[[जिनदत्तचरित्रम् Source: EB]]
[
[TABLE]
Printed by Chintaman Sakharam Deole, at the Bombay Vaibhav Press,
Servants of India Society’s home, Sandhurst Road, Girgaon, Bombay.
——————————————————
Published by Nathuram Premi, Honourary Secretary, Manikchand
Digambar Jain Grantbmala Samiti, Hirabag, Bombay.
—————————
कृतज्ञता–प्रकाश।
इस ग्रन्थकी एक प्रति बड़नगरस्थ सेठ मलूकचन्द हीराचन्दजीके सरस्वती भण्डारके अध्यक्ष श्रीयुत वासीलालजी सेठीकी कृपासे प्राप्त हुई, जो कि प्रायः शुद्ध है और दूसरी प्रति जयपुरके पाटोदी–मन्दिरके सरस्वती भण्डार के अधिकारी महाशयकी उदारतासे, जो कि अशुद्धप्राय है। अतएव हम दोनों महाशयोंके प्रति अपनी हार्दिक कृतशता प्रकाशित करते है।
—मंत्री।
[TABLE]
श्री परमात्मने नमः।
श्रीमद्गुणभद्राचार्यविरचितं
जिनदत्तचरित्रम्।
<MISSING_FIG href="#"/>प्रथमः सर्गः।
————————————
महामोहत1मश्छन्नभुवनाम्भोजभानवः।
सन्तु सिद्धयङ्गनासङ्गसुखिनः संपदे जिनाः॥ १ ॥
यदायत्ता जगद्वस्तुव्यवस्थेयं नमामि ताम्।
जिनेन्द्रवदनाम्भोजराजहंसीं सरस्वतीम्॥ २ ॥
मिथ्याग्रहाहिना2 दृष्टं सद्धर्म्मामृतपानतः।
आश्वासयन्ति3 विश्वं4 ये तान् स्तुवे यतिनायकान्॥ ३ ॥
मालिन्योद्योतयोर्हेतू असत्सन्तौ5 स्वभावतः।
गुणानां न तयोर्निन्दास्तुती तेन तनोम्यहम् ॥ ४ ॥
मनो मम चतुर्वर्गमार्गमुक्ताफलोज्ज्वलाम्।
जिनदत्तकथाहारलतिकां कर्तुमीहते6 ॥ ५ ॥
अथास्ति भरतक्षेत्रे जम्बूद्वीपस्य दक्षिणे।
श्रीमानंगाभिधो देशो देवावास7 इवापरः ॥ ६ ॥
क्रीडामत्तामरा यत्र कोपयन्ति स्वकामिनीः।
उद्यानेषु विलासाढ्यवनपालीविलोकिनः ॥ ७ ॥
सविभ्रमाः8 सपद्माश्च सर्वसेव्यपयोधराः।
कुटिला यत्र राजन्ते नद्यः पण्याङ्गना इव ॥ ८ ॥
पन्थानं पथिका कामं नाक्रमन्ति समुत्सुकाः।
अपि यद्गोपिकाकान्तरूपासक्ताः पदे पदे ॥ ९ ॥
भान्ति यत्र भुवो ग्राम्याः9 सर्वतः खलसंकुलाः।
समृद्धिभिस्तथाप्युच्चैः सज्जनानन्दहेतवः॥ १० ॥
निगमानां नचान्योन्यं यस्मिन् सीमावगम्यते।
निष्पन्नैः सर्वतः सर्वसस्य जातैर्निरन्तरैः ११ ॥
सच्छायाः प्रोन्नता यत्र मार्गस्थाश्च विजातिभिः।10
सेव्यन्ते पादपा युक्तमेतन्ननु कुजन्मनाम् ॥ १२ ॥
खन्याकरसमुत्थानं दधाना बहुधा धनम्।
जाता वसुमती11 यत्र यथार्थेयं समन्ततः ॥ १३ ॥
राजते जनता यत्र जिनधर्मरता सदा।
दारिद्र्यदुर्नयातङ्कभीतीतिभिरसंगता ॥ १४ ॥
कल्याणभूमयो यत्र जिनानां विहितोत्सवाः।
भक्त्या12गंतामरैर्भान्ति पापापोहनपण्डिताः13 ॥ १५ ॥
मध्येऽस्ति तस्य देशस्य वसन्तादिपुरं14 पुरम्।
निर्भत्सितामराधीशनगरं15 निजशोभया ॥ १६ ॥
महीप्रवेशमाविश्य चौरेणेव पयोधिना।
खातिकाव्याजतो बव्रेयद्रत्नहरणेच्छया ॥ १७ ॥
यत्सद्मदीर्घिकापद्मैःविकाशोनाप्यते स्फुटम्।
प्राकारकोटिसंरुद्धदिवाकरकरत्वतः॥ १८ ॥
यत्कामिनीकपोलानां कान्तिंहर्तुमिवेन्दुना16।
क्षालनाय कलङ्कस्य भ्राम्यते17 सौधसन्निधौ18 ॥ १९ ॥
सुदर्शनकृतानन्दाः19 सत्यासक्ताः20 समाः सदा।
प्रद्युम्नमोदिनो21 यत्र समाना विष्णुना जनाः ॥ २० ॥
यन्नारीनयनापाङ्गरङ्गेऽनङ्गेन22 वल्गता।
वासो निःसंशयं चक्रे शान्तानामपि मानसे ॥ २१ ॥
चित्रं विचित्रकूटाऽपि जिनसद्मपरम्परा।
मानोन्नता निहन्त्याशु यस्मिन् पापानि पश्यताम् ॥ २२ ॥
जालावलम्बिशीतांशुकरस्पर्शः सुखावहः।
प्रत्यक्षेऽपि प्रिये स्त्रीभी रतान्ते यत्र सेव्यते ॥ २३ ॥
यान्तीनां यत्र सङ्केतनिकेतं निशि योषिताम्।
निजाभरणभाभारप्रसरो विघ्नकारकः ॥ २४ ॥
नित्यं सत्त्यागसम्पन्ना जना यत्र विमत्सराः।
एकान्तसञ्चितद्रव्यं लज्जयन्ति धनाधिपम्23 ॥ २५ ॥
पद्मरागप्रभाजाललिप्ताङ्गी मणिकुट्टिमे।
शङ्कते कामिनी यत्र कर्तुं कुंकुममण्डनम् ॥ २६ ॥
भुजंगसङ्गतो यस्य न समश्चन्द्रशेखरः।
बभूव भूपतिस्तत्र नाम्ना श्रचिन्द्रशेखरः ॥ २७ ॥
नूनं निवेशिता कान्तिस्तत्तनौ24 विधिना पुरा।
मध्यादिन्दोः कथं तत्र कलङ्ककिणताऽन्यथा ॥ २८ ॥
** बभूव भुवने यस्य कीर्तिः कुन्देन्दुनिर्मला।
दिगङ्गना यया रेजुः सहारलतिका इव ॥ २९ ॥**
** विच्छिन्नमण्डलाभोगा विकला क्षणनाशिनी।
यस्यारिसंहतिर्जाता मूर्त्तिरिन्दोरिवादिमा ॥ ३० ॥**
** तीव्रप्रतापसम्पन्नो25 यो जगत्तापनाशनः।
अविग्रहोऽपि सर्वाङ्गसौन्दर्यजितमन्मथः ॥ ३१ ॥**
** कामार्थयोस्तथा भूपो यः कदापि न मोदते।
जिनोदिते यथा धर्ममार्गे नित्यमतन्द्रितः26 ॥ ३२ ॥**
राजविद्याश्चतस्रोऽपि भासयामास शेमुषी।27
विभेव भास्वतो28 यस्य ककुभः29 लहसंभवाः ॥ ३३ ॥
पिप्रिये30 प्रणतानन्तसामन्तैः स तथा न हि।
यथा स्वयं जगद्वन्द्यमुनीन्द्रपदवन्दनैः ॥ ३४ ॥
ईर्ष्या स्वभावतः स्त्रीणामिति मिथ्या कृतं श्रिया।
मेदिनीसुखसक्तेऽपि यत्तत्र रसिका स्वयम् ॥ ३५ ॥
स्वरूपसम्पदा जिग्ये यया मदनसुन्दरी।
समभूद्वल्लभा तस्य नाम्ना मदनसुन्दरी ॥ ३६ ॥
यस्याः सौन्दर्य्यमालोक्य विस्मिताः सुरयोषितः।
नूनमद्याऽपि नो जाताः सनिमेषविलोचनाः ॥ ३७ ॥
सर्वाङ्गरमणीयाया व्यवधानं विभूषणैः।
कोमलाङ्गयाः कृतं कान्तेर्यस्याः सारङ्गचक्षुषः31 ॥ ३८ ॥
लीलाकमलमुलंघ्य यस्या मुखसरोरुहे।
निपपात महामोदादिन्दिन्दिरपरम्परा32 ॥ ३९ ॥
यस्या मुखेन्दुना साम्यं मन्ये प्रापयितुं शशी।
क्रियते कीर्यतेऽद्यापि33 धात्रा34 धौतान्यपक्षयोः ॥ ४० ॥
दधाना नवलावण्यं प्रवालाधरपल्लवा।
शृङ्गावारिधेर्वेला विधिना विहितेव35 या ॥ ४१ ॥
यया मुक्ताभिरामान्तर्निर्मला गुणसङ्गता।
हृदि हारलतवोच्चैः सद्द्वष्टिर्निदधेपरा36॥ ४२ ॥
नयनाली न रेमाते37 तां विहाय महीभूतः।
स्वभावसुकुमाराङ्गीं माकन्द्रस्येव38 मञ्जरीम् ॥ ४३ ॥
अथ तत्रैव सद्धर्मनरिनिर्द्धौतपातकः।
जीवदेव इति श्रेष्ठी बभूव वणिजां पतिः ॥ ४४ ॥
नार्थानां बहुभेदानां संङ्ख्यानं यस्य वेश्मनि।
विज्ञातं वाग्विलासे वा39 संप्रकाशे महाकवेः ॥ ४५ ॥
पूजया जिननाथानामतिथीनां विहाय तैः।
दीनादिकृपया चापि यत्समोऽजनि नापरः ॥ ४६ ॥
असत्यवचनं लेभे जिह्वाग्रे यस्य नास्पदम्।
मानसे वा महासत्यं दुराचारविजृम्भिणाम् ॥ ४७ ॥
निरन्तरसदाचारनीरधाराभिषेकतः।
ववृधे विदुषा येन शश्वत्सज्जनतालता ॥ ४८ ॥
सद्मानि येन जैनानि कारितानि विरेजिरे।
सुधासितानि तुङ्गानि मूर्तिमन्ति यशांसि वा ॥ ४९ ॥
भोगभौमं स्वभोगेन धनदं धनसम्पदा।
यो जिगाय महाभागो याचकामंरभूरुहः40 ॥ ५० ॥
जीवंजसेति विख्याता तस्यासीत्सहचारिणी।41
यथा ज्योत्स्ना शशाङ्कस्य दया संयमिनो यथा ॥ ५१ ॥
विशुद्धोभयपक्षा या राजहंसीव मानसम्।
मुमोच तस्य न स्वच्छं गम्भीरञ्च कदाचन ॥ ५२ ॥
खनिरौचित्यरत्नानां विनयद्रुममञ्जरी।42
सतीव्रतपताकेव पश्यतां मोहनौषधिः43 ॥ ५३ ॥
केलिकोपान्तरायं स भुंजनः सुखमुत्तमम्।
दिनानि गमयामास धर्म्मार्थार्जनकोविदः ॥ ५४ ॥
गृहीतगन्धपुष्पादिप्रार्चना सपरिच्छदा।44
अथैकदा जगामास45ौप्रातरेव जिनालयम् ॥ ५५ ॥
त्रिः परीत्य ततः स्तुत्वा जिनांच्चचतुराशया।
संस्नाप्य पूजयित्वा च प्रयाता यतिसंसदम्॥ ५६ ॥
अस्ति यत्र समस्तार्थभासी दिव्यावधीक्षणः।
गुणचन्द्रगणाधीशो भव्याम्भोरुहभास्करः ॥ ५७ ॥
तं ससंघंततो नत्वा निविष्टा निकटे ततः।
कथ्यमानां प्रसङ्गेन कथां पौराणिकीं तदा ॥ ५८ ॥
शुश्राव तां कृता यस्यां प्रशंसा पुत्रतः स्त्रियाम्।46
अपुत्राणां प्रबन्धेन निन्दोत्पत्तिरपि ध्रुवा॥ ५९ ॥ युग्मम्।
तां निशम्य महाशोकशङ्कुनेव47 हता हृदि।
चिन्तयामास साध्वीति वाष्पपूर्णविलोचना ॥ ६० ॥
अशोकस्तवकेनेव यौवनेन ममामुना।
रागिणा केवलं किन्तु न यत्र फलसम्भवः ॥ ६१ ॥
वारिधेरिव लावण्यं विरसं मम सर्वथा।
न यत्रापत्यपद्मानि तेन कान्तजलेन किम्॥ ६२॥
नाममात्रेण सा स्त्रीति गुणशून्येन कीर्त्यते।
पुत्रोत्पत्यानया पूता यथा शक्रवधूटिका48 ॥ ६३ ॥
प्रसादोऽपि न मे भर्तुः शोभायै सूनुना विना।
शब्दानुशासनेनैव49 विद्वत्ताया विजृम्भितम्50 ॥ ६४ ॥
साहं मोहतमभ्छन्ना निशेवोद्वेगदायिनी।
दीयते यदि तो पुत्रप्रदीपः कुलवेश्मनि ॥ ६५ ॥
चिन्तयन्तीति सा बाला कपोलन्यस्तहस्तका।
पातयामास सभ्यानां नेत्रभृङ्गान् मुखाम्बुजे ॥ ६६ ॥
पेतुर्यथायथा तस्याः सुभ्रुवो वाष्पबिन्दवः।
भेजुस्तथातथा दुःखं मानसानि सभासदाम् ॥ ६७ ॥
सभां विस्मयसम्पन्नां तां च दुःख भरालसाम्।
अथालोक्य जगादासौ कृपयेति यतीश्वरः ॥ ६८ ॥
विशुद्धहृदये ! कार्षीः51 शोकसागरमज्जनम्।
मा वृथैव यतः शीघ्रं सफलास्ते मनोरथाः ॥ ६९ ॥
निशाकरकराकारकीर्तिव्यातजगत्रयः।
गाम्भीयौदार्य्यशौण्डीर्य52सौन्दर्यकुलमन्दिरम् ॥ ७० ॥
त्रिवर्गरचनासूत्रधारस्तव53 तनूरुहः।54
समग्रगुणमाणिक्यरोहणाद्रिरिवापरः ॥ ७१ ॥
भद्रं भूषयिता भव्यो गगनं भानुमानिव।
कुलं कतिपयैरेव वासरैः साधुवत्सले ! ॥ ७२ ॥ विशेषकम्।
उल्लासं कमपि55 प्राप तेन सा वचसा यतेः।
धर्मान्ततोयदोन्मुक्ततोयेनेव56 लता तदा ॥ ७३ ॥
महाविस्मयसम्पन्ना सा शशंस सभा मुनिम्।
नत्वा ज्ञातयथाभाविवृत्तान्ता साप्यगाद्गृहम् ॥ ७४ ॥
किंवदंत्या57 तथा चक्रे श्रेष्ठिनोऽपि मनस्तदा।58
अनल्पकालसम्पन्नसफलाशेषवाञ्छितम् ॥ ७५ ॥
अथ केष्वपि जातेषु वासरेषु बभार सा।
गर्भमभ्रलवच्छन्नभानुविम्बमिवेन्द्रदिक् ॥ ७६ ॥
गुणानामिव भारेण गर्भस्थस्य शिशोस्तदा।
मन्दं मन्दं महीपीठे विचक्राम59 मृगेक्षणा ॥ ७७ ॥
मलीमसमुखौ जातौ स्तनौ तस्याः समुन्नतौ।
तदुत्पादादिव स्वस्य मन्यमानावधः स्थितिम् ॥ ७८ ॥
गर्भस्थयशसेवास्याः पाण्डुताऽजनि गण्डयोः।
तेजसेव भ्रुवोश्चक्रे सोत्क्षेपं वचनक्षणे ॥ ७९ ॥
रोमराजिस्तदा तस्यास्तथाऽभूद्वहिरुद्गता।
शङ्केऽहं पूर्वसन्तापशिखिधूमशिखेव60 सा ॥ ८० ॥
जृम्भारम्भो मुखे तस्या विशेषात्समजायत।
उष्मणेव तदा तस्य महाभागस्य तेजसाम् ॥ ८१ ॥
पूजोत्सवे जिनेंद्राणां दौहृदं विदधे सुधीः।
प्रफुल्लवदनाम्भोजं बन्धुवर्गं च सर्वतः ॥ ८२ ॥
पूर्णेऽथ समये साध्वी प्रसूता सुतमुत्तमम्।
प्राचीव भास्कराकारं प्रभाते बालभास्करम् ॥ ८३ ॥
श्रेष्टिना वाञ्छितादुच्चैरधिकं मुदितात्मना।
दत्तं वक्रमनालोक्य61 पुत्रजन्मनिवेदिनम् ॥ ८४ ॥
नृत्तवादित्र सङ्गीतमयमाशु समन्ततः।
तदादृत्या विनैवाशु तद्बभूव पुरं तदा ॥ ८५ ॥
स न कोऽपि नरस्तत्र यो नानन्दभरालसः।
समभूद्याचको14 वापि यो न पूर्णमनोरथः ॥ ८६ ॥
जातकर्म कृतं तस्य सोत्सवं सकलं ततः।
यथाक्रमं पुनश्चके पूजयित्वा जिनेश्वरान् ॥ ८७ ॥
जिनदत्ताभिधां62 तस्य बन्धुवृद्धैः समन्वितः।
कृतकृत्यमिवात्मानं मेनेऽसौ नैगमाधिपः63 ॥ ८८ ॥
ववृधे बन्धुपद्मानामानन्दं विदधत्परम्।
उपविन्दन्64 कलाश्चित्रं कोऽपि बालदिवाकरः ॥ ८९ ॥
तत्यजेऽभ्मोजगर्भाभं तनुजातेन65 शैशवम्।
शनैः शनैः सदाचारपुरुषेणैव कैतवम्66 ॥ ९० ॥
ततोऽसौ श्रेष्ठिना तेन श्रावकस्य महामतेः।
समर्पितः प्रयत्नेन पठनाय यथाविधि ॥ ९१ ॥
वासरैर्गणितैरेव सर्वशास्त्रमहार्णवम्।
स ततार महावृद्धिनावा विनयसङ्गतः ॥ ९२ ॥
शस्त्राण्यपि ततस्तेन विज्ञातानि महात्मना।
धनुरादीनि यत्नेन समाराध्याशु तद्विदः॥ ९३ ॥
प्रागल्भ्यं67 किमपि प्राप व्यवहारविधौ तथा।
यथा तातादयस्तस्य जाताः प्रज्ञानुजीविनः ॥ ९४ ॥
तनौ तस्य ततश्चक्रे यौवनेन तथा पदम्।
अनङ्गेन यथा स्त्रीषु संमोहायुधमादधौ68 ॥ ९५ ॥
गगनमिव सितांशो रश्मिभिः सत्तपोभि-
र्यतिरिव नरनाथो न्यायमार्गैरुपेतः।
तरुरिव नवपुष्पै राजहंसैः समन्तात्
सर इव शुशुभेऽसौ विभ्रमैर्यौवनस्य ॥ ९६ ॥
सकलसुभगसीमा माननीयोजनानां
जिनपतिपदभक्तो भव्यवात्सल्यसक्तः।
कुलकमलविवस्वा69न्कीर्तिवीचीसरस्वा-70
ननुपमगुणराशिश्चन्दसौम्यो ननन्द ॥ ९७ ॥
इति श्रीभगवद्रुणभद्राचार्य्यविरचिते जिनदत्तचरित्रे प्रथमः सर्गः॥१॥
** —————————**
द्वितीयः सर्गः।
दधानस्यापि तस्याथ यौवनं नयनामृतम्।
बभूव मानसं नित्यं नारीसुखपराङ्मुखम् ॥ १ ॥
काव्यामृतरसास्वादविनोदेन कदाचन।
वादजल्पवितण्डादिचर्चया71 चतुरोऽन्यदा ॥ २ ॥
वाहनेन तुरंगाणां शास्त्राभ्यासेन कर्हिचित्।
परीक्षणेन रत्नानां साधूनां सेवयान्यदा॥ ३ ॥
पूजोत्सवैर्जिनेन्द्राणां राजकार्यैःकदापि च।
इत्यादिचारुचेष्टाभिरसक्तो विषयेष्वसौ ॥ ४ ॥
समस्तसुखसम्पत्तिसमृद्धो बुधवल्लभः।
दिनानि गमयामास वयस्यैः72 सहितो मुदा ॥ ५ ॥
विमुखं तं ततो ज्ञात्वा तस्मिन् दारपरिग्रहे।
सबन्धुर्विदधे यत्नं सूनो रंजयितुं मनः ॥ ६ ॥
यत्र चित्ररतक्रीडारसिकानि विलासिनाम्।
मिथुनानि निषीदन्ति73 तेषूर्धानेषु74 नीयते ॥ ७ ॥
क्रीडत्कान्तास्तनाभोगसङ्गसङ्क्रान्तकुंकुमाः।
वापीः पद्माननास्तस्य दर्शयन्ति जना निजाः ॥ ८ ॥
दर्शनादेव याश्चित्तं मोहयन्ति75 यतेरपि।
स्नानादिविधये तस्य नियुक्तास्ता मृगीदृशः ॥ ९ ॥
पण्याङ्गनाजना76 यत्र द्रावयन्ति मुखेन्दुभिः।
चेतांसि पश्यतामाशु चन्द्रकान्तमणीनिव ॥ १० ॥
इतस्ततः स्थिताः स्फारशृंगाराः स्मरजीवितम्।
गमयन्ति गताशंकं छेकास्तोनैव77 तं यथा ॥ ११ ॥ युग्मम् ॥
विचित्राणि च वस्त्राणि समं माल्यविलेपनैः।
विभूषणैश्च यच्छन्ति प्रत्यहं तस्य ते निजाः ॥ १२ ॥
ताः कथास्तानि गीतानि तानि शास्त्राणि नर्म्म78 तत्।
कुर्वन्ति सुहृदस्तस्य दीप्यते येन मन्मथः79 ॥ १३ ॥
प्रारभ्यते पुरस्तस्य परं प्रेक्षणकं च तत्।
रागसागरकल्लोलैःप्लाव्यन्ते येन देहिनः ॥ १४ ॥
अथैकदा जगामासौ नित्यमण्डितसंज्ञितम्।
वयस्यैः सहितस्तुंग कोटिकूटं जिनालयम् ॥ १५ ॥
सोपानपदवीं दिव्यां समारुह्य ततः स्थितः।
ददर्श क्षणमात्रं स द्वारमण्डपमुत्तमम् ॥ १६ ॥
यावत्तत्र जगत्सारशिल्पिकल्पितरूपके।
दत्तदृष्टिरसौ तावद्दृष्टैका शालभंजिका80 ॥ १७ ॥
तस्या दर्शनमात्रेण चित्रन्यस्त81 इव स्थितः।
पपौ रूपामृतं चास्याः स्तिमितायतलोचनः ॥ १८ ॥
ततस्तस्य सकामस्य पतिता पादपद्मयोः।
दृष्टिर्मृङ्गीव संसक्ता स्पन्दनेऽपि पराङ्मुखी ॥ १९ ॥
निधानकलशेनेव नितम्बेन मनोभुवः।82
कटीतटं समाकृष्टा संप्राप्ता क्रमयोगतः ॥ २० ॥
लावण्यनीरसम्पूर्णे नाभिकुण्डे ममज्ज83 सा।
मदनानलसन्तापपीडितेव ततश्चिरम् ॥ २१ ॥
ताञ्जहार ततस्तस्याः रोमराजिरनुत्तरा।
रूपातिशयतो न्यस्ता84 प्रशस्तिरिव शंभुना85 ॥ २२ ॥
आचक्राम प्रयासेन प्रस्खलन्ती मुहुर्मुहुः।
मध्यमस्याः कृशोदर्य्यास्त्रिबलीभङ्गबन्धुरम्86 ॥ २३ ॥
स्तनान्तरे ततस्तस्याः सा लीना समजायत।
ययौ यथा समस्तांगसंमोहं मुग्धमानसः ॥ २४ ॥
आललंबे मनोहारिहारावलिमसौ शनैः।
कण्ठं हि यत्नतः प्राप रेखात्रितय सुन्दरम् ॥ २५ ॥
आललंबेव ततस्तस्याः सा बाहुलतिकां क्रमात्।
