्गीतविक्रमः । 0197ab
विभीषणस्य पुत्रोभून्नरनाम नराधिपः ॥ 0197cd

सदाचारोपि स नृपः प्रजाभाग्यविपर्ययैः । 0198ab
व्यधाद्विषयदोषेण महानर्थपरम्पराम् ॥ 0198cd

विहारे निवसन्नेकः किन्नरग्रामवर्तिनि156 । 0199ab
तस्य योगबलात्कोपि श्रमणोपाहरत्प्रियाम्157 ॥ 0199cd

विहाराणां सहस्राणि तत्कोपान्निर्ददाह सः । 0200ab
अजिग्रहच्च तद्ग्रामान्द्विजैर्मध्यमठाश्रयैः ॥ 0200cd

ऋद्धापणं राजपथैर्नौयानोज्ज्वलनिम्नगम् । 0201ab
स्फीतपुष्पफलोद्यानं स्वर्गस्येवाभिधान्तरम् ॥ 0201cd

175
–1) A1 seems to have read ॰ङ्क; corr. as above by A3.
–2) A2 reads शशाङ्कार्ध॰.
<190>.
–1) A2 gloss गोनन्दस्य.
[page 9]
विश्वास-प्रस्तुतिः
दिग्जयोपार्जितैर्वित्तैर्जितवित्तेशपत्तनम्158 । 0202ab
वितस्तापुलिने तेन नगरं निरमीयत ॥ युगलकम्॥ 0202cd

तत्रैकस्मिन्किलोद्याने स्वच्छस्वादुजलाञ्चितम् । 0203ab
श्रासीत्सुश्रवसो नाम्नो नागस्य वसतिः सरः ॥ 0203cd

कदाचित्तस्य दूराध्वक्लान्ते मध्यन्दिने159 युवा । 0204ab
छायार्थी तत्सरःकच्छं विशाखाख्योविशद्विजः ॥ 0204cd

सच्छायपादपतले समीरैः शमितक्लमः । 0205ab
शनैर्जलमुपस्पृश्य160 भोक्तुं सक्तून्प्रचक्रमे ॥ 0205cd

तान्पाणौ गृह्णतैवाथ तेन तीरविहारिभिः । 0206ab
पूर्वमाकर्णितो हंसैः शुश्रुवे नूपुरध्वनिः ॥ 0206cd

निर्गते161 मञ्जरीकुञ्जादपश्यत्पुरतस्ततः । 0207ab
कन्ये नीलनिचोलिन्यौ स केचिच्चारुलोचने ॥ 0207cd

कर्णिकापद्मरागाब्जनाललीलायितस्पृशा162 । 0208ab
मनोज्ञधवलापङ्गे तनीयोञ्जनरेखया ॥ 0208cd

हारिनेत्राञ्चलैर्मन्दमारुतान्दोलनाकुलैः163 । 0209ab
सनाथांसयुगे रूपपताकापल्लवैरिव ॥ तिलकम्॥ 0209cd

ते शशाङ्कानने दृष्ट्वा शनैरभ्यर्णमागते । 0210ab
विररामाशनारम्भान्मुहुर्व्रीडाजडीकृतः ॥ 0210cd

भुञ्जाने कच्छगुच्छानां164 शिम्बीरम्बुजलोचने165 । 0211ab
ते पुनर्दृष्टवानग्रे किञ्चिद्व्यापारितेक्षणः ॥ 0211cd

आकृतेर्हा धिगीदृश्या भोज्यमेतदिति द्विजः । 0212ab
ध्यायन्कृपार्द्रः सम्मान्य स166 ते सक्तूनभोजयत् ॥ 0212cd

उपनिन्ये167 शुचितां प्राप्ते पुटकैश्चटसीकृतैः167 । 0213ab
तयोः पानाय पानीयं सरसः स्वच्छशीतलम्168 ॥ 0213cd

आचान्ते169 शुचितां प्राप्ते कृतासनपरिग्रहे । 0214ab
ततश्च वीजयन्पर्णतालवृन्तैरभाषत ॥ 0214cd

भवत्यौ पूर्वसुकृतैः कैश्चित्सम्प्राप्तदर्शनः । 0215ab
चापलाद्विप्रसुलभात्प्रष्टुमिच्छत्ययं जनः ॥ 0215cd

कल्याणिनीभ्यां कतमा पुण्या जातिः परिष्कृता । 0216ab
कुत्र वा क्लान्तमेतादृग्विरसं येन भुज्यते ॥ 0216cd

एका170 तमूचे विद्ध्यावामस्य सुश्रवसः सुते । 0217ab
स्वादुभोक्तव्यमप्राप्तं[^0217-2] किमीदृग्रोपभुज्यते ॥ 0217cd

पित्रा विद्याधरेन्द्राय प्रदातुं परिकल्पिता । 0218ab
इरावत्यहमेषा च चन्द्रलेखा यवीयसी ॥ 0218cd

पुनर्द्विजोभ्यधादेवं नैष्किञ्चन्यं किमस्ति वः । 0219ab
ताभ्यामवादि तातोत्र हेतुं वेत्ति स पृच्छ्यताम् ॥ 0219cd

ज्यैष्ठेत्र171 कृष्णद्वादश्यां यात्रायै तक्षकस्य तम् । 0220ab
आगतं चूडया172 तोयस्यन्दिन्या ज्ञास्यसि ध्रुवम् ॥ 0220cd

द्रक्ष्यस्यावामपि तदा तदभ्यर्णकृतस्थिती । 0221ab
इत्युक्त्वा फणिकन्ये ते क्षणादास्तां तिरोहिते ॥ 0221cd

क्रमात्प्रववृते सोथ नटचारणसङ्कुलः । 0222ab
प्रेक्षिलोकसमाकीर्णस्तत्र173 यात्रामहोत्सवः ॥ 0222cd

द्विजोपि कौतुकाकृष्टः पर्यटन्रङ्गमञ्जसा । 0223ab
कन्योक्तचिह्नज्ञातस्य नागस्यान्तिकमाययौ ॥ 0223cd

पार्श्वस्थिताभ्यां कन्याभ्यां पूर्वमावेदितोथ174 सः । 0224ab
द्विजन्मने व्याजहार स्वागतं नागनायकः ॥ 0224cd

ततः कथान्तरे क्वापि पृष्टः कारणमापदाम् । 0225ab
जगाद तं द्विजन्मानं निःश्वस्य श्वसनाशनः175 ॥ 0225cd

अभिमानवतां ब्रह्मन्युक्तायुक्तविवेकिनाम् । 0226ab
युज्यतेवश्यभोग्यानां दुःखानामप्रकाशनम् ॥ 0226cd

परदुःखं समाकर्ण्य176 स्वभावसुजनो जनः । 0227ab
उपकारासमर्थत्वात्प्राप्नोति हृदयव्यथाम् ॥ 0227cd

[page 10]
विश्वास-प्रस्तुतिः
वृत्तिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर्व्यक्तं निन्दति योग्यतां मितमतिः177 कुर्वन्स्तुतीरात्मनः178 । 0228ab
गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं श्रुत्वा दुःखमरुन्तुदा वितनुते पीडां जनः179 प्राकृतः ॥ 0228cd

