[[संघात्मा-श्रीगुरूजिः Source: EB]]
[
शारदा-गौरव-ग्रन्थ-माला….. ६१
संघात्मा श्रीगुरुजिः
लेखकः
प्रा. ह. त्र्यं. देसाई M.A, M.Ed.
मूल्यं २० रूप्यकाः
प्रकाशका
पं. वसन्त अनन्त गाडगील
शारदागौरव-ग्रन्थ-माला
४२५ सदाशिव पेठ, पुण्यपत्तनम् ४११०३०
卐
सर्वाधिकाराः प्रकाशकायत्ताः
卐
मुद्रकः
पं. वसन्त अनन्त गाडगील
श्रीशारदा-मुद्रण-सिद्धि-मन्दिरम्
४२५ सदाशिव पेठ, पुण्यपत्तनम् ३०
यशवन्त-मुद्रणालयः
१८३५ सदाशिव पेठ, पुण्यपत्तनम् ३०
सस्नेहादरं
—स म र्प ण म्—
एकतां हिन्दु–राष्ट्रस्य यो दृढीकर्तुमानसः
कोषान् षोडश–भाषाणां लोकोक्तीनां च निर्ममे।
तस्मै मन्मित्रवर्याय विश्वनाथाय सादरं
नरव्णे-कुल-रत्नाय ग्रन्थमेतं समर्पये॥
अपि च
अधीतं क्रीडितं चापि याभ्यां सह मया पुरा।
ताभ्यां प्रिय-सतीर्थाभ्यां—
[श्री. गोविन्द विष्णु फडके बोरिवली, मुम्बई
तथा
प्रा. दत्तात्रय रामचन्द्र शेवडे कर्णावती, गुजरात]
—सस्नेहं च समर्पये।
—ह. त्र्यं. देसाई
प्रकाशकीयम्
शारदा-गौरव-ग्रन्थ-माला।
स्वीयानि षष्टि-प्रकाशनानि परिपूर्य
एकषष्टितमं माला-पुष्पं प्रकाशयति।
संघात्मा श्रीगुरुजिः।
संघश्च राष्ट्रात्मा।
श्रद्धानिधानं संघः शारदाकाराणाम्।
बाल्याद् आरभ्य चत्वारिंशद् वर्षाणि
संघ-संस्कारैः संवर्धिताः शारदाकाराः।
अत एव प. पू. श्रीगुरुजि-चरितस्य
प्रकाशनेन स्वात्मानं धन्यं मन्यामहे।
धन्यः प्राचार्यः हरिभाऊ देसाईमहाशयः
चरितलेखनेन।
धन्या शारदा-गौरव-ग्रन्थमाला
प. पू. सरसंघचालक– श्री म. द देवरस-हस्तेन
ग्रन्थरत्नम् इदं प. पू. गुरुजिस्मृतौसमर्पयितुं लब्धभाग्या।
संस्कृत-सेवा-मात्र-निष्ठत्वात् किमन्यत् प्रार्थनीयम्।
संस्कृत-सेवायाम् एव—
—पतत्वेष कायो नमस्ते नमस्ते।
—वसन्त अ. गाडगील
प्रस्तावना।
मम मनसि तेन तेन महापुरुषेण सह कस्यापि तदुच्चारितस्य वाक्यस्य निगडबन्धो वर्तते। यथा— शिवछत्रपतिना सह ‘इदं राज्यम् उदेतु इति स्वयं भगवत एव अतीव मनीषा अस्ति’ इति, रामशास्त्रिणा सह ‘देहान्तं वर्जयित्वा अस्य पातकस्य अन्यत् प्रायश्चित्तं नास्ति’ इति, लोकमान्य तिलकैःसह ‘स्वराज्यो नाम मम जन्मसिद्धः अधिकारः’ इति। एवं प. पू. गोलवलकरगुरुजिभिः सह किं वा वाक्यं मम मनसि निगडबद्धम् इति चेत् ‘Prove the charges conclusively or withdraw them unconditionally.’ इति। आसीत् स गान्धि-हत्योत्तरः कालः। रा. स्व. संघः अवैधः घोषित आसीत्। श्रीगुरुजीन् आरभ्य आबालं स्वयंसेवकाः निगृहीता आसन्। अधिकारारूढः नेतृभिः संघोपरि अनेके आरोपाः आक्षारिता आसन्। काराबद्धाः गुरुजि-महाभागाः नेहरू-पटेलप्रभृतिभिः सह अत्रविषये पत्रव्यवहारपरा आसन्। किमपि प्रमाणं विनैव पुनरुच्चारणमात्रेण निगदव्याख्यातानिव तान् आरोपान् मन्यमानान् महानेतॄन् अन्ते गुरुजिभिः सावेशम् आदिष्टम्—Prove the charges conclusively or withdraw them unconditionally! अहो निर्भीकता! अहो तेजस्विता! अहो निःस्पृहता! कश्चित् रामशास्त्री एव एवं कर्तुं प्रभवेत्। तदाप्रभृति एतेन जाज्वलता उद्गारेण गृहीकृतमिव अस्ति मम मनः।
गुरुजीनाम् अन्योऽप्येको विशेषः मम हृत्पटले उत्कीर्ण इवास्ति। स नाम तेषां योगिभ्यो नातिभिन्नता। भारते अनेके पुरुषाः योगम् आरुह्य, साधनान्तरेण वा शाश्वत-सुखम् इच्छन्तः हिमालयं, स्थानान्तरं वा, शरणीचक्रुः। केचित्तु नियत्या ‘तव कार्यम् अन्यत्र विद्यते’ इत्युक्त्वेव प्रतिनिवर्तिताः। यथा स्वामी विवेकानन्दः। नेताजिः सुभाषचन्द्रः। श्रीगुरुजिरपि तथैव। मन्मनसि गुरुजीनां या प्रतिमा वर्तते, सा योगिनः। सबाह्याभ्यन्तरा।श्री. देसाई-लिखिते अस्मिन् गुरुजि-चरिते एको वृत्तान्तोऽस्ति—चिकित्सार्थे ३२ वारं स-‘चर्’शब्दान् दाह-दुर्गन्ध्यनुगतान् हस्त-दाघान् अनुभवन्नपि श्रीगुरुजिः प्रसन्न -
मुखवर्णः समीपवर्तिभिः जनैः सह परिहासालाप-परः अतिष्ठत् ! एतत्-पठनोत्तरं गुरुजि-विषयिणी मम योगि-प्रतिमा दृढतरा अभवत्। श्रूयते, यत् तेषाम् अन्तिम-शल्यकर्म-वेलायामपि तैः उक्तमासीत्—“नास्ति विसंज्ञीकरणस्य (Anaesthesia) कापि आवश्यकता। यथेच्छं क्रियतां शस्त्रकर्म।” किं तु शस्त्र-कर्म-कारिभिः वैद्यैरेव तत् न अङ्गीकृतम्। इयं खलु पराकाष्ठा योगिनः रक्तगताया देहातीततायाः।
श्री. देसाईनाम् अस्माद् गुरुजि-चरिताद् इदं सुज्ञेयं यत् प. पू डॉक्टराणां पश्चात् संघकार्यस्य धुरं समर्थतया वोढुमिव गुरुजीनां जन्म आसीत्। तदेव तेषाम् अवतार-कार्यमिव आसीत्। आसीत् स कठिनः कालः यदा तैः इयं गुर्वी धुरा स्वस्कन्धे आरोपिता। तेषु च धुरंधरेषु इमां धुरां धारयत्सु देशे अनेकानि झंझावात-सदशानि स्थित्यन्तराणि अभूवन्। ४२ क्रिस्ताब्दे ‘भारताद् अपेहि’ आन्दोलनम्। ४७ क्रिस्ताब्दे स्वातन्त्र्यपूर्व-कालिकाः जातीयाः नरमेधाः, ततश्च देशविच्छेदः, स्वातन्त्र्यागमनं च। ४८ क्रिस्ताब्दे गान्धि-महात्मनो हत्या, ततश्च नैर्बन्धिकी संघकार्य-स्थगितिः। ततः सत्याग्रहान्दोलनम्। अन्ते च बन्धमुक्तिः। गुरुजीनां संघ-नेतृत्वस्य प्रारम्भिकेषु उपदशेषु वर्षेषु य एते तडिदाघाताः अभूवन्, ते कस्यापि इतरस्य मेरुदण्ड-खण्डने पर्याप्ता आसन्। किं तु रोरूयमाणेषु एतेषु सत्त्व-परीक्षाकरेषु प्रभञ्जनेषु योगबलमिव आस्थितः अयं कैवर्तकः न केवलं संघ-नावं क्षेमेण परं तटं प्रापयत् किं तु संघकार्यं द्विगुणं, त्रिगुणम्, अनेकगुणम् अवर्धयत्। श्रीगुरुजिः हि संघे नवीनं चैतन्यमिव आधत्त। संघस्य विचार-संपदि निष्कलङ्क चारित्र्य-संस्कृति सदृशीः संकल्पनाः प्रवेश्य स्थिरीकृत्य च गुरुजिभिः संघस्य विचारसंपदः कक्षाः विस्तारिताः। स्थाने एव लेखकः गुरुजि संघात्मानं मन्यते। (तत्पुरुषतया बहुब्रीहितया च इत्युभयथापि भवतु।) स्थाने एव च देसाई-महोदयः ईदृशस्य महापुरुषस्य चरितलेखने निजां लेखनी व्यापारितवान्।
न हि कोऽपि कस्मैचिद् एकस्मै कार्याय सर्वात्मना समर्पितजीवितः सन्नपि राष्ट्रिय-जीवनस्य अङ्गान्तराणि कार्स्न्येनअलक्षयितुं पारयति। मुख्योद्देशस्य पूरकेषु उपकारकेषु च विषयेषु तस्य किमपि
कर्तव्यं, न्यूनतोन्यूनं वक्तव्यम्, अवशिष्यते एव। एतदनुसारेण विश्वहिन्दुपरिषद्, शंकराचार्याणां संमेलनम्, गोहत्या- निरोधान्दोलनम्, विवेकानन्दशिला-स्मारकम् प्रान्तीयता-विरोध-संमेलनम् इत्यादिषु गुरुजिभिः या प्रेरणा प्रदत्ता, कार्यभारो वा ऊढः, नेतृत्वं वा कृतम्, तस्य सम्यक्चित्रम् अस्मिन् देसाई-प्रणीते गुरुजि-चरिते उपलभ्येत। प्रायः राष्ट्रिय-जीवने उदासीनानाम्, अन्योन्य-निरपेक्षाणाम्, अध्यात्म-मात्र-रतानां, सर्वतन्त्रस्वतन्त्राणां’ च तत्-तत्-पीठाधीशानाम् आचार्याणां यद् एकस्मिन् व्यासपीठे आनयनं गुरुजिभिः महता कौशलेन घटितम् स खलु कश्चित् चमत्कार एव मन्तव्यः।
अल्पस्वल्पेषु प्रसङ्गेषु स्वभाव-विशेषाः स्फुटीभवन्ति। एवं हि आहुः, यत् ‘आठवणी व आख्यायिका’ इत्याख्ये बापटानां ग्रन्थे लोकमान्य-तिलकानां सूक्ष्मातिसूक्ष्माणां स्वभाव-विशेषाणां यथा स्पष्टं दर्शनं भवति, न तथा तेषाम् अनेक खण्डात्मके चरिते। परिचिचायिषिते अस्मिन् ग्रन्थेऽपि गुरुजीनां गुण-गरिम-दर्शनं लेखकेन सहृदयतया कृतमस्ति। गुरुजीनां परोपकार-प्रवणता, साहसिकता, आफलोदयकर्मता, प्रसिद्धि-पराङ्मुखता, व्यवहार-दक्षता, युक्तिवाद-कौशलम् इत्यादयःनैके गुण-विशेषाः अत्र सम्यक् परिचायिताः सन्ति। गुरुजीनां विनोद-प्रियता अत्र विशिष्य निर्देष्टव्या। गभीर-मानसाः सन्तोऽपि, पर्वतप्रायं भारं वहन्तोऽपि दिष्ट्या ते विनोद-विमुखा नासन्। (यत्सत्यम्, एवं महान् भावः यत्तैर् लीलया धृतः, तत्र विनोद-बुद्धिसहभूः प्रसन्नचित्तता अपि कारणं स्यात्।) लेखकेन अत्र विषये निवेदिताः केचन प्रसङ्गा रमणीयाः सन्ति। एकदा कार्यकर्तॄणाम् उपवेशने ‘संप्रति भवच्छाखायां किं कार्यं प्रचलति? इति गुरुजिभिः पृष्टम्। ‘खोखो-क्रीडा’ इति कार्यकर्तॄणा प्रतिवचने दत्ते ‘नवीनाः स्वयंसेवकाः आगत्य पूर्वागतान् ‘खो’ ददति, इत्येवं नु?’ इति गुरुजिः सहास्यं पृष्टवान्। अथैकदा मम अमुकः उपासना-वारः, मम अमुकः इति स्वयंसेवकेषु कथयत्सु ‘मम हेडगेवारः’ इति गुरुजिः अवदत्। अत्रत्यः भक्ति-विनोदयोः’ श्लेषः’ कामपि हृद्यतां धत्ते। वृश्चिकेन पादे दष्टे पादाङ्गुलिं क्षुरिकया ईषत् छित्त्वा जलपूर्णायां द्रोण्यां-
पादं निधाय, पूर्ववत् पठने दत्तचित्तः; एकस्मिन्नेव दिने १०९ पृष्ठात्मकस्य ‘राष्ट्रमीमांसा’-ग्रन्थस्य निर्वर्तितानुवादः; कुष्ठरोगिषु सहानुभूतिपरः; पाकिस्तानेन सह युद्धावसरे (१९६५) महामात्यनिमन्त्रितायां परिषदि डांगेसदृशानां भारतीय सेनावमानिनाम् अहंमन्यानाम् कृत-मुख-भङगः; ‘कीदृशी गङ्गा-प्रवाह-पतितस्य तृणस्य तटस्थता? झञ्झावातेऽपि निष्कम्पस्य कुल-पर्वतस्यैव तटस्थता शोभते’ इति उदीरिततीक्ष्णोद्गारः अन्यादृश एवासीत् अयं महापुरुषः।
गुरुजिचरितं स्वयंसेवकान् विहाय को वा पठेत् इति कदाचित् केचित् प्रागतिकंमन्याः ब्रूयुः। गुरुजीनां चरितं जिज्ञासमानेष्वपि कति वा इदं संस्कृत-चरितं पठेयुः इत्यपि केचित् मन्येरन्। किं तु अकिंचित्करा एतादृशाः प्रश्नाः। दिष्ट्या देसाईमहोदयेन अत्र—
‘उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा।
कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥’
—इति भवभूति-नीतिः आश्रिता। तादृशं हि उदात्तं गुरुजिचरितं यद् गायन्ती गैर्वाणी अपि धन्यं मन्येत आत्मानम्। अनेन गुरुजिचरितेन संपन्नतरः संपन्नोऽस्ति संस्कृत-रत्न-कोशः। विशिष्य च इदं वक्तव्यम्, यद् दिष्ट्या गद्यमेव—सरलं सुबोधम् अनावश्यक-अलंकार-भार-वर्जितम्—ग्रन्थकारः समाश्रयत्। तदेव अद्य आवश्यकम्। श्लोक-बद्धानि महाकाव्यानि हि कांश्चिदेव पण्डितान् आवर्जयेयुः। सामान्य-जनस्य हृदयं यदि प्रवेष्टव्यं तर्हि तु जीवत् चपलं प्रभाववत् च गद्यमेव आवश्यकम्
न जाने एतद्-ग्रन्थ प्रस्तावने का मे अधिकारसंपद्। तथापि महापुरुषस्य आदराञ्जलि-अवसरं को वा प्रत्याचक्षीत? एतद्-ग्रन्थ लेखनार्थंश्री. देसाई-महाभागं, प्रकाशनार्थं च पं. वसन्त-गाडगील-महाभागं भूयो भूयोऽभिनन्द्य समापयामि इदम्—
माधवाय नमः।
संस्कृत-प्रगताभ्यास-केन्द्रम्
—डॉ. ग. बा. पलसुले
पुणे-विद्यापीठम्, पुणे ४११००७
M.A. Ph.D.
लेखकस्य किंचित् प्राक्कथनम्।
नमस्ते संघात्मन् ! तव चरित-गाने सुर-गिरा
समर्थः स्याद् बाणः कवि-कुल-गुरुर् वा, न तु परः।
तथापि त्वद्-भक्त्या ननु विरचिता जीवन कथा
यया स्युः संप्रीता दिवि सुर-गणाः, किं न मनुजाः॥
** “परम–पूजनीयस्य श्रीगुरुजि-महाशयस्य ‘तेजाची आरती’ इति अभिनवं मराठी-चरितं नचिरात् प्रकाशितं भविष्यति"** इति वृत्तं गतवर्षे मया वृत्तपत्रेषु पठितम्। तदानीम् एव स्मारितोऽहं हृद्-गत-शल्येन यत् नैक-भारतीय भाषासु श्रीगोलवलकर–गुरुजि-चरितं विरचितं विद्यते, गीर्वाण भारती तु अद्यावधि तेन वञ्चिता। कोऽपि श्रीवेलणकर-वर्णेकरसदृशः कविवर्यः तद् लिखेत् इति प्रतीक्षया अलम्। ‘त्वमेव तत् संस्कृते किं न लिखसि’ इति तीव्रा अन्तर्यामि-प्रेरणा मन्मनसि प्रादुर्भूता।
तदूर्ध्वंगत-वत्सरे, प. पू. श्री सरसंघचालक-बालासाहेब देवरसमहोदयस्य कारावास-मुक्त्यनन्तरं पुण्यवत्तने केवलं स्वयंसेवकानां कृते संपन्नं प्रथमम् उद्बोधनं संश्रुत्य प्रत्यागच्छता जनेनानेनशुभस्य शीघ्रम्’ इति कृत्वा तस्मिन् एव सुदिने श्रीगुरुजि-चरित-लेखनस्य शुभारम्भः कृतः। परंतु अज्ञातेन अप्रसिद्धेन वा लेखकेन लिखितं पुस्तकं कः प्रकाशयेत् इति चिन्ता चित्ते प्रादुरासीत्।
किन्तु दैवयोगात् आदरणीयेन शारदा-संपादक-महाशयेन संमिलिते सति ‘मया श्रीगुरुजि-चरित लेखनं तावत् समारब्धम्, परं कस्तत् ‘प्रकाशयेत्’ इति साशङ्कं पृष्टमात्रे, संस्कृत-भाषा-प्रसाराय समर्पितजीवितेन उदारचेतसा च तेन तत्क्षणमेव ‘अलं चिन्तया। शारदा-गौरव-ग्रन्थमालायां तद् अवश्यं प्रकाशितं भवेत्’ इति समाश्वासितम्। तदा वीत-चिन्तया मया पूर्वमेव प्रारब्धस्य लेखनस्य आन्तगमनं यथाकालं विहितम्।
पुस्तकमिदम् अधिकृत्य अस्त्येकः कथनार्हो विशेषः। आसीत् लेखकोऽयं प्रशालाध्यापकः। अध्यापनं तस्य सहजं कर्म। विद्यार्थिनः
तस्य सुप्रियाः। अद्यावधि तेन प्रायः यद्यत् कृतं यत् च व्यवसाय-निवृत्त्यनन्तरं सांप्रतम् आचर्यते तत् सर्वमपि प्रामुख्येन बालानां कृते। गतवर्षे तेषां कृते एव ‘गुणसागर टिलक’ इति मराठी चरितं तेन लिखितम्। इदं श्रीगुरुजि-चरितमपि बालोपयोगाय एव प्रणीतमस्ति। तस्य वाचनेन कदाचित् विदुषां संतोषः न स्यात्। केवलम् आ–शालान्त परीक्षां यैःसंस्कृतम् अधीतं तेषाम् एव सुखबोधाय चरितमिदं सुबोध संस्कृते लिखितुं प्रयत्नः कृतः। अत एव विद्वद्भिः यत् संस्कृत-गद्यस्य जीवितम् इति मन्यते तत् समास-भूयस्त्वं चरितेऽस्मिन् नोपयुक्तम्। तथा च संधिजनित-दुर्बोधता-निरासार्थं समास-गत प्रतिपद-बोध-सौकर्यार्थं च तत्र तत्र ‘-’ एतादृशानि रेखा-चिह्नानि विन्यस्तानि। अनभ्यासात् संस्कृत-लेखनस्य, ‘समासे संहिता नित्या’ इति नियमे ज्ञातेऽपि यदि क्वचित् समासेऽपि संहिता न कृता स्यात् उदारधीभिः व्याकरणाचार्यैः क्षन्तव्योऽयं जनः इति सविनयं प्रार्थ्यते।
अत्र अत्यावश्यकम् एकं शङ्का-समाधानम्। चरितेऽस्मिन् चरित्रनायक-विषये सुरूढः ‘गुरुजि’-शब्दः एव प्रयुक्तः। डॉ. वर्णेकर-महाशयेन ‘श्रीशिवराज्योदय’-महाकाव्ये कृतस्य’ शहाजेः’ इति प्रयोगस्य डॉ. पलसुले-महोदयेन कृतं स्वागतम् मया अवलोकितम् आसीत्। तेन लब्ध-धृतिना मयाऽपि ‘श्रीगुरुजेः, गुरुजये’ इति शुद्धाः किन्तु लोक विरुद्धाः प्रयोगाः कृताः। अत्र श्रेष्ठाः प्रमाणम् इति मे मतिः।
चरितमिदं ‘श्रीगुरुजि-समग्र दर्शन’स्य अद्यावधि प्रकाशितं खण्डत्रयं श्री. ना. ह. पालकर-लिखितं ’ श्री. मा. स. गोलवलकर व्यक्ति व कार्य’ इति मराठी-चरितम्, उपरि-निर्दिष्टं ‘तेजाची आरती’-नामकं श्री. ह. वि. दात्ये-विरचितं मराठी-चरितम् तथा च प्रो. धर्मवीर-लिखितं ‘गुरु गोलवलकर’ इति हिन्दी-चरितम् इति ग्रन्थ-चतुष्कं प्रमाणीकृत्य प्रणीतमस्ति। कतिपय-संघ-कार्यकर्तृभ्यः अपि केचिद् वृत्त-विशेषाः अवगताः। अतः सर्वेभ्यः तेभ्यः धन्यवादाः वितीर्यन्ते।
प्रा. डॉ. म. रा. राईलकर, भिषग्वर्य-श्रीदत्तात्रेयशास्त्री जलूकर, श्री. त्र्यं. रा. दामले, मित्रवर्य द. रा. शेवडे इत्येभिः सज्जनैः मुद्रण-लिपि
पठित्वा उपयुक्त सूचनाः कृताः। प्रा. डॉ. ग. बा. पलसुले-महाशयेन च श्रीगुरुजि-विषयक-पूज्यभावेन मयि स्नेहेन च न केवलं मुद्रण-लिपिः सूक्ष्मेक्षिकया पठिता, मम विज्ञप्तिमादृत्य प्रस्ताव लेखेन अपि भृशम् उपकृतोऽस्मि।श्री. उल्हे-सिद्धे-प्रभृतिभिः टंक-संयोजकैःहार्दं सहकार्यं दत्तम्। प्रणतिपूर्वकं तेभ्यः सर्वेभ्यः धन्यवादान् वितरामि।
सुहृदुत्तमाय प्रकाशक-महाशयाय सुमहद् ऋणं धारयामि यत्किल केनापि प्रत्युपकारेण निर्यातयितुं न शक्यते। यत्सत्यं श्री गाडगीलमहानुभावस्य साहाय्याभावे अशक्यप्रायमासीत् पुस्तकस्यास्य प्रकाशनम्। अतस्तस्मै हार्द-कृतज्ञतया अभिवादये इति शम्।
गङ्गेशः,
विद्वद् वशंवदः
नीलाम-चित्रगृह- समीपे,
ह. त्र्यं. देसाई
सदाशिव पेठ, पुणे ४११ ०३०.
अनुक्रमणिका
प्रस्तावना—
प्राक्कथनम्—
अनुक्रमणिका—
१ आमुखम्—
२ बाल्यम्—
कुलवृत्तान्तः, जन्म यस्य शुभे दिने, गृहे शिक्षणारम्भः, प्राथमिक-शाला-संस्मरणम्, आ बाल्यात् एकाग्रता।
३ प्रशाला-शिक्षणम्—
व्रतबन्ध-संस्कारः, पाकशास्त्र-नैपुण्यम्, व्यायाम-वैशारद्यम्, वाक्पाटवम्, आदानं हि विसर्गाय।
४ महाविद्यालय-शिक्षणम्—
वाद्य-कला-नैपुण्यम्, अद्भुता स्मरण शक्तिः, काश्यां हिन्दु-विद्यापीठे, असामान्या तितिक्षा।
५ उच्च शिक्षणम्—
प्राणि-जीवन-संशोधकः, नियम-पालन-दक्षता,पत्र-लेखन-प्रियत्वम्, विचार-संघर्षः, खण्डितं संशोधनम्।
६ विद्यापीठ—प्रपाठकः—
परार्थ-घटकः, धौरेयः साहसिकानाम्, आत्मौपम्येन सर्वत्र, देहेऽहंमतिः नप्टकल्पा, विद्यापीठे संघ-शाखा-पुरःसरः, हेडगेवारस्य आकर्षणम्, युक्तिवाद-पाटवम्।
७ शिष्यस्तेऽहं शाधि माम्—
निर्बन्ध-शास्त्रस्य अध्ययनम्, संघस्य अधिकारी, यावज्जीवं ब्रह्मचर्य-प्रतिज्ञा, क्षणिका विधिज्ञ-वृत्तिः, सारगाछ्याम् अध्यात्म-साधना, श्री अखण्डानन्दानाम् अनुग्रहः।
८ आद्य सरसंघचालकस्य अन्तेवासी—
अथातो डॉ. हेडगेवार-जीवन-जिज्ञासा, राष्ट्रकार्ये सहकारः, ‘खिलाफत’-नाम अखिल-आपत्, वीर-सावरकर-दर्शन-लाभः,
संस्थापितः रा. स्व. संघ, भगीरथात् श्रेष्ठतरो हि केशवः, दारिद्र्यं परमं मित्रम्।
९ शनैः संघ-कार्य-भार-संक्रमणम्—
श्रीगुरुजि-स्कन्धे कार्यभारः, श्रीगुरुजेः अनुवाद-चमत्काराः, सिन्दी-ग्रामे संघाधिकारिणां संमेलनम्, श्रीगुरुजि-रचितः ‘राष्ट्रलक्षण’-ग्रन्थः, देवलाली-ग्रामे डॉ. हेडगेवारस्य शुश्रूषा, सरकार्यवाह पदे श्रीगुरुजिः, डॉ. हेडगेवारस्य राजगिरे विश्रामा, मम वारः? हेडगेवारः, म. प्रा. मेलापके स्वा. सावरकरः, आद्य–सरसंघचालकस्य उपदेशः, आद्य-सर–संघचालकस्य अन्तिमं भाषणम् आद्य–सरसंघचालकस्य देहावसानम्।
१० द्वितीयः सरसंघचालकः—
द्वितीय सरसंघचालकस्य प्रथमं भाषणम्, संघ-कार्य-परिभ्रमणम्, सर्वकारस्य संघ-संचलन-प्रतिबन्धः, संघस्य कार्य-प्रचारकयोजना, काँग्रेस-आन्दोलनम्ः ‘निर्गच्छत भारतात्’, संघटना प्रभाविनी कथं भवति? दैनिक शाखाः साधकतमं कारणम्, न निश्चितार्थाद् विरमन्ति धीराः, दोषनिवारिणी माधवी रीतिः, योजना अनुसर्तव्या एव, श्रीगुरुजेः विनोदप्रियता, संघ-कार्य-सरणि-विशेषाः, भेदातीतं संघटनम्, मानस-शास्त्रीयम् अधिष्ठानम्।
११ मातृभूः हन्त खण्डिता—
राष्ट्रिय-संकटे मार्गदर्शनम्, आत्मरक्षणं प्रकृति-सिद्धः अधिकारः, पञ्जाब-साहाय्य–समितिः, देश-विच्छेद-घोषणा, दक्षिणोत्तरशक्ति-समवायः, वरं मरणम् न शरणम्।
१२ ग्रस्तः स्वातन्त्रोदयः—
क्वचिद् आनन्दोर्मिःक्वचिदपि च हा हेति, श्रीगुरुजिकृतं परिस्थिति–समीक्षणं, क्रियासिद्धिः सत्त्वे, जीवति अद्यापि पद्मिनीसंघेन अनुष्ठितं काश्मीर-रक्षणम्, केन दिल्ली सुरक्षिता?
१३ म. गान्धी-प्रभृतीनां संघ–कार्य–प्रशंसा—
म. गान्धीकृता संघ-प्रशस्तिः, पं. नेहरुणा सह चर्चा, वृत्तपत्रैः संघः परिचायितः, सैन्याधिकारिणां संघ-कार्य-प्रशंसा, परपुष्टानां व्यथा, त्राहि नः संघचालक!, महात्माजिः परित्रातः अभूतः चिञ्चवड-मेलापकः, पाकिस्तानस्य संघ-द्वेषः।
१४ वज्राघातः—
अहह! महात्माजिः हतः !!, म. गान्धी–वधावसरे सरसंघचालकस्य पत्रकम्, श्रीगुरुजि-गृहे उपल-वृष्टिः, अरेरे! गुरुजिः निगृहीतः, शासनेन संघः प्रतिबद्धः, मर्यादित–कालावधि संघविसर्जनम्, गान्धीहत्यायाः मिथ्यारोपः।
१५ कारावासः—
कारागारे श्रीगुरुजेः आह्निकम्, न्यायालयस्य उपस्थापनादेशः (Habeas Corpus), रा. से. समित्याः सहानुभूति-सत्याग्रहः, कारागृहस्थस्य श्रीगुरुजेः पत्रव्यवहारः, मोचनं पुनर्बन्धनाय!, गृहमन्त्रिणः मौखिकादेशः, श्रीगुरुजिना प्रकाशितं पत्रक-द्वयम्, पं. नेहरू-महाशयस्य प्रत्युत्तरम्, श्रीगुरुजेः प्रधानामात्याय प्रत्युत्तरम्, श्रीगुरुजेः प्रधानामात्याय पत्रम्, भारत-सर्वकारस्य निवेदनम्।
१६ सत्याग्रहान्दोलनम्—
सरसंघचालकस्य संदेशः, भारतस्य गृहमन्त्रिणः घोषणा, सत्याग्रह-प्रारम्भः, देशान्तरेषु सत्याग्रह वृत्त-प्रसारः, पञ्जाबे सत्याग्रहिषु आरक्षकाणाम् अत्याचारः, पं. नेहरू-गर्जना, श्रीजयप्रकाश-स्पष्टोक्तिः, शम-प्रयत्नाः, सर्वकारं प्रति संघ-संविधानप्रेषणम्, मध्यस्थस्य पत्रकम्, श्रीगुरुजेः कारावास-वैभवम्, श्रीगुरुजेः योगक्षेमस्य कारागारे उपेक्षा, सर्वकारेण न्यायाधीशः वैद्यीकृतः, वृत्तपत्राणाम् अभिप्रायः, अहो अपगतं संघबन्धनम् !
१७ सार्वत्रिको स्वागतावलिः—
अभिनन्दन-वृष्टिः, सरदार पटेल-दर्शनम्, स्वागतं देव दुर्लभम् !
पत्रकाराणां प्रतिक्रिया, परंपरीणे राष्ट्रगीते श्रीगुरुजेः आस्था, अमृतसर-नगर-काँग्रेस-कृतः गुरुजिसत्कारः, महामात्येन सह विमर्शः, काँग्रेस–पक्षे संघ समावेशयितुं प्रयत्नः, लोकाग्रणीभिः सह विमर्शः।
१८ दुःख-तप्तानाम् आर्ति-नाशनम्—
जनः कं समाश्रयते?, वरं प्राणत्यागः, वास्तुहारा-साहाय्यसमितिः, पाकिस्तानस्य निर्हिन्दूकरणम्, रक्षितानां कृतज्ञता, विदेशीयानां संघ-कार्य-समीक्षणम्—दिवंगताय सरदार पटेलमहाशयाय श्रद्धाञ्जलिः, श्रीसोमनाथस्य पुनःप्रतिष्ठायाः को हेतुः? अवर्षण-पीडितानां सेवा।
१९ गोहत्या-निरोधादि कार्यान्तराणि—
अभिनव-भारत-साङ्गता-समारोहे, हिन्दु-संघटनस्य आन्तरराष्ट्रियं महत्त्वम्, सार्वभौम साधु-संमेलने श्रीगुरुजिः, संघस्य प्रतिनिधि सभा प्रस्तावद्वयम्, गोहत्या–निरोधकम् आन्दोलनम्, आन्दोलन-विरोधः, श्री. राष्ट्राध्यक्षस्य आश्वासनम्।
२० काश्मीर-सत्याग्रहः—
श्रीगुरुजिकृतम् अखण्ड-भारत समर्थनम्, काश्मीरे सत्याग्रहः, काश्मीर-कारागृहे डॉ. श्यामाप्रसाद-निधनम्, श्रीवेंकटरामशास्त्रिणः देहावसानम्, बी.बी.सी.-प्रतिनिधिना सह चर्चा, शासन व्यवहारे प्रादेशिक-भाषा-समर्थनम्, कुम्भ मेलापके गोहत्या-निषेधः, सिन्दी-शिबिर-विशेषः, प्रान्तीयता-विरोध-संमेलनाध्यक्षः, श्रीगुरुजि-पितृपादानां देहावसानम्।
२१ सर्वत्र राष्ट्र-हितैक-चिन्तनम्—
गोमन्तक-मुक्ति-आन्दोलनम्, आन्दोलने भारत-शासनस्य प्रतिबन्धः, भारते भाषिक-राज्य-निर्मितिः राष्ट्रैक्य-नाशिका, यदा परदेश-धुरंधरा भारतं समायान्ति, ताटस्थ्यं न सदा हितम्, श्रीविवेकानन्द-शिला-स्मारकम्, प्राजक-दिन-संचलने रा.स्व.संघ, विश्व-हिन्दु-परिषदः संस्थापक-प्रवर्तकः।
२२ पाकिस्तानस्य पुनराक्रमणम्—
राजधान्यां सर्व-पक्ष-प्रमुख-परिषद्, श्रीगुरुजेः स्पष्टोक्तिः, निवेदनम्, श्रीमत्यै महामात्यायैपत्रम् \।
२३ व्यक्तित्व-विशेषाः—
श्रीगुरुजेः प्रसिद्धि-पराङमुखता, छुरिका-विद्धाय कार्यकर्त्रे पत्रम्, व्यवहारे दक्षता, संस्कृत-भाषाभिमानः, प्रेमामृतास्वादनम्, कुष्ठिनाम् अपि आधार-भाजनम्, विदेह-वृत्तिः ।
२४ निर्वाणम्—
कर्करोग-प्रादुर्भावः, यमराजस्य हत्या-सत्रम्, अग्रजातम् अशुभ-निमित्तम्, ठाणे-मण्डल-अभ्यासवर्गः, भ्रातृ-द्वितीया-नीराजनम्, रुद्रयागः, भारत-भ्रमणस्य अन्त्य-पर्व, ऐहिक-सर्व-पाश-मुक्तिः, नागपुरे संघ-शिक्षा-वर्गः, गीत-रामायण-श्रवणेन परमानन्दः, हा हन्त ! दुर्दिनम् उदितम्, नेत्रे मीलिते ! अहो आश्चर्यम् !
परिशिष्टम्—
वृत्तपत्रादीनां विशेष-वृत्तम् श्रीगुरुजि-जीवनालेखः
शुद्धीकृत्यैव पठ्यताम्
। । । । । ।———।——–।—————-।—————। । पृष्ठम् । पक्तिः । अशुद्धम् । शुद्धम् । । ७ । ८ । सम् अपसृत्य । समुपसृत्य । । १५ । १७ । निजाम- महाशय- । निजाम-महाशयः । । १९ । २३ । १९३० मे । १९३१ ऑगस्ट । । ३५ । ३ । पुनरुत्थानस्या । पुनरुत्थानस्य । । ६० । ५ । संघः इव । संघः एव । । ७५ । २० । अहिंसा च । अहिंसा च इति । । ९७ । २४ । निसृष्टः । विसृष्टः ।
ॐकारो वाचको यस्य यः सर्वस्य हृदि स्थितः।
सच्चिदानन्द-रूपो यस् तस्मै सर्वात्मने नमः॥
श्रीअञ्जनेश्वरं देवं भोगले (देसाई)-कुल दैवतम्।
सर्वदा सर्वभावेन प्रणतोऽस्मि सदा शिवम्॥
त्र्यम्बकं पितरं वन्दे तथा गङ्गां च मातरम्।
सद्गुरुं श्रीजगन्नाथ-शास्त्रिणं प्रणमाम्यहम्॥
निस्तुला हिन्दुभूमिर् या मातृभूमिश् च वत्सला।
वन्दे तां पुण्यभूमिच स्वर्गादपि गरीयसीम्॥
स्वयंसेवक–संघस्य राष्ट्रियस्य प्रवर्तकम्।
नमामि हेडगेवारं राष्ट्र-रोग-चिकित्सकम्॥
वर्णितं चरितं यस्य राष्ट्र-भक्ति-विवर्धनम्।
गोल्वल्करं सुपूज्यं तं ‘गुरुजिम्’ अभिवादये॥
卐
१. आमुखम्—
आसीत् ‘श्रीगुरुजिः’ इति सर्वत्र रूढैन आदर-व्यञ्जकेन नामधेयेन विख्यातः, राष्ट्रिय-स्वयं-सेवक-संघस्यद्वितीयः सरसंघचालकः गोलवलकर-कुल-ललामभूतः सदाशिव-सुपुत्रः माधवो नाम।
आकृति-विशेषेषु आदरः पदं करोति इत्यस्ति सार्वत्रिकः अनुभवः। कस्यापि परिचयात् प्राक् तस्य आकृति-विशेषेण जनः आकृष्टः भवति। सन्ति केचिन्नराः केवलं कान्त-तनु-भाजः। किन्तु धन्याः केचित् स्वामी विवेकानन्द-स्वातन्त्र्यवीर सावरकर-नेताजी सुभाषचन्द्र-प्रभूतयः लोकोत्तराः पुरुषोत्तमाः येषु न केवलम् आकृति-विशेषः परं गुण-विशेषोऽपि विद्यते।
श्रीगुरुजि-महाशयस्य व्यक्तित्वे न केवलं वपुःप्रकर्षः किन्तु गुणप्रकर्षोऽपि आसीत्। तस्य सुप्रसन्नं वदनम्, विशालः भाल-प्रदेशः, तेजस्विनी नयने, दीर्घा नासिका, शोभना दाढिका, मसृणाः कुन्तलाः, स्निग्ध-गौरः वर्णश्च यथा प्रथम दृष्टि पाते सर्वान् आकर्षति स्म, तथा तस्य ऋजुता, विनम्रता, निःस्पृहता, निर्भयता, तेजस्विता, निरहङ्कारता, सत्य-सन्धता, कर्तव्य-परायणता, सततोद्योग-शीलता, पर-दुःख-निवारणतत्परता, सुनिर्मलं च चारित्र्यम् इत्यादि-गुण-गण-संनिपातः सर्वेषु जनेषु स्नेहादरं जनयति स्म।
श्रीगुरुजेः परिचयं गताः सर्वेऽपि देशबान्धवाः जानन्ति यत् तत्तुल्यः नैष्ठिकेषु श्रेष्ठः, विद्वत्सु वरिष्ठः, सुसंस्कृतेषु गरिष्ठः, स्वमतेषु द्रढिष्ठः, दृढव्रतेषु वरेण्यः, उदार-चरितेषु मूर्धन्यः, नैक-शास्त्रार्थ-तत्त्वज्ञः, सर्वत्र समदर्शनः, अनुशासन–प्रियः, संघटन-कार्य-कुशलः, स्मितपूर्वाभिभाषी, प्रसिद्धि-पराङ्मुखः, सर्वलोक-हिते रतः, राष्ट्र-योग-परायणः, ईश-तेजोंशसंभवः विभूतिमान् नृवरः जगत्यस्मिन् विरल-विरलः एव।
असिंहासनम् अस्य पुरुषेन्द्रस्य राज्यम्। अथवा सकल-संघ-स्वयंसेवकानां राष्ट्र-हित-चिन्तकानां च हृदयावकाशे विराजते स्म तस्य सिंहासनम्। असौराष्ट्रयोगी श्रीगुरुजिः यथा स्वयंसेवकैः पूजनीयः,
बुद्धिमद्भिः आदरणीयः, राष्ट्र–हित-कामैः अनुसरणीयः, तथा योगसंसिद्धैः सत्पुरुषैरपि संमाननीयः आसीत्।नो चेत् सताम् अग्रणीः परम पूजनीयः श्रीरङ्गावधूत-महाराजः सुमनसां मालया कथं तं संमानयेत्? तं सखेति मत्वा, तस्य स्कन्धे करं कृत्वा सः कथं तिष्ठेत्?