समस्तभुवनभ्रान्तश्रान्तानंगमृगाश्रयम् ॥ २६ ॥
रतिं कामपि सा लेभे लावण्यातिशयान्विते।
मुखेन्दौ मदनोद्दामदाहशान्त्यार्थेनी87 यथा ॥ २७ ॥
केशपाशे पुनस्तस्याः कामपाश इवापरे।
वृद्धा मृगीव सात्यन्तं गन्तुमन्यत्र नाशकत्88 ॥ २८ ॥
कान्तिलावण्यसद्रूपसौभाग्यातिशया इमे।
प्रतिच्छन्देऽप्यहो89 यस्याः सा स्वयं ननु कीदृशी ॥ २९ ॥
कदापि नैव सम्पन्नोविकारो मम चेतसः।
एतस्या दर्शनाच्चेयमवस्था90 मम वर्तते ॥ ३० ॥
किमिदं पूर्वसम्बन्धप्रेमदुर्ललितं स्फुटम्।
येन जाता ममैवेयमासेचनकदर्शना91 ॥ ३१ ॥
अथवा क्वापि कस्यापि पूर्वकर्मविपाकतः।
झटित्येव मनो याति नूनं तन्मयतामिव ॥ ३२ ॥
यदीयं भविता तन्वी मूलप्रकृतिवर्जिता।
न प्राणधारणोपायं तदा स्वस्य विलोकये92 ॥ ३३ ॥
नूनं सचेतनैवेयं कापि कामलताऽथवा।
चोरमामास नश्चित्तं चन्द्रास्या कथमन्यथा ॥ ३४ ॥
अचेतने यतो रूपं शोभायै किल केवलम्।
सम्बन्धेन विना चेत्थं नानुरागविजृम्भितम् ॥ ३५ ॥
भुज्यते यदि संसारे सौख्यं विषयगोचरम्।
तदानन्दनिधानेन सार्द्धमेवंविधेन हि ॥ ३६ ॥
यद्येतया समं नैव भुंजे भोगाननारतम्।93
हिमम्लानाम्बुजेनेव यौवनेनाऽपि किं मम ॥ ३७ ॥
करे करोति किं चापमस्यां94 सत्यां मनोभुवः।
इयमेव यतो विश्ववशीकरणसन्मणिः ॥ ३८ ॥
एवंविधा यतः सन्ति संसारे रतिभूमयः।
विरज्यते ततो नातो95 ज्ञाततत्त्वैरपि ध्रुवम् ॥ ३९ ॥
रुद्रादयोऽप्यहो यासां दृष्टिपातोपजीविनः।
मादृशां स्मरमुग्धानां मोहने तासु का कथा ॥ ४० ॥
प्रविशामि किमङ्गानि किं स्पृशामि पिबामि किम्।
नेत्रपात्रैरिमामाशु सौन्दर्यामृतवापिकाम् ॥ ४१ ॥
इत्याद्यनेकसंकल्पकारिणः सहचारिणा।
विज्ञातं मकरन्देन96 दृष्ट्या तस्य मनोगतम् ॥ ४२ ॥
विबुद्धं च चिरादेवे फलिता मे मनोरथाः।
सिक्तञ्चायं सुधासेकैः श्रेष्ठिसन्तानपादपः ॥ ४३ ॥
स्मित्वा97 स्वैरमुवाचममेतयैव सखे ! मनः।
किं हृतं भवतो येन स्तम्भितो वा व्यवस्थितः ॥ ४४ ॥
भवानेव विजानातीत्युक्त्वादाय करेण तम्।98
स विवेश जिनाधीशमन्दिरं तद्गताशयः ॥ ४५ ॥
ततः प्रदक्षिणीकृत्य स्तुत्वा स्तोत्रैरनेकशः।
जिनाञ्जगाम तां पश्यन्नाकृष्टिक्रममालयम्98 ॥ ४६ ॥
स्थितस्तत्र समुद्भूततीव्रवेगस्मरज्वरः।
स तल्पे99 कल्पितानल्पपद्मपल्लवसंस्तरे ॥ ४७ ॥
नाशनायाभवत्तस्य नोदन्या100 सह निद्रया।
विनोदेन न केनापि स रेमे तां तदा स्मरन् ॥ ४८ ॥
जलार्द्रञ्चन्दनञ्चन्द्रः कर्पूरः शिशिरं पयः।
ज्वलत्कामानलस्यास्य संजाता घृतविप्लुषः ॥ ४९ ॥
वरं मरणमेवास्तु मा वियोगः प्रियैः सह।
समाप्यन्ते समस्तानि येन दुःखानि सर्वतः ॥ ५० ॥
अदृष्टाऽपि मनोमोहं या ममेत्थं ततान ताम्।
पुष्पेषो101 ! कुरुषे किं न शरसंहतिजर्जराम् ॥ ५१ ॥
इत्यादिकं जजल्पासावसम्बद्धं प्रबन्धतः।
एकयाऽपि तया मेने व्याप्तामिवजगत्रयीम् ॥ ५२ ॥
जिगासतस्तदा102 तस्य पञ्चमेन निवारिताः।
हुङ्काराः सन्ततश्वासैः प्रम्लानाधरपल्लवैः ॥ ५३ ॥
समग्रगुणसम्पूर्णं कर्णशूलकरं परम्।
गीतं तेन तदा मेने मनोजज्यारवोपमम्103 ॥ ५४ ॥
किञ्च प्रसारयामास भूयोभूयो104 भुजद्वयम्।
आलिङ्गितुमिव व्योम भूमिमाशास्तथैव च ॥ ५५ ॥
मूर्च्छाप्रलापत्रैवर्ण्यस्वेदरोमाञ्चकम्पितम्।
तस्यासीत्सततं गात्रं सन्निपातज्वरादिव ॥ ५६ ॥
इत्यालोच्य ततस्तस्य सुहृदः स्मरसंभवाम्।
दशामावेदयामासुराशु105ताताय106 तत्पराः ॥ ५७ ॥
यावन्मानधनोऽद्यापि न याति दशमीमयम्।
दशां कन्तोः कुमारस्य कुरु तावत्समीहितम् ॥ ५८ ॥
उदन्तं107 तं समाकर्ण्य रोमाञ्चकवचाञ्चितः।
सञ्जहास शनैरास्यं पश्यंस्तेषां मुहुर्मुहुः॥ ५९ ॥
कुण्ठीभवन्त्यऽहो यस्य चेतसो वज्रसूचयः।
तस्यापि भेदने शक्ताः कटाक्षाः किल योषिताम् ॥ ६०
सञ्चिन्त्येति ततस्तांश्च ताम्बूलाम्बरभूषणैः।
संविभज्य जगामासौ यत्राऽऽस्ते देहसम्भवः54 ॥ ६१ ॥
तं विलोक्य तथाभूतं श्रेष्ठिनेति विचिन्तितम्।
दुःसाध्या कार्यसंसिद्धिः कुमारः पुनरीदृशः ॥ ६२ ॥
विधेर्वशेन नो जाने कार्यं स्यादिह कीदृशम्।
तथाप्याश्वासयामीति तं जगाद सुतं ततः ॥ ६३ ॥
मुञ्च खेदंमहाबुद्धे ! मानसं सकलाः क्रियाः।
कुरु स्नानादिकाः शीघ्रं पूरये तव वाञ्छितम् ॥ ६४ ॥
यदीह राजकन्यापि खेचरी वापि सुन्दरी।
उत्सङ्गसङ्गतां पुत्र ! करिष्यामि तथाऽपि ते ॥ ६५ ॥
कार्यान्तरं परित्यज्य तथा वत्स ! विधास्यते।
मया यत्नो यथा तथ्यो निष्पत्त्यैव भविष्यति ॥ ६६ ॥
तमाश्वास्येति तं श्रेष्ठी स जगाम तदालयम्।
तां विलोक्य ततस्तेन विस्मितेन धुतं108 शिरः ॥ ६७ ॥
विश्वातिशायिनी कान्ती रूपं विश्वविमोहकम्।
लज्जाकरमिदं चास्यलावण्यं109 विश्वयोषिताम् ॥ ६८ ॥
प्रतिविम्बमिदं यस्याः साऽस्ति काचन सुन्दरी।
अदृष्टमीदृशं रूपं निर्मातुं110 न हि शक्यते ॥ ६९ ॥
युक्तं यदत्र पुत्रस्य मनो लीनमजायत।
यदस्या दर्शनात्तेऽपि नूनं मुह्यन्ति नाकिनः111 ॥ ७० ॥
एवम्बिधेऽपि यच्चित्तं नानुरागभरालसम्।
समग्ररसशून्यात्मा नरः पाषाण एव सः ॥ ७१ ॥
सम्भाव्योति समाहूतस्तेनाऽसौ येन शिल्पिना।
कृता सा सोऽपि संपृष्टः केयं क्वाऽऽस्ते च कीदृशी ॥ ७२ ॥
“तेनाभाणि महाभाग ! चम्पायां विमलात्मनः।
श्रेष्ठिनो विमलस्येयं विमलादिमतिः112 सुता ॥ ७३ ॥
वेणीवलयविस्रस्तपुष्पभ्राम्यन्मधुव्रता।
कपोलफलकोद्भूतस्वेदविन्दुचितानना ॥ ७४ ॥
चेलाञ्चलं तथा चारु हारावलिमसौ शनैः।
संयम्य सर्वतो बद्धलक्षा मण्डलचारिणी ॥ ७५ ॥
कन्यका कमनीयांगी क्रीडन्ती कन्दुकेन सा।
समं सखीभिरालोकि विस्मितेन मया चिरम् ॥ ७६ ॥
आगत्येदं ततः साधो मत्वात्यन्तं मनोहरम्।
अत्र तद्रूपमाकल्पि शतांशादिव किञ्चन ॥ ७७ ॥
ततो वितीर्य हृष्टात्मा स तस्मै पारितोषिकम्।
जिनदत्तप्रतिच्छंद लेखयामास तत्पटे ॥ ७८ ॥
तं समर्प्य ततस्तत्र प्रेषिता वरणाय ताम्।
पदिष्टाः श्रेष्ठिना वक्तुं चम्पायां नरसत्तमाः ॥ ७९ ॥
तैर्गत्वा दर्शितो लेखः श्रेष्ठिनः सपटस्तदा।
मेने तेनाऽपि संसिद्धं तद्दृष्ट्वा समीहितम् ॥ ८० ॥
दत्त्वाऽस्मै कन्यकामेतां कृतकृत्यो भवाम्यहम्।
संभाव्येति चकारैषां गौरवं गुणसागरः ॥ ८१ ॥
तातोपान्तगता साऽपि तमद्राक्षीत्पदं सुता।
दर्शनादेव चास्याभून्मनोभूशरशल्यिता ॥ ८२ ॥
सङ्कान्तमिव तद्रूपं तदा तस्या हृदि ध्रुवम्।
यत्तस्य दर्शनात्सापि समभून्निश्चलाऽखिला ॥ ८३ ॥
सखी वसन्तलेखाऽस्या जग्राहाञ्चलमुत्सुका।
अन्तरेऽत्र तयासाऽपि हुंकृत्यैव निवारिता ॥ ८४ ॥
सा ददर्श यथालब्धलक्षं शून्यं जहास च।
अस्फुटार्थं जजल्पातस्तातेनाऽज्ञायि113 तन्मनः ॥ ८५ ॥
आलोच्य बन्धुभिः सार्द्धं कार्यमार्यजनोचितम्।
संविभक्ता गतास्तेऽपि सलेखाः श्रेष्ठिना ततः ॥ ८६ ॥
लेखार्थमथ निश्चित्य जिनदत्तपिता स्वयम्।
कृत्वा यथोचितां तत्र सामग्रीं प्राहिणोत्सुतम्114 ॥ ८७ ॥
प्राप्तः सोऽपि ततञ्चम्पामकम्पां रिपुसंहतेः।
तर्जयन्तीं ध्वजव्रातैः पुरन्दरपुरीमिव115 ॥ ८८ ॥
तदुद्याने स्थितस्तेन विहितोचितसत्क्रियः।
तत्कालमङ्गलारम्भव्यग्राशेषपरिग्रहः ॥ ८९ ॥
जातेऽथ समये तत्र समुत्सवशताञ्चिते।
संस्नातकल्पितानल्पमाल्याम्बरविभूषणः ॥ ९० ॥
गीतनृत्यसमासक्तानन्तसीमन्तिनीजनः।
चतुर्विधमहावाद्यबधिरीकृतदिग्मुखः ॥ ९१ ॥
** चारुपौरांगनानेत्रशतपत्रदलाञ्चितः।
दीनानाथजनांस्तन्वन् कृतकृत्यान्समन्ततः ॥ ९२ ॥**
** तत्कालोचितयानेन वयस्यैः सहितो मुदा।
प्रवृत्तः प्रेमसम्भारभारितो वल्लभामभि116 ॥ ९३ ॥**
** यथाक्रमं कृताशेषविवाहविधिमंगला।
तत्राऽसौ वीक्षिता तेन पताकेव मनोभुवः117 ॥ ९४ ॥**
** तद्दर्शनाम्भसा सिक्तस्तथाऽस्य प्रेमपादपः।
ववृधे शतशाखं स यथाऽमान्न मनोवनौ118 ॥ ९५ ॥**
** चित्तभूरिति मिथ्याऽऽसीद्रुढिरेषा सदा स्मरे।
यत्तदाऽऽलोकनात्तस्य119 सर्वाङ्गेभ्यः समुद्ययौ ॥ ९६ ॥**
** यतो यतस्तदंगेषु चक्षुः क्षितं समुत्सुकम्।
ततस्ततः समाकृष्टं चापेनाऽपि मनोभुवः ॥ ९७ ॥**
** कारयामास चैतस्याः पुरोधाः120 पाणिपीड़नम्।
सलज्जाऽलिखदेषाऽपि पादांगुष्ठेन भूतलम् ॥ ९८ ॥**
** सालसे121 समदे मुग्धे स्निग्धे प्राकृतविभ्रमे।
गाढोत्कण्ठे सलज्जे चान्तराले वलिते तदा ॥ ९९ ॥**
** भूमितन्मुखयोर्मध्यं चक्रतुस्तद्विलोचने।
शङ्के सिताऽसितानेकनीलोत्पलदलाकुलम् ॥ १०० ॥**
** सार्द्धं तया ततस्तत्र परीयाय हुताशनम्122।
संगमाद्विरहोद्भूतसन्तापं वा वहिःस्थितम् ॥ १०१ ॥**
** जुह्वतस्तस्य तत्राऽभूल्लाजाशब्दोऽग्नियोगजः।**
** जानेऽहं योग्यसम्बन्धात्साधुकारं शिखी123 ददौ ॥ १०२॥**
** धूमपानक्षणोद्भूतास्ते तयोर्वाष्पबिन्दवः।
निर्गता वा मनोऽमान्तः कणाः प्रेमरसोद्भवाः ॥ १०३ ॥**
** तदाऽसौ मौक्तिकोद्दाममालालंकृततोरणाम्।
तयामा वेदिकां प्राप्य भद्रासन124 उपाविशत् ॥ १०४ ॥**
** यान्यक्षतानि नार्योऽर्य्यः125 ददिरे मस्तके तयोः।
कुसुमानीव सौभाग्यमाञ्जार्यास्तानि रेजिरे ॥ १०५ ॥**
** गीतनृत्यादिकं तत्र प्रारब्धं प्रमदाजनैः।
पश्यन्तौ यावदानन्दवार्धिमग्नौ स्थितौ तदा ॥ १०६ ॥**
** निशाविलाससम्पर्को जायतामेतयोरिह।
इतीव मन्यमानेन भानुनाऽस्ताद्रिराश्रितः126 ॥ १०७ ॥**
** निमिमील तवाऽम्भोजलोचनानि सरोजिनी।
दुःखभारात्प्रियस्यैव तां दशामुपजग्मुषः127 ॥ १०८ ॥**
** निशासम्भोगशृङ्गारतत्परा हरिणीदृशः।
आसन् गृहे गृहे दूतीसल्ँलापव्याकुलास्तदा ॥ १०९ ॥**
** प्रससार नभोभूमौ सन्ध्यावल्लीव याऽरुणा।
कालेभोत्खाततद्रक्तकन्दाभो भास्करोऽभवत्128 ॥ ११० ॥**
** प्रकाशितं स्वयं विश्वमाक्रान्तं तिमिरारिणा।
कथं नु शक्यते द्रष्टुमिति भास्वां69स्तिरोदधे129 ॥ १११ ॥**
** प्रबोधितास्ततो दीपाः प्रतिवेश्म130 तमश्छिदः।
सस्नेहाः सदशोपेताः पात्रस्थाः सुजना इव ॥ ११२ ॥**
** कौतुकादिव तं द्रष्टुं वधूवरयुगं तदा।
निशानारी समायाता तारामौक्तिकभूषणा ॥ ११३ ॥**
** तमः स्तम्बेरमेणेदं131 मत्वाकान्तं जगज्जवात्।
उदियाय132 नमोऽरण्ये133 चन्द्रसिंहोंऽशुकेसरः ॥ ११४ ॥**
** मन्दमन्दतमःस्तोमं व्योम सोमकररैभात्134।
चन्दनेन मदेनेव लिप्तं स्मरनृपांगणम् ॥ ११५ ॥**
** ततः क्षीरार्णवस्येव कल्लोलैः सकला दिशः।
क्षालिता इव भाश्चक्रैश्चक्रे135 कुमुदबान्धवः136 ॥ ११६ ॥**
** ददर्श त्यक्तहाराऽपि मुग्धा काऽपि रतोत्सुका।
स्तनाभोगं लसञ्चारुचन्द्रांशुकृततद्भमा ॥ ११७॥**
** दूतीभिर्मन्मथालापाः सकम्पा रतकौतुकाः।
मुग्धा निवेशिताः शय्योत्संगेऽधीशां हठादिव ॥ ११८ ॥**
अमृतैरिव निर्द्धौति कर्पूरैरिव पूरिते।
जाते तदा करैरिन्दो रम्ये भुवनमण्डपे ॥ ११९॥
उद्दण्डकामकोदण्डचण्डिमाक्रान्तविष्टपे।
सङ्केतमन्दिरद्वारनिषीददभिसारके॥ १२०॥
मानिनी माननिर्णाशविधिव्यासक्तवल्लभे।
विचित्ररतसंमर्दकदर्थितनवांगने॥ १२१ ॥
स्वतः स्वरूपसम्पत्तिवनितासक्तयोगिनि ।
वृक्षपण्यांगनालोकवञ्चितग्रामभोगिनि ॥ १२२ ॥
** केतकीकुसुमोद्दामगन्धमुग्धमधुव्रते ।
वियोगिनीमनः कुण्डप्रज्वलद्विरहानले ॥ १२३ ॥**
** इत्याद्यनेकचेष्टाभिः प्रवृद्धमदनोत्सवे ।
समये तत्र तौ नीतौ जनैर्मातृगृहं गतौ ॥ १२४ ॥ (कुलकम्)**
** निर्मले सुकुमारे च सनम्रे मुनिमानसे ।
यथा तथा स्थितौ तल्पे तौ तदा मुदिताशयौ ॥ १२५ ॥**
** लज्जालोलं विलसदृतुलप्रेमसम्भारसुग्धं
गाढोत्कण्ठं रतिरसवशं कौतुकोत्कम्पिचित्तम् ।
द्वंद्वं निन्ये वदननिहिताऽधीरविस्तारिनेत्रां
रात्रिं ताम्यत्तरलहृदयप्रोषितां तत्तदानीम् ॥ १२६ ॥**
** प्राचीकुंकुममण्डनं किमथवा रात्र्यंगनाविस्मृतं
रक्ताम्भोजमथो मनोजवृपते रक्तातपत्रं किमु ।
चक्रं ध्वान्तविभेदकं द्युवनितामांगल्यकुम्भः किमु
इत्थं शंकितमंबरे स्फुटमभूद्भानोस्तदा मण्डलम्॥१२७॥**
** इति श्रीमद्भगवद्गुणभद्राचार्य्यविरचिते जिनदत्तचरित्रे द्वितीयः सर्गः ॥**
————————————
तृतीयः सर्गः।
स्थित्वा च कतिचित्तत्र दिनानि मुदितस्तया।
समं137 विज्ञापयामास श्वशुरं गुणमन्दिरम् ॥ १॥
यथा तातादयो माम मदागमनमञ्जसा।
मृगयन्तोऽवतिष्ठन्ते138 ततः प्रेषय मां लघु ॥ २ ॥
दत्वा परिकरं सर्वं दासीयानादिसंयुता।
पुत्री समर्पिता तस्मै श्रीवत्सायेव गोमिनी139 ॥ ४ ॥
ततस्तमनुयातुं ये चेलुः140 श्रेष्ठ्यादयो जनाः।
आगत्य ते स्थिताः सर्वे बाह्योद्यानजिनालये ॥ ५ ॥
तत्र पूजादिकं कृत्या शिरस्याघ्राय देहजाम्141।
शिक्षयामास गम्भीरमिति तां विनतां पिता ॥ ६ ॥
सुतनो142! मा कृथा जातु क्रौर्यदौर्जन्यचापलम्।
अन्यथा स्याः143 समस्तानां विषवल्लीव दुर्भगा ॥ ७ ॥
पत्युश्छायेव144 भूयास्त्वं सर्वदाऽनुगता सती।
समानसुखदुःखा च दुर्वृत्ताचारदूरगा ॥ ८ ॥
धर्मकार्यरता नित्यं गुरुदेवनता सुते।
निजवंशपताकेव भूयाः किं बहुभाषितैः ॥ ९ ॥
** गाढमालिंग्य तत्रैव वाष्पपूर्णविलोचना।
रुदन्ती तां जगादेति माताऽपि प्रीतिपूर्वकम् ॥ १० ॥**
** विलासहाससञ्जल्पतल्पमाल्यविभूषणम्।
गतागतं145 च सर्वेण माकार्षीरुद्भटंसुते ॥ ११ ॥**
** चित्तं पत्युरविज्ञाय मा कृथा मानमायतम्।
उत्कण्ठिता च माभूस्त्वमस्मभ्यं146 शुभदर्शने ॥ १२ ॥**
** ज्येष्ठदेवरतद्वामाश्वश्रूषु विनता भवेः।**
** नर्मादिकमसम्बद्धं147 येन केनाऽपि मा कृथाः ॥ १३ ॥**
** श्वश्रूं मातरिति ब्रूहि तातेति श्वशुरं नता।
प्राणनाथं प्रियेशेति त्वं सुतेति च देवरम् ॥ १४ ॥**
** प्राभृतानि सुते ? तुभ्यं प्रहेष्यामि148 सहस्रशः।
शिक्षयित्वेति तां माता विरराम149 सुदुःखिता ॥ १५ ॥**
** प्रणम्य जिनदत्तेन ततो व्यावर्त्तिता गृहम्।
गतास्ते तां कुमारोऽपि लात्वाऽऽप स्वपुरं150 क्रमात् ॥ १६ ॥**
** आयातं तं ततो ज्ञात्वा गत्वा तातो महोत्सवैः।
पुरं प्रवेशयामास सकान्तमिव मन्यथम् ॥ १७ ॥**
** विशन्तं तं समाज्ञाय चुक्षुभे151 प्रमदाजनैः।
उदितं यामिनीनाथं तरंगैरिव वारिधेः ॥ १८ ॥**
** मण्डनादिकमुत्सृज्य प्रतिरथ्यं152 प्रधाविताः।
काश्चिदन्याः पुना रूढाः प्रासादशिखरावलीः ॥ १९ ॥**
** तन्मुखाम्भोजसंसक्तलोचना कुचमण्डलम्।
काचिच्च्युतांशुके दृष्टिं पातयामास पश्यताम् ॥ २० ॥**
** वेगतो धावमानान्या स्रस्तमेखलयाऽस्खलत्।
त्रुटितं हारमप्यन्या गणयामास नोत्सुका ॥ २१ ॥**
** अन्या जघान तं धीरा कटाक्षैः क्षणमंगना।
चित्रेन्दीवरमालाभिरर्चयन्तीव भक्तितः ॥ २२ ॥**
**
रूपामृतं153 पिबत्यस्य नेत्राञ्जलिपुटैः परा।
कौतुकं कामसन्तापपीडिताऽजनि मानसे ॥ २३ ॥**
** अन्यावोचदियं धन्या यस्या जातोऽयमीश्वरः।
काचिदूचे स्फुटं कामरतियुग्ममदः154 सखि ! ॥ २४ ॥**
** समाशतं155 सति श्रेष्ठं विलासं सहिताऽमुना।
भुङ्क्ष्वेति प्रणिगंद्याऽन्या156 लाजाञ्जलिमवाकिरत्157 ॥ २५ ॥**