अत एव विवेक्तॄणां यावदायुः स्वमानसे । 0229ab
जीर्णानि सुखदुःखानि दहत्यन्ते चितानलः ॥ 0229cd

कः स्वभावगभीराणां लक्षयेद्बहिरापदम् । 0230ab
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ 0230cd

नदस्मिन्नेतयोर्बाल्याद्वस्तुनि व्यक्तिमागते । 0231ab
तवाग्रे गोपनं साधो न ममाप्युपपद्यते ॥ 0231cd

त्वयाप्यस्मद्धितार्थाय180 निसर्गसरलात्मना । 0232ab
ईषत्प्रयासः कल्याणिन्क्रियतां यदि शक्यते ॥ 0232cd

योयं तरुतले मुण्डश्चूडालो दृश्यते व्रती । 0233ab
अमुना सस्यपालेन कान्दिशीकाः कृता वयम् ॥ 0233cd

अभुक्ते मान्त्रिकैरन्ने नवे181 नागैर्न भुज्यते । 0234ab
अयं नात्ति च तत्तेन समयेन हता वयम् ॥ 0234cd

क्षेत्राणि रक्षत्येतस्मिन्दृष्ट्वापि फलसम्पदम् । 0235ab
भोक्तुं नैव समर्थाः स्मः प्रेता इव सरिज्जलम् ॥ 0235cd

तथा कुरु यथा भ्रश्येत्समयादेष नैष्ष्टिकः । 0236ab
योग्यां प्रतिक्रियां विद्मो वयमप्युपकर्तृषु ॥ 0236cd

स तथेति ततो नागमुक्त्वा यत्नपरो द्विजः । 0237ab
अचिन्तयद्दिवारात्रं182 सस्यपालस्य वञ्चनाम् ॥ 0237cd

गूढं तस्य बहिःक्षेत्रकुटीगर्मकृतस्थितेः । 0238ab
पच्यमानान्नभाण्डान्तर्नवान्नं न्याक्षिपत्ततः183 ॥ 0238cd

भुञ्जान एव तत्तस्मिन्क्षणादेव जहार सः । 0239ab
अहीन्द्रः करकासारवर्षी स्फीतां फलश्रियम् ॥ 0239cd

तं च व्युत्क्रान्तदारिद्र्यः सरसोभ्यर्णमागतम् । 0240ab
कृतोपकारमन्येद्युर्निजोर्वीमनयद्द्विजम् ॥ 0240cd

स तत्र पितुरादेशात्कन्याभ्यां विहितार्हणः । 0241ab
अमर्त्यसुलभैर्भोगैरतोष्यत दिने दिने ॥ 0241cd

कालेन सर्वानामन्त्र्य स्वां भुजं गन्तुमुद्यतः । 0242ab
प्रतिश्रुतवरं नागं चन्द्रलेखामयाचय ॥ 0242cd

सम्बन्धायोग्यमपि तं कृतज्ञत्ववशंवदः । 0243ab
संविभेजे स भुजगः कन्यया च धनेन च ॥ 0243cd

एवं नागवरावाप्तश्रियस्तस्य द्विजन्मनः । 0244ab
महान्नरपुरे कालस्तैस्तैर्नित्योत्सवैर्ययौ ॥ 0244cd

भुजगेन्द्रतनूजापि तं पतिं पतिदेवता । 0245ab
अतोषयत्परार्ध्यश्रीः शीलाचारादिभिर्गुणैः ॥ 0245cd

तस्यां कदाचित्सौधाग्रस्थितायां प्राङ्गनाद्बहिः । 0246ab
आतपायोज्झितं धान्यं बुभुजे विहरन्हयः ॥ 0246cd

तं वारयितुमाहूता भृत्या नासन्गृहे यदा । 0247ab
शिञ्जानमञ्जुमञ्जीरा सा तदावातरत्स्वयम् ॥ 0247cd

एकहस्तधृतावेगस्रस्तशीर्षाशुकान्तया । 0248ab
तया पाणिसरोजेन धावित्वा सोथ ताडितः ॥ 0248cd

भोज्यमुत्सृज्य यातस्य फणिस्त्रीस्पर्शतस्ततः । 0249ab
सौवर्णी पाणिमुद्राङ्गे184 तुरगस्योदपद्यत ॥ 0249cd

तस्मिन्काले नरो राजा चारैस्तां चारुलोचनाम् । 0250ab
श्रुत्वा द्विजवधूं तस्थौ प्रागेवाङ्कुरितस्मरः ॥ 0250cd

तस्य धावन्तमुन्मत्तमन्तःकरणवारणम् । 0251ab
बलान्नियमितुं नासीदपवादभयाङ्कुशः ॥ 0251cd

तस्मिन्नुद्वृत्तरागाग्निविप्लवे भूपतेः पुनः । 0252ab
उवाह हयवृत्तान्तो दृप्तवातानुकारिताम् ॥ 0252cd

चक्रे पर्यस्तमर्यादः सरलाङ्गुलिशोभिना । 0253ab
स काञ्चनकराङ्केन शशाङ्केनेव वारिधिः ॥ 0253cd

व्रीडानिगडनिर्मुक्तो दूतैराकूतशंसिभिः । 0254ab
तामुपच्छन्दयन्सोथ सुन्दरीमुदवेजयत् । 0254cd

सर्वोपायैरासाध्यां च विप्रस्तत्पतिरप्यसौ । 0255ab
तेनायाच्यत लुब्धेन रागान्धानां कुतस्त्रपा ॥ 0255cd

[page 11]
विश्वास-प्रस्तुतिः
अथ निर्भर्त्सानां तस्मादपि185 प्राप्तवतासकृत् । 0256ab
हठेन हर्तुम् तां186 राज्ञा समादिश्यन्त सैनिकाः ॥ 0256cd

तैर्गृहाग्रे कृतास्कन्दो निर्गत्यान्येन वर्त्मना । 0257ab
त्राणार्थी नागभवनं सजानिः प्राविशद्द्विजः ॥ 0257cd

ताभ्यामभ्येत्य वृत्तान्ते ततस्तस्मिन्निविदिते । 0258ab
क्रोधान्धः सरसस्तस्मादुज्जगाम फणीश्वरः ॥ 0258cd

उद्गर्जज्जिह्मजीमूतजनितध्वान्तसन्ततिः । 0259ab
स घोराशनिवर्षेण ददाह सपुरं नृपम् ॥ 0259cd

दग्धप्राण्यङ्गविगलद्वसासृक्स्नेहवाहिनी । 0260ab
मयूरचन्द्रकाङ्केव वितस्ता समपद्यत ॥ 0260cd

शरणाय प्रविष्टानां भयाच्चक्रधरान्तिकम् । 0261ab
मुहूर्तान्निरदह्यन्त सहस्राणि शरीरिणाम् ॥ 0261cd

मधुकटभयोर्मेदः प्रागूर्वोरिव चक्रिणम् । 0262ab
दग्धानां प्राणिनां तत्तत्तदा187 सर्वाङ्गमस्पृशत् ॥ 0262cd

स्वसा[^0263-1] सुश्रवसो नागी रमण्याख्याद्रिगह्वरात् । 0263ab
साहायकायाश्मराशीन्समादाय तदाययौ ॥ 0263cd