नेयं कपोल-कल्पिता कस्यापि कवेः केवला कल्पना, अपि तु सत्य कथा एव।
कथमपि हि पुण्येन यो भवति सः सतां सद्भिः सङ्गः दशवर्षात् प्राक् वटोदर–वासिभिः महता पुण्येन प्रत्यक्षीकृतः। तदानीं नारेश्वर क्षेत्रनिवासी प.पू.श्रीरङ्गावधूत–महाराजः गुजरात–राज्ये वटोदरं कार्यवशात् संप्राप्तः। श्रीगुरुजिः अपि भारत–भ्रमणं समाचरन् तत्र समागतः, पू. श्रीस्वामिचरणयोः दर्शनार्थं च तन्निवासं स स्वयमुपेतः।
श्रीगुरुजि समागतं वीक्ष्य श्रीस्वामि-महाराजः न केवलं तं स्वयं प्रत्युज्जगाम अपि तु स्नेह-निर्भरेण चेतसा तं दृढं समाश्लिष्यत्, तथा ‘बन्धो, कति जन्मानन्तरं दृष्टोऽसि!’ इत्यपि तम् अभ्यधात्।
सत्समागमोऽयं तत्रोपस्थितानां संघ–स्वयंसेवकानां श्रीमहाराजस्य भक्तजनस्य च विस्मयावहः प्रमोदावहश्च संवृत्तः। ‘समान-शील-व्यसनेषु सख्यम्’ इति को न जानाति? प.पू.श्रीनारेश्वरस्वामि-सदृशः योगसंसिद्धः साधुश्रेष्ठः यं स्वयम् अभ्युद्गम्य समालिङ्गति स श्रीगुरुजिःनिःशङ्कं श्रीमता महाराजेन समानशीलः एव।
कतिपये वयोवृद्धाः पुरुषाः जानन्ति यत् ३५ वर्षेभ्यः प्राक् गोवर्धन (जगन्नाथपुरी)-पीठं श्रीशंकराचार्यत्वेन अधिष्ठातुं श्रीगुरुजिः विज्ञापितः आसीत्। परन्तु तत्पूर्वमेव स्वजीवनध्येयं कार्यसरणिश्च तेन निश्चिते आस्ताम्। अतः, परम-विनयेन तेन सा विज्ञप्तिःअस्वीकृता।
तथापि चरितस्यास्य नायकःश्रीगुरुजि-महोदयः श्रीशंकराचार्यपदार्हः, श्रीरङ्गावधूत–तुल्येन महायोगिनाऽपि सत्कारार्हः, योगारूढः, लोकोत्तरः नरोत्तमः आसीत् इति विज्ञाय तस्य समग्रं जीवन-चरितम् आ मूलात् ज्ञातुं को नाम न समुत्सुको भवेत्? तस्मात्, अथेदम् आरभ्यते श्रीगोलवलकर-गुरुजि-चरितम्।
२. बाल्यम्
कुल-वृत्तान्तः
विजयनगर-राज्य-वासिषु कतिपयाः पाध्ये (उपाध्याय) उपनामधारिणः आसन्। राज्य विस्तार-काङक्षया तैः पञ्चशत-संवत्सरात् प्राग् सङ्गमेश्वराद् अनतिदूरे गोलवली–ग्रामे वसतिः कृता। पाध्ये-कुलजातानां योगक्षेम-साधनं पौरोहित्यमेव। १७२५ तमे ख्रिस्ताब्दे सागरसेनापतिना कान्होजि आङग्रे महाशयेन ‘काशी पाध्ये’ इति संज्ञकाय गोलवलीकराय गोलवली–ग्रामः उपहारीकृतः। ततः प्रभृति तद्वंशजैः ‘गोलवलकर-पाध्ये’ इति संयुक्त–व्यपदेशेन स्वनिर्देशः प्रारब्धः। कतिपय-कालानन्तरं तेषां ‘पाव्ये’ इति शब्दः लुप्तः, केवलं ‘गोलवलकर’ इति एकमेव अभिधानम् अवशिष्टम्। पश्चात् केचिद् गोलवलकराः गोदावरी-तटस्थं पैठणपुरं प्रस्थिताः। अस्य चरित-नायकस्य माधवरायस्य प्रपितामहः श्रीसखाराम–शर्मा पैठणपुरात् नागपुरं प्रयातः। तस्मात् कालात् तद्वंशजाः रामपुर–रायपुर–रामटेक इत्यादि–नगरेषु सुप्रतिष्ठिताः अभवन्।
माधवरायस्य पितामहः श्रीआबाजिः कवरधाख्ये संस्थाने न्यायालये ‘रीडर’-पदभाग् आसीत्। अथैकदा आबाजिना अनुयातः कवरधास्थः आङग्ल-न्यायाधीशः अरण्य-मार्गेण ग्रामान्तरम् अगच्छत्। आबाजिन्यायाधीश द्वौ अपि अश्वारूढौ। कस्मिन् अपि वृक्षे शाखातः लम्बमानः मधुकोषः तुरग–पृष्ठ-स्थित न्यायाधीश-शिरस्त्राणस्य आघाताद् भृशं विचलितः। स न्यायधीशस्तु स्व-तुरङ्गं वेगातिशयेन प्रधावयन् निमिषार्धात् सुदूरं पलायितः। तम् अनु धावन् आबाजिस्तु संक्रुद्धाभिर् मधुमक्षिकाभिस् तथा दष्टः यथा स तुरङ्गम-पृष्ठाद् न्यपतत् सद्यः पञ्चत्वं च अगात्।
पितृ-मरण-वृत्तान्त-वजरेण आहतोऽपि आबाजीसूनुः—‘श्रीभाऊजि’ उपाख्यो माधवस्य जनकः श्रीसदाशिवरायः—वृत्त्यन्तरअभावात् स्व-तात-मरणेन रिक्ततां गते ‘रीडर’-पदे वर्षद्वयं यावत् सेवावृत्तिम् अङ्गीकृतवान्। पश्चात् १९०१ तमे ख्रिस्त–वर्षे भाऊजिः
नागपुरात् नातिदूरे कामठी-ग्रामे तार-कार्यालये लिपिक-पदे नियुक्तः। सर्वकारेण १९०८ तमे वत्सरे महाकोशल-प्रान्तस्थे सरायपल्ली-ग्रामे एका नूतन-आङ्ग्ल-शाला प्रस्थापिता। सा तु रायपुरात् सुदूरसंस्था। तेन कारणेन न कोऽपि तत्र अध्यापक-पदं स्वीकर्तुम् ऐच्छत्। भाऊजिना पाठशालायां शिक्षक–पद प्राप्त्यर्थं तत्पूर्वमेव स्व-आवेदनं प्रेषितम् आसीत्। शिक्षण–विभागस्य अधिकारिणा तद् आवेदनम् आदृत्य तस्याम् आङग्लशालायां तन्नियुक्तिः कृता। अध्यापनं श्रीभाऊजि-महाशयस्य अतीव प्रियम्। अतः तस्मिन् विद्यालये रायपुरात् ४५ कोशं दूरस्थेऽपि, तत्र तेन शिक्षक-पदं स्वीकृतम्। अध्यापनम् अध्ययनं च ब्राह्मणस्य सहजं नियतं कर्म इति स्मृति–वचनानुसारं भाऊजिः अध्यापनेन साकम् अध्ययनमपि कर्तुम् प्रवृत्तः। शिक्षक-पद लाभोत्तरं प्रथमं’ ‘इण्टर’–परीक्षाम् उत्तीर्य ततश्च सप्त-वर्षानन्तरं सः ‘बी. ए.’ इति पदवीं लब्धवान्
यदा भाऊजिः केवलं पञ्चदश-वर्षीयः आसीत् तदा तस्य विवाहसंस्कारोऽनि संपन्नः। श्वशुर–गृहे वध्वाः पदार्पणं लक्ष्मी-शुभागमनसूचकम् इति कृत्वा श्रीरायकर-कुल-जातायाः वध्वाः ‘लक्ष्मी’ इत्येव नूतनं नाम कृतम्।
जन्म यस्य शुभे दिने—
चरित्र-नायकस्य माधवस्य अग्रज-त्रयं दुर्देव-वशाद् अल्पायुरासीत्। माधवस्तु ईश्वरस्य अंशावतारः। विक्रम–संवत् १९३२ माघ वदि एकादश्यां सोमवासरे (१९-२-१९०६ दिनाङ्के) ब्राह्मे मुहूर्ते ४-३० वादने माधवः स्वजन्मना गोलवलकर-कुलम् अलंचकार। मातापितृभ्यां ‘माधव’ इति कृतेऽपि तन्नाम्नि ‘मधु’ इति व्यवहार-नाम एव सुरूढम् अभवत्। मधोः जन्मनः आरभ्य तन्मातुल-कुलस्य दैन्यं नष्टप्रायम्। अस्मद्गृहे अयं ‘पेशवा माधवरायः ‘एव प्रादुर्भूतः इति तन्मातृ-भगिनी मन्यते स्म।
सर्वकार-सेवायां चाटूक्तिर् अत्यावश्यकी इति को न जानाति ? परं भाऊजिः स्वभावतः मिथ्या-प्रशंसा विरुद्धः। ‘विद्यादानं परं दानम्’ इति मन्यमानः सः स्वगृहे विद्याधिगमार्थम् आगच्छद्भ्यः छात्रेभ्यः विद्यां निःशुल्कं वितरति स्म। निःस्पृहतया, छात्रेषु सुत-निर्विशेष-वात्सल्यात् च
सोऽचिरात् छात्रप्रियः संजातः। परं स्पष्टवादिता तस्य उत्कर्ष-पथे अन्तरायीभूता। तद्यथा—१९२१ तमे ख्रिस्त-वत्सरे भाऊजिः चान्दा-नगरनिवासिनः कस्यापि मित्रोत्तमस्य गृहम् उपेतः। तत्र कश्चित् क्षुद्रहृदयः शिक्षणाधिकारी अपि आगतपूर्वः। तत्र गृहालिन्दके दीर्घकालपर्यन्तं तेषां स्वैरालापः प्राचलत्। सोऽधिकारी तु सहसोत्थाय स्वगृहं प्रस्थितः। गृहाङ्गणे सर्वेषां पादत्राणानि आसन्। आत्मनः जीर्णे पादत्राणे विहाय स शोभने पर-पादत्राणे परिधाय झटिति गन्तुं प्रवृत्तः। भाऊजिना दूरतस् तद् दृष्टम्। सत्वरं सम् अपसृत्य सः तमधिकारिणम् अब्रवीत्–‘अयुक्तम् एतद् भवादृशस्य। इमे नूत्ते पादत्राणे मदीये स्तः’ इति। तदा ‘अहो मे स्वरा-निमित्तकः प्रमादः’ इति तत् प्रत्युत्तरं तु एकस्य स्पष्टवादिताम् अपरस्य च चारित्र्य-भ्रष्टतां प्राकाशयत्। निस्पृहः स्पष्टवादी च भाऊजिः लाङगूलचालनाभावात् तस्य संपूर्ण–सेवा–काले सर्वकार–अधिकारिभिः वारंवारं दुर्ग-रायपुर-चान्दा भण्डारा-खाण्डवा-बालाघाट-नरसिंहपुरहोशिंगाबाद-इत्यादि-नगरेषु स्थानान्तरं प्रापितः। न कुत्रापि यथेच्छं निवसितुं स पारयेद् इत्येव तत्र प्रच्छन्नो हेतुर् अधिकारिणाम्। सेवाधर्म परम-गहनः इति सर्वथा सत्यमेव।
‘ताई’ इत्युपाख्या माधव-माता श्रीमती लक्ष्मीदेवी किल अतिथिसत्कारेऽतीव दक्षा। तया पाठशाला-शिक्षणं न लब्धम्। परम् मातृगृहे लब्धसंस्कारा सा रामायण-भारत-पुराणादि-धर्मग्रन्थानां नैकवार-श्रवणलाभात् सुतरां धर्मपरायणा आसीत्। १९३४ तमे ख्रिस्ताब्दे कैश्चिद् धार्मिकजनैः तीर्थयात्रा निश्चिता। ‘ताई’ अपि तैः साधं प्रस्थिता। गमनसमये सर्वे यात्रिकाः हरिद्वार-मथुरा-वृन्दावन-काशी-प्रयागादीनि पावनानि तीर्थानि समालोकयितुम् अग्निरथेन प्रयाताः। प्रत्यागमन-समये तु यात्रिकेषु केचित् त्रिवेणी-संगमात् पवित्रं तीर्थोदकम् आदाय पद्भ्याम् एव प्रचलन्तः, सार्ध-मासद्वयानन्तरं महाराष्ट्रे विद्यमानं श्रीज्ञानेश्वर-समाधिस्थानम् आलन्दी-ग्रामं प्राप्ताः। एतेषु पद-यात्रिकेषु श्रीमती ताई अपि संमिलिता आसीत्।
श्रीमता भाऊजिनाऽपि १९३४ ख्रिस्त-हायने आलन्दीतः पण्ढरपुरं यावत् श्रीज्ञानेश्वर-दिण्डी-सार्धम् पदयात्रा कृता। चातुर्मास्यं च एकस्मिन्
मठे उषित्वा तेन ‘ज्ञानेश्वरी’ नाम्ना विख्याता श्रीज्ञानदेव-रचिता श्रीमद्-भगवद्गीता–भावार्थदीपिका सम्यग् अधीता।
श्रीमती ताई नवापत्यका आसीत्। परन्तु दुर्दैववशात् तस्याः अष्टौ अपत्यानि निर्घृणेन कालेन बाल्ये एव अपहृतानि, एकः मधुः एव अवशिष्टः। अथैकदा भाऊजिः अवोचत्–अहम् बहुपुत्रवान् आसम्। किन्तु मधुम् अन्तरेण न कोऽप्यभ्यो जीवति। मधुना तु तेषां सर्वेषां न्यूनता सम्यक् परिपूरिता इति। स्वायुषः ७८ तमे वर्षे प्रसङ्गवशात् भाऊजिना पुनर् निवेदितम् यत् ‘स्नेहार्थमेव अपत्यानाम् आवश्यकता। परं संघरूपम् अपार-स्नेह-पात्रं दिष्ट्या अस्माभिः समालब्धम्। तेन हि परं संतोषम् आनन्दं च अनुभवामि’ इति।
गृहे शिक्षणारम्भः—
मधोः धारणाशक्तिः आ बाल्यात् असामान्या। यदा स ऊनषड्वर्षः काकपक्ष-धरः आसीत् तदा पितुः स्तोत्रपाठं श्रुत्वा एव श्रीरामरक्षादि-स्तोत्राणि तेन कण्ठस्थीकृतानि। महाकोशल-देशे नाना-स्थलेषु निवासात् मधोः जिज्ञासा विवृद्धा दृष्टिकोणश्च विशालः संवृत्तः।तत्र शालासु शिक्षण-माध्यमं हिन्दीभाषा एव। तथापि तत्र केचिद् अध्यापकाः वङ्गदेशीयाः केचित् च उत्कलदेशीयाः आसन्। तेन हि तस्य बाल्ये एव हिन्दी-बंगला-उडियादि-भाषा-भगिनीभिः परिचयो जातः। भाषाभेदमूलः प्रान्ताभिमानस्तु तच्चेतसि न कदापि प्रादुर्भूतः। गृहे मधोः शिक्षणे समारब्धे, भाऊजिः तं गणित–विषयकान् प्रश्नान् भोजनावसरे पृच्छति, कर-कवलोऽपि मधुः उत्तरं दत्त्वा एव भोज्यं कवलयति स्म।
प्राथमिक–शाला संस्मरणम्—
अथैकदा शिक्षणाधिकारी प्राथमिक-शाला-पर्यवेक्षणार्थं समागतः। तस्मिन् दिने ज्वरग्रस्तो मधुः शालां न गतः। वर्गे तस्य अनुपस्थिति समालोक्य सतीर्थ्याः गुर्वाज्ञया तं स्कन्धेन गृहात् शालाम् अवहन्। वर्गे पर्यवेक्षकेण पृष्टानां प्रश्नानां समीचीनानि उत्तराणि मधुना दत्तानि। तेन पर्यवेक्षकः भृशं संतुष्टः शालायाश्च प्रतिष्ठा वृद्धिं गता। १९१५ ख्रिस्टाब्देमधुना प्राथमिक-चतुर्थ-कक्षा-परीक्षा उत्तीर्णा। तदानीं समग्रे
नर्मदा-विभागे प्रथम-क्रमाङ्केन उत्तीर्णेन तेन एका शिष्यवृत्तिरपि अवाप्ता।
आ बाल्यात एकाग्रता—
प्रदीप्त-प्रज्ञावतां विद्यार्थिनां न कोऽपि अविषयः इत्यालोच्य भाऊजिः मधुं विषयान्तरैः साकम् आङ्ग्लभाषामपि गृहे एव अशिक्षयत्। अथ कदाचित् ब्लॅकी इत्याख्यस्य आङग्ल-लेखकस्य ‘भगिनी भ्राता च’इति कथा-पुस्तकं मधोः दृष्टिपथं गतम्। एका बालिका भ्रात्रा सह विपिने परिभ्रमति। तृषार्तो भ्राता समीपवर्तिन्याः नद्याः जलं पिबति। जले पीतमात्रे एव तस्य बालकस्य मृगे परिवर्तनम् अभवत्। तेन चमत्कारेण तद्-भगिनी अतीव दुःखिता। कथा-वाचने मधोस्तादृशी तन्मयता यत् तद्-दुःख-दुःखितस्य मधोरपि नेत्राभ्याम् अश्रुधाराः प्रवहन्। इयम् एकाग्रता तन्मयता च मधोर् उत्तरकालीने समग्र-जीवने अनुस्यूता दृश्यते।
३. प्रशाला-शिक्षणम्
व्रतबन्ध-संस्कारः—
** समाप्ते प्राथमिक–अध्ययने,** भाऊजिना मधोः व्रतबन्ध-संस्कारः कृतः। ततः प्रभृति स सन्ध्यावन्दनं सूर्यनमस्काराँश्च प्रत्यहं विदधाति स्म। मधुः स्वभावतोऽनलसः। प्रतिदिनं सूर्योदयात् सूर्यास्तपर्यन्तं स कार्यव्यावृतः। स्नानं सन्ध्योपासनं, स्तोत्र-पठनं, पुस्तक-वाचनं, श्लोकादीनां कण्ठस्थीकरणं, सहाध्यायिभिः क्रीडनं, तेभ्यः कथा-कथनं च इत्यासीत् तस्य दिनचर्या।
पाकशास्त्र-नैपुण्यम्—
क्वचित् कौशेयं परिधाय मधुः स्वमातुः पाक-साधनेऽपि साहाय्यं करोति स्म। जिज्ञासा-शीलेन तेन मकर-संक्रान्त्यवसरे ‘हलवा’ नामकं
शर्करावरण-निर्मितं मिष्टं माता कथं करोति तन्निरीक्षतम्। एकदा विना साहाय्यं स स्वयमेव ‘हलवां’ चकार। तथा च एकदा यन्निर्मितिः सुदुःसाध्या ताः महाराष्ट्रीयाणां प्रियतमाः ‘पुरण-पोलिकाः’ निर्माय मधुता निजं पाकशास्त्र-नैपुण्यं सम्यक् प्रकटीकृतम्।
१९१४ वत्सरे पाश्चात्य-देशेषु प्रथमं महायुद्धं प्रवृत्तम्। जनाः वृत्तपत्रे युद्धवार्ताः प्रत्यहं पठन्ति। माधवस्यापि वृत्तपत्र-पठने महती रुचिः। युद्धवार्ताः न केवलं स स्वयं पठति, अपि तु स्वकरे मानचित्र-पुस्तिकाम् (atlas) आदाय युद्ध-स्थान-निर्देश-पूर्वकं ताः वार्ताः सहाध्यायिनः श्रावयति। तेऽपि सोत्कण्ठं ताः शृण्वन्ति स्म।
व्यायाम-वंशारद्यम्—
तस्मिन् काले ‘हॉकी’ एव छात्रजनस्य प्रियतमा क्रीडा। विद्यालये हॉकी-प्रियाणां संघ-द्वयम् मधुश्च अवर-संघ-नायकः आसीत्। यद्यपि खोखो-कबड्डी-आट्यापाट्यादिषु भारतीय-क्रीडासु मधोः समं पाटवम्, तथापि आट्यापाट्या-खेलने तस्य अधिका प्रीतिः। तस्य स्वरोऽपि मधुरः। सर्वेषु सहाध्यायिषु स निरपेक्षं समं च स्निह्यति। एवं तस्यप्रदीप्त-प्रज्ञया, क्रीडा-नैपुण्येन, स्वर-माधुर्येण, सर्वोपरि स्नेहभावेन च माधवःविद्यालये सर्व-प्रियः संजातः। माधवस्य तत्कालीनः वामन पण्डितोपाख्यः बालमित्रः स्वानुभवं न्यवेदयत् तद्यथा—‘३५ संवत्सरानन्तरम् इन्दूर-नगरे राष्ट्रिय-स्वयंसेवक-संघस्य सरसंघचालकः कार्यवशाद् आगतः। तदा, गुरुजिःगुरुजिः इति ख्यातनामा सरसंघचालकःमे बालमित्रो मधुरेव इति ज्ञात्वा चकित-चकितोऽहं तेन मिलितुम् इन्दूरसंघचालक-निवासस्थानं गतः। तदा गुरुजिं संघकार्य-कर्तृभिः वार्तालापमग्नं दृष्ट्वा, क्षणमात्रम् अहं तत्रैव स्थितः। आत्मनो बालमित्रं सहसासमुपस्थितम् आलोक्य, गुरुजिःमत्समीपम् उपेत्य, स्नेहातिशयेन मां समालिङग्य, सर्वान् उद्दिश्य अब्रवीत्—‘एषोऽस्ति मे प्रियतमो बाबुः, आवां ननु सहपांशुलिकौस्वः’ इति।
वाक्-पाटवम्—
अथ १९१७ तमे वर्षे वैनगङ्गा-तटे माध्यमिक-शाला छात्रसंमेलने वक्तृत्व-स्पर्धा आयोजिताऽऽसीत्। तत्र माधवेन सुसूत्रं सुश्राव्यं चैतन्योत्पादकं च भाषणं कृत्वा प्रथम-पारितोषिकं विजितम्। संमेलनाध्यक्षःबॅरिस्टर श्री. मुलना माधवस्य ओजस्वि-भाषणेन तथा प्रभावितः यथा तन्मधु-भाषणं पुनरपि श्रोतुकामः सः माधवस्य विद्यालयं पुनर्गतः। तत्र च तस्य तद् अपूर्वं भाषणं पुनराकर्ण्य प्रीतमनसा मुलना-महोदयेन तत्सभाजन-पूर्वकं स्वीयम् अपरं पारितोषिकमपि तस्मै प्रदत्तम्।
विद्यालये प्रत्यहं शिक्षकैःअध्याप्यमानाः पाठांशाः माधवः गृहे पूर्वमेवअधीते स्म। वर्गे च पुस्तकान्तराणि पठति स्म। इदं तद्वैलक्षण्यं वारंवारं दरीदृश्य वर्ग-शिक्षकः तं पृष्टवान् ‘अयि बटो, त्वं पाठ्येतर-पुस्तकानि वर्गे किमर्थं पठसि?’ इति। तदा स प्रोवाच ‘श्रूयताम्, यद् अत्रभवान् अधुना शिक्षयति तत्तु मया गृहे अधीतपूर्वम्; इह तदेव पुनः श्रवणात् कालस्य दुर्व्ययः स्यात्। तं परिहर्तुं समयस्य च सदुपयोगार्थं पाठ्येतर-पुस्तकानि अत्र पठामि ’ इति।
आदानं हि विसर्गाय—
ज्ञान-संपादनेन साकं ज्ञान-दानमपि कर्तुमिच्छन्माधवः वर्गे अन्यत्र वा पठितेभ्यः इतर-पुस्तकेभ्यः उद्बोधकान् प्रसङ्गात्सुहृद्भ्योऽपि निवेदयति स्म।शेक्सपिअर-लिखित-नाटकानां कथानकानि माधवः माध्यमिक-अध्ययन-काले एव पठितवान्। विद्यालयात् गृहमागतः सः प्रायः प्रत्यहं मन्दबुद्धीन् वर्गबन्धून् गणित-विज्ञानादि-विषयान् सौहार्देन शिक्षयति स्म। एवं तस्य परोपकार-परायणता आ बाल्यात् असंख्यैःजनैः अनुभूता।
१९१९ तमे अब्दे ‘हायस्कूल एण्ट्रन्स अँड् स्कॉलरशिप’ परीक्षाम् उत्तीर्णेन माधवेन एका शिष्यवृत्तिरपि अवाप्ता। तदुत्तरं १९२२ तमे वर्षे सः मॅट्रिक-परीक्षामपि पारितवान्। कालेऽस्मिन् विविधव्यायाम प्रकाराः तेन आत्मसात् कृताः। मल्लस्तम्भ-व्यायामे तु माधवः परं प्रावीण्यम् उपलेभे। एवं चान्दा-नगर-वास्तव्ये नित्य–व्यायाम–सेवनात् सः पूर्वकालापेक्षाया अधिक-स्वास्थ्य-संपन्नः संजातः।
श्रीभाऊजिः माधवं वैद्यक-शास्त्र-पारंगतं द्रष्टुकामः आसीत्। दैवज्ञेनापि माधवस्य जन्म-कुण्डलिम् अवलोक्य ‘बालोऽयं भिषग्वरो भविष्यति’ इति सूचितपूर्वम्। अतः मॅट्रिकोत्तर-शिक्षणार्थम् तस्य मातापितृभ्यां स पुण्यनगरं प्रेषितः। किन्तु दैवेन अन्यत्र चिन्तितम् !
४. महाविद्यालय-शिक्षणम्
मुम्बई-सर्वकारेण तदानीम् एव उद्घोषितं यद् ‘मुम्बई-प्रान्तस्य स्थायि-निवासिनः एव महाविद्यालय-प्रवेशार्हाः’ इति। अतः पुण्यपुरे फर्गसन-महाविद्यालये लब्धप्रवेशोऽपि माधवः ततः नागपुरं गत्वा’हिस्लॉप महाविद्यालये’ प्रवेशं लब्धवान्। प्रवेश-नियामकः यः सर्वकारादेशः माधवं पुण्यपुरात् नागपुरम् अपावहत् स आदेशः केवलं मासत्रयाद् ऊर्ध्वं सर्वकारेण अपकृष्टः। विचित्रा खलु दैवलीला !
हिस्लॉप-महाविद्यालये प्रविष्टेन माधवेन विशेषाध्ययनार्थंप्राणिजीवन-शास्त्रं स्वयं वृतम्। तत्र महाविद्यालयेऽपि तस्य इतर-ग्रन्थ-वाचनं पूर्ववत् प्रचलति स्म। महाविद्यालये तु वेत्रयष्टि-भय-अभावात् छात्राः निरङकुशाः। तेन हि माधवः महाविद्यालये अन्तरान्तरा स्व-वर्गं न गत्वा, कस्यापि वयस्यस्य सदने अवान्तर-वाचने कालं यापयति स्म। एवं गतेऽपि स्वाध्यायो न कदापि तेन उपेक्षितः। ‘वर्गं विहाय किं नु त्वयाऽन्यत्र साध्यते?’ इति पृष्टे स उवाच’ यद् वर्गे क्रियते तदेवाहम् अन्यत्र करोमि’ इति।
वाद्य-कला-नैपुण्यम्—
महाविद्यालय-अध्ययन-समकालमेव माधवेन सांवलाराम इति ख्यातनाम्नः वंशी-वादकात् वेणु-वादन-कला अधीता। तीव्र कोमलादिस्वरज्ञानं, कला-वैशिष्ट्य-अवबोधाय आवश्यिका सूक्ष्मबुद्धिः, आरब्धकार्यस्य अन्तगमने निश्चयः कलानन्द-अनुभूत्यर्थम् आवश्यिका च
रसिकता इति गुण-संनिपातात् माधवः मुरलीवादने सुनिपुणः संजातः। होरानुहोरं वंशी-वादन-मग्नः स श्रोतृृनपि मन्त्रमुग्धान् विदधाति स्म।
अद्भुता-स्मरण-शक्तिः—
हिस्लॉप महाविद्यालयं ख्रिस्त-धर्म-प्रचारकैः संचालितम् आसीत्। तस्मात् सर्वेषां बायबलाध्ययनं तत्र अनिवार्यम्। माधवेन वायबलं कियद् अधीतं तन्निदर्शकः प्रसङ्गः अत्र उल्लेखार्हः। अथैकदा वर्गे पाठावसरे ‘बायबले एवमस्ति’ इति प्राचार्य-गार्डिनरेण निर्दिष्टम्। तत्क्षणम् एव उत्थाय माधवोऽब्रवीत्’—‘आचार्य, अत्रभवता बायबल-वचनं याथातथ्येन न उद्धृतम्; बायबले तु …एवं विद्यते’ इति। सपद्येव गार्डिनर-महाशयः बायबलस्य प्रमाणित-पाठ-पुस्तकम् आनाय्य तद् उद्घाटय निरीक्षितवान्। तथा कृते, ‘हन्त, अहमेव दोषभाक्’ इति आत्मानं मनसि धिक्कार्य, स्वस्य सदोषता विषये जात-प्रत्ययः सः, समाप्ते पाठ-समये, गोलवलकरं निजकक्षे आहूय ‘सत्यमाह भवान्’ इति तम् अभिनन्दितवान्। यत्सत्यम् माधवः याथार्थ्येन विद्यायाः अर्थी आसीत्,नान्यछात्रवत् केवलं परीक्षार्थी। यद्यत् स पठति अधीते स्म वा तत् तद् ज्ञानाजनार्थमेव। यो विषयोऽध्येतव्यः स सम्यक् साकल्येन च आत्मसात् ककरणीयः इत्यासीत् तस्य पठन-पद्धतिः।
यद्यपि माध्यमिक-शालायां माधवः अवर-हॉकी-संघ-नायकः आसीत् तथापि नागपुरे महाविद्यालये एव हाँकी-क्रीडायां स परं पाटवम् अवाप।
अनया रीत्या अध्ययने, संगीते, व्यायामे च सर्वाङ्गीणां प्रगतिं संपाद्य माधवः१९२४ वत्सरे ‘इण्टर’ परीक्षां सबहुमानं पारयामास। यद्यपि सः प्राणिशास्त्राध्यायी विज्ञान-विद्यार्थी आसीत् तथापि शतशः आङग्लग्रन्थ-पठनात् आङ्ग्लभाषा-विषयकं–पारितोषिकमपि स एव लब्धवान्।
काश्यां हिन्दु-विद्यापीठे—
इण्टर-परीक्षोत्तरं वैद्यकम् अधीतुकामेन माधवेन लखनौ-नगरे वैद्यक-महाविद्यालये प्रवेशार्थं प्रयत्नः कृतः। परं तत्र निष्फलः सः वैद्यकाध्ययन-विचारम् उज्झित्वा काश्यां हिन्दु-विश्व-विद्यालये बी. एस्सी. वर्गे प्रविष्टः। माधवस्य जीवने काशी–क्षेत्र–निवासः सुतरां महत्त्वपूर्णः,
यतस्तत्रैव तस्य ध्येयनिष्ठा, वैराग्यशालिता, राष्ट्रकार्याय स्वात्म-समर्पणभावश्च परिपक्वतां गताः।
महाविद्यालये अधीयानस्य माधवस्य केवलं पाठ्य-पुस्तक-परिशीलनं न कदापि इष्टम्। तत्तु न कदाप्युपेक्षितं तेन; परम् उर्वरितःसर्वावसरः कस्मिन्नपि कार्यान्तरे तेन उपयुक्तः। तत्र निवसता तेन प्राचीन-संस्कृत-महाकाव्यानि‚ भारतीय–दर्शनानि विविध–संप्रदायानाम् आकर-ग्रन्थाः, पाश्चात्त्य-तत्त्वज्ञानम्, नैकराष्ट्राणाम् इतिहासाः, विविधानि शास्त्राणि महापुरुषाणां चरितानि, श्रीरामकृष्ण परमहंस-स्वामिविवेकानन्दादि-सत्पुरुषाणां ‘एष पन्थाः एतत् कर्म’ इति संदर्शनपरं साहित्यम् इत्यादि यद् यत् तत्र ग्रन्थालये उपलब्धं‚यच्च परिशीलनार्हम् आसीत् तत्सर्वं यावच्छक्यं सम्यग् अधीतम्। माधवस्य धारणाशक्तिः खलु असामान्या। स ‘एकपाठी**’** इवासीत्। यं यं ग्रन्थं स पठनार्थम् आददाति‚ तं तं साद्यन्तं पठित्वैत्र विसर्जयति स्म। तत्समा अविश्रान्तम् अतिशीघ्रं च पठनशीला विरला एव। क्वचिच्च हॉकी-टेनिसादि-क्रीडान्ते चहां पीत्वा, ग्रन्थपठनं चारभ्य, निशावसानात् प्राक् तत्समाप्य, होरामात्रं विश्रम्य, स पुनश्च कार्यान्तरं प्रारभते स्म। एवं नैकवारं तस्य यामिन्यः दिनायन्ते, दिनानि तु न कदापि यामिनयन्ति स्म।
असामान्या तितिक्षा—
माधवस्य निवास-स्थाने अत्र तत्र सर्वत्र ग्रन्था एव आसन् इति तत्सहाध्यायिभिः प्रत्यक्षीकृतमासीत्। बी. एस्सी.–कक्षायाम् अधीयानः स एकदा ४० दिनानि विषम-ज्वरेण अभिभूतः। विषम-ज्वर-ग्रस्ताःप्रायः गलितगात्राः भवन्ति। परन्तु माधवस्य तितिक्षा मनोनिग्रहश्च असामान्यः। ४० दिनेषु तस्य ग्रन्थपठनं न केवलं न खण्डितम्, प्रत्युत तद् अविरतं प्राचलत्। एतादृशे दुःसाध्ये व्याधिकाले विश्रान्तिर् अत्यावश्यिका इति केनापि हितेच्छुना सूचिते, स तं प्रत्यब्रवीत् ‘भो मित्रवर, यथा ज्वरः स्वकार्यम् अविरतं कुरुते तथा मयापि निजकार्यं किं न करणीयम्?’ इति। तस्मिन् दीर्घकालीने ज्वरे, माधवेन हरि नारायण आपटेलिखितं प्रदीर्घ-कादम्बरी-द्वयम् एकस्मिन् एव दिवसे संपूर्णं पठितम्। तस्यासौ वाचन-वेगः किल झञ्झानिल-वेग-तुल्यः इति न अतिशयोक्तिः।
५. उच्च-शिक्षणम्
प्राणि-जीवन-संशोधकः—
१९२८ तमेऽब्दे, माधवेन एम्. एस्सी. पदवी संपादिता। तदूर्ध्वं प्राणि-जीवनस्य संशोधनं कर्तुमनाः स मद्रास-नगरे मत्स्य-संग्रहालये वर्षमेकं न्यवसत्। तत्पिता श्रीभाऊजिः प्रतिमासं ५० रूप्यकान् तस्मै प्रेषयति स्म। तावता अल्पीयसा धनेन तत्र निर्वाहस्तु दुःसाध्यः। अतः प्रत्यहं पाक-सिद्धिं स स्वयं करोति स्म। माधवरायस्य मद्रास-वास्तव्यं त्रिविध-फलदम्। तद्यथा—तत्रस्थ-भिषग्वर-चिकित्सया तद्देहे दीर्घकालकृत-वसतिः शीतज्वरः निर्मूलितः। प्रतिदिनं नियमेन व्यायाम-सेवनात् तत्स्वास्थ्यं दृढीभूतम्। इतः पूर्वं दैनंदिन-व्यवहारे आङग्लभाषा अनिवार्या नासीत्; मद्रासे तु तदुपयोगः अपरिहार्यः तत्र तदुपयोगं विना दैनंदिनव्यवहार-असंभवात् पदे पदे तदुपयोग-अभ्यासेन च आङ्ग्लभाषासंभाषणेऽपि स अचिरात् प्रभुताम् अवाप।
नियम-पालन-दक्षता—
मद्रास-निवासे माधवरायस्य स्वाभिमानः, निर्भयता, नियम-पालनदक्षता च इति त्रयो गुणाः प्रसङ्गवशात् प्रकटीभूताः। एकदा मद्रास-प्रान्त-अधिपस्य अतिथित्वेन स्थितः हैदराबाद-भूपः निजाम-महाशयमत्स्यालयं वीक्षितुं सपरिवारं समायातः। प्रवेशार्थिभिः आवश्यक शुल्केन प्रवेशिका क्रेतव्या इति आसीत् तत्र नियमः। तथापि निजामसदृशम् महाजनं प्रवेशिकां क्रेतुं कः कथयेत्? द्वारस्थान् छात्रान् गलितधैर्यान् दृष्ट्वा माधवरायः तान् अब्रवीत्—‘यदि निजामो महाजनः, ततः किम्? सर्वेषां कृते नियमस्तु समानः एव। यद् यद् आचरति श्रेष्ठः, स च यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते; तस्मात् महाजनैः नियम-पालनम् अवश्यं करणीयम्। तदर्थं निजाम-महाभागम् अहं विज्ञापयामि’ इति। तेन तथा कृते, निजामोऽपि नियमम् अनुसृत्य एव मत्स्यालयं प्रविष्टः। परन्तु प्रसङ्गेनानेन कदाचित् सर्वकारस्य कोपभाजनं भवेयम् इत्याशङ्कया मत्स्यालयाधिकारी भयम् आपन्नः। तदा माधवरायः
तम् अब्रवीत्—‘एषा खलु शिक्षणसंस्था; अत्र निजामेन यदि नियतशुल्काद् अधिकं धनं स्वयमेव अदास्यत तर्हि तत् तस्य युक्ततरं गौरवपरं च अभविष्यत्। ननु अपवादः उत्सर्गं व्यावर्तयति इति चेत् सत्यम्, किन्तु शुल्क-विषये अकिञ्चन-जन-निमित्तः अपवादः उपपन्नः स्यात् ; निजामस्तु धनाढ्यः, तस्मात् अपवाद-अनर्हः’ इति।
पत्र-लेखन–प्रियत्वम्—
मद्रासे माधवरायः सर्वदा अतीव कार्यव्यापृतः। प्रतिदिनं ब्राह्मे मुहूर्ते ४-३० वादने स बोधति स्म। स्नान-संध्या-स्वाध्यायेन हि तस्य दिनचर्या प्रारब्धा। प्रातःकालात् मध्यरात्रं यावत् सः कार्य-कर्म-रतः। क्वचित् लब्धावसरः मित्रेभ्यः पत्राणि लिखति स्म। तेन लिखितानि तत्कालीनानि पत्राणि अतिप्रदीर्घाणि आसन्। प्रायः सप्ताहं यावत् एकस्यैव पत्रस्य लेखनं प्राचलत्। कियान् पत्रांशः कदा लिखितः तद्दशंको दिनाङकोऽपि तत्र तत्र समुपलभ्यते। पत्रेषु साहित्य-अध्यात्म-तत्त्वज्ञानादि-नाना-विषयाः चर्चिताः आसन्।
मद्रास-गमनात् षड्-वर्षपूर्वं माधवरायः शनैः शनैर् अधिकाधिकं वैराग्यवान् अध्यात्म-परायणश्च समभवत्। तस्मिन् बुद्धिवैभवं, शरीरसामर्थ्यम्, आत्मविश्वासः इत्यादि-गुण-संनिपातात् तदानीं देश काल-परिस्थिति-जन्याः विचाराः तम् एकतः आकर्षन्ति स्म, वैराग्यम् आत्मचिन्तनं च तद्विरुद्ध-दिशि। इत्थं तन्मनसि विरुद्ध-विचार-संघर्षात् किं नु मे स्याद् इदं कृत्वा, किं नु मे स्याद् अकुर्वतः’ इति तस्य दोलायमाना दशा संजाता।
तदानीमेव देशभक्ति-प्रेरितैः भगतसिंहादि-क्रान्तिसिंहैःलाहोरनगरे साँडर्स-वधः कृतः। वीरकृत्यस्यास्य स्वाभाविकी प्रतिक्रिया माधवरायस्य तदानींतने एकस्मिन् पत्रे व्यक्ततां गता। तद्यथा—‘लाहोरविस्फोटः कर्णपथम् आगतः। धन्यास् ते त्रिवार-धन्याः। एवंरूपम् आंशिकं परिमार्जनमपि संतोषावहम्। मया इतः पूर्वं शान्ति-समता-विश्वबन्धुत्वादि विषयान् अधिकृत्य भवद्भिः बहुवारं विवादः कृतः। येन मया पूर्वं विद्वेष-प्रतिहिंसा-वैरनिर्यातनादीनां निषेधः कृतः, तन्निमित्तं भवद्भिः सह संघर्षः कृतः, स एवाहम् अद्यैतद् लिखामि इति प्रायः भवतां विस्मयावहं
स्यात्। परम् एकतः साहसस्य, यौवनस्य, वैर-निर्यातनस्य च प्रबला ऊर्मिः, अन्यतः वेदान्तस्य शान्तः निश्चलश्च शैलः इति उभयोः तीव्रःसंघर्षःमन्मनसि संभूतः। चित्तं भृशं विचलितम्। ईदृश्याम् अवस्थायां बहूनि दिनानि व्यतीतानि। ज्वरेणापि त्रिवारम् आक्रान्तोऽहम् कासोऽपि समुद्भूतः; शरीरं च निर्बलं जातम्। ईदृशीम् मदवस्थाम् आलोक्य मत्स्यालय-पर्यवेक्षकः मां हठाद् भिषक्-सकाशं नीतवान्। तेन सूचितम् ‘योग्योपायः न क्रियते चेत् व्याधिः राजयक्ष्मणि परिणमेत्’ इति। तदा मया अविलम्बेन प्रतिबन्धकः सूचीभरणस्य उपायः अवलम्बितः। परं मे धैर्य-ध्वंसस्तु नाभवत्।
विचार-संघर्षः—
इत्थं तस्य विचार-संघर्षःमासद्वयं यावत् प्राचलत्। उपशान्ते तस्मिन्, माधवरायः१९२९ तमे वत्सरे पुनः पत्रे लिखितवान्—‘सांप्रतं जनेषु राष्ट्रिय–चैतन्यं समुत्पादनीयम्, हिन्दु-यवनानाम् अन्योन्य संबन्धस्य सत्यस्वरूपं विशदीकर्तव्यम्, ब्राह्मण-ब्राह्मणेतर-विवादश्च नामशेषतां नेयः इति त्रिविधं कार्यं करणीयम्। जानाम्यहं यत् नाहम् असामान्यः धुरीणः कार्यकर्ता वा। तथापि कार्यमेतत् प्रत्येकेन यथाशक्ति कर्तव्यमेव।
अस्ति अन्योऽपि विशेषः। माधवरायः मद्रास-पुरं मत्स्य-जीवननिरीक्षणार्थं गतः। तत्र तु तेन प्राधान्येन अन्तर्मुखीभूय आत्म-निरीक्षणम् एव समारब्धम्। तदानीं तच्चेतसि नोत्थितः सांसारिक-विचारः, प्रत्युत अखण्डानन्द-प्राप्त्यर्थं हिमाचलस्य निर्जन-गुहाश्रयणाय गृहत्याग-विचारेण तच्चित्ते पदं कृतम्। तत्कालीनां निजां मनः स्थिति वर्णयितुकामेन तेन अन्यस्मिन् पत्रे लिखितम्—‘अत्र एतदुल्लेखनाहं यत् क्षुद्रेण मानवजीवनेन साकं निजां हृद्-वीणां संवादिनीं कर्तुं न वाञ्छामि। परन्तु ततः उच्चतरे स्वरे यथा सा विलीना स्यात् तथा तां तितनिषामि। तदर्थम् आवश्यकः तानः सहनीयः एव। जगता सह विसंवादे जाते न कापि हानिः परम् उच्चतम–स्वर्गीय संगीतेन सा विसंवादिनी मा भूत्। तत्र क्लेशोऽधिकतरः इति न मे न परिचितम्। श्रेयसां पन्थाःसदैव पिच्छिलः कण्टकाकीर्णः क्लेशकारकश्च। मार्गेणानेन गच्छन् अहं कदाचित्
शिखरारूढो भवेयम् अथवा गर्तपातात् छिन्नविच्छिन्नतां गच्छेयम्। नान्यः पन्थाः विद्यते अयनाय।’
न साहसम् अनारुह्य नरो भद्राणि पश्यति इति सूचयितुं तेन अग्रे लिखितम्—‘पन्थानमेनम् अनुसरन् कश्चित् शुकः रम्भाऽन्तरायमपि अभिभूय ब्रह्मपदम् अवाप्नोति। तेनैव मार्गेण गच्छन् कोऽपि विश्वामित्रः मेनकाऽन्तराय-समाक्रान्तः मार्गभ्रष्टो भवति। श्रेयोऽर्थम् पुनः निर्धारिते स्वमार्गे समापतितानां सर्वान्तरायाणां प्रतिषेधार्थं सर्वदा सर्वथा च संनद्धेन भाव्यम्। ऊन-क्लेशं मार्गान्तरं नैव विद्यते।
ऐहिक-मोह–जालात् आत्मानं रक्षितुं सर्वपाशान् विच्छिद्य, हिमालये कमपि विविक्तदेशं समाश्रयितुं यदा यदा माधवरायः पर्युत्सुको भवति स्म, तदा तदा परदुःखेन विह्वलायमानं तच्चेतः’तिष्ठ तिष्ठ, इतरान् दुःखपङ्के निमग्नान् पश्यन् अपि त्वं तान् उज्झित्वा केवलं स्व-सुखाभिलाषः कुत्र प्रस्थितोऽसि?’ इति तं निवर्तयति स्म। २८-२-१९२९ दिनाङ्केलिखिते पत्रे स्वां मनःस्थितिं माधवरायः एवं वर्णयति स्म— ‘गृहीत-संन्यासोऽप्यहम् अद्यापि पूर्णतया न संन्यस्तः। अविवेकादेव पूर्वं मया हिमालये विविक्त–सेवनं विचारितम्। अधुना संसारे स्थित्वैव सर्व-संकटानि विषह्य सर्व-कर्माणि कुर्वन् अपि यथा तैर् लिप्तो न भवेयम् तथा सर्वथा नित्य-संन्यासी भवितुं यतमानोऽस्मि। इतःपरं मय्येव हिमालयः, मय्येव एकान्तः ; विविक्त-देश-सेवनार्थं हिमाचल-प्रयाणम् अनावश्यकम्।’
मित्रादिषु माधवरायस्य स्नेहः सर्वदा निर्मलः निर्हेतुकश्च। अपरम् एकं वयस्यं स लिखितवान्—‘पत्रं समाप्तप्रायम्। एकैव मम अन्तिमेच्छा—पत्रमिदं भवन्तम् आरोग्यानन्दयुतम् ऐश्वर्य-युतं च पश्यतु। एतदपि निवेदयामि यत् त्वयि यद्यद् दुःखं, व्यसनम्, अनिष्टं वा आपतेत् तत्सर्वम् अपि त्वां विहाय मां प्रति उपेयात् चेत्, सिद्धोऽस्मि तत् सोढुम्। ईश्वरोऽत्र साक्षी; अथ आवश्यकं स मां परीक्षताम्।
खण्डितं संशोधनम्—
मद्रासपुरम् आगतस्य माधवरायस्य अद्यापि एकमपि वर्ष न संपूर्णम्। तथापि तत्-पिता श्रीभाऊजिः सर्वकार-सेवातः निवृत्तः। तेन
हि यथापूर्वं पुत्राय धनं प्रेषितुं सः असमर्थः संजातः। अतः उपायान्तरअभावात् माधवरायः सत्त्रस्य मध्ये एव नागपुरं प्रत्यागतः। पूर्वं वैद्यकमहाविद्यालये प्रवेशोऽपि न लब्धः, तेन ‘डॉक्टर’-पद-लाभः अशक्यः आसीत्। अधुना संशोधन-कार्यम् अकस्मात् खण्डितम् तेन विज्ञानेऽपि ‘डॉक्टर’-पदावाप्तिः असम्भवा जाता। परन्तु कतिपय-वर्षानन्तरं राष्ट्रिय-स्वयंसेवक-संघस्य प्रधान-चालक-पदम् अवाप्य माधवरायः निखिल-राष्ट्रस्य राष्ट्रिय-महारोग-निवारकः ‘परम-पूजनीयः डॉक्टरः’ संवृत्तः।
६. विद्यापीठ-प्रपाठकः
मद्रासतः नागपुरं प्रत्यागतः माधवरायः वर्षमेकं श्री. रायकरमातुलस्य सदने वसतिं चक्रे। काश्याम् अध्यात्म मार्गाकृष्टः सः नागपुरे तु तत्परायणः समभवत्। मातुलगृहे श्री. वासुदेवराव मुले-नामा कोऽपि निवृत्तः प्रधानाध्यापकः निवसति स्म। तत्सकाशे वेदान्त-ग्रन्थानां विपुलः संग्रहः आसीत्। माधवरायः तेन सह अनेकदा वेदान्त–चर्चां कुरुते स्म। तथैव कदाचित् कमपि वेदान्त-ग्रन्थं स्वयम् उच्चैः पठित्वा तं श्रावयति स्म।
पञ्चविंशति-वर्षीयः माधवरायः परवशता पाश-बद्धस्य स्वराष्ट्रस्य पुरतः उपस्थितान् विविधान् जटिल-प्रश्नान् आकलयितुम् अधुना समर्थः संजातः। ते प्रश्नाः कथं समाधेयाः इत्यपि स वारंवारम् आलोचयति स्म। नागपुरे अस्त्येकः श्रीरामकृष्णाश्रमः। माधवरायः अन्तराऽन्तरा तत्र गच्छति स्म। नागपुरस्थे हिस्लॉप-महाविद्यालये तेन १५ दिनावधि अध्यापन-कार्यं कृतम्। तदनन्तरं १९३० हायनस्य मे मासे सः वाराणस्यां काशी-हिन्दु-विद्यापीठे प्राणिशास्त्र-प्राध्यापक-पदे नियुक्तः। वर्षद्वयोत्तरं पुनः काशीवास-योगेन माधवरायः प्रमुदितोऽभवत्।
१९३१ तमे वर्षे माधवरायस्य अन्ध-मित्रं श्री. वामनराव वाडेगाव-करः शल्य-चिकित्सार्थं मुम्बापुरीं गतः। तदा तं शुश्रूषितुं तेन सह