** मोटनं भञ्जनं जृम्भालस्यप्रेमजलोद्गमम्।
तन्वन् नारीजनस्यैष प्राप स्वं सोत्सवं गृहम् ॥ २६ ॥**
** तत्राऽध्यास्य चतुष्कं स गोत्रवृद्धाङ्गनाकृतम्।
प्रतीच्छतिस्म158 मांगल्यं कृतपूर्वजिनोत्सवः ॥ २७ ॥**
** ततो निवर्तिताशेषविवाहान्तविधिः सुधीः।
तारेश136 इव रोहिण्या समं रेमे तयाऽनिशम् ॥ २८ ॥**
** भुञ्जानस्य सुखं तस्य पञ्चेन्द्रियसमाश्रयम्।
जग्मुर्धर्माविरोधेन मुहूर्त्तमिव वासराः ॥ २९ ॥**
विमुखो मुखमालोक्य याचकस्तस्य नो ययौ।
स विवेश सतां चित्ते विनयेन महामनाः ॥ ३० ॥
हृदये पदमासेदुरस्य पौराणिकी कथाः।
पररामाविलासाढ्या न जातु विजितात्मनः ॥ ३१ ॥
जिनार्चाध्ययनासक्तः प्रभाते मध्यमेऽहनिं।
संयतेभ्यः प्रदानेन स्वकाले भोगसेवया ॥ ३२ ॥
यावदास्ते सुखाम्भोधिमध्यगो बुधवल्लभः।
तावदस्यान्यदा जाता शिरोऽर्त्तिःसहसा मनाक् ॥ ३३॥ युग्मं ॥
विनोदाय ततस्तस्य वयस्येन व्यधीयत।
प्रवृत्ताधीशपादातवारणाश्वविमर्द्दनम् ॥ ३४ ॥
देवनं144 चतुरंगाणां रणं वा सजयाजयम्।
तत्रैव सोऽपि संसक्तः कौतुकात्समजायत ॥ ३५ ॥ युग्मम्।
यावत्तत्रैव सञ्जाता रतिस्तस्य ततः कृतम्।
धूर्तैद्युताविशेषेषु क्रीडनं धनलंपटैः ॥ ३६ ॥
अत्यासक्त्या समारब्धमधिकं सन्ततं ततः।
हारिताश्च प्रगल्भेन द्रव्यैकादशकोटयः ॥ ३७ ॥
कोशाध्यक्षेण तातस्य वारिता धनयाचकाः।
सप्तकोट्यः समाकृष्टा वल्लभाकोशतस्ततः ॥ ३८ ॥
हारितास्तु निषिद्धास्ते याचकाः कोशपालिना।
गत्वा तैः कथितं तस्य यथा स्वं159 न हि लभ्यते ॥ ३९ ॥
वचनेन ततस्तेषां तुहिनेनेव160 पंकजम्।
मम्लौ वदनमेतस्य संहृतं द्यूतकर्म च ॥ ४० ॥
येषामशेषसंसारसौख्यसंपत्तिशालिनी।
स्वभुजोपार्जिता लक्ष्मीर्धन्यास्ते मानशालिनः ॥ ४१ ॥
परपुष्टा भवंत्येव नूनं परिभवास्पदम्।
सहन्ते हि पि161काः काकचञ्चवाघातकदर्शनम् ॥ ४२ ॥
प्रसादेन पितुः सर्वं पूर्यते मम वाञ्छितम्।
तथापीदं मनःखेददायकं मानभञ्जकम् ॥ ४३ ॥
युज्यते नोपभोगाय पुंसामुन्नतचेतसाम्।
गोमिनी139 गुरुपत्नीव याऽर्जिता पूर्वपूरुषैः ॥ ४४ ॥
यत्सुतेभ्यः समीहन्ते सन्तः सर्वप्रकारतः।
सन्तानपालनं तत्र हेतुरर्थार्जनादिभिः ॥ ४५ ॥
उदयेनेव यो भानोर्बन्धूनां मुखपङ्कजम्।
विकाशि कुरुते नास्य चरितेनापि नुः किमु ॥ ४६ ॥
अलीकव्यसनासक्तचेतसा मयका162 पुनः।
तथाकृतं यथा नाहं शक्त163स्तातमुखेक्षणे ॥ ४७ ॥
एके त एव जीवन्तु सतां मध्ये महौजसः।
येषां जन्म न संजातं मानभंगमलीमसम् ॥ ४८ ॥
काले प्रदीयते यश्च विना प्रार्थनया न च।
दीयते यच्च दुःखेन तददत्तसमं मतम् ॥ ४९ ॥
उक्त्वा न दीयते येषामुक्त्वाबहु तथाऽल्पकम्।
कालहानिः कृता दाने सन्ति ते प्रेषिता नराः ॥ ५० ॥
तावदेव नरो लोके सुराद्रिशिखरोपमः।
कस्यापि पुरतो यावन्न देहीति164 प्रजल्पति ॥ ५१ ॥
विना धनेन नार्घन्ति165 विमलाः सकलाः क्रियाः।
विहीना यौवनेनेव सभूषाः पण्ययोषितः166 ॥ ५२ ॥
कृतमेतेन तातादिधनेन मम साम्प्रतम्।
गत्वा क्वापि करोम्येष धनोपार्जनमुत्तमम् ॥ ५३ ॥
प्रियामेतां निधायाशु मन्दिरे पितुरुत्सुकः।
उपायं तं विधास्यामि167 येन स्यात्कमलाऽमला ॥ ५४ ॥
विचिन्त्येति ततोऽलक्ष्यवृत्तिरेष व्यवस्थितः।
कुतोऽपि ज्ञातवृत्तान्तस्तमाहूय पिताऽब्रवीत् ॥ ५५ ॥
विषण्णोऽसे वृथा वत्स ! किमेवं कुरु वाञ्छितम्।
धनैरेभिरहं पुत्र ! नाम्नैवैषामधीश्वरः168 ॥ ५६ ॥
निर्भर्त्सितो मया वत्स ! कोशाध्यक्षः सहस्रशः।
यद्यन्यथा महाबुद्धे ! स्पृशामि तव मस्तकम् ॥ ५७ ॥
विनोदेनामुना किन्तु कुलकेतो ! न शोभसे।
कृतं हि प्रथमं पुंसां महापापनिबन्धनम् ॥ ५८ ॥
कारयाऽऽशु जिनेन्द्राणां भवनानि महामते।
सुवर्णरूप्यरत्नैश्च प्रतिमाः पापनाशनाः ॥ ५९ ॥
गीतवादित्रनृत्यादि तत्रैव च दिवानिशम्।
चतुर्विधाय संघाय देहि दानं यथाविधि ॥ ६० ॥
सिद्धान्ततर्कसाहित्यशब्दविद्यादिपुस्तकैः।
लेखयित्वा मुनीनां च दत्तः पुण्यं समर्जय॥ ६१ ॥
कूपवापीतड़ागानि प्रमदादिवनानि च।
पुत्र सर्वाणि चित्राणि यथाकामं विधापय169॥ ६२॥
विवेश मानसे तस्य न सा शिक्षा विलासिनी।
यतेरिव परं तेन शुश्रुवेऽधो विलोकिना ॥ ६३ ॥
चिन्तितं च पुनस्तेन नोपलम्भो भविष्यति।
यथा तथा विधास्यामि किं मे बहुविकल्पनैः ॥ ६४ ॥
अनुमन्ये च तां तातभारतीमेवमस्त्विति।
प्रणम्य तं जगामासौ प्रेयसीसदनं170 ततः ॥ ६५ ॥
अभ्युत्थानादिकं कृत्वा तया ज्ञातं मनोगतम्।
व्यासक्तमानसं चक्रे सविलासकथान्तरैः ॥ ६६ ॥
क्षणान्तरं ततः स्थित्वा तयेति किल चिन्तितम्।
नयामि किल वेश्म स्वमेतं वैचित्त्यहानये ॥ ६७ ॥
ऊचे तयाऽऽर्यपुत्राद्य मयाऽमा171भवतो मम।
पित्रा सुप्रहिता लातुं तत्र किं क्रियतामिति ॥ ६८ ॥
प्रापयामि पितुर्गेहमत एव मिषादिमाम्।
विभाव्येति बभाणोमां युक्तमेवं वरानने ॥ ६९ ॥
आपृच्छ्येति ततस्तातमनुज्ञातौ गतौ सुखम्।
परां जनेन संप्राप्तौ चम्पां चारुरुगोपुराम् ॥ ७० ॥
ज्ञातवृत्तस्ततो श्रेष्ठी विमलो मुदितो गृहम्।
निन्ये स्वयं परं प्रीत्या तत्राऽस्थाद्दिनपञ्चकम् ॥ ७१ ॥
अन्येद्युर्गतवानेष क्रीडितुं प्रियया सह।
प्रमदोद्यानमुद्दामकामविश्राममन्दिरम् ॥ ७२ ॥
मञ्जुगुञ्जलिव्रातबद्धतोरणमालिके।
मन्दगन्धव172होद्भूतकामिनीकुन्तलालके॥ ७३॥
सुगन्धकुसुमामोदमत्तकोकिलकोमले।
अनल्पफलसम्भारनम्रसर्वमहीरुहे ॥ ७४ ॥
चिरं चिक्रीड़ तत्राऽसौ सर्वेन्द्रियसुखावहे।
क्रीडाद्रिदीर्घिकावल्लीविटपादिमनोहरे॥ ७५॥ विशेषकं।
भ्राम्यताऽथ ततस्तेन तत्रादशिंमहौषधिः।
शिखायां धारिताऽदृश्यं या करोति नरं क्षणात् ॥ ७६ ॥
अस्ति यद्यपि सर्वांगसौख्यं मम निकेतनम्।
तथाऽपि पितुरुत्सृज्य स्थातुमत्र न युज्यते ॥ ७७ ॥
अक्षमेयं173 वियोगं च सोढुंयद्यपि मामकम्।
दन्दह्यते तथाप्येष मानभंगो मनोऽनिशम् ॥ ७८ ॥
पद्मा न यावदद्यापि विहिता वशवर्तिनी।
तावदेते विषायन्ते विषया मम सर्वथा ॥ ७९ ॥
तिष्ठन्तमत्र मां माम कीदृशं किल बुध्यते।
इत्यादि बहु सम्भाव्य तेनाऽऽदायि महौषधिः ॥ ८० ॥
शिखाग्रे तां ततो वद्ध्वा भूत्वाऽदृश्यस्ततो नृणाम्।
जगाम क्वाऽपि साऽप्येवं विललाप तदुज्झिता ॥ ८१ ॥
प्राणनाथमपश्यन्ती174 सा ददर्श दिशोऽखिलाः।
तप्ता सन्तमसेनेव चक्रवाकीव केवला ॥ ८२ ॥
त्वद्दृष्टिजीविता नाथ ! त्वत्पादकुलदेवता।
स्वभावप्रेमसंसक्ता हा मुक्ताऽस्मि कथञ्चन ॥ ८३ ॥
केलिलीलां विहायाऽऽशु मुखचन्द्रं प्रदर्शय।
मनःकुमुदमाम्लानमार्यपुत्र ! विकाशय175 ॥ ८४ ॥
मनो मे नवनीताभं176 तप्तं विरहवह्निना।
विलीनमिव हा पश्चात्किमागत्य करिष्यसि ॥ ८५ ॥
ता लतास्तरवस्ते ते क्रीडागास्ते177 विहंगमाः।
न जानामि गतः क्वापि दृष्टिं वध्द्वैव वघ्त्रभः ॥ ८६ ॥
सस्नेहस्तादृशी प्रीतिश्चाटुकाराश्च ते प्रभो !।
विश्रम्भः स च दाक्षिण्यं तदद्य सकलं गतम् ॥ ८७ ॥
आश्वासयति मामत्र को विना भवताऽधुना।
विरहार्ता विभावर्यां178 भानुनेव सरोजिनीम् ॥ ८८ ॥
यत्पुरा विहितं नूनं संयुक्तानां वियोजनम्।
दुःसहोऽयं समायातो विपाकस्तस्य कर्मणः ॥ ८९ ॥
जन्मान्तरेऽपि संभूतिः स्त्रीत्वेन भविता यदि।
तदाऽजननिरेवाऽस्तु मा वियोगः प्रियैरमा179॥ ९० ॥
वीयतां दर्शनं पत्युः समस्ता वनदेवताः।
दुःखसागरमग्नाया उद्धारः क्रियतां मम ॥ ९१ ॥
विलापमिति कुर्वाणा सानीता पितुरन्तिकम्।
सखीजनेन वाष्पाम्भःस्नापितस्तनमण्डला ॥ ९२ ॥
वार्त्तां निशम्य तां तातस्तामाश्वास्याब्रवीददः।180
धर्मदानरता पुत्रि ! तिष्ठाऽचैव जिनालये ॥ ९३ ॥
सार्द्धमार्याभिरार्याभिः सखीभिः स्वजनैर्वृता।
तावत्तिष्ठ सुते ! यावत्तदन्वेषणमारभे ॥ ९४ ॥
स्थापयामास तत्रैतां सान्त्वयित्वा समुद्यताम्।
दाने श्रुते जिनार्चायां वैयावृत्ये यथोचिते ॥ ९५ ॥
गवेषितश्च181 यत्नेन पक्षद्वयजनैरयम्।
सर्वतोऽपि च नालोकि182 ततस्तस्थे यथायथम् ॥ ९६ ॥
अथासौ जिनदत्तोऽपि प्रापद्दधिपुरं पुरम्।
दृष्ट्वा प्रविशता तत्र तेनोद्यानं मनोहरम् ॥ ९७ ॥
तस्य मध्ये विवेशासौ विश्रामाय ददर्श च।
गुल्मवलीद्रुमांस्तत्र सर्वानप्यवकेशिनः183 ॥ ९८ ॥
अहो वनमिदं केन हेतुनाऽभवदीदृशम्।
क्रियमाणेऽपि सेकादौ यावदित्थमचिन्तयत् ॥ ९९ ॥
तावत्तत्र समायातः परीतः पत्तिभिः184 पुरात्।
जंपानस्थः185 समुद्राख्यः सार्थवाहो धनाधिपः ॥ १०० ॥
अयमप्राकृताकारः कोऽपि पान्थ इति क्षणम्।
विचिन्त्याऽवाचि तेनासौ कुतो यूयं समागताः ॥ १०१ ॥
भणितं च कुमारेण भ्राम्यन् भूमिमितस्ततः।
क्षेमाविकं परीपृच्छ्य186 ज्ञात्वोत्तमगुणं च तम् ॥ १०२ ॥
उक्तं तेन ततो भद्र दृष्टं वनमिदं त्वया।
अस्ति कश्चिदुपायो वा येनेदं फलवद्भवेत् ॥ १०३ ॥
विज्ञाताशेषवृक्षायुर्वेदोऽवादीदसावदः।
नन्दनाभं करोम्येष विलम्बेन विना वनम् ॥ १०४ ॥
हृष्टात्मना ततस्तेन सामग्री सकला कृता।
दोहदादिकमादाय कुमारेणाऽपि तत्कृतम् ॥ १०५ ॥
पुलकैरिव रागस्य स्तवकैः क्वाऽपि रेजिरे।
अशोकाः187 कामिनीपादताडनेन समुद्गतैः ॥ १०६ ॥
बिभिदे क्वाऽपि बाणेन वाणेनेव मनोभुवः।
पुष्पपुंखभृता तत्र वियुक्तानां मनो भृशम् ॥ १०७ ॥
कटाक्षैर्लक्षितः पूर्वं पुरन्ध्रीणां यदादरात्।
उवाह तिलकस्तेन तिलकत्वं188 वनश्रियः॥ १०८ ॥
विचकास कुचाभोगसङ्गात् कुरबकः स्त्रियः।
यथा तथा कृतः सोऽपि भृङ्गैः189 सुरवकस्तदा190 ॥ १०९ ॥
प्रमदामद्यगण्डूषो वकुलैर्यः पपे पुरा।
प्रवृद्धकुसुमामोदैरुद्गीर्ण इव शोभितः ॥ ११० ॥
कृताऽऽरार्तिकमाङ्गल्यदीपकैरिव चम्पकैः।
विशतो रतिनाथस्य तत्र पुष्पैर्विराजितम् ॥ १११ ॥
उत्कर्षो गुणसम्पर्क जातेनाशुचिजन्मना।
यदाप्तं कुंकुमेनोच्चैः कामिनीमुखमण्डनम् ॥ ११२ ॥
चक्रे कण्टकिभिस्तत्र सरजस्कैः खलैरिव।
सुगन्धगुणयोगेन केतकैर्मस्तके पदम् ॥ ११३ ॥
सेकधूपनपूजादियोग्यं यद्यस्य भूरुहः।
विधाय तत्तदा तस्य तेनाऽकारि विदोच्चता191॥ ११४ ॥
सविभ्रमा192 कृता तत्र जातपुष्पफलोद्भवा।
समस्ताऽपि कुमारेण वनस्पतिनितम्बिनी ॥ ११५ ॥
माकन्द193कलिकास्वादकलकूजितकोकिलम्।
सुगन्धिकुसुमामोदसुखलब्धमधुव्रतम् ॥ ११६ ॥
माधवी194मण्डपोपान्तक्रीडत्कामुकयुग्मकम्।
नागवल्लीकृताऽऽश्लेषसफलक्रमुकद्रुमम्195 ॥ ११७ ॥
नभोऽवतीर्णसंभ्रान्तकिन्नरीकलगीतिभिः।
त्यक्तदुर्वाङ्कुरास्वादकुरङ्गककदम्बकम् ॥ ११८ ॥
लतान्तरचलच्चारुसारिकाशुकजल्पनैः।
उत्कर्णचकितानेकसङ्केतस्थाभिसारिकम् ॥ ११९ ॥
तरुमूलसमालन्नध्यानासक्ततपोधनम्।
तद्भक्तिभाविताऽऽयातखेचरामरमानवम् ॥ १२० ॥
नितान्तफलसम्भारभज्यमानमहीरुहम्।
रतान्तश्रमसंहारकारिचारुप्रभंजनम् ॥ १२१ ॥ (कुलकम्)
तथाविधं तदालोक्य चक्रे चैत्रोत्सवानसौ।
पूजयामास सद्वस्त्रभूषणाद्यैश्च तं सदा ॥ १२२ ॥
राजादिजनविख्यातो नारीनेत्रालिपङ्कजः।
जिनदत्तोऽभवत्तत्र जिनधर्मपरायणः ॥ १२३ ॥
ततो महात्मा बननायकेनपुत्रः स मेने मदनोपैमानः।196
धृतः स्वगेहे गुणरत्नकोशः
सर्वज्ञधर्मामृतपानपुष्टः ॥ १२४ ॥
अथाऽन्यदा चिन्तितवानितीदं ।
स्थातुं न मे सद्मनि युज्यतेऽस्य ।
न यावदद्याऽप्यभिसारिकेव
कृता भ्रमन्ती स्ववशे मया श्रीः ॥ १२५ ॥
विना न दानेन समस्ति धर्मः
सुपुष्कलेनाऽपि धनेन कामः ।
विना धनं नो व्यवसायतोऽस्ति
त्रिवर्गमूलं तदिदं स्वमेव ॥ १२६ ॥
अवोचि तेनेति ततः स तातः
प्रयच्छ भाण्डं जलयात्रया नः ।
यामो यदादाय विचित्ररत्नं
द्वीपं जवात्सिंहलशब्दपूर्वम् ॥ १२७ ॥
निशम्य तदुदीरितं भणति सार्थवाहो मुदा
मयैव सह गम्यतां यदि समस्ति बुद्धिर्धने।
ततः प्रगुणिताऽखिलोचितविचित्रभाण्डैः समं ।
जनैर्बहुविधैरिमौ मुदितमानसौ प्रस्थितौ ॥ १२८ ॥
इति श्रीभगवद्गुणभद्राचार्य्यविरचिते जिनदत्तचरित्रे तृतीयः सर्गः ॥
——————————————————
चतुर्थः सर्गः।
अथ प्राप्तौ पयोराशेरुपान्तं क्रमयोगतः।
तावपास्तश्रमौ शीतवेलावनसमीरणौ ॥ १ ॥
कृत्वा पूजादिकं तत्रारूढौ पोतं शुभे दिने।
प्राप वेगात्तटं सोऽपि प्रेरितः शुभवायुना ॥ २ ॥
ततोऽवतीर्य हृष्टौ तौ झगित्येव समागमत्।
प्रविष्टौ च ततो द्वीपं पूर्वोदितममा179 जनैः ॥ ३ ॥
आवासिता जनास्तत्र बहिरन्तर्यथायथम्।
कुमारः श्रावकंमन्ये वृद्धैकस्या गृहे स्थितः ॥ ४ ॥
विविक्ताहारपानादिबुद्धया सार्थेशसम्मताः197।
क्रियादिकं ततः कर्तुं प्रवृत्ताः सकला जनाः ॥ ५ ॥
योऽथ राजा पुरस्तस्या मेघवाहनसंज्ञितः।
विजयाकुक्षिसम्भूता तत्सुता श्रीमतीत्यभूत् ॥ ६ ॥
प्राप्ताऽपि यौवनं कामामोघास्त्रं सौम्यदर्शना।
सेन्दुमूर्तिरिवांकेन रोगेणाऽतिकदर्शिता ॥ ७ ॥
यथा यः सन्निधौ तस्याः कोऽपि स्वपिति याति सः।
यमवेश्म ततस्तस्यां निर्विण्णाः जनकादयः ॥ ८ ॥
प्रासादे सुन्दरे साध्वी सा बहिः स्थापिता ततः।
अभ्यर्थितञ्च भूपेन पौरलोकः सगौरवम् ॥ ९॥
केनाऽपि पूर्वपापेन ममेयं देहजाऽजनि।
आनयामि ततो यावत्कुतोऽपि भिषजं198 जनाः ॥ १० ॥
प्रतिसद्म ततो यातु प्रत्यहं चैकमानवः।
वस्तुमस्या199 गृहे चैवं सा मेने जनताऽखिला ॥ ११ ॥
अथान्येद्युः समागत्य नापितेनेति भाषिता।
कुमारसन्निधौ वृद्धा तवाद्याजनि वारकः200 ॥ १२ ॥
सा निशम्य वचस्तस्य रुरोद करुणं तथा।
वयसां201 शल्यितं चेतो यथाङ्गणकणादिनाम्202 ॥ १३ ॥
हे धातर्भर्तृशून्याहं हताशा दुःखपूरिता।
सन्दर्शनेन जीवामि सुतवक्रस्य केवलम् ॥ १४ ॥
सहते न तदप्येष विधाता विदधे किमु।
इत्यादि विलपन्ती सा तेनाऽवाचि महात्मना ॥ १५ ॥
समग्रदुःखसम्भारलीलालुण्टनलम्पटे।203
मातर्मय्यपि सत्येवं पुत्रे किमिति रोदिषि ॥ १६ ॥
अहं तत्र गमिष्यामि त्वं तिष्ठ सुखिताऽम्बिके204।
तयाऽभाणि युवां पुत्र वामदक्षिणचक्षुषी ॥ १७ ॥
तत्कस्य सद्यतां नाशः किञ्च कामाकृतिर्भवान्।
कुलकेतुर्महासत्त्वो मत्प्राणैरपि जीवतु ॥ १८ ॥
चिन्तितं च कुमारेण जातेनाऽपि हि तेन किम्।
येनाऽऽपत्कर्द्दमे मग्नानोद्धृताः प्राणधारिणः ॥ १९ ॥
स्वफलैः प्रीणयन्त्येव205 पान्थसार्थान् द्रुमा अपि।
यत्र तत्रोपकाराय यतनीयं न किं नृभिः206 ॥ २० ॥
प्राणनाशेऽपि कर्त्तव्यं परेभ्यः सुधिया हितम् ।
आशाः सुगन्धयत्येव दह्यमानोऽपि चन्दनः ॥ २१ ॥
स्ववाचा प्रतिपन्ना च जरतीयं मयाम्बिका ।
उपेक्षितुं न युक्ताऽतः सुदुःखा सुतजीविता ॥ २२ ॥
इत्यालोच्योपरोधेन महता जननी तदा ।
भणिता तेन साऽवादीन्महासत्त्वैवमस्त्विति ॥ २३ ॥
ततः स्नातोऽनुलिप्तञ्च सर्वाभरणभूषितः ।
पुष्पताम्बूलसद्गन्धदिव्यवस्त्रविराजितः ॥ २४ ॥
वसुनन्दकुपाणाभ्यां भ्राजमानभुजद्वयः ।
विद्याधरकुमारो वा207 प्रतस्थे राजवर्त्मना ॥ २५ ॥
कौतुकाक्षिप्तचेतोभिर्ददृशे सकलैर्जनैः ।
प्रासादशिखरारूढनारीभिश्च यथा स्मरः ॥ २६ ॥
राज्ञाऽप्यमुं समालोक्याप्राकृताकारधारिणम् ।