सा योजनाधिके शेषे मार्गस्यारात्सहोदरम्188 । 0264ab
कृतकार्यं निशम्याश्मवर्षं ग्रामेषु तज्जहौ ॥ 0264cd

योजनानि ततः पञ्च जाता ग्रामधरा खिला । 0265ab
सा रमण्याटवीत्यद्याप्यस्ति189190 स्थूलशिलाबिला ॥ 0265cd

घोरं[^0266-1] जनक्षयं कृत्वा प्रातः सानुशयोप्यहिः । 0266ab
लोकापवादनिर्विण्णः स्थानमुत्सृज्य तद्ययौ ॥ 0266cd

दुग्धाब्धिधवलं तेन सरो दूरगिरौ कृतम् । 0267ab
अमरेश्वरयात्रायां191 जनैरद्यापि दृश्यते ॥ 0267cd

श्वशुरानुग्रहान्नागीभूतस्यापि द्विजन्मनः । 0268ab
जामातृसर इत्यन्यत्तत्र च प्रथितं सरः ॥ 0268cd

प्रजानां पालनव्याजान्निःशङ्कक्षयकारिणः192 । 0269ab
अकस्मादन्तकाः केचित्सम्भवन्ति193 तथाविधाः193 ॥ 0269cd

अद्यापि रागः कियान्नाम[^0270-2] दोषः स्वल्पदृशां मते । 0270ab
तत्तस्य तेन संवृत्तं यन्नाभूत्क्वापि कस्यचित् ॥ 0270cd

राज्ञां194 रागः कियान्नाम195 दोषः स्वल्पदृशां मते । 0271ab
तत्तस्य तेन संवृत्तं यन्नाभूत्क्वापि कस्यचित् ॥ 0271cd

सतीदैवतविप्राणामप्येकस्य प्रकोपतः । 0272ab
श्रुतो हि प्रतिवृत्तान्तं त्रैलोक्यस्यापि विप्लवः ॥ 0272cd

चत्वारिंशतमब्दान्स मासैश्चोनां त्रिभिः समाम् । 0273ab
भुवं भुक्त्वा क्षितिवृषा196 दुर्नयेन क्षयं ययौ ॥ 0273cd

अप्यल्पकालसन्दृष्टप्राकाराट्टालमण्डलम्197 । 0274ab
तत्किन्नरपुरं लेभे गन्धर्वनगरोपमाम् ॥ 0274cd

एकस्तु तनयस्तस्य वैचित्र्यात्कर्मणां गतेः । 0275ab
स्वधात्र्या विजयक्षेत्रं नीतः प्राणैर्न तत्यजे ॥ 0275cd

राजा सिद्धाभिधः सोथ तथा निःशेषितं जनम् । 0276ab
नवीचकार जलदो दावदग्धमिवाचलम् ॥ 0276cd

इति वृत्तं महाश्चर्यं तस्य पित्र्यं महामतेः । 0277ab
संसारासारताज्ञाने प्राप पुण्योपदेशताम् ॥ 0277cd

भोगयोगेन मालिन्यं नेतुं मध्यगतोपि सः । 0278ab
न शक्यते स्म पङ्केन प्रतिमेन्दुरिवामलः ॥ 0278cd

दर्पज्वरोष्णभूपालमध्ये निर्ध्यायतोनिशम् । 0279ab
सुधासूतिकलामौलिं तस्यैवोल्लाघतोद्ययौ ॥ 0279cd

गणितं गुणिना तेन मणींस्तृणमिवोज्झता । 0280ab
खण्डेन्दुमण्डनार्चायां मण्डनत्वमखण्डितम् ॥ 0280cd

राज्ञस्तस्यैव राजश्रीः परलोकानुगाभवत् । 0281ab
यस्ताaमयोजयद्धूर्तो धर्मेणाव्यभिचारिणा198 ॥ 0281cd

षष्टिमब्दान्प्रशास्योर्वीमासन्नानुचरान्वितः । 0282ab
आरुरोह सदेहोसौ लोकाञ्शशिशिखामणेः ॥ 0282cd

[page 12]
विश्वास-प्रस्तुतिः
भृत्या नरं समाश्रित्य प्रययुः शोचनीयताम् । 0283ab
तत्सुतं तु समालम्ब्य प्रभुं भुवनवन्द्यताम्199 ॥ 0283cd

यात्याश्रितः किल समाश्रयणीयलभ्यां निन्द्यां गतिं जगति सर्वजनार्चितां वा । 0284ab
गच्छत्यधस्तृणगुणः श्रितकूपयन्त्रः पुष्पाश्रयी सुरशिरोभुवि रूढिमेति ॥ 0284cd

सिद्धः सिद्धः सदेहोयमिति शब्दं सुरा दिवि । 0285ab
प्राघोषयंस्ताडयन्तः[^0285-1] पटहं सप्त वासरान् ॥ 0285cd

उत्पलाक्ष इति ख्यातिं पेशलाक्षतया200 गतः । 0286ab
तत्सूनुस्त्रिंशतं सार्धां वर्णाणामन्वशान्महीन् ॥ 0286cd

तस्य सूनुर्हिरण्याक्षः स्वनामाङ्कं201 पुरं व्यधात् । 0287ab
क्ष्मां सप्तत्रिंशतिं202 वर्षान्सप्त मासांश्च भुक्तवान् ॥ 0287cd

हिरण्यकुल इत्यस्य हिरण्योत्सकृदात्मजः । 0288ab
षष्टिं षष्टिं वसुकुलस्तत्सूनुरभवत्समाः ॥ 0288cd

अथ म्लेच्छगणाकीर्णे मण्डले चण्डचेष्टितः । 0289ab
तस्यात्मजोभून्मिहिरकुलः कालोपमो नृपः ॥ 0289cd

दक्षिणां सान्तकामाशां स्पर्धया जेतुमुद्यता । 0290ab
यन्मिषादुत्तरहरिद्वभारान्यमिवान्तिकम् ॥ 0290cd

सान्निध्यं यस्य हतप्राणिसहस्रपरिवारितः । 0291ab
अजानन्गृध्रकाकादीन्दृष्ट्वाग्रे धावन्तो जनाः ॥ 0291cd

दिवारात्रं हतप्राणिसहस्रपरिवारितः । 0292ab
योभूद्भूपालवेतालो विलासभवनेष्वपि ॥ 0292cd

बालेषु करुणा स्त्रीषु घृणा वृद्धेषु गौरवम् । 0293ab
न बभूव नृशंसस्य यस्य घोराकृतेर्घ्नतः ॥ 0293cd

स जातु देवीं संवीतसिंहलांशुककञ्चुकाम्203 । 0294ab
हैमपादाङ्कितकुचां दृष्ट्वा जज्वाल मन्युना ॥ 0294cd

सिंहलेषु नरेन्द्राङ्घ्रिमुद्राङ्कः क्रियते पटः । 0295ab
इति क्ञ्चुकिना पृष्टेनोक्तो यात्रामदात्ततः ॥ 0295cd