माधवोऽपि रुग्णालये न्यवसत्। तदा लब्धावसरेण तेन गाल्सवर्दी-रचितः सूक्ष्माक्षर-मुद्रितः चतुर्भागात्मकश्च ‘फारसाइट् सागा’ केवलं दिनत्रये समग्रः पठितः।
तेषु दिवसेषु माधवरायस्य केचिद् अध्यात्म-रुचयो वयस्याः तत्त्वबोध-हेतुना क्वचित् थिआसॉफिम् अधिकृत्य, कदाचिच्च वेदान्तम् अधिकृत्य वादं कुर्वन्ति स्म। तावत्-काल-पर्यन्तं कृतेन वाचनेन वादविवादेन च माधवरायस्य विचारे परिवर्तनं संजातम्। अधुना तद्-दृष्टिःऐहिकात् परमार्थं प्रति व्यष्टितः च समष्टि प्रति समुद्गता। प्रत्यहं नियतकाले स ध्यानमग्नः तिष्ठति स्म। स्वधर्मः पारतन्त्र्यं, राष्ट्र-समुत्थानम् इत्यादि विषयेषु श्रीविवेकानन्द-स्वामिनां विचारैःस भृशं प्रभावितः। व्यष्टि-सुखात् परावृत्त्य निजं समग्रं जीवनं ‘इदं न मम’ इति भावनया राष्ट्र-पुरुषाय समर्पणीयम् इति उदात्त-विचारः तस्य हृदन्तरे प्रबलतां गतः। विचार-परिवर्तनं च आचारेऽपि प्रति-बिम्बितम्। परं नैतत् चित्रम्; चित्ते वाचि क्रियायां च साधूनाम् एकरूपता अस्ति एव।
परार्थ-घटकः—
वाराणस्यां विद्यार्थि-दशायां माधवरायस्य वर्षचतुष्टयम् आर्थिकदृष्ट्या कष्टप्रदम् आसीत्। पित्रा प्रेषितमल्पं द्रव्यं तदा तस्य अपर्याप्तम्। अधुना प्राध्यापकः सः पर्याप्तं वेतनं लभते स्म। तथापि तद् अपर्याप्तमेव। उभयत्र अपर्याप्तता-हेतुस्तु विभिन्नः। अधुना प्रायः सर्वमपि स्वार्जितं वेतनं स दारिद्र्य-ग्रस्तानां छात्राणां कृते, मित्राणां साहाय्यार्थं वा विनियुङक्ते स्म। छात्रान् सुहृदश्च स आङ्ग्लभाषां गणितम्, अर्थशास्त्रं दर्शन-शास्त्राणि इत्यादि-विषयान् निजावासे निःशुल्कम् अध्यापयति स्म। तथा च तेषु ये महाविद्यालय-शुल्कं दातुम् अक्षमाः तेषां शुल्कं स स्वयं ददाति स्म। ये पाठ्य-पुस्तक-क्रयणे असमर्थाः तदर्थे तानि स्वयं क्रीणाति स्म। तस्येयं परोपकार-शीलता पर-दुःख-निवारण-परता च तदानीं वेतनस्य अपर्याप्ततायाः कारणम्। एवंगुण-विशिष्टं तं हिन्दु-विद्यापीठस्थाः सर्वेऽपि निजादर-दर्शकेन ‘गुरुजिः’ इति पदेन सदा संबोधयन्ति स्म।
तत्र स्व-कक्षे श्रीगुरुजिः नैकवारं मुरलीं परिवादिनीं (सतारं) वा
होरानुहोरं वादयति स्म। कतिपय-वर्षानन्तरं रा.स्व.संघस्य सर-संघ-चालक-पदारूढः सः परिवादिनी-वादनार्थं पञ्च-मिनिटान्यपि अवसरः अशक्यः इत्यालोच्य स्वीयां प्रियतमां परिवादिनीं मित्राय सानन्दम् उपहारीकृतवान्।
माधवरायः सर्वदा निर्मलानि वासांसि परिधत्ते स्म। अथैकदा काश्यां मित्रगृहात् रात्रौ स्वगृहं प्रत्यागतः सः मलिनं वेषमपनीय धौतं लौह-कृतम् अपरम् अवसत्। तदालोक्य कक्षस्थः तत्सहवासी तं सविस्मयम् अपृच्छत् ‘किमेतत्, अधुना निद्रावसरे किं धौत-वस्त्र-परिधानेन? अथवा किं पुनरपि बहिर्गन्तुम् इच्छसि? ‘इति। स तं प्रत्युवाच ‘दिवसो वा निशा वा अस्तु, मलिनं वासस्तु परिवर्तनीयमेव’ इति।
धौरेयःसाहसिकानाम्—
१९३२ तमे ख्रिस्ताब्दे मित्रैः सह वाराणसीतःनागपुरं गच्छन् माधवरायः मध्येमार्गं प्रवास-भङ्गं कृत्वा कञ्चित्कालं जबलपुरे स्थितः। ततः नातिदूरे ‘बन्दरकूदनी’ स्थाने वेगातिशयेन प्रवहन्त्याः कल्लोलिन्याः नर्मदायाः रौद्रमपि चेतोहरं रूपम् समालोक्य ते सर्वे अल्पकालं तत्रैव अतिष्ठन्। आसीत् सोऽतिभीषणः न्यूनतो न्यूनं दशपुरुष-गभीरः गिरिप्रपातः। ‘अवरोहामः प्रपातमिदम्’ इति माधवरायेण सूचितम्। परं तथा कर्तुं न कोऽपि प्रथमं सिद्धः। यदा तु साहसिकः सः पुरःसृत्य स्वयम् अवतरितुम् आरब्धः तदा केचिदन्ये तमनु अवारोहन्। तत्र अदृष्टपूर्वाम् निसर्ग-रमणीयतां ते दृष्टिभिः यथेच्छम् आपिबन्। तत्रस्थितानां तेषां शेषेन्द्रियवृत्तिः सर्वात्मना चक्षुःप्रविष्टा इव संजाता। पश्चात् ते सर्वे पुनरपि प्रपातमा रोढुं प्रवृत्ताः। परं पिच्छिलत्वात् शिलाखण्डानां, द्वौ वयस्यौ तदारोहणे असमर्थौ। कथं कथमपि अर्धमारुह्य, मध्ये एव भीत्या वेपमानौ तौ दृष्ट्वा माधवरायः स्वकरेण एकैकशः आधारं दत्त्वा तौ धैर्येण आरोहयत्। तदानीं माधवरायस्य गिर्यारोहणेऽपि परं प्रावीण्यं दृष्ट्वा सर्वेऽपि ते स्तिमिततां गताः, तथा तं प्रति विद्यमानस्तेषाम् आदरभावोऽपि परां वृद्धिं गतः। निसर्गस्य रमणीय-रौद्रताम् आकण्ठम्
आस्वाद्य प्रस्थितेषु तेषु माधवरायः सहसा‘मर्तव्यं चेत् इहागत्य मर्तव्यम्’ इति उज्जगार।
आत्मौपम्येन सर्वत्र—
कालेऽस्मिन् श्रीगुरुजिः प्रत्यहं स्नानोत्तरं ध्यान-योग-परस् तिष्ठति स्म। यदा यदा अल्पोऽप्यवसरः लभ्यते स्म तदा जीवन-रहस्यं विज्ञातुं स एकाग्रचित्तः प्रयतते स्म। सायंकाले, दीपे प्रज्वलिते सति यदा पतङ्गाः दीपशिखां परितः समागच्छन् तदा कामपि गृहगोधां तान् झटिति आक्रम्य खादितुं प्रवृत्तां समालोक्य तच्चेतः प्रव्यथितं भवति स्म। इयं मनोव्यथा तस्य पत्रेऽपि एवं प्रकटीभूता—‘एकस्य प्राणिनः भक्ष्यार्थम् अन्यस्य निर्मितिः ननु ईश्वरकृता। व्याघ्रो मृगान् हत्वा जीवति इति नियतिरेव। अहिंसा-प्रतिष्ठार्थं भक्ष्यभूतान् जीवान् त्रातुम् अहं प्रयते चेत् भक्ष्याभावे भक्षकस्य मरणोत्पादिका हिंसा संभवति एव।…अतः’जीवो जीवस्य जीवनम्’ इत्येव ईश्वर-कृता व्यवस्था। एतादृशानां नानाविध-प्रश्नानां सर्वङ्कष-चिन्तनं यथावसरं कुर्वन् श्रीगुरुजिः स्वातन्त्र्यवीर-सावरकर-महाशयस्य तादृशं चिन्तनं स्मारयति। अन्दमान-कारागृहे विरचिते ‘मरणोन्मुख-शय्यायाम्’ इति स्वीये काव्यं तेन वर्णितम्—**“यदा कारागारे शाद्वलमये मसृणाङ्गणे परिक्रमेऽहम्, तदा चित्तम् आत्मौपम्ये विलीनं भवति; बालतृणानां पीडनभयात् अनेकशः चरणद्वयं सहसैव पदात्पदमपि गन्तुम् अनिच्छत् स्तम्भितम् भवति। प्रति-सिक्थं बीजशङ्कया क्वचित् करस्थः कवलः करे एव हठेन तिष्ठति, व्यथयति च भ्रूण घातशङ्का प्रति-फल-भक्षणम्।”**भवतु।
काशीवास-काले नियत-व्यायाम-सेवनात् माधवरायस्य जठराग्निः सर्वदा प्रदीप्तः आसीत्। एकदा मित्रेणैकेन पणे कृते, सः पञ्च-लिटरमितं दुग्धं सलीलम् आपीतवान्। अन्यदा तु दश-दिन-पर्यन्तं केवलं जलपानं कुर्वाणोऽपि स स्वीयम् आह्निकं कार्यजातं यथावत् चकार।
देहेऽहंमतिः नष्टकल्पा—
एम्. एस्सी.-परीक्षा-पूर्वम् अध्ययन-निमग्नं तं सहसा वृश्चिकःअदशत्। यैःवृश्चिक-दंशो न कदाप्यनुभूतः ते तज्जनित–पीडां कथं
जानीयुः? न हि वन्ध्या विजानाति गुर्वी प्रसव-वेदनाम्। श्रीगुरुजिस्तु वृश्चिक-दष्टां पादाङ्गुलिंछुरिकया किञ्चित् कर्तित्वा‚जलपूर्ण-द्रोण्यां पादं निधाय, पूर्ववत् पठन-मग्नोऽभवत्। ‘वृश्चिक-दष्टोऽपि कथं पठसि’ इति मित्रेण पृष्टे सति’ वृश्चिकेन चरणो दष्टो‚ न मस्तकम्’ इत्यासीत् तस्य प्रत्युत्तरम्।
विद्यापीठे संघ-शाखा-पुरःसरः—
काशी-हिन्दु-विद्यापीठे अध्ययनार्थं विद्यार्थिनः सर्वतः आगच्छन्ति स्म। तान् रा.स्व.संघ-कार्येण परिचितान् कर्तुं संघ-संस्थापकैः परमादरणीयैःडॉ. हेडगेवार-महाशयैः १९३१ वर्षे काश्यां संघ-शाखा उद्घाटिता। तदानींतना परिस्थितिः संघकार्याय अनुकूला नासीत्। काशीशाखा-स्वयंसेवकास्तु माधवरायस्य सुपरिचिताः आसन्। मद्रासपुरात् प्रत्यागत्य नागपुरे वर्षमात्रं निवसता तेन श्रुतपूर्वम् यत् १९२५ वत्सराद् आरभ्य कोऽपि डॉ. हेडगेवार-महाशयः नागपुरे ‘राष्ट्रिय-स्वयंसेवक-संघः’ इति एकाम् अभिनवां संस्थां संचालयति इति। इदानीं काशी-संघशाखा-स्वयंसेवकैः माधवरायस्य नागपुरे जातपूर्वः संघ-परिचयः घनिष्ठतां नीतः। आसीत् खलु श्री गोलवलकरस्य एको विशेषः यत् कस्यापि केवलं बहिरङ्गम् दृष्ट्वा स तद्विषये निजं ग्रहं सरभसं न बध्नाति स्म। परम् आडम्बर-शून्यता, निरन्तर-कार्य-प्रवणता, स्वयंसेवकानाम् उपरि संस्कार-करण-दक्षता तथा अन्ततो गत्वा राष्ट्र-पुरुषाय सर्वस्व समर्पणरूपा जीवनदृष्टिः इत्येतानि संघस्य वैशिष्ट्यानि विमर्शशीलं दैवीसंपद्युतं श्रीगुरुजिं संघं प्रति समाक्रष्टुम् अलम् आसन्। परिणामतः टेनिसहॉकीत्यादि-क्रीडाः उज्झित्वा सः संघशाखां गन्तुं प्रवृत्तः।
डॉ. हेडगेवारस्य आकर्षणम्—
प्रथमम् अन्तराऽन्तरा गच्छन् सः स्वयंसेवकानां कार्य-पद्धतिं, तेषु परस्परस्योपरि भावबन्धनं सौहार्दं च संवीक्ष्य १९३३ वर्षात् संघं प्रति अधिकमाकृष्टः। श्रीगुरुजि-तुल्यस्य विद्यार्थि-प्रियस्य एकस्यापि प्राध्यापकस्य आगमनेन हिन्दु-विद्यापीठस्थाः बहवो विद्यार्थिनः संघं प्रति आकृष्टा भवेयुः इति आलोच्य डॉ. हेडगेवार-महाशयेन ‘विजया-दशमी ‘उत्सवावसरे नागपुरं समागन्तुं स निमन्त्रितः। गुरुजिनाऽपि तदामन्त्रणं सादरं
स्वीकृतम्। नागपुरे उत्सवं समाप्य डॉ. महाशयः गुरुजिं भण्डारा-शाखां दर्शयितुम् आत्मना सह नीतवान्। एवं सर-संघचालकेन सह संपर्केण संघकार्यस्य प्रत्यक्षीकरणेन च श्रीगोलवलकरस्य संघविषयिकी कल्पना सुस्पष्टभूता।
श्रीगोलवलकर-गुरुजिः प्रत्यहं संघशाखां गच्छति इत्यालोक्य अन्ये प्राध्यापकाः रा.स्व.‘संघस्य को विशेषः? किं तस्य तत्त्वज्ञानम्?’ इति तं परिपृच्छन्ति स्म। श्रीगुरुजिःतान् प्रत्यवदत्—‘सांप्रतं जगति विद्यमानैः राजनीति-प्रकारैः(इझमे) संघस्य सुतरां संबन्धो नास्ति। परं ‘संघीझम्’ अथवा संघेन अङ्गीकृतं तत्त्वज्ञानम् भवद्भिः स्वयम् अधीत्य श्वः छात्रेभ्योऽपि अध्यापनीयं स्यात्’ इति। यदा संघस्य शिबिरे तेन आयोजिते पर्यटने वा संमिलितुं छात्राः समीहन्ते स्म तदा अनुमत्यर्थं कुलगुरुं श्री. मदनमोहन मालवीयं तैः सह उपेत्य, तस्य आशीर्वादान् गृहीत्वैव सः प्रत्यागच्छति स्म। शनैः शनैः संघकार्यस्य यथावत् परिचये जाते महामनाः श्रीमालवीय-महाशयोऽपि रा.स्व.संघाय विद्यापीठपरिसरे शाखार्थं स्वतन्त्रं क्रीडाङ्गनं, कार्यालयार्थं च पृथक् कक्षम् अददात्।
युक्ति-वाद-पाटवम्—
१९३२ डिसेम्बर-मासे, भूतपूर्व-छात्र-मण्डलस्य सभागृहे आसीद् एकःसमारोहः। श्रीगुरुजिःसमारोह-व्यवस्था-प्रमुखः आसीत्। तत्कृतआयोजनानुसारं कार्यक्रम-व्यवस्था-भारः संघ-स्वयंसेवकैः अङ्गीकृतः। निमन्त्रितेषु कैःकेन द्वारेण प्रवेष्टव्यं तन्निश्चित्य श्रीगुरुजिना प्रतिद्वारं स्वयंसेवका नियुक्ताः। निमन्त्रिताः सज्जनाः आगन्तुं प्रवृत्ताः। नियमभङ्गे निजां प्रतिष्ठामिव मन्वानाः केचित् सर्वत्रैव विद्यन्ते। एकस्मिन् द्वारे ‘स्त्रीणां कृते’ इति सूचना-फलके विद्यमानेऽपि कंचित् ज्येष्ठं प्राध्यापकं तेनैव प्रविशन्तं दृष्ट्वा ‘मार्गोऽयं स्त्रीणां कृते एव, कृपया अन्येन गम्यताम्’ इति स स्वयंसेवकेन विज्ञप्तः; तथापि ‘कस्त्वं मां निरोद्धुम्?’ इति तं निर्भर्त्स्य, तेनैव द्वारेण हठात् प्रविशन् सः स्वकार्य-दक्षैः स्वयं सेवकैः ततः निष्कासितः। समाप्ते कार्यक्रमे, प्राध्यापकेषु स्वयंसेवकस्य अविनयनिमित्तेन उग्रा चर्चा समारब्धा। ते उद्धताःस्वयंसेवकाः विद्यापीठात्
सद्यः निष्कास्याः इत्यपि एकेन सूचितम्। सायंकाले तु प्राध्यापक-मण्डलं समुपेत्य श्रीगुरुजिना स्वयंसेवकानां कर्तव्य-दक्षता तथा समर्थिता यथा सर्वेषां सर्वोऽपि विरोधः प्रशान्तः।
१९३३ हायनस्य प्रारम्भे अध्यापक-पदस्य अवधी समाप्ते, श्रीगुरुजिःकाशी हिन्दु-विद्यापीठात् निवृत्य नागपुरं पुनरपि प्रत्यायातः।
७. शिष्यस्तेऽहं शाधि माम्
वाराणसी-वासं समाप्य यदा श्रीमाधवरायः नागपुरं प्रतिनिवृत्तः तदा तज्जनकः श्रीभाऊजिः रामटेक क्षेत्रे आसीत्। सेवा-धर्मात् निवृत्तेन तेन तत्र निवासार्थम् एकं सदनमपि श्रीतमासीत्। काश्यां वर्षत्रयम् उषित्वा पुनरागतं माधवं वात्सल्यभरात् समालिङ्ग्य’ सौ.ताई’ तमवदत्—अयि जात, न्यायालये विधिज्ञ-वृत्तिं समाचरन्तं त्वां वीक्षितुं तातस्ते समुत्सुकोऽस्ति’ इति। वाक्कील-कार्यपरो माधवः ध्यानादिकं विहाय, स्वयमेव विवाहं कर्तुं कामयेत् इत्यासीद् मातृहृदये परमाशा।
निर्बन्ध-शास्त्रस्य अध्ययनम्—
मातुः सूचनामनु माधवरायेण निर्बन्ध-शास्त्राध्ययनं समारब्धम्। अधुना सः प्रौढःसंजातः। तेन हि निर्बन्ध-महाविद्यालयं नियमेन गत्वा, तत्र प्राध्यापकैर् अध्यापितान् विषयान् स सावधानं शृणोति स्म। तथापि तस्य इतर-ग्रन्थ-वाचनं तु नैव खण्डितम्। माधवरायस्य तत्कालीनः कश्चित् छात्रः स्वानुभवं न्यवेदयत् यत् ‘श्रीगुरुजि-कृते प्रत्यहं ग्रन्थालयात् नवीनानि पुस्तकानि आनेतव्यानि तेन पठितानि च प्रतिनेयानि इति आसीत् मे तदानींतनम् अत्यावश्यकम् आह्निकम्’ इति।
समयेऽस्मिन् यद्यपि माधवरायस्य आर्थिक दृष्टया दुरवस्था आसीत् तथापि प्रसन्न-चित्तः स सर्वमपि कार्यजातं यथावत् करोति स्म। सायाह्ने स प्रायः वयस्यैः सह वार्तालापेन, चहापानेन, हास्यविनोदेन, वाद-विवादेन, संगीतोपासनया वा कालं नयति स्म। तस्य मातुलेन संचालिते ‘आदर्श-
शिक्षण-वर्गे ‘अपि प्रतिदिनं सः द्वि–त्र–होरापर्यन्तं शिक्षयति स्म। प्रायः दिवसस्य द्विःध्यान-साधनार्थं स रामकृष्णाश्रममपि नियमेन गच्छति स्म। आश्रमे श्रीभास्करानन्द-स्वामिना सह चर्चा-रतस्य तस्य चेतः दिने दिने अधिकाधिकं वैराग्य-युतं ध्यान-प्रवणं च अभवत्। इत्थं तस्य दिनस्य अधिकांशः ध्यान-योगे तत्त्व-चिन्तने च गच्छति स्म।
संघस्य अधिकारी—
एवं गतेऽपि पूर्वं काश्यां रा.स्व.संघेन सह प्रस्थापितः तस्य संबन्धः न खण्डितः प्रत्युत १९३४ तमेऽब्दे डॉक्टर-हेडगेवार-महाशयेन संघस्य केन्द्रशाखायाः कार्यवाह-पदे माधव राय गोलवलकर गुरुजिः नियुक्तः। तदुत्तरं तस्मिन्नेव वर्षे गुरुजिना मुम्बापुर्यां संघ-प्रचारकत्वेनापि कार्यं कृतम्। तदूर्ध्वम् अकोला-नगरे संघ-शिक्षण-वर्गेऽपि तेन सर्वाधिकारि-पदम् अलंकृतम्।
लोकेऽस्मिन् पर-दुःखेन दुःखिताः विरलाः सन्ति; तथा निरहंकारितया निःस्वार्थ-वृत्त्या च परार्थ–घटकाः ततोऽपि विरलाः। श्रीगुरुजिःएतादृशः विरलतरः सज्जनः। स्वार्थं परित्यज्यापि परार्थं घटयितुं स सर्वदा प्रयतते स्म। तद्यथा—आसीत् तस्य सुपरिचितः श्रीवामनराव वाडेगावकरः नाम कश्चन अन्धः सुजनः। सः अन्ध-विद्यालयस्य संस्थापकः आसीत्। विद्यालयार्थं धन-संचयं कर्तुं स प्रयतते स्म। कारुणिको माधवरायोऽपि तं द्विचक्याः उपरि आरोप्य द्रव्यनिधिं संकलयितुं नागपुरे सर्वत्र भ्रामयति‚ जनाः निन्दन्तु स्तुवन्तु वा इति धिया। अनयैव परोपकार-बुद्ध्या स वेदान्त-विषयकं ‘पञ्चदशी’-ग्रन्थं तं प्रतिदिनम् अल्पमल्पम् अश्रावयत्।
एवं गच्छति काले, माधवरायस्य मातापितरौ तं विवाह-योग्यं विचिन्त्य दार-परिग्रहार्थं प्रवर्तयितुं मुहुर्मुहः प्रायतताम्। परं परिणेतुम् अनिच्छन् सः ताभ्यां प्रस्तुतं दार क्रिया-विषयं स्मितपूर्वं परिहरति स्म! यतः जगद्-वन्दितः पूजनीयः स्वामी विवेकानन्दः तेन निजादर्शत्वेन स्वीकृतः आसीत्। गोलवलकर-कुल-परिचितः एकः सुजनः एकदा न्यवेदयत्—‘भवान् गृहस्थाश्रमं किं नाङ्गीकरोति? ‘इति मया प्रसङ्गवशात, एकदा पृष्टे सति, माधवः सस्मितम् अवदत्—‘यदा अहम् अष्टादश-वर्षीयः
आसम् तदा एकवारं विवाह-विचारः मन्मनसि समुद्भूतः। तदानीं तु न केनापि मह्यं स्वकन्या-दानं विचारितम्; तदनन्तरम् अद्ययावत् परिणयस्य विचारोऽपि मन्मनसि नायातः; कन्यावन्तस्तु मां ‘चतुर्भुजीकर्तुम्’ नैकशः प्रयतन्ते’ इति। एतत् परिहास-विजल्पितं स्याद् इति लेखको मन्यते।
यावज्जीवं ब्रह्मचर्य-प्रतिज्ञा—
यथा तथा वा भवतु। १९३५ तमे वर्षे माधवरायः स्वपितरम् एकदा सुस्पष्टं न्यवेदयत्— ‘तात, क्षम्यताम्; नाहं परिणेतुकामः ; विवाहे कृते न मेऽत्यल्पमपि सुखं स्यात्। तथापि, अत्रभवान् आज्ञापयति चेत्, तथा करिष्ये’ इति। एकलस्य स्वपुत्रस्य तद् वाक्कीलानुरूपं निषेधात्मकं च प्रत्युत्तरम् आकर्ण्यापि निज-वंश-वृद्धि-कामौ तत्पितरौ तस्य ‘सारगाछी’-गमनं यावत् आशावन्तौ आस्ताम्। भवतु\।
नागपुरे कार्य राहित्यावसरे माधवरायः होमिओ-वैद्यकं, हस्तसामुद्रिकं च अधीतवान्। अस्मिन् नागपुर-निवास-काले भोजनात् ऋते दिवसस्य प्रायः सर्वस्मिन् अपि समये विविध-कार्य-परत्वात् स गृहाद् बहिरेव आसीत्। यदाप्रभृति स रामकृष्णाश्रमं गन्तुं प्रवृत्तः तदाप्रभृति तेन श्मश्रु-कर्तनमपि न कृतम्।
क्षणिका विधिज्ञ-वृत्तिः—
१९३५ ख्रिस्ताब्दे यदा माधवरायः एल्एल् बी.-परीक्षाम् उत्तीर्णः तदा तस्य गृहद्वारम् मा.स.गोलवलकर एम्. एस्सी., एल्एल्. बी., न्यायालय-विधिज्ञः’ इति नाम-फलकेन अलंकृतं बभूव। अस्मिन् विधिज्ञवृत्तौ न्याय-लाभार्थं निजाश्रयम् उपेतान् आपद्गतान् जनान् असत्य-भाषणाय प्रेरणं व्यावहारिक-दृष्ट्या उपयुक्तं भवतु नाम। परं सत्यप्रियस्य अध्यात्म-प्रवणस्य च माधवरायस्य तत् सर्वथा वर्जनीयम् एव।
अतः स केवलं (‘अपील’-विषयकम्) पुनरावेदन-कार्यम् स्वीकरोति स्म। पुनरावेदनात् ऋते अन्यत् सर्वमपि वादि-प्रतिवादिकार्य श्री. दत्तोपन्त देशपाण्डे-नामकं स्वमित्रं प्रति स प्रेषयति स्म। ताभ्याम् उभाभ्यां स्वीयः संयुक्त-कार्यालयः वॉकर-पथे उद्घाटितः। पुनरावेदनविषये निर्बन्धानां सूक्ष्मज्ञानं वैदग्व्यंच परमावश्यकम्। श्रीमाधवरायेण
न्यायालये प्रचालितेषु कतिपय–पुनरावेदनेषु तस्य कुशाग्र-बुद्धिं, प्रतिपादन-नैपुण्यं, विश्लेषण-कौशलं च अवलोक्य न केवलं निर्बन्ध-पण्डितैः वाक्कीलैःअपि तु न्यायाधीश-महाशयेनापि सः प्रशंसितः आसीत्। परंतु केवलं धनार्जनं नासीत् तस्य अभीप्सितम्। अतः केवलं भरण-पोषणाय पर्याप्तमात्रं धनं सः अर्जयति स्म।
तेषु दिवसेषु वाक्कील-वृत्ति, वाचनं, संघ-कार्यं च कृत्वा अवशिष्टः सर्वोऽपि समयः माधवरायः ध्यान-साधनायामेव यापयति स्म। तदानीं डॉ. हेडगेवार-महाशयेन नागपुरे विधिज्ञानां साप्ताहिक-मेलापकःउपक्रान्तः। माधवरायोऽपि तत्र गच्छति स्म। मेलापकः प्रति-भौम-वासरे भिन्न-विधिज्ञ-गृहे भवति स्म। तत्र माधवरायस्य विवाद-पटुता, स्वमत-मण्डने आत्मविश्वासश्च डॉक्टर-महाशयस्य प्रीतये बभूव। परं तेषु दिनेषु माधवरायं रामकृष्णाश्रमेण आकृष्टं ध्यानादि साधना-मग्नं निशम्य डॉ. हेडगेवार-महाशयः किञ्चिद् अस्वस्थः अभवत्। तस्य संशयः अस्थाने नासीत् इति अचिरादेव सिद्धम्।
सारगाछ्याम् अध्यात्म-साधना—
१९३६ वर्षस्य जुलै मासे, माधवरायः अकस्मात् अदृष्टः अभवत्। सः सारगाछी-आश्रमं गतः इति तस्य द्वित्राणि अन्तरङ्ग–मित्राणि अजानन्। परं रहस्यमिदं तैः प्रयत्नतः गोपितम् आसीत्।
सारगाछी-ग्रामः कलकत्ता-नगरस्य उत्तरे, मुर्शिदाबाद-मण्डले वर्तते। ग्रामोऽयं आम्र-ताल-पनस-कदली वृक्षैः परिवृतो विद्यते। वङ्ग-भाषायां सारी-शब्दः पङ्क्त्यर्थकः, गाछ-शब्दश्च वृक्षार्थकः। तत्र स्थिताः वृक्ष-राजयः’सार-गाछी’ इति ग्राम-नाम अन्वर्थतां नयन्ति। ग्रामेऽस्मिन् विद्यमानं सेवाश्रमं श्रीगुरुजिःअध्यात्म-साधनार्थं प्राप्तः। सेवाश्रमोऽयं केन, कदा, किमर्थं च स्थापितः तदप्यत्र ज्ञातव्यम्।
श्रीरामकृष्ण-परमहंसानां शिष्यः श्रीअखण्डानन्द-स्वामि महाशयः १८९७ ख्रिस्ताब्दे गङगोत्री-यात्रार्थं प्रस्थितः। मध्येमार्गं विश्राम-हेतुना सारगाछी-अन्तिके तडागोपकण्ठम् स उपाविशत्। तदानीम् अवर्षण-ग्रस्ते तस्मिन् प्रदेशे बहवो जलार्थिनः जलभरणार्थं तं तडागं समागताः। तेषु एकस्याः बालिकायाः घटः तत्करात् भ्रष्टः भग्नश्च। तेन सा वराकी
रोदितुं प्रवृत्ता। तद् दृष्ट्वा करुणार्द्रेण अखण्डानन्देन एकःनूतनः घटःक्रीत्वा तस्यै दत्तः। तदा अन्येऽपि क्षुधा-तृषार्ताः तं परितः समागताः। दयालुरपि अपरिग्रहः स संन्यासी तेभ्यः सर्वेभ्यः सेवाम् ऋते किमन्यत् दद्यात्? ’ दरिद्र-जन-सेवार्थम् अत्रैव निवस; अलं यात्रया’ इति दिनत्रयं यावत् अन्तर्यामि-प्रेरितः अखण्डानन्दःआत्मनः ज्येष्ठ-सतीर्थ्यस्य श्री. विवेकानन्द-स्वामिनः अनुमत्या तत्रैव सेवाश्रमं स्थापितवान्।
आश्रमस्य मध्यभागे विनोद-कुटी अस्ति।विनोदबाबु इति पूर्वाश्रम-नामकेन परब्रह्मानन्द-स्वामिना निर्मितेयं कुटिःपश्चाद्’ विनोद कुटिः’इत्याख्यां जगाम। विनोदकुटयाः पुरस्तात् पुष्पवाटिका, पृष्ठदेशे विभिन्न-वृक्षाः‚समीपे च श्रीरामकृष्ण-मन्दिरं वर्तन्ते। एतादृशं विविक्तं स्थानम् आध्यात्मिक-साधकानाम् अत्युपकारकम् इति कृत्वा श्रीगुरुजिःइदम् आश्रमपदं संप्राप्तः। विनोदकुटी त्रिकक्षीया आसीत्। पूर्वाभिमुखे कक्षे स्वयं श्री अखण्डानन्द-स्वामिपादाः न्यवसन्। मध्यकक्षे गुरुजिः अवसत्। तृतीये कक्षे त्रिचतुराः आश्रमवासिनः आसन्।
आश्रमवासिना गुरुजिना शिरोरुहाः न कर्तिताः। अथैकदा स्नेहभरात् स्वामिपादैः स्वकरं तच्छिरसि कृत्वा शंसितम्—’तात गोलवलकर, सुष्ठु शोभसे एभिः मसृण-कुन्तलैः। एते विलसन्तु अर्कातिताः’ इति। अयम् अखण्डानन्द-आदेशः गुरुजिना अखण्डं सानन्दं च मूर्ध्ना उपात्तः। गुरुजिःगुरु-चरण-सेवां भक्त्या तत्परतया च करोति स्म। स्वामिपादाःतदानीं मधुमेहेन हृद्रोगेण च ग्रस्ताः आसन्। अतः रात्रौ तदुच्छीर्षतः स्थित्वा गुरुजिः यथावश्यक जागर्ति स्म। तथा च स्वामिमुखेन जीवनतत्त्व-विषयकान् प्रत्यय-मूलान् प्रमेयान् दत्तावधानः शृणोति स्म। एवं रीत्या गुरुजिः सारगाछी-आश्रमे मास-पञ्चकं यावत् उवास।
एकदा स्वामिपादैः निज-शिष्योत्तमाय अमिताभाय पत्रं प्रेषितम्—‘बलवद् अस्वस्थोऽहम्, शीघ्रमायाहि’ इति।नागपुरात् स सत्त्वरम् आगतः। एकदा स स्वामिपादान् विज्ञापितवान्—‘गोलवलकरस्य मातापितरौ वृद्धौ स्तः। अतः अचिरात् स दीक्षां दत्त्वा गृहं प्रतिगन्तुम् अनुज्ञायताम्। तेन सः विधिज्ञ-वृत्ति चरितुं शक्नुयात्’ इति। तत् श्रुत्वा स्वामिपादाः अब्रुवन्—“दीक्षा अवश्यं दास्यते; परं स इतःपरं विधिज्ञ -
वृत्तिम् एव चरिष्यति इति कः कथयेत्?” एवं गच्छत्सु दिवसेषु अमिताभः स्वामिपादान् पुनः प्रार्थितवान्—“कृपया नागपुरं प्रत्येतुं जनोऽयम् अनुज्ञायताम्’ इति। तदा ‘न हि न हि त्वया अत्रैव वस्तव्यम्। सांप्रतं समाप्तकल्पं मे जीवितम्’ इति। तत्–प्रतिवचः श्रुत्वा ‘तर्हि गोलवलकरः शीघ्रम् अनुगृह्यताम्’ इति अमिताभः तान् पुनः विज्ञापयांचकार। तदानीम् ‘ओम्‚ श्रीरामकृष्णान् तदर्थं पृच्छामि’ इति तेऽब्रुवन्। त्रिदिनोत्तरं स्वामिपादाः स्वयम् अमिताभम् आहूय अकथयन्, ‘गोलवलकरस्य दीक्षाविधिः श्वः संपत्स्यते’ इति।
श्रीअखण्डानन्दानाम् अनुग्रहः—
अपरेद्युः समाप्ते दीक्षाविधौ, स्वामिभिः दीक्षितः गोलवलकरगुरुजिःदेवदर्शनाय प्रहितः। तदानीम् अमिताभो मन्दिरे एव पूजापरः आसीत्। दीक्षाविधेर् उत्तरं, गोलवलकरं तत्र दर्शनार्थं समागतं वीक्ष्य, सोऽपि वीतचिन्तोऽभवत्। ‘दीक्षान्ते दर्शनाय मन्दिरम् उपेतः गोलवलकरःमहासागरवत् गभीरः प्रशान्तश्च आसीत्’ इति स्वानुभवः अमिताभस्वामिना एव पश्चात् निवेदितः।
श्री अखण्डानन्द-स्वामिनां प्रकृतिः दिनानुदिनं क्षीणतरा संजाता। तेषां चिकित्सकेन ‘स्वामिपादाः इतः बेलूराश्रमं द्रुततरं नीयन्ताम्’ इति तत्-शिष्येभ्यः सूचितम्। तदनुसारं ते पूज्यपादान् बेलूरे पूजनीय-शारदामातुः उद्बोधन-निवासंनीतवन्तः। तत्र तु ७-२-१९३७ दिनाङ्के श्रीअखण्डानन्दानां प्राणज्योतिः संज्ञान्तम्; परं तेषां कर्मयोगि-जीवनसंदेशवाही नन्दादीपः श्रीगोलवलकर-गुरुजि-हृदन्तरे प्रज्वालितोऽभवत्।
श्रीमताम् अखण्डानन्द-स्वामिपादानां धार्मिकता, स्वाध्याय-शीलता, सर्वभूतेषु समत्व-बुद्धिः, सेवा-परायणता, दुःख-तप्तानाम् आर्तिनाशने तत्परता, बहुभाषा-कोविदत्वं विनोद-प्रियता इति गुण-समुच्चयः श्रीगुरुजि-महाशयेऽपि सर्वांशेन आसीत्। तेन हि अखण्डानन्द-बिम्बस्य गुरुजिः खलु प्रतिबिम्बमिव प्रतिभाति स्म। दिवं गतेषु श्रीअखण्डानन्देषु कतिपय–दिनानि विनोद-कुट्यां स्थित्वा, सारगाछी-आश्रमम् आपृच्छ्य श्रीगुरुजिः१९३७ वर्षस्य मार्च-मासान्ते नागपुरं पुनरागतः।
८. आद्य-सरसंघचालकस्य अन्तेवासी
‘न त्वहं कामये राज्यं, न स्वर्गं नापुनर्भवम्।
कामये दुःखतप्तानां प्राणिनाम् आर्तिनाशनम्॥’
इत्यासीत् श्रीअखण्डानन्द-स्वामिपादानाम् उदात्तो जीवन-हेतुः। तैर् अनुगृहीतः श्रीगोलवलकर-गुरुजिःअपि तथैव स्वजीवनं यापयितुं कृतनिश्चयः आसीत्। अतः नागपुरं प्रत्यागतस्य तस्य मनसि विधिज्ञ-वृत्त्या धनार्जनस्य विचारः कथमुद्भवेत्? तदानीम् एकस्य नूतन-वृत्तपत्रस्य संपादकपदं स्वीकर्तुमपि स विज्ञापितः आसीत्। तथा कृते २५० रूप्यकाणां मासिक-वेतनस्य विकारहेतौ सत्यपि तन्मनः विकार-वशं नाभवत्। ‘मदर्थे २५ रूप्यकाः पर्याप्ताः; अधिक-वित्तोपार्जनस्य का आवश्यकता? अतः क्षम्यताम्’ इति स तस्मै पृच्छकाय निवेदितवान्।
जनता-जनार्दनस्य सेवा एव परमेश्वरस्य अन्वर्था पूजा इति निश्चये जातेऽपि तदर्थे कतमत् कार्यक्षेत्रम् अङ्गीकर्तव्यम् इति विमर्शपरस्य श्री माधव रायस्य कतिपय-दिनानि व्यतीतानि। सांप्रतं सः क्वचित् रामटेके क्वचित् च नागपुरे निवसति स्म। संघ-शाखाम् अपि गच्छति स्म। अन्तराऽन्तरा मुरली-वादनेऽपि लीनो भवति स्म। तेन श्रीविवेकानन्द-स्वामिभिः १८९३ ख्रिस्ताब्दे शिकागो-धर्म-परिषदि कृतानां व्याख्यानानां मराठी भाषायाम् अनुवादोऽपि कृतः। कालेऽस्मिन् गुरुजिःनैकवारं डॉ. हेडगेवाराणां निवासमपि गच्छति स्म। संघकार्यस्य अपूर्वत्वम्, असामान्यत्वं महत्त्वं च न तस्य अविदितम्। तथापि ‘हिन्दुराष्ट्रं परं वैभवं नेतुम् अयमेव मार्गः, नान्यः’ इति बोधः तन्मनसि नद्यापि दृढीभूतः, यद्यपि १९३२ वर्षात् तम् अन्तर्बहिश्च संघमयं विधातुं डॉ. हेडगेवारः सततं प्रयत्नपरः। अन्ते‚ यस्य चरितम् आरात्—दूरतः समीपतश्च—अवलोक्य गुरूजिना स्वजीवन-सरणी सुनिश्चिता, तस्य अत्यावश्यकः प्रादेशमात्रः परिचयः अत्रैव न दीयते चेत् श्रीगुरूजि-महाशयस्य जीवनस्य उत्तरार्धः सम्यक् परिज्ञातुं न शक्यः।
अथातो डॉ. हेडगेवार-जीवन-जिज्ञासा—
राष्ट्रिय-स्वयंसेवक-संघस्य संस्थापकःडॉ. केशव बलिराम हेडगेवारमहाशयः परमः देशभक्तः आसीत्। आङ्ग्ल-राज-प्रतिनिधिना कर्झनेन १९०५ ख्रिस्ताब्दे वङ्ग-भङ्गे कृते सति, हिन्दुस्थाने सर्वत्र महदान्दोलनं समारब्धम्। एतेन विस्फोटकेन आन्दोलनेन स्वदेशी-प्रचारेण च विद्यार्थी केशवः प्रभावितो बभूव। १९०८ वर्षे सः नागपुरस्थे विद्यालये मॅट्रिककक्षायाम् आसीत्। तदा विद्यालय-परीक्षणार्थं पर्यवेक्षके आगते सति, केशव-प्रमुखैः छात्रः ‘वन्दे मातरम्’ इति उच्चैः उद्घोषितम्। ‘क्षमां याचध्वम्, नो चेद् विद्यालयात् निष्कासिता भविष्यथ’ इति मुख्याध्यापकेन तर्जिते अपि, केशवेन क्षमा न याचिता। परिणामतः ततो निष्कासितेन तेन अन्यत्र गत्वा मॅट्रिक-परीक्षा उत्तीर्णा।
तदुत्तरं वैद्यकाध्ययन-हेतुना केशवो हेडगेवारः कलकत्ता-नगरम् अभ्ययात्। तदानीम् अंशतः स्वावलम्बनेन अंशतश्च डॉ. मुञ्जे-प्रभृतिभिः कृतेन साहाय्येन राष्ट्रिय-भिषग्-महाविद्यालये अध्ययनं कृत्वा १९१५ तमे वत्सरे सः ‘एल्. एम्. एस्.’ -उपाधिं ससंमानं संपादितवान्।
कलकत्ता-नगरे निवसता हेडगेवारेण श्री. पुलिनविहारी दास प्रभृतिभिः क्रान्तिकारक-धुरीणैः दृढः संपर्कः साधितः। तेषां देशभक्त्या, धैर्येण, त्यागेन च समाकृष्टेन हेडगेवारेण प्रथमं क्रान्तिमार्गःआचरितः। परं सम्यग् विमर्शानन्तरं स तम् उज्झितवान्। तथापि क्रान्तिकारकान् प्रति तस्य आदरः पूर्ववदेव आसीत्। एतन्निदर्शकः एकः प्रसङ्ग अत्र अस्थाने न स्यात्। कतिपय-वर्षोत्तरं १९३७ तमे वर्षे यदा वीर सावरकर-महाशयः रत्नागिरि-स्थानबन्धनात् मुक्तः, तदा सर-संघ-चालकेन डॉ. हेडगेवारमहाशयेन संघस्य ‘विजयादशमी’ -उत्सवस्यअध्यक्षपदम् अलंकर्तुं सः निमन्त्रितः। तदानीं तेन पत्रे लिखितम्—“यदि दशम्यां वीरसावरकराणाम् आगमनम् अशक्यं तर्हि यदा ते आगच्छेयुः सा एव अस्माकं विजयादशमी स्यात्” इति।
राष्ट्रकार्ये सहकारः—
लोकमान्य-टिलक-महाशये काल-कवलिते सति, १९२० तमे वर्षे महात्मा गान्धिना असहकारस्य-आन्दोलनं समारब्धम्। तस्मिन् संमिलितः**डॉ. हेडगेवार-महाशयः सर्वकारेण वर्षम् एकं सश्रम-कारावासेन दण्डितः।**तेन कारावासे इतिहासस्य सूक्ष्मेक्षिकया यथावत् पर्यालोचनं कृतम्। तद् यथा—‘काँग्रेस-संस्थया खिलाफतान्दोलने आत्मीयवद् आदृते सति, कतिपयाः यवनाः काँग्रेस-पुरस्कृते असहकारान्दोलने संमिलिताः सन्तु नाम। परं सांप्रतं दृश्यमानं हिन्दु-यवनानाम् ऐक्यम् आभासमात्र, नाममात्रमेव। ईदृशम् ऐक्यं राष्ट्र-घातकं भविष्यति’ इति।
** ‘खिलाफत’ नाम अखिल-आपत्—**येषां धुरीणानाम् एतद् मतमासीत् तेषु डॉ. हेडगेवारः प्रमुखः। असहकारान्दोलनाद् अनन्तरम् अल्पीयसा कालेन यवनैः सर्वत्र अत्याचाराः अनुष्ठिताः। १९२१ वर्षे मलबार-प्रदेशे, मोपला-यवनैः सहस्रशः हिन्दूनां भीषणः संहारः कृतः। मुलतान, कोहाट, सहारनपुरम् इत्यादि स्थानेष्वपि यवनैःहिंसाचाराः विहिताः। एभिः हत्याकाण्डैःडॉ. हेडगेवारस्य मतं साक्षात् प्रमाणीकृतम्; तथा च ‘हिन्दु-यवनानाम् ऐक्यं प्रस्थापितमेव’ इति भ्रमोपगतानां नेत्रोद्घाटनमपि विहितम्।
तथैव आयत्यां १९३० वर्षे म. गान्धिना प्रारब्धे लवण-विधि-भङ्गे अपि डॉ. हेडगेवार-महाशयः १५० संघ-स्वयंसेवकैः सहितः संमिलितःआसीत्। एकस्मिन् तत्कालीने पत्रे डॉक्टर-महाशयेन स्पष्टीकृतम्—“एतदान्दोलन-विषये रा. स्व. संघस्य नीतिःसहकारात्मिका, न विरोधात्मिका; यतः एतेन आन्दोलनेन राष्ट्रे चैतन्यं जागरितं भविष्यति। यस्य कस्य नरस्य पक्षस्य वा प्रयत्नैः लोक-जागरणं संभवेत् ते सर्वे प्रयत्नाः अस्मत्सहकारार्हा एव।” अनया रीत्या आद्य-सरसंघचालकैः संघस्य अग्रे आराध्यदैवत-रूपेण राष्ट्रम् एव स्थापितम्, न कोऽपि पक्षःव्यक्तिः वा।
यदा यदा यवन-कृत-अत्याचार-वार्ताःडॉ. हेडगेवार-महाशयस्य कर्णपथम् आगताः तदा तदा ‘देशेऽस्मिन् अत्यल्पाः यवनाः असंख्येयान्
हिन्दून् कथं धर्षयन्ति आक्रमितुम्’ इति प्रश्नः तं व्यथित-चित्तम् अकरोत्। परम् इतिहासस्य समीक्षणेन इयं गहना समस्या तेन अचिरात् समाहिता। तद्यथा—१) प्राचीन-कालादारभ्य विंशतितमस्य ख्रिस्ताब्द-शतकस्य १९२५ वर्ष-पर्यन्तस्य भारतीय-इतिहासस्य सूक्ष्मेक्षिकया कृतं पर्यालोचनं निःसन्देहं निर्दिशति यत् हिन्दु-समाजे विद्यमानः संघ शक्तेः अभावः एव अस्मद्-अधःपातस्य मूलकारणम्। तस्मात् संहतिः एव अत्र सर्वंकषः उपायः। तथा च २) अस्मिन् देशे केवलं हिन्दुसमाजः एव राष्ट्रियः सर्वेऽप्यन्ये इह आक्रमकाः। तेषाम् आक्रमण-शीलत्वात् हिन्दुसमाजस्य दौर्बल्यात् च एते परकीयाः आक्रमकाःहिन्दुस्थाने राज्यमपि कर्तुं समर्थाः। अस्य निष्कर्षस्य उपसिद्धान्तोऽयम् यत् ३) हिन्दु-यवनानां ऐक्येन विना स्वातन्त्र्य-संपादनम् असंभवम् इति तर्कः अस्मद्-आत्मविश्वास-शून्यता-मूलः एव।
वीर-सावरकर-दर्शन-लाभः—
१९२४ ख्रिस्ताब्दे डॉ. हेडगेवार-महाशयः स्वल्पकालं ‘स्वातन्त्र्य’ साप्ताहिकस्य संपादकः आसीत्। १९२५ मार्च-मध्ये हिन्दुस्थाने स्थानबद्धं क्रान्तिवीरं श्रीसावरकर-महाशयं द्रष्टुकामः सः तदानीं शिरगावस्थितं तं प्रत्युद्गतः। तदानीं ताभ्याम् अचिरात् प्रस्थापनीयस्य रा.स्व.संघस्य ध्येयं कार्यसरणिश्च सम्यग् विमर्शिते इति श्रूयते।
संस्थापितः रा. स्व. संघः—
स्व-राज्यम्, स्व-तन्त्रता इति शब्दोसर्वेषां मुखे आस्ताम्। परं तत्र ‘स्व’ इति पदस्य सत्यार्थः विस्मृतप्रायः। पूर्वं सुदूरात् समागतैः अत्यल्पसंख्यैः परकीयैः अस्मद्-राज्य-लक्ष्मीः कथम् अपहृता? अस्मासु विद्यमाना आत्म-विस्मृतिः अ-संहतिश्च तत्र कारणम्। एतदेव सर्व-अनर्थपरंपरायाः मूलकारणम्। तस्मात् हिन्दुस्थान-देशे स्वत्वाधिष्ठितं हिन्दुसंघटनं निर्मातुं १९२५ ख्रिस्ताब्दे विजया-दशमी-सुमुहूर्ते डॉ. हेडगेवार महाशयैः नागपूर-नगरे राष्ट्रिय-स्वयंसेवक-संघः संस्थापितः।
प्रायः अभिनव-संस्था-स्थापनावसरे संविधानम्, अध्यक्ष-उपाध्यक्ष-सहितं कार्यकारि-मण्डलम्, कार्यालयः, संस्थाऽभिधान-फलकः, उद्घाटन-
समारोहः, वृत्तपत्र-प्रसिद्धिश्च इति महान् आडम्बरः सर्वत्र अवलोक्यते। परं संघ-स्थापनावसरे एभ्यः किमासीत्? आसीत् एतेषाम् सर्वेषाम् अभावः। परं बीजरूपेण द्वयमेव आसीत्। राष्ट्रिय-पुनरुत्थानस्या दुर्दम्या महाकाङक्षा, तथा ताम् आकाङक्षां साकारयितुं राष्ट्राय समर्पितं चारित्र्यपूर्णं, ध्येयनिष्ठं सेवामयं च जीवनम्। एतत् पाथेयम् आदाय, प्रस्थितोऽसौ अद्वितीय-महापुरुषः राष्ट्र-रोग-चिकित्सकःडॉ. हेडगेवार-महाशयःहिन्दुसंघटनस्य केनाप्यपूर्वाचरितेन श्रेयसां मार्गोत्तमेन !