पार्श्वस्थाः गदिताः कोऽयं क्व चायाति महाद्युतिः ॥ २७ ॥
कुमार्याः सदने वस्तुमिति तैः समुदीरितम् ।
निशम्य स्वं शुशोचासौ धिगस्तु मम जीवितम् ॥ २८ ॥
तनुजाव्याजतः सेयं कालरात्रिगृहे मम ।
अजनिष्ट जगच्छ्रेष्टनररत्नविनाशिनी ॥ २९ ॥
अहो प्रकृतिचापल्यमीदृशं मानुषायुषः ।
येनैषोपि महावीरो रात्रावेव विनंक्ष्यति ॥ ३० ॥
अहो श्लाघ्यं कथं राज्यं मादृशां पापकर्मणाम् ।
ईदृशामपराधेन विना यत्र विनाशनम् ॥ ३१ ॥
रक्षात्मानं महाभाग निजमाहात्म्ययोगतः ।
त्वादृशो हि महासत्त्वो दुर्ल्लभो भुवने यतः ॥ ३२ ॥
इत्थं सम्भावितो राज्ञा दृष्टिगोचरमाप सः ।
कुमारीभुवनं भव्यो भूतसंघातभीतिदम् ॥ ३३ ॥
आरुरोह ततस्तत्र प्रथमां भूमिमुन्नताम् ।
आलुलोके च तत्रासौ दिक्चतुष्कं शनैः शनैः ॥ ३४ ॥
द्वितीयस्यामसौ दृष्टा चारुपल्यंकसङ्गता ।
सविकासविषादिभ्यां दृग्भ्यां द्वारावलोकिनी ॥ ३५ ॥
तत्रालोक्य दिशः सर्वास्तदासन्ने व्यवस्थितः ।
स तल्पेऽनल्पकल्याणभाजनस्थामुवाच सः ॥ ३६ ॥
साऽपि संभाषणात्तस्योमंस्ता208ऽऽत्मानं मृगेक्षणा ।
कृतकृत्यमिवाऽऽत्मानं हृष्टः सोऽपि तदक्षिणात् ॥ ३७ ॥
ताम्बूलादिकमादाय तया दत्तं विचक्षणः ।
पृष्टः प्रारब्धवानेष कथां कर्णसुधास्पदाम् ॥ ३८ ॥
यावत्तस्याः समायाता निद्रा मुद्रितचेतसः ।
हुङ्कारस्य विरामेण सुप्तां ज्ञात्वोत्थितश्च सः ॥ ३९ ॥
चिन्तितं च किमत्राहो मरणे कारणं नृणाम् ।
किमेषा पूतना प्रायः किं वा रक्षोविजृम्भितम् ॥ ४० ॥
अन्यद्वाऽस्तु यथाकाममप्रमत्तो भवाम्यहम् ।
जागरूको न यो लोके तस्करैर्मुष्यते ध्रुवम् ॥ ४१ ॥
इत्यालोच्य समानीय मृतकं पृष्ठभूमितः ।
आरोप्य शयनीये च प्रच्छाद्य वरवाससा ॥ ४२ ॥
प्रदीपच्छायया तस्थौ स्तम्भान्तरितविग्रहः
उत्खातधौतखङ्गोऽसौ209 वृत्तदृष्टिरितस्ततः ॥ ४३ ॥
यावत्तावन्मुखे तस्या जिह्वाद्वितयमुद्भूतम् ।
कम्पमानं ज्वलद्वह्निशिखाभं भयदायकम् ॥ ४४ ॥
तदालोक्य स्मितं तेन मनाग्विदितहेतुना ।
निर्जगाम ततो मन्दं वदनादुद्भटा फणा ॥ ४५ ॥
क्रमेण च ततः काले कालदण्ड इवापरः ।
निश्चक्राम महाभोगो गुखाक्षो भीषणः फणी ॥ ४६ ॥
तत्तल्पतः समुत्तीर्य समारुह्याऽपरे शनैः ।
दशतिस्म शिरोदेशे यावत्तत्र स्थितं शवम् ॥ ४७ ॥
तावदागत्य वेगेन निहतोहिर्दयोज्झितः ।
तथा यथा पपाताऽसावष्टखण्डो महीतले ॥ ४८ ॥
भूषाकरण्डि210कामध्यवर्तिनं तं विधाय सः ।
अपनीय शवं कोशस्थापितासिः सुखं स्थितः ॥ ४९ ॥
कन्यकाऽपि गते व्याधौ सुखिताभूत्कृशोदरी ।
सुष्वाप च समुद्धृतनिराकुलतनुस्तदा ॥ ५० ॥
प्रबुद्धाऽथ ततः प्रातः पवनेन धुतांशुका211 ।
नीलाब्जरेणुगर्भेण रतक्लममुषा स्त्रियाम् ॥ ५१ ॥
उत्थिता चिन्तयामास किमिदं ननु कारणम् ।
सुखितानि ममाङ्गानि येनाभूदुदरं लघु ॥ ५२ ॥
उत्साहः कोऽपि सम्पन्नो गतो व्याधिर्दुरन्तकः ।
दुःखान्तदायको नूनमयञ्चात्र महाद्भुतः ॥ ५३ ॥
सत्येव नृत्वसामान्ये केचिदेवंविधा भुवि।
परोपकारिणः सन्ति ग्रहाणां भानुमानिव ॥ ५४ ॥
किंचास्य दर्शनादेव ममानन्दस्तथाऽजनि।
यथामृतरसेनेव संसिक्ता सर्वतस्तनुः ॥ ५५ ॥
विचिन्त्येति पप्रच्छाऽसौ प्राञ्चलिर्जनवल्लभम्।
सस्मिता तं सलज्जा च प्रसन्ना धीरलोचना ॥ ५६ ॥
नाथाऽनुमानतो ज्ञातोऽनुभावस्तव212 यद्यपि।
किं वृत्तमद्य यामिन्यां213 तथापीदं निवेदय ॥ ५७ ॥
तेनावाचि त्यमेवात्र विज्ञा सुतनु ! किं ब्रुवे।
जानामि किन्तु वक्त्रात्ते श्रोतुं चेतः समुत्सुकम् ॥ ५८ ॥
यद्येवं दृश्यतां मुग्धे स्वालङ्कारकरण्डिका।
तामुद्धादयते यावत्तावदद्दष्टो भुजङ्गमः214 ॥ ५९ ॥
सर्प सर्पेति जल्पन्ती सा ततोऽपसृता जवात्।
मा भैषीरिति तेनोक्तं विशालाक्षि ! विचेतनः215 ॥ ६० ॥
विश्रब्धायास्ततस्तस्यास्तेनाऽकथि यथाविधि।
वृत्तान्तं स्तिमिताक्षी साऽश्रौषीद्विधुवती216 शिरः ॥ ६१ ॥
अन्तरेऽत्र समायातः तदुदन्तबुभुत्सया217।
तदध्यक्षस्तथालोक्य समुवाच महीपतिम् ॥ ६२ ॥
यथा वर्द्धस्व राजेन्द्र दिष्ट्या दोषविवर्जिता।
अभूत्सुता महावीरः कुशली स च तिष्ठति ॥ ६३ ॥
इत्याकर्ण्य जगामाऽसौ दत्वाऽस्मै प्रचुरं धनम्।
आरुह्य हस्तिनं वेगाज्जनैः कतिपयैरसौ ॥ ६४ ॥
अभ्युत्तस्थे कुमारेण दृष्टिगोचरमागतः।
भूपस्तेनापि हृष्टेन सप्रसादं विलोकितः ॥ ६५ ॥
उपविष्टस्ततो राजा तां ददर्श स्वदेहेजाम्218।
स्वर्भानुनेव219 निर्मुक्तां पार्वणेन्दुतनुं यथा ॥ ६६ ॥
मुहुर्मुखं तनूजाया मुहुस्तस्य महामतेः।
तृप्तिंजगाम नो पश्यंस्तदानीं नरनायकः ॥ ६७ ॥
पप्रच्छ च महाबुद्धे किमद्याऽजनि चेष्टितम्।
रात्रावत्र कुमारेण दर्शितं पन्नगादिकम् ॥ ६८ ॥
कथितश्च ततः सर्वं कुमार्या जनकाय तत्।
अहो चित्रमसम्भाव्यं विधेर्विलसितं भुवि ॥ ६९ ॥
उपकारः कृतोऽनेन सोऽयं मम महात्मना।
कुलकीर्त्तिः प्रतापो मे राज्यं येनाऽऽशु दीपितम्220 ॥ ७० ॥
ददाम्यस्मै सुतामेनां भल्लीमिव मनोभुवः221।
अतोऽपि गुणसम्भारभूषितः को भविष्यति ॥ ७१ ॥
कुमारस्य मुखेऽन्यस्य संहृता तरला स्थिरा।
अलक्षप्रसरा दृष्टिर्यथाऽस्याञ्च विकासिनी ॥ ७२ ॥
यथा गण्डस्थलोद्भूता मन्दाः स्वेदोदविन्दवः।
म्लानरागाः समुच्छ्वासैर्यथा वाऽधरपल्लवः ॥ ७३ ॥
वाग्वृत्तिः स्खलिता कम्परोमांचोऽसावधानता।
सखीष्वस्यास्तथा व्यक्तं कुमारेऽजनि मानसम् ॥ ७४ ॥
यथा चिन्तितमेवेदं सम्पन्नं मम साम्प्रतम्।
समाकृष्टोऽथवा पुण्यैरयमस्याः समागतः ॥ ७५ ॥
तथा प्रत्युपकारोऽयमेतेनाऽस्य भविष्यति ।
कन्यारत्नमिदं चैतत्सम्बन्धेनैव बन्धुरम् ॥ ७६ ॥
विधिरेवाथवा विश्ववैचित्र्यं विस्मयावहम् ।
विदधाति नरस्तत्र केवलं याति साक्षिताम् ॥ ७७ ॥
इत्यादि बहु सम्भाव्य कुमाराय कृशोदरी ।
वितीर्णा भूभुजा तस्मै सोऽप्यमंस्तोपरोधतः ॥ ७८ ॥
विधाय विधिना तस्याः कुमारः पाणिपीडनम् ।
पंचेन्द्रियसुखं तस्थौ भुञ्जानः सहितस्तया ॥ ७९ ॥
छायेव साऽपि तस्याभूदविभिन्ना मनस्विनः ।
चक्रे तेनाऽपि विज्ञातजैनधर्मक्रमादिति ॥ ८० ॥
मिथ्यात्वं त्यज तन्वंगि संसारार्णवपातकम् ।
भज भव्यजनाभीष्टं सम्यक्त्वं मुक्तिहेतुकम् ॥ ८१ ॥
अदेवे देवताबुद्धिरगुरौ गुरुसम्मतिः ।
अतत्त्वे तत्त्वसंस्था च तथाऽवादि जिनेश्वरैः ॥ ८२ ॥
सुभ्रु विभ्रान्तचेतस्का देहिनो देवतादिषु ।
वासयन्ति हि सप्तापि नरकाणि निरन्तरम् ॥ ८३ ॥
लोकद्वयेऽपि यानीह सन्ति दुःखानि सुन्दरि ।
जायते भाजनं जन्तुस्तेषां मिथ्यात्वमोहितः ॥ ८४ ॥
निःशेषदोषनिर्मुक्तो मुक्तिकान्तास्वयम्वरः ।
लोकालोकोल्लसज्ज्ञानो देवोऽस्तीह जिनश्वरः ॥ ८५ ॥
अन्ये ततो विशालाक्षि रागद्वेषादिकल्मषैः ।
दूषिता न भवन्त्याप्ताः कृतकृत्या विरागिणः ॥ ८६ ॥
अतस्त्रिधा प्रतीहि त्वं देवानामधिदैवतम् ।
चराचरजगज्जन्तुकारुण्यं स्वामिनं जिनम् ॥ ८७ ॥
धर्मस्तद्वदनाम्भोजनिर्गतः सुगतिप्रदः।
यस्य मूलं समस्तार्थसाधिका करुणा मता ॥ ८८ ॥
कृतं किमपि पूर्णेन्दुवदने दयया समम्।
विद्धं रसेन वा ताम्रं सर्वकल्याणकारकम् ॥ ८९ ॥
उद्देशाद्देवतादीनां कृतोऽपि प्राणिनां बधः।
नरकाय गुडोन्मिश्रं विषं मारयते न किम् ॥ ९० ॥
जायते येन येनेह हेतुनाऽसुमतां222 हतिः।
तत्तद्वर्जय बाले त्वं येन स्यान्निस्तुषो223 वृषः ॥ ९१ ॥
अत्र चामुत्र सौख्यानि भुंजते यानि देहिनः।
कृपाकल्पलता तानि सूते सर्वाणि सेविता ॥ ९२ ॥
वितस्त्या224 मीयते जातु नभो भूरंगुलैरियम्।
शक्याः सुमुखि संख्यातुं न गुणाः करुणाश्रयाः ॥ ९३ ॥
करभोरु परित्यज्य प्राणित्राणं न विद्यते।
धर्मः शर्मकरः प्रोक्तो न च सोऽन्यैर्जिनेन्द्रतः ॥ ९४ ॥
नानाऽनुष्ठानयुक्तापि नादया शस्यते क्रिया।
कामिनीव धृताशेषभूषणा कुलटा किल ॥ ९५ ॥
भवभोगशरीराणामसारत्वं विबुद्ध्य225 ये।
सन्त्यज्य तृणवल्लक्ष्मीं नैर्ग्रन्थ्यव्रतमाश्रिताः226 ॥ ९६ ॥
प्राणात्ययेऽपि नो येषां जीवहिंसा वचोऽनृतम्।
चुरा227 रामारिरंसा228 वा जिघृक्षा229 हृदि जायते ॥ ९७ ॥
लाभालाभारिमित्रेषु लोष्टकांचनयोरपि ।
समभावाः सुखे दुःखे निस्पृहाः स्वतनावपि ॥ ९८ ॥
अनेकजन्मसम्भूतं पापपङ्कं शरीरिभिः ।
यत्पादपद्मसत्तीर्थसेवया क्षाल्यते क्षणात् ॥ ९९ ॥
भुंजते पाणिपात्रेण शेरते भुवि वाऽऽसते ।
वनादौ विधिवद्धंसध्यानेनाऽध्ययनेन च ॥ १०० ॥
ये करालम्बनं सम्यक् संसारार्णवमज्जताम् ।
जगतां जातरूपास्ते230 गुरवो गजगामिनि ॥ १०१ ॥
कामक्रोधमदोन्मादमोहान्धा विषयाधिकाः ।
यान्तो नयन्ति भक्तांस्तु231 गुरुत्वेनाध एव हि ॥ १०२ ॥
देवधर्मगुरूनित्थं मन्यमाना मनस्विनि ।
लोकद्वयेऽपि सौख्यानां भाजनं भविता सदा ॥ १०३ ॥
निबन्धनमिदं सर्वव्रतानां दर्शनं232 प्रिये ।
विनैतेन विमूलः स्यात्समस्तनियमद्रुमः ॥ १०४ ॥
विशेषतस्तु नात्तव्यं मदिरामाँसमाक्षिकम् ।
अनन्तजीवसंहारकारि पापैकसाक्षिकम् ॥ १०५ ॥
जीवयोनिसमुत्थानं फलानामपि पंचकम् ।
मुंच भुक्तिं निशायां च चरैतानि व्रतानि च ॥ १०६ ॥
जीवघाताऽनृतस्तेयपुरुषान्तरसेवनम् ।
परिग्रहममानं च त्यज राजीवलोचने233 ॥ १०७ ॥
पात्रं सर्वश्रियां पात्रदानं भोगोपभोगगाम् ।
संख्यामसंख्यदुर्भावभेदिनीं धेहि मानसे ॥ १०८ ॥
सर्वसङ्गं परित्यज्य संस्मृत्य गुरुपंचकम्।
आराधनाविधानेन प्रान्ते प्राणोज्झनं234मतम् ॥ १०९ ॥
दिग्देशनियमं दुष्टाऽनर्थदण्डोज्झनं कुरु।
सामायिकं हताघौघं प्रोषधं दुःखनाशकम् ॥ ११० ॥
एतेषु गुणशिक्षाद्या नियमा द्वादशव्रतम्।
पंच235 त्रयश्च चत्वारो गृहस्थानां जिनोदिताः ॥ १११ ॥
गुरुणां वचनादेतत्तवाऽवादि मया प्रिये।
पश्चात्ते दापयिष्यामि विशेषाद्गुरुसन्निधौ ॥ ११२ ॥
इत्यादि सा कुमारेण जिनधर्म विशुद्धधीः।
ग्राहिता साऽपि जग्राह तं तथेति त्रिधा तदा ॥ ११३ ॥
इत्थं तथा निखिलसौख्यनिधानधात्र्या
धन्यः समं कुतुककोपकृतान्तरायम्।
सौख्यं स निर्विशति यावदितः कृतार्थ-
स्तावच्चचाल सकलो वणिजां समूहः ॥ ११४ ॥
ज्ञात्वाऽपि तेन भणितो नृपतिः सहेतु–
लोकः प्रयाति सकलोऽपि मम स्वदेशम्।
मां प्रेषयेति वचनेन नृपः सदुःख–
स्तस्मै समय तनयां सपरिच्छदां ताम् ॥ ११५ ॥
पत्रिंशदस्ति भुवि यस्य सुवर्णकोट्यो
मूल्यं तदस्य किल कण्ठविभूषणं च।
दत्वा नृपेण बहुधा वसनादिजात-
मालिङ्गय साश्रुनयनेन ततो विमुक्तः ॥ ११६ ॥
अन्यैश्चराज्यपरिवारजनैः समग्रै–
रन्तःपुरेण च कृतापचितिः236 कुमारः।
आपृच्छ्यभूपतिपुरस्सरसर्वलोकं
प्रापंत्तटं जलनिधेः स्वजनान्निवर्त्य ॥ ११७ ॥
माङ्गल्यं सकलं विधाय विधिना कृत्वा जनं याचकं
पूर्णेच्छुंशुभवासरे सह जनैस्तैः सार्थवाहादिभिः।
आरूढो धनबद्धकेतुनिकरं पोतं सपुण्यो जवा–
न्मुक्तः सोऽपि चचाल वारिधिजले मन्दानिलप्रेरितः॥ ११८॥
इति श्रीभगवद्गुणभद्राचार्यविरचिते श्रीजिनदत्तचरित्रैचतुर्थः सर्गः ॥ ४ ॥
——————————————————
पञ्चमः सर्गः।
अथ ते यान्ति पश्यन्तो यानपात्रेण वारिधिम्।
क्वचिद्वेत्रलताविद्धं द्वारं भूमीभृतामिव ॥ १ ॥
न्यायोपेतनरेन्द्राभं क्वचित समकरं क्वचित्।
तिमिराजितमत्यर्थं मुनीनामिव मानसम् ॥ २ ॥
अनेकान्तमिवात्यन्तबहुभङ्गिसमाकुलम्।
समुक्ताहारमन्यत्र कान्तास्तनतटोपमम् ॥ ३ ॥
अधः स्थितमहामूल्यमाणिक्यं शंखकादिकम्।
दर्शयन्तं वहिर्भीत्या कृपणं वाऽर्थिनां क्वचित् ॥ ४ ॥
निर्यापकगिरा क्वाऽपि समुत्कर्णजनं क्वचित्।
कर्पूरादिद्रुमपर्शिसुगन्धायातमारुतम् ॥ ५ ॥
एवं यावदभूत्तावत्सार्थवाहः स्मरातुरः।
जिनदत्तप्रियारूपं समालोक्य समाकुलम् ॥ ६ ॥
भोजनं शयनं पानं वचनं कार्याचिन्तनम्।
तन्मुखाम्भोजसक्तस्य सकलं ज्वलनायितम् ॥ ७ ॥
समीरयन्ति कामाग्निं वेलावनसमीरणाः।
तस्य तां ध्यायमानस्य शून्यस्येव दिवानिशम् ॥ ८ ॥
दृष्टं सहस्रशो रूपमबलानां मया भुवि।
तदस्याश्चरणाङ्गष्ठलावण्येनाऽपि नो समम् ॥ ९ ॥
धन्यः स एव संसारे साऽलसायतलोचना।
बलित्वा237 वीक्षते विश्वसुभगं यमियं स्वयम् ॥ १० ॥
ममेयं जगदानन्ददायिनी वशवर्त्तिनी।
केनोपायेन जायेत जीवितव्यफलं लघु ॥ ११ ॥
अथवा विद्यते यावत्कुमारो वीरसत्तमः।
तावदस्याः सुखालोकं न कृतं मुखपङ्कजम् ॥ १२ ॥
निक्षिप्यतं दुरालोकं क्रूरनक्राकुले जले।
निश्चितं मानयिष्यामि संसारसुखमेतया ॥ १३ ॥
चिन्तयित्वेति तेनोक्ताः कुमारादपरे जनाः।
कार्यं किमपि भाण्डादौ युष्माभिः पतिते न हि ॥ १४ ॥
विभिद्येति समस्तांस्तान क्षिप्तंकिमपि वारिणि।
उदासीनेषु सर्वेषु कुमारोऽवततार सः ॥ १५ ॥
ततरिछन्ना वस्त्रा238 तैर्वेगतो गतवानसौ।
यथाऽगाधजले पोतो वाहितश्च क्षणात्ततः ॥ १६ ॥
कुमारपातसञ्जातशोकशङ्कुहता239 हृदि।
अजस्त्राश्रुप्रवाहेण प्लावितस्तनमण्डला ॥ १७ ॥
सा किंकर्त्तव्यतामूढा यावत्तिष्ठति सुन्दरी।
तावदभ्येत्य साऽवादि सार्थवाहेन दुःखिता ॥ १८ ॥
शशाङ्कमुखि ! मा कार्षीः शोकं सन्तापकारणम्।
सर्वाः सर्वप्रकारेण तवाऽऽशाः240 पूरयाम्यहम् ॥ १९ ॥
मांये तिष्ठति तन्वङ्गित्वदादेशविधायिनि।
आयत्ते व समस्तार्थे किं वृथैव विषीदसि241 ॥ २० ॥
अम्बराणि विचित्राणि भूषणानि यथारुचि।
गृहाण मद्गृहे सर्वं स्वामित्वं च शुभे कुरु ॥ २१ ॥
भुङ्क्ष्व भोगान्मया साकं179 बाले ! वाञ्छातिरेकतः।
सम्पन्नसर्वसामग्रयं सफलीकुरु यौवनम् ॥ २२ ॥
अत एव मया मुग्धे ! जिनदत्तः प्रपञ्चतः।
पयोनिधौ परिक्षिप्तस्त्वत्सङ्गाहितचेतसा ॥ २३ ॥
अतः कान्ते गताशङ्का सविलासं समं मया।
रतसौख्यं भजाजन्म सर्वबाधाविवर्जितम् ॥ २४ ॥
तन्निशम्य नराधीशसुतया विधुतं242 शिरः।
चिन्तितं च क्षतेऽनेन कीर्णः क्षारोऽतिदुःसहः ॥ २५॥
कृत्याकृत्यमविज्ञाय कामान्धेन कथं वृथा।
नीलोत्पलवलैः कष्टं कुकूलं243 किल कल्पितम् ॥ २६ ॥
जिनदत्तनिशानार्थं कुर्वतो मे तिरोहितम्।
केन वाऽहो244 पिशाचस्य मुखमेतस्य दृश्यते ॥ २७ ॥
अथवा सर्वपापानामहमेव निबन्धनम्।
मद्रुपासक्तचित्तेन यदनेन स नाशितः ॥ २८ ॥
खण्डयित्वा द्विजैर्जिह्वां दत्वोत्फालं जलेऽथवा।
असिपुत्रिकया245 हत्वा किमात्मानमहं म्रिये॥ २९॥
अथ वा धिगिमं तेन धर्मज्ञेन निवारिता।
आत्मघातं विलम्बे वा मा कदाचित्तदागमः ॥ ३० ॥
शीलं पालयतां सम्यक् स्थिराणामिह वाञ्छितम्।
भूयोऽपि सम्भवत्येव सीतादीनामिव ध्रुवम् ॥ ३१ ॥
विदधामि तदेतस्य कामार्त्तस्याशु वञ्चनम्।
भावि भद्रं प्रियप्राप्तावन्यथा स्यात्तपोवने ॥ ३२ ॥
सम्भाव्येति तथाऽभाणि सूक्तमेतत्तवोदितम्।
वज्रशृङ्खलतुल्यन्तु वाचा बन्धनमस्ति ते ॥ ३३ ॥
श्वशुरोऽयं तवेत्युक्तं त्वत्पुत्रेण पुरो मम।
अतोऽस्ति ताततुल्याय रन्तुं मे जायते घृणा ॥ ३४ ॥
प्रतिपन्नंन मुञ्चन्ति प्राणत्यागेऽपि सन्नराः।
यथा सागर एवाऽयं मर्यादां विजहाति किम् ॥ ३५ ॥
स्वकुले विमले सम्यक् हेयाहेयौ विजानता।