तत्सेनाकुम्भदानाम्भोनिम्नगाकृतसङ्गमः । 0296ab
यमुनालिङ्गनप्रीतिं प्रपेदे दक्षिणार्णवः ॥ 0296cd

स सिंहलेन्द्रेण समं संरम्भादुदपाटयत् । 0297ab
चिरेण चरणस्पृष्टप्रियालोकनजां रुषम्204 ॥ 0297cd

दूरात्तत्सैन्यमालोक्य लङ्कासौधैर्निशाचराः । 0298ab
भूयोपि राघवोद्योगमाशङ्क्य प्रचकम्पिरे ॥ 0298cd

स तत्रान्यं नृपं दत्त्वा तीव्रशक्तिरुपाहरत्205 । 0299ab
पटं यमुषदेवाख्यं मार्ताण्डप्रतिमाङ्कितम् ॥ 0299cd

व्यावृत्य चोलकर्णाटलाटादींश्च नरेश्वरान् । 0300ab
सिन्धुरानिव गन्धेभो गन्धेनैव व्यदारयत् ॥ 0300cd

तस्मिन्प्रयाते प्राप्तेभ्यः शशंसुस्तत्पराभवम् । 0301ab
नगर्यो नरनाथेभ्यस्त्रुट्यदट्टालमेखलाः ॥ 0301cd

काश्मीरं द्वारमासाद्य206 श्वभ्रभ्रष्टस्य दन्तिनः । 0302ab
श्रुत्वा स त्रासजं घोषं तोषरोमाञ्चितोभवत् ॥ 0302cd

तदाकर्णनसंरम्भे सहर्षोथ विरुद्धधीः । 0303ab
शतमन्यद्गजेन्द्राणां हठेन निरलोटयत् । 0303cd

स्पर्शोङ्गानि यथा वाचं कीर्तनं पापिनां तथा । 0304ab
सन्दूषयेदतो नोक्ता तस्यान्यापि नृशंसता । 0304cd

को वेत्त्यद्भुतचेष्टानां207 कृत्यं प्राकृतचेतसाम् । 0305ab
धर्मं सुकृतसम्प्राप्तिहेतोः सोपि यदाददे ॥ 0305cd

श्रीनगर्यां हि दुर्बुद्धिर्विदधे मिहिरेश्वरम् । 0306ab
होलडायां[^0306-1] स मिहिरपुराख्यं पृथुपत्तनम् ॥ 0306cd

अग्रहाराञ्जगृहिरे गान्धारा ब्राह्मणास्ततः । 0307ab
समानशीलास्तस्यैव ध्रुवं तेपि द्विजाधमाः ॥ 0307cd

306
–1) Emended; होलाळायां. Cf. vii 1228. viii.733. 1432(C.). 2909(C.). 3216(C.).
[page 13]
विश्वास-प्रस्तुतिः
मेघागमः208 फणिभुजं प्रथितान्धकारः प्रीणाति हंसममलो जलदात्ययश्च । 0308ab
प्रीतेः समानरुचितैव भवेन्नितान्तं209 दातुः प्रतिग्रहकृतश्च210 परस्परस्य ॥ 0308cd

स वर्षसप्ततिं भुक्त्वा भुवं भूलोकभैरवः । 0309ab
भूरिरोगार्दितवपुः प्राविशज्जातवेदसम् ॥ 0309cd

सोयं विकोटिहा मुक्तो यः स्वात्मन्यपि निर्घृणः । 0310ab
देहत्यागेस्य गगनादुच्चारेति भारती ॥ 0310cd

इत्यूचुर्ये मते तेषां स एव परिहारदः । 0311ab
खण्डयन्वीतघृणतामग्रहारादिकर्मभिः ॥ 0311cd

आक्रान्ते दारदैर्भौट्टैर्म्लेच्छैरशुचिकर्मभिः । 0312ab
विनष्टधर्मे देशेस्मिन्पुण्याचारप्रवर्तनम् ॥ 0312cd

आर्यदेश्यान्स संस्थाप्य व्यतनोद्दारुणं तपः । 0313ab
सङ्कल्प्य स्ववपुर्दाहं प्रायश्चित्तक्रियां व्यधात् ॥ 0313cd

अत एवाग्रहाराणां सहस्रं प्रयपादयत् । 0314ab
गान्धारदेशजातेभ्यो द्विजेभ्यो विजयेश्वरे ॥ 0314cd

क्षुरखड्गासिधेन्वादिपूर्णेयःफलके तदा । 0315ab
वह्निप्रदीप्ते सहसा पर्यन्ते स्वां तनुं जहौ ॥ 0315cd

इत्येतस्मिञ्जनाम्नाये केचिदव्यभिचारिणि । 0316ab
प्राहुः पुरुषसिंहस्य क्रौर्यं तस्याविगर्हितम् ॥ कुलकम् ॥ 0316cd

ये नागेन रुषा प्लुष्टे नगरे प्राभवन्खशाः । 0317ab
तेषां नाशाय वृत्तान्तं पूर्वोक्तं जगदुः परे ॥ 0317cd

अवतारयतस्तस्य चन्द्रकुल्याभिधां नदीम् । 0318ab
अशक्योन्मूलना मध्ये शिलाभूद्विघ्नकारिणी ॥ 0318cd

ततः कृततपाः स्वप्ने देवैरुक्तः स भूपतिः । 0319ab
यक्षः शिलायां बलवान्ब्रह्मचार्यत्र तिष्ठति ॥ 0319cd

साध्वी स्पृशति चेदेनां निरोद्धुं न स211 शक्नुयात् । 0320ab
ततोपरेद्युः स्वप्नोक्तं शिलायां तेन कारितम् ॥ 0320cd

तासु तासु कुलस्त्रीषु व्यर्थयत्नास्वथाचलत् । 0321ab
चन्द्रवत्याख्यया स्पृष्टा कुलाल्या सा महाशिला ॥ 0321cd

कोटित्रयं नरपतिः क्रुद्धस्तेनागसा ततः । 0322ab
सपतिभ्रातृपुत्राणामवधीत्कुलयोiषितम् ॥ 0322cd

इयं नान्यमते ख्यातिः प्रथते तथ्यतः पुनः । 0323ab
अभव्या सनिमितापि प्राणिहिंसा गरीयसी ॥ 0323cd

एवं क्षुद्रोपि यद्राजा सम्भूय न हतो जनैः । 0324ab
तत्कर्म काaरयद्भिस्तद्दैवतैरेव रक्षितः ॥ 0324cd

प्रजापुण्योदयैस्तीव्रैश्चिरात्तस्मिन्क्षयं गते । 0325ab
बकस्तत्प्रभवः212 पौरैः सदाचारोभ्यषिच्यत ॥ 0325cd

तत्रापि पूर्वसंस्कारादुक्तत्रासं213 दधे जनः । 0326ab
श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ 0326cd

अतिसन्तापदाज्जातः स जनाह्लादकोभवत् । 0327ab
जलौघो जलदश्यामात्तपात्ययदिनादिव ॥ 0327cd

लोकान्तरादिवायातं मेने धर्मं तदा जनः । 0328ab
अभयं च परावृत्तं प्रवासाद्गहनादिव ॥ 0328cd