तदानीं स्वदेश-स्वातन्त्र्यं तु सर्वेषाम् अभीप्सितम्। अतः १९२९ वर्षे यदा काँग्रेस-संस्थया संपूर्ण स्वातन्त्र्य-प्रस्ताव पारितः तदा प्रमुदितेन डॉ. हेडगेवार-महाशयेन संघस्य सर्व-शाखाभ्यःपरिपत्रं प्रेषितं यत् ‘काँग्रेस-संस्थया संपूर्ण-स्वातन्त्र्यं साध्यत्वेन अङ्गीकृतम् इति नूनम् आनन्द-दायकम्। एतदेव ध्येयम् आदृत्य कार्यं कुर्वद्भिः सर्वाभिर् अपि संस्थाभिः सह अस्माभिः सहकार्यं कर्तव्यमेव’ इति।
वीतरागोऽपि डॉ. हेडगेवार-महाशयः संन्यासिनां काषायवेशं न दधार। ‘भवान् संन्यासाश्रमं किं न अङ्गीकरोति’ इति केनापि पृष्टे सः प्रत्युवाच ‘यदि अहं संन्यास-ग्रहणं कुर्याम् तर्हि लोकाः मत्पाद-वन्दनं कुर्युः, परं मत्प्राणेभ्योऽपि गरीयः संघ-कार्यं कर्तुं न कोऽपि सिद्धो भवेत्; अतः किं तेन संन्यास-ग्रहणेन यद् राष्ट्रहितं न साधयेत्? ‘इति।
भगीरथात् श्रेष्ठतरो हि केशवः—
** राष्ट्रहितं हि सर्व-कर्मणां निकषः इति स मनुते स्म।** तदर्थं तेन**‘हिन्दुत्वमेव राष्ट्रियत्वम्’ इति मन्त्र, संघकार्य-रूपं च कर्म-तन्त्रं**पुरस्कृतम्। सर्वेषाम् अविरोधेन स्वराष्ट्रं सामर्थ्य-संपन्नं विधातुं ‘यस्मात् न उद्विजते लोकः, लोकात् न उद्विजते च यः’ इति नीतिःस्वीकृता। विशुद्धं चारित्र्यं युधिष्ठिर-तुल्या विश्वासार्हता, वाङ्माधुर्यं च तस्य भूषणानि आसन्। गेहं देहं च विस्मृत्य स सर्वदासंघ-कार्यरतः आसीत्। तेन स्वान्तात् अहंकार-द्वैतभाव बहिष्कृतौ।केचिद् जनाः डॉ. हेडगेवारं भगीरथेन सह तोलयन्ति। इयं तुलना न समीचीना। भगीरथेन त्रिविष्टपं (तिबेट) प्रति उद्वहन्त्याः गङ्गायाः प्रवाहः प्रयत्ना- तिशयेन परावृत्य भारताभिमुखः कृतः। अयं तद्विजयः कामं महनीयः,
किन्तु स अचेतने एव। डॉ. हेडगेवार-महोदयेन तु कोटिशः स्वदेशबन्धूनां दृष्टिकोणः, तथा तेषां निष्ठायाःकर्तृत्वस्य च स्वदेशात् बहिर्मुखः महौघः पुनः स्वदेशं प्रति परावर्तितः। एतत् चेतनानां चित्त-वृत्तिपरिवर्तन-रूपं महत्कार्यं भगीरथस्य कार्यात् शतगुणं कठिनतरम् आसीत्। यस्मिन् काले ‘अहं हिन्दुः’ इति घोषणा सांप्रदायिकतायाः संकुचित वृत्त्याः च निदर्शकं मन्यते स्म तस्मिन्नेव काले प्रतिवासरं “वयं हिन्दुराष्ट्राङगभूताः” इति प्रार्थनावसरे साभिमानम् उद्घोषयन्तः लक्ष लक्ष-संख्येयाः युवकाः भगवद्-ध्वजं भक्त्या प्रणमन्ति, अपि च राष्ट्ररक्षणाय संशप्तकाः भवन्ति इति खलु महान् चमत्कारः एव।
दारिद्र्यं परमं मित्रम्—
दारिद्र्यं तु डॉ. हेडगेवार-महाशयस्य परमं मित्रम्। गृहस्य जीर्णत्वात् पतितां भित्तिंप्रति-समाधातुं तत्-सकाशे पर्याप्तं धनं नासीत्, समयोऽपि नासीत्। तथापि स प्रतिवर्षं रूप्यक-शतं ‘गुरु-दक्षिणां’ ददाति स्म। अथैकदा एकस्यां सार्वजनीन-सभायां तस्य पादत्राणे केनापि अपहृते। तदानीं सः अपादुकः एव सर्वत्र विचचार।
निरन्तरं प्रवासः, हिन्दु-संघटनार्थम् अहर्निशं कृताः शाखा-मेलापक विविधोत्सव-बौद्धिकवर्ग-शिबिर-शिक्षणवर्ग-इत्यादयः विविधाः प्रयत्नाः, तथा च प्रायः अन्यत्र दृश्यमानं शोभायात्रा-तालिकावादन-छायाचित्रण प्रभृति-दाम्भिकाडम्बरं प्रतितीव्रा घृणा इत्यादयःविशेषाः डॉ. हेडगेवारमहाशयस्य अन्तरङ्गं प्रकटीकुर्वन्ति।
डॉ. महाशयेन सह गुरुजिः प्रथमं वारं वारं विवदते स्म। परन्तु विवादेन न कस्यापि कदापि मत-परिवर्तनं संभवति इति डॉक्टर महाशयस्य अनुभवाधिष्ठितं आचार-सूत्रम्। तस्मात् गुरुजिना सह विवादम् अकृत्वा, स तस्य सर्वान् प्रश्नान् सौजन्येन कौशल्येन च समाधत्ते स्म। डॉ. महाशयस्य गोष्ठीषु मनोरञ्जनं‚ विनोदनं, परिहास-कथाः, खानपानादिकं सर्वम् आसीदेव; परं तत्र कार्य-वृद्धि-विमर्शः प्राधान्येन
क्रियते स्म। तथैव गोष्ठी-निमित्तं संमिलितानां सर्वेषां गुणावगुणपरीक्षणम्, स्वभाव-निरीक्षणं च डॉ. महाशयः सूक्ष्म-दृष्ट्या सर्वदा करोति स्म।
** डॉ. हेडगेवार-महाशयस्य स्वानुभवः एव तस्य सिद्धान्तानाम् अधिष्ठानम्** आसीत्। प्रदीर्घ स्वानुभवेन, सन्तत-चिन्तनेन च तेन उच्चारितानि वचनानि’ संघटन-शास्त्रस्य असंदिग्धानि, अनवद्यानि, विश्वतोमुखानि‚ सारवत्-सूत्राणि’ इति ख्यातिम् अवापुः।
९. शनैः संघ-कार्य-भार-संक्रमणम्
श्रीगुरुजि-स्कन्धे कार्यभारः—
प. पू. सर-संघ-चालकेन डॉ. हेडगेवार-महाशयेन सह श्रीमतः माधवराव गोलवलकरस्य परिचयः शुक्लेन्दुवत् दिने दिने व्यवर्धत।गोलवलकर-गुरुजिम् अनेक-गुण-सनाथं समीक्ष्य, डॉ. महाशयेन स प्रथमं १९३४ ख्रिस्ताब्दे संघस्य नागपुर-केन्द्र-शाखायाः कार्यवाह-पदे, तदनन्तरं मुम्बापुर्यां प्रचारक-पदे, तदुत्तरम् अकोलानगरे संघस्य अधिकारि-शिक्षणवर्गस्य सर्वाधिकारि-पदे पूर्वमेव नियुक्तः आसीत्।
१९३७ वर्षे लुप्त-दर्शनः श्रीगुरुजिः यदा सारगाछी-आश्रमात् नागपुरं प्रत्यागतः, तदा डॉ. महाशयेन नागपुरे मे-मासे संयोजितस्य अधिकारि-शिक्षण-वर्गस्य सर्वाधिकारि-पदे सः पुनश्च नियुक्तः। तदूर्ध्वं १९३८ वर्षे ऑगस्ट-मासे लाहोर-नगरे संयोजिते अ. शिक्षण-वर्गे समुपस्थातुं डॉ. महाशयः गुरुजि-सहितः एव गतवान्। मध्येमार्गं काश्याम् ऑगस्ट १७ तः १९ दिनाङ्कं यावत् काशी-नगर-संघ-शाखायां, तथा च तत्रस्थ-संस्कृत-महाविद्यालयस्य छात्रालये श्रीकृष्ण-जन्मोत्सवे, व्याख्या-
नार्थं साग्रहं विज्ञप्तोऽपि डॉ. महाशयः स्वयं व्याख्यानं न कृत्वा गुरुजिम्एव तदर्थम् आज्ञापितवान्। ‘आज्ञा गुरूणां ह्यविचारणीया’ इति मर्यादानुसारं गुरुजिना तत्र उद्बोधकानि व्याख्यानानि कृतानि। तदनन्तरं लाहोर-नगरे अधिकारि-शिक्षण-वर्गे गुर्वाज्ञानुसारं गुरुजिना अत्युत्कृष्टं भाषण-द्वयं दत्तम्। श्री गुरुजिकृत-व्याख्यानावसरे सर्वत्र डॉ. महाशयः स्वयम् उपस्थितः आसीत्। स्वीय-व्याख्यानेषु गुरुजिना संघकार्यं सुस्पष्टतया साकल्येन च निरूपितं समवलोक्य डॉ. महाशयः भृशं सन्तुष्टः, तथा च तस्मिन् संघ-कार्य-भारं शनैः शनैः अधिकाधिकं निधातुं निर्णीतवान्।
श्रीगुरुजेः अनुवाद-चमत्कारः—
अत्रैव श्रीगुरुजिना कृतः एकः अपूर्वः बौद्धिक-चमत्कारोऽपि निर्देशम् अर्हति। वीर-सावरकर-महाशयस्य अग्रजःश्री. बाबाराव महाशयः१९३८ तमे ख्रिस्ताब्दे ‘राष्ट्र-मीमांसा’ नामकं स्वीयं मराठी-पुस्तकम् आङग्ल-भाषायाम् अनुवादयितुम् ऐच्छत्। तदर्थं स स्वमित्रं श्रीविश्वनाथराव केलकर इत्याख्यं विधिज्ञं प्रार्थितवान्। अनेक-कार्यव्यापृतत्वात् स तदर्थम् अवसरं न लेभे। परं श्री. माधवराव गोलवलकरविधिज्ञः तस्य सुपरिचितः आसीत्। अतः तम् आहूय ‘कच्चित् भवान् श्रीमतः बाबाराव सावरकर-महाशयस्य ‘राष्ट्रमीमांसा’ पुस्तकम् आङ्ग्लभाषया अनुवादयेत्? “इति तम् पृष्टवान्। गोलवलकर-गुरुजिः अपि ‘यथाऽऽज्ञापयति आर्यः’ इति सविनयं निवेद्य, तत्सकाशात् अनुवाद्यं पुस्तकं, लेखनार्थं कर्गजान् च आदाय गृहं गतः। अन्येद्युः एव पूर्वेद्युः नीतं पुस्तकं कर्गजान् च हस्ते गृहीत्वा प्रत्यागतं श्री. गोलवलकरं दृष्ट्वा श्री. केलकर-महाशयः हताशः इव संजातः। परं तेन प्रत्यर्पितानि कर्गजानि यदा श्री. केलकर-महाशयःनिरीक्षते स्म, तदा समग्रम् अनुवादम् आलोक्य सः स्तिमिततां गतः। १०९ पृष्ठात्मकं पुस्तक एकस्मिन् एव दिने श्री. गोलवलकर गुरुजिना न केवलं संपूर्णं सुष्ठु अनुवादितम् किन्तु अनुवादकस्य प्रास्ताविकमपि लिखित्वा तत्र संयोजितम्। अपूर्वं चमत्कारमेनं संवीक्ष्य ‘अहो लोकोत्तरोऽयं युवा सहस्रशः धन्यवादार्हःअभिनन्दनार्हश्च’ इति श्री. केलकर-महाशयः सहसा प्रोज्जगार।
सिन्दी-ग्रामे संघाधिकारिणां संमेलनम्—
१९३९ वर्षस्य फेब्रुवारी-मासे वर्धा-मण्डले सिन्दी-नामके ग्रामे संघस्य प्रमुखाधिकारिणां दश-दिनावधिकं शिबिरम् अभवत्। तत्र प्रति दिनं प्रातः ८ वादनात् ११ वादन-पर्यन्तं‚ मध्याह्ने ३ तः ६ वादनं यावत्, रात्रौ च ९ तः ११ वादनावधि कार्यक्रमः प्राचलत्। अस्मिन् शिबिरे श्री. गुरुजिः, श्री. अप्पाजिः जोशी, श्री. बालासाहेब देवरस, प्रा. धर्मवीर-इत्यादि-सहकारिभिः साकं डॉ. हेडगेवार-महाशयेन संघस्य संविधानम्, दैनंदिनी प्रार्थना, आदेशाः, कार्य-पद्धतिः, प्रतिज्ञा इत्यादि-विषयाः मुक्तचर्चया विमर्शिताः। तत्र गुरुजि-महाशयस्य संघटनानुकूला मनोवृत्तिः, तथा च यस्य कस्यापि विषयस्य सम्यग् विश्लेषणं कृत्वा, ‘उपाय चिन्तयन् प्राज्ञः अपायम् अपि चिन्तयेत्’ इति सूक्तिमनु प्रत्येकं विधेयं साधक-बाधक-दृष्ट्या साकल्येन विचार्य स्व-मत-प्रतिपादन-कौशलं सर्वैरपि साक्षात्कृतम्। डॉ. महाशयैः सह कृते प्रवासे तेषां या भूषणभूता समत्व-वृत्तिः गुरुजिना प्रत्यक्षीकृता, सा समत्व-वृत्तिः गुरुजि-महाशयेऽपि तदानीं सर्वैःअनुभूता। अन्तिमदिने विमर्शावसरे, दूरदृष्टिना डॉक्टर-महाशयेन सर्वे पृष्टाः“मम पश्चात् सर-संघचालक-पदे कः नियोक्तव्यः? श्रीगुरुजिःनियुज्यते चेत् तद् युक्तं स्यात् न वा? भवन्तः किं मन्यन्ते?” इति। तदा ‘प्रथमः कल्पः’, ‘सर्वथा उपपन्नं स्यात्’ इति तत्रोपस्थितैः सर्वैः संमतिर् दत्ता।
तदनन्तरं मार्च-मासे डॉ. महाशयस्यआज्ञानुसारं गुरुजिःकलकत्ता-नगरंगतः। तत्र उत्तर-विभागे वर्ष-प्रतिपदा-सुमुहूर्ते २२-३-३९ दिनाङ्के, गुरुजिना संघ-शाखायाः शुभारम्भः कृतः। तत्र कार्यवशात् स प्रत्यहं ७-८ क्रोशान् द्विचक्या परिभ्रमति स्म। यथावसरं बेलूरे श्रीरामकृष्ण-मठमपि गच्छति स्म।
श्रीगुरुजि-रचितः ‘राष्ट्र-लक्षण’-ग्रन्थः—
श्री. गोलवलकर-गुरुजिना रामटेके १९३८ वर्षस्य अन्ते लिखितं**‘वयम् अथवा अस्मद्-राष्ट्र-लक्षणम्’** (We or Our Nationhood Defined) इत्याख्यं पुस्तकं नागपुरे चैत्र-शुद्ध-प्रतिपद्-दिने एव प्रकाशितम् अभवत्। ग्रन्थेऽस्मिन् काँग्रेस-संस्थायाः यवन-तुष्टिकरण-
नीतिः विशदीकृता वर्तते। गुरुजिना तत्र लिखितम्—**“हिन्दुस्थाने निवसतां परकीयानां पुरतः द्वौ एव मार्गौविद्येते :१, राष्ट्रिय-संस्कृतिम् अङगीकृत्य राष्ट्रेण सह एकरूपता संपादनीया; अथवा २. राष्ट्रस्य अनुमतिंप्राप्य तदिच्छानुसारं देशे निवसनीयम्; यदा तु राष्ट्रस्य इच्छा न स्यात्, तदा देशं विहाय बहिर्देशम् अपगन्तव्यम्। अल्पसंख्य-समाजविषयकःअयमेव निर्दोषःदृष्टिकोणः, एतदेव तत्-प्रश्नस्य न्याय्यं समाधानम्। एतां दृष्टिम् अवष्टभ्य देशेऽस्मिन् राष्ट्र-जीवनं सुस्थिरं शान्तिपूर्णं च स्यात्। एकस्य राज्यस्य अन्तर्भागे भिन्न-राज्य-निर्मितिः भीषण-रोगवत् सर्वथा भयावहा। तस्मात् राष्ट्र-रक्षणस्य अयमेकः एव****न्याय्यः उपायः, न अन्यः”**इति।
पुस्तकस्यास्य दीर्घ-प्रस्तावनायां लोकनायकःश्रीअणे-महाशयः लिखति–“श्री. गोलवलकर-लिखितम् इदं पुस्तकं खलु म. गान्धी-महाभागस्य ‘स्वेच्छाचार-अनुज्ञा’ (Blank Cheque)-नीतेः स्वाभाविकम्, अनिवार्यम्, अत्यावश्यकं च उत्तरम् अस्ति” इति। श्री गुरुजिना स्वे ग्रन्थे सूचितः उपायः तस्मिन् काले काँग्रेस-धुरीणैः दुर्लक्षितः। परिणामतः हिदुस्थाने पाकिस्तान-राज्य-निर्मितिः समभवत् यस्याः कटुतमानि फलानि अद्यापि सोढव्यानि सन्ति।
** ‘वयम्’** नामकं प्रबन्धं **हिन्दु-राष्ट्र-रूपिण्यैमातृ-देवतायैसमर्पयतः**श्री. गुरुजि-महाशयस्य इतःपरं ‘हिन्दुराष्ट्रम् एव उपास्य-दैवतम्’ इति निर्दिशन्ती राष्ट्रभक्तिः निःशङ्कंप्रकटीभूता।
पुनश्च १९३९ हायनस्य मे-मासे, नागपूर-अधिकारी-शिक्षणवर्गस्य सर्वाधिकारित्वे नियुक्तः श्री गुरुजिः तस्य वर्गस्य संचालनम् अत्युत्कृष्ट-रीत्या अकरोत्।
सिन्दी-शिबिरानन्तरं, १७-६-१९३९ दिने ‘सरस्वती-सिनेटोन’ निर्मितस्य**‘भगवा झेण्डा’-नामकस्य चित्रपटस्य उद्घाटनार्थं डॉ.**हेडगेवार महाशयः पुण्य-नगरं गतः तदा गुरुजिरपि तच्छायेव तम् अन्वगच्छत्। तदानीं तत्रस्थितानां संघ-कार्य-कर्तॄणां मेलापके डॉ. महाशयेन
गुरुजिः सम्यक् परिचायितः; तथैव तस्य हिन्दी-भाषा-प्रभुत्वस्य प्रशंसा कृता। ‘अधुना श्रीगुरुजिः युष्मभ्यं द्वित्राः कथाः हिन्दी-भाषायामेव कथयिष्यति’ इति डॉक्टर-महाशयस्य सूचनाम् अनु गुरुजिःहिन्दीभाषायां कथाम् अकथयत्। अस्मिन् अवसरे, टिलक-स्मारक-मन्दिरे, डॉ. हेडगेवार-महाशयस्य उपस्थित्यां गुरुजिना ‘सरसंघचालक’ इति विषयम् अधिकृत्य भावोत्कटं भाषणम् कृतम्। तत्र डॉ. महाशयेन अपि उद्बोधने निर्दिष्टम् यत् “अतः परं न कोऽपि बहिःस्थः संघ-नाशं कर्तुं शक्नुयात्। तेन हेतुना कश्चित् प्रयतेत चेत्, तप्ते अयोगोलके मुष्टिप्रहारं कुर्वाणः यत् सुखम् अनुभवति तदेव सः अनुभवेत् “ इति।
रा. स्व. संघस्य अनुशासनं निस्तुलं, प्रशंसनीयम्, अनुकरणीयं च वर्तते इति निदर्शयन् एकः तदानींतनः प्रसङ्गः अत्र निर्देशार्हः। २०-६-३९ दिने, प्रातः ६ वादने, प. पू. सरसंघचालकःपुणे-नगर-संघचालकं श्री. विनायकराव आपटे-महाशयम् आज्ञापयत्—‘८ वादने अत्रस्थाः सर्वे स्वयंसेवकाः शिवाजी-मन्दिर-संघस्थाने समागच्छन्तु’ इति। ‘यथाऽऽज्ञापयति पूज्यः’ इति निवेद्य संघचालकःकार्यवाहम्, सः सर्वान् शिक्षकान्, ते गणनायकान् गणनायकाः अपि गणस्थान् सर्वस्वयंसेवकान् तम् आदेशम् अवहन्। नियत-समये अष्टवादने नवशतमिताः (९००) स्वयंसेवकाः निर्दिष्टे स्थले समुपस्थिताः। अहो अनुशासनम् !
देवलाली-ग्रामे डॉ. हेडगेवारस्य शुश्रूषा—
तदनन्तरं सप्ताहमात्रं विश्रान्ति-लाभ-हेतुना डॉ. महाशयः नासिक नगर-समीपे **देवलाली-**ग्रामं गुरुजिना सहैब प्रयातः। हन्त ! तद्विरहम् असहमानःज्वरः अपि तमनु देवलालीम् अभ्युपेतः। ततः संघ-कार्यनिमित्तं नासिक-क्षेत्रम् उपेतः डॉक्टरःडबल-न्युमोनियाभिहतः संजातः। तम् अत्यवस्थं दृष्ट्वा चिकित्सकःडॉ. दामले’ डॉ. हेडगेवारस्य आप्तेभ्यः तत्-प्रकृति-वृत्तं शीघ्रं निवेद्यताम्’ इति श्रीगुरुजि सूचितवान्। तदा ‘वयं तस्य आप्ता एव; चिन्ता न कार्या’ इति सः तम् चिकित्सकम् समाश्वासयत्। तदानीं गुरुजिः नक्तंदिवं डॉ. हेडगेवारस्य पार्श्वे एव न्यवसत्। तस्मै औषध-दानम्, तत्पृष्ठ-संवाहनम्, तद्-वेश-परिवर्तनम् इत्यादिकं सर्वमपि कार्यजातं गुरुजिःस्वयं तत्परतया विहितवान्।
तत्-शुश्रूषापरः स क्वचित् होरामात्रमपि निद्रां न लेभे। डॉ. महाशयं प्रति आगतानां पत्राणाम् उत्तर-लेखनम्, तेषां पत्रालये निक्षेपणम् इत्यपि गुरुजिः एव अकरोत्। अनया रीत्या मासद्वय-पर्यन्तं श्रीगुरुजिः शुश्रूः इव डॉक्टर महाशयस्य शुश्रूषां विहितवान्। बलवद् अस्वस्थः डॉ. महाशयः वात-प्रकोपात् स्वापे यत् प्रालषत् तदपि संघकार्य-विषयकम् एव। भविष्यत्काले सरसंघचालक-पदाधिरूढः श्रीगुरुजिःअवोचत्—‘मनुष्यस्वभाव-परीक्षणे अहं स्वभावतः सूक्ष्म-दृष्टिः। डॉ. हेडगेवार-महाशयः केवलं भिन्न-रीत्या कार्यं कुर्वाणः अस्ति एकःसामान्यः लोकनेता इति प्रारम्भे मम मतिः। परन्तु देवलाली-ग्रामे पञ्चदश-दिनावधि निरन्तरसहवास-लाभात् मया सम्यग् अनुभूतं यत्आपाततः प्राकृतजनवत् दृश्यमानः असौलोक-धुरंधरः वस्तुतः असामान्यः एव’ इति।
डॉ. हेडगेवार-महाशयः ७-८-३९ दिने देवलालीतःनागपुरं प्रत्यागतः। श्रीगुरुजि-सदृशं लोकप्रियं निःस्वार्थं च युवकोत्तमं सर्वथा संघमयं कर्तुमुत्सुकस्य आद्य-सरसंघ-चालकस्य मनीषा अधुना पूर्णेव संजाता। ‘केनापि पुरुषोत्तमेन समारब्धं किमपि महत्कार्यं तस्मिन् दिवं गते, तत्तुल्य-प्रतिभा-निष्ठा-कर्तृत्व-त्यागशीलता-प्रभृति-गुणोपेतस्य समर्थ-सहकारिणः अभावात् शनैः शनैः निष्प्रभं भूत्वा विनश्यति’ इति सार्वत्रिकः अनुभवःडॉ. महाशयस्य सुविज्ञातः आसीत्। अत एव‚ समाप्त-कल्पं निजमायुः समालोच्य, आत्मनः समान-शीलं श्रीगोलवलकर-गुरुजिं समासाद्य सः आयत्यां संघ-कार्य-सातत्य-विषये वीतचिन्तः संजातः।
सरकार्यवाह-पदे श्रीगुरुजिः—
नागपुरे १३-८-३९ वासरे, गुरु-पूर्णिमा-समारम्भे गुरु-पूजनावसरे, डॉ. हेडगेवारमहाशयः श्रीगुरुजिं संघस्य सर-कार्यवाह-पदे नियोजितवान्। एतया नियुक्त्या सर-संघ-चालकेन संघस्य कार्य-भारं निज-शिरस्तः गुरुजि-स्कन्धे संक्रामयितुं शुभारम्भः कृतः।
दिवसानुदिवसं प. पू. डॉ. हेडगेवारस्य क्षीणतरां प्रकृतिम् आलोक्य कुत्रापि विश्रान्त्यर्थं गन्तुं सर्वे तं साग्रहं वारंवारं विज्ञापयन्ति स्म। बिहारप्रान्ते ‘राजगीर’-स्थाने पादोनमासम् उषित्वा अर्धाङग-रोग-मुक्तः ‘महाराष्ट्र’-नाम्नः नियत-कालिकस्य संपादकःश्री. गोपालराव ओगले
डॉ. महाशयाय स्वानुभवं निवेद्य तं राजगीरं गन्तुं विज्ञापितवान्। तदा बलाद् इव नियोजितः डॉ. महाशयःनागपुरात् ३१-१-४० दिने प्रस्थाय श्री. अप्पाजी जोशी-सहितः राजगिरम् प्राप्तः।
मध्येमार्गं पाटणा-नगरे वार्तालापावसरे ‘राष्ट्र’-विषयम् अधिकृत्य डॉ. महाशयेन मौलिक-विचारः समुपस्थापितः। तद्यथा—‘यः स्वदेशभूमिं मातरं मत्वा भक्त्या तत्सेवापरः स राष्ट्रिकः; यस्तु तां मातरं न गणयति, किन्तु भोगभूमि मत्वा आक्रमक-वृत्त्या तत्र निवसति स अराष्ट्रिकः’ इति। संघ-कार्यस्य विशेषं निर्दिशता तेन एवमपि निवेदितं यत् हिन्दुस्थाने विविध-कला-विद्यालयाः बहवः सन्ति; परं जीवन-कला-विद्यालयोनास्ति एकोऽपि। रा. स्व. संघस्य निर्मितिः एतदर्थम् एव। संघरूपे महाविद्यालये एव राष्ट्रिय-वृत्ति-रूपा जीवन-कला अध्याप्यते।’ संघे एव भगवद्गीतोक्तः राष्ट्र-सेवा-रूपः निष्काम-कर्मयोगः आचरितुं शिक्ष्यते इति सांप्रतं सर्वज्ञातमेव।
डॉ. हेडगेवारस्य राजगिरे विश्रामः—
राजगिरं प्राप्तः डॉ. हेडगेवार-महाशयः प्रत्यहं प्रातः ४-३० वादने उष्णोदक-स्नानार्थं तप्त-कुण्डं गच्छति स्म। पञ्चभिः गिरिभिः परिक्षिप्तायाः राजगीर-राजधान्याः भग्नावशेषाः पाटणातः ३० कोशं दूरे विद्यन्ते। वैभारगिरेः उपत्यकायां सप्त तप्त-कुण्डानि सन्ति। आरोग्यप्राप्त्यर्थं डॉ. महाशयः तत्रैव प्रत्यहं स्नानम् आचरितवान्। राजगिरेऽपि तस्य संघ-कार्यम् अखण्डितं प्राचलत्। १५-४-४० पर्यन्तं तत्र उषित्वा, एप्रिल २० दिनाङ्के स नागपुरं प्रत्यायातः।
मम वारः? हेडगेवारः—
अत्रान्तरे श्रीगुरुजिना स्वजीवन-ध्येयं किं निश्चितम् आसीत् इति सूचयन् एकः प्रसङ्ग-विशेषः अत्र उल्लेखनार्हः। एकदा ‘कः कस्य उपवासदिवसः’ इति विषये वार्तालापःप्राचलत्। अहं दत्तोपासकः, अतः मम गुरुवारः इति एकः अवदत्। मारुति-भक्तस्य मे शनिवारः इति अपरः
आवेदयत्। मम तावत् सोमवारः इति अन्यः अगदत्। गुरुजिरपि सहसा अभाषत ‘अस्ति खलु ममाप्येको वारः’ इति। सकौतुकाः सर्वे तम् अपृच्छन्, ‘अयि कः?’ ‘हेडगेवारः’ इति सस्मितं तदुत्तरं श्रुत्वा सर्व प्रमुदिताः अभवन्।
म. प्रा. मेलापके स्वा. सावरकरः—
मे मासे पुनश्च डॉ. महाशयः ‘ओ. टी. सी.’ (Officers’ Training Camp) निमित्तं पुणे-नगरं गतः। तत्र प्रथममेव दैनंदिनी प्रार्थना, शारीरिक-शिक्षणादेशाः च संस्कृत-भाषायाम् उपयोजिताः। तथा च तत्र दिन-द्वय-मितो महाराष्ट्र-प्रान्त-कार्यकर्तॄणां मेलापकःआसीत्। तन्निमितं सर-कार्यवाहः गुरुजिः अपि तत्र प्राप्तः। मेलापकस्य द्वितीये दिने, अकस्मात् स्वातन्त्र्यवीर-सावरकर-महाशयः अपि समागतः। डॉ. हेडगेवार-महाशयस्य आग्रहवशात् स्वा. वीर-सावरकरस्य तत्र लघुतरं स्फूर्तिप्रदं च भाषणम् अभवत्। सोऽब्रवीत् “सांप्रतम् अस्मद्हिन्दुराष्ट्रस्य अतीव दीनावस्था वर्तते। अस्याम् अवस्थायां रा. स्व. संघो हि एकमेव आशास्थानम्। सांप्रतं संघः यत् संघटन-कार्यं कुरुते, तदेव अस्मिन् जगति सर्वैः महा-राष्ट्रैः कृतपूर्वम्। निर्बलावस्थातः सबलतां गन्तुम् संघटनमेव उपायः। अतः युष्माकं आदरणीये धुरन्धरे डॉक्टरमहाशये नितरां विश्वसित। अस्माभिः स्वदेश-हितार्थम् अनेकानि आन्दोलनानि कृतानि। परम् एकमपि संपूर्णतया यशोयुतम् नाभवत्। अतः पुनरपि साग्रहं निवेदयामि यत् इयमेव एका अद्वितीया संघटना हिन्दुराष्ट्रम् उद्धारयिष्यति इति मे मतमुत्तमम्।”
तदनन्तरं तस्मिन् प्रान्तिक-मेलापके श्रीगुरुजिना अपि किञ्चित् प्रोत्साहनपरं भाषणं कृतम्। सः अब्रवीत्—“अस्मत्कार्यम् नाद्यापि संतोषावहम्। तथैव प्रगति-पथे सन्तोष-वृत्तिः कामम् अवरोधकरा। असंतोषः एव प्रगति साधयति। स एव सर्वान् उद्यमाय प्रेरयति। तस्मात् संघटन-कार्येऽस्मिन् कदापि सन्तुष्टेन न भाव्यम्”।
आद्य-सरसंघचालकस्य उपदेशः—
अन्ते च डॉ. हेडगेवार-महाशयेन उपसंहारात्मके भाषणे उपदिष्टम्“अस्मत्-संघ-कार्य-कर्तृभिः सर्वदा अतीव स्नेहपूर्वकं व्यवहर्तव्यम्
सांप्रतं ये काँग्रेस-सोशालिस्ट पार्टी-हिन्दुसभा इत्यादि-पक्षेषु सन्ति तेऽपि अस्मदीया एव, न पराः, नैव रिपवः। अतः तैः सह विशुद्धान्तःकरणेन व्यवहरत। तान् मा वञ्चयध्वम्। सन्तु नाम पक्षभेदाः‚ परं व्यवहारे मित्रभावेन सर्वेषां संगमने न कोऽपि प्रत्यवायः। अस्माकं कार्यं न केवलम् अस्मदीयानां कृते, किन्तु विरोधकानां कृतेऽपि करणीयम्। तेऽपि स्वीयभावं नेतव्याः। अस्माकं ध्वजः, विचार-परणिश्च इत्येतत् सांप्रतं तेषाम् असंमतम् अस्तु नाम। तथापि तेभ्यः मा द्रुह्यत। स्नेहात् ऋते प्रेम्णः ऋते मार्गान्तरं नैव विद्यते। सर्वेषु स्नेहम् आदरं च सततं विवर्धयत। तेनैव कार्यवृद्धिः स्यात्। नगरेषु लोकसंख्यायाः ३%, ग्रामेषु १% युवक-स्वयंसेवकानां संख्या अत्यावश्यका। तथापि अस्मत्-कार्यं न कदापि प्रतिक्रियात्मकम्। वयम् अत्याचार-हेतुना, युद्ध-हेतुना वा संघटनं न कुर्महे। संघटनम् आपत्-प्रतिकार-हेतुना न कर्तव्यम्; किन्तु आपत्-प्रतिबाध-हेतुना (Prevention)। संकटानाम् अनुद्भवार्थं प्रयतध्वम्।
एवं पुण्यपत्तने अधिकारि-शिक्षण-वर्ग, प्रान्तिक-मेलापकं च समाप्य डॉ. हेडगेवार-महाशयः नागपुरं प्रत्यागतः। परं तत्र आगत-मात्रः सः बलवद् अस्वस्थताम् अनुभवति स्म। तस्मै चिकित्सकैः दत्तानि सर्वाण्यैषधानि व्यर्थानि अभवन्। नागपुरे अ. शि. वर्गे २ जून-दिनाङ्के ‘श्रीशिव-छत्रपतेः जयसिंहाय पत्रम्’ इति विषयम् अधिकृत्य गुरुजि गोलवलकरस्य बौद्धिक-वर्गः आसीत्। ज्वरार्तः अपि डॉ. महाशयः श्रोतुम् उपस्थितः। श्रीगुरुजि-प्रतिपादित-विशुद्ध-विचारधारया, कार्यप्रवर्तकेन ओजस्विना निवेदनेन च सः परं संतोषम् अनुभूतवान्।
आद्य-सरसंघचालकस्य अन्तिमं भाषणम्—
९ जून १९४०। नागपुरे अ. शि. वर्गः समाप्तः। नानादिग्भ्यः १४०० स्वयंसेवकाः समागताः आसन्। तेषु ६०० सीमाप्रान्त, पंजाब, सिन्ध, उत्तरप्रदेश, बिहार, बंगाल, मद्रास, कर्णाटक, गुजरात, महाराष्ट्र इत्येतेभ्यः विभागेभ्यः तत्र आयाताः। १९२५ ख्रिस्ताब्दे प. पू. डॉ. हेडगेवारेण यत् शुभं कार्यं समारब्धम् आसीत्, तस्य केवलं १५ वर्षेषु एतावान् विस्तारः संजातः। प्रगतिरियं संघ-कार्य सरण्याः यशस्वितायाः निर्दोषतायाश्च प्रत्यक्षं प्रमाणम् आसीत्। तदानीं तान् सर्वान् स्वयंसेवक-
बन्धून् आप्रष्टुम् आद्य-सरसंघचालकेन समासतः कृतम् उद्बोधनमेव तस्य अन्तिमं प्र-वचनम्। स प्रोवाच—
** “माननीय सर्वाधिकारी-महाशय, प्रान्त-संघचालक, अधिकारिवर्ग, स्वयंसेवक-बन्धवश्च! जानन्ति एव भवन्तः यद् व्यतीतानि २४ दिनानि अहं रुग्ण-शय्यायां ज्वर-जर्जरितोऽस्मि। संघ-कार्य दृष्ट्या वर्षमिदं महाभाग्यशालि अस्ति। अद्यात्र मत्पुरतः हिन्दु-राष्ट्रस्य लघुतरं रूपं साक्षात्करोमि। पुणे-अ. शि. वर्गे, अहं १५ दिनानि न्यवसम्। तत्र स्वयंसेवकेषु प्रत्येकस्य परिचयः मया अधिगतः। अत्रापि तथा कर्तुं शक्नुयाम् इत्यासीत् मद्-विचारः। किन्तु अत्राहं लेशमात्रमपि भवत्सेवां कर्तुम् असमर्थः। अत एव भवतां सर्वेषां दर्शनार्थम् अद्य अत्र समुपस्थितोऽस्मि।…..**
** संघकार्यं न केवलं स्वयंसेवकानां कृते, किन्तु संघे अनागतानां सर्वेषाम् कृते करणीयम्। हिन्दु-जातेः परमं श्रेयः अनेन संघटनेन एव संप्राप्स्यते। एतत् संहतिकरणम् एव संघस्य साध्यम्। मार्गमेनम् अनुसृत्य एव आसेतु-हिमाचलं निखिलं हिन्दुस्थानं संघमयं भविष्यति। यदा स सुवर्ण-वासरः उदेष्यति, तदानीं जगत्यस्मिन् न कोऽपि हिन्दुराष्ट्रं धर्षयितुं प्रभवेत्। वयं परेषु आक्रमणार्थं न संनद्धाः। परं न कोऽपि अस्मासु आक्रमितुं धृष्णुयात् इत्यर्थम् अस्माभिः सर्वदा सर्वभावेन च दक्षतया स्थातव्यम्। संघकार्यं सर्वात्मना यावज्जीवं कर्तुम् अद्यैव प्रतिज्ञां कुरुत। संघ-कार्यम् एव मे जीवित-कार्यम् इति महामन्त्रं स्वे स्वे अन्तःकरणे दृढं विलिख्य एव भवन्तः स्व-स्व-स्थानं गच्छेयुः इति दृढविश्वासेन सर्वानपि भवतः आपृच्छे। नमो नमः।”**
एवं सर्वान् आमन्त्र्य डॉ. हेडगेवार-महाशयः निजावासं गतः। तस्य प्रकृतिस्तु द्रुततरं क्षीणतरा संजाता। क्ष-किरण-निरीक्षणार्थं सः जून १५ दिने ‘मेयो रुग्णालयं’प्रापितः। तं शुश्रूषुः गुरुजिरपि अहर्निशं तत्रैवासीत्। २० तमे दिनाङ्के तस्य रक्तभारः अतीव संवृद्धः। अधुना पृष्ठवंशात् जलनिःसारणमेव (Lumber-puncture) आवश्यकम्‚तेन विना नान्यः उपायः इति सर्वैः भिषग्वरैः सर्वानुमत्या निश्चितम्। तदाकर्ण्य ‘समाप्तप्रायः मे जीवितावधिः’ इति विज्ञाय श्रीगुरुजिम्
अन्यांश्च सुहृदः समाहूय, डॉक्टर-महाशयः गुरुजिम् उवाच ‘आदौ संघकार्य-भारं तावद् भवान् वोढुमर्हति, तदनन्तरं यथा भवताम् इष्टं तथा शरीरमिदं चिकित्स्यताम्’ इति। ततः ‘आर्य, अलमीदृशम् उक्त्वा, अचिराद् भवान् पूर्ववत् स्वस्थो भविष्यति’ इति गुरुजिना उक्तः सः प्रहसन् पुनरब्रवीत्— ‘तथास्तु‚ परं मया यत् कथितं तन्न विस्मर्तव्यम्’।
आद्य-सरसंघचालकस्य देहावसानम्—
भिषग्भिः ‘लम्बर-पङक्चरं’ कृतम्। वेदनानाम् असह्यत्वात् डॉ. हेडगेवार-महाशयःमूर्च्छितः अभवत्। तस्यामेव अवस्थायां ज्येष्ठे वदि २, २१-६-१९४० दिनाङ्के प. पू. आद्य-सर-संघचालकः पञ्चत्वं गतः।
दिवंगतेभ्यः डॉ. हेडगेवार-महाशयेभ्यः स्वीयं शब्दरूपं तिलतोयाञ्जतिंसमर्पयन् वीर सावरकर-महाशयः प्रोवाच—“डॉ. हेडगेवार महोदयेन निजमन्तःकरणं विलाय्य हिन्दुसमाजे चैतन्यं प्रपूरितम्। ‘जातस्य हि ध्रुवो मृत्युः’इति नियममनु स कालधर्मं प्राप्तवान्। परं वयं सर्वे संमिल्य प्रयत्न-पराकाष्ठां कुर्मः येन डॉ. हेडगेवार-महाशयः संघश्च उभौ अपि चिरायू स्याताम्’ इति। देवतास्वरूपःभाई परमानन्दः, डॉ. श्यामाप्रसाद मुखर्जी इत्यादि-नरश्रेष्ठैः असंख्यैः सुहृद्भिश्चशोकसंदेशाः प्रेषिताः आसन्। तेभ्यः तदानीं सर-कार्यवाहः श्रीगुरुजिरेव उत्तराणि प्रैषयत्। तेषु पत्रेषु तेन लिखितम्—‘समयेऽस्मिन् अस्मद्हृदये पर्वत-प्राय-दुःखे विद्यमानेऽपि तन्निःसार्य, प्रतिक्षणं धैर्यमवलम्ब्य, सर्वैः कार्यप्रवणैर् भवितव्यम्। अहर्निशं’ संघ संघेति’ जपता परम-पूज्य डॉक्टर-हेडगेवार-महाशयेन राष्ट्रोद्धार-स्थण्डिले आत्माहुतिर् दत्ता। तमसा अभिव्याप्तेषु सर्वदिक्षु, अस्य पुरुषोत्तमस्य जीवन-सूर्यः अस्मान् मार्गं दर्शयितुं प्रकाशते एव। तस्य अन्तिमेच्छायाः परिपूर्तिस्तु सर्वथा अस्मदधीना एव। परम पूज्य-सर-संघ-चालकस्य समुचितं चिर-स्मारकं संघम् इमं परोन्नतं विधाय एव भवेत्। तस्मिन् जीवति सति यन्न सिद्धम् तत् तस्य पुण्य-प्रभावाद् अवश्यमेव संसिद्धतां यास्यति। वयं सर्वे स्वकर्मणैव तम् अभ्यर्चयामः। तस्य पुण्य-प्रभावात् रा. स्व. संघः इतः उत्तरम् अपि प्रचलेत्, नित्यं वर्धमानः यशोयुतश्च भूयात्’ इति।
१०. द्वितीयः सरसंघचालकः
प. पू. डॉ. हेडगेवारस्य निधनोत्तरं दशमेऽहनि नागपुरं समागतैः प्रमुखैःसंघ-कार्य-कर्तृभिःआद्य-सर-संघचालकस्य अन्तिमेच्छाम् आदृत्य ‘श्रीगोलवलकर-गुरुजिना एव सर-संघ-चालक-पदं स्वीकर्तव्यम्’ इति सर्वानुमत्या निश्चितम्।
द्वितीय-सरसंघचालकस्य प्रथमं भाषणम्—
त्रयोदशे अहनि, ३-७-१९४० दिनाङ्के, सर्वोच्च-पदे अधिरूढः श्रीगुरुजिःरेशिम-बाग-संघस्थाने समुपस्थितान् सर्वान् स्वयंसेवक-बन्धून् उद्दिश्य सविनयम् अब्रवीत्—“प. पू. डॉक्टर-महाशयैः सर-संघ-चालकस्य अनल्पं दायित्वम् जनेऽस्मिन् विन्यस्तमस्ति। परम् अस्ति एतत् सिंहासनं विक्रमादित्यस्य। तत्र स्थापितः यः कश्चिद् गोपालकोऽपि समीचीनमेव न्यायदानं कुर्यात्। परम-पूज्यः डॉक्टरमहाशयःमादृशस्य प्राकृतस्य मुखात् तदेव वाचयेत् यत् सर्वथा समुचितं स्यात्।
** “मातुः वात्सल्यम्‚ पितुः दायित्वम् गुरोश्च उपदेशःइति त्रितयस्य डॉ. हेडगेवार-महोदये समवायः आसीत्। ‘शिवो भूत्वा शिवं यजेत्’ इत्यस्ति अस्मद्-धर्मोपदेशस्य विशेषः। यतःयस्य पूजा करणीया तद्वद् भवितुं यतनीयम् इत्येव यथार्था पूजा।परम-पूजनीयेन डॉ. हेडगेवारेण अस्मासु न्यासीकृतः संघः प्रखरेण आक्षेप-प्रभञ्जनेन अपि उन्मूलित नैव भविष्यति। संघो नाम अस्ति एकःअभेद्यः दुर्गः। तस्य तटे ये चञ्चुक्षतान् कर्तुं धर्षयेयुः तेषां चञ्चवः शतशः छिन्न-विच्छिन्ना भवेयुः। एतावान् बलिष्ठः द्रढिष्ठश्च प्राकारः डॉक्टर-महाशयेन निर्मितोऽस्ति।”**
२१ जुलै १९४०। स्वर्यातस्य प. पू. हेडगेवारस्य मासिक-श्राद्धदिनम्। तस्मिन् अवसरे श्रीगुरुजिना स्पष्टीकृतम् यत् “संघः किल व्यक्ति-पूजकः, अन्धश्रद्धः गतानुगतिकश्च इत्यादयः आक्षेपाः सर्वथा निराधाराः। संघे एतादृशानि आक्रमणानि भवन्तु नाम। यथा तु पातितोऽपि कराघातैर् उत्पतत्येव कन्दुकः तथा वयं परेषाम्-आक्रमणेन आहताः अपि
अधिकोत्साहेन उत्पतिष्यामः। अस्मत्-कार्य-शक्तिः प्रतिदिनं विवर्धमाना, आपत्यां निखिलं राष्ट्रं निःसंशयं व्याप्नुयात्” इति। नूतन-सर-संघ-चालकस्य अनेन उद्घोषेण तस्य प्रगाढः आत्मविश्वासः एव व्यक्ततां गतः।
१९४० ख्रिस्ताब्दं यावत् संघ-कार्येण महाराष्ट्र-वन्हाड-मध्यप्रदेशपंजाब इति चतुष्टय-मात्रं व्याप्तमासीत्। अन्यत्र तु तत् प्रारब्धमात्रम्। काश्मीर-आसाम-उत्कलादिषु विभागेषु संघस्य नामापि जनैः न श्रुतम्। सर-संघ-चालक-पद-ग्रहणानन्तरं श्रीगुरुजिना कृते प्रथमे प्रवासे, वर्धानगरे तत्रस्थैःसंघ-स्वयंसेवकैः स्वीय सामयिक-हस्तलिखितार्थं ‘संदेशं’ दातुं स याचितः। तत्क्षणमेव तेन शब्दाङकितः संदेशः सर्वदा संस्मरणीय एव श्रीगुरुजिना लिखितम्—‘क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे’ इति चिरन्तनं तत्त्वं येन पुनः प्रस्थापितं तस्य अद्वितीयस्य हिंदुराष्ट्र संघटकस्य वयम् अनुयायिनः। अस्मदीयः संघः नास्ति बाह्य-साधनापेक्षः। अचला श्रद्धा, ध्येये स्थिरा दृष्टिः, अस्मदध्वर्योश्च महनीया स्मृतिः इति त्रितयेन निरन्तरं प्रज्वालितं राष्ट्रभक्ति-रूपम् अमरज्योतिः संघ-कार्यद्वारा हिन्दु-राष्ट्रं विश्व-वन्दितं कारयेत्।’
संघ-कार्य-परिभ्रमणम्—
श्रीगुरुजिना संघ-कार्य-प्रसारार्थं भारते सर्वत्र परिभ्रमणं समारब्धम्। अतिथिवत् न कुत्रापि एक-दिनाधिकं स्थातव्यम् इति तन्नियमः। प्रतिमासं प्रायः प्रान्त-द्वये प्रमुख-शाखा-कार्यं स समीक्षते स्म। व्यक्तिगतमेलनं, मेलापकः, उत्सवः, गोष्ठी, चर्चा, शिबिरं, वर्गः इत्यादि विविधकार्यक्रम-द्वारा श्रीगुरुजिः सहस्रशः युवकेभ्यः संघ-कार्यस्य आवश्यकताम् अनुभावयति स्म, तांश्च तत्कृते आत्म-समर्पणं कर्तुं प्रेरयति स्म। एवं श्रीगुरुजिना प्रचोदितधियःकार्यकर्तारः न केवलं निखिल-भारतस्य नगरग्रामेषु, परं खेट-खर्वटेषु अनि संघ शाखा-जालम् अनुसंतनितुम् बद्ध-परिकरा अभवन्। तेन प्रतिवर्षं संघकार्यम् अधिकाधिकं विशालम्, ओजोयुतम्, अनुशासन-बद्धं च शनैः शनैः संजातम्। श्रीगुरुजेः संजीवकान्विचारात् श्रुत्वा १९४०-४१ वर्षे‚ महायुद्ध-जनित-विषमावस्थायामपि, स्वयंसेवकाः सोत्साहं कार्यप्रवणाः अभवन्।
सर्वकारस्य संघ-संचलन-प्रतिबन्धः—
१९४० ख्रिस्ताब्दे, आङ्ग्ल-सर्वकारेण संघस्य गणवेश-परिधानं संचलनं च प्रतिबद्धम् आसीत्। तथापि अस्य निर्बन्धस्य सर्व कारापेक्षितः परिणामः नैवाभवत्। यतः श्रीगुरुजिना सत्वरं संदेशः प्रसारितः यत् ‘सात्त्विक-ध्येयनिष्ठया समाचरितेन येन केनापि कार्येण अनुशासनं निर्मीयते। साधनानाम् अनेकता न विस्मर्तव्या’ इति। ‘का हानिः शतपद्याः स्यात् पादस्यैकस्य भञ्जनात्’ इति सत्यमेव। विषयमेनम् अधिकृत्य, श्रीगुरुजिना, अन्यत्रापि स्पष्टीकृतं यत्’ निष्ठया समाचरितः दण्ड-हूतुतू-प्रभृति-सामान्यःकार्यक्रमः एव अस्मत्-सफलतायाः रहस्यम्’ इति। नूनं तज्जन्य-शक्त्या एव देश-विभाजनावसरे पञ्जाब-प्रान्ते लक्षशः जनानां प्राणाः परित्राताः, शीलं सुरक्षितं, धन-मानयोश्च संरक्षणं विहितम्।