सम्पर्केण परस्त्रीणां कलङ्कः क्रियते कथम् ॥ ३६ ॥
अकर्त्तव्ये कथं चित्तमीदृशे भजतां मम।
उत्साहं तादृशे जन्म स्मरन्त्याः स्वकुलेऽधुना ॥ ३७ ॥
सार्थवाहस्तदाकर्ण्य तामुवाच मनस्विनि।
जानाम्येवं तथाप्युच्चैर्मामभिद्रवति स्मरः ॥ ३८ ॥
मामयं मोहयामास तथा कामो यथा शुभे।
लज्जायशोविवेकाद्याः स्पृश्यन्ते मनसा न मे ॥ ३९ ॥
कन्दर्पसर्पदृष्टस्य मूर्च्छतो मे मुहुर्मुहुः।
समस्तोपायमुक्तस्य दीयतां सुरतामृतम् ॥ ४० ॥
एकान्तेन न चाकार्यमेतत्तव तनूदरि।
श्रूयते हि पुराणेषु श्रुतौ चैव सहस्रशः ॥ ४१ ॥
द्रौपदी मुदिता भ्रातृपञ्चकं जगदुत्तमम्।
तातादिविदिता चक्रे कृतार्थंकामकेलिभिः ॥ ४२ ॥
समस्तस्मृतिशास्त्रज्ञो नरामरनमस्कृतः।
भारद्वाजतपा246 जातो नैव किं भ्रातृजायया ॥ ४३ ॥
** स्त्रियं वा पुरुषं वापि स्वयमेव समागतम्।
भजते यो न तस्यास्ति ब्रह्महत्या निसंशयम् ॥ ४४ ॥**
** तयाऽवाचि महाबुद्धे वक्तुमेवं न युज्यते।
शस्यते न हि केनाऽपि स्नुषाश्वशुरसङ्गमः247 ॥ ४५ ॥**
** द्रौपद्याद्या महासत्यः पवित्रीकृतभूतलाः।
विषयान्धेन केनापि तद्वृत्तं कृतमन्यथा ॥ ४६ ॥**
** भारद्वाजादिदृष्टान्तः प्रमाणं न हि जायते।
भवादृशा दुराचाराः पुराप्यासन्न किं नराः ॥ ४७ ॥**
** स्वयमेवागतेत्यादि युक्तं यदि सुभाषितम्।
पारदारिकलोकस्य शिरच्छेदादिकं कृतम् ॥ ४८ ॥**
** पीडितोऽपि न चाक्कृत्यं कुरुते जातु सात्त्विकः।
यत्किंचिदेव किं सिंहः क्षुधाक्षीणोऽपि खादति ॥ ४९ ॥**
** भिन्दति हृदयं यस्य कटाक्षैरभिसारिकाः।
तमीर्ष्ययेव मुञ्चन्ति लोकद्वितयसम्पदः ॥ ५० ॥**
** अन्यस्त्रीभ्रूधनुर्मुक्तकटाक्षशरपङ्क्तिभिः।
न शीलकवचं भिन्नं येषां तेभ्यो नमो नमः ॥ ५१ ॥**
** मालिन्यं स्वकुले येन जायते दूष्यते यशः।
तत्कृत्यं क्रियते केन स्वस्य सौख्यसमीहया ॥ ५२ ॥**
** कलत्रसंग्रहः पुंसां सतां सन्तानवृद्धये।
तत्रैवान्ये समासज्य नरके निपतन्ति हि ॥ ५३ ॥**
** सन्तोऽन्यवनितां वीक्ष्य प्रयान्त्यानतमस्तकाः।
वृषभास्तोयदोन्मुक्तनीरधाराहता इव ॥ ५४ ॥**
** अकामिता सकामेऽपि कलत्रेऽन्यस्य यन्नृणाम्।
महाव्रतमिदं नाम न परस्त्र्यादिधारणम् ॥ ५५ ॥**
** रामामम्बामिवान्यस्य कचारमिव248 काञ्चनम्।
पश्यन्ति ये जगत्तेषामशेषं गाहते यशः ॥ ५६ ॥**
** पातालबद्धमूलोऽपि मेरुः स्खलति कर्हिचित्।
प्राणात्ययेऽपि दुर्वृत्ते सतीनां न पुनर्मनः ॥ ५७ ॥**
** नान्यं जातु निषेवेऽहं परित्यज्य निजं पतिम्।
न्द्रमन्तरिते सूर्ये पश्यत्यपि न पद्मिनी ॥ ५८ ॥**
** शेषशीर्षमणिर्मन्ये सिंहानां केसरच्छटा।
केनाऽपि स्पृश्यते क्वापि सतीनां न पुनस्तनुः ॥ ५९ ॥**
** अतः शुद्धं मनः सम्यक् स्वं विधेहि महामते।
बोधयन्तीति सा तेन श्रेष्ठिना भणिता पुनः ॥ ६० ॥**
** पाषाणहृदया जाने सत्यं त्वं बालपण्डिता।
निर्दाक्षिण्यतयाऽस्माकं सन्तापायैव निर्मिता ॥ ६१ ॥**
** बहिरुल्लासिलावण्यं प्रसन्नाननचन्द्रमाः।
अन्तर्दुष्टाऽसि दुर्बुद्धे विषवल्लीव किं वृथा ॥ ६२ ॥**
** त्वं विधेहि यथाऽभीष्टं सङ्गरोऽयं पुनर्मम।
त्वन्मुखालोकनादन्यत्करिष्यामि न किञ्चन ॥ ६३ ॥**
** परमेवंविधप्रेमासक्तः सर्वजनप्रियः।
भक्तश्च द्विजदेवानां प्राणान्प्रोज्झामि ते पुरः ॥ ६४ ॥**
** निर्बन्धं तस्य तं ज्ञात्वा समुवाच नृपात्मजा।
यद्याग्रहस्तवेत्युच्चैः शृणु त्वं तन्मदीरितम् ॥ ६५ ॥**
** तावत्प्रतीक्षतां मासषट्कंकान्तस्य कारये ।
नाम्ना तस्यैव कृत्यानि यावत्पश्चात्त्वदीहितम् ॥ ६६ ॥**
** यतोऽधुना परित्यज्य भवन्तं गतभर्तृका ।
विना वाच्यतया शक्ता नेतुं जन्म किमेकका ॥ ६७ ॥**
** युक्तायुक्तविचारज्ञो भवानेव हि भूतले ।
अतस्त्वद्वचनादेवं कर्त्तव्यं मम का क्षतिः ॥ ६८ ॥**
** एवं श्रुत्वाऽवदत् सोऽपि दीर्घं निःश्वस्य सुन्दरि ।
एवमस्तु परं भूयान्विक्षेपः कालगोचरः ॥ ६९ ॥**
** त्वदीयाननशीतांशुत्वद्वाचामृतनिर्झरैः ।
मन्दमन्मथसन्तापस्तथापि स्थितिमावृधे ॥ ७० ॥**
** एवं कृते ततः प्राप्तं वासरैर्गणितैस्तटम् ।
यानपात्रं परिज्ञाय तया प्रोक्ता जना निजाः ॥ ७१ ॥**
** उदक्यास्म्यहमद्यैव तीरद्रुमतले ततः ।
स्थास्यामीति च वक्तव्यं श्रेष्ठिनो यदि पृच्छति ॥ ७२ ॥**
** अथ ते सोत्सवाः सर्वे समुत्तीर्णा जनास्ततः ।
आदाय प्राभृतं श्रेष्ठी जगाम च नृपान्तिकम् ॥ ७३ ॥**
** तस्यास्तु रक्षका दत्ताः श्रेष्ठिना यानलीलया ।
व्याकुलास्तेऽभवन्सापि स्वं जग्राहाखिलं जनम् ॥ ७४ ॥**
** समाहूतपरीवारा स्नानव्याजेन सा ततः ।
विनिर्गता लघु प्राप सार्थंचम्पापुरागतम् ॥ ७५ ॥**
** उक्तवृत्ता प्रधानेन तत्राग्राहि सुता मम ।
भणित्वा भवतीत्येवं निःशङ्का गच्छ पुत्रिके ॥ ७६ ॥**
** प्राप्ता च क्रमतश्चम्पोद्यानमानन्ददायकम् ।
तत्राऽदर्शि तथा जैनं सद्म पद्मानिकेतनम् ॥ ७७ ॥**
प्रविशन्ती च तत्रासौ निषद्याशब्दपूर्वकम् ।
दृष्टा विमलमत्या व दासीसेवकसंयुता ॥ ७८ ॥
ततः कृतजिनाधीशसंस्तवा वन्दितार्थिका ।
आसनादिविधिं कृत्वा विश्रान्ताऽवादि सादरम् ॥ ७९ ॥
कुतः साध्वि समायाता सुन्दराकारधारिणि ।
क्षेमं च ते समस्तानां तातादीनां तथा शुभे ॥ ८० ॥
विस्मिताभिस्ततस्ताभिर्बहुधा प्रतिबोधिता ।
अवादीत्सखि विस्तीर्णा कथा मे दुःखदायिनी ॥ ८१ ॥
देहिनां स्नेहबद्धानां सन्तापोऽस्ति पदे पदे ।
पश्य स्नेहोज्झितं तन्वि कुंकुमं न हि तापयेत् ॥ ८२ ॥
वज्रशृंखलावद्धानां मुक्तिरस्ति कथञ्चन ।
स्नेहपाशपरीतानां बन्धनञ्च भवे भवे ॥ ८३ ॥
कथितानीह कर्माणि भवभ्रमणकारणम् ।
तेषां हेतुतया ख्यातो बन्ध एव शरीरिणाम् ॥ ८४ ॥
तस्यापि हेतवः सन्ति विषया विश्वमोहिनः ।
विमुक्तास्तैः परं सौख्यं भुञ्जते भोगनिस्पृहाः ॥ ८५ ॥
अस्मादृशासु मुह्यन्ति केवलं विषयाशया ।
यथा मधुरया पूर्व मधुदिग्धासिधारया ॥ ८६ ॥
वदन्तीमिति तां दुःखभारभंगुरमानसाम् ।
एवमाश्वासयामास विमलादिमतिस्तदा ॥ ८७ ॥
यथा यैरर्जितं पूर्वं दुःखं वा यदि वा सुखम् ।
निरोद्धुं प्रसरस्तस्य शकैरपि न शक्यते ॥ ८८ ॥
पूर्वकर्म्मानुसारेण स्नेहद्वेषौ च सुन्दरि ।
जायेते तौ च वर्द्धेते चिन्त्यमानौ दिवानिशम् ॥ ८९ ॥
क्षणात्सुखं क्षणाद्दुःखं क्षणाद्दासः क्षणात्पतिः।
अनिष्टाभीष्टयोः सङ्गवियोगौ च क्षणादपि ॥ ९० ॥
रूपलावण्यसौभाग्यभङ्गो यत्र मुहूर्त्ततः।
तत्रास्ति सखि किं क्वापि संसारे सुखसम्भवः ॥ ९१ ॥
भावा हर्षविषादाद्या निमेषमपि चक्षुषः।
विजित्य यत्र वर्त्तन्ते कुतस्तत्र भवेद्रतिः ॥ ९२ ॥
इदं हीनतमं चात्र जन्म स्त्रीणां सुलोचने।
तातादयोऽप्यहो यत्र परेभ्यः पालयन्ति ताः ॥ ९३ ॥
अवाप्य च महानर्थकारि किं नवयौवनम्।
मोहिता रतिसौख्येषु जायन्ते कान्तजीविताः ॥ ९४ ॥
वियोगे सति कान्तस्य सर्वतो म्लानमूर्त्तयः।
अन्तः शुष्यन्ति सन्तापैरम्भोजिन्यो हिमैरिव ॥ ९५ ॥
संजातरसभङ्गास्ता बहिर्वर्णमनोहराः।
अलङ्कारविनिर्मुक्ताः सुवृत्ता अपि शङ्किताः ॥ ९६ ॥
जीवन्ति क्लेशतो नित्यं प्रसादादिगुणोज्झिताः।249
निरीक्षितापशब्दास्तु कृतयः कुकवेरिव ॥ ९७ ॥
इदमेव परं सर्वं सम्पदामास्पदं ध्रुवम्।
शासने यज्जिनेन्द्राणां भक्तिरेव शुभानने ॥ ९८ ॥
साधारणे च सर्वेषां सुखदुःखे तनूभृताम्।
अतश्चित्तसमाधानं कृत्वा भुङ्क्ष्व पुराऽर्जितम् ॥ ९९ ॥
इत्थं सम्बोधितावादीत्स्ववृत्तान्तमशेषतः।
वयोवेषवचश्चेष्टाः साऽपि पप्रच्छ सादरम् ॥ १०० ॥
अचिन्तयच्च किं कान्तो मम चैष भविष्यति।
अथ वा धिगिमं दुष्टसंकल्पमशुभास्रबम् ॥ १०१ ॥
सन्त्यनेके यतो रूपचेष्टितैः सदृशा नराः।
अन्यः कोऽपि तथाभूतो भविताऽयं महामनाः ॥ १०२ ॥
तस्यै जगाद सा सर्वं निजवृत्तं विचक्षणा।
भूत्वा समानदुःखा च सस्नेहं समुवाच ताम् ॥ १०३ ॥
जिनधर्मरते नित्यं तपःस्वाध्यायतत्परे।
कियन्तमपि तिष्ठावः कालं भगिनि सङ्गते ॥ १०४ ॥
पञ्चाज्ज्ञातयथावृत्ते सर्वदुःखविनाशनम्।
करिष्यावो महामोहमथनं निर्मलं तपः ॥ १०५ ॥
अत्रान्तरे समाज्ञाय वार्त्तां तां वत्सलः सताम्।
समाजगाम तत्रैव श्रेष्ठी विमलसञ्ज्ञकः ॥ १०६ ॥
ततः स्तुत्वा जिनाधीशं निविष्टो निकटे तथा।
चक्रतुस्ते समुत्थाय प्रणामं तस्य सादरम् ॥ १०७ ॥
अभिनन्द्य ततोऽप्राक्षीत्कुशलं250 नृपदेहजाम्।
सलज्जा लोकयामास भगिन्या वदनं च सा ॥ १०८ ॥
ज्ञाताकूता251 च सा तातं बुद्धतद्वृत्तविस्तरम्।
चकार मस्तकं श्रुत्वा चिन्तयामास सोऽप्पदः154 ॥ १०९ ॥
क्वेदंत्रिभुवनानन्दि वयोऽस्याः शुभसूचकम्।
सर्वस्वं स्मरराजस्य दशा चेयं क्व दारुणा ॥ ११० ॥
तदिहैवं विनिक्षिप्य व्यसने विधिनाऽधुना।
चक्रेऽमृते कथं तत्र कालकूटविमिश्रणम्252 ॥ १११ ॥
अथवा प्राक्कृतासातप्रबन्धवशवर्त्तिनः ।
एवं हन्त प्रजायन्ते जन्तवो दुःखभाजनम् ॥ ११२ ॥
उवाच च सुते शोकं विमुच्य सकलं सुखम् ।
तिष्ठात्र धर्मतन्निष्ठा भगिन्या सहिताऽनया ॥ ११३ ॥
नूनं य एव नाथस्ते पतिरस्याः स एव हि ।
केनापि हेतुना चैते सफला वां मनोरथाः ॥ ११४ ॥
युवयोस्तस्य चात्राऽपि साकृतिः शुभदर्शने ।
यया भवन्ति निःशेषकल्याणानि निरन्तरम् ॥ ११५ ॥
अतो यावत्कुतोप्येति तस्योदन्तो दयावति ।
तावत्प्रतीक्ष्यतां भद्रे सदनेऽत्रैव सौख्यतः ॥ ११६ ॥
इत्थमाश्वास्य ते श्रेष्ठी जगाम निजमन्दिरम् ।
प्रति परस्परं तत्र तिष्ठतस्ते यथासुखम् ॥ ११७ ॥
जिनेन्द्रपूजायतिदानजैन–
श्रुताध्ययाभ्यासविमानसक्ते ।
जितेन्द्रिये ते जनता विलोक्य ।
चकार धर्मे बहुधा प्रयत्नम् ॥ ११८ ॥
मुक्तावलीप्रभृतिचित्रविधिप्रसक्ते
सम्यकत्वमौक्तिकशुभाभरणाभिरामे ।
तत्र स्थिते भुवमुपागतकीर्त्तिलक्ष्म्यौ
यद्वत्प्रसन्नवदने मदनार्त्तिमुक्ते ॥ ११९ ॥
॥ इतिश्री भगवद्गुणभद्राचार्य्यप्रणीते श्री जिनदत्तचरित्रे पञ्चमः सर्गः ॥ ५ ॥
——————————————————
षष्ठः सर्गः।
अथाऽसौ जिनदत्तोऽपि निमज्य जवतो जले।
गतपोतं प्रदेशं तमद्राक्षीदुत्थितस्ततः ॥ १ ॥
जायते महतां चित्तं कोमलं नवनीतवत्।
सम्पत्तौ कठिनं चेदं विपत्तावश्मसन्निम् ॥ २ ॥
सम्भाव्येति पयोराशिर्भुजाभ्यां भयवर्ज्जितम्।
तरीतुं प्रारभे तेन किमसाध्यं मनस्विनाम् ॥ ३ ॥
प्राप्तं च तरता तेन पुरस्तात्फलकं तथा।
मित्रमालम्बनं तेन गाढमालिङ्गितं च तत् ॥ ४ ॥
पादाभ्यां क्वापि कट्याऽसौ पृष्ठवंशेन च क्वचित्।
उदरेण गताशङ्कं तरतिस्म निराकुलम् ॥ ५ ॥
यावत्तावत्पुरो दृष्टं गगने प्राकृताकृति।
पुरुषद्वितयं तेन तत्रैकेन प्रजल्पितम् ॥ ६ ॥
रे रे नृकीट253 !किं कर्म विहितं भवताऽधुना।
येनास्मद्रक्षितं वाधिं254 पादाभ्यामवगाहसे ॥ ७ ॥
शक्रोऽप्यत्र जलक्रीडां कर्तुमाशङ्कते मम।
दुरात्मन्नद्य किं याति जीवन्नेव भवानितः ॥ ८ ॥
विप्रलब्धोऽति केनाऽपि मन्दभाग्यतयाऽथवा।
मन्नाम न श्रुतं क्वापि येनैवं विचरस्यहो ॥ ९ ॥
निशम्येति करं कृत्वा दक्षिणं क्षुरिकोपरि।
वामं च फलके दत्वा प्रोवाचेति समत्सरम् ॥ १० ॥
शरन्मेघ इव व्यर्थंकुरुषे गलगर्जितम्।
दूर एव किमाश्वेहि जुहोमि वडवानले ॥ ११ ॥
आकाशगमनादेव मामंस्थास्त्वं255 महत्तमम्।
आत्मानमत्र यद्यान्ति पक्षिणोऽपि भयाकुलाः ॥ १२ ॥
शङ्कन्तां हन्त शक्राद्या भोगलालसमानसाः।
अहमस्मि पुनर्मल्लो मुञ्चशस्त्रमशङ्कितः ॥ १३ ॥
प्रमाद्यतोऽपि सिंहस्य लुप्यते केसरच्छटा।
कुरङ्गैः क्वाऽपि रे मूढ ! दृष्टं वेति श्रुतं त्वया ॥ १४ ॥
श्रुत्वेति तं महासत्त्वशालिनं समुवाच सः।
कोपं मुञ्चमहावीर ! मयैवं त्वं परीक्षितः ॥ १५ ॥
प्रसीद शृणु मद्वाक्यमप्रपञ्चं महामते।
यथाऽस्ति विजयार्द्धाद्रिदक्षिणश्रेणिमण्डने ॥ १६ ॥
अशोकश्रीः खगाधीशो रथनूपुरपत्तने।
विजयाकुक्षिसम्भूता शृङ्गारादिमतिः सुता ॥ १७ ॥
तस्य सा सुकुमाराङ्गी प्राप्तयौवनमण्डना।
विद्याधरकुमारेषु वरं नेच्छति कञ्चन ॥ १८ ॥
ज्योतिर्विदा समादिष्टं तदेवं यः पयोनिधौ।
तरिष्यति भुञ्जाभ्यां स वरीता तव देहजाम् ॥ १९ ॥
तदर्थं प्रेषितावावां विद्याभूचक्रवर्त्तिना।
वायुवेगमहावेगौ विद्याधरकुमारकौ ॥ २० ॥
ततः प्राप्तोऽसि पुण्येन विश्वकल्याणभाजनम्।
नररत्नं त्वमित्युक्त्वा तं चक्रे तटवर्त्तिनम् ॥ २१ ॥
संस्नातो मधुराम्भोभिर्दिव्यवस्त्रविभूषितः।
समारोप्य विमानेऽसौ ताभ्यां नीतस्तदन्तिकम् ॥ २२ ॥
रूपातिशयमालोक्य तस्यासौ दूरतो नृपः।
न ममौ हृदि हर्षेण रोमाञ्चाञ्चितविग्रहः ॥ २३ ॥
अचिन्तयच्च किं साक्षात्कन्दर्पोऽयमुपागतम्।
नान्यथैवंविधा रूपकान्तिलावण्यसम्पदः ॥ २४ ॥
अथवा सन्ति संसारे सौभाग्यकुलमन्दिरम् \।
ते केऽपि पुरतो येषां मनोभूरपि79 लज्जते ॥ २५ ॥
यथा चिन्तित एवायं वरो विद्याभृदुत्तमः।
लब्धः पुण्येन कन्यायाः कुत्राप्यप्राकृताकृतिः ॥ २६ ॥
अथान्येद्युः शुभे लग्ने सुमुहूर्त्ते तिथौ शुभे।
विवाहमङ्गलं राजा कन्यायास्तेन संदधे ॥ २७ ॥
विज्ञाप्य श्वशुरं तेन दत्तचित्रविभूतिकः।
प्रतस्थे स्वपुरं साकं कान्तया256 कान्तया तया ॥ २८ ॥
चञ्चच्चारुध्वजव्रातं किङ्किणीक्वाणसुन्दरम्257।
प्रलम्बमौक्तिकोद्दामदामाढ्यं वहुभूमिकम् ॥ २९ ॥
वरं विमानमारूढः पुरोद्याननदीनगान् ॥
प्रियाया दर्शयन्नेष यावद्याति विहायसा॥ ३० ॥
चम्पापुरीप्रवेशे हि जाता रात्रिस्ततः प्रिया।
उक्ता तेन यथा तिष्ठ जाग्रती त्वं स्वपिम्यहम् ॥ ३१ ॥
समुत्थाय शयित्वाऽसौ तामवादीदिति प्रिये।
स्वपिहि त्वं गताशङ्का तिष्ठाम्येष पुरस्तव ॥ ३२ ॥
एवमस्त्विति सञ्जप्य258सा सुष्वाप सुनिर्भरम्।
प्रसुप्तां तां ततो ज्ञात्वा जिनदत्तस्तिरोदधे259 ॥ ३३ ॥
उन्मोटिताङ्गयष्टिः सा यावदुत्तिष्ठते ततः।
अरण्यं वा विमानं तदद्राक्षीद्दयितोज्झितम् ॥ ३४ ॥
ददर्श च दिशस्तेन विना सतिमिरा इव।
व्योमासोमं महीं मोहजननीं जातविभ्रमा ॥ ३५ ॥
विललाप ततो यूथभ्रष्टेव हरिणी भृशम्।
विषादतरलां दृष्टिं पातयन्ती समन्ततः ॥ ३६ ॥
जीवितेश ! समुत्सृज्य मामत्र क्व गतोऽधुना।
निमेषमपि ते सोढुं वियोगमहमक्षमा ॥ ३७ ॥
नर्माशर्म्मकरं कान्त त्यज चित्तविदाहि मे।
मालतीमुकुलम्लानिं धत्ते हि हिममारुतः ॥ ३८ ॥
रागान्धया कयाथाशु किं हृतः खगकन्यया।
केनापि वारिणा नाथ नररत्नं कटाक्षितम् ॥ ३९ ॥
स्वप्नेनापि न मेऽनिष्टं शिष्टं बान्धवसूचितम्।
कमरिष्टमिदं जातं दत्तदुःखपरम्परम् ॥ ४० ॥
अथ वाऽस्ति न ते दोषः शेषोऽपि शुभदर्शन।
ममैव पूर्वकर्म्माणि फलन्त्येवं सविस्तरम् ॥ ४१ ॥
राजहंसो मया कान्तासन्निधौ कुंकुमादिभिः।
प्रायः पिञ्जरितः किन्तु क्रीडापद्मसरः स्थितः ॥ ४२ ॥
प्रातरेवाथ कान्तायाः सङ्गमाभिमुखो मया।
रथाङ्गविहगश्चक्रे वियुक्तो युक्तिहीनया ॥ ४३ ॥