स बकेशं बकश्वभ्रे बकवत्यापगां तथा । 0329ab
कृत्वा पुरं परार्ध्यश्रीर्लवणोत्साभिधं व्यधात् ॥ 0329cd

तत्र त्रिषष्टिर्वर्षाणां सत्रयोदशवासरा । 0330ab
अत्यवाह्यत भूपेन तेन पृथ्वीं प्रशासता ॥ 0330cd

अथ योगेश्वरी काचिद्भट्टाख्या रजनीमुखे । 0331ab
कृत्वा कान्ताकृतिं काम्यामुपतस्थे विशां पतिम् ॥ 0331cd

तया मनोहरैस्तैस्तैर्वचनैर्ग्लपितस्मृतिः[^0332-1] । 0332ab
स योगोत्सवमाहात्म्यं द्रष्टुं हृष्टो न्यमन्त्र्यत ॥ 0332cd

पुत्रपौत्रतोपेतः प्रातस्तत्र ततो गतः । 0333ab
चक्रवर्ती तया निन्ये देवीचक्रोपहारताम् ॥ 0333cd

कर्मणा तेन सिद्धाया व्योमाक्रमणसूचकम् । 0334ab
जानुमुद्राद्वयं तस्या दृशद्यद्यापि दृश्यते ॥ 0334cd

332Thus corr. by A2 from A1 ॰हरैस्तैतैर्व॰.
[page 14]
विश्वास-प्रस्तुतिः
देवः शतकपालेशो मातृचक्रं शिला च सा । 0335ab
खेरीमठेषु तद्वार्तास्मृतिमद्यापि यच्छति ॥ 0335cd

देव्या कुलतरोः कन्दः क्षितिनन्दोवशेषितः । 0336ab
ततस्तस्य सुतस्त्रिंशद्वत्सरानन्वशान्महीम् ॥ 0336cd

द्वापञ्चाशतमब्दान्क्ष्मां द्वौ च मासौ तदात्मजः । 0337ab
अपासीद्वसुनन्दाख्यः प्रख्यातस्मरशास्त्रकृत् ॥ 0337cd

नरः षष्टिं तस्य सूनुस्तावतोक्षश्च तत्सुतः । 0338ab
वर्षानभूद्विभुर्ग्रामं योक्षवालमकारयत् ॥ 0338cd

जुगोप गोपादियोथ क्ष्मां सद्वीपां तदात्मजः । 0339ab
वर्णाश्रमप्रत्यवेक्षादर्शितादियुगोदयः214 ॥ 0339cd

सखोलखागिकाहाडिग्रामस्कन्दपुराभिधान्215216 । 0340ab
शमाङ्गासमुखांश्चाग्रहारान्यः215 प्रत्यपादयत् ॥ 0340cd

ज्येष्ठेश्वरं प्रतिष्ठाप्य गोपाद्रावार्यदेशजाः217 । 0341ab
गोपाग्रहारान्कृतिना येन स्वीकारिता द्विजाः ॥ 0341cd

भूक्षीरवाटिकायां218 यो निर्वास्य लशुनाशिनः । 0342ab
खासटायां219 व्यधाद्विप्रान्निजाचारविवर्जितान्220 ॥ 0342cd

अन्यांश्चानीय देशेभ्यः पुण्येभ्यो वश्चिकादिषु221 । 0343ab
पावनानग्रहारेषु ब्राह्मणान्स न्यरोपयत् ॥ 0343cd

उत्तमो लोकपालोयमिति लक्ष्म प्रशस्तिषु । 0344ab
यः प्राप्तवान्विना यज्ञं चक्षमे न पशुक्षयम् ॥ 0344cd

सषड्दिनां222 वर्षषष्टिं पालयित्वा स मेदिनीम् । 0345ab
भोक्तुं पुण्यपरीपाकं लोकान्सुकृतिनामगात् ॥ 0345cd

गोकर्णस्तत्सुतः क्षोणीं गोकर्णेश्वरकृद्दधे । 0346ab
अष्टपञ्चाशतं वर्षांस्त्रिंशत्याह्नां विवर्जितान् ॥ 0346cd

सूनुर्नरेन्द्रादित्योस्य खिङ्खिलान्याभिधोभवत् । 0347ab
भूतेश्वरप्रतिष्ठानामक्षयिण्याश्च223 कारकः[^0347-2] ॥ 0347cd

दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात् । 0348ab
उग्रेशं मातृचक्रं च प्रभावोदग्रविग्रहः ॥ 0348cd

भूत्वा षट्त्रिंशतं वर्षाञ्शतं चाह्नां विभुर्भुवः । 0349ab
स दीर्घैरनघांल्लोकानासदत्सुकृतैः कृती ॥ 0349cd

युधिष्ठिराभिधानोभूदथ राजा तदात्मजः । 0350ab
यः सूक्ष्माक्षतया[^0350-1] लोकैः कथितोन्धयुधिष्ठिरः ॥ 0350cd

तेन क्रमागतं राज्यं सावधानेन शासता । 0351ab
अनुजग्मे मितं कालं पूर्वभूपालपद्धतिः ॥ 0351cd

काले कियत्यपि ततो यात्यभाग्यशादसौ । 0352ab
सिषेवे श्रीमदक्षीवो यत्किञ्चनविधायिताम् ॥ 0352cd

नान्वग्रहीदनुग्राह्यान्न सञ्जग्राह धीमतः । 0353ab
न प्रवृत्तोपचाराणां प्रागिवासीत्प्रियङ्करः ॥ 0353cd

दुर्विद्यपर्षदा साकं निर्विशेषं सभाजितैः । 0354ab
परिजह्रे[^0354-1] स दुर्जातो जाततेजोवधैर्बुधैः ॥ 0354cd

सर्वत्र समदृष्टत्वं गुणोयं खलु योगिनः । 0355ab
अकीर्तिहेतुः स महान्दोषस्तु पृथिवीपतेः ॥ 0355cd

नयद्भिर्गुनतां दोषान्दोषतां च गुणान्विटैः । 0356ab
स लुप्तप्रतिभश्चक्रे शनकैः स्त्रीजितोपमः ॥ 0356cd

वाङ्मर्मच्छेदिनी दीर्घं नर्म शश्वत्कथा विटैः । 0357ab
अनीश्वरोचिता तस्य क्रीडापि भयदाभवत् ॥ 0357cd

पुरो मिथ्या गुणग्राही परोक्षं दोषदर्शकः । 0358ab
असुस्थिरादरो भूभृत्सोभूद्द्वेष्योनुजीविताम् । 0358cd

मनागनवधानेन स्खलतस्तस्य भूपतेः । 0359ab
इत्थं राज्यस्थितिरगादचिरेण विसूत्रताम् ॥ 0359cd

उपेक्षितस्य निर्द्रोहैरयतन्ताजितात्मनः[^0360-1] । 0360ab
अथ लब्धबलास्तस्य नाशाय द्रोहिमन्त्रिणः ॥ 0360cd

360
–1) A3 gloss मन्त्रिभिः.
[page 15]
विश्वास-प्रस्तुतिः
प्रभोः सङ्कोचिताज्ञैस्तैश्चरद्भिर्निरवग्रहम् । 0361ab
राज्यं जिहीर्षवो भूपाश्चक्रिरे भूम्यनन्तराः ॥ 0361cd