युरोपीय-महायुद्धे जपान-राष्ट्रेण मलाया जितम्, सिंगापुरं जितम्, ब्रह्मदेशोऽपि आक्रान्तः, तथा च हिन्दुस्थानस्य सीमायां शतघ्नी-दलं प्रस्थापितम्। प्रादेश-मात्रस्य जपान-राष्ट्रस्य अनेन अपूर्व-पराक्रमेण प्रधानामात्यस्य चर्चिल-महाशयस्य साम्राज्य-मदोऽपि द्रवीभूतः। परिणामतः औपनिवेशिक स्वराज्य योजनामादाय सर स्टॅफर्ड, क्रिप्समहोदयः दिल्ली राजधानीं समागतः। तेन काँग्रेस-मुस्लिम लीग-हिन्दुमहासभादि-शिष्टमण्डलैः माण्डलिक-मण्डल-सदस्यैश्च सह चर्चा प्रारब्धा। ‘आङ्ग्लशासनस्य नाम रिपोः आपत्कालः एव अस्माकं सुयोगः’ इति कामं सत्यम्। परन्तु अस्मिन् सुयोगावसरेऽपि देशे संघ शक्तिर अपर्याप्ता इति आलोक्य श्रीगुरुजिः भृशं व्यथित-मानसः संजातः। ‘कार्यं वा साधयेत्, देहं वा पातयेत्’ इति धियाप्रचण्डं संघ-कार्यं शीघ्रातिशीघ्रं निर्मातुं स दिवानिशं संचरति स्म।
संघस्य कार्य-प्रचारक-योजना—
तदानीं यथावसरं कार्यं कुर्वाणाः बहवः स्वयंसेवका आसन्। परं, सर्वकालं सर्वात्मना कार्यं कुर्वतः स्वयंसेवकान् अन्तरेण प्रचण्डकार्यनिर्मितिःसर्वथा असम्भवा। अतः१९४२ ख्रिस्ताब्दे, वर्षप्रतिपदायां, नागपुरे उत्सवावसरे श्रीगुरुजिना उद्घोषितम्–‘वयं खलु भाग्यवन्तः यद् अस्मिन् आपत्काले वयं समुत्पन्नाः। आपत्कालःननु पर्वकालःएव।
राष्ट्रस्य इतिहासे‚प्रायः शतवर्षोत्तरम् आगच्छन् सुवर्णावसरः अस्मत्पुरतः स्वयमुपस्थितोऽस्ति। यदि समयेऽस्मिन् वयं सुप्ता एव अवतिष्ठामः‚तर्हि अस्मादृशाः भाग्यहीनाः वयमेव। वस्तुतः अधःपतितस्य राष्ट्रस्य पुनरुत्थानम् एकस्याम् एव पीढिकायां भवितुम् अर्हति। परं सप्तदश वर्षाणि यावत् अस्माभिः परिश्रमे कृते अपि कार्यं स्वल्पमेव संपन्नम्। अतः, वर्षमेकं निजं व्यक्तिगतं जीवनम् अपसार्य इदं संघकार्यरूपम् असिधारा-व्रतंस्वीकुरुत; एक-वर्षावधि संन्यासम् अङ्गीकुरुत; आत्मनः सर्वोऽपि समयः समग्रा शक्तिः, सर्वम् अवधानम् केवलं संघकार्याय समर्पयत।’ प. पू. सरसंघचालकस्य इदं मर्म-स्पृशम् आवाहनम् उररीकृत्य, प्रान्ते प्रान्ते युवानः स्वयंसेवकाः सर्वभावेन संघकार्याय बद्धकक्षाः बभूवुः। इत्थं संघस्य प्रचारक-योजना १९४२ तमे ख्रिस्तवर्षे कार्यान्विता बभूव।
मध्यभारते प्रचारार्थं कः नियोक्तव्यः इति विमर्शः प्राचलत्। ‘श्री. भय्याजी दाणीमहोदयः एव तत्र सुयोग्यः प्रचारकः; परं स तु कृत-दारपरिग्रहः अस्ति। तथापि प्रयतिष्ये’ इति निश्चित्य श्रीगुरुजिः भय्याजिना सह उमरेडं गतवान्। तत्र शाखा-समये समाप्ते, श्रीगुरुजिना भय्या-तातपादेभ्यः स्वविचारः निवेदितः। तेनापि सानन्दं संमतिः प्रदत्ता।‘अल्पकालं यावत् गृहस्थ-धर्मम् अपसार्य राष्ट्रधर्मं समाचरितुं प्रयास्यामि’ इति प्रियां पत्नीम् आमन्त्र्य श्रीभय्याजिः अपि सार्ध-द्विवर्षं यावद् मध्यभारते प्रभूतं प्रचारकार्यम् अकरोत्। एवं विविधप्रान्तेषु अपि नैष्ठिकाः प्रचारकाः नियोजिताः आसन्।
तथापि कार्यस्यास्य झटिति पारं गन्तुं न शक्यते इत्यालोच्य श्रीगुरुजिना एतदपि स्पष्टीकृतं यद् **अस्मिन् कार्ये कालमर्यादा नास्ति।**तत् तु आध्येय-सिद्धेः अथवा आमृत्योः करणीयम्। एतयोः यत् पूर्वं संभवेत् तावत्कालपर्यन्तम् आदरेण अनवरतं च कार्यं कर्तव्यमेव।
तदानीं स्वदेश-हित-संपादन-दृष्ट्या महायुद्धोद्भूता परिस्थितिः अस्मदर्थे दिने दिने अधिकतरम् अनुकूला समभवत्। परं दुर्दैववशाद् अस्मत्-सिंहासनाधिष्ठितं परकीय-सम्राजं ततः निष्कासयितुं राष्ट्रमिदं पर्याप्त-बलान्वितं नासीत्। हिंसाऽहिंसा-विषयकात् मतभेदात् काँग्रेस-
नेतृ-मण्डलेऽपि आन्दोलन-रीति-विषये ऐकमत्यं नासीत्। एवं गतेऽपि, अवसरेऽस्मिन् किमपि कर्तव्यमेव इति बुद्धया काँग्रेस-पक्षेण ‘निर्गच्छत भारतात्’ इति आन्दोलनं समुद्घोषितम्। तथाति यथावत्-नियन्त्रणेनविना तदवस्था छिन्न-सूत्र-पतङ्गवत् अनिश्चिता संजाता।
काँग्रेस-आन्दोलनम्ः’निर्गच्छत भारतात्’—
** ‘निर्गच्छत भारतात्’ इति आन्दोलने रा. स्व. संघस्य स्वयंसेवकाः अपि वैयक्तिक-रीत्या संमिलिताः** आसन्। परं संघः तस्मिन् आन्दोलने न संमिलितः यस्मात् ‘राजकीय-कार्यैः सह संघस्य संबन्धो नास्ति’ इति संघ-नीतिः आद्य-सर-संघचालकेन एव स्पष्टीकृता आसीत्। अन्यत् च, यदि संघः आन्दोलने संमिलितः स्यात्, तर्हि अपि यशोऽवाप्तिः अशक्या आसीत्। तथैव यदि आन्दोलनं निष्फलं स्यात्, तर्हि सर्वोऽपि समाजः निराशाग्रस्तः अभविष्यत्। इयम् अवस्था तावद् दुःखदा अहितकारिणी च स्यात्, इति सर्वं सम्यग् आलोच्य, या सकल-समाजस्य आधारभूता भवेत एतावतीं देशभक्तियुक्तां, हिन्दु-शक्ति-संभूताम्, अनुशासनबद्धां, स्वयंपूर्णां च संघटनां निर्मातुं श्रीगुरुजिना प्रयत्नानां पराकाष्ठा कृता। ततः १९४७ पर्यन्तं साधिता संघ-कार्य-प्रगतिः प्रचण्डा आसीत्। तदानीं कार्यप्रगति-मानं निर्देष्टुंश्रीगुरुजिः एकस्मिन् भाषणेऽवोचत्—‘प्रत्यहम् एकामेव संघशाखां निरीक्षे’ इति निश्चित्य समस्त-शाखा-निरीक्षणं प्रारभे चेत्, निखिलभारते विद्यमानानां सर्वांसां शाखानाम् अवलोकनार्थं न्यूनतो न्यूनं पञ्चदश वर्षाणि आवश्यकानि स्युः।’
संघटना प्रभाविनो कथं भवति?—
अपि च कां पद्धतिमनु संघ-कार्यकराः निर्मीयन्ते इत्यपि ज्ञातव्यम् अस्ति। राजकीय-संस्थायाः सदस्य-संख्यां वर्धयितुं या रीतिः प्रायः अवलम्ब्यते सा सर्वथा भिन्ना। संघे तावत् अनुरूपः स्वयंसेवकः प्रथमं व्रियते। ततः नित्यनैमित्तिक-कार्यसंस्कारैः स ध्येयनिष्ठः भवति। तथा च तस्य आचारः, चारित्र्य-विकासश्च शनैः शनैः साध्यते। अनुशासनसूत्रेणापि स निगडितो भवति। यदा कार्यकर्तॄणां ध्येयनिष्ठा दैनंदिनजीवन-व्यवहारे प्रतिबिम्बिता भवति, तदा संघटना प्रभाविनी भवति।
यदा स्वयंसेवकानां नैसर्गिक-वृत्तीःपरिपोष्य तासां कौशल्येन उदात्तीकरणं साध्यते, तदा संघटना प्रभावशालिनी भवति। यदा च सर्वे कार्यकर्तारःअनुशासन-सूत्र-ग्रथिताः भवन्ति तदैव संघटना प्रभविष्णुर्भवति।
लोक-संग्रहकरैः राष्ट्र-परायणैः संघ-कार्य-कर्तृभिः समाजे कथं व्यवहर्तव्यम् इत्येतन्निदर्शकानि शतशःपत्राण्यपि श्रीगुरुजिना लिखितानि वर्तन्ते। आचार-संहिता-रूपाणि एतानि पत्राणि अभ्यस्य नैकैः स्वयंसेवकैःआचार-तन्त्रम् आत्मसात्कृतम्।
‘दैनिकी शाखाः’ साधकतमं कारणम्—
तथापि आस्ताम् सर्वमिदम्। स्वयंसेवकानाम् उपरि सुसंस्कारकरणस्य मुख्यं साधनं तु संघस्य दैनंदिनः शाखा-कार्यक्रमः एव। अतः, साधनमिदं साधकतमं कर्तुं श्रीगुरुजिः सन्ततं सावधानः आसीत्। यत्र यत्र सः गच्छति स्म, तत्र तत्र निजं घटियन्त्रं तत्रत्यस्य मुख्य-शिक्षकस्य घटियन्त्रेण संवादकं कृत्वा नियतसमये शाखास्थानं गच्छति स्म। तत्र क्रियमाणेषु सर्वकार्येषु प्रत्येकेन सर्वदा सर्वभावेन च सहभागिना भवितव्यम् इति सः साग्रहं सर्वेभ्यः उपदिशति स्म। हुतुतुः क्रीडितव्यं चेत्, तद् वीक्षितुं समन्ततः प्रेक्षकाः यथा समाकृष्टा भवेयुः तथा सोत्साहं क्रीडत इत्यासीत् तस्य आग्रहः। यदि कस्यापि स्वयंसेवकस्य ‘दण्डः यथाप्रमाणं न स्यात्, उच्छ्रितः हस्वः वा स्यात्, तर्हि तद्विषये श्रीगुरुजिः तत्रस्थं शिक्षकम् अवधानपरं करोति स्म। वर्षाकाले धारासंपाते प्रवृत्ते वा शिशिर-ऋतौ हिमानीभिः शाखास्थाने आवृतेऽपि वा‚ पूर्वनियोजितं कार्यं यथानुशासनं करणीयमेव, प्रारब्धस्य कार्यस्य सर्वदा दृढतया अन्तगमनं कर्तव्यमेव इति स सर्वेभ्यः साग्रहं कथयति स्म।
न निश्चितार्थाद् विरमन्ति धीराः—
अथैकदा श्रीगुरुजिःएकां मण्डल-शाखां गतः। तस्य भाषणे प्रारब्धमात्रे एव पर्जन्योऽपि तत् श्रोतुमिव समागतः। धारा-प्रपातेन स्वयं श्रीगुरुजिः प्रक्लिन्न-वासाः संवृत्तः। पुरस्ताद् उपस्थितानां स्वयं सेवकानाम् अधस्तात् नदीव जलौघः प्रावहत्। उपस्थिताः सज्जनाः स्वं स्वं
छत्रम् उद्घाटयितुम् ऐच्छन्। तेषु एकः द्रुततरं श्रीगुरुजिम् उपेत्य तदुपरि छत्रं धृतवान्। परं तत्क्षणमेव गुरुजिना वामकरेण तत् मीलयितम्। तदालोक्य, निजं छत्रमुद्घाटयितुं कः उत्सहेत? वरुणराजेन तत्र संमिलिताः सर्वे सचैलं स्नापिताः, तथापि श्रीगुरुजिना प्रारब्धं भाषणं निरोद्धुं सः असमर्थः आसीत्। एवम् अनेकशः दर्शित-भयेऽपि वरुणे, धीराणां संघ-स्वयंसेवकानां धैर्य-ध्वंसः नाभवत्।
दोष-निवारिणी माधवी रीतिः—
अथैकदा एकः शिशु-दलस्य अग्रेसरः प्रतिवृत्तं निवेदितवान् यत् ‘शिशु-गण-संख्या पूर्वं द्विगुणा आसीत्, सांप्रतं तु वर्षा-निमित्तं सा ह्रासं गता’ इति। तदाकर्ण्यंश्रीगुरुजिः शिशुभ्यः एकां कथां कथयितुं प्रवृत्तः।तद्यथा—‘आसीद् एकः काकः, एका च चटका। काकस्य गृहं गोमय-निर्मितम् आसीत्; चटकायास्तु सिक्थ-निर्मितम्। एकदा भूरि-वृष्टिर् बभूव। तेन काकस्य गृहम् अपवाहितम्। तदाकर्ण्य शिशवः प्राहसन्। गुरुजिरपि प्रहसन् तमग्रेसरम् अपृच्छत्—‘अयि जात, तव शाखा गोमय-निर्मिता उताहो सिक्थ-निर्मिता?’ एवं माधवी-शैल्या स्वयंसेवकेषु दृश्यमानान् दोषान् स दूरीकरोति स्म।
योजना अनुसर्तव्या एव—
एकदा श्रीगुरुजिना कलकत्ता-प्रस्थानं निश्चितम्। तदानीमेव जपानीय-विमान-दलेन तत्र (बाँब) ध्वंगोल-वृष्टिः कृता। तेन भय-ग्रस्ताः जनाः पलायितुम् आरब्धाः। एवंविधे विषमे वातावरणे श्रीगुरुजि-महाशयस्य आगमनं न सांप्रतम् इत्यालोच्य‚कलकत्ता-स्थितेन कार्यवाहेण “कलकत्ता-कार्यक्रमः स्थगितः, मा प्रतिष्ठध्वम्” इति तन्त्री-संदेशः श्रीगुरुजि प्रति प्रेषितः। स व्याक्षेपस्तु तद्-रुचये न बभूव। श्रीगुरुजिः तं कार्यकरम् आहूय ‘नियोजितपूर्वे कार्यक्रम व्याक्षेपः न समीचीनः’ इति संबोध्य तं कार्यक्रमाय अग्रे विसृष्टवान्‚ दिनत्रयानन्तरं च स्वयमपि कलकत्तां जगाम। एवं‚ सर्वमपि कार्यजातं नियोजनमनुसृत्य यावच्छक्यं, यथाक्रमं च करणीयमेव इत्यासीत् श्रीगुरुजिना प्रवर्तितं कठोरमनुशासनम्।
श्रीगुरुजेः विनोद-प्रियता—
श्रीगुरुजि-प्रयोजित-गोष्ठीषु उद्बोधनेन सह रञ्जनमपि भवति स्म। ‘परिचय-विधौ’ सर्वैः निजः परिचयः सम्यग् दातव्यः इत्यस्ति संघ-परिपाटिः। मार्मिकान् प्रश्नान् पृष्ट्वा गुरुजिः तत्तत्-स्थानीयां सर्वकषां वार्ताम् अवगन्तुम् इच्छति स्म। तथैव स्वयंसेवकानां वैयक्तिक-परिचयात् संघ-कार्य-दृष्ट्या कः कियान् उपयुक्तः इत्यपि स व्यजानात्। एकदा कार्यकर्तॄणाम् उपवेशने (बैठक) स एकमपृच्छत्’ शाखायां किंचलति सांप्रतम्?’ ‘खो खो’ इत्युत्तरम् आकर्ण्य स सस्मितं पुनःपृष्टवान्—‘नवीनाः स्वयंसेवकाः आगत्य पूर्वागतान् ‘खो’ दास्यन्तिनु?’ इति। एवं श्रीगुरुजिःरञ्जनेन साकम् बोधाञ्जन-शलाकया स्वयं-सेवकानां चक्षूंषि उन्मीलयति स्म।
संघ-कार्य-सरणि-विशेषाः—
अस्ति अन्यदप्येकं वैशिष्ट्यं संघ-कार्यक्रमस्य। कस्मिन् अपि संघ-कार्यक्रमे, साधुवादाः तालिका-वादनं च न केनापि कदापि क्रियते। तालिकाःसाधुवादाः वा प्रायः उपचार-निदर्शनमेव। संघस्तु अस्ति एकं विशालं कुटुम्बम्। तत्र गृहोचितं वातावरणम् आवश्यकम्।‘अद्य होरामात्रं साधु रञ्जनं संवृत्तम्’ इति ब्रुवाणाः श्रोतारः श्रीगुरुजि-महाशयस्य अप्रियाः आसन्। ‘ये मम भाषणं सावधानं श्रुत्वा‚तदाशय सम्यग् आकलय्य, स्वजीवनं तथा घटयितुम् ईहन्ते तान् प्रति मे यत्नः’ इति स मन्यते स्म। अत एव सार्वजनीनं व्याख्यानं न तस्य तथा प्रियं यथा स्वयंसेवकैः, उताहो संघ-संबन्धिभिः इतरैः सह संलापः।
भेदातीतं संघटनम्—
महाकोसले विलासपुरे संघ-शिक्षण-वर्गः आसीत्। तत्र गुरुजिः शाखा-स्थानात् निजावासम् अश्वयानेन उपागच्छत्। तस्य रथस्य सारथिः मार्गे अनेकैः वन्दितः इत्यालोक्य, स्वावासं प्राप्य श्रीगुरुजिः
कार्यकर्तृृन् उवाच—‘कच्चिद् दृष्टं भवद्भिः कथं स सारथिः मार्गे नैकैः प्रणम्य समादृतः? ईदृशःलोकप्रियः पुरुषः कामसारथिः नापितः यो वा को वा भवतु, स न उपेक्षणीयः। नागरिक-ग्रामिक-भेदः परैर् उद्भावितोऽस्ति स नैव युक्तः। सुशिक्षिताः अशिक्षिताः, प्रबुद्धा अप्रबुद्धा वा, सर्वेऽपि संघेसंमेलयितव्याः। विद्वन्मूर्धन्यः श्रीशङ्कराचार्यः यथा अस्माकं समादरणीयः तथा ग्रामिकः’तुकारामो’ऽपि। महानगरात् खेट-खर्वटपर्यन्तं भारते यत्रकुत्रापि निवसतां नः समग्रो हिन्दुसमाजःएकरसः एकात्मकश्च विद्यते। अतः‚ परैः सहेतुकं निर्मितं भेदभावं विस्मृत्य, संघ-स्थाने सर्वेऽपि राष्ट्र-भक्ति-सूत्रे ग्रथितव्या एव। अन्यत् च, दैनंदिन-कार्यं-संचालनं तावत् स्थानीय-कार्यवाहैरेव करणीयम्। प्रचारकस्तु प्रवासी प्रणोदयिता एव; स प्रामुख्येन कार्ये एकसूत्रतां विदधाति इत्यपि नैव विस्मर्तव्यम्।’
मानस-शास्त्रीयम् अधिष्ठानम्—
यदा वा मनुष्य-स्वभावानुसारं क्वचित् कस्मिन् अपि संघ-कार्यवाहे अहंकारः अथवा कार्यवृद्धेर् अभावात् नैराश्यं दृष्टिपथं गतम् तदा तां तां संघटन-घातिनीं वृत्ति नियन्तुं श्रीगुरुजिना तदुद्बोधनं कृतम्। तद्यथा—एकदा मध्यप्रान्ते मण्डल-द्वयस्य संयुक्तः कार्यक्रमः निश्चितः‚परं स कुत्र योजनीयः इति विचारे प्रस्तुते तयोरेकस्य कार्यकर्ता स्वीये मण्डले तं योजयितुम् ईषत् साशङ्कः आसीत्। तथाभूतं तम् अन्य-मण्डलाधिकारी सगर्वम् अवोचत्, ‘असमर्थोऽसि चेत्, ब्रूहि; अयमहम् अस्मन्मण्डले योजयिष्यामि’ इति। तस्येयं दर्पोद्धता रीतिः श्रीगुरुजेः प्रीतये नासीत्। स तम् उद्बोधितवान्—‘यथा तव मण्डले तथा तत्रापि संघकार्यमेव चलति; अतः संघस्य एकस्मिन् स्थले दृश्यमाना असमर्थता अन्यस्थले कार्यं कुर्वन्तं हर्षितं कथं कुरुते? नैतद् समीचीनम्’ इति। अनया मानस-शास्त्राधिष्ठितयासंजीवक सरण्या श्रीगुरुजिमहोदयेन शतशोऽथ सहस्रशः संघ-कार्य-कर्तारः विनिर्मिताः आसन्।
११. मातृभूः हन्त खण्डिता
महायुद्धं समाप्तम्। विजये प्राप्तेऽपि आङ्ग्ल-राष्ट्रम् अतीव दुर्बलं संजातम्। तदा आङग्ल ‘संसदि’ तदानींतनःब्रिटिश-प्रधानामात्यः श्रीअटलीमहाशयः उदघोषयत्—‘अतःपरं साम्राज्य-रक्षणं सर्वथा अशक्यम्। हिन्दुस्थानगतं भृतक-सैन्यम् इत उत्तरं सम्राजं प्रति स्वामिनिष्ठं न भवेत्। तथा च विशालस्य हिन्दुस्थानस्य नियन्त्रणं कर्तुं परमावश्यकी ब्रिटिश-सेना अस्मत्सकाशे अपर्याप्ता। अतः, इतः परं तत्र सत्तां संक्रामयितुम् अस्माभिः निर्णीतम् अस्ति’ इति। तथापि इतो गमनात् प्राक्, परकीयेन आङ्ग्ल सर्वकारेण देशोऽयं हेतुतः विखण्डितः यथा पङगूभूतम् इदं राष्ट्रं दीर्घकालं यावत् पुनरुत्थातुम् असमर्थं स्यात्।
परं सत्तालोलुपैः काँग्रेस-धुरीणैर् अपि मातृभू-खण्डनं स्वीकृतम्इति खलु अतीव लाञ्छनास्पदम्। महात्मा गान्धिना नैकवारं पत्रकेषु प्रकटीकृतमासीत् यद् “न कदाप्यनुजानामि हिन्दुस्थान-विभाजनम्। तत्खण्डनं महत्पापं‚ न तद् ईश्वर-संमतम्” इति। तथापि विरोध-दर्शक-प्रायोपवेशनं विनैव मातृभू-विच्छेदनं तेनापि स्वीकृतम् इति दुर्दैवमेव।
** ब्रिटिश-राज्यस्य अन्तकालः’** इत्याख्ये **श्री लिओनार्ड मोस्ले-**लिखिते ग्रन्थे (पृ. २८५) श्रीमतः जवाहरलाल नेहरू महाभागस्य वचनम् उद्धृतमस्ति। तद्यथा—‘अस्माभिःपञ्जाब-प्रदेशःअग्नि-दग्धो दृष्टः। प्रत्यहं च नर-मेध-वृत्तमपि नः कर्णपथम् आगतम्। देश-विभाजन-योजना एव निखिलापत्-निवारकोपायः इति मत्वा अस्माभिः सा स्वीकृता आसीत्। परं‚ यदि महात्मा गान्धिः तत्स्वीकारात् नः न्यवारयिष्यत् तर्हि अस्माभिः संघर्षः एव प्रचालितः स्यात्” इति।
राष्ट्रिय-संकटे मार्गदर्शनम्—
यथा तथा वा भवतु। अस्मिन् महादुःखकरे राष्ट्रस्य अपमानास्पदे च कालखण्डे रा. स्व. संघेन श्रीगुरुजि-कृत-मार्गदर्शनानुसारं परमया राष्ट्रभक्त्या विहितं राष्ट्र-हित-साधकं कार्यं खलु असामान्यम्, अविस्मरणीयं च अस्ति। ये तत् साकल्येन सप्रमाणं च ज्ञातुमिच्छन्ति तैःप्रा. बलि-महाशयेन लिखितः**‘अधुना तत् कथयितुं शक्यम्’** इत्याख्यः (आङ्ग्लभाषा-) ग्रन्थःअवश्यं वाचनीयः। अत्र तु तस्मिन् आपत्काले श्रीगुरुजिना संघेन च किं किं कृतं तस्य दिग्दर्शनमेव क्रियते।
१९४६ ख्रिस्ताब्दे देश-विभाजन-संबद्धेषु पंजाब-सिन्ध-वायव्यसीमाप्रान्तेषु, स्थाने स्थाने संघ-शाखाः आसन्। पञ्जाब-प्रदेशे रावलपिण्डी, लाहोर, पेशावर, अमृतसर, जालन्धर, अम्बाला प्रभृति-विभागेषु संघस्य प्रभावःसमाजस्य सर्वेषु स्तरेषु दरीदृश्यते स्म। प्रायः प्रत्यहं मुस्लिम लीग तथा तत्पुरस्कृतानि वृत्तपत्राणि संघविरुद्ध विद्वेषविषं प्रासारयन्। ‘डॉन्’ नामकं लीग-मुख-पत्रं तु’ संघ निर्मूलयत’ इति काँग्रेस-सर्वकारं साग्रहम् अविरतं च प्रचोदयति स्म। तस्मिन् लिखितम् आसीत्—‘मुसलमानानां सहकार्यम् अभीप्सितं चेत् काँग्रेस-धौरेयः अविलम्बं संघःनिर्बन्धेन प्रतिबन्धनीयः’ इति। वस्तुतः संघेन सर्वदा देशभक्तिरेव समुपदिष्टा; न कदापि कस्यापि द्रोहः कृतः, क्रियते,करिष्यते वा। एवं गतेऽपि, मुस्लिम लीग-कृतःसंघ-विद्वेषः किल ‘तदभीप्सितं देश-विच्छेदनं संघःविरोधयेत्’ इति भय-जनितः एव। काँग्रेस-पक्षस्तु ‘तुष्यन्तु मुस्लिमाः’ इति स्वनीति-निमितं विपक्षान् सपक्षं, सपक्षांश्च विपक्षं भावयित्वा व्यवहर्तुं प्रवृत्तः।
आत्मरक्षणं प्रकृति-सिद्धः अधिकारः—
१९४६ ख्रिस्त-हायने ढाका-नोआखली-कलकत्तादि-स्थलेषु मुसलमानैः हिन्दूनाम् उपरि कृतान् भीषणान् अत्याचारान् दरीदृष्ट्वा दीर्घदर्शिना श्रीगुरुजिना ‘आवेदयन्ति हि प्रत्यासन्नं भीषण-संहारम् अग्रजातानि अशुभानि आक्रमणानि’ इति स्वाभिप्रायः प्रकटीकृतः। पंजाबे वङ्गदेशे च रौद्र-हिंसाप्रायायाम् अवस्थायां ‘अहिंसां पालयत’,
‘निर्बन्धं स्व-हस्ते मा गृह्णीत’ इति अस्थाने कृतम् काँग्रेसीयानाम् आत्मघातकं दुरुपदेशं श्रावं श्रावं श्रीगुरुजिः भूरि व्यथित-चित्तः संवृत्तः। अस्मिन् संवत्सरे, नागपुर-शाखायाः विजया-दशमी-उत्सवे, तेन भाषणावसरे सूचितम्–‘संप्रति संघर्षः अपरिहार्यः इति मे निश्चितं मतम्। यद्यपि एकेन हस्तेन तालिका असंभवा, छोटिका तु शक्या एव। कामं यूयं प्रतिकारं न कुरुत परं युष्मासु आक्रमणोत्सुका इतरे जनाः स्वीयात् कपट-प्रबन्धात् न कदापि विरमन्ति। आत्मरक्षणं तु व्यक्तिमात्रस्य समाजस्य च प्रकृति-सिद्धः अधिकारः इति न कदापि विस्मर्तव्यम्’ इति।
तथैव सिन्ध-पञ्जाब-सीमाप्रान्त-काश्मीरादि-विभागेषु मुस्लिमानाम् आक्रमणस्य संभाव्यतां तर्कयित्वा‚तत्रस्थाः स्वयं सेवकाः श्रीगुरुजिना स्वकर्तव्य-विषये विशेषतः जागरिताः आसन्। स्वयमेव न कस्मिन् अपि आक्रमणं कार्यम्; परम् आततायिनि आयाते सति‚ यदा कोऽपि भीरुतया तं नाभिभवति तदा ‘भूतानां पालनं कार्यं दुष्कृतां दमनं तथा’ इति श्रीतुकाराम-महाराजस्य ‘दया’-लक्षणं श्रीगुरुजिः स्वसमर्थ नाथ समुद्धरति स्म।
पञ्जाब-प्रचार-यात्रा—
नोव्हेम्बर १९४६ मध्ये श्रीगुरुजिःपञ्जाब-प्रान्ते प्रचार-यात्राम् अकरोत्। तदानीं तत्र विद्यमानां परिस्थिति, लोकेषु प्रवहन्तीः विचारधाराश्च पर्यालोच्य, आयत्याः गर्भान्तर्गतं भीषणतरं राष्ट्र-संकटं तेनदूर-दृष्ट्या आलोकितम्। तदनु केवलं चतुर्मासोत्तरमेव मुसलमानैः पूर्वयोजनानुसारं अत्याचार-सत्रं समारब्धम्। तस्मिन्नेव वर्षे सिन्ध-प्रान्तेऽपि श्रीगुरुजिना स्वसंरक्षणार्थं मार्गदर्शनं कृतम्। तत्र संघ-कार्य प्रगति साधयितुं, १९४३ वर्षादारभ्य तेन पञ्चवारं प्रचार-यात्रा कृतपूर्वा। यदा सर्वकारेण सिन्धु-देशःमुम्बई-प्रान्तात् पृथक्-कृतः, ततः प्रभृति तत्रस्थहिन्दूनाम् अवस्था, प्रतिवर्षम् अधिकाधिकं दुःसहा संजाता। पदे पदे ते त्रस्ताः अवमानिताश्च बभूवुः। स्वीये पावन-प्रदेशे मानहानि विना जीवितुं सर्वैःहिन्दुभिः ऐकमत्येन वस्तव्यम् इति परिस्थिति-जन्या आवश्यकता एव तदानीं संघ-कार्य-वृद्धौ अतीव सहायिका आसीत्।
नेहरू-सभा-परित्राणम्—
१९४६ वर्षान्ते, सिन्धप्रान्ते ४० लक्षमित-जनसंख्यायां हिन्दवः १४ लक्ष-संख्याकाः आसन्। संघस्य तत्र ४० शाखाः, १२ सहस्रसंख्याकाश्च स्वयंसेवकाः आसन्। समाजेऽपि संघंप्रति लोकादरोदरीदृश्यते स्म, यतः ‘संघ इव नः आश्रयस्थानम् इति जनसमाजे सार्वत्रिको विश्वासः आसीत्। पाकिस्तान-निर्मितेः पूर्वमेव सिन्ध-प्रान्ते रा. स्व. संघः समाजाभिमतम् एकं शक्ति-केन्द्रम् आसीत्। विषयेऽस्मिन् १९४६ तमे वर्षे संभूतः एकः प्रसंगःएव प्रमाणम्। तद्यथा—पण्डित-नेहरू हैदराबादं गतः आसीत्। ‘न कदापि वयं देश-विभाजनं स्वीकुर्मः’ इति स सर्वत्र प्रतिपादयति स्म। स्वयं महात्मा गान्धिना अपि स्वीये ‘हरिजन’-पत्रे नैकवारं प्रकाशितमासीद् यद्’ मयि जीवति हिन्दुस्थान-विच्छेदनं नैव भवेद्’ इति। परं, सिन्धप्रान्ते नेहरू-महाभागः एतद् विभाजन-विरुद्धं स्वीयं मतं सभायां प्रतिपादयेत् चेत्, सभा उद्ध्वस्ता भवेत्, तस्य भाषणं निर्विघ्नतया समाप्ति न गच्छेत् इत्याशंका आसीत्। अतः डॉ. श्री. चिमनदासः तथा श्री बाबा किशनचन्द्रः इत्याख्यौ द्वौ काँग्रेस-धुरीणौ संघं शरणं गतौ। तत्कृतां विज्ञप्तिमादृत्य पर्याप्ताः संघ-स्वयंसेवकाः नेहरू-महाशयस्य सभायाम् उपस्थिताः आसन्। तेषां समुपस्थित्या मुस्लिम-लीग-संस्थायाः सभोद्ध्वंसन-प्रयत्नाः विफलाः संजाताः, सभा च निर्विघ्नतया समाप्ति गता।
एक-हायनानन्तरं तु परिस्थितिः विकटतरा बभूव। **हिन्दु-समाजः स्वरस-वाहिन्या आत्मीयतया संघं प्रति पूर्वस्माद् अधिकं समाकृष्टः।**श्रीगुरुजिः श्रीजिना-महाशयश्च, उभौ अपि‚ विभाजनात् सप्ताहपूर्वमेव सिन्धप्रातं समुपेतौ। हैदराबादे श्रीगुरुजिः विशाल-जन-संमर्देन सोत्साहं सत्कृतः। सायंकाले तद्-भाषणं श्रोतुकामैः दर्शनोत्सुकैःलक्षावधि-नागरिकैः तस्य आगमन-मार्गः तथा व्याप्तः, यथा सभायां यथासमयम् उपस्थातुं सर्वदा अतीव दक्षोऽपि सः तदानीं तथा कर्तुं सर्वथा असमर्थो बभूव।
** ‘कराची’-**नगरे श्रीगुरुजेः स्वागतार्थम् असंख्याःनागरिकाः विमान-स्थानके संमिलिताः। तदानीं दिनत्रयं यावत् गुरुजि-महाशयः
कराच्यामेव आसीत्। क्लिफ्टन्-सागरतटे स्वयंसेवकानां यो मेलापकस् तदानीं समभवत् स खलु अभूतपूर्वः एव। तत्र संघस्य सुविशालं प्रोत्साहकं च रूपमालोक्य साधुः श्री. वास्वानीमहाशयः स्वीये काव्यमये प्रवचने ‘संघो नाम हिन्दु-समाजस्य विश्वासार्हम् आश्रय-पदम्’ इति स्वीयं हृद्गतं निर्भीकतया प्रतिपादितवान्। इदं ‘क्लिफ्टन्-संमेलनं’ सिन्धी-हिन्दवः यावज्जीवं नैव विस्मरिष्यन्ति। यतः मेलापकेऽस्मिन् श्रीगुरुजि-कृतम् अनुपमं प्रवचनं श्रोतॄणां कर्णपुढे अद्यापि गुञ्जति। समाजोपरि आपत्स्यमानया विपदा तस्य हृदयं व्याकुलयन्ती तीव्रा संवेदना, तथैव च संकटेऽस्मिन् भारतीय युवकैः सर्वात्मना निःस्वार्थतया च कार्यपरैर् भाव्यम् इति तस्य उत्कटेच्छाऽपि तस्मिन् प्रवचने अभिव्यक्ता बभूव।
पञ्जाब-साहाय्य-समितिः—
पञ्जाब-प्रान्ते हिन्दु-मुस्लिमानां संयुक्ते मन्त्रिमण्डले पराभूते सति, मुसलमानःपश्चिम-पञ्जाबे मुलतान-विभागे च निवसतां हिन्दूनाम् उपरि भीषणाःअत्याचाराः समारब्धाः। रावलपिण्डी-मुलतान-विभागेषु ग्रामे ग्रामे तैः हिन्दूनां निवासाः भस्मसात्कृताः; सहस्रावधि हिन्दूनां शिरश्छेदः कृतः। तेषाम् आपणेभ्यः पण्यानि अपहृतानि; गृहेभ्यश्च तेषां सर्वस्वमपि तैःलुण्ठितम्। एतस्याः महाविपदः ये सुदैवेन निःसृताः‚ सर्वे ते हिन्दुजातीयाःवाह-काला-गुजरखान-पञ्जाबसाहेबइत्यादिस्थलेषु एकत्रीभूताः। परमकारुणिकेन श्रीगुरुजिना एतान् सर्वान् असहायान् निर्वासितान् सेवितुं संघः समादिष्टः। तदनु तत्-प्रेरणया एव**‘पञ्जाब-साहाय्य-समितिः** ‘प्रस्थापिता, तत्-शाखाश्च सर्वेषु प्रमुख-नगरेषु उद्घाटिताः आसन्। पं. सा. समित्याः प्रधानः कार्यालयःलाहोर-नगरे आसीत्। पञ्जाब-प्रान्त-संघचालकः श्रीरायबहादुर-बदरीदास-महाशयः तदध्यक्षपदे, डॉ. श्रीगोकुलचन्द्र नारङ्गश्च कोषाध्यक्षत्वेन नियुक्तौ आस्ताम्।
पं. सा. समित्या निर्वासितेभ्यः तत्-सम्पत्ति-निष्कृतिं दापयितुम् आवेदन-लेखनम्, आर्थिक-साहाय्यम्, वैद्यकीय-साहाय्यम्, न्यायालयीनकार्ये वैध-मार्ग-दर्शनम्, अपहृतानाम् अज्ञातस्थितीनां च परिमार्गणम्
इत्यादिकं विविधं साहाय्य-कार्यं सपद्येव प्रारब्धम्। निर्वासितानां त्रिसहस्र-शिबिरेषु वीर-गाथा-गानम्, वीररस-पोषक-ग्रन्थ-वितरणम्, संघ-शाखासु स्वसंरक्षण-प्रात्यक्षिकानि इति विविधानि कार्याणि संघेन समारब्धानि। निराश्रयीभूतानां धैर्यध्वंसो न स्यात्, प्रत्युत ते सर्वापत्-प्रतीकार-क्षमाः भवेयुः इति हेतुना सहस्रशः स्वयंसेवकाः संनद्धाः बभूवुः। तदर्थं तैः सर्वत्र संचारोऽपि समारब्धः।
पाकिस्तान-निर्मितेः मास-पञ्चक-पूर्वं पञ्जाब प्रान्ते प्रशासकेन संघ-स्वयंसेवकान् निग्रहीतुं रक्षाधिकारिणः आज्ञप्ताः। परं समाज-रक्षणस्य पावनं कर्तव्यं समाचरितुं स्वयंसेवकैः लाहोर-नगरे उषित्वा अतीव सावधानतया कौशल्येन च स्वकार्यं तथा अनुष्ठितं‚ यथा तान् निग्रहीतुं, स्वकार्यात् निरोद्धुं वा, रक्षाधिकारिणोऽपि न समर्थाः।
१९४७ ख्रिस्ताब्दस्य मार्चमासे रावलपिण्डी-लाहोर-गुजरानवाला-इत्यादि-स्थानेषु **मुसलमानःहिन्दुसमाजे तीव्रतमाः हिंसाचाराः अनुष्ठिताः।**एकस्मिन् अमृतसर-नगरे एव लुण्ठन-कट्टारवेधन-शिरश्छेदन-अग्निसात्करण-इत्यादि-हिंसाचाराणां ९८४ अभियोगाः अभिलिखिताः आसन्। प्रायः सार्धं-द्विकोटि-रूपकाणां परिबर्हाः विनाशिताः। इत्यं पञ्जाब-प्रान्ते विप्लवे वृद्धिंगते, हिन्दुभिः निजावासान् परित्यज्य आत्मरक्षार्थम् अन्यत्र शरण्यान्वेषणं समारब्धम्। सामरिकं दण्डविधि (Martial law) प्रयोक्तुं हिन्दुभिः वारंवारं कृता प्रार्थना सर्वकारेण बुद्धिपूर्व दुर्लक्षिता। तथापि अस्मिन् विप्लव-प्रसङ्गे, संघे लब्ध-संस्काराः कर्तव्यदक्षाः स्वयंसेवकाः समाज-परित्राणाय पुरःसराः बभूवुः। हिंसाचार-पीडितान् सुरक्षितस्थलं (प्रति) उद्वोढुम्, तेभ्यः अन्न-वस्त्र-भेषजादिकं वितरितुम् विविध-संस्थाः संरक्षितुं च स्वयंसेवक-दलानि विनियोजितानि। तैः अग्नि-शामकदलानि अपि निर्मितानि। तथा च विविधानि साहाय्य-साधनानि स्वयंसेवकाश्च आवश्यक-स्थलं प्रापयितुं शतशः महाशकटाः(Trucks) अपि तैः उपयोजिताः। स्वयंसेवकाः रात्रौ ‘जागृत, दक्षतया जागृत’ इति दूराह्वानैः सर्वत्र दक्षाटनं कुर्वते स्म; दिवसे च नागरिकान् आत्मरक्षण-शिक्षणं दातुं सुरक्षा-वर्गाणां संचालनमपि कुर्वन्ति स्म। ये ये उपायाः तस्मिन् कराले काले अत्त्यावश्यकाः शक्याश्च आसन्, ते ते सर्वेऽपि उपायाः धैर्येण‚ निर्धारेण, संहति-बलेन च स्वयंसेवकैर् उपयोजिताः।
देश-विच्छेद-घोषणा—
ब्रिटिश्-प्रधानामात्येन सत्ता-संक्रमणे घोषितेऽपि देश-विच्छेदनं नाद्यापि निर्णीतम्। लॉर्ड माउण्ट्-बॅटनाख्येन राज-प्रेषितेन काँग्रेस-मुस्लिमलीग-इति राजकीय-पक्ष-धुरन्धरैः सह सत्ता-संक्रमणार्थं विमर्शः प्रारब्धः। तदानीं मुस्लीमानां देश-विच्छेदनेच्छां काँग्रेस-पक्षो न कदापि अनुमन्येत इति हिन्दूनां विश्वासः आसीत्, यतः १९४५ तमे वर्षे, निजे निर्वाचन-घोषणा-पत्रके, “हिन्दुस्थान-देशः सर्वदा अविभाज्यः आसीत्, अत ऊर्ध्वमपि सः अखण्डःएव स्थास्यति” इति तेन दत्तमासीत् प्रकटमभिवचनम्। अत एव तस्मिन् विश्वसितैः मत-दातृभिः कॉङग्रेस प्रतिनिधयः निर्वाचिताः आसन्। म. गान्धिना अपि निःसंदिग्धतया प्रतिज्ञातम् आसीत् यद् ‘देश-विच्छेदनात् प्राग् मद्-देह-विच्छेदो भवेत्’ इति। लोह-पुरुषेण सरदार-महाशयेन तु सुस्पष्टं घोषितमासीद् यद् “मुस्लिम-लीगीयाः शस्त्राचारं कुर्युश्चेत् तत्-प्रत्युत्तरं शस्त्रैरेव दीयेत” इति। अत एव सरलाः हिन्दुप्रजाजनाः काँग्रेस-दत्त-वचने विश्वसन्ति स्म। परन्तु विश्वास-प्रतिपन्नो हिन्दु-समाजःकाँग्रेस-धुरीणैः महात्मा गान्धिनाऽपि च सर्वथा वञ्चितः, यतः ३-६-१९४७ दिनाङ्के, नभोवाणी-द्वारा, सर्वश्री नेहरू-जिना-बलदेवसिंग इत्येभिः काँग्रेस-मुस्लिमलीग-शीखसमाज-इति पक्षत्रयस्य धुरंधरैः भारत-विच्छेदनं समुद्घोषितम्। अनया रीत्या पाकिस्तानं निर्मातुं संमति दत्त्वा काँग्रेसाग्रणीभिः स्वजनानाम् आशा-भङ्गः कृतः, यवनाश्च तैः यथेच्छम् अत्याचरितुम् अनुमताः इव।
एतादृशे विस्फोटक-कालेऽपि नित्यक्रमानुसारं, १६-७-४७ दिनाङ्के **संगरूर-**नगरे, २०।७ दिनाङ्के च **फगवाडा-**नगरे संघस्य ‘ओ.टी.सी.’ नाम अधिकारी-शिक्षण-वर्गौसमारब्धौ। तत्र ३,७०० युवानः स्वयंसेवकाः संमिलिताः आसन्। श्रीगुरुजिना उभयत्रापि ‘आपत्-प्रतीकार-दृष्ट्या समयोचितं मार्गदर्शनं कृतम्। सङ्गरूर-नगरं पतियालानाभा-मालेरकोटला इति ‘संस्थान’ (State)-त्रयस्य सीमाभागे वर्तते। तत्र तदा ‘मस्तवाला-साहेब गुरुद्वारा ‘नामके शीख-मन्दिरे ओ.टी.सी.’ प्राचलत्। गुरुद्वाराधीशेन श्रीगुरुजिः गुरुद्वारा-दर्शनार्थं साग्रहं निमन्त्रितः। तथा च पेप्सू-प्रदेशात् विविध-गुरुद्वारा प्रमुखाः अपि तत्प्रवचन-श्रवणार्थं
समाहूताः। स्वीये स्वागत-भाषणे गुरुद्वाराध्यक्षः प्रोवाच—“अद्य अस्माकं महद् भाग्यमुदितं यद् हिन्दु-धर्म-रक्षणे बद्धकक्षोऽसौ महापुरुषः समागतोऽत्र।श्रीगुरुजिना आत्म-तपोबलेन निर्मितया संघ-शक्त्या अस्मद्-धर्म-रक्षणम् अवश्यं भूयात्” इति।
दक्षिणोत्तर-शक्ति-समवायः—
तदनन्तरं श्रीगुरुजिना उद्बोधितम्—“अद्य मत्पुरतः यद् दृश्यम् अहं साक्षात्करोमि तेन ३०० वर्ष-प्राचीनःइतिहास-प्रसङ्गः मे स्मृतिपथम् आयातः। तदानीं श्रीगुरुगोविन्दसिंह रूपा उत्तर-शक्तिः श्रीशिव-छत्रपति-रूपां दक्षिण-शक्तिं द्रष्टुं गता आसीत्। परं देशस्य दुर्भाग्येन तयोमिलनं तदानीं नाभवत्। अद्य तु स शक्ति-समागमः संपन्नोऽस्ति। अनेन भारतस्य दक्षिणोत्तर-शक्ति-संगमेन या महाशक्तिः प्रादुर्भवेत् तस्याः प्रभावेण इतःपरं धर्मनाशस्य आशङ्काऽपि न विद्येत।”
** फगवाडा-**नगरेऽपि श्रीगुरुजितः मार्गदर्शन-लाभार्थं प्रौढ-कार्यकर्तृणां त्रिदिन-परिमितो मेलापकः संयोजितः आसीत्। तस्मिन् समये, बलोच्च (बलूवी)-सैन्येन हिन्दूनां विध्वंसनाय मुस्लिमाः प्रोत्साहिताः। ‘परित्रायतां परित्रायतां नः एतस्मात् संहारक काल-मुखात्’ इति हिन्दुप्रजायाः आर्तमावाहनम् आकर्ण्यापि ‘अधुना कं कं परित्रायेऽहम्’ इति दीनोद्गारः तेन लोह-पुरुषेण सरदार-पटेलेन अपि उच्चारितः।
बरं मरणं, न शरणम्—
अस्यां भीषणावस्थायां हिन्दूनां पुरतः मार्गद्वयमेव आसीत्—मुसलमान-शरणम् अर्थात् स्वधर्म-त्यागः अथवा, प्राणेभ्योऽपि गरीयस्याः जन्मभूमेः परित्यागः। परम् अनयोर् एकोऽपि मार्गः श्रीगुरुजि-महा- शयस्य न संमतः। सः अब्रवीत्—‘जातस्य देहस्य ध्रुवो हि मृत्युः; तथापि, आततायिनम् आयान्तम् अहत्वा तं प्रति शरण-गमनेन न केवलं शरणोपेतः, अपि तु तस्य समस्तं कुलं धर्मः, राष्ट्रं च कलङ्कितानि भवन्ति। वयं पाकिस्तानं नैव स्वीकुर्मः। अस्माभिः सर्वैर् मिलित्वा ‘संहतिः कार्यसाधिका’ इति सम्यग् ज्ञात्वा, अत्रैव स्थातव्यम् सङ्घर्षश्च कर्तव्यः। भीत्या मातृभूमिं हित्वा अन्यत्र गमिष्यामः चेत्, ‘एभिः
कुपुत्रैःमातृभूमितोऽपि स्वप्राणाः गरीयांसः इति मत्वा, मातृभू-विच्छेदः अप्रतीकारम् अङ्गीकृतः’ इत्येव श्वस्तनः इतिहास-लेखकःनिःसंशयं विलिखेत्। अन्यत् च, एवं पलायने कृते‚इयं मनोदुर्बलता अस्मत्समाजं चिराय ग्रसेत। अत एव प्रयत्न-पराकाष्ठां कृत्वा, यावज्जीवं प्रतीकार-परैर् अस्माभिः अत्रैव स्थातव्यम्। एतद् अपि नैव विस्मर्तव्यं यत् पुरा अफगाणिस्थानस्य एकः भूभागः अमीर-काबुलेन हिन्दुशासनस्य ‘पेशवा’-राघोबा-महोदयाय प्रदत्तः आसीत्। सांप्रतं तु दुर्दैववशात् काँग्रेस-नेतारः अस्मद्देशस्यैव उत्तमाङ्गम् आक्रमकेभ्यः दातुं प्रवृत्ताः। किम् अतःपरं लाञ्छनास्पदम्?”