किं मया मनातङ्कादन्यजन्मनि विघ्निता ।
सपत्नी वनिता वान्या भर्तृसङ्गमलालसा ॥ ४४ ॥
तस्येदं फलमायातमलङ्घ्यमतिदुःसहम् ।
किमतोऽहं विधास्यामि भग्नाशा निर्जने वने ॥ ४५ ॥
वल्लभा नाथ चेन्नाहं मुख मां कुलमन्दिरे ।
एककां तत्र यान्तीं मामयशो हन्ति दुर्वचम् ॥ ४६ ॥
यद्यहं सापराधापि दीयतां दर्शनं लघु ।
कारुण्यं क्व नु ते कान्त मामेवं यद्युपेक्षसे ॥ ४७ ॥
आक्रन्दन्त्यास्ततस्तस्याः स्थितेन जिनसद्मनि ।
कुमारप्रेयसीयुग्मेनाश्रावि रुदितध्वनिः ॥ ४८ ॥
निर्गताभ्यां ततस्ताभ्यां सजवाभ्यां विलोकिता ।
निकटे वनदेवीवतदुद्याने द्रुमान्तरे ॥ ४९ ॥
आश्वासिता च सा ताभ्यां बहुधा जिनमन्दिरम् ।
जगाम संहृताशेषविमानादिविधिस्ततः ॥ ५० ॥
प्रसन्नवदना तत्र त्यक्तार्त्ता भक्तितत्परा ।
जिनाधीशं नमस्कृत्य तदन्तेसमुपाविशत् ॥ ५१ ॥
उदाजहार पृष्टा च तयोः स्वचरितं पुनः ।
निशम्यान्योन्यमालोक्य स्मितं ताभ्यां सविस्मयम् ॥५२॥
चिन्तितञ्च किमेतेन भवितव्यं प्रियेण नौ ।
यतोऽस्मद्रुत्तसंवादि वदत्येषा वचोखिलम् ॥ ५३ ॥
अथ वा किमलीकेन विकल्पेनाऽमुनाऽधुना ।
अयमेव यथाकामं फलताद्दैवपादपः ॥ ५४ ॥
अवाचि च खगाधीशदेहजा मा शुचः260शुभे।
समदुःखा यदावाभ्यां भवती च सधर्मिणी ॥ ५५ ॥
एवंविधानि संसारे सरतां प्राणधारिणाम्।
दुःखानि शतशः सन्ति तद्विषादेन किं सखि ॥ ५६ ॥
यथाविधपरिज्ञातस्ववृत्तान्ता कृता च सा।
श्रुत्वा सन्धारितं चेतः स्वकीयं तयका261 तदा ॥ ५७ ॥
दानपूजाश्रुताध्यायसङ्गताः शुभसङ्गताः।
एवं तिस्रोऽपि ताः सन्ति तत्र प्रीताः परस्परम् ॥ ५८ ॥
अथ रूपं परावृत्य वामनीभूय तां पुरीम्।
सवयस्यः कुमारोऽपि प्रविश्याजनि गायनः ॥ ५९ ॥
गन्धर्ववृत्तनामासौ चित्रकौतुककारकः।
गीतराख्यायकैः कान्तैर्जहार जनतामनः ॥ ६० ॥
दत्वा जीवनकं राज्ञा विधृतो निजसन्निधौ।
गन्धर्वादिविनोदेन तत्राऽस्थाज्जनवल्लभः ॥ ६१ ॥
अन्येद्युर्गदितं राज्ञः पुरस्तादिति केनचित्।
यथा देवात्र तिष्ठन्ति स्त्रियस्तिस्रो जिनालये ॥ ६२ ॥
रूपलावण्यसौभाग्यकान्तीनां परमं पदम्।
न हसन्ति न जल्पन्ति समं केनाऽपि ताः प्रभो ॥ ६३ ॥
केनाऽपि हेतुनेत्येवं श्रुत्वा भूभीभुजा मुहुः।
आलोकितमुखोऽवादीद्विहस्यति स वामनः ॥ ६४ ॥
अहो मानुषमात्रेऽपि शृङ्गारमुखमानसाः ।
किमेवं स्थापयध्वं भो हासयाम्येष ता अहम् ॥ ६५ ॥
विकासहाससम्पन्नान् द्रुमानपि नरेश्वर ।
विनोदेन करोम्येष मानुषेषु तु का कथा ॥ ६६ ॥
ततोऽसौ प्रेषितो राज्ञा स्वल्पलोकैः समं मुदा ।
जगाम सोऽपि सङ्कल्पसङ्केतः स्वजनैः सह ॥ ६७ ॥
जिनार्चाप्रणिपत्यान्ते स तासां समुपाविशत् ।
कृतगीतादिकः प्रोचे वयस्यैरिति सादरम् ॥ ६८ ॥
यथा कथानकं किंचित्कथ्यतां कौतुकावहम् ।
श्रूयतां सावधानैर्भोः कथयामि स्वचेष्टितम् ॥ ६९ ॥
वसन्तादिपुरादेत्य चम्पोद्यानमुपेयुषा ।
यावत्कान्तापरित्यागस्तावत्तेन निवेदितम् ॥ ७० ॥
तदाकर्ण्याऽलपत् स्मित्वा विमलादिमतिस्तदा ।
किं ज्ञातमिति भोः ब्रूहि सुष्ठु रम्या कथा तव ॥ ७१ ॥
अत्रान्तरे समुत्थाप्य नीतोऽसौ स्वजनैस्ततः ।
यथा राजकुले वेला वर्त्तते गम्यतामिति ॥ ७२ ॥
तथैवैत्य द्वितीयेऽह्नि स्ववार्त्ता तावदीरिता ।
आरभ्य गमनं द्वीपे यावत्पातः पयोनिधौ ॥ ७३ ॥
ततस्तूष्णीं स्थिते तत्र स्मित्वा श्रीमतिरब्रवीत् ।
किं ततोऽजनि भो भद्र सरसेयं कथा तव ॥ ७४ ॥
किं याति तव शृण्वत्याः परायत्ता वयं पुनः ।
वर्त्ततेऽवसरो यामो राजमन्दिरमुत्सुकाः ॥ ७५ ॥
निगद्येति गतः साऽपि सार्द्धं विमलया तया ।
सुचिरं चिन्तयामास किमेतिदिति विस्मिता ॥ ७६ ॥
अन्यस्मिंश्च समागत्य वासरे खगपत्तने ।
आरभ्य स्वागमं प्रोक्तं त्यक्ता यावन्नभश्चरी ॥ ७७ ॥
स्मितधौताननाऽवोचत्ततोऽसौ खगदेहजा ।
असमाप्य कथां मा गा ब्रूहि जातं ततः किमु ॥ ७८ ॥
प्रातरेत्य भणिष्यामि सञ्जल्प्येति ततो गतः ।
सम्पन्नप्रियसङ्काशा विस्मितास्ता अपि स्थिताः ॥ ७९ ॥
नरेन्द्रोऽपि तदाकर्ण्य विस्मितः पारितोषिकम् ।
दवावस्मै जनः सर्वश्चित्रितश्च स्वचेष्टितैः ॥ ८० ॥
अथान्येद्युरभूत्तत्र महान्कोलाहलस्ततः ।
पृष्टः कोऽपि नरेन्द्रेण किमेतदिति सोऽब्रवीत् ॥ ८१ ॥
यथा राजगजो देव नाम्ना मलयसुन्दरः ।
आलानस्तम्भमुन्मूल्य निःशङ्कं विचरत्ययम् ॥ ८२ ॥
यः कोऽपि वशमायाति पशुरस्य नरश्च वा
विलम्बेन विना नाथ स याति यममन्दिरम् ॥ ८३ ॥
प्राकारोद्यानसद्वेश्मदेवतायतनान्ययम् ।
भस्मीकरोति भूपालाऽगणयन् भटपेटकम् ॥ ८४ ॥
तनिशम्य महासत्वाः प्रेषिता वीरपुङ्गवाः ।
राज्ञा तेऽपि न संशेकुर्दमने तस्य दन्तिनः ॥ ८५ ॥
एवं दिनत्रयं तत्र पीडयन्नखिलाः प्रजाः ।
वम्भ्रमीति करी यावत्पटहस्तावदाहतः ॥ ८६ ॥
यथा हस्तिनमेतं यः कुरुते वशवर्तिनम् ।
कन्या प्रदीयते तस्मै सामन्तश्च विधीयते ॥ ८७ ॥
श्रुत्वेति वेगतः स्पृष्ट्वा पटहं वामनस्ततः ।
आजुहाव गजाधीशं सोऽप्यगादुस्करः पुरः ॥ ८८ ॥
पृष्ठतः पार्श्वतो धावन्नग्रतो जठरादधः।
ताडयन्निविडं लोष्ठमुद्गरैश्चतुरः क्वचित् ॥ ८९ ॥
स्वशिक्षालाघवं सम्यग्दर्शयन् वलनादिभिः ।
आरूढः श्रममानीय तं दत्तकरणस्ततः ॥ ९० ॥
साधुवादं समासाद्य जनेभ्यो नृपपुङ्गवम् ।
प्रणम्यालानमानीय करिणं स सुखं स्थितः ॥ ९१ ॥
इति श्रीभगवद्गुणभद्राचार्य्यप्रणीते श्रीजिनदत्तचरित्रे। षष्ठःसर्गः ॥ ६ ॥
——————————————————
सप्तमः सर्गः ।
अथामात्यैः समं राज्ञा तद्रेति प्रविचारितम् ।
कुलं यस्य न जानीमो दीयतां देहजः कथम् ॥ १ ॥
तैरवाचि किमेतेन विकल्पेन महीयते ।
ब्रवीत्याकृतिरेवास्य कुलं कल्याणसूचकम् ॥ २ ॥
विनोदेनाऽमुना कोऽपि क्रीडत्येष महामनाः ।
पयोदपटलेनेव प्रच्छन्नो दिवसाधिपः ॥ ३ ॥
शौर्यसत्वयशोरूपविज्ञानैर्नाकिनामपि ।
चमत्कारं करोत्येषोऽचिन्त्यमस्य विचेष्टितम् ॥ ४ ॥
विशुद्धोभयपक्षाय कन्यास्मै दीयतां ततः ।
किञ्चाऽसाध्येष्वयं देव प्रतिच्छन्दस्तवापरः ॥ ५ ॥
प्रतीतिरस्ति चेन्नाऽथ पृच्छ्यतामयमेव हि ।
वचः श्रुत्वेति राज्ञाऽसौ पृष्ठ एवं समन्त्रिणा ॥ ६ ॥
विज्ञानाकृतिसत्त्वाढ्यैगुणैर्ज्ञातो वरो मया ।
प्रच्छन्नः कोऽपि भद्र त्वं नूनं नरशिरोमणिः ॥ ७ ॥
प्रसीद वद सन्देहं हर स्वंप्रकटीकुरु ।
तथाप्यात्मानमित्येवमुक्तः स्मित्वा जजल्प सः ॥ ८ ॥
वसन्तादिपुरावासिजीवदेववणिक्पतेः
जिनदत्त इति ख्यातः सूनुरस्मि नरेश्वर ॥ ९ ॥
त्वदीयश्रेष्ठिनः पुत्री विमलस्यैका परा प्रभो ।
सिंहलेशस्य विद्याभूश्चक्रिणो दुहिताऽपरा ॥ १० ॥
एतास्तिस्रोऽपि मद्भार्यास्तिष्ठन्ति जिनवेश्मनि ।
मदीयसङ्गमोत्कण्ठाकुलिताः कुलकेतवः ॥ ११ ॥
विपदां सम्पदां देव भाजनीभवता मया ।
अधुना प्राप्तविद्येन क्रीडेति बहुधा कृता ॥ १२ ॥
तदाकूतं ततो ज्ञात्वाऽऽ हूतास्ताः पृथिवीभुजा ।
तिस्रोऽपि नायिकास्ताश्च प्राप्ताः कञ्चुकिभिः समम् ॥१३॥
अत्रोपविश्यतां पुत्र्यः स्वामिना भणिता इति ।
प्रणम्योपाविशन्नन्ते विनीतास्ता यथाक्रमम् ॥ १४ ॥
उक्तं ततो नरेन्द्रेण महासत्यो वदत्ययम् ।
एतास्तिस्रोऽपि मद्भार्याः सत्यमेवं मृषा किमु ॥ १५ ॥
अन्योन्यं मुखमालोक्य ताभिरूचे पतिः प्रभो ।
न भवत्येव जानाति वार्त्तां तस्यैव केवलम् ॥ १६ ॥
अत्रान्तरे कुमारोऽपि पुलकाञ्चितविग्रहः ।
आविर्भवस्मितं वक्रं पिदधातिस्म वाससा ॥ १७ ॥
भूयोप्युवाच भूपालः पुत्र्यः सम्यक् प्रविच्यताम् ।
ताभिरूचे न सादृश्यमपि तस्याऽस्ति किं बहु ॥ १८ ॥
कुमारेण ततस्त्यक्त्वा वामनत्वं कृताऽऽकृतिः ।
जिनदत्तस्य सञ्जातः श्यामवर्णेन केवलम् ॥ १९ ॥
विस्मिताभिस्ततस्ताभिः सलज्जाभिश्च भूपतिः ।
प्रोचे तात स एवायं परं वर्णेन नो समः ॥ २० ॥
ततः स्मित्वाऽभवत्सोऽपि तप्तजाम्बूनदच्छविः ।
तथा यथाऽभवंश्चित्रलिखिता इव तास्तदा ॥ २१ ॥
उदञ्चदुच्चरोमाञ्चस्फुटत्कञ्चुकजालिकाः।
समुत्थाय ततो लग्नाः स्वामिपादद्वये मुदा ॥ २२ ॥
यः पुरा ववृधे तीव्रस्तासां विरहपावकः262।
आनन्दाश्रुप्रवाहेण तेनाऽसौ शमितो ध्रुवम् ॥ २३ ॥
यदभावि तदा तासां सौख्यं किमपि मानसे।
तत्र तस्याऽपि तत्सर्वं कविवाचामगोचरम् ॥ २४ ॥
सम्भाविताञ्च तास्तेन सलज्जा निकटे स्थिताः।
भूषणाम्बरताम्बूलपुष्पै राज्ञा प्रपूजिताः ॥ २५ ॥
ज्ञातवार्त्तः स तत्रैत्य विमलो वणिजां पतिः।
नत्वेशं गाढमालिङ्ग्यजिनदत्तमुपाविशत् ॥ २६ ॥
क्षेमादिकं परीपृच्छ्यसम्प्राप्तावसरो नृपम्।
उवाचेति यथा देव कुमारः प्रेष्यतां गृहम् ॥ २७ ॥
राज्ञाऽवादीदमेवास्य गेहं गुणमहोदधेः।
यद्यप्येवं तथाऽपीश गाढमुत्कण्ठिता वयम् ॥ २८ ॥
संभाषादौ कुमारस्य किञ्चौचित्यक्रमोऽस्ति नः।
इति तस्योपरोधेन विसृष्टोऽसौ महीभुजा ॥ २९ ॥
सकान्तं सोऽपि तं नीत्वा मन्दिरे मुदितो भृशम्।
सादरं विदधे तस्य तत्रैौचित्यं यथाविधि ॥ ३० ॥
प्रारेभे च ततः कर्त्तुमुत्सवः स तथा जनः।
पौरः सर्वोऽपि चायातस्तद्दर्शनसमुत्सुकः ॥ ३१ ॥
यथाकालं ततश्चक्रे सुखसम्भाषणादिकम्।
श्रेष्ठिना सोऽपि वृत्तं स्वमवादीदादितस्ततः ॥ ३२ ॥
नितम्बिन्योऽपि तास्तस्य साभिज्ञानं सुविस्मिताः।
अश्रौषु263र्वृत्तमात्मीयं न्यगदंश्च यथाक्रमम् ॥ ३३ ॥
विदधे च जिनाधीशायतनेषु समुत्सवम्।
जिनार्चास्नानपूजाद्यं दीनादीनां विहा264यितम्265 ॥ ३४ ॥
अथाऽन्येद्युः शुभे लग्ने सुमुहूर्ते शुभे तिथौ।
विवाहमङ्गलं राज्ञा कन्यायास्तेन कारितम् ॥ ३५ ॥
राज्यालङ्कारपूर्वं च दत्त्वा देशादिक बहु।
महासामन्तमेतं ल चकार नरनायकः ॥ ३६ ॥
प्रेषिताञ्च कुमारेण पुरुषास्तातसन्निधौ।
समर्प्य बहुभेदानि द्वीपरत्नानि वेगतः ॥ ३७ ॥
उपलभ्य च ताताद्यास्तदुदन्तं न मानसे।
उल्लासेन ममुश्चन्द्रविम्बादिव पयोधयः ॥ ३८ ॥
प्रेषिताश्च ततो लातुं तस्य तातेन चाऽऽगताः।
तेऽपि प्रणम्य तां वाचमूचुरेवं कृतादराः॥ ३९ ॥
यथा विधीयतां नाथ विलम्बेन विनोद्यमः।
गमनाय किमत्रैवं स्थीयते स्वजनादृते ॥ ४० ॥
तातस्तवाभिनवचन्द्रसमानमूर्ति–
र्जातोवियोगभरतो भवतोऽतिदुःखात्।
मातुश्च वाष्पजलविप्लुतकज्जलाङ्का
गण्डस्थली मलिनतां विजहौ न जातु ॥ ४१ ॥
अन्योऽपि बान्धवजनः सकलो वियोग–
दुःखेन दुःस्थहृदयोऽनुदिनं तवाऽऽस्ते ।
तिष्ठन्ति साम्प्रतममी भवदीयवक–
सन्दर्शनैकरसिकाश्च तदेहि शीघ्रम् ॥ ४२ ॥
श्रुत्वेति तस्य वचनं नितरां समुत्कः
संपृच्छ्य भूपवणिगीशपुरःसरं सः ।
लोकं चचाल दयितासहितो बलेना–
नल्पेन कल्पितमनोहर दिव्ययानः ॥ ४३ ॥
प्राप्तस्ततः क्षणतयेव पुरं प्रवृद्धा–
नन्देन बान्धवजनेन समं समेत्य ।
तातेन कल्पितसमुत्सवमाकुलेन
स्वानन्दपूर्ण हृदयेन गृहं स निन्ये ॥ ४४ ॥
॥ इति श्रीभगबद्गुणभद्राचार्यप्रणीते श्रीजिनदत्तचरित्रे सप्तमः सर्गः ॥ ७ ॥
——————————————————
अष्टमः सर्गः ।
अथाऽसौ सवनं प्राप्य प्रस्तुताखिलमङ्गलम् ।
ननाम मातरं साऽपि रुरोदाऽऽघ्राय मस्तकम् ॥ १ ॥
समाश्वास्य ततस्तां स यथाज्येष्ठं कृताऽऽनतिः ।
भद्रासने निविष्टश्चभवन्भाजनमाशिषाम् ॥ २ ॥
अक्षतानि ददौ तत्र मस्तकेऽस्य जनीजनः ।
गीतवादित्रनृत्यादिकृतानि च सहस्रशः ॥ ३ ॥
श्वश्रूं प्रणम्य नारीणामन्यासामपि पादयोः ।
पपात क्रम इत्यस्य कान्तानां च चतुष्टयम् ॥ ४ ॥
निविष्टं च समासन्नवनिताजनमध्यतः ।
स्वरूपसम्पदा सर्वभाविताऽऽहितविस्मयम् ॥ ५ ॥
सम्भाविताश्च सर्वेऽपि बान्धवाः स्निग्धबुद्धयः ।
सस्त्रीकास्तन्मुखाम्भोजलीननेत्राऽलिमालिकाः ॥ ६ ॥
गत्वा ततो जिनेन्द्राणां सर्वेष्वायतनेष्वसौ ।
भक्त्या पूजादिकं कृत्वा चकारोत्सवमादृतः ॥७ ॥
प्रणनाम गुरूणाञ्च पादपद्मानि भक्तितः ।
कृतकृत्यमिवात्मानं मेने संभाषितञ्च तैः ॥ ८॥
आगत्य च ततोऽदायि दीनाऽनाथार्थिनां धनम् ।
यथाकामं कुमारेण मारेणेव समूर्त्तिना ॥ ९ ॥
तथाऽस्य चरितं श्रुत्वा पूजितोऽसौ विशेषतः ।
चन्द्रशेखरराजेन जनैरन्यैश्च सादरम् ॥ १० ॥
इत्थमानन्दमुत्पाद्य तातादीनामुवाच सः ।
यथाक्षणं स्ववृत्तान्तमशेषं प्रश्नपूर्वकम् ॥ ११ ॥
यान्ति तत्र दिनान्यस्य सुरस्येव सुरालये ।
पञ्चेन्द्रियसुखं सम्यक् भुञ्जानस्य निरन्तरम् ॥ १२ ॥
उद्यानदीर्घिकाशालशोभितानि पदे पदे ।
अकारयच्च चित्राणि मन्दिराणि जिनेशिनाम् ॥ १३ ॥
सारं श्रावकधर्म्मस्य विततार यथाविधि ।
चतुर्विधस्य सङ्घस्य दानमेष चतुर्विधम् ॥ १४ ॥
सप्रार्चनः प्रयातिस्म पर्वणां च चतुष्टये ।
इष्टं जनं समादाय वन्दितुं जिनपुङ्गवान् ॥ १५ ॥
पञ्चकल्याणभूभागान्मेरुं कुलशिलोच्चयान् ।
एति चानम्य भक्त्यासौ चारणर्षियतीश्वरान् ॥ १६ ॥
तथातिशयसम्पन्नं दृष्ट्वा जनपदोऽप्यसौ ।
तं बभूव समस्तोऽपि जिनधर्मपरायणः ॥ १७ ॥
गजाश्वरथधेनूनामन्यासामपि सम्पदाम् ।
जाता संख्या गृहे नास्य वीचीनामिव सागरे ॥ १८ ॥
ऋतवोऽपि वसन्ताद्याः सकान्तस्य यथोचितम् ।
भुञ्जानस्य प्रयान्त्यस्य सुखं शारीरमानसम् ॥ १९ ॥
सुदत्तजयदत्ताख्यौ विमलादिमतिः सुतौ ।
वसन्तलेखया सार्धं सुप्रभं श्रीमती तथा ॥ २० ॥
सुकेतुं जयकेतुं च केतुं गरुडपूर्वकम् ।
खगाधीशतनूजा चविजयादिमतिं सुताम् ॥ २१ ॥
सुमित्रं जयमित्रं च वसुमित्रं नृपात्मजा।
प्राप पुत्रान्तुरीयाञ्च पुत्रीं नाम्ना प्रभावतीम् ॥ २२ ॥
कारितश्च समस्तानां जन्मनामपरीणयः।
तथा महोत्सवस्तेन यथा लोकः सुविस्मितः ॥ २३ ॥
एवं वर्द्धयतस्तस्य त्रिवर्गोद्दामपादयम्।
कालः कोऽपि जगामाऽस्य मग्नस्य सुखसागरे ॥ २४ ॥
अन्यदाऽसौ पुरस्कृत्य सर्वर्त्तुकुसुमादिकम्।
विज्ञप्तो वनपालेन सभामध्यव्यवस्थितः ॥ २५ ॥
शृङ्गारतिलकोद्याने प्रातरद्य समागतः।
दुधत्समाधिगुप्ताख्यां चतुर्ज्ञानी मुनीश्वरः ॥ २६ ॥
ऋतवस्तस्य भक्त्यैव यौगपद्यादुपागताः।
पुष्पाभरणमग्राहि266 दृष्ट्वैव च वनश्रिया ॥ २७ ॥
सरस्योऽप्यभवंस्तत्र विकचाम्भोजलोचनाः।
जडाशयोऽपि को नाम नोल्लासी मुनिदर्शनात् ॥ २८ ॥
मुञ्जगुञ्जदलिव्रातो भ्राम्यंस्तत्र विराजते।
निर्गच्छन्निव तद्भीत्या पापपुञ्जोरुदन् वनात् ॥ २९ ॥
आश्रित्य सहकाराणां शाखाः प्रत्यग्रमञ्जरीः।
भव्यांस्तत्राह्वयन्तीव कोकिलाः कलनिस्वनाः ॥ ३० ॥
तत्राऽवकेशिनोऽप्याशु267 फलपुष्पचिता विभो।
वर्त्तते सर्वसामान्यं तादृशानां हि चेष्टितम् ॥ ३१ ॥
मन्दगन्धवहोद्भूता नृत्यन्ति कुसुमाञ्जलिम्।
प्रक्षिप्येव लतास्तत्र तदानन्देऽङ्गनोचिताम् ॥ ३२ ॥
वाति प्रभञ्जनस्तत्र268 मानिनीमानभञ्जनः।
तादृशस्य प्रभोः सङ्गे तथा किं नोपजायते ॥ ३३ ॥
आसते यतयस्तत्र विविधर्द्धिविराजिताः।
धर्माः समूर्त्तयो मन्ये भव्यपुण्याय ते तथा ॥ ३४ ॥
अपायुस्तत्क्षणादेव269 सर्वपापानि पश्यताम्।
सक्ताः संयमिनः शश्वत् स्वाध्यायध्यानकर्मणि ॥ ३५ ॥