तदनुप्राणिताः सर्वे ते ते[^0362-1] नानादिगाश्रयाः । 0362ab
आसन्नाज्यामिषं प्राप्तुं श्येना इव ससम्भ्रमाः ॥ 0362cd

अथोत्पन्नभयो राजा न शशाक निजस्थितिम् । 0363ab
व्यवस्थापयितुं यन्त्रच्युतां[^0363-1] कारुः शिलामिव ॥ 0363cd

चिरं क्षुण्णे क्षमाभर्तुस्तस्मिन्राज्ये विसंस्थुले । 0364ab
उपायोस्य स्थितेर्हेतुर्नैकः कश्चन[^0364-1] पप्रथे ॥ 0364cd

वृष्टदोषान्स्थितिं प्राप्तो224 हन्यादस्मानसंशयम् । 0365ab
विचिन्त्येति न सामास्य जगृहुर्निजमन्त्रिणः ॥ 0365cd

अथ निरुरुधुस्ते सन्नद्धा बलैर्नृपमन्दिरं व्यवहितजनाक्रन्दं भेरीरवैरतिभैरवैः । 0366ab
मदकरिघटाकेतुच्छायानिरुद्धरविप्रभा भवनवलभीः सन्तन्वन्तो दिवापि तमोवृताः ॥ 0366cd

तैर्गन्तुं स्वभुवो निवारितरणैर्दत्तेवकाशे225 त्तस्त्यक्तश्रीर्नगरान्तरात्स नृपतिस्तात्पर्यतो निर्ययौ । 0367ab
आजानेयरजोङ्कराजललनाप्रस्थानसन्दर्शनक्षुभ्यत्पौरजनास्रुलाजकणिकाकीर्णेन राजाध्वना ॥ 0367cd

राज्याच्च्युतस्य बहुशः परिवाररामाकोशादि226 तस्य रिपवो व्रजतोपजह्रुः226 । 0368ab
उर्वीरुहो विगलितस्य227 नगेन्द्रशृगाद्वलीफलादि रभसादिव गण्डशैलाः । 0368cd

रम्यैः शैलपथैर्व्रजञ्श्रमवशाच्छायां श्रितः शाखिनामासीनप्रचलायितेन228 सुमहद्दुःखं चिसस्मार सः । 0369ab
दूरात्पामरपूत्कृतैः श्रुतिपथाप्राप्तैः प्रबुद्धस्त्वभूद्दृष्टो निर्झरवारिभिः सह मनःश्वभ्रे229 निमज्जन्निव ॥ 0369cd

नानावीरुत्तृणापरिमलैरुग्रगन्धा वनोर्वीरम्भःक्षोभप्रतिहतशिलाः पिच्छिलाश्चाद्रिकुल्याः । 0370ab
क्रान्त्वा श्रान्तैर्विसकिसलयच्छायमुग्धाङ्गलेखैरभ्युत्सङ्गं230 निहिततनुभिर्मूर्च्छितं तस्य दारैः ॥ 0370cd

पर्यन्ताद्रितटाद्विलोक्य231 सुचिरं दूरीभवन्मण्डलं द्रागामन्त्रयितुं जहत्सु232 नृपतेर्दारेषु पुष्पाञ्चलीन् । 0371ab
क्षोणीपृष्ठविकीर्णपक्षतिनमत्तुण्डं स्वनीडस्थितैः सावेगं गिरिकन्दरासु पततां वृन्दैरपि क्रन्दितम् ॥ 0371cd

स्तनयुगतलनद्धस्रस्तमूर्धाशुकानां त्रिकवलनविलोलं वीक्ष्य दूरात्स्वदेशम् । 0372ab
अवहत रुदतीनाम् मौलिविन्यस्तहस्तं पथि नृपवनितानामस्रुभिर्निर्झराम्भः233234 ॥ 0372cd

प्रीतिस्थैर्यैरुचितवचनाक्षिप्तया शोकशान्त्या निर्व्याजाज्ञाग्रहणग्रुभिस्तैश्च तैश्चोपचारैः । 0373ab
तस्य स्नेहादुपगतवतो राज्यविभ्रंशदुःखं मन्दीचक्रुः स्वभुवि सुजना भूपतेर्भूमिपालाः ॥ 0373cd