१० ऑगस्ट-दिने तु लाहोर-नगरे मुसलमानैःअत्युग्रं संहार-सत्रं प्रारब्धम्। तदनु तैः अन्यत्रापि तथैव कृतम्। अतः फगवाडा-संगरूर-संघवर्गों नियत-कालात् पूर्वमेव समाप्य यथोचिताः सूचनाः दत्त्वा सर्वे कार्यकर्तारः स्व-स्व-क्षेत्रेभ्यः कार्याय विसृष्टाः। ग्राम-खेट खर्वटेषु हिन्दूनां संख्या अत्यल्पा आसीत्। अतः, तत्र प्रतीकारस्य सर्वथा अशक्यत्वात् संरक्षण-दृष्ट्या तत्स्थानीयाः हिन्दु-बन्धवः ततः स्थानान्तरं कारिताः ‘पञ्जाब-साहाय्य-समिति’ द्वारा, स्थले स्थले, शिबिराणि योजितानि। एतादृशानि त्रिशताधिकानि शिबिराणि मन्दिरेषु, गुरुद्वारेषु, हर्म्येषु च योजितानि आसन्। सर्वेषां शिबिराणां परस्पर-संपर्क-साधनाय हिन्दु-स्वयंसेवकाः, प्रसङ्गोचितम् अहिन्दु-वेषं परिधाय‚ रात्रंदिनं गतागतं कुर्वन्ति स्म।
१२. ग्रस्तः स्वातन्त्र्योदयः
यथाकालं सत्ता-संक्रमणाय नियतः ऑगस्टस्य १५ दिनाङ्कः उदितः। पञ्जाबे सीमाप्रान्ते च राक्षस-राज्यस्य ताण्डवं समारब्धम्। लाहोर-नगरे प्रकाशितेन ‘सिविल अँड मिलिटरी गॅझेट’-नामकेन दैनिकेन तत्कालीना परिस्थितिः इत्थं वर्णिता—‘अस्मिन् क्षणे, पञ्जाबेखान-इफ्तिकार-हुसेनखानो न शास्ति, अपि तु आरक्षकाः समाजकण्टकाः प्रशासति।’ अपरं च, नेताजी-सुभाषचन्द्रमहोदयस्य’स्वतन्त्र-भारतसेना’तः ये अधिकारिणः ‘राष्ट्रिय मुसलमान’ इति संज्ञया हिन्दु- काँग्रेसीयैः प्रशंसिताः आसन् तैः राष्ट्रिय-ब्रुवैः मुसलमानैः एव हिन्दूनां संहारार्थं दलानि निर्मितानि। विभ्रान्तां राष्ट्र-कल्पनाम् उररीकृत्य हिन्दुभिः राष्ट्रिय-मुसलमानेभ्यः यत् प्रभूतं द्रव्यं समर्पितं तत् सर्वमपि ‘पयःपानं भुजङ्गानाम्’ इव अपकारे परिणतम्।
क्वचिद् आनन्दोर्मिः क्वचिदपि च हा हेति—
प्रा. बलि-महाशयेन स्वीये ‘अधुना तद् निवेदितुं शक्यम्’इत्याख्ये ग्रन्थे (पृ. ३८) लिखितं—‘दिल्ली-राजधान्यां कामं ‘हन्त! स्वातन्त्र्यं समागतम्’ इति हर्षोद्गारः लोकानां रसनाग्रे अनृत्यत्। लाहोरे तु शीख-हिन्दूनां मुखात् **‘हा हा ! सर्वनाशः समुत्पन्नः’**इत्याक्रोशः विनिःसरति स्म। यतः स्वातन्त्र्ये उदितमात्रे, भारत-राजधान्यां यदा भारतीयाः ’ प्रियध्वजो नः प्रोच्चैर्विहरतु’ इति गर्जन्तः
————————————————————————————————————————————————
2 Now It can be Told, Ch. 12, p. 136—“It was later on discovered that in some of the districts the leadership of these mobs was in the hands of the muslim members of the I. N. A. for whose help the Hindus and Sikhs under the Congress-lead had poured out money like water.”
3 N. I. C. B. T., p. 38 “Azadi, Azadi was on the lips of the Delhi crowds’ but Barbadi Barbadi was the anguished cry of every Hindu & Sikh.”
आनन्दोत्सवे निमग्नाः, तदा पञ्जाब-सिन्ध-सीमाप्रान्त-पूर्ववंगेषु हिन्दूनां गृहादिकम् अग्नि-ज्वालाऽवलीढम्, पन्थानश्च हिन्दु-जन-शोणित-प्रवाहैः पिच्छिलाः अभवन्। हरिसिंह-नलुआ गुरु-गोविन्दसिंह, वीर-वैरागी, स्वामी-दयानन्द, लाला-लजपतराय इत्यादीनां हिन्दुवीराणां तपसा, त्यागेन च पावनीभूतायाः आत्मनः जन्मभूमेः इमां दुःसहां दुरवस्थां स्वातन्त्र्योदयदिने एव समीक्ष्य, संघस्य कार्यकर्तृभिः दुर्दशां गतेभ्यः नागरिकेभ्यः यत् शक्यं तत्सर्व-प्रकारकं साहाय्यं सर्वात्मना प्रदत्तम्।
संघ-स्वयंसेवकाः दिवा वा रात्रौ वा, आतपे वा वर्षायां वा, स्वयं क्षुत्-तृड्-व्याकुलाः अपि स्वार्थं परित्यज्य, आश्रय-हीनान् आबालवृद्धस्त्रीपुरुषान् भारतीय-सीमायाम् उद्वहन्ति स्म। तदर्थं तैः ट्रक्-जिप्मोटरसायकल्-इत्यादयः ये उपलब्धास्ते सर्वे वाहन-प्रकाराः उपयोजिताः। अहर्निशं ‘हिन्दु-मुस्लिमानाम् एकताम्’ उच्चैर् घोषयन्तः संकटेऽस्मिन् अदर्शनं गताः। “अस्मिन् महा-विपत्-काले जनानां परित्राणाय रा. स्व.संघाद् ऋते के अन्ये अग्रेसराः आसन्?” इति प्रा. बलिः सर्वान् पृच्छति। पञ्जाबे तथा अन्यत्रापि नैकैः काँग्रेस-धुरीणैः अपि आत्मनः आत्मीयानां च कृते संघस्य साहाय्यं प्रार्थितम् आसीत्। स्वयंसेवकैस्तु ‘अयं निजः परो वा’ इति लघुचेतसाम् गणनां न कृत्वा, अभेद-दृष्ट्या समदृष्ट्या वा सर्वेभ्यः साहाय्यं प्रदत्तम्। लाहोर-नगरस्य हिन्दु-विस्तारेषु निवसन्तः हिन्दुभ्यः इतर स्त्रीबालकाः अपि संघीयैः संरक्षणं दत्त्वा मुस्लिम-लीग-शिबिरेषु प्रेषिताः। अनया रीत्या संघेन ५० लक्षमिताः हिन्दुजनाः सर्वनाशात् संरक्ष्य भारतं समानीताः।
श्रीगुरुजिकृतं परिस्थिति-समीक्षणम्—
यथा यथा पश्चिम-पञ्जाबात् हिन्दु-धर्मीयाः पूर्व-पञ्जाबं समानीताः, तथा तथा अत्रस्थाः मुसलमानाः अस्वस्थ-चित्ताः अभवन्। तद् दृष्ट्वा भारतात् पाकिस्तानं गन्तुकामाः मुसलमानाःभारत-सर्वकारेण
रक्षा-सैनिकान्विताः तत्र प्रेषिताः। पश्चिम-पञ्जाबात् नाम पाकिस्तानाद् भारतं समागताः हिन्दवः तु केवलं स्वसामर्थ्य-निर्भराः आसन्। तेभ्यः न खलु पाकिस्तान-शासनेन न वा भारत-सर्वकारेण संरक्षणं दत्तम्। तेषां भारताश्रयिणांपरिस्थिति समीक्षितुं श्रीगुरुजिः १९४७ सेप्टेम्बरान्ते पञ्जाबं गतवान्। तदानीम् अतिवृष्ट्या नदी-प्रवाहाः दुस्तराः आसन्। तेन गुरुजेः समीक्षा-यात्रा पूर्णतां न गता। अमृतसरे जालन्धरे च नियोजितः कार्यक्रमः यथावत् परिपूर्णः। जालन्धर-समीपे चहेड-निर्झर-तटे, पाकिस्तानं गन्तुं प्रस्थितानां, किन्तु अतिवृष्ट्या मध्येमार्गं गतप्राणानां शवान् इतस्ततः पतितान् दृष्ट्वा श्रीगुरुजिः दुःखावेगात् उज्जगार—
“न कदापि कृतं पापं कर्तुर्भवति निष्फलम्।
भुञ्जतेऽत्र तु निष्पापा दुःखं, तद् दुःखकारकम्॥’
क्रियासिद्धिः सत्त्वे—
अकल्पित-महावृष्ट्या अग्निरथ (रेल्वे)-संचारःस्थगितः आसीत्। ८-८ फूट-उच्छ्रितेन जलेन परिपूरितेषु सर्वमार्गेषु सर्वत्र सागरः इव अदृश्यत। परिणामतः टॅक्सी-यानेन अपि अग्रे गमनम् अशक्यम् आसीत्। परन्तु पूर्वायोजित-कार्यक्रम-वशात् लुधियानां प्रति गमनम् अत्यावश्यकम्। तस्मात् श्रीगुरुजिना जालन्धरात् ८ मैल-मितः मार्गः ट्रॉली-द्वारा आक्रान्तः। परं चहेड-सेतोः एकः स्तम्भः धारा-संपातेन भग्नः आसीत्। लोहमार्गस्य ‘स्लीपराः’ वक्रीभूय अवनताः आसन्। केवलं फूट-द्वयाऽधस्ताद् अतिरभसा प्रवहन्तं जलप्रवाहं वीक्ष्य भयकम्पितः ट्रॉली-सारथिः अग्रे यातुं न धर्षितवान्। श्रीगुरुजेः अनुयायिनोऽपि कल्लोलमयं तं रौद्रं प्रवाहमालोक्य किंकर्तव्यता मूढाः अभवन्। परं श्रीगुरुजिः क्षणार्धात् स्लीपरात् स्लीपरम् उल्लङ्घ्य, १०० यार्ड-विस्तृतं तं सेतुं झटिति पारयामास। धडधडायमान-हृदयाः तस्य अनुयायिनोऽपि अगतिकाः तम् अन्वसरन्। पश्चाद् भारवाहिना अग्निरथेन ‘गुराया-पर्यन्तं गत्वा ततः एकम् अग्निरथस्य एञ्जिनम् आश्रित्य ते सर्वे लुधियाना-नगरं संप्राप्ताः। एवं श्रीगुरुजिना ‘क्रियासिद्धिः सत्त्वे भवति महताम्’ इति सुभाषितस्य यात्रार्थ्यं प्रमाणीकृतम्।
यां वीक्ष्य ‘अपि ग्रावा रोदिति, अपि दलति वज्रस्य हृदयम्’ तादृशी हिन्दुसमाजस्य दुर्दशां प्रत्यक्षीकृत्य, श्रीगुरुजिः नैकवारं स्वाश्रूणि निरोद्धुम् असमर्थो बभूव। यत्र यत्र सः संघ-संचालितानि निर्वासित-शिबिराणि द्रष्टुम् उपगच्छति स्म, तत्र तत्र ‘वयं संघ-सहायाः एव जीवामः’ इति निवेद्य, शतशः जनाः तच्चरणयोः अपतन्। अथैकदा श्रीमेहेरचन्द्र-महाजनः तथा श्रीरामलाल-न्यायाधीशः गुरुजिद्रष्टुमुपेतौ। ‘निराश्रिताः(refugees) स्मः’ इति श्रीमेहेरचन्द्रेण उक्तमात्रे एव, ‘नहि नहि, स्वदेशे न कोऽपि निराश्रितोऽस्ति। भारतं खलु हिन्दुमात्रस्य समानं गृहम्। न कोऽपि हिन्दुः हिन्दुस्थानस्य कस्मिन् अपि विभागे परः भवेत्’ इति शब्दैः गुरुजिःतौ समाश्वासयत्।
जीवति अद्यापि पद्मिनी—
एकस्य स्वयंसेवकस्य गृहम् उपेतेन श्रीगुरुजिना तत्र पञ्चाशदधिकाः निर्वासिताः आश्रयार्थं समागताः दृष्टाः। ‘यूयं वयं च सकलाः हिन्दवः खलु बन्धवः’ इति स्नेहमयी विशाला दृष्टिरेव तत्र हेतुरासीत्। तस्यां निर्वासित-दर्शन यात्रायां‚ श्रीगुरुजिना ज्ञातं यद् अनेकाभिः सतीभिः स्वसकाशे विष-गुटिकाः स्थापिताः आसन्। ‘किमर्थम्’ इति साश्चर्य तेन पृष्टे सति, एका भगिनी उक्तवती—‘यदि कोऽपि आततायी नः पापदृष्ट्या अभिपतेत्‚ तर्हि शील-रक्षणाय एताः राम-नाम-गुटिकाः एव नः शरणम्’। तदाकर्ण्य गुरुजिःउज्जगार—“अहो ! हिन्दुसमाजे स्थाने स्थाने ‘पद्मिनी’ अद्यापि जीवति। तेनैव विश्वसिमि यद् अस्यां विपरीत-परिस्थित्याम् अपि, हिन्दु-समाजस्य उन्नत्यर्थं कृताः प्रयत्नाः सफलाः भविष्यन्ति एव।”
संघेन अनुष्ठितं काश्मीर-रक्षणम्—
काश्मीरेऽपि वातावरणं कलुषं संजातम्। ४-१०-४७ दिनाङ्के पाकिस्तान-प्रेरिताः कबायली-मुसलमानाः काश्मीरं प्राविशन्। भेदोपहतं तद् राज्यं स्वसंरक्षणे असमर्थ दृष्ट्वा, संघीयः भिम्बर-मीरपुर-राजौरी-कोटली-विभागेषु आततायिनः निर्धारेण धैर्येण च प्रतिरुद्धाः।नोव्हेम्बरारम्भे, भारतीय-वायुदलेन विमानेभ्यः अधोनिक्षिप्ताः अस्त्रगर्भाः विंशति(२०) पेटिकाःदुर्दैवेन कोटली-समीपे पर्वतोपरि अपतन्। तत् स्थानं तु
रिपुदलैःअभिव्याप्तम् आलोक्य, न कोऽपि काश्मीर-राज्य-सैनिकः ताः पेटिकाः ततः आनेतुम् अधृष्णोत्। तदानीं यद् भावि तद् भवतु, ‘कार्यं वा साधयामः, देहं वा पातयामः’ इति निर्धारेण कर्तव्यदक्षाः स्वयंसेवकाः तत् स्थानम् उपसृप्य ताभ्यः १७ पेटिकाःअलक्षितं समानयन्। एवं कोटली-परित्राणं संघस्य स्वयंसेवकैरेव कृतम् आसीत्। तथैव सहस्रशः स्वयं सेवकाः ‘राष्ट्रिय-नागरिक-दले’ (नॅशनल-मिलिशियामध्ये) अपि कार्यरताः आसन्।
भारतीय-सेना जम्मू-काश्मीर-प्रदेशस्य अभिरक्षणार्थं तत्र प्राप्ता। किन्तु जम्मू-विभागे विमानावतरण-स्थलम् विस्तृतं नासीत्। तस्मात् विनावेतनं दिवानिशं प्रयत्न-पराकाष्ठांकृत्वा, केवलम् एकस्मिन् सप्ताहे तत्पार्श्ववति भूपृष्ठं समतलं विधाय‚ संघीयैःतद् व्योमयान-स्थानकं पर्याप्तं विस्तारितम्। संघस्य तद् सुवर्णाक्षर-लेखनार्हं महनीयं कार्यं समालोक्य **भारत-सर्वकारस्य ‘एजण्ट जनरलेन’ श्री. कुंवरदिलीपसिंहेन तन्निमित्तं रा. स्व. संघाय धन्यवादाः प्रकटं प्रदत्ताः।**अपि च मीरपुर-विभागात् हिन्दु-बान्धवान् क्षेमेण समानेतुं शतशः स्वयंसेवकाः जम्मूतः तत्र गताः। तेषाम् असामान्यं धैर्यं प्रशंसितुं काश्मीर सेनाधिकारिणा तेभ्यः स्वयंसेवकेभ्यः प्रशस्ति-पत्राणि प्रदत्तानि।
तथापि, ११-११-४७ दिनाङ्के काश्मीर-राज्ये राजौरी-स्थाने, आततायि-मुस्लिमैः१३ सहस्रमिताः’हिन्दु-काफराः’ शस्त्रैर् विशस्ताः ! तदानीं स्वशील-रक्षार्थं त्रिसहस्र-हिन्दु-पतिव्रताभिः विषगोलिकाः निगीय स्वयमेव अग्नि-प्रवेशः विहितः यथा स्वीयं शवमपि यवनाः स्प्रष्टुं न शक्नुयुः।
१९५० क्रिस्ताब्दे, मुम्बापुर्यां प्रान्तिक-मेलापके श्रीगुरुजिः निवेदितवान्—‘संघ-स्वयंसेवकैः पञ्जाब सिन्ध-काश्मीर-प्रदेशेषु स्वजीवनं कृतार्थतां नीतम्, यतः न्यूनतो न्यूनं ५०० स्वयंसेवकः स्व-प्राण-व्ययेनापि**‘काश्मीरे शत-सहस्राद् अधिकानां हिन्दूनां प्राण-रक्षणं कृतम्’** इति।
केन दिल्ली सुरक्षिता?
दिल्ली-राजधान्यां १९४७ सेप्टेंबरस्य प्रारम्भे, रा. स्व. संघेन विहितम् अपरं महनीयं राष्ट्र-रक्षण-कार्यं तेषां राष्ट्रनिष्ठाम् एव
प्रमाणयति। तद्यथा—‘१० सेप्टेंबर-दिने भारत-मन्त्रि-मण्डलस्य, अधिकारिणां‚ सहस्रावधि हिन्दूनां च युगपत् शिरश्छेदं कृत्वा, रक्त-दुर्गे (लाल किला) पाकिस्तानस्य ध्वजम् आरोपयितुं मुस्लिम-लीग-कृतेन कपटप्रबन्धेन संघीयैः श्री प्रधानामात्यः तथा गृहमन्त्री अपि परिचायितौ आस्ताम्। एनं ‘षड्यन्त्रं’ यथावत् ज्ञातुं कतिपयैः स्वयंसेवकैः, इस्लामस्वीकार-मिषेण, प्रथमं तु लीग-सदस्यानां विश्वासः संपादितः इति मया याथातथ्येन विज्ञातम् ‘इति वृत्तं काँग्रेस-धुर्येण वयोवृद्धेन डॉ. भगवानदासेन एव, १९४८ वर्षे संघ-प्रतिबन्धं दूरीकर्तुं प्रकाशिते निजे प्रार्थना-पत्रे लिखितम् आसीत्। राष्ट्र-हित-दक्षाः संघ-स्वयंसेवकाः अस्य षड्यन्त्रस्य सूचनां यथावसरं न अदास्यन् चेत्, अद्य भारत-सर्वकारस्य अस्तित्वमपि नाभविष्यत्।
१३. म. गान्धी-प्रभृतीनां संघ-कार्य-प्रशंसा
अवसरेऽस्मिन् श्रीगुरुजिः राजधान्यामेव आसीत्। १२-९-४७ दिने, सरदार-पटेल-महोदयस्य सन्देशानुसारं तं दृष्ट्वा गृहं प्रत्यागतमात्रः सः, म. गान्धिना शीघ्रम् आहूतः सन् बिलभिवनं तं द्रष्टुमुपेतः। श्रीगान्धीजिः तं सहसा अपृच्छत्—‘भवतां हस्ताः अपि रक्तरञ्जिताः इति श्रूयते’। ताडिति गुरुजिः प्रत्यवदत्—‘असत्यम्, सर्वथा असत्यम् एतत्। हिन्दु-समाज-सेवा एव रा. स्व. संघस्य उद्दिष्टमस्ति। संघो न कमपि आक्रमितुकामः, न वा सः आत्यन्तिकीम् अहिंसाम् अङ्गीकरोति। सर्वदा आत्म-रक्षणमेव शिक्षयति। तथैव तेन न कदापि वैर-निर्यातनं शिक्षितम्।’ गान्धीजिः पुनरब्रवीत्—‘शान्तिपालनार्थं जनताम् उद्दिश्य एकं परिपत्रकं भवान् लिखितुम् अर्हति’ इति। गुरुजिः, सविनयं प्राह ‘मत्तः अत्रभवान् ज्येष्ठः, अतः भवता एवं पत्रं लेख्यम्। अत्यावश्यकी चेत् मत्संमतिः, तथा तत्र निर्दिश्यताम्’ इति।
म. गान्धी-कृता संघ-प्रशस्तिः—
१६ सेप्टेम्बर-दिने नव-दिल्ल्यामेव एकस्यां संघ-शाखायाम् म. गान्धिना ५०० स्वयंसेवकान् उद्दिश्य प्रवचनं कृतम्। तदानीं स महात्माउवाच—‘डॉ. हेडगेवार-महोदये जीवति सति, मया वर्धानगरे संघ- शिबिरं निरीक्षितम् आसीत्। तदुत्तरं संघकार्यं विवृद्धं वीक्ष्य संतुष्टोऽस्मि। उदात्तं खलु सेवा-ध्येयम्। तेन प्रेरिता काऽपि त्यागशीला संस्था बलशालिनी भविष्यति एव।…. सर्वैः शान्तिः परिपालनीया’ इति।
पं. नेहरुणा सह चर्चा—
पश्चाद् ऑक्टोबर-मासे प्रधानामात्येन सर-संघ-चालकेन सह होरामात्रं विमर्शः कृतः। ‘समर्थ-संघटनस्य अभावात् अस्मद्-राष्ट्रं सांप्रतं निष्प्रभं वर्तते’ इति गुरुजिना उक्तमात्रे पं. नेहरू तम् उवाच—‘परं तत् संघटन-सामर्थ्यं पाशविकं माऽस्तु।’ श्रीगुरुजिः झटिति प्रत्यवदत्—‘अस्मत्-संघ-शक्तिः पाशबिकी इति अत्रभवतः मतं भ्रममूलकम् एव। सांप्रतम् अस्मद्देशे या कटुता दरीदृश्यते न सा संघमूला। देश-विच्छेद-निर्मिता परिस्थितिर् एव तत्र हेतुः’। विमर्शान्त श्रीगुरुजिः महामात्यं विज्ञापितवान्—‘सर्वकार-सृष्टं वातावरणं तथा अस्तु यथा तेन सह सहकार्यस्य भावना सर्वदा वृद्धिं गच्छेत्’ इति।
वृत्तपत्रैः संघः परिचायितः—
सर्वकार-सूत्रधारः पं. नेहरू-महाशयः रा. स्व. संघ प्रतिबन्धुम् इच्छति इति जनश्रुतिः १९४७ नोव्हेम्बर-मासे सर्वत्र प्रसृता। तदा ‘प्रताप’-नामकस्य उर्दू-वृत्तपत्रस्य संपादकेन ११-१२-४७ दिने लिखितम्—“रा. स्व. संघः हिन्दु-संघटन-द्वारा भारतीय-संस्कृतेः अभ्युत्थानं कामयते। किम् एतत् कार्यं तिरस्कारार्हम् ?” तत्पूर्वं‚दिल्लीतः ‘ट्रिब्यून’ पत्रेण २६-११-४७ दिनाङ्के पृष्टम्—“अपि नाम
पं. नेहरू-महोदयः न जानाति यद् यदि एतैः भारतस्य राष्ट्रिय-संघटनैः पाकिस्तानस्य पशुतायाः नृशंसतायाश्च तीव्रः प्रतीकारः न विहितः स्यात्, तर्हि सहस्रशः अधिकेषु हिन्दु-शीख-ललनासु बलात्कारः, बालकानां च क्रूरतया संहारः अभविष्यत्?”
सिन्ध-प्रान्तेऽपि स्वयंसेवकैः आत्मरक्षार्थं सिद्धता कृता आसीत्। तेन पाकिस्तान-निर्मितेः अनन्तरम् एकमासं यावत् तत्र संघस्य ध्वजारोहण-पूर्वकं शाखा-कार्यक्रमः यथापूर्वं प्राचलत्। तत् ज्ञात्वा पाकिस्तान-सर्वकारेण संघचालकाः तथा बहवः संघ-कार्यकर्तारश्च निगृहीताः। तदुत्तरं पञ्जाब-प्रदेशे पाकिस्तान-सेनया हिन्दु-प्रजायाः उपरि शतघ्नीभिः गोलिका-प्रवृष्टिः प्रारब्धा। ‘मायाचारो मायया बाधितव्यः’ इति व्यवहार-नीतिम् अनुसृत्य हिन्दुभिः उत्तरप्रदेश-पूर्वपञ्जाब बिहारेषु तत्प्रतीकारः प्रारब्धः। किन्तु हिन्दु-मुस्लिमैकता-तत्त्वात् अन्धीभूतेन भारत-सर्वकारेण हिन्दुभिः कृतः प्रतीकारः अतिकठोरतया निरुद्धः। तेन तु पाकिस्ताने हिन्दूनां जीवघातः परां वृद्धि गतः। एवं गते, पाकिस्ताने हिन्दूनां जीवनं सर्वथा अशक्यम् इति आलोच्य संघ-स्वयंसेवकैः हिन्दूनां स्थलान्तरम् आयोजितम्।
सैन्याधिकारिणां संघ-कार्य-प्रशंसा—
स्वयंसेवकानां धैर्यं शौर्यं च अनुभूय सेनाधिकारिणोऽपि आश्चर्यचकिताः अभवन्। अमृतसर-नगरे तेषु एकतमः श्रीगुरुजिं पृष्टवान्—‘संघ-स्वयंसेवकाः ईदृशम् अपूर्वं पराक्रमं कथं कर्तुं शक्ताः? केनोपायेन एतत् साधितम्?’ ‘कबड्डीतः’ इति उत्तरं श्रुत्वा‚अधिकतरं चकितः सः पुनरपृच्छत्—‘कथमेतत्? अवश्यं हि भवतां शिक्षण-तन्त्रे कोऽपि विशेषः स्यात्; नो चेद् अस्माकं वैतनिकाः सैनिकाः अपि यत् कर्तुम् असमर्थाः तत् साहसं कृत्वा भवतां स्वयंसेवकैः आर्त-प्राण-परित्राणं कथं विहितम्?
न केवलं सेनाधिकारिणः, सरदार-पटेल-महाशयोऽपि स्वयंसेवकानां वीरतया प्रभावितः आसीत्। ६-१-४८ दिनाङ्के, लखनौनगरे सार्वजनिक-भाषणे स निजगाद—‘अधिकारारूढैः काँग्रेस-सदस्यैः
पूर्वादेशम् उपेक्ष्य, संघेन सह भिन्नरीत्या व्यवहर्तव्यम्। संघ-स्वयंसेवकाः न स्वार्थ-साधन-पराः अपि तु मातृभू-भक्ताः एव’।
परपुष्टानां व्यथा—
तथापि, संघस्य दिने दिने वर्धमानः प्रभावःपरदेश-हस्तकान् स्वार्थ-परायणान् पक्षान् च व्यथितचित्तान् व्यदधात्। कैश्चित् स्फुटं लिखितम्–‘केषुचित् संकटाक्रान्त-प्रान्तेषु रा. स्व. संघेन जनानां सेवा विहिता इति खलु सत्यम्, किन्तु तद् दुःखदम् एव।’ कैश्चिदपरैः संघविरुद्धः प्रचारः प्रकारान्तरेण प्रारब्धः। सहेतुकं कृतेन एतेन विपरीत-प्रचारेण भृशं दुःखितः श्रीगुरुजिः मुम्बापुर्यां भाषणावसरे उक्तवान्—‘महद् दुर्भाग्यमेतत् यत् समाज-सेवार्थं सर्वस्वार्पणेन स्वकर्तव्यं कुर्वाणेषु संघ-स्वयंसेवकेषु केचिद् अत्याचारित्वम् आरोपयन्ति। एष सत्यापलापः असह्यः। यदि संघेन विहिता जनसेवा लेखादि-द्वारा अस्माभिः प्रकाशिता स्यात्, संघस्य जय-जय-कारैः समग्रं भारतवर्षं निःसंशयं निनादितम् अभविष्यत्।’
त्राहि नः संघचालक !
‘निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु‚ न्याय्यात् पथः प्रविचलन्ति पदं न धीराः’ इति भर्तृहरिणा निर्दिष्टं धीराणां पन्यानम् अनुसृत्य क्रियमाणेन संघ-कार्येण निखिलं भारतवर्षं प्रभावितम् आसीत्। श्रीगुरुजिः कार्यवशाद् यत्र यत्र प्रयाति स्म, तत्र तत्र सहस्रशः स्वयंसेवका! लक्ष-लक्षमिताः नागरिकाश्च तस्य प्रवचनं श्रोतुं समुपायान्ति स्म। जनैः स्वानुभवाद् ज्ञातं‚ यत् स्वतन्त्र-भारतस्य पुरतः यानि संकटानि विद्यन्ते तानि निराकर्तुं संघः एव समर्थोऽस्ति। यदा पञ्जाब-काश्मीरादि-प्रदेशेषु समुद्भूतैर् अत्याचारैः प्रोत्साहिताः रझाकाराः निजाम-राज्ये हिन्दून् पीडितुं, तथा वन्हाड-महाराष्ट्र प्रदेशेषु अपि हिन्दु-कृषीवलान् पीडितुं प्रवृत्ताः, तदा मध्यप्रदेशस्य मुख्यामात्यः पं. रविशङ्कर-शुक्ल तथा गृह-मन्त्री श्री. द्वारकाप्रसाद-मिश्र इति मन्त्रि-द्वयेन रझाकार-प्रवृत्तेः प्रतीकाराय सर्वकारेण सह सहकार्यं कर्तुं वन्हाड प्रान्त-संघचालकः श्रीबापुराव-सोहनी महाशयः विज्ञप्तः आसीत् तेनापि तां विनतिम् आदृत्य
वाशीम-मेहकर-विभागेषु प्रचार-कार्य-द्वारा ग्रामीण-जनतायाम् आत्मविश्वासो जागरितः।
काँग्रेस-पक्षाग्रणीः श्री. गङ्गाधरपन्त-देशपाण्डे-महाशयः बेलग्रामे संघ-शाखायाः डिसेम्बर-शिबिरे उपसंहारावसरे साग्रहं प्रतिपादितवान्—‘अहं ५० वर्ष-मितेन प्रदीर्घ-स्वानुभवेन द्विवारं समुद्घोषयामि यत् स्वदेशे शान्तिं प्रस्थापयितुं हिन्दूनां संघटनम् अत्यावश्यकम् अस्ति।’
महात्माजिः परित्रातः—
एतस्मिन् प्रक्षोभ-काले गान्धीजिःदिल्ल्यां वाल्मीकि-मन्दिरे निवसति स्म। अयं गान्धी-निवासोऽपि मुस्लिमोपद्रवेण नैकवारं ग्रस्तः। तदानीं मन्दिर-व्यवस्थापकस्य विज्ञप्तिम् अनुसृत्य, स्वयंसेवकैः रात्रि- दिवं मन्दिरं परितः प्रहरि-कार्यं कृत्वा गान्धीजिः सुरक्षितः आसीत्। तथैव संसद्-भवनात् गतागतं कुर्वाणानां नेहरू-पटेलादि-काँग्रेस-धुरीणानाम् अपि परित्राण-व्यवस्था तैः सुविहिता आसीत्। अनहंकारवृत्त्या कार्यं कुर्वाणः रा. स्व. संघःयद्यपि प्रसिद्धि-पराङ्मुखः, तथापि ‘फलानुमेयाः प्रारम्भाः’ इतिवत् संघकार्यं सुज्ञानाम् अज्ञातं नासीत्।
सर्वकारेण संघकार्ये विशेषादेशेन प्रतिबद्धे, तत्कालीनेन दिल्लीप्रान्त-प्रचारकेण श्री. पुरुषोत्तमदास-तण्डन-महाशयाय स्पष्टतया निवेदितम्—‘अथ कौतुकं, संघेन कदा, कुत्र, किं किं कार्यं कृतं तत्सर्व- मपि जिज्ञासुभ्यः आवेदितुं शक्यम्’।स्वातन्त्र्योदयानन्तरं हिन्दुमुसलमानैक्यम्, भारतस्य अविभाज्यता, अहिंसा च काँग्रेस-पक्षस्य सिद्धान्तत्रयं विच्छिन्नम् अभवत्। प्रादेशिक-राष्ट्रवादस्य नैष्फल्यं भारतेन अनुभूतम्। अस्मिन् अवसरे, १९४८ क्रिस्ताब्दे श्रीगुरुजिना मुम्बापुर्यां निवेदितम्—‘एकात्मकः समाजः एव राष्ट्र-कल्पनायाः आत्मा। ये न स्वकीयाः किन्तु सर्वथा पराः तान् आलिङ्गितुकामैः’वयं पञ्चाधिकं शतम्’ इति भारत-नीतिः न केवलं विस्मृता, अपि तु उपनेत्रग्रहणार्थं नेत्रे एव तन्मूल्यत्वेन दवा आत्मा हास्यतां नीतः।”
वाचंयमेन श्रीसरसंघचालकेन संघकार्यं कौशल्येन विस्तारितम्। तथापि संघस्य प्रगतिः कतिपयान् संघ-द्रोह-परान् अस्वस्थान् विदधे। तैः सर्वकारस्य आदेश-द्वारा संघीयानां निर्वासित-शिबिरान् प्रति तत्सेवार्थम् अपि गतागतं निरुद्धम्। वस्तुतः संघ-कार्यकरैः निर्वासितानां पुनर्वसनशिक्षण-स्वास्थ्यादि-विषयेषु भूरि भूरि प्रयतितम् आसीत्।
अभूतः चिञ्चवड-मेलापकः—
१९४७ नोव्हेम्वर-मासे, महाराष्ट्रे पूण्यपत्तनोपान्ते चिञ्चवड-ग्रामे, शतसहस्र-स्वयंसेवकानां बृहन्मेलापकः संघेन संघेन आयोजितः आसीत्। भारतस्य गृहमन्त्रिणा श्रीसरदार-पटेल-महाशयेनापि तत्र उपस्थातुं निमन्त्रणं स्वीकृतम्। मेलापके गृहमन्त्रिणा दास्यमानं भाषणं तत्समकालमेव भारते सर्वत्र प्रसारयितुं नभोवाणी-संचालकैः संघाधिकारिभिः सह आयोजनमपि कृतम्। मेलापके संमिलितुम् आगच्छतां लक्षाधिकानां स्वयंसेवकानां निवासार्थं, सहस्रशः स्वयंसेवकैः रात्रिदिवं ये प्रयत्नाः कृताः ते सर्वे सहसा निष्फलतां गताः, यतः संघोत्कर्षम् असहमानेन मुम्बई-प्रान्त-गृहमन्त्रिणा बातावरणस्य अस्थिरतां पुरस्कृत्य‚ मण्डलाधिकारि-द्वारा मेलापकः एव प्रतिबद्धः। सर्वकारस्य असो शापस्तु वरे परिणतः, यतः संघेन, शीघ्रातिशीघ्रं‚ महाराष्ट्रे प्रतिमण्डलं भिन्नाः लघु-मेलापकाः आयोजिताः। एवं २४ ऑक्टोबरतः ५ नोव्हेम्बरं यावत्, त्रयोदश-मेलापकेषु चतुर्लक्षमितैः संघ-शुभेच्छुभिः प. पू. सरसंघचालकस्य विचारामृतम् आसेवितम्। तान् सर्वान् मेलापकान् समाप्य, यदा श्रीगुरुजिः पुण्यपुरं संप्राप्तः तदा दारूवालासेतुतः शनि-पारं यावत् प्रदीर्घे राजमार्गे उभयतः संपूर्ण-गणवेश-धारिणः स्वयंसेवकाः अत्युत्साहेन तस्मै स्वागतं व्याजहुः।
श्रीगुरुजिना निजे प्रवचने ‘मानवश्चिन्तयेद् अन्यत्, देवस्त्वन्यद् विचिन्तयेत्’ इति सुभाषितम् उद्धृत्य **‘ईश्वरेण चिञ्चवट-मेलापकं निरुध्य ततः चतुर्गुणमितानां संघ-हितेच्छनां दर्शनं मां प्रति कारितम्’**इति संतोषः प्रकटीकृतः। भारते हिन्दु-संघटनस्य तीव्रा आवश्यकता, संघस्य राजकारणेन अलिप्तता, प्रादेशिक-राष्ट्र-कल्पनायाः विफलता, देश-विच्छेद-परिणामस्य भीषणता, समाज-ऋण-विषये अनास्था इत्यादि प्रश्नानां तेन ऊहापोहः कृतः। तथा च शत्रुणा सह अयुद्ध्वा, स्वर्गोपमं
स्वप्रदेशं तस्मै स्वयमेव दत्त्वा काँग्रेस-पुङ्गवैः निर्मितं पाकिस्तानं खलु जगति अपूर्वमेव” इति शब्दैःदेशविच्छेदम् अधिकृत्य स्वमतं प्रकटीकृतम्।
१३ मेलापकेषु श्रीगुरुजिना कृतं संघ-प्रचारं निशम्य शासकानां हृदयानि विदीर्णानि अभवन्। ‘स्वपक्षे यो नास्ति‚ सः राष्ट्रद्रोही’ इत्यासीत् शासक-पक्षीयानां मतम्। अतः एव’ संघः खलु हिंसाचारः, संकुचित-दृष्टिकः, अहमीश-मानी (Fascist) इत्यादि-शब्दैःसंघं निन्दितुं शासक पक्षपातिनाम् अहमहमिका प्रवृत्ता।
पाकिस्तानस्य संघ-द्वेषः—
पाकिस्तानेन पञ्जाब-सिन्ध-पूर्ववङ्गेषु यो हिन्दुजन-संहारो विहितः तस्य सचित्रं वर्णनम् अमेरिकादि-पाश्चात्त्य-देशीयैःवृत्तपत्रैः प्रकाशितम् आसीत्। तेन विवृद्धामर्षेण पाकिस्तानेन रा. स्व. संघ-विरुद्धं पुस्तकमेकं मुद्रयित्वा संयुक्त-राष्ट्र-संघ-सदस्येषु तद् वितीर्णमासीत्। तत्र शत्रुराष्ट्रेण संघस्योपरि कृतानां कपोल-कल्पितानाम् अभियोगानां खण्डनं भारतसर्वकारेण न केवलं न कृतम्, प्रत्युत संघ दण्डयितुमेव प्रयत्नः कृतः। तदर्थं नोव्हेम्बरान्ते‚ सर्वप्रान्तेभ्यः मुख्यमन्त्रिणः गृहमन्त्रिणश्च राजधान्यां समवेताः। संघ दमयितुं तैः विविधोपायाः विमर्शिताः। विमर्शान्ते च ‘सांप्रतं केवलम् अपराधिनो दण्डयितव्याः’ इति तैर् निर्णीतम्।
१४. वज्राघातः
नित्यक्रमानुसारं नगरात् नगरम् आहिण्डमानः श्रीगुरुजिः२९ जाने १९४८ दिने मद्रासपुरे आसीत्। सायंकाले तत्प्रवचनं श्रोतुकामाः दश-सहस्र-नागरिकाः मद्रास-शाखायाः उत्सवे समागताः। ‘वयं रा. स्व. संघ नामशेषं करिष्यामः’ इति श्री. नेहरू-महाभागेन अमृतसरे कृतं व्याख्यानं वृत्तपत्रैः जानेवारी ३० दिनाङ्के प्रकाशितम्। श्रीगुरुजिना अपि तदानीम् एव कार्यकर्तॄणां समक्षं निवेदितं यद् ‘संघ-कार्यं न कस्यापि कृपा-बलात् वर्धते। अत एव न कस्यापि भ्रूभङ्गात् तद् विलयं यायात्; न वा
संघकार्यम् कर्गज-गत-प्रस्तावाद् उद्भूतम्, अतः कोऽपि कर्गजादेशः तद् नाशयितुं कथं प्रभवेत्?’