निशम्य तं प्रदायास्मै प्रसादं मुदितस्ततः।
ननाम तां दिशं गत्वा भक्त्या सप्तपदानि सः ॥ ३६ ॥
सकान्तो मिलिताशेषबन्धु लोकपरिच्छदः।
तत्कालोचितयानेन वन्दनायै चचाल सः ॥ ३७ ॥
उत्तीर्य दूरतो यानाद्विवेशासौ वनान्तरम्।
कूजद्विहङ्गमारावविहित270स्वागतक्रियम् ॥ ३८ ॥
प्रदेशं स ततः प्राप यत्राऽऽस्ते यतिनायकः।
आसीनोऽशोकवृक्षस्य मूलेऽमलशिलातले ॥ ३९ ॥
त्रिः परीत्य ततः स्तुत्वा तमन्यांश्च यतीश्वरान्।
विनीतात्मा यथास्थानं निविष्टोऽसौ कृताञ्जलिः ॥ ४० ॥
पुण्यांकुरैरिवाऽशेषां कुर्वन् विच्छुरितां सभाम्।
धर्मवृद्धिं बभाणाऽसौ यतीशो दशनाञ्शुभिः ॥ ४१ ॥
ततोऽवादीदयं भक्तिनम्रमूर्त्तिर्मुनीश्वरम्।
मादृशां मुग्धबुद्धीनां दुर्लभं तव दर्शनम् ॥ ४२ ॥
तावदेव जगन्नाथ मोहान्धतमसाऽऽवृतम्।
विचरन्ति न ते यावद्भानोरिव वचोऽञ्शवः ॥ ४३ ॥
भवान्धकूपसम्पाति विश्वमाशु भवत्यदः ।
भवादृशा न चेत्सन्ति रत्नदीपास्तमश्छिदः ॥ ४४ ॥
विषयाशाहुताशेन दह्यमाने जगद्वने ।
उदभूद्भव्यपुण्येन सुधामेघो भवानिह ॥ ४५ ॥
त्वत्पादपद्मसङ्गेऽपि यस्तत्त्वं नावबुध्यते ।
मन्दभाग्यः समुद्रेऽपि शंखकानां स भाजनम् ॥ ४६ ॥
सूर्याचन्द्रमसौ यत्र करप्रसरवर्जितौ ।
ज्ञानाख्यं तव तत्रापि चक्षुः प्रतिहतं न हि ॥ ४७ ॥
अतः प्रसादतो नाथ भवतां भवभेदिनाम् ।
शुश्रूषति271 मनः किञ्चिज्जन्मान्तरगतं मम ॥ ४८ ॥
कर्मणा केन योगीन्द्र ! प्राप्तं सौख्यं परं ततः ।
परम्परामनर्थानां ततश्चसकलाः श्रियः ॥ ४९ ॥
संयोगश्च जगद्वन्द्य कथमासां चतसृणाम् ।
अत्यन्तदूरजातानां नायिकानां ममाऽभवत् ॥ ५० ॥
निशम्येति वचस्तस्य प्रोवाच यतिसत्तमः ।
सावधानो महाभव्य वर्ण्यमानं मया शृणु ॥ ५१ ॥
सुखाभासाभिरामाणि दुःखान्येव हि भुञ्जताम् ।
कर्मजालनिबद्धानां यानिं जन्मानि देहिनाम् ॥ ५२ ॥
अनादिकालतोऽनादिसंसारे परिवर्तनाम् ।
जानात्येव जिनस्तानि संख्यातुं न पुनः क्षमः ॥ ५३ ॥
अतोऽनन्तरमेवाहं भवं तव वदाम्यहो ।
यत्तत्रैव चिराद्भद्र भवतो हितसम्भवः ॥ ५४ ॥
अस्यत्त्रभरतक्षेत्रे देशोऽवन्तिः स्वशोभया।
सस्पृहा मर्त्त्यलोकस्य कृता येन सुरा अपि ॥ ५५ ॥
पतन्ति यत्र शालीनां केदारेषु मधुव्रताः।
मलिनोभयपक्षा हि के272 दारेषु परांमुखाः ॥ ५६ ॥
चक्राङ्किता विराजन्ते राजहंसनिषेविताः।
मार्गेषु यत्र पद्माढ्या चक्रिणो वा273जलाशयाः ॥ ५७ ॥
सरसा सदलङ्कारा व्यक्तवर्णव्यवस्थितिः।
प्रसादौजोयुता यत्र कथेव जनता कवेः ॥ ५८ ॥
तत्राऽस्त्युज्जयिनी नाम नगरी नरसत्तमः।
यथेयं राजते हारलतयेव वराङ्गना ॥ ५९ ॥
प्राकारशिखरानद्धपद्मरागाञ्शुभिर्निशि।
पतितैः खातिकानीरे रथाङ्गा विरहव्यथाम् ॥ ६० ॥
यत्र मुक्तैव जायन्ते सङ्गमाभिमुखा मुदा।
उदयं दिननाथस्य मन्यमाना इवाऽभितः ॥ ६१ ॥ युग्मम्।
यत्र प्रासादसंलग्ननीलाञ्शुशवलः शशी।
मुदेस्वच्छन्दनारीणां जायते निशि सर्वदा ॥ ६२ ॥
समग्रवसुधासारसम्पदां जन्मभूमिका।
आवासाय कृता धात्रा या नृणां पुण्यशालिनाम् ॥ ६३ ॥
तत्र विक्रमधर्माख्यो भूपोऽभूद्भुवनान्तरम्।
जगाहे लीलया यस्य यशः पूर्णेन्दुसुन्दरम् ॥ ६४ ॥
शोभायै केवलं यस्य चातुरङ्गमभूद्बलम्।
प्रतापेनैव यत्सेवां कारिताः सकलारयः ॥ ६५ ॥
पद्मश्रीरभवत्तस्य पद्मेव मधुविद्विषः ।
प्रिया प्रकर्षमापन्नारूपादिगुणगोचरम् ॥ ६६ ॥
अथाऽऽसीद्धनदेवाख्यः श्रीमानत्रैव वाणिजः ।
समुद्र इव नीराणां गुणानामधिवासभूः ॥ ६७ ॥
यशोमतिरिति ख्याता कुलशीलसमुज्ज्वला ।
बभूव वल्लभा तस्य कुशला गृहकर्मणि ॥ ६८ ॥
यथाकालं तया सार्द्धं भुंजानस्य निरन्तरम् ।
सुखं सुतार्थिनो जातो भवानस्य तनूरुहः ॥ ६९ ॥
यथाकामं ततस्तातो बन्धुलोकसमन्वितः ।
चकार शिवदेवाख्यां भवतो भव्यबान्धव ॥ ७० ॥
पूर्वपापोदयात्तत्र वर्द्धसे त्वं यथा यथा ।
क्षीयतेऽर्थः कुटुम्बेन सार्द्धं गेहे तथा तथा ॥ ७१ ॥
अपरेयुः पतित्वाशु व्योमतो विद्युता व्रजन् ।
हट्टमार्गे हतस्ततो यथाऽभूद्भस्मसात्तथा ॥ ७२ ॥
ततः शोकाकुलेनाऽस्य बन्धुलोकेन निर्मितम् ।
मृतकर्म्म रुरोदाऽरं274 माता च करुणं तव ॥ ७३ ॥
हा नाथ ! क्व गतस्त्यक्त्वा बालं बालेन्दुसुन्दरम् ।
कथमेषा भविष्यामि हताशा भवतोज्झिता ॥ ७४ ॥
गतं क्षयं क्षणात्कान्त भवतैव समं धनम् ।
दिनं दिनाधिपेनेव कथं पुत्रो भविष्यति ॥ ७५ ॥
इत्यादिकं विलप्याऽसौ संलग्ना गृहकर्मणि ।
ववृधे च भवांस्तत्र दीनमूर्तिः सुदुःखितः ॥ ७६ ॥
तमालोक्य जनः सर्वो ब्रवीतीति तथा सुतः।
समस्तातेन नो जातु रविणेव शनैश्चरः ॥ ७७ ॥
क्रमाच्च यौवनं प्राप्तः कृतदारपरिग्रहः।
ग्रामान्तरे प्रयात्येव वणिज्यायै दिने दिने ॥ ७८ ॥
ततः किञ्चित्समानीय कुरुते स दिनत्रयम्।
स प्रातश्चलितोऽन्येद्युर्लात्वा परिकरं निजम् ॥ ७९ ॥
अन्तरेत्र ततस्तेन मूलेऽश्वत्थमहीरुहः275।
त्रिकालयोगसम्पन्नः सर्वसत्वहितोद्यतः ॥ ८० ॥
महाऽऽरामाधिवासोऽपि निःकामो मानवर्जितः।
भाजनं सर्वमानानां सद्वेषो द्वेषशून्यधीः ॥ ८१ ॥
उद्यतो बन्धविध्वंसे गुप्तित्रितयसंयुतः।
नितान्तं शान्तरूपोऽपि सदा समितिभासुरः ॥ ८२ ॥
मुरजादिविधिव्रातकृशताऽऽयातविग्रहः।
पञ्चेन्द्रियमनोदुष्टसम्यग्विहितनिग्रहः ॥ ८३ ॥
मासोपवासमास्थाय निरुद्धसकलेन्द्रियः।
पर्यङ्कासनसंस्थानो ध्यायन् सहजमात्मनः ॥ ८४ ॥
दृष्टोऽदृष्टसमस्तार्थो मुनीन्द्रो विमलाभिधः।
प्रणनाम ततस्तस्य पादौ मुदितमानसः ॥ ८५ ॥ कुलकं।
अचिन्तयच्च संसारे द्वावेव सुखिनो जनौ।
पद्मातपत्रमाधत्ते यस्य यश्च जितेन्द्रियः ॥ ८६ ॥
चक्रिणोऽपि न तत्सौख्यं यदेतस्य तपस्यतः।
रागशेषवशश्चक्री यतिस्ताभ्यां विवर्जितः ॥ ८७ ॥
चिन्तयित्वेति संनम्य भूयो भूयोऽपि भक्तितः।
संजगाम यथाऽभीष्टं करोत्येवं च नित्यशः ॥ ८८ ॥
जातेऽन्यदा यतेस्तस्य पारणादिवसे276 सति।
चिन्तितं मानसे तेन तद्गुणग्रामवासिना ॥ ८९ ॥
कस्याऽद्य मन्दिरं पादपांसुभिः पुण्यभागिनः।
करिष्यत्यद्य कल्याणभाजनं यतिनायकः ॥ ९० ॥
उत्तमोत्तमभोगानां भाजनं जायतां जनः।
कथं न तत्र यत्राऽमी विद्यन्ते पात्रसत्तमाः ॥ ९१ ॥
अत्यल्पेनाऽपि दत्तेन पात्रस्यैवंविधस्य हि।
तन्नास्ति प्राप्यते यन्नवाञ्छितं परजन्मनि ॥ ९२ ॥
दर्शनेनैव पापानि नश्यन्त्यस्य रवेरिव।
तमांसि कथ्यते किं वा यदि दानादिसङ्गमः ॥ ९३ ॥
मादृशां मन्दभाग्यानां विलीयन्ते मनोरथाः।
असम्पूर्णा मनस्येव तरंगा इव वारिधेः ॥ ९४ ॥
आक्रामंति विपुण्यस्य पादपद्मैर्न मन्दिरम्।
यतयो जायते कस्य प्राङ्गणे277 वा सुरद्रुमः ॥ ९५ ॥
परित्यज्य न पुण्यानि हेतुमस्य वितर्कये।
कञ्चनाऽपि यतीशस्य लाभे चिन्तामणेरिव ॥ ९६ ॥
तथाऽपि सावधानोऽस्मि मा कदाचित्तदागमः।
व्यवसायवशात्पुंसां जायते विपुलं फलम् ॥ ९७ ॥
विभाव्येति प्रसन्नात्मा धौतवस्त्रोत्तरीयकः।
मार्गमन्वेषयंस्तस्य तस्थौ द्वारे स्वसद्मनः ॥ ९८ ॥
अथाऽसौ प्रेरितस्तस्य पुण्यैरिव यथा मुनिः।
तेनैवाऽऽप क्रमात् क्रामन्नुच्चनीचगृहावलीः ॥ ९९ ॥
वीक्षितश्च ततस्तेन दुर्गतेनेव सन्निधिः ।
पुण्यपुञ्जइव स्वस्याऽभिमुखो वा स्ववेश्मनः ॥ १०० ॥
अग्रेभूय स्वतस्तेन प्रत्यग्राहि प्रयत्नतः ।
उच्चस्थानस्थितस्याऽस्य चक्रे चरणधोवनम् ॥ १०१ ॥
तत्प्रवन्द्योदकं कृत्वा पूजामष्टविधामसौ ।
यावद्भोजयते भुक्तिं धर्ममूर्तिमुनीश्वरम् ॥ १०२ ॥
सूरदेवयशोदेवनन्ददत्तवणिक्सुताः ।
पद्मावती जयश्रीश्च सुलेखा मदनावली ॥ १०३ ॥
लात्वा लेहनकं तावत् सर्वाभरणभूषिताः ।
मत्वा सुवासिनीत्यस्य मातुराप्तागृहं क्षणात् ॥ १०४ ॥
निविष्टास्तास्ततः सर्वास्तत्रासावपि साधवे ।
तन्मध्यात्प्रददौ किञ्चित्तद्वाक्यात्तुतुषुश्च ताः ॥ १०५ ॥
अचिन्तयंश्च ता धन्यतम एष महामतिः ।
यस्यैवं दुर्गतस्याऽपि धर्मकार्यमहोद्यमः ॥ १०६ ॥
नरनाथादयोऽप्यस्य पादपद्मावलोकनम् ।
वाञ्छन्तोऽपि लभन्ते न मुनेर्दानं किमुच्यते ॥ १०७ ॥
अयि लक्ष्मि ! किमन्धासि येनैवं गुणशालिने ।
सस्पृहा नररत्नाय सात्विकाय न जायसे ॥ १०८ ॥
जन्मना वा धनेनाऽपि विवेकेनाऽपि किं नृणाम् ।
यदीदृशे महापात्रे न किञ्चिदुपचर्यते ॥ १०९ ॥
एतस्य यानि पुण्यानि तानि नान्यस्य निश्चितम् ।
यदेतदृहमायातो दुर्लभो जगतां पतिः ॥ ११० ॥
श्रद्दधे च तदा ताभिस्तद्दानं भक्तिपूर्वकम् ।
मुहुर्मुनिं मुहुस्तं च पश्यन्तीभिः सविस्मयम् ॥ १११ ॥
त्वयाऽपि पारितः साधुर्भक्तितो मनसा परम्।
आशङ्का विहिता मातुस्तद्दानासहना हि सा ॥ ११२ ॥
भुक्त्वा सोऽपि जगामाऽतो यथाभीष्टं मुनीश्वरः।
अनुव्रज्य प्रणम्याऽयाद्वणिजोऽपि278 निजालयम् ॥ ११३ ॥
यत्त्वया विहितं भद्र सिद्ध्यत्येतन्नकस्यचित्।
भाजनं सर्वकल्याणसम्पदां नियतं भवान् ॥ ११४ ॥
प्रशस्येति गतास्तास्तं स्वसद्म मुदितास्तराम्।
बुभुजे प्रत्यहं कृत्वाऽतिथीनां संप्रतीक्षणात् ॥ ११५ ॥
यतीशगुणभावितः सहजसौम्यतासङ्गतो
वसन्निति विहायिते279 रसिकचित्तवृत्तिस्तदा।
जगाम मृतिगोचरं सुचिरकालतो वाणिजो
निरन्तरमिमास्तथा लमनुभूय सौख्यं मृताः ॥ ११६ ॥
॥ इति श्रीभगवगुणभद्राचार्य्यप्रणीते श्रीजिनदत्तचरित्रे अष्टमः सर्गः ॥ ७ ॥
——————————————————
नवमः सर्गः।
अथाऽसौ शिवदेवोऽभूद्भवांस्तद्दानपुण्यतः ।
श्रेष्ठिनो जीवदेवस्य जिनदत्ताऽभिधः सुतः ॥ १ ॥
प्राप्तस्त्वं तत एवासि सौख्यं सर्वाङ्गगोचरम् ।
अथवा लभ्यते किं न पात्रदानेन देहिभिः ॥ २ ॥
तासां यथानुरागेण सर्वदैवाऽसि भावितः ।
तेनान्यासु न ते स्त्रीषु साभिलाषमभून्मनः ॥ ३ ॥
जननीशङ्कया यच्च संक्लिष्टं हृदयं तदा ।
विपाकात्तस्य चाऽवापि मध्येऽनर्थपरम्परा ॥ ४ ॥
तद्विरामे च सम्पन्नं सम्पदां पदमुत्तमम् ।
कन्याचतुष्टयं तच्चस्वपरीणामयोगतः ॥ ५ ॥
चम्पायां सिंहलद्वीपे रथनूपुरपत्तने ।
चम्पायामेव सञ्जातं नारीरत्नचतुष्टयम् ॥ ६ ॥
विमलातिमतिः पूर्वा श्रीमती गदिता परा ।
शृङ्गारादिमतिश्चान्या विलासादिमतिस्तथा ॥ ७ ॥
परिणीतास्त्वया सर्वास्तत्र तत्र नरान्तरम् ।
अनिच्छन्त्यः क्रमाद्भद्र भवत्सङ्गमलालसाः ॥ ८ ॥
माहात्म्यात्तस्य दानस्य सार्धमाभिर्निरन्तरम् ।
सारं संसारवासस्य भुज्यते भवता सुखम् ॥ ९ ॥
निगद्येति यतौ तत्र विरते स्मृतवानसौ ।
निजजन्म समं ताभिर्मुमूर्च्छ च ततो द्रुतम् ॥ १० ॥
अचिरादुपचारं स समासाद्य ततो जवात् ।
अङ्गनाभिः समं पृष्ट उत्थितो विस्मितैर्जनैः ॥ ११ ॥
उदीर्य च तथा वृत्तं जनेभ्यो भव्यबान्धवः ।
इदं विचिन्तयामास संविग्नो हृदये तदा ॥ १२ ॥
अद्यैव साधुनाऽनेन चक्षुरुद्धाटितं मम ।
विषयाशाविमुग्धस्य दर्शयित्वा भवान्तरम् ॥ १३ ॥
न मया विहितं किञ्चित्तदा दौर्गत्ययोगतः ।
अज्ञत्वाच्च तथाऽपीत्थं सम्पदामस्मि भाजनम् ॥ १४ ॥
अत्यल्पमप्यहो न्यस्तं विधिना पात्रसत्तमे ।
शतशाखं फलत्याशु वटवीजमिव ध्रुवम् ॥ १५ ॥
तावतैव यदि प्राप्तः सम्पदं जगदुत्तमाम् ।
स्वर्मोक्षसुखसम्पत्तिः सुलभैव ततो ध्रुवम् ॥ १६ ॥
परं चेतयते जन्तुर्नात्मानं मूढमानसः ।
प्रमादमदमात्सर्यमोहाज्ञानैर्निरन्तरम् ॥ १७ ॥
न माता न पिता नैव सुहृदः स्निग्धबुद्धयः ।
तथा प्रेमकरा नृणां निस्पृहा यतयो यथा ॥ १८ ॥
जिनशासनमुद्दिश्य दीयते किमपीह यत् ।
क्रियते कृतकृत्यत्वं तेनैवाऽस्ति विसंशयम् ॥ १९ ॥
अधुनाऽविकला सर्वा सामग्री मम वर्त्तते ।
परित्यज्य बहिर्भावं विदधामि ततो हितम् ॥ २० ॥
तथा ह्ययं महामोहहुताशशमनाम्बुदः ।
अस्माकमेव पुण्येन समायान्मुनिपुङ्गवः ॥ २१ ॥
जर्जरीकुरुतेऽद्यापि न शरीरमिदं जरा ।
आक्रमन्ती महावेगाद्वात्येव च कुटीरकम् ॥ २२ ॥
विवेकोऽपि स्थिरीभूतो मनागस्य महामुनेः ।
वचसैव हृदि व्यक्ता विज्ञाता च भवस्थितिः ॥ २३ ॥
पादमूले मुनेरस्य विदधामि ततस्तपः ।
विचिन्त्येति ततो नत्वा समुवाच यतीश्वरम् ॥ २४ ॥
यथा प्रसादतो नाथ भवतः स्वभवो मया ।
सम्यगध्यक्षतां नीतो नरामरनमस्कृतः ॥ २५ ॥
न कल्पपादपः सूते न च कामदुधा न च ।
चिन्तामणिरचिन्त्यं यत्फलं त्वत्पादसेवनम् ॥ २६ ॥
तावदन्धो जनः सर्वः सर्वतो बोधशून्यकः ।
त्वत्पादपद्मपर्यन्तं यावदेति न भक्तितः ॥ २७ ॥
भावि भूतं भवद्वस्तु तदस्तीह न भूतले ।
ज्ञाने तव न यत्स्वामिन् करस्थामलकायते ॥ २८ ॥
भ्राम्यतां नाथ जीवानामस्मिन्संसारकानने ।
सम्यग्मार्गोपदेष्टाऽन्यो भवतोऽस्ति न कश्चन ॥ २९ ॥
शरणं च त्वमेवाऽसि सदा दुर्गतिपाततः ।
त्रस्यतामस्तु ते नाथ प्रसादो मम दीक्षया ॥ ३० ॥
स निशम्य वचस्तस्य प्रोवाचेति यतीश्वरः ।
भव्यचूडामणे ! सूक्तमुक्तं किन्तु परं शृणु ॥ ३१ ॥
त्वादृशां सुकुमाराणां तपो नामैव सुन्दरम् ।
न जातु सहते जातीकुसुमं हिमवर्षणम् ॥ ३२ ॥
वालुका कवलैर्भोक्तं पातुं ज्वाला हविर्भुजः।
बद्धुं गन्धवहो दोर्भ्यां तरीतुं मकरालयः ॥ ३३ ॥
मेरुस्तोलयितुं खड्गधारायां खलु लीलया।
शक्यं सञ्चरितुं जातु प्राप्तुं पारं विहायसः ॥ ३४ ॥
न तु नैर्ग्रन्थ्यदीक्षायाः सन्मुखं क्षणमप्यहो।
भवितुं भावि यत्तत्र कष्टमेव समन्ततः ॥ ३५ ॥ विशेषकं।
क्षुधादि च तथा ह्यङ्गनाग्न्य280मङ्गोपतापकम्।
धर्त्तव्यं विधुतोद्याममनोमल्लविजृम्भितम् ॥ ३६ ॥
मनसाऽपि न यः शक्यः पुंसां चिन्तयितुं स च।
महाव्रतमहाभारो धर्त्तव्यो जीवितावधि ॥ ३७ ॥
स्वच्छंवं स्पन्दनं नैव शृङ्खलाभिरिवाभितः।
यकाभिस्ताञ्च281 संसेव्या सदा समितयो ध्रुवम् ॥ ३८ ॥
एकैकशोऽपि यैर्विश्वमाक्रान्तं करणानि च।
जेयानि तानि सर्वाणि मनसा सह सर्वदा ॥ ३९ ॥
यथाकालं च कर्त्तव्यं षडावश्यकमञ्जसा।
प्रमादेन विना भद्र श्रद्धासंशुद्धचेतसा ॥ ४० ॥
नितान्तं सुकुमारस्य महामाल्योचितस्य च।
कार्यं केशकलापस्य लुञ्चनं सुधिया तथा ॥ ४१ ॥
रोमवल्कलपत्राद्यावरणान्यपि यत्र नो।
अचेलक्यं282 तदत्यन्तक्लेशकारि सहेत कः ॥ ४२ ॥
आजन्म मलजल्लादिलिप्तदेहतया स्थितिः ।
सशर्करा धरा शय्या मुखवासादिवर्जनम् ॥ ४३ ॥
वल्लनं पाणिपात्रेण काले कार्यं यथाविधि ।
स्थितेन सर्वदा सकृत्कायस्य स्थितिहेतवे ॥ ४४ ॥
इति मूलगुणा यत्र समासेन प्रदर्शिताः ।
त्रिकालयोगसेवाद्या नियमाश्चोत्तरे पराः ॥ ४५ ॥
दुःसहाः सर्वतः सन्ति प्रसृताश्च परीषहाः ।
ध्यानाध्ययनकर्माणि कर्तव्यानि निरन्तरम् ॥ ४६ ॥
तत्राऽऽत्मानं कथं क्षेप्तुं सर्वदा सुखलालितम् ।
शक्नुवन्ति महाबुद्धे ! कोमलाङ्गा भवादृशाः ॥ ४७ ॥
पूजा श्रीमज्जिनेन्द्राणां दानं सर्वाङ्गितर्पकम् ।
विवेकश्चेदृशो भद्र ! तपोऽन्यत्ते किमुच्यते ॥ ४८ ॥
स्वर्गापवर्गसौख्यस्य पारम्पर्येण कारणम् ।
गार्हस्थ्यमेव यद्युक्तं पालितुं प्रियदर्शनम् ॥ ४९ ॥
अतो गृहस्थभावस्था ज्ञाततत्त्वो भवानिह ।