इति235 काश्मीरिकमहामात्यश्रीचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां प्रथमस्तरङ्गः ॥ चतुर्दशाधिकं236 वर्षसहस्रं नव वासराः । मासाश्च विगता ह्यस्मिन्नेकविंशतिराजसु237 ॥
362
–1) A1 had written च after ते ते; struck out. A3 तदनुप्राणिता वैरिनृपा नाना॰.
363
–1) A2 gloss यन्द्रवट् इति सेनायां युद्धादौ प्रसिद्धम्.
364
–1) Thus corr. by A3 from A1 कस्य न.
[page 16]
-
The akshara गिफ written at the end of the first line in A1 have been destroyed in binding; G and Edd. read as above; R भूषाहीनफणा॰, afterwards corrected as above. ↩︎ ↩︎
-
हर being effaced at the end of the second line, has been supplemented by A4. ↩︎ ↩︎
-
These three aksharas being faintly visible in the handwriting of A1 have been repeated by A4. ↩︎ ↩︎
-
Thus corrected by A1 or later hand from येन; G and R येना॰. ↩︎ ↩︎
-
Thus corrected by A2 from A1 ॰स्रैर्या नृपावलिः; पार्थिवावलिः also in G R. ↩︎ ↩︎
-
To this word, marrked by brackets in A, seems to refer a much effaced gloss or varia lectio written by A2 or A3 in the margin, looking like कङ्का(?). ↩︎ ↩︎
-
The akshara ला written at the beginning of a line has become unrcadable; हेलाराजद्वि repeated in margin by A4. ↩︎ ↩︎
-
पूर्व of A1 has been struck out and पद्म written above by A2; पद्म also in G R, ↩︎ ↩︎
-
Thus A1: some of the letters having become faint, A4(?) has written in margin पूर्वजान्; A4 adds the gloss अशोकादीनां पूर्वजान्. ↩︎ ↩︎
-
च्छ corrected by A1; original reading, smeared over, perhaps श. ↩︎ ↩︎
-
सु of A1 corrected by a later hand into स; G R read सु. ↩︎ ↩︎
-
A2 gloss in margin M विरीविषयस्थितेन नीलनागेन विरीनाग इति प्रसिद्धेन; A4 interlinear gloss विरनागस्थितेन. ↩︎ ↩︎
-
The following gloss has been written in margin by A2 in red ink and partly retraced by the same hand in black ink. Words shown in brackets, having now become illegible in A3 have been restored from copy in R: गुनोह्मुखी कु[मारसम्मुखी कन्दराभि]मुखी च नागमुखापीतभूरिपयाः [नागमुखेन गजवदनेन आपीतं भूरि]पयः दुग्धं यस्याः सा । नागानां मुखेन आपीतं भूरि पयो यस्याः यया वा गौरी पार्वती वित[स्तात्वं] यातापि उचितां रुचिम् इच्छां नोज्झति न त्यजति स्वरु[चिं से॰ ॰]दिकां नात्य[जदि]त्यर्थः गौरीत्वोचितां रुचिं गुहोन्मु[खीत्या]दिकां चित[स्तात्वे]पि न त्यजति त[त्रा]पि तत्करण ॰ ॰ ॰ ॰. ↩︎ ↩︎
-
A2 adds between the lines the gloss कपटेश्वरे and in margin कैदिहिरग्रामे कोटहाडाख्यविषये. ↩︎ ↩︎
-
Thus A1; corrected by A1 into दत्ते which has been copied in G and R. ↩︎ ↩︎
-
A2 gloss क्रमरा[ज्ये] स्वैम् इति प्रसिद्धः; प्रसिद्धा. ↩︎ ↩︎
-
A2 marginal gloss श्रीशैले हरेल् इति प्रसिद्धे स्थाने दरदेशाभ्यर्णवर्तिनि. ↩︎ ↩︎
-
A2 gloss चक्रभृत् केशवः चक्रधर् इति प्रसिद्धः विजयेशः ईशानः विज्यभ्राडो इति प्रसिद्धः. ↩︎ ↩︎
-
Thus corrected by A3 from A1 मुख्य॰; G and R read पुण्य॰, the letter with the v. l. मोक्ष॰. ↩︎ ↩︎
-
A3 adds a gloss in margin which has partially become effaced; words in brackets supplemented from copy in R: [विद्या]दिकं द्रा[क्ष्यापर्य]न्तं इत्येत[द्र्व्यजातं त्रिदिवेपि] दुर्लभं [स]त् यत्र कश्मरीमण्डले सामान्यं साधारणमस्ति सर्वजनोपभोग्यं सुलभमिति यावत् विद्यादिकं अनुपमं अत्युत्कृष्टं यत्रैवास्ति त्रिदिवेपि दुर्लभत्वा[द]न्यत्र साधारणं नास्तीति व्याख्याकरणेन । यत्रासामान्यमिति पाठान्तरं यद्यपि सङ्गच्छत इव तथापि नैतत्समीचीनम् । छन्दोभङ्गापातात् अनुष्टुभि हि सर्वपादेषु पञ्चमा[क्षरस्य] लघुतयैव सर्वत्र दर्शनात् । यदुक्तं पञ्च[मं लघु सर्वत्र इत्यादि]. ↩︎ ↩︎
-
A1 had आनन्दात्; गो supplemented by A3; A2 adds a gloss in margin which has become partially effaced (words in brackets from R): आ गोनन्दात् तृतीयगोनन्दात् आ तृतीय[गो]नन्दं व[र्ज]यित्वा आदिगोनन्दमा[र]भ्य [अन्ये क]वयो न स्मर[न्ति स्म अस्माभि॰ ॰ ॰ ॰ ॰]. ↩︎ ↩︎
-
Thus A1; corrected by a later band into कुकृत्यैः which reading is found also into G and R. ↩︎ ↩︎
-
A has भुजतरुवन. with figures indicating transposition, written by an old hand; G and R read as above. ↩︎ ↩︎
-
A1 writes शरा above पदा; शरा smeared over by later hand. ↩︎ ↩︎
-
A2 marginal gloss त्रिपञ्चाशदधिके वर्षशतषट्के कलियुगस्य गते इत्यर्थः. ↩︎ ↩︎
-
See XIII.3. A2 marginal gloss रत्नकोशाख्ये ज्योतिर्ग्रन्थे एषा आर्या । यत्सारमानीय रत्नमाला विहिता श्रीपतिना. In A alater hand, not met with elsewhere, adds in margin a gloss which has faded in parts (words in brackets supplied from R): आसन्मघास्विति एकैकस्मिन्धिष्ण्ये शतं शतं चरन्ति वर्षाणामिति वचनात् तत्समये मघास्ववस्थानात्सप्तर्षीणां कश्मीरेष्वतिप्रसिद्धलौकिकसंवत्सरपरिज्ञानार्थमेतदुक्तमन्यमन्येपीहानीतम् । षट्द्विकेति तस्य राज्यस्य युधिष्ठिरीयराज्यस्य यः शककालः पूर्वोक्तः शतेषु षट्सु सार्धेष्वित्यादिकः त्रिपञ्चाशदधिकषसट्श[रूपः स] षट्द्विकपञ्चद्वियुतः 2526 एता[व]ता वर्षवृन्देन युतः गोगैकगुन[तुल्यो भवति 3179 अयं शककालो वर्तमानशककालो भवति इत्यध्याहारः] गणितव्यवहारार्थं लौकिकः शककालः शालिवारुनीयः भवति इत्यर्थः 3179 एतावत्परिमिते कलेर्गताब्दवृन्दे याते शालिवाहनोभूदित्यर्थः तदुक्तं ब्रह्मसिद्धान्ते । कल्पपरार्धं मनवः षट् तस्याब्दाश्चतु[र्युगं त्रि]घनम् त्रीणि कृतादीनि पुनर्गोगैकगु[णाः शक]नृपान्तेब्दा इति 60. ↩︎ ↩︎
-
A1 writes in place of the last three aksharas य…, A3 has filled up the lacuna with हसितैः, striking out य. ↩︎ ↩︎
-
Doutful. Thus A1; A3 reads vighnyate, also copied in R; G has विघ्नति. ↩︎ ↩︎
-
A3 has marginal gloss भूमिः below which यशोवती is written, perhaps, by the same hand. ↩︎ ↩︎
-