अहह ! महात्माजिः हतः !!—
सायंकाले, श्रीगुरुजि-संमानार्थम् “रामकृष्ण-लञ्च-होम”-द्वारा एकःउद्यानोपहारः आयोजितः आसीत्। तत्र सर्वैः पानार्थं चहा-चषके उद्धृतमात्रे एव, ‘दिल्लीनगरे बिर्ला-भवने सायं प्रार्थना-स्थलम् उपगच्छन् महात्मा गान्धीजिः केनापि यन्त्र-गोलिकया हतः’ इति दुर्वार्ता सहसा समागता।
हा दैव ! किमेतत् शृणोमि? कंचित् कालं सर्वे शून्यचेतसः इव अभवन्। तत्रत्यं कार्यम् अचिरात् समाप्य, तदुत्तरकालीनं सर्वं कार्यजातं श्रीगुरुजिना स्थगितम्। तेन पं. नेहरू-सरदार पटेल-देवदास गान्धीभ्यः सान्त्वनापराः विद्युत्-सन्देशाः प्रेषिताः। अन्येद्युः प्रभाते गुरुजिः व्योमयानेन नागपुरं गतवान्। ततः त्रयोदश-दिनानि यावत् शोक-व्यञ्जिकां संघ-शाखाकार्य-स्थगितिं समादिश्य, म. गान्धी-हत्याम् अधिकृत्य स्वविचार-दर्शकं पत्रकं तेन ‘ॲसोसिएटेड् प्रेस’-द्वारा प्रसिद्ध्यर्थं प्रेषितम्। तद्यथा—
म. गान्धी-वधावसरे सरसंघचालकस्य पत्रकम्—
‘वर्तमान-कालीनस्य जगद्-वन्द्यस्य महात्मनः इयं नृशंसा हत्या एका पाशविकी घटना एव। अतीव दुःखितोऽस्मि एतेन वृत्तान्तेन। दुष्कृत्यमेतद् एतद्देशीयेन हिन्दुना कृतम् इति तु लज्जास्पदमेव। साम्प्र- तिके आपत्काले, स्वदेशे एकतां शान्ततां च प्रस्थापयितुं श्रीगान्धीजि-सदृशस्य महात्मनः महती आवश्यकता आसीत्। हत्याकारिणा कृतः अयं खलु राष्ट्रस्य अक्षम्योऽपराधः। अनेन हृदय-दारकेण प्रसङ्गेन देशवासिनः स्नेहमयीं सेवां शिक्षेरन्, तां च स्वयं लोकेषु प्रतिपद्येरन् इति आशासे।’
संघ-विरोधकैस्तु ‘संघेन एव गान्धी-हत्या कारिता’ इति किंवदन्तीं सर्वत्र प्रसार्य संघविरुद्धं लोकक्षोभः प्रवर्धितः। एवं गते, भारते अराजकतायाः संभवम् आकलय्य, श्रीगुरुजिना तस्मिन्नेव पत्रके लिखितम्—‘संघ-स्वयंसेवकैः साम्प्रतं संयमेन सहिष्णुतया च व्यवहर्तव्यम्।
संघ-विषयकाद् वितथ-ग्रहात् लोक-क्षोभ-जन्या पीडा अपि जगद्-वन्द्यं महात्मानं प्रति लोकेषु विद्यमानस्य प्रेमादरस्य आविष्कारः एव इति स्वयंसेवकैः न विस्मर्तव्यम्।’
गान्धी-हन्ता पण्डित-नथुराम-विनायक-गोडसे जात्या ब्राह्मणः आसीत्। अतएव महाराष्ट्र ब्राह्मण-ब्राह्मणेतर-विवाद-वह्निः प्रज्वालितो बभूव। नथुरामेण शतशः स्थलेषु समकालम् एव निधिः समाहृतः इति अन्यथाग्रहः सर्वत्र कर्णोपकर्णिकया प्रासरत्। महात्मनः वधोत्तरम् आनन्दनिर्भरैः संघ-स्वयंसेवकैः’पेढा’-मिष्टम् -सेवितम् इत्यपि; प्रवादः विरोधकैः प्रसारितः। परिणामतः, सर्वथा अनघानां नागरिकाणां सहस्रशः गृहाणि क्षोभ-वह्निना भस्मसात्कृतानि। लक्षलक्षमिताःअनपराधिनः ब्राह्मण-ब्राह्मणेतर-वादानलेन अनिकेताः संजाताः।वृत्तपत्तैर् नभोवाण्या च अग्निकाण्ड-बार्ताः प्रसार्य अग्नौ घृतमिव प्रक्षिप्तम्। कोट्यवधि-रूप्यकाणां सम्पत्तिर् भस्मीभूता। अनेन प्रलयंकरेण विध्वंसेन अहिंसा-सत्यप्रेम-विश्वबन्धुतादीनाम् उच्चैर्घोषः केवलं दम्भजः वाङ्मात्रः एव इति विशेषतः स्पष्टीभूतम्। प्रान्तान्तरेषु अपि निर्दोषाः संघ-हितेच्छवः विरोधकैः छल-बलादिना प्रपीडिताः।
श्रीगुरुजि-गृहे उपल-वृष्टिः—
१—२—४८ दिनाङ्के संतप्तैर् विरोधकैः श्रीगुरुजि-सदने उपल-वर्षा प्रारब्धा। क्षुब्धाः विरोधकाः अविवेक-वशात् किं किं न कुर्युः इत्यालोच्य श्रीगुरुजिना, मिथ्याग्रहात् सर्वत्र संभवनीयं रक्तपातं परिहर्तुं ‘सर्वथा आत्मसंयमेन भाव्यम्’ (Be calm at all cost) इति शीघ्रः विद्युत्-संदेशः भारते सर्वत्र प्रेषितः। तस्मिन् एव दिने, क्षोभोन्मत्तैः विरोधकैः प. पू. डॉ. हेडगेवाराणां समाधि-मन्दिर-कलशः छिन्नः, तत्रस्थं तुलसी-वृन्दावनं च प्रध्वंसितम्। श्रीगुरुजि-निवासोपरि शिलाक्षेपे प्रचलति, नागपुर-मण्डलाऽधिकारी तत्र प्राप्तः। ‘भवद्भिः शिला-संचयः कृतो दृश्यते’ इति तेन पृष्टमात्रे एव, बहिःस्थेन केनापि प्रक्षिप्ताः महोपलाः तत्र न्यपतन्; तान् उद्धृत्य तत्रस्थः स्वयंसेवकः तावत्काल-पर्यन्तं लोकैः क्षिप्तानाम् उपलानां संचित-राशी प्राक्षिपत्। तत् प्रत्यक्षीकृत्य सः अधिकारी वीतशङ्कः अभवत्।
तस्यां रात्रौ विरोधकाः गोलवलकर-गृहम् आक्रामन्ति इति विश्वासार्हं वृत्तं प्राप्तम्। सायंकाले चिटणीसोद्याने तेषां सभा आसीत्। तत्पूर्वं द्वौ स्वयंसेवकौ श्रीगुरुजि समुपेत्य, ‘कृपया अत्रभवता आत्मरक्षार्थम् अद्य इतोऽन्यत्र गन्तव्यम्’ इति तं विज्ञापितवन्तौ। तदा गुरुजिःतौजगाद—‘किंवदन्त्या युवाम् उत्तेजितौ इव दृश्येथे।मच्चिन्ता न कार्या। यद् भावि तद् भवतु।अद्यावधि यदर्थे कार्यपरोऽस्मि, स समाजः एव मां नेच्छति चेत्, इतोऽन्यत्र गमनेन किम्? प्रायः अत्रापि कश्चिद् ईश्वरसङ्केतः स्यात्। अधुना मे सन्ध्या-वन्दन-वेला संजाता। गच्छतम्। शान्तिरस्तु।’
अरेरे! गुरुजिः निगृहीतः—
सायंकाले आरक्षकैः श्रीगोलवलकर-निवासं परितः सर्वे मार्गाः निरुद्धाः। रात्रौ १२ वादने आरक्षाधिकारी तत्रागतः। सः श्रीगुरुजिं निग्रहाज्ञां दर्शितवान्। तत् पठित्वा विहस्य च गुरुजिःतेन सार्धं प्रस्थितः। तत्पूर्वं तत्रोपस्थितान् स्वयंसेवकान् स शशास—“एतत् संशय-पटलम् अचिराद् विलयं यास्यति। वयं निर्दोषाः निष्कलङ्काश्च इत्यपि निष्पन्नं भविष्यति। तावत्कालपर्यन्तं बहुविधा अत्याचाराः भवेयुः; परं ते सर्वे सर्वेः स्वयंसेवकैः संयमेन शान्ततया च सहनीयाः। संघ-स्वयंसेवकानां कृते नैतद् अशक्यम् इति विश्वासेन साधयाम्यहम्।”
एतद् भारत-राष्ट्रं परं वैभवम् नेतुं येन वर्षानुवर्षम् आसेतु-हिमगिरिं हिन्दु-संघटनं विस्तारितं स देशभक्ताग्रगण्यः प. पू. श्रीगोलवलकरगुरुजिःभारतीय-दण्डशास्त्रस्य ३०२ तथा १२० परिच्छेदयोर् आधारेण दण्डनीयः इति कृत्वा, सर्वकारेण केवलं द्रोहवशात् निगृहीतः इत्यहो दैवदुर्विलासः। गान्धी हत्यायाः मिथ्यारोपः तत्र हेतुः। निष्पापं सॉक्रेटिसं विषं पाययन्ती, निरपराधिनं क्रिस्तं शूले आरोपयन्ती, निर्दोषं च लो. तिलकं कारागारे निक्षेपयन्ती सा दुष्टोन्मत्ता परम्परा अद्यापि प्रचलति इत्येव प्रसङ्गेनानेन प्रमाणीकृतम्।
शासनेन संघः प्रतिबद्धः—
भारत-सर्वकारेण ४—२—१९४८ दिने राजाज्ञां प्रकाश्य रा.स्व.संघः प्रतिबद्धः, तत्कारणं च एवं निर्दिष्टम्—“रा. स्व. संघेन अद्यावधि
बहूनि आक्षेपार्हाणि विघातक-दुष्कृत्यानि कृतपूर्वाणि; तेन पुरस्कृतया हिंसावृत्त्या बहवः प्राणघातं हताः; म. गान्धीहत्या तस्याः प्रत्यग्रम् उदाहरणम्।” तस्मात् सर्वकारेण रा. स्व. संघः’अवैधः’ इति उद्घोषितम्।
तदनन्तरं समग्रे भारते सहस्रशः संघकार्यकर्तारः सर्वकारेण बन्दिग्राहं गृहीताः। संघं प्रति लोकेषु तिरस्कारं जनयितुम् एव सर्वकारेण अयम् अश्लाघ्यः अनघ-जन-निग्रहः कृतः। कलकत्तातः प्रकाशितेन ‘स्वाधीनता’-नामकेन साम्यवादि-वृत्तपत्रेण लिखितम्–‘यैर् दुष्टैर् म. गान्धीजिःप्राणघातं हतः तेषां यथा नामापि न श्रूयेत तथा कर्तुं प्रति-जानीमहे। निजरिपुं जानीत।प्रज्वलतु क्रोधानलः। जनतायाः प्रज्वलिते दावानले भस्मीभवतु संकुचितता। उत्तिष्ठत, रिपुं समूलघातं हन्तुं पुर सराः भवत।’ आसाम-प्रान्ते च साम्यवादिभिः प्रकाशिते पत्रके तू संघस्य सप्त-कार्यकर्तॄणां नामोल्लेखं कृत्वा ‘सप्तैतान् निहत’ इति शब्दः स्वपक्षीयाः हिंसाचाराय प्रणोदिताः आसन्।
मर्यादित-कालावधि संघ-विर्सजनम्—
कारागारे बन्दीकृतेन श्रीगुरुजिना पत्रकमेकं प्रकाशितम्। तद्यथा—‘सर्वदा वैधम् एव कार्यं समाचरणीयम् इत्यस्ति रा. स्व. संघस्य नित्या आचार-नीतिः। एवं गतेऽपि, सांप्रतं ‘संघः अवैधः’इति सर्वकारेण घोषितमस्ति। अतः, **यावान् असौ निर्बन्धः तावन्तं कालं रा. स्व. संघ विसर्जयामि। परन्तु संघे सर्वकारेण कृताः सर्व दोषारोपाः अनृताः,**अत एव ते नः सर्वथा असंमताः इति मे निश्चितं मतम्।” कारागारे श्रीगुरुजिं द्रष्टुं गतेन श्रीदेशपाण्डे-विविज्ञेन एतत् ‘संघ-विसर्जकम् पत्रकम्’ प्रसिद्ध्यर्थं विद्युत्संदेश-कार्यालये दत्तम्। परं ते सर्व विद्युत्संदेशाः सर्वकारेण विद्युत्संदेश-नागपूर कार्यालये एव निरुद्धाः। यतः सर्वप्रान्तेषु संघ-कार्यकराः निग्रहीतव्याः इति सर्वकार-चिकीर्षितं संदेश-प्रेषणनिरोधं विना दुर्घटं स्यात्। श्री. देशपाण्डे-महाशयेन तु एतत्-सर्वकार-चिकीर्षितं पूर्वमेव आशङक्य, दूतद्वारा स संघ-विसर्जकःसन्देशः सर्वत्र प्रापितः आसीत्।
गान्धी-हत्यायाः मिथ्यारोपः !
श्रीसर-संघ-चालकं सहस्रशः स्वयंसेवकांश्च गान्धी-हत्या-आरोपपूर्वकं कारागारे निर्बंध्य सर्वकारेण वस्तुतः सत्यमेव हिंसितम्। कामम् एकेन नथुरामेण गान्धी-वधः कृतः, महात्मनः परमानुयायिभिस्तु साक्षात् सत्यम् अहिंसां च हिंसित्वा गान्धी-तत्त्वमेव निहतम्। सरसंघचालकस्य संघ-विसर्जिका सा आज्ञा ‘डॉन्’-नामकेन पाकिस्तानस्य मुखपत्रेण ६ फेब्रुवारी-दिनाङ्के प्रकाशिता। तदालोक्य, ‘दिष्ट्या संघः समाप्तः !’ इति कल्पनया बहवः संघ-विरोधकाः हर्षिताः अभवन्।
सर्वकारेण श्रीसरसंघचालके निहितः गान्धी-हत्यायाःआरोपः सप्ताहान्ते प्रतिसंहृतः। तदूर्ध्वं ७—२—४८ दिनाङ्कात् सः नागपूरकारागृहे केवलं स्थान-बद्धः आसीत्। तत्र प्रथम-सप्ताहे तु कोष्ठे स एकलःएव आसीत्। १५ फेब्रुवारीतः सर-कार्यवाहःश्री. अप्पाजिः जोशी, नागपूर-संघचालकःश्री. घटाटे, वन्हाड-प्रान्त-संघचालकः श्री. बापूसाहेब-सोहनी, श्रीबच्छराज-व्यास इत्यादयः अन्ये संघकार्यकराः अपि एकस्मिन् एव विशाले कोष्ठे, श्रीगुरुजिना सहैव, स्थानबद्धाः कृताः।
१५. कारावासः
कारागारे श्रीगुरुजेः आह्निकम्—
कारागारे श्रीगुरुजेः आह्निकं प्रायः प्रत्यहं सममेव आसीत्। तद्यथा—प्रातः पञ्चवादने प्रबोधः, प्रातविधिः, चहापानं च। पश्चात् कक्षे एव यातायातम्, तत्-समकालं च संपूर्ण-गीता-पठनम्। तदूर्ध्वं सन्ध्यावन्दनं ध्यानादिकं च। स्नानात् प्राक् सर्वे मिलित्वा योगासनाभ्यासोऽपि क्रियते स्म। ध्यानानन्तरं मध्याह्नपर्यन्तं ज्ञानेश्वरी-दासबोधरामायण-महाभारत-तुकारामगाथा-श्रीरामचरितमानसादि-ग्रन्थ-पठनम्। कारावासस्य अन्तिमे मासद्वये श्रीगुरुजिना वृत्तपत्राणि लब्धानि; किन्तु
तानि सः क्वचिदेव वाचयति स्म। कारागारेऽपि गृहे इव सः एकभुक्तेन जीवति स्म।
कारागारे श्रीगुरुजि-सेवार्थं नियुक्तः सेवकः ये चान्ये प्रहरिणः आसन्तेषु सर्वेषु गुरुजिःआत्मजेष्विव स्निह्यति स्म। बन्दिपालःअन्तरान्तरा तं द्रष्टुमायाति स्म। अथैकदा श्रीगुरुजिस्तम् अपृच्छत्—“अत्र आयाताः अपराधिनः यदा इतः प्रयान्ति तदा तेषांचित्तवृत्तौ किमपि परिवर्तनं लक्ष्यते किम्?” “न दृश्यते” इति तदुत्तरम् आकर्ण्य श्रीगुरुजिः चिन्तयामास—‘केवलेन दण्डेन परिवर्तनं कथं भवेत्? दण्डस्य विद्यमान-प्रणालिकया दण्डनीयेषु दुर्गुण-निमूर्लन-पूर्वकं सद्गुणाधानं नैव शक्यम्। तत्साधयितुं सन्ततंक्रियमाणाः सुसंस्कारा एव आवश्यकाः’ इति।
अपराह्णे, तत्कोष्ठगताः सर्वे स्थानबद्धाःसंघीयाः प्रायः विचारविमर्शं ग्रन्थवाचनं वा कुर्वते स्म। अथैकदा तेषु एकः श्रीगुरुजिं पृष्टवान्—**“अस्माभिः सर्वदा प्रामाणिकतया अप्रमादेन च कार्यम् आचरितम्। एवं गतेऽपि, संकटमिदं संघ कथम् आपतितम्?”**एवं पृष्टः सः तम् अब्रवीत्—‘शक्तिरेव तत्र हेतुः। संघस्य प्रवृद्धा शक्तिरेव संकटस्यास्य निमित्तम्। शक्त्यैव च तद् अपगच्छति। यदा निकषेऽस्मिन् संघः निर्दोषः सेत्स्यति, तदा सः अतोऽपि उन्नततरो भविष्यति।’
कारावासे श्रीगुरुजिना न कदापि किमपि याचितम्। तत्र आस्तरणप्रावरण-कम्बलादिकं यद् लब्धं तेनैव स्वकार्यं सः आनन्देन निर्वहति स्म। एकदा उपनेत्रे भग्ने, नवीनं नैव याचितम्; तेन विनैव सः ग्रन्थान् वाकयति स्म। तेन शिरोवेदना उद्भूता ग्रन्थपठनं तु नैव खण्डितम्। तत्र आत्मनः कक्षं सः स्वयमेव संमार्जयति स्म। रात्रौ चहां पीत्वा, होरार्धमात्र यातायातं कृत्वा, सः आसने आसन्नहोरं ध्यानमग्नीभूय, ११ वादने स्वपिति स्म।
न्यायालयस्य उपस्थापनादेशः ( Habeas Corpus )—
तदानीं सहस्रशः संघ-स्वयंसेवकाः अपि बन्दीकृताः आसन्। ते सर्वे प्रायः मासान्ते मुक्ता भवेयुः इति आशा आसीत्। परं तन्मुक्तता-विषये
सर्वकारं पराङ्मुखं दृष्ट्वा, नागपुर-पुणे-मुम्बईत्यादि प्रमुख-कारागारेषु निबद्धैः स्वयंसेवकैः निजां स्थानबद्धतां ‘हेबियस कॉर्पस्’-द्वारा अभियुज्य, न्यायाधीशात् निज-मुक्तता अवाप्ता। तदनुसृत्य, अन्यत्र स्थानबद्धाः अपि हेबियस कॉर्पस्-कुञ्चिकाम् उपयुज्य काराभ्यः बहिरागताः। तैः न केवलं स्वमुक्तिः साधिता, अपि तु सर्वकारस्य संघ-विद्वेषिणी वृत्तिरपि अपावृता। सर्वकारेण तेषां स्थानबद्धतां समर्थयितुं प्रतिपादितम् आसीद् यत् ‘सर्वेऽप्येते संघस्य कार्यकर्तारः आसन्। प्रजासु संघ-विरुद्धं लोकक्षोभं समालोक्य, एषां संरक्षणैक-दृष्ट्या एते केवलं स्थानबद्धाः कृताः’ इति। सर्वकार-पुरस्कृता एषा विलक्षणा संरक्षण नीतिः न्यायाधीशैः स्वयं धिक्कारिता, यतः न केवलं दुर्विनीताः समाज-कण्टकाः यथेच्छं व्यवहर्तुं मुक्ता एव आसन्; प्रत्युत येषु आततायिनः अत्याचारान् निपातयन्ति तेषां सज्जनानामेव कृतः निग्रहः सर्वथा हास्यास्पदं, तिरस्करणीयः, दुर्हेतु व्यञ्जकश्च आसीत्।
रा. से. समित्याः सहानुभूति-सत्याग्रहः—
विशुद्ध-राष्ट्रिय-दृष्ट्या सांस्कृतिक-सामाजिक-कार्यार्थं स्त्री-जागरणं कुर्वत्या राष्ट्र-सेविका-समित्या अपि संघात् प्रतिबन्धम् अपाकर्तुं प्रयत्नः कृतः। सेविकाभिः (‘तडजोड-मण्डल’-नाम्ना) नागपुरे मुम्बापुर्यां च सचिवालयस्य पुरतः सत्याग्रहः कृतः। तस्मिन् सत्याग्रहे श्रीगुरुजेः पूजनीया माताऽपि संमिलिता आसीत्। ‘संघस्योपरि न्यायालये अभियोगः कर्तव्यः, अन्यथा तस्मात् प्रतिबन्धः सत्वरम् अपसार्यः’ इत्यासीत् तासां सेविकानां सर्वकारं प्रति प्रार्थना।भवतु।
** “अत्रभवानपि स्वमोचनार्थं ‘हेबियस कॉर्पस्’-आवेदनं प्रेषयितुम् अर्हति”**इति कारा-सहवासिभिः विज्ञापिते सति श्रीगुरुजिः स्मितपूर्वम् अवदत्-‘यैरहं निगृहीतः ते स्वयं मां मोचयिष्यन्ति’। पश्चात् स्थानबद्धतायाः षाण्मासिकावधौ समाप्ते सति, ६-८-४८ दिने सर्वकारेण
श्रीगुरुजिः कारागारात् कामं मोचितः, किन्तु तस्मिन् मानहानिकरं समयचतुष्कं निहितम्। तद्यथा—१) मण्डलाधिकारिणः अनुज्ञां विना नागपुरनगर-पालिका-सीमा नोल्लङ्घनीया; २) कुत्रापि भाषणं न कार्यम्; ३) मण्डलाधिपस्य अनुमतिम् अन्तरेण कस्मिन् अपि नियतकालिके—दैनिके, साप्ताहिके, मासिके वा—लेखो न लेखनीयः। ४) प्रान्तिकं केन्द्रियं च सर्वकारं प्रति प्रत्यक्षम् अप्रत्यक्षं वा असन्तोष-जनकं किमपि स्वयं न करणीयम्, तथा कुर्वाणैःसंपर्कोऽपि न साधनीयः; तथा समाजस्य विभिन्न वर्गेषु विद्वेषम् उत्पाद्य शान्तता-भङ्गो न कर्तव्यः।
एतान् सर्वकार-विहितान् समयान् पठित्वा श्रीगुरुजिःहसितेन सह मण्डलाधिकारिणं लिखितवान्—‘यैः सह मत्संम्पर्कः सर्वकारस्य अवाञ्छनीयः तेषां सूचिः कृपया प्रेष्यताम्’ इति।
कारागृहस्थस्य श्रीगुरुजेः पत्रव्यवहारः—
११-८-४८ दिनाङ्के श्रीगुरुजिना भारतस्य प्रधानामात्याय गृहमन्त्रिणे च पृथक् पत्रं प्रेषितम्। तेन पं. नेहरूमहाभागाय लिखितम् —‘न जाने किमर्थं मे सहकारिणः अहं च निगृहीताः। कामं परिस्थितिः विलक्षणा आसीत्; तथापि भवादृशो महाजनस्तुः सर्वदा समाहितः स्याद् इत्यासीत् मन्मतिः। सांप्रतमपि तत्रभवन्तं प्रति मे स्नेहभावः एव। एनं स्नेह-संदेश सर्वत्र प्रापयितुं मह्यम् अनुज्ञा दीयताम्। तथैव, सर्वेऽपि दोषारोपाः असत्याः इति सिद्धम्; अतस्ते सर्वे सत्वरं प्रतिसंहार्यन्ताम्। ‘मया नागपुर-सीमा नोल्लङ्घनीया’इति समयोऽपि मयि निहितोऽस्ति।अतः मन्मोचनं केवलं विशाल-कारागृहै बन्धनमेव संजातम्।
पत्रोत्तरे विलम्बिते, श्रीगुरुजिना ताभ्यां पुनरपि पत्रे लिखिते। भारते साम्यवादिनाम् आक्रमणोर्मिसंरोद्धुं रा.स्व.संघःएव समर्थः इत्यासीत् तत्र आशयः। पश्चात् भारतस्य गृहमन्त्रितः प्रथम-पत्रस्योत्तरं संप्राप्तम्। तत्समासेन ईदृशम्—रा. स्व. संघेन हिन्दुसमाजस्य सेवा विहिता इत्यत्र न कोऽपि संदेहः। यत्र संघस्य संघटनं साहाय्यं च आवश्यकमासीत् तत्र बालकानां महिलानां च परित्राणं तथा अन्यदपि भूरि
कार्यं संघेन कृतम्।’ पत्रान्ते स लिखति, ‘संघीयाः यत् किं च देशभक्तिप्रेरितं कार्यं कर्तुकामाः, तत् तैः काँग्रेस-पक्षेण सहैव कर्तव्यम्’ इति।
प्रधानामात्येन द्वितीय-पत्रस्य उत्तरं ४-१०-४८ दिनाङ्के प्रेषितम्। स लिखति—‘संघः सांप्रदायिकः। तद् धौरेयाणाम् उक्तिरन्या कृतिश्चान्या’। गृहमन्त्रितः संप्राप्ते द्वितीय-पत्रस्य उत्तरे ‘प्रान्तीयाः सर्वकाराः संघात् प्रतिबन्धम् अपनेतुं न अनुकूलाः’ इति ज्ञापितमासीत्।
मोचनं पुनर्बन्धनाय!
यथापूर्वं संघकार्यं कर्तुम् उत्कण्ठितैःशतसहस्राधिकैः स्वयंसेवकैः संघात् प्रतिबन्धं प्रतिसंहर्तुं तथा तेषां प.पू.सर-संघ-चालकं निःसमयं मोचयितुं पत्राणि प्रेषितानि आसन्। परिणामतः १३-१०-४८ दिने**‘श्री.म.स.गोलवलकर-महाशयात् सर्वे निर्बन्धाः अपसारिताः’** इति सर्वकारेण प्रकटीकृतम्। तदूर्ध्वं विचार-विनिमयार्थं श्रीगुरुजिः १७-१०-४८ दिनाङ्के नवदिल्लीं गतः। भारतस्य विभाजनोत्तरं प्रथममेव राजधानीं संप्राप्तस्य प.पू.सरसंघचालकस्य दर्शनेन आत्मानं पावयितुकामाः नैष्ठिकाः सहस्रशः स्वयंसेवकाः उत्तरप्रदेश-पञ्जाब-राजस्थान-मध्यभारतेति प्रान्तचतुष्टयात् नवदिल्लीं समुपागताः।
ऑक्टोबरस्य १७ तथा २३ दिनाङ्कयोः श्रीगुरुजिना गृहमन्त्रिणा सह चर्चा कृता। ‘संघःकाँग्रेस-दले विलीनीक्रियताम्’ इत्येव श्री. पटेल-महाशयेन पुनः पुनः साग्रहं प्रतिपादितम्। तथा च ‘संघात् प्रतिबन्धस्य निरसने विविध राज्यानाम् अभिप्रायं ज्ञातुम् ईषत् समयः आवश्यकःइत्यपि तेन धूर्ततया सूचितम्। ततः गुरुजिः तमब्रवीत्—‘संघे कृताः सर्वे आरोपाः असत्याः। अतः तान् प्रतिसंहृत्य प्रतिबन्धो निरसनीयःअथवा संघस्योपरि न्यायालये अभियोगः कर्तव्यः।’ परं सर्वमप्येतद् निष्फलमासीत्।
तदनन्तरम् श्रीगुरुजिःस्वर्गतस्य श्री.गान्धी-महात्मनः पुत्रं श्री. देवीदासम् उपेत्य तत्-पितुः हत्याविषये स्वशोकं प्रकटीकृत्य तत् सान्त्वनं विहितवान्।
सर-संघचालकं द्रष्टुमायातं ‘स्टेट्स्मन्-वृत्तपत्र-प्रतिनिधिं स न्यवेदयत्— ‘अहं यदा यदा नवदिल्लीम् आगच्छामि, तदा तदा मम मित्रस्य मा. लाला-हंसराजस्य गृहे तस्य प्राघुणकत्वेन वसामि इति न कस्याप्यविदितम्। अतः सर्वकारेण श्री. लाला अपि कारागृहे निरुद्धः। तेन हि परिशङ्कितोऽस्मि, यद् भारते सर्वत्र परिभ्रमणं कुर्वतः मे अग्निरथ-‘गार्डाः’ साहाय्यकराः इति कृत्वा तानपि सर्वकारो निगृह्णीयात्!’
गृहमन्त्रिणः मौखिकादेशः—
श्री.गृहमन्त्रिणा सरदार-महाशयेन ३०—१०—४८ दिनाङ्के श्रीगुरुजये एको मौखिकः सन्देशः प्रेषितः— ‘अत ऊर्ध्वं विचार-विमर्शः असंभवः, तस्मात् प्रतिगच्छतु भवान् नागपुरम्’ इति। तथापि गुरुजिःनवदिल्ल्याम् एव स्थितवान्। सर्वकारस्य अवज्ञाकरं तत् तस्य धार्ष्ट्यम् इति मत्वा, मण्डलाधिकारिणा तस्य गतागतं प्रतिबध्य तन्निदर्शकः स्वीयः आदेशः तस्मै प्रेषितः। तदादेश-पत्रकस्य पृष्ठभागे एव श्रीगुरुजिना लिखितम्—‘मन्ये सर्वथा अनावश्यकोऽयं भवदादेशः। न्यायप्रियाणां नागरिकाणां स्वातन्त्र्यं तेन अपह्रियते। अस्य आदेशस्य पालनं खलु सर्वकारस्य न्याय-विरोधिनि निरवश्यके च कार्ये सहकार्यं स्यात्। अन्याय्यम् आदेशं पालयामि चेत्, स्वतन्त्र-राष्ट्रे निवसतः न्यायप्रिय-नागरिकस्य कर्तव्यं मया अवज्ञातं भवेत्’। इत्थं स्वोत्तरं लिखित्वा गुरुजिना सः कर्गजः मण्डलाधिकारिणं प्रतिप्रेषितः।
श्रीगुरुजिना पत्रक-द्वयं प्रकाशितम्—
भारतस्य गृहमन्त्रिणः संदेशः सर्वकारस्य अन्तरङ्ग-निदर्शकः आसीत्। अतः रा.स्व.संघस्य न्याय्यं पक्षं सर्वेभ्यः ज्ञापयितुं श्रीगुरुजिना २-११-४८ दिनाङ्के पत्रकार-संमेलनं योजितम्, पत्रक-द्वयं च प्रसारितम्। एकस्मिन् पत्रके तेन लिखितम्—“संघो राजकीय पक्षे परिवर्तनीयः इति कैश्चित् सूचितमस्ति। सूचनेयं सर्वथा अस्वीकार्या एव। सा तु अनर्थगर्भाऽप्यस्ति। राजकीय-पक्षाद् ऋते सांस्कृतिकादि-कार्य-पराणि संस्थान्तराणि जीवितुमपि नार्हन्ति इत्येव अनया सूचनया ध्वन्यते। सर्वथा असह्यमेतत्। एवं गते, संघस्य पुरतः मार्गद्वयमेव अवशिष्यते। प्रतिबन्धः
अवगण्यः वा यावत्प्रतिबन्धं मार्गान्तरेण समाज-सेवा वा। संघ-स्वयंसेवकैः द्वितीयः मार्गः अनुसर्तव्यः।”
** द्वितीये पत्रके** तेन निर्दिष्टम्— ‘रा. स्व. संघोपरि कृताः सर्वे आरोपाः काल्पनिका एव। ‘संघः राजकीय पक्षः नास्तितराम्’ इति सुस्पष्टं विलिख्य लोकतन्त्रम्, धर्मनिरपेक्षं राज्यम्, राज्य-ध्वजः, कार्यविधेः गुप्तता, प्रातिस्विकी वाहिनी तथा सर्वकारोन्मूलन-षड्यन्त्रम् इति विविधाक्षेपाणां निराकरणं कृतम्। संघकार्यस्य गुप्तता इत्यस्य आरोपस्य निरासाय ‘देशे विशाल-संघटनायाः निर्मितिः, तस्याः सुमहती वृद्धिः, दीर्घकालं यावत् तस्याः सक्रियम् अस्तित्वं च इति सर्वं गुप्तताम् अपालयिष्याम चेत् सर्वथा असंभवम् अभविष्यत्’ इति सविशेषं स्पष्टीकृतम्।
आभ्यां पत्रकाभ्यां संघविषये तद्-विरोधकैः हेतुतः कारितः जनानां पूर्वग्रहः निरस्तः, जनमानसं च वीतशङ्कं संजातम्। सर्वकार-कृते तु पत्रके निरर्थके एव।
नोव्हेम्बरस्य प्रारम्भे, महामात्यः पं. नेहरूमहाभागः युरोपात् प्रत्यायातः। पञ्चम-दिनाङ्के सरदार पटेल-महाशयोऽपि नवदिल्लीं प्रतिनिवृत्तः। झटिति श्रीगुरुजिना उभाभ्यां पत्रं लिखित्वा तयोः दर्शनानुज्ञा प्रार्थिता।
पं. नेहरू-महाशयस्य प्रत्युत्तरम्—
उत्तर-पत्रे दि. २० नोव्हेम्बरे, महामात्येन लिखितम्— ‘भवतः पत्रद्वयं प्राप्तम्। भवतां प्रश्नो गृह-विभागाधीनः। अतः गृहविभागेन सह संपर्कः साध्यताम्। भवतः पत्रे अपि गृहविभागं प्रति प्रेषयामि।……गतवर्ष संघ-विषयकं विपुलं कार्यवृत्तं भारत-सर्वकारेण राज्य सर्वकारैश्च संकलितमस्ति। तदनुसारेण संघस्य उद्देशाः भारतीय-संसद् निर्णयानां तथा भविष्यतः भारतीय-संविधानस्य नियमानामपि विरुद्धाः एव। संघस्य प्रवृत्तिः राष्ट्रघातिनी, तत्-कार्यसरणिश्च उत्पात-पूर्णा हिंसाप्राया च वर्तते। मया सह विमर्शेन किम्? गृहविभागेन सह विचारणा युक्ता, यतः प्रकरणमिदं तदधीनमेव।
भवदीयः
(स्वाक्षरी) जवाहरलाल नेहरू
श्रीगुरुजेः प्रधानामात्याय पत्रम्—
श्रीगुरुजिना नोव्हेम्बर १२ दिनाङ्के प्रधानामात्याय यत् सविस्तरं प्रत्युत्तरं लिखितं तत् संक्षेपेण अधो दीयते—
“मान्यवरेभ्यःपण्डित-जवाहरलाल-नेहरू-महाभागेभ्यः सादरं नमो नमः। संप्राप्तं तत्रभवतः १० दिनाङ्कितं कृपापत्रम्। तत्र निर्दिष्टानां केषांचिद्-विषयाणां स्पष्टीकरणम् अत्यावश्यकं प्रतिभाति। गत वर्षे नवमासाद् अधिककालं यावत् रा. स्व. संघस्य अस्तित्वमपि नासीत्। सर्वे प्रमुखाः कार्यकर्तारः अपिकारागारे निबद्धाः आसन्। अतः, ‘गतवर्षे संघविषयकं विपुलं वृत्तं सर्वकारेण लब्धम्’ इति भवन्निर्देशः विसङ्गतः एव।
“अन्यत् च, संघस्य प्रवृत्तिः राष्ट्र-विघातिनी इति भवत्कृतःआरोपस्तु गम्भीरतमः। पुनरप्यहं विज्ञापयामि यद् निर्विवाद-प्रमाणैर् विना कृताः आरोपाः निराधाराः, अत एव अनृताः। एतादृशाः मिथ्यारोपाः संघे अन्यायकराः एव। यस्मिन् प्राचीने युगे, शासकेच्छानुसारं तद्-रञ्जनैकहेतुना, कस्मै अपि पुरुषाय गणाय वा, न्याय्यं कारणं विनाऽपि, प्राणदण्डोदीयत तम् असंस्कृतं अति प्राचीनं युगम् अपि नाम पुनरपि वयं प्रविष्टाः? ‘घोषित-ध्येयात् संघस्य वास्तवं ध्येयं भिन्नम्’ इति तत्रभवता लिखितम्। परंतु, ‘मनस्यन्यद् वचस्यन्यद्’ इति खलु धूर्तानां राजनीति-विशारदानाम् एव विशेषः। तेषां कृते तद् आवश्यकमपि स्यात्। वयं तु राजकारणात् सर्वथा अलिप्ताः। वयं सांस्कृतिकक्षेत्रे एव समाजसेवां कुर्मः। तदेव अस्माकं वास्तवं ध्येयम्। सर्वदा वास्तवोद्देशान् एव वयं प्रकटयामः।
“यदि वः दर्शनम् अभविष्यत् तर्हि अहम् अत्यानन्दितः अभविष्यम्। भवतु। ईश्वरेच्छा बलीयसी। ताम् आदृत्य, भवद्विषये स्नेह-सद्भाव-पुरःसरं यं मागं जगन्माता दर्शयेत् तम् अनुसर्तुं पर्युत्सुकोऽस्मि।
** सर्वमेतद् विचार्य कृपोत्तरेण अनुग्राह्योऽयं जनः इति शम्।”**
भवदीयः
(स्वाक्षरी) मा.स.गोलवलर
भारत-सर्वकारस्य निवेदनम्—
रात्रौ १२ वादने ऑक्टोबरस्य १२ तमो दिनः समाप्तः। १३ दिनाङ्के निशायाम् एक-वादने भारत-शासनेन स्व-निवेदनं प्रसारितम्। तद्यथा— ‘सर-संघचालकस्य निवेदनं स्वयंसेवकानां प्रत्यक्ष-व्यवहाराद् भिन्नम्। अतःराज्य-शासनेभ्यः संघात् प्रतिबन्धं प्रतिसंहर्तुम् आदेशो दातुं न शक्यः। अतएव च श्रीगोलवलकरस्थ दर्शन-विज्ञापनाऽपि प्रधानामात्येन न स्वीकृता’।
तदानीं लाला-हंसराजस्य भवने श्रीगुरुजिः वार्तालाप-मग्नः आसीत्। शासनस्य निवेदनं समालोक्य, ‘अपि नाम भवान् अस्य उत्तरं दास्यति? ‘इति श्रीहंसराजेन पृष्टः श्री गुरुजिः तम् उवाच— ‘मया सुस्पष्टमुत्तरं पूर्वमेव दत्तम्। पुनर्लेखनेन किम्?’