दानपूजारतः शीलसम्पन्नस्तनुताद्धितम् ॥ ५० ॥
विरते प्रतिपद्येति यतीशे स जगाविति ।
स्मित्वोचितं न नो नाथ गुरूणां दातुमुत्तरम् ॥ ५१ ॥
जानंति चय एवात्र युक्तायुक्तं यथाभवत् ।
प्रसादो जल्पयत्येष तेषामेव तथापि माम् ॥ ५२ ॥
तपसो दुष्करत्वं यत्पूर्वमुक्तं महामुने ।
तत्तथैव समस्तं हि को न वेत्तीतिबुद्धिमान् ॥ ५३ ॥
परं विचार्यते चारुचारित्रेयं भवस्थितिः ।
यथा यथा कृतं कष्टं प्रतिभाति तथा तथा ॥ ५४ ॥
निशातशस्त्रसंघातघातखण्डितविग्रहाः ।
परस्परपरीवादशरणाहितनिग्रहाः ॥ ५५ ॥
महावातमहाशीतमहातपकदर्थिताः ।
स्वकायकर्त्तनग्रासफलवद्भोजनार्थिनः ॥ ५६ ॥
दन्तौष्ठकण्ठहृत्पार्श्वमुखतालुककुक्षिणः ।
वैतरण्याहता तर्षा वसापूयास्त्रवारिणः ॥ ५७ ॥
धौतासिपत्रसंकाशपत्रकृत्वे वनान्तरे ।
श्वकाककङ्कगृध्राहिश्वापदानां नगान्तरे ॥ ५८ ॥
क्वचिद्यन्त्रैः क्वचित्कुम्भीपाकैरायसकण्टकैः ।
क्वचिच्चकूटशाल्मल्यारोहावतरणैरपि ॥ ५९ ॥
शारीरं मानसं वाचं सहन्ते शरणोज्झिताः ।
यावदायुर्न किं दुःखं नरके नारका भृशम् ॥ ६० ॥
सर्वदैव परायत्तवृत्तयः प्रतिकारतः ।
विनाऽरण्यभुवो लोकमध्यजास्तुं समन्ततः ॥ ६१ ॥
हेयादेयविकल्पेन विकलाः सर्वदा त्रिधा ।
सहन्ते दुःखसम्भारं तिर्यञ्चोऽपि दिवानिशम् ॥ ६२ ॥
प्राप्यते पुण्ययोगेन मानुषत्वं कथञ्चन ।
भ्राम्यता भूरिदुःखासु चिरकालं कुयोनिषु ॥ ६३ ॥
नृत्वेऽप्यनार्यखण्डेषु जन्म यत्र जिनोदितः ।
स्वप्नेऽपि दुर्लभो धर्मो देहिनामघमोहिनाम् ॥ ६४ ॥
आर्यखण्डेऽपि सम्प्राप्ते दैवादेतन्न लभ्यते ।
सुजातिः सुकुलं सर्वशरीरपरिपूर्णता ॥ ६५ ॥
कुलजात्यादिसम्पत्तौ गर्भादेव विपत्तयः ।
शतशः सन्ति योगीन्द्र लंघितास्ताः कथञ्चन ॥ ६६ ॥
तत्राऽपि मुग्धबुद्धीनां बाल्यं यौवनमङ्गिनाम् ।
कामग्रहगृहीतानां वार्द्धक्यं विकलात्मनाम् ॥ ६७ ॥
अनिष्टाऽभीष्टसंयोगवियोगौ धनहीनता ।
‘आजन्म रोगभूयस्त्वं परकिङ्करता सदा ॥ ६८ ॥
इत्येवं दुःखखिन्नानां नराणां सुखसंकथा ।
मस्तकोपान्तविश्रान्तयमाहीनां सुदुर्लभा ॥ ६९ ॥
देवानामपि दुःखानि मानसानि पदे पदे ।
पश्यतामन्यदेवानां विभूतीर्भुवनोत्तमाः ॥ ७० ॥
पातने यानि दुःखानि क्रन्दतां शरणोज्झितम् ।
तैश्च नारकदेशीया घुसदोऽपि भवन्ति ते ॥ ७१ ॥
अतोऽनादौ न कालेऽभूद्भाम्यतां भवकानने ।
सावस्था जायते यस्यां सुखं निर्दुःखमङ्गिनाम् ॥ ७२ ॥
न चाऽस्ति किञ्चनाऽप्यत्र यत्र सोढं सहस्रशः ।
दुःखमेतेन जीवेन तन्नाथाऽजानता हितम् ॥ ७३ ॥
इदानीञ्चप्रसादेन भवतां भुवनार्चित ।
प्राप्ते विवेकमाणिक्यदीपके किं प्रमाद्यते ॥ ७४ ॥
कल्याणकारिणी स्वामिन् चेदियं गृहमेधिता ।
जायते जगतीवन्द्य वृथैवाऽऽर्य श्रमस्तव ॥ ७५ ॥
ततोऽस्तु निर्विकल्पं मे दीक्षणं क्षणभङ्गरे ।
एतदेव यतः सारं संसारे साधुसत्तम ॥ ७६ ॥
संविग्नस्य निशम्येति वचस्तस्य महामुनिः ।
यथाभीष्टं महाबुद्धे ! क्रियतामिति सोब्रवीत् ॥ ७७ ॥
अत्रान्तरे ब्रवीत्येष स्वमित्रं मतिकुण्डलम् ।
पुत्रेभ्यो दीयतां भद्र ? यथायोग्यं पदं लघु ॥ ७८ ॥
तेनाहूता समस्तास्ते प्रणम्योपाविशन्पुरः ।
योगिनं पितरं सर्वे ज्येष्ठमूचे पिता ततः ॥ ७९ ॥
जानात्येव भवान् वत्स पूर्वक्रममुदारधीः ।
तपस्यति यथा तातो न्यस्य स्वं सर्वमात्मजे ॥ ८० ॥
अतोऽहं त्वयि विन्यस्याऽऽधिपत्यमिदमादृतम् ।
विदधामि तपः पुत्र विधेया स्वगृहस्थता ॥ ८१ ॥
आत्मवत्पालयेरेतान्सर्वदैवानुजन्मनः ।
प्रकृतींश्च समस्तांस्त्वं विरक्ता जातु मा कृथाः ॥ ८२ ॥
परित्यज्य समस्तानि कार्याणि च विशेषतः ।
कर्म धर्म्यं स्वयं भद्र कुर्याः स्वार्थहितः सदा ॥ ८३ ॥
ततस्तातमुवाचाऽसौ वक्तुमेवं न युज्यते ।
यतो भुक्ता त्वया सम्पन्मातेव मम सर्वथा ॥ ८४ ॥
शास्ति तातः सुतं श्रेयः श्रुतिरेषा कृताऽन्यथा।
त्वया मोहतमश्छन्नं मार्गं दर्शयता मम ॥ ८५ ॥
सन्ति पुत्रास्तवाऽन्येऽपि कस्मैचिद्दीयतां ततः।
अहं च साधयिष्यामि त्वत्समीपे निजं हितम् ॥ ८६ ॥
इत्यादिकं वदन्शेषमित्रतातादिभिर्बहु।
बोधितः प्रतिजग्राह जनकस्य पदं तदा ॥ ८७ ॥
देशकोशादिकं तस्मै राज्यालंकृतिभिः समम्।
अभिषेकं विधायऽऽशु ददौ तत्र महोत्सवे ॥ ८८ ॥
अन्येषां च तनूजानां यथायोग्यं प्रदाय सः।
सर्वाः सम्भावयामास प्रकृतीः कृत्यकोविदः ॥ ८९ ॥
कान्तास्ततो विगतरागविशुद्धबुद्धिः
प्रोवाच चारुचरिताहितचित्तवृत्तिः।
रागेण रोषवशतो रतिकैतवेन
मानेन मुग्धमनसा मदनेन यच्च॥ ९० ॥
प्रोक्ताश्चिरं तदखिलं क्षमये त्रिधाऽहं
श्रुत्वेति ताश्चरणमूलगताः समूचुः।
क्षान्तं समस्तमपि नाथ! सदाऽस्मकाभिः283।
क्षम्यं त्वयाऽपि सकलं च दुरीहितं नः ॥ ९१ ॥ युग्मं।
संपृच्छ्यसर्वमिति लोकमलोलचित्तो
यत्रैव चन्दनतरुस्तत एव सर्पः।
शिश्राय साधुपदवीं सुहृदा समेतः
संवेगशुद्धहृदयैरपरैश्च भद्यैः॥ ९२ ॥
शमदमयमसक्ता गेहवासे विरक्ताः
सितसिचयपदेन प्रावृता वा स्वपुण्यैः ।
जिनपतिपदमूले ता बभूवुर्विरक्ता
स्तदनु विशदचित्तास्तस्य कान्ताः समस्ताः ॥ ९३ ॥
श्रुतं समस्तं विधिनाङ्गपूर्व–
प्रकीर्णकाख्यं समधीत्य सम्यक् ।
गुरोः समीपे तपसां निवासः
स धर्मदानेन ननन्द पृथ्वीम् ॥ ९४ ॥
कुर्वाणो भववारिराशितरणं तीव्रं तपः कारणं
सम्यक् सिद्धिसुखस्य संयमनिधिर्धात्रीं विहृत्यागमत् ।
सम्मेदं मुदिताशयो मुनिजनैः सार्द्धं विबुद्ध्याऽऽत्मनः
प्राप्तं प्रान्तमशेषदोषशमनीं कृत्वा च सल्लेखनाम् ॥९५॥
तत्राऽऽराध्य चतुर्विधां स विधिना सारां तदाराधनां
त्यक्त्वा तीव्रतमैस्तपोभिरधिकं नीत्वा तनुत्वं तनुम् ।
कल्पेऽनल्पसुखालये समभवत्सम्यक्त्वरत्नाञ्चितो
देवो दिव्यविलासिनीजनमनोमाणिक्यचौरोऽष्टमे ॥ ९६ ॥
अन्ये विशुद्धमतयो यतयः समस्ताः
स्वर्गे गताः परिणतेरुचिते निजायाः ।
प्रान्ते समाधिमधिगम्य मुदाप्सरोभिः
सङ्कल्पिताखिलसुखावहकान्तचेष्टाः ॥ ९७ ॥
कृत्वा सारतरं तपो बहुविधं शान्ताश्चिरं चार्थिकाः
कल्पं तास्तमवापुरेत्य सकला दत्तो जिनादिर्गतः ।
यत्राऽसौ सुखसागरान्तरगतो विज्ञाय सर्वेऽपि तेऽ
न्योन्यं तत्र जिनादिवन्दनपराः प्रीताः स्थितिं तन्वते ॥ ९८ ॥
इति श्रीभगवद्गुणभद्राचार्यप्रणीते जिनदत्तचरित्रे नवमः सर्गः ॥ ९ ॥
समाप्तमिदं चरित्रम् \।
———————
]
अनुज्ञातस्ततस्तेन सदुःखेन कथञ्चन।
भणित्वेति यथा पुत्र ! विच्छेदस्तव दुःसहः ॥ ३ ॥
-
“महामोहान्धकाराच्छादितत्रैलोक्यकमलसूर्याः। " ↩︎
-
“सर्पेण ।” ↩︎
-
“जीवयन्ति ।” ↩︎
-
“जगत् ।” ↩︎
-
“दुर्जनसज्जनौ।” ↩︎
-
“इच्छति।” ↩︎
-
“स्वर्ग इव।” ↩︎
-
“नद्यस्तु इंसादिपक्षिसहिताः जलभ्रमणसहिताश्च वेश्यापक्षे सकटाक्षाः नद्यस्तु सकमलाः वेश्यापक्षे सलक्ष्म्यः। नद्यस्तु सर्वजनभोग्यजलधारिण्यः वेश्यापक्षे सर्वजनसे व्यकुचाः पण्याङ्गनात्वात्।” ↩︎
-
“ग्रामसम्बन्धिन्यो भुवः।” ↩︎
-
“कुजन्मानो प्राणिनः विजातिभिरेव सेव्यन्ते कुजन्मानस्तरवस्ते नानापक्षिभिः सेव्यन्त एव। कुः पृथ्वी वयः पक्षिणः।” ↩︎
-
“वसु धनं विद्यते यस्यां सा वसुमती तत्र धनमासीदेव यतः यथार्थी वसुमती जाता। " ↩︎
-
“भक्त्यागतदेवैः। " ↩︎
-
“पापनाशनचतुराः।” ↩︎
-
“स्वर्गतिरस्कारकं।” ↩︎
-
“चन्द्रमसा।” ↩︎
-
" भ्रमणं क्रियते। " ↩︎
-
“हर्म्याणां समीपे।” ↩︎
-
“कृष्णपक्षे सुदर्शनचक्रम् जनपक्षे श्रेष्ठदर्शनम्।” ↩︎
-
“कृष्णस्तु सत्यभामासतः नामैकदेशेन सर्वनाम्नोऽपि ग्रहणम् जनास्तु सत्यभाषणासक्ताः” ↩︎
-
“कृष्णस्तु प्रद्युम्नाख्यसुतमोदी जनाव काममोदिनः।” ↩︎
-
“नारीणी कटाक्षच्छटया शान्तानामपि मनांसि चलितानीति भावः।” ↩︎
-
“कुबेरम्।” ↩︎
-
“नृपशरीरे” ↩︎
-
“अत्र विरोधाभासालङ्कारः।” ↩︎
-
“तन्द्रारहितः।” ↩︎
-
“बुद्धिः। " ↩︎
-
“खेः।” ↩︎
-
“दिशः।” ↩︎
-
“प्रसन्नोऽभवत्।” ↩︎
-
“मृगलोचनायाः” ↩︎
-
“भ्रमरश्रेणिः।” ↩︎
-
“विक्षिप्यते।” ↩︎
-
“विधिना।” ↩︎
-
“कृता।” ↩︎
-
“उत्कृष्टा।” ↩︎
-
“रमेतेस्म।” ↩︎
-
“आम्रस्य।” ↩︎
-
“अत्र वा इति शब्द इवार्थे।” ↩︎
-
“याचकेभ्यः कल्पतरुः।” ↩︎
-
“प्रिया।” ↩︎
-
“वशकारिणी।” ↩︎
-
“सपरिवार” ↩︎
-
“जीवंजसा।” ↩︎
-
“पुराणसम्बन्धिनीं।” ↩︎
-
“षष्ठी- बहुवचनं। " ↩︎
-
“कीलकेन।” ↩︎
-
“इन्द्रगोपा।” ↩︎
-
“व्याकरणशास्त्रेण।” ↩︎
-
“प्रसरणं।” ↩︎
-
" मा कार्षीः मा कुरु। विधेहि, माङ्योगे डाटौ न भवतः।” ↩︎
-
“शौर्यम्” ↩︎
-
“सूत्रं प्रयोगानुष्टानंधारयतीति सूत्रधारः।” ↩︎
-
“अपूर्वं।” ↩︎
-
“आषाढे मेघोन्मुक्तजलेन” ↩︎
-
“लोकवार्तया।” ↩︎
-
“प्राची।” ↩︎
-
“विहरतिस्म। " ↩︎
-
“दुःखाग्निधूमशिखा।” ↩︎
-
“मुखम्।” ↩︎
-
“नाम चक्रे इति क्रियाध्याहारः।” ↩︎
-
“वणिजां पतिः श्रेष्ठी।” ↩︎
-
“लभमानः।” ↩︎
-
“पुत्रेण।” ↩︎
-
“कपटं।” ↩︎
-
“चातुर्यम्।” ↩︎
-
“वशीकरणशस्त्रम्।” ↩︎
-
“सागरः।” ↩︎
-
“वादजल्पवितण्डालक्षणानि यथा—आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात्। या कथाऽऽभ्यासहेतुः स्यादसौ वाद उदाहृतः। विजिगीषुकथा या तु छलजात्यादिदूषणम्। स जल्पः सा वितण्डा च या प्रतिपक्षवर्जिता ॥ " ↩︎
-
“मित्रैः।” ↩︎
-
“तिष्ठन्ति।” ↩︎
-
“उपवनेषु।” ↩︎
-
“मोह प्रापयन्ति।” ↩︎
-
“वेश्यागणाः।” ↩︎
-
“कामिनः।” ↩︎
-
“लीला कीडा।” ↩︎
-
“पुतली इति भाषया ख्याता।” ↩︎
-
“निश्चलः।” ↩︎
-
“कामस्य। " ↩︎
-
“मज्जतिस्म।” ↩︎
-
“निहिता।” ↩︎
-
“महादेवेन।” ↩︎
-
“सुन्दरम्।” ↩︎
-
“विशेषः।” ↩︎
-
“न समर्थाऽभूत्।” ↩︎
-
“प्रतिरूपे।” ↩︎
-
“दशा।” ↩︎
-
“तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्।” ↩︎
-
“लिङ उत्तमपुरुषस्यैकवचनम्।” ↩︎
-
“निरन्तरम्।” ↩︎
-
“धनुः।” ↩︎
-
“संसारात्।” ↩︎
-
“मकरन्दनामधेयमित्रेण।” ↩︎
-
“आश्चर्यंकृत्वा।” ↩︎
-
“शय्यायां।” ↩︎
-
“पिपासा।” ↩︎
-
“हे काम।” ↩︎
-
“गातुमिच्छतः।” ↩︎
-
“प्रत्यञ्चा।” ↩︎
-
“वारंवारम्।” ↩︎
-
“शीघ्रम्।” ↩︎
-
“जनकाय।” ↩︎
-
“वृत्तम्।” ↩︎
-
“कम्पितम्। " ↩︎
-
“मुखलावण्यं।” ↩︎
-
“रचयितुम्।” ↩︎
-
“देवाः।” ↩︎
-
“बिमलमतिनाम्नी।” ↩︎
-
“ज्ञातम्।” ↩︎
-
“अप्रेषयत्” ↩︎
-
“इन्द्रनगरीम्।” ↩︎
-
“प्रियासन्मुखम् " ↩︎
-
“कामस्य” ↩︎
-
“यथा मनःपृथिव्यां न मिमीतेस्म” ↩︎
-
“चित्ते भवतीति रूढिः कामेऽस्ति सा तदा मिथ्याऽभूत्” ↩︎
-
“पुरोहितः” ↩︎
-
“अलससहिते ।” ↩︎
-
“अग्निं ।” ↩︎
-
“अग्निः।” ↩︎
-
“सप्तम्येकवचनम्।” ↩︎
-
“अर्थी क्षत्रियी तथा इत्यमरः” ↩︎
-
“अस्ताचलः।” ↩︎
-
“प्राप्नुवतः।” ↩︎
-
“सूर्यः।” ↩︎
-
“अदृष्टोऽभूत्।” ↩︎
-
“प्रतिग्रहं।” ↩︎
-
“तिमिरहस्तिना।” ↩︎
-
“उदितोऽभूत्।” ↩︎
-
“आकाशवने।” ↩︎
-
“चन्द्रकिरणैः।” ↩︎
-
“कान्तिसमूहैः।” ↩︎
- ↩︎
- ↩︎
-
“चलन्तिस्म।” ↩︎
-
“पुत्रीं।” ↩︎
-
“है पुत्रि।” ↩︎
-
“भवेः।” ↩︎
-
“गमनाममनं।” ↩︎
-
“चतुर्थीबहुवचनं।” ↩︎
-
“पत्युर्लघुभ्राता " ↩︎
-
“प्रेषयिष्यामि।” ↩︎
-
“तूष्णीं बभूव " ↩︎
-
“वसन्तपुरं।” ↩︎
-
“भावे प्रत्ययः।” ↩︎
-
“प्रतिप्रतोलीं” ↩︎
-
“अमृतं हि संतापनाशि भवति परन्तु सा तद्रूपामृतपानं कृत्वा हृदि कामतताऽभूत् इत्येव कौतुकं। " ↩︎
-
“शतवर्षपर्यन्तम्।” ↩︎
-
" उक्त्वा।” ↩︎
-
“अक्षिपत्।” ↩︎
-
“जग्राह।” ↩︎
-
“घनम्।” ↩︎
-
“हिमेन।” ↩︎
-
“कोकिलाः।” ↩︎
-
“कुत्सितेन मया।” ↩︎
-
“समर्थः।” ↩︎
-
“देहि” इतिशब्दम् ।” ↩︎
-
“न पूज्या भवन्ति” ↩︎
-
“वेश्याः” ↩︎
-
“करिष्यामि।” ↩︎
-
“धनानाम्।” ↩︎
-
“कारय।” ↩︎
-
“श्रीगृहम्।” ↩︎
-
“मया सह” ↩︎
-
“पवनः।” ↩︎
-
“अक्षमा इयं।” ↩︎
-
“प्रियं।” ↩︎
-
“प्रफुल्लय।” ↩︎
-
“हैयङ्कवीनसमं।” ↩︎
-
“क्रीडापर्वताः।” ↩︎
-
“निशि।” ↩︎
-
“इदं।” ↩︎
-
“अन्वेषितः।” ↩︎
-
“अदर्शि।” ↩︎
-
“वन्ध्यान्।” ↩︎
-
“पदातिभिः।” ↩︎
-
“यानविशेषः” ↩︎
-
“पृष्ट्वा” ↩︎
-
“स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलः सीधुगण्डूषसेकात् पादाघातादशोकस्तिलककुरवकौवीक्षणालिंगनाभ्याम्। मन्दारो नर्मवाक्यात्पटुमृदुहसनाचम्पकं वक्रवाताचतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः " ↩︎
-
“स्वामित्वं।” ↩︎
-
“भ्रमरैः।” ↩︎
-
“श्रेष्ठशब्दयुक्तः कृतः।” ↩︎
-
“ज्ञानिना।” ↩︎
-
“कटाक्षयुक्ता पक्षिभ्रमणयुक्ता च।” ↩︎
-
“सिंदुवारः” ↩︎
- ↩︎
-
“पूगीफलम्॥” ↩︎
-
“मदनस्य उपमान अर्थात् मदनदपि श्रेष्ठः।” ↩︎
-
“आदिष्यः।” ↩︎
-
“वैद्यम्।” ↩︎
-
“वसतिं कर्तुम्।” ↩︎
-
“अवसरः।” ↩︎
-
“पक्षिणां।” ↩︎
-
“पृथ्वीकणभक्षकाणां।” ↩︎
-
“नाशन।” ↩︎
-
“मातः।” ↩︎
-
“प्रसन्नयन्ति।” ↩︎
-
“मनुष्यैः।” ↩︎
-
“अत्र ‘वा’ शब्द इवार्थे” ↩︎
-
“अमन्यत।” ↩︎
-
“स्वच्छखड्वः।” ↩︎
-
“आभरणपेटिका।” ↩︎
-
“कम्पितवस्त्रा।” ↩︎
-
“प्रभावः।” ↩︎
-
“निशायां।” ↩︎
-
“सर्पः।” ↩︎
-
“मृतः।” ↩︎
-
“कम्पयन्ती।” ↩︎
-
“ज्ञातुमिच्छया।” ↩︎
-
“स्वपुत्रीम्।” ↩︎
-
“राहुणा।” ↩︎
-
“प्रकाशितं।” ↩︎
-
“कामस्य।” ↩︎
-
“प्राणिनां।” ↩︎
-
“श्रेष्ठः।” ↩︎
-
“वितस्तिप्रमाणेन।” ↩︎
-
“ज्ञात्वा।” ↩︎
-
“जिनदीक्षां” ↩︎
-
“तौर्यम्।” ↩︎
-
“स्त्रीरमणेच्छा।” ↩︎
-
“ग्रहीतुमिच्छा।” ↩︎
-
“दिगम्बराः " ↩︎
-
“सेवकान्” ↩︎
-
“तत्त्वार्थश्रद्धानं” ↩︎
-
“कमलनयने ।” ↩︎
-
“प्राणत्यागः।” ↩︎
-
“पञ्चप्रकारमनुव्रतं, त्रिधा गुणव्रतं, चतुर्धा शिक्षाव्रतम्।” ↩︎
-
“कृतपुजः।” ↩︎
-
“कटाक्षैः कृत्वा।” ↩︎
-
“मध्यबन्धनोपयोगिनी रज्जुः।” ↩︎
-
“कीलक” ↩︎
-
“इच्छाः।” ↩︎
-
“क्लाम्यसि।” ↩︎
-
“कम्पितं।” ↩︎
-
“पृथ्वीतटम्।” ↩︎
-
“अत्र वाशब्दो इवार्थे।” ↩︎
-
“खड्गेन।” ↩︎
-
“गौतमर्षिः।” ↩︎
-
“स्नुषा पुत्रवधूः " ↩︎
-
“लोष्ठम्।” ↩︎
-
“यथौजः प्रसादादिगुणरहिताः कवेः कृतयः निरीक्षणेनैव तिरस्क्रियन्ते।” ↩︎
-
“द्विकर्मकघातुत्वात्कर्मद्वयम्।” ↩︎
-
“ज्ञाताभिप्राया।” ↩︎
-
“हालाहल।” ↩︎
-
“नराधम इत्यर्थः।” ↩︎
-
“समुद्रं।” ↩︎
-
“मा जानीहि।” ↩︎
-
“मनोहरया।” ↩︎
-
“क्षुद्रघण्टिका।” ↩︎
-
“उक्त्वा।” ↩︎
-
“अन्तर्हितो बभूव।” ↩︎
-
“शो मा कुरु।” ↩︎
-
“तथा " ↩︎
-
“विरहाग्निः।” ↩︎
-
“शृण्वन्ति स्म।” ↩︎
-
“दानम्।” ↩︎
-
“इति " ↩︎
-
“गृहीतम्।” ↩︎
-
" वन्ध्याः।” ↩︎
-
“वायुः।” ↩︎
-
“जग्मुः।” ↩︎
-
“शब्दैः कृतसत्क्रियम्।” ↩︎
-
“श्रोतुमिच्छति।” ↩︎
-
“मलिना दारेषु पराङ्मुखा न भवन्ति।” ↩︎
-
“वा शब्द इवार्थे।” ↩︎
-
“अतिशयेन ।” ↩︎
-
“पिप्पलः।” ↩︎
-
“द्वितीयदिनस्य भोजनसमये।” ↩︎
-
“गृहाङ्गणे।” ↩︎
-
“अयात " ↩︎
-
“दाने।” ↩︎
-
“अङ्गनग्नता।” ↩︎
-
“वामिः " ↩︎
-
“वस्त्रादिरहितत्वं।” ↩︎
-
“अस्माभिरित्यर्थः “स्वार्थे कः " ↩︎