A3 adds the following notes in the margin: द्वापञ्चाशन्नृपमध्यात् अस्माकं पञ्चत्रिंशन्नृपा विस्मृताः अन्येषां तु द्वापञ्चाशति नृपाः । यत्पूर्वमुक्तं आगोनन्दात्स्मरन्ति स्म न द्वापञ्चाशतं नृपानिति ॥ and द्वापञ्चाशतो मध्यात्सप्तादश नृपा अस्माभिर्वर्णिताः । पञ्चत्रिंशन्नृपास्तु हस्तविषयं नप्राप्ताः । तत्र आदिगोनन्दादयः बालगोनन्दान्ताः चत्वारः पूर्वं वर्णिताः । लवनृपादारभ्य शचीनरान्ता अष्टौ वर्णिताः । ततः अथावहदशोकाख्य इत्यादिaन अशोकादारभ्य अभिमन्युपर्यन्तं पञ्च नृपा वर्णयिष्यते(sic) । एवं सप्तादश नृपा अन्यान्तरान्वीक्ष्य वर्णिताः । अवशिष्टाः पञ्चत्रिंशद्विस्तृता एव ॥ एवं सर्वे द्वापञ्चाशति नृपाः ॥. ↩︎ ↩︎
-
A gloss below this word has been smeared over with yellow paint; it appears to be लोव(Lolan ?). ↩︎ ↩︎
-
Thus corrected by A3 from A1 ॰शयाख्य॰; ॰याक्ष॰ also in G and R. ↩︎ ↩︎
-
An old gloss, apparently गल्लर्(?), has been smeared over with yellow paint; A4 adds कुलर्. ↩︎ ↩︎
-
A2 gloss in margin स्वभरमय् नाडो, smeared over and repeated between the lines by A4. ↩︎ ↩︎
-
A4 writes the glosses श्वाङ्गस् and श्नार् over older glosses, apparently by A2, which have been smeared over with those written above them by A4. R has the glosses श्वाङ्गम् and त्त्नार्(sic). A1 puts a small after शमाङ्गासा, including the division of words. ↩︎ ↩︎
-
A3 writes the gloss हुखलेत्रो between the lines and adds in margin: शुष्कलेत्रश्च वि[त]स्ता[त्र]श्च तौ शुष्कलेत्रवितस्तात्रौ । द्वितीया द्विवचनमेतत्. G adds to the gloss इखलेत्र another: उत्तरहिल्. ↩︎ ↩︎
-
A2 gloss विथवत्रो; another gloss in margin smeared over with yellow paint and illegible. ↩︎ ↩︎
-
A1 had first written निर्मितः(?) and then erased it. ↩︎ ↩︎ ↩︎ ↩︎
-
A3 adds a marginal not, the last line of which has become faded; this has been copied by a different hand below and is shown in brackets: सिद्धे रसे कोटिवेधिनि सति । हाटकार्पणैः स्वर्णदानैः कृत्वा स राजा ब्रह्माण्डस्य सुषिरतां शून्यतां हर्तुं दूरीकर्तुं ध्रुवं निश्चयेन क्षमः समर्थोभूत् । कोटिवेधिसिद्धरसप्राप्तिवशात्तादृशं सुवर्णं दातुं [शक्तोभूद्येन ब्रह्माण्डस्यापि पूरणं सम्भवेदिति भावः]. ↩︎ ↩︎
-
Thus corrected by A3 from A1 कर्तुः; thus also in R and G. ↩︎ ↩︎
-
Thge akshara य has been effaced in A at the beginning of a line and supplied by A4 at the end of the preceeding onbe; G and R also यत्रो॰. ↩︎ ↩︎
-
A1 had सं॰; corrected into स which is found also G and R. ↩︎ ↩︎
-
Thus corrected by later hand from A1 ॰प्राप्तं; G and R read as above. ↩︎ ↩︎
-
The faded gloss of A3 [ह]स्तिशालादिषु has been repented in margin by A4. ↩︎ ↩︎
-
A3 gloss सदृश. G has the marginal gloss सोदरबल् गगरिबल्. ↩︎ ↩︎
-
A4 reads तत्र. This various reading is not found in G and R. ↩︎ ↩︎
-
Thus A1; also G and R. In A the various reading यथेच्छम् is indicated between the lines, perhaps by A1. ↩︎ ↩︎
-
Thus corrected by A3 from A1 दातुं. G and R read मांसं. ↩︎ ↩︎
-
A3 marginal gloss तदा बोधिसत्त्वैरहमित्यनुशिष्टा इत्यनेन वक्ष्यमाणेन सम्बन्धः. ↩︎ ↩︎
- ↩︎ ↩︎
- ↩︎ ↩︎
-
Thus corr. by A2 from A1 ॰र्हन्वन; A2 gloss हर्वन् ग्रामे. ↩︎ ↩︎
-
A1 originally as above; A1 or a later hand has altered this to ॰देशं तस्मात्, but A3 has restored the first reading. G and R have ॰देशं in text and ॰ देशात् in margin. ↩︎ ↩︎
-
A1 as above; a later hand corr. तृतीयगोनन्दः प्राप्तराज्यस्तद॰. ↩︎ ↩︎
- ↩︎ ↩︎
-
Thus corr. from A1 ॰श्चटसीत्कृतैः by A3 which adds the note चटसीकृतैः झलाहरणभाण्डतया विरचितैः पुटकैः पचपुटैः सङ्गृह्य सम्यग्गृहीत्वा पानीयं चोपनिन्ये । चटसं कुम्भाद्यभावे कृत्त्रिममुदकोत्क्षेपणभाण्डम् । इति विवरणकाराः । चटसीकृतदलपुटैर्जलानयनवर्णनाऽन्यत्रापि कृता । यथा कौसल्यां प्रति सुमन्त्रो रामवनगमनदशां श्रावयति । विहितशयनोनेकन्यासैरनेकहपल्लवैः कलितकलशीकार्यः कुभीदलैश्चटसीकृतैः । अथ विरचितः किञ्चिन्म्लानप्रभोह्नि सुतेन ते परिसरसरिज्जम्बूकुञ्जे निकेतपरिग्रह इति ॥. ↩︎ ↩︎ ↩︎ ↩︎
-
This verse is supplied in margin by a hand resembling A3; found in G R Edd.–2) A2 gloss किञ्चित्. ↩︎ ↩︎
-
Thus A1; a later hand alters this into नवान्नान्यक्षिपत्, found in G and R. ↩︎ ↩︎
-
A1 originally ॰प्यस्थि, altered by later hand as above. G and R ॰प्यस्ति. ↩︎ ↩︎
-
A2 adds the note अमरेश्वरयाचायां प्रागुद्दिष्टोयं नागः सुश्रवा इत्याख्यः सुश्रम् नाग इति भाषया प्रसिद्धः तस्यैवोपरि [निक]टस्थले जामा[तृ]नाग इति भाषया प्रसिद्धः स विशाखनामा ब्राह्मण एव निजश्वशुरानुग्रहेण नागीभूतो नाग इत्यर्थः. The aksharas in brackets are effaced in A and have supplied here from R. ↩︎ ↩︎
-
A2 gloss रण्येल् with note स्वनामाङ्कपुरप्रणीरित्यपि पाठः. ↩︎ ↩︎
-
A2 gloss तदारभ्य हस्तिवञ्ज इति प्रसिद्धः प्रदेशवर्त्म येन आयातो मिहिरकुलः. ↩︎ ↩︎
-
Edd. add before this verse the following verses, not found in A G R: भगिनीवर्गसम्भोगनिर्लज्जाम्लेच्छवंशजाः । स्नुषासङ्गतिसक्ताश्च दारदाः सन्ति पापिनः ॥ वस्तुभावैस्तथा भाट्टा भार्याविक्रयकारिणः । परोपभोगितास्तेषां निर्लज्जास्तर्हि योषितः ॥. ↩︎ ↩︎
-
Thus corr. from A1 ॰न्याश्च by A2 which adds the glosses अविच्छिन्नमन्नदानमक्षयिणी धर्मभक्तमिति च प्रसिद्धा, and अक्षयिण्या इति पार्वतीयदेशादौ कश्मीरोपकण्ठवर्तिनि अछ्यीण्या इति प्रसिद्धाः यासु(A3 यस्यां) सदक्षिणं भूरिब्राह्मणभोजनं वितीर्यते. Of a third gloss by A2 which has been smeared over with ink, only the following can be read: उद्यापनं यज्ञमित्यक्षयि —— . ↩︎ ↩︎
-
Thus A1; A3 given the v.l. महत् for मनः between the lines and another v.l. पुनः in margin. ↩︎ ↩︎
-
A3 adds before this the note रा 38 ॥ अं ॥ 372॥. ↩︎
-
A3 चतुर्विंआ॰. ↩︎
-
Thus A3; A1 ॰न्नष्टात्रिंशति रा॰ ↩︎