प्रभाते ४ वादने, नवदिल्लीनगर्याः आरक्षक प्रमुखः श्रीलाला-हंसराजस्य निवासम् उपागतः। १९१८ ख्रिस्ताब्दे अनुमतेन ‘बंगाल-स्टेट-प्रिझनर्स-अँक्ट’-आधारेण प्रकाशितं केन्द्रीय-गृहसचिवस्य आदेशम् अनुसृत्य तेन श्रीगुरुजिः बन्दिग्राहं गृहीतः, विमानेन च नागपुरं नीत्वा तत्रत्ये कारागृहे प्रक्षिप्तः।
१६. सत्याग्रहान्दोलनम्
परमपूजनीय श्रीगुरुजिः सर्वकारेण कारागारे निबद्धः इति वार्तया भारते सर्वत्रापि वातावरणं प्रतप्तम् अभवत्। सत्तोन्मत्तस्य शासनस्य असमर्थनीयं कृत्यमिदं वृत्तपत्रैः कठोरतया निषिद्धम्। रा. स्व. संघः काँग्रेसपक्षे विलयं यातु नो चेद् विनश्यतु इत्येव शासनस्य अभीष्टम् आसीत्। यस्तु संघटन-मार्गेण हिन्दुराष्ट्रं परं वैभवं नेतुं संशप्तकः आसीत्, तस्मै रा.स्व.संघाय आत्मनः काँग्रेस-पक्षे विलयनं कथं रोचेत।
सरसंघचालकस्य संदेशः—
कार्यसिद्धयं उपायान्तरस्य असंभवात् श्रीसर-संघचालकःसंदिष्टवान्-‘अ-भारतीयतायाः प्रभावात् देशान्तर्गताभ्यः दुष्प्रवृत्तिभ्यश्च स्वराष्ट्रं मोचनीयम् अस्ति। स्वार्थ-परायणैः सत्ता-मदान्धैश् च अधिकारिभिः क्रियमाणं मातृभुवः सकल-सन्तानानाम् अधिकारापहरणं निवारणीयम् अस्ति। सर्वेषां जीवनं सुखपूर्णं संमानयुतं च विधातव्यमस्ति। सर्वमेतत् कार्यजातम् अस्माभिरेव करणीयम्। कार्यमेतद् ईश्वरीयम्, अत एव श्रेष्ठम्। तस्य परिपूर्ती मानवतायाः महती अभिव्यक्तिः स्यात्, ईश्वरस्य च साक्षात्कारःस्यात्। तस्मात् उत्तिष्ठत। मास-दशकात् स्थगितस्य नः संघटन-कार्यस्य पुनश्च ‘हरिः ॐ’ कर्तव्यः। वयं तु सत्यव्रताः। यतः सत्यं ततो जयः। अप्रतीकारम् अन्याय-सहनम् तु पापमेव। अतः अन्यायः परिमार्जनीयः। परमेश्वरः एव सत्यस्य अधिष्ठानम्। तस्मिन् परम-श्रद्धया उत्तिष्ठत। कार्याय सन्नद्धाः भवत। आफलोदयं च अप्रतिहतम् अग्रे सरत। एष खलु अधर्मेण धर्मस्य, अन्यायेन न्यायस्य, दुष्टतया सह स्नेहस्य च संघर्षोऽस्ति।विजयो नः सुनिश्चितःयतः, ‘यत्र धर्मस्तत्र ईश्वरः, यतश्च ईश्वरस्ततो जयः इति चिरन्तनः सिद्धान्तः।’
श्रीसरसंघचालकस्य संदेशानुसारं भारते सर्वत्र सर्वे स्वयंसेवकाः आन्दोलन-प्रारम्भकं समादेशं प्रतीक्षन्ते स्म।
भारतस्य गृहमन्त्रिणः घोषणा—
ग्वालियर-नगरे डिसेम्बर ५ दिनाङ्के, सरदार-पटेल-महाशयः घोषयामास—‘रा. स्व. संघः सत्याग्रहं कर्तुकामः इति केचित् कथयन्ति। येषां तु अन्तरङ्गं विकारग्रस्तं ते सत्याग्रहे सफलाः कथं भवेयुः। अस्माभिः संघस्य काँग्रेस पक्षे विलयनाय सरसंघचालकस्य हृदयं परावर्तयितुं भृशं प्रयतितम्। तथापि तेन नः सूचनाम् अनादृत्य देशद्रोहकरः मार्गः आदृतोऽस्ति। संघस्य एतत् सत्याग्रहाह्वानम् अस्माभिः स्वीकृतम् अस्ति।
सत्याग्रह-प्रारम्भः—
डिसेम्बरस्य ९ दिनाङ्के, संघेन भारते सर्वत्र शाखा-कार्यम्
युगपद् आरभ्य सत्याग्रहः समारब्धः। एतस्मिन् सत्याग्रहान्दोलने हिन्दुसमाजस्य, शाखा-नानात्वेऽपि वृक्षैकत्वादिवत्, जाति-प्रान्त-भाषादीनां नानात्वेऽपि ‘हिन्दुः’ इति सर्वेषाम् एकतायाः आविष्कारः सर्वैः प्रत्यक्षीकृतः। अन्यतः, सत्याग्रहाह्वानं स्वीकृतेन सर्वकारेण (८०,०००) अशीति-सहस्रमिताः स्वयंसेवकाः कारागारेषु बन्दीकृताः।
देशान्तरेषु सत्याग्रह-वृत्त प्रसारः—
तदानीं कोऽपि लण्डन्-निवासी स्वयंसेवकः सत्वरम् अमृतसर-नगरम् आयातः। जानेवारी-मासे सत्याग्रहं कुर्वता तेन प्रकटीकृतं यत् ‘नैके इंग्लण्ड-देश-वासिनः स्वयंसेवकाः सत्याग्रहे संमिलितुं पर्युत्सुकाः सन्ति परं भारतम् आगन्तुं सर्वकारस्य अनुज्ञा (Passport) तैः शीघ्रं न लभ्यते’ इति।
आफ्रिका-देशे ‘हिन्दु-संदेश’-नामकेन दैनिकेन ‘रा. स्व. संघेन भारते सत्याग्रहः समारब्धः’ इति वृत्तं प्रसारितम्। नैरोबी-समीपे ‘नवाशा-‘नगरे डिसेम्बर २५ तः २७ दिनाङ्कं यावत् भारतीयानाम् एकं बृहत्-संमेलनम् अभूत्। तत्र समागतैः भारतीय प्रतिनिधिभिः ‘रा. स्व. संघात् प्रतिबन्धः शीघ्रम् अपसार्यताम्’ इति प्रस्तावः सर्वानुमत्या संमतः भारत-शासनं प्रति प्रेषितश्चासीत्।
पञ्जाबे सत्याग्रहिषु आरक्षकाणाम् अत्याचारः—
संघस्य सत्याग्रहं निरोद्धुं पञ्जाब प्रदेशे आरक्षकैः स्वयंसेवकाः न केवलं निगृहीताः अपि तु तदानीं हेमन्ते शैत्यातिशये सत्यपि ते तडागकुल्या-नद्यादिषु प्रक्षिप्ताः। कारागारे यथानियमं व्यवस्थायाः अभावात्, १२०० स्वयंसेवकैः४० दिनावधि उग्रःअन्नत्यागः कृतः। कारानियमान् अपि अविगणय्य, फिरोजपुर-काराधिपेन तृषार्तेभ्यः स्वयंसेवकेभ्यः २०-२० होरापर्यन्तं पातुं जलमपि न दत्तम्। भोजनमपि नियत-समये न दत्त्वा, अपराह्णे ३ वादने रात्रौ २ वादने च दीयते स्म। आग्रा-हावरा-जोधपुर-बक्सर-बरेली-ग्वालियरादिषु कारागृहेषु स्वयंसेवकाः दण्डैः निर्घृणं ताडिताः आसन्। मद्रास नगरे मोपला-आरक्षकैः तु सत्याग्रहिनः लत्ताप्रहारैः परिमर्दिताः। ताम् आसुरीं दण्ड-नीति विज्ञाय संसद्-सदस्यः
श्री. व्यङ्कटाचलं चेट्टी-महाशयः तद्-धिक्कारपरम् एकं पत्रकमपि प्रकाशितवान्। नेमस्त-पक्ष-प्रमुखेण श्री. व्यङ्कटराम-शास्त्रिणा अपि पत्रकद्वारा भारत-शासनं निर्भत्सितम् आसीत्।
पं.नेहरू-गर्जना—
अवसरेऽस्मिन् जयपुरे काँग्रेस-पक्षस्य सांवत्सरिकम् अधिवेशनं बभूव। तत्र पं.नेहरू-महाभागः जगर्ज—‘बालिशोऽयं संघ-सत्याग्रहः। वयं तथा करिष्यामः यथा संघस्य पुनरुत्थानं न कदापि संभवेत्। ‘सरदार-पटेल-महाशयोऽपि अघोषयत्—‘संघस्य स्वीया वाहिनी आसीत्। सा कदाचिद् राष्ट्रघाताय कल्पेन, इत्यतः तद्विनाशः आवश्यकः एव। स्वयंसेवकाः देशभक्ताः सन्ति चेत् ते काँग्रेस-पक्षे समाविष्टाः भवेयुः।
समाजे तु संघं प्रति हृद्या सहानुभूतिः आसीत्। यत्र यत्र स्वयंसेवकैः सत्याग्रहः कृतः, तत्र तत्र सहस्रशः नागरिकैः तेषां जयघोषः कृतः, सुवासिनीभिश्च ते नीराजिताः। मुम्बापुरी-पुणे-नागपुरादिषु नगरेषु जनैः स्वयंस्फुर्त्या सर्वकार-निषेधार्थं संचलनं संयोजितम् यस्मिन् वनिताः अपि संमिलिताः आसन्। सत्याग्रहे संमिलितानां संख्यायाः अमेयता, आन्दोलनस्य व्यापकता, संयोजकानां कुशलता विमर्शकारिता च, आरक्षकैः सह व्यवहारे सौजन्यम् इत्यस्य सत्याग्रहस्य विशेषाः आसन्।
श्रीजयप्रकाश-स्पष्टोक्तिः—
आदरणीयेन श्रीजयप्रकाश-नारायणेनापि वाराणस्यां सांप्रदायिकता-निषेध-सप्ताहस्य उद्घाटनावसरे संघ-विषयकः स्वाभिप्रायः प्रकटीकृतः। सोऽब्रवीत्—‘स्वयंसेवकानां चारित्र्यं दृढना, स्नेहभावः अनु-शासन-प्रियता इत्यादयो गुणाः निःसंशयं प्रशंसनीयाः। संघेन समाजसेवार्थं भूरि भूरि कार्यं कृतम्। तेनैव कारणेन संघःअद्यापि जीवति। सर्वकारस्य निर्बन्धेन संघ-कार्यं न कदापि नश्येत्…..इति।
शम-प्रयत्नाः—
सत्याग्रहस्य प्रभावेण सात्विक-वृत्तिकैः कतिपयैः देशभक्तैः संघशासनयोः शमार्थं प्रयत्नाः प्रारब्धाः। महाराष्ट्रे लोकमान्यानां ‘केसरी’-
पत्रस्य तत्कालीनः संपादकःश्री.ग.वि.केतकर-महाशयः शिवनी-कारागृहे श्रीगुरुजिं द्रष्टुं शासनेन अनुज्ञातः। १९४९ क्रिस्ताब्दे जानेवारी-मासे, तेन श्रीगुरुजिना सह द्विवारं मन्त्रणा कृता। मध्यस्थ-प्रयत्नाः सफला भवन्तु इति सद्-हेतुना श्रीगुरुजिःआन्दोलन स्थगितवान्। श्रीकेतकर-महोदयेनसरसंघचालकस्य आन्दोलन-स्थगतादेशः १९-१-४९ दिनाङ्के प्रकटीकृतः। तदनु २२ दिनाङ्के आन्दोलन-सूत्रचालकेन श्रीमहावीरेण अपि ‘संघस्य सत्याग्रहः सांप्रतं स्थगितोऽस्ति’ इति घोषणा कृता।
स्थगिते आन्दोलने, ट्रिव्यून्-स्टेटस्मन्-न्यूज़क्रॉनिकल्-इत्यादिभिः वृत्तपत्रेः’ अधना सर्वकारेण कारागारेषु निबद्धानां संघीयानां कार्यशक्तिः अधिक काल व्यर्थतां न गच्छत् इति दृष्ट्या संघ-प्रतिबन्धः अपसार्यः’ इत्याशयः स्वाभिप्रायाः प्रकाशिताः।
सर्वकारं प्रति संघ-संविधान-प्रेषणम्—
तथा उदार-दलस्य (Liberal Federation) अध्यक्षः, काँग्रेसपूर्वस्य मन्त्रिमण्डलस्य सभ्यः श्री.टी.आर.व्यङ्कटराम-शास्त्री-महाभागोऽपि माध्यस्थ्य-हेतुना पुरःसरो बभूव। वयो-ज्ञान-वृद्धत्वात् निरपेक्ष-समाजसेवया, निष्पक्षपात-व्यवहारेण च सः ‘दक्षिण-देशस्य भीष्मः’ इति विख्यातः आसीत्। सोऽपि श्रीगुरुजिना साकं द्विवारं विचार-विनिमयं कृतवान्। तत्सूचनानुसारं बहिःस्थानां संघकार्यकर्तॄणां साहाय्येन श्रीशास्त्रि-महाशयः संघस्य संविधानं लेख-निविष्टं कृत्वा श्रीगुरुजिं पुनः समुपेतः। संविधानं पठित्वा, ‘सम्यग् लिखितम्’ इति स्वाभिप्राय-लेखं तस्मै दत्त्वा, ‘संविधानमिदं भारत-सर्वकारं प्रति प्रेष्यताम्’ इति श्रीगुरुजिः तम् विज्ञापितवान्। श्रीशास्त्रिणाऽपि तथा कृतम्। किन्तु ‘संघस्य संविधानं सर संघ-चालकात् न आगतम्’ इति केवलं ‘तान्त्रिकव्याजेन शासनेन तत् प्रतिप्रेषितम्। शासनेन अवलम्बितायाः विलम्बनीत्याः हेतुं सम्यग् वितर्क्य, ‘निजं माध्यस्थ्यं सर्वकारस्य न इष्टम्’ इति ज्ञात्वा, श्रीशास्त्रिमहाशयः कंचित् कालं तूष्णीं स्थितः।
अनन्तरं सर-संघचालकात् संप्राप्तं संविधानं सर्वकारेण पर्यालोचितम्। तद्यथा—“नूतनःसर-संघ-चालकः तत्पूर्वेण सर-संघचालकेन
नियोक्तव्यः इति नियमःएकाधिपत्य (फॅसिस्ट-वृत्ति)-सूचकोऽस्ति। बालानां संघे प्रवेशश्च घातकः एव”। अन्ये अपि केचित् क्षुद्राक्षेपाः आसन्।
मध्यस्थस्य पत्रकम्—
श्रीगुरुजिना ते सर्वे आक्षेपाः सम्यग् विखण्डिताः। तथापि संघात् प्रतिबन्धं प्रत्याहर्तुं शासनं सर्वथा उदासीनम् आसीत्, यतः संघस्य समुत्पाटनम् एवपं.नेहरू-महाशयस्य अभीष्टमासीत्। एवं गते, वस्तुस्थितिनिदर्शकम् एकं पत्रकं श्री. व्यङ्कटराम-शास्त्रिणा प्रकाशितम्। तद्यथा—
‘संघं निहिताः आरोपाः असत्याः, तेषां निराधारत्वं सिद्धम् इति मन्ये। ‘फॅसिस्ट’ इति संज्ञया शासनं संबोधितुं शक्यम्। यस्यास्तु संस्थायाः सदस्यत्वं सर्वथा ऐच्छिकम्, न अनिवार्य, तस्याः’फॅसिस्टपदेन वर्णनं सर्वथा अन्यायकरम् एव। अन्यत् च, प्रमुखस्य नियुक्तिः अन्यसंस्थासु अपि क्रियते। स तु केवलं संस्था-सदस्यानाम् एव अधिकारः, न अन्येषां वहिःस्थानाम्। ‘संघो राजकारणाद् अलिप्तः इति संघीयाः सांप्रतं घोषयन्तु नाम, परं ते अकस्माद् राजकारणं प्रविशेयुः’ इत्याक्षेपः अपि अप्रतिष्ठः। कामं ते प्रविशेयुः; तथा करणे तु न कोऽपि प्रत्यवायः, न वा सः अपराधः। अतोऽहं ब्रवीमि—संघात् प्रतिबन्धः नचिरेण अपनेयः इति। तथा अकृत्वा संघीयानां कारासु निबन्धनं न न्याय्यम्, न हितम् न वा सविवेकम्।
श्रीगुरुजेः कारा-वास-वैभवम्!
पत्रकस्यास्य प्रकाशनात् पूर्वमेव शासनेन श्रीगुरुजिःशिवनीकारागृहात् १२५ कि.मी.दूरे स्थितं, स्वास्थ्य विघातकं बैतूल-कारागारं नीतः आसीत्। शिवनी- कारायाम् अपि नियमानुसारं प्राप्तव्याःसुविधाःदुर्लभाः आसन्। बैतूले तु समग्रा कारा-व्यवस्था सर्वथा प्रतिकूला आसीत्-निवास-कोष्ठः अतिशीतलः, खट्वा जीर्णा, बूसी (Chair) द्वयं भग्नप्रायम्, भोज्यं कदन्नम्, आस्तरणम् अपर्याप्तम्, एकः ‘केरोसिन-स्टव्ह’, एकःतैलदीपः, एकं शिक्य-भाण्डम्, नागदन्तात् लम्बमानः
एकःनिर्मलःनक्तकः(Towel), तथा च हस्तधौतम् एकमेव ‘कमीजम्’। अहो कारावास-वैभवं राजबन्दिनः!
जून १८ दिनाङ्के, स्वपुत्रं माधवं कारागृहे द्रष्टुं गतौ तस्य पूज्यौ मातापितरौ आरात् तद्दर्शनमात्रेणैव अश्रु-पूरित-नयनौसंजातौ। ततः प्रत्यागत्य पू.ताईजी निवेदितवती यत् ‘संघकार्यार्थं कृतेन कष्टाति-शयेन अविरत-प्रवासेन च माधवस्य शरीर-स्वास्थ्यं पूर्वं न कदापि तथा क्षीणतां गतं यथा अनेन कारावासेन’ इति। श्रीगुरुजि-महाशयस्य शरीर-स्वास्थ्य-विषयकेण ताईजी-कृत-निवेदनेन चिन्ता-व्याकुलितैः असंख्यैः नागरिकैः पत्राणि विद्युत्-संदेशाश्च सर्वकारं प्रति प्रेषिताः।
श्रीगुरुजेः योगक्षेमस्य कारागारे उपेक्षा—
‘हितवाद’-संपादकेन एवमपि सखेदं प्रकाशितं यत्’कारावासकाले श्रीसर-संघ-चालकाय दीयमाना मासिक-भृतिः(allowance) अयोग्या अवमानकरा च। स्वातन्त्र्य-पूर्वकाले, १९१८ क्रिस्ताब्दे ब्रिटिश्-सर्वकारेण पारितस्य निर्बन्धस्य आधारेण ये राजबन्दिनः स्थानबद्धाः क्रियन्ते तैः सह तेषां सामाजिक-प्रतिष्ठानुरूपं व्यवहर्तव्यम्, तेषां तत्कुटुम्बीयानां च सर्वः योग-क्षेम-भरः शासनेन वोढव्यः इत्यपि तस्मिन् निर्बन्धे एव निर्दिष्टमस्ति। स्वातन्त्र्यात् पूर्वं श्री.शरच्चन्द्र बोस-महा-शयोऽपि अनेनैव निर्बन्धेन स्थानबद्धः आसीत्। परं तस्मै प्रतिमासं १५०० रूप्यकाः भृतित्वेन दत्ताः, तथा तत्कुटुम्बीयानां कृतेऽपि पर्याप्तो व्ययः शासनेन कृतः आसीत्। अतः स्वतन्त्र भारतस्य शासनेन तेनैव निर्बन्धेन स्थानबद्धस्य सर-संघचालकस्य कृते अपि यथोचितः व्ययः अवश्यं कर्तव्यः’ इति।
सर्वकारेण न्यायाधीशः वैद्यीकृतः!—
श्रीसरसंघचालकस्य शरीरस्वास्थ्यं कारावासेन क्षीणतरं जातम इति ज्ञात्वा यदा जनाः संक्षुब्धाः तदा मध्यप्रदेश-सर्वकारेण जुलै ७ दिने प्रकाशितं यत् ‘न्यायमूर्तिः श्रीमङ्गलमूर्तिः सरसंघ-चालकस्य शरीरस्वास्थ्यम् परीक्षितुं नियुक्तोऽस्ति’ इति। वृत्तमेतत् अवगम्य श्रीगुरुजिः विहस्य अब्रवीत्—‘न्यायाधीशोऽपि देहस्वास्थ्यं चिकित्सयति
इति मया अद्यैव अवगतम् !’ यदा च श्रीमङ्गलमूर्तिः श्रीगोलवल-करस्य प्रकृति-परीक्षणार्थं कारागृहं गतः, तदा सः गुरुजिं पृष्टवान्—‘कच्चित् कुशली भवान्?’ गुरुजिः तम् उवाच, “आम्; यः न्यासस्य प्रत्यर्पणे न कदापि अक्षमो भवति, तस्मिन् ईश्वररूपेऽधिकोषे (bank.)मयाऽस्ति मद-जीवन-धनं संनिहितम्। तस्मात् इहापि कुशलोऽस्मि। निखिल-जगत्-चालके परमेश्वरे एवंरूपा परमा श्रद्धा श्रीगुरुजिना सारगाछयां श्रीअखण्डानन्दानां सान्निध्ये पूर्वमेवसमधिगता। भवतु \।
वृत्तपत्राणाम् अभिप्रायः—
पुण्यपत्तने ‘हितवाद’-संपादकःउक्तवान्—“संघ-स्वयंसेवकानां निष्ठा, चारित्र्यं नियमशीलता, देशभक्तिः, अनुशासनम् इत्यादिकं सर्वमपि असामान्यम्। मध्यप्रदेशस्य एकः मन्त्रिमहाशयः मह्यं निवेदितवान् यत् ‘संघस्य देशव्यापके सत्याग्रहे प्रचलति सति, काश्मीरात् कन्याकुमारीपर्यन्तं शतशः स्वयंसेवकानां गृहाणि रक्षापुरुषैः अन्वेषितानि; आक्षेपार्हं तु न किमपि कुत्रापि उपलब्धम्।’ संघीयानाम् एतद् निर्मलं शीलमालोक्य संघस्य भवितव्यम् उज्ज्वलतरम् इति मन्ये।”
इङ्ग्लण्ड-देशस्य राजधान्यां प्रकाशिते ‘Word’ इत्याख्ये मासिके १९४८ जूनमासस्य अङ्के संपादको लिखति—"सर्वथा निन्दास्पदी-भूते ब्रिटिश राज्येऽपि नागरिक-स्वातन्त्र्यस्य इयती अवहेलना न कदाप्यभवत्। नेहरू-शासनं तु नग्नरूपः ‘फांसीवादःएव”
जुलै १० दिनाङ्के पूर्वनिर्दिष्टं सविस्तरं पत्रकं प्रकाश्य श्री. व्यङ्कट-राम-शास्त्रिणाऽपि भारत-सर्वकारस्य प्रबोधनं कृतमासीत्। परिणामतः भारतस्य गृहमन्त्रिणा श्री.पटेल-महाशयेन मध्यभारतस्य गृहमन्त्रिणा सह मन्त्रणां कृत्वा सः श्रीराजेन्द्रप्रसादाय निसृष्टः। श्रीराजेन्द्रप्रसादात् लब्ध-
सूचनः श्रीमौलिचन्द्र-शर्मा नागपुरे श्रीमद्भ्यां दाणी-देवरस-महाशयाभ्यां सह् मन्त्रणां कृतवान्। पश्चात् श्रीगुरुजिम् उद्दिश्य एकं पत्रं, तथा तस्य इष्टम् उत्तरमपि स्मयमेव लिखित्वा श्री. मौलिचन्द्रः शासनस्य वाहनेन कारागृहं गतवान्। तत्र तत्पत्रद्वयं तेन श्रीसरसंघचालकस्य हस्ते निहितम्। उभेऽपि पत्रे पठित्वा श्री.मौलिचन्द्रम् उद्दिश्य लिखितस्य उत्तरस्य प्रतिकृति कृत्वा श्रीगुरुजिःतत्र स्वाक्षरीमपि कृतवान्।
नागपुरं प्रत्यागत्य श्री.मौलिचन्द्रः श्रीगृहमन्त्रिणः निवासं गतवान्। ततः तेन डेहराडूने स्थितं श्रीसरदार-पटेल-महाशयं तत् पत्रद्वयं दूरध्वनिना श्रावितम्। तदादेशात् च स तत्पत्रद्वयं तस्मै प्रेषयामास। तथा च ‘इतः-परं पादोनलक्षमितानां स्वयंसेवकानां कारागारे निबन्धनं सर्वथा अनुचितम् ’ इत्यपि सः गृहमन्त्रिणं सूचयामास।
अहो ! अपगतं संघ-बन्धनम्—
जुलै १२ दिनाङ्के सायंकाले भारत-सर्वकारेण नभोवाण्या विशेष-पत्रक-द्वारा च ‘संघात् प्रतिबन्धः प्रत्याहृतः’ इति प्रकटीकृतम्। प.पू. गुरुजिना यथा उक्तमासीत् तथैव अभवत्। प्रतिबन्धः सर्वकारेण निहितः, तेनैव च अपहृतः।
प्रतिबन्धरूपात् अग्निदिव्यात् बहिरागतः कान्तवर्णः रा.स्व.संघः विदग्ध-सुवर्णस्य सादृश्यं गतः।
१७. सार्वत्रिक स्वागतावलिः
श्रीगुरुजि-महोदयःबैतूल-बन्दि-गृहात् १३-७-४९ दिनाङ्के मुक्तः। १८ मासावधि ये कष्टाः मनोवेदनाश्च तेन स्वयंसेवकैश्च निरन्तरं विसोढाः तद्विषये क्रोध-द्वेष व्यञ्जकः एकोऽपि शब्दः तेन न उच्चारितः। कारागृहस्य बहिर्भागे स्वागतार्थं समवेतान् अनुयायिनः हितचिन्तकांश्च उद्दिश्य श्रीगुरुजिः अब्रवीत्—“संघ-बन्दी प्रकरणमिदम् अत्रैव समाप्यताम्। विस्मरत तत् सर्वम्। यैः अन्यायः कृतः इति मनुध्वे ते सर्वेऽपि
स्वजनाः एव। यदा क्वचित् अस्माकं जिह्वा दन्तैःदश्यते, तदा नोन्मूलयामः स्वदन्तान्। यदा वा मार्गे पादेन पादो प्रतिरुध्यते, तदा नैव छिन्द्मःस्वपादौ। अत एव सर्वमपि विगतं विस्मृत्य ते स्वजना क्षन्तव्याः।”
समानावस्थायां महतां चित्तमपि समानं वर्तते इति ज्ञापयितुं मे स्मृतिपथम् आगतं वीर-सावरकर-महाशयस्य उदाहरणम् अत्र अस्थाने न स्यात्। १०-२-१९४९ दिनाङ्के गान्धी हत्या अभियोगात् एव ‘वीर-सावरकरः निर्दोषःनिष्कलङ्कश्च’ इति निर्णीय न्यायाधीशेन सः निर्मुक्तः। तस्य विधिज्ञेन श्री.भोपटकर-महाशयेन, सावरकरम् अपृष्ट्वा एव एकं पत्रकम् प्रकाशितम्—‘ये गान्धी-हत्या-निमित्तं वीर सावरकरे अभियोगाय अनुमतिर्दत्ता आसीत् तान् अन्वेष्य शासनेन अपराधिनो दण्डनीयाः’ इति। वीर-सावरकर-महाशयः सपद्येव १२-२-४९ दिने श्रीभोपटकरं लिखितवान्—‘हेतुतः द्वेषबुद्ध्या वा अधिकारिभिः मयि अभियोगः कृतः इति न मन्ये। मया न्यायः संप्राप्तोऽस्ति संमानेन सह दोषमुक्तश्चास्मि। अतः सर्वम् इदं शोचनीयं प्रकरणं विस्मर्तव्यम्’ इति।
तस्मिन्नेवदिने अपराह्णे, श्रीगुरुजिः नागपुरं प्रतिनिवृत्तः। त्रिंशत्-सहस्रैः दर्शनोत्सुकैः आबालवृद्धैः तद्-जय-जय-कारेण अम्बरतलं निनादितम्। प्रथमं तस्य पितृपादैः पुष्पहार-समर्पणेन स्वागतं कृतम्। तदनन्तरं सर-कार्यवाह श्री. भय्याजिः दाणी-महाशयः सुमनसां मालया परम-पूजनीयस्य सर-संघचालकस्य सत्कारं कृतवान्। तस्मिन्नेवक्षणे श्रीव्यङ्कटराम-शास्त्रिणः सभाजन-सन्देशः संप्राप्तः। तस्मिन् विद्युत्-सन्देशे ‘तत्सर्वं शोभनं यद् हि शोभनान्तं भविष्यति’ (All is well that ends well) इति निर्दिष्टम् आसीत्।
अभिनन्दन-वृष्टिः
श्रीगुरुजि-महाशये अभिनन्दन-पत्राणां विद्युत्-संदेशानां च सर्वतः वृष्टिरभवत्। गालि-दायकैः अपि स्वानन्दः प्रकटीकृतः। पुण्यपत्तने तु २० स्थलेषु सार्वजनिक-सत्यनारायण-पूजां विधाय लक्षार्धमितैः जनैः स्नेहादरौ व्यक्तीकृतो।
डॉ. श्यामाप्रसाद मुखर्जी-महाशयः अभिनन्दन पत्रे लिखितवान्—देशेऽस्मिन् निखिल-सात्त्विक शक्तीःएकत्रीकर्तुं सांप्रतम् अनुकूल-वातावरण-निर्माणं शक्यम्’ इति।
कलकत्तातः स्टेट्स्मन-पत्रेण स्वाभिप्रायः इत्थं प्रदर्शितः—‘संघ-बन्दी-निरसनं नाम राष्ट्र-पुरुषस्य नीरोगतायाः निदर्शनमेव।’
ईदृशे नवोत्साहे सर्वत्र संचरति सति, श्रीगुरुजिः प्रतिबन्ध-निराकरणे सहायभूतान् द्रष्टुम् उत्कण्ठितः आसीत्। श्रीमद्भ्यः व्यङ्कटराम-शास्त्री, ग.वि.केलकर-सेनापति बापट-डॉ. भगवानदास-सरदार किसनसिंह (क्रान्तिवीरस्य भगतसिंहस्य पिता) -ना.म.जोशी-गङ्गाधरराव देशपाण्डे-इत्येतेभ्यः, तथा च भारत-शासनस्य मन्त्रिभ्योऽपि श्रीगुरुजिना कृतज्ञता-पत्राणि प्रेषितानि।
नागपुरे विद्यमानः ‘डॉ. हेडगेवार-भवन’-नामकः संघस्य मुख्यः कार्यालयः१७-७-४९ दिनाङ्के शासनेन संघाय प्रत्यर्पितः। तस्मिन्नेव दिने श्रीगुरुजिना संघःशाखायाः पुनश्च शुभारम्भः कृतः।
नागपुरे विधिज्ञ-मण्डलेनापि श्रीगुरुजिः संमानितः। तदानीं सः सभास्तारान् प्रोवाच, ‘यथा लवण-कणः जले विलयं याति तस्य पृथक अस्तित्वं नावशिष्यते, परं जलस्य बिन्दुमात्रेषु तद् अनुभूयते, तद्वत् व्यक्तिमात्रस्य समष्टिना सह तन्मयता भवितुमर्हति '
जुलै १९। श्रीगुरुजिःमुम्बई-पुणे-मद्रास-इत्यादि-नगरान् गन्तुं प्रस्थितः। २१ दिनाङ्के तेन**सरदार-पटेल-महाशयस्य पत्रं लब्धम्।**आसीत् तत्र लिखितम्—‘अस्वस्थोऽहम्। देशस्य सांप्रतिकीं दशां दृष्ट्वा विश्रान्तिं नेच्छामि, तदर्थं समयोऽपि नास्ति।—संघात् प्रतिबन्धे दूरीकृते मया कियान् आनन्दोऽनुभूतः तत्तु ते एव जानन्ति ये तदानीं मम सविधे आसन्। ….कृपया मम शुभेच्छा स्वीकार्यताम्।
यदा श्रीगुरुजिःमद्रास-पुरं प्रस्थितः तदा मार्गे वर्धा-बटोदरा-चान्दा-बल्हारशाह-विजयवाडा-इत्यादि स्थानकेषु स्वयंसेवकैः नागरिकैश्च तस्योपरि पुष्पवर्षां कृत्वा स्वीयाः सद्भावनाः प्रकटीकृताः। वर्धा-स्थानके सत्कारोत्तरं गुरुजिः अवदत्—‘१८ मास-मिते प्रतिबन्ध-
काले भूरि भूरि हानिः संजाता। परं नेयं हानिःमन वैयक्तिकी, न वा केवलं संघस्य, अपि तु निखिलस्य भारतस्य एव।’
मद्रासपुरात् सः पुण्यपत्तनं प्रस्थितः। पथि रायचूर-रेणुगुण्ठा-कडाप्पा-गुण्टकल-गुलबर्गा-सोलापुर-इत्यादिषु स्थानकेषु दर्शनोत्सुकैः जनः सः सुम-मालाभिः संपूजितः। यदा श्रीगुरुजिः पुण्यपत्तनं प्राप्तः, तदा स्थानके २५ सहस्रमितैः शुभेच्छुभिः तस्य अभूतपूर्वं स्वागतं कृतम्। २४३ संस्थाभिः सः पुष्पाञ्जलिभिः पूजितः। तदुत्तरं सः अवोचत्—“संघस्य आन्दोलनेन न कृतः निर्बन्ध-भङ्गः, न वा सर्वकारस्य विरोधः। सर्वकारेण सह मतभेदः शक्यः। मतभेदे विद्यमानेऽपि एकतायाः साक्षात्कारः एव लोकतन्त्रस्य निकषः। यैः गालिदानं कृतं तेषां प्रति स्नेहभावः कथं शक्यः इति केचित् पृच्छेयुः। किन्तु एतदेव मानवस्य श्रेष्ठत्वम्। स्वाभाविकीं प्रवृत्तिं जित्वा तस्याः उदात्तीकरणेन एव मानवः मानवत्वं लभते। क्रोधस्तु नराणां पशुभिः समानः। परं स्वाभाविकस्य क्रोधस्य जयः एव मानवता। ‘समग्रोऽयं हिन्दुसमाजः मदीयोऽस्ति। चैतन्यशक्तेः अयं सांस्कृतिकः प्रवाहः मदीयोऽस्ति। वयं सर्वे तद्-बिन्दवः एव’ इत्येव भावना अस्मदन्तःकरणे सर्वदा विलसतु।
पुणे-नगरात् श्रीगुरुजिः मुम्बापुरीं प्रस्थितः। आ-मुम्बापुरीं दर्शनेच्छुभिः प्रतिस्थानके समाकुले सति, अग्निरथोमुम्बापुरी यथासमयं गन्तुम् असमर्थो बभूव। ततः नागपुरं गच्छन् सः मार्गे भुसावल-स्थानके सत्कार-सत्रेण उद्वेजितः उपस्थितान् अब्रवीत्—‘कारागारे या भूरि विश्रान्तिर्लब्धा। ततस्तु मुक्तिर् लब्धा, परम् एते व्यर्थाः स्वागत-समारोहास्तु मां नैव मुञ्चन्ति’ इति।
नागपुरे मानपत्र-समर्पणस्य समारोहे श्रीगुरुजिः बभाषे—‘यदा मया सर्वकारेण सह मन्त्रणा कृता तदाऽहं गोलवलकरो नाऽऽसम्। यस्य अहं प्रतिनिधिः तस्य अवमानात् प्राक् मया मरणं वृतं स्यात्, न तु संघस्य अवमाननम्।
उमरेड-ग्रामे सत्कारावसरे श्रीगुरुजिना स्पष्टीकृतम्—‘विगते सार्धवर्षे संघे कृताः आघाताः यदि परकीयाः अकरिष्यन्, तर्हि २४ वर्षेषु अस्माभिः यत् सामर्थ्यं समधिगतं तेन ते सुपरिचिताः अभविष्यन्। अस्माभिः मृत-मातुः स्तन्यं न पीतम् इत्यपि तैरनुभूतं स्यात्।’ अस्तु।
सरदार-पटेल-दर्शनम्—
ततः प्रत्यागत्य, श्रीदाणी तथा श्रीबालासाहेब-देवरस इत्येताभ्यां सह श्रीगुरुजिः सरदार-पटेल-महाशयं द्रष्टुं मुम्बापुरीं प्रयातः। तदानीं स ‘लोहपुरुषः’ अतीव गलितगात्रः अदृश्यत। स उवाच—‘यद् वीतं तद् विस्मृत्य देशस्य भवितव्यता विचार्यताम्।’ अनेके विषयाः तदानीं तेन ऊहिताः। ‘देशच्छेदोत्तरं भारतस्य सेना-विषयकः व्ययः वृद्धिं गतः। परं पाकिस्तानेन आदृता नीतिरेव तत्र हेतुः। अन्यच्च, किश्चन्-मिशनरीणां लीलाःभारते कथं शक्याः भवन्ति। अस्मत्समाजे नूनं कोऽपि दोषः स्यात्। सः अवश्यं दूरीकरणीयः। अस्मत्समाजस्य ‘पाचक-शक्तिः’ वृद्धि यातु।…….सांप्रतं देशे शान्तिः आवश्यकी’ इति। अन्ते, ‘अत्रभवता यत् कथितं तद् अवश्यं वयं विचाररयामः’ इति आश्वास्य, श्रीगुरुजिः तम्आमन्त्रयामास।
स्वागतं देव-दुर्लभम्!—
तदनन्तरं श्रीगुरुजिः भारतस्य राजधानीं प्रस्थितः। नवदिल्ली स्थानकेन एतावान् जनसंमर्दः पूर्वं कदापि न दृष्टः। नवदिल्ल्यां जनता-जनार्दनेन कृतं गुरुजि-महाशयस्य स्वागतं ननु देवदुर्लभम् आसीत्। सायं रामलीलाङ्गणे सत्कार-सभायां पञ्च-लक्ष-मिताः नागरिकाः उपस्थिताः आसन्। अहो मानव-सागरः खलु सः! ये प्रेक्षकाः तदानीं संघस्य सभायां प्रथममेव उपस्थिताः तेषां तु तत्रागमन-श्रमः आलोकमात्रेण व्यपगतः। अद्य परिसमाप्तं नयन-युगलस्य द्रष्टव्य-दर्शन-फलम् इति सन्तोषोद्गारः तेषां वदनात् विनिःसृतः। सभायाः सुभव्यता, स्वयंसेवकानां व्यवस्था-कौशलस्य सीमान्तलेखा, सभासदानां मुखमण्डलेषु दृश्यमानः परमः आदर-भावः, श्रीगुरुजिना कृतं नैक-विषयाणां सरलं, सुबोधं, राष्ट्रहित-व्यञ्जकं च विश्लेषणम् इत्येतत् सर्वं सर्वेषां श्रोतॄणां परम-संतोष-जनकं प्रभावकरं च आसीत्।
पत्रकाराणां प्रतिक्रिया—
समारोहस्य भव्यतया दिव्यतया च प्रभावितानां वृत्तपत्रकाराणाम् अपि प्रतिक्रिया ज्ञातुं योग्या अस्ति। सभास्थाने दृग्गोचरीभूतं शान्तिपूर्ण
वातावरणम् अनुशासनं च संवीक्ष्य चकितचकितेन ब्लिट्झ साप्ताहिक-प्रतिनिधिना स्वाभिप्राये लिखितम्—‘अमेयस्य जनसंमर्दस्य नियमनार्थं तत्र नासीत् एकोऽपि आरक्षकः। स्वयंसेवकानां शिष्टाचार-युता सर्वथा निर्दोषा च सा सुव्यवस्था काँग्रेस-पक्षस्य सभासु दरीदृश्यमानायाः संभ्रमान्वित-व्यवस्थातः सर्वथा विलक्षणा आसीत्।’ ब्लिट्झ-संपादकेन अन्ते लिखितम्—‘संघेन एकस्मिन् एव संवत्सरे सुविशाल जनसंमर्दः आकृष्टोऽस्ति। अयं खलु तस्य महान् विजयः एव ! कलकत्तातः अमृत-बझार-पत्रिकायाः सम्पादकेन श्रीगुरुजि-महोदयस्य कार्यकौशलं मुक्तकण्ठं संवर्ण्यअन्ते समासेन लिखितम्—‘श्रीगोलवलकर गुरुजिः आगतः, तेन वीक्षितम्, जितकल्पं च।’ ब्रिटिश-नभोवाण्या (बी.बी.सी.) उद्घोषितं यत् श्रीगोलवलकरः खलु भारतस्य क्षितिजे उदितःदेदीप्यमानः तारः एव।
परम्परीणे राष्ट्रगीते श्रीगुरुजेःआस्था—
दिनद्वयानन्तरं रामलीलाङ्गणे एव राजधानी-स्थितैःप्रमुख-नागरिकैः सरसंघचालकस्य संमानार्थम् उद्यान-भोजनम् आयोजितम्। भोजनोत्तरं मानपत्र-समर्पण-विधिः अभवत्। कार्यक्रमान्ते राष्ट्रगीतं नियोजितम् आसीत्। गीत गायकं पूर्वमेव आहूय गुरुजिः तम् अपृच्छत् ‘कच्चित् ते संपूर्ण राष्ट्रगीतं कण्ठस्थमस्ति? ’ ‘नहि आर्य’ इत्युत्तरं श्रुत्वा, ‘लिखितं गातुं शक्तोऽसि न वा? आम्’ इति सः अब्रवीत्। सपद्येव गुरुजिना संपूर्णं’ वन्दे मातरम्’ इति राष्ट्रगीतं स्वयं लिखित्वा तस्मै दत्तम् बोधितं च यत् ‘अस्माभिस्तु “वन्दे मातरम्” संपूर्णमेव गातव्यम्।” भारतस्य परंपरा-प्राप्ते राष्ट्रगीते ईदृशी आस्था दक्षता च अन्यत्र क्वचिदेव दृश्यते।
ततः श्रीगुरुजिःजयपुरं, तदुत्तरं च पञ्जाब-प्रदेशं गतवान्। अम्बाला-नगरे ‘फिनिक्स-क्लब’ मध्ये संमान-प्रसङ्गे स उवाच—“निर्वासितानां समस्यां समाधातुं चारित्र्य-संपन्नाः जनाः नितराम् आवश्यकाः, तथा च व्यवहार्या उपाय-योजनाऽपि आवश्यकी।” संघ- विषयिणीं शङ्कां निराकुर्वन् सः अवदत्—“संघस्य कार्यं कदापि कुत्रापि च गुप्तं नासीत्। सांप्रतं तु प्रदर्शन-युगं प्रचलति। अतः सांप्रतं
‘वयम् अभयंकराः’ इति निदर्शकं प्रदर्शनम् अस्माभिरपि अनिच्छया करणीयमेव। भवतु। पूर्वपञ्जाब-निवासिभिः’वयं भारतीय-संस्कृतेः रक्षकाः एव’ इति न कदापि विस्मर्तव्यम्।”
कुरुक्षेत्रे दर्शनोत्सुकं महान्तं जन-संमर्दं मार्गात् अवसारयितुं दण्डम् उद्यम्य एकः आरक्षकः लोकान् ताडयितुं प्रवृत्तः। तत्क्षणमेव उद्धृत-दण्डं तस्य हस्तं निरुध्य गुरुजिस्तं शशास—‘शृणु रे भद्र, जनतायाः नियन्त्रणम् ईदृशेन दण्डेन न शक्यम्; तत्तु प्रेम-दण्डेन एव साधनीयम्’ इति।
अमृतसर-नगर-काँग्रेस-कृतः गुरुजि-सत्कारः—
अमृतसर-स्थानकेतु ‘नगर-काँग्रेस-समित्या’ अपि पुष्पहारं समर्प्यश्रीगुरुजिः कृतज्ञतया संमानितः आसीत्। पञ्जाव-प्रदेशे एकदा, एकस्मिन् एव दिने, सप्तदशं-सत्कार-सभासु श्रीगुरुजिः भाषणानि कृतवान्। सहस्रशोऽथ लक्षशः दर्शनोत्सुकानां जनानां नेत्राभ्यां निःसरन्ती कृतज्ञता ‘त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव’ इति हृद्गतम् अनुक्तमपि अकथयत्। पञ्जाब-प्रदेशे कार्यक्रमाणाम् आनन्त्यात् ‘गुरुजिः विश्रामम् एव विश्रमितुम् आदिष्टवान्’ इति तत्रत्यैः कार्यक्रमैः प्रभावितेन ‘हिन्दु’-पत्रेण लिखितम् आसीत्।
महामात्येन सह विमर्शः—
पञ्जाब-प्रदेशात् राजधानीं प्रत्यायातः श्रीगुरुजिःप्रधानामात्यं पं.नेहरू-महाभागं द्रष्टुं समुपेतः। तदुत्तरं सेप्टेम्बरे तथा नोव्हेम्बरेऽपि सः प्रधानामात्यं पुनः दृष्टवान्। महामात्येन तदानीं दीर्घकालं यावत् गुरुजिना सह विचार-विनिमयः कृतः। राष्ट्रवादः, भारतीये समाज-जीवने हिन्दूनां महत्त्वम्, भारतीय-संस्कृतिः, धर्मान्तर-करणम्, संघ-कार्यस्य उद्देशः स्वरूपं च सहिष्णुता, अहिंसा-हिंसा इत्यादिकाः विविध-विषयाः ताभ्यां चर्चिताः।
राजधानीतः गुरुजिः लखनौ-नगरं प्रयातः। तत्र अनवरतं धारा-संपातेऽपि ५० सहस्राधिकैः नागरिकैः तस्य सहर्षंसोत्साहं च स्वागतं कृतम्। ननरवासिभिः आनन्दातिशयेन ध्वजैः पताकाभिश्च निखिलं नगरं समलंकृतम् आसीत्। सहस्रशः स्वयसेवकैः तस्मै मानवन्दनापि प्रदत्ता।
तदनन्तरं गुरुजिः उत्तर-प्रदेशे बिहारे च स्वयंसेवक-बन्धून् दृष्ट्वा कलकत्ता-नगरीं प्रयातः। पटना-नगरे वृत्तपत्रकारैः सह वार्तालापावसरे स तान् अब्रवीत्—‘मम भाषणानां हेतुतः एव विपर्यासः क्रियते इति दृश्यते।’
सेप्टेम्बर-मासे इमं भारत-संचारं समाप्य श्रीगुरुजिःनागपुरं प्रतिनिवृत्तः। अविरत-प्रवासेन निरन्तरैः कार्यक्रमैश्च तस्य शरीर-भार-परिमाणं १० पौण्ड-मितं न्यूनीभूतम्।
काँग्रेस-पक्ष संघं समावेशयितुं प्रयत्नः—
अस्मिन्नवसरे राष्ट्रहितैषिभिः श्री.पुरुषोत्तमदास-तण्डन-प्रभृतिभिः काँग्रेस-धुरीणैःविशुद्ध हेतुना संघं काँग्रेस-पक्षे समावेशयितुं प्रयत्नः कृतः। गुजरात-प्रान्तीयः पं. ओंकारनाथ-ठाकूर-महाशयः’दैनिक-प्रताप-’ स्य दीपावलि-विशेषाङ्के लिखति स्म—‘रा.स्व.संघस्य अनुशासनबद्धाः स्त्रयंसेवकाः काँग्रेस-पक्षे आगच्छेयुः चेत् काँग्रेसे विद्यमाना अशुद्धिः प्रक्षालिता भवेत्; तथा च यन्निमित्तं काँग्रेस पक्षःकाँग्रेसीयं शासनं च सांप्रतं निर्भत्सितं भवति तद् निमित्त-जातम् अपि विनष्टं भवेत्।’ नोव्हेम्बरस्य १७ दिनाङ्के तु, नवदिल्ल्यां काँग्रेस- कार्यकारिण्याः अधिवेशने निर्णयो जातः यत् ‘संघस्य स्वयंसेवकाः काँग्रेस-पक्षे प्रविशन्तु नाम, परं तथा कृते काँग्रेस सेवादलात् ऋते इतर-स्वयंसेवक-दलानां कार्यं कर्तुं ते न स्वतन्त्राः’ इति। अर्थात् संघ-त्यागं विना काँग्रेस-प्रवेशःअशक्यः इत्येव अस्य निर्णयस्य तात्पर्यार्थः आसीत्। स्वातन्त्र्यं तु कस्य न प्रियम्?
अस्तु। पुनश्च श्रीगुरुजिः भारतस्य उर्वरित-विभागेषु स्वयंसेवक-बन्धुभिः मिलितुं प्रस्थितः बेझवाडा, मद्रास, अर्नाकुलम्, मङ्गलोर, मैसूर, बेंगलूर, हुबली, बेलगांव, मिरज, कोल्हापुर, सांगली, मुम्बई, राजकोट, वटोदरा, करणावती (अहमदाबाद) इत्यादिषु शाखासु स्वयंसेवकैर् मिलित्वा १९५० क्रिस्ताब्दस्य जानेवारी-मासे श्रीगुरुजिः पुनः नागपुरं प्रत्यागच्छन्।
लोकाग्रणीभिः सह विमर्शः—
अस्मिन् काले श्रीगुरुजिना पण्डित-नेहरू, सरदार-पटेल, डॉ.आम्बेडकर, श्रीगोपालस्वामी अय्यङ्गार, डॉ.राजेन्द्रप्रसाद, राजर्षिः
तण्डन, डॉ. रघुवीर, रायबहाद्दर-बदरीदास, डॉ. दास, श्री. सत्यनारायण-सिंह, श्रीव्यङ्कटराम-शास्त्री इत्यादिभिः अनेकैः लोकाग्रणीभिः सह विचारणा कृता।
पत्रकारैः सह वार्तालाप-समये श्रीगुरुजि-महाशयस्य विनयः, ऋजुता, निर्भीकता, नैकशास्त्र-निपुणता, अविचला निष्ठा, लोकोत्तरा विमर्शकारिता प्रत्युत्पन्नमतित्वम्, सर्व-लोकानुकम्पा सुस्पष्टा च विचार-सरणिः इत्यादिभिर्गुणैः प्रश्नानां समर्पकैःनिःसन्दिग्धैश्च उत्तरैः सर्वेऽपि पत्रकाराः अतीव प्रभाविताः बभूवुः।
भारतस्य सर्व-प्रान्तेषु सहस्रशः सत्कार-सभासु कृतज्ञैःनागरिकैः श्रीगुरुजिःअत्यादरेण संमानितः आसीत्। तथापि ‘संमानात्ब्राह्मणो नित्यम् उद्विजेत विषादिव’ इति शास्त्रकारादेशं संस्मृत्य संमानात् सः सर्वदा सर्वथा च अलिप्तः उदासीनश्च वर्तते स्म।
१८. दुःख-तप्तानाम् आर्ति-नाशनम्।
जनः कं समाश्रयते?
१९५० क्रिस्ताब्दस्य फेब्रुआरी-मासे श्रीगुरुजिःअसम-प्रान्तं गतवान्। तत्र एकस्यां सत्कार-सभायां प्रलोभनेन बलेन वा धर्मान्तरं कारितान् अधिकृत्य तेन स्वविचारः प्रकटीकृतः। तद्यथा—‘यदा हिन्दुसमाजः समर्थः आसीत्, तदा अस्माभिः हूण-शकादिकाः परकीयाः अपि आत्मसात् कृताः। परधर्माश्रितानां स्वीयानां च शुद्धिं कृत्वा हिन्दुसमाजे ते पुनः समावेशिताः। विजयनगरस्य संस्थापकौ हक्क-बुक्क-महाशयो श्रीविद्यारण्य-स्वामिना शुद्धीकृतौ आस्ताम्। श्रीछत्रपतिना शिवरायेण अपि परधर्माश्रितानां नेताजी-पालकर, बजाजी-निम्बालकर इत्यादीनां शुद्धिः कृता आसीत्। तदनन्तरं तु आत्मसात्-करणस्य अस्मत्-शक्तिः क्षीणतां गता।
सामान्यतः यस्य आश्रयणे अल्पतरं भयं विद्यते तमेवसमाजं प्राकृताः जनाः समाश्रयन्ते। सांप्रतम् अस्मत्-समाजः सामर्थ्यहीनोऽस्ति, अतः एव जनाः तं शरण्यत्वेन नोपाश्रयन्ते। हिन्दुसमाजे सामर्थ्यान्विते संजाते व शुद्धिकार्यं सफलं भवेत्, नान्यथा। एतत्सामर्थ्यं तु समाजे एकात्म-भावनाम् अधिष्ठितं वर्तते। एकता तु समानतायाः भिन्ना। द्वौ पुरुषौन कदापि समानौ। तथापि समाजे शाखावत् नानात्वे विद्यमानेऽपि वृक्षवत् एकत्व-भावना संवर्धनीया’ इति।
वरं प्राणत्यागः—
अस्मिन्नेव वर्षे पूर्व-पाकिस्ताने मुस्लिमैःपरिपीडितानां हिन्दूनां दशा अतीव दयनीया संजाता। मुस्लिम-समाजः, अन्सार-स्वयंसेवकाः, पाकिस्तान-शासनं च इति त्रयाणां समवायेन हिन्दूनाम् वलात् इस्लामीकरणं समारब्धम्। अस्य इस्लामीकरण-सत्रस्य वार्ताऽपि भारतम् आगन्तुं न शक्नुयात् इति हेतुना तैः भारतस्य सर्वे मार्गाः निरुद्धाः। यदा च मुस्लिमैः १९४७ मध्ये कृतानां हिंसाचाराणां पुनरावृत्तिः कृता, तदा ‘वरं प्राणत्यागो न तु पर-धर्म-स्वीकारः’ इति धिया १५० लक्ष-मिताः हिन्दु-प्रजा-जनाः गृह-धनादिकं परित्यज्य हिन्दुत्व-रक्षणार्थं भारतं समागताः। तदानीम् अपि संघ-स्वयंसेवकैः निर्वासितानां, सेवार्थं परिकरो बद्धः। श्रीगुरुजिना एकस्मै स्वयंसेवकाय पत्रे लिखितम्—‘असहायानां सेवा खलु पावनं कार्यम्। अस्माभिः जनानाम् अन्तःकरणे विशुद्धा निःस्वार्थ-सेवावृत्तिः जागरयितव्या। तथा च शासनेन लोकानां हितार्थं शान्त्यर्थं च कृतासु योजनासु अस्माभिः सहकार्यं करणीयम् इत्यस्ति अस्माकं परापूर्वा परिपाटिः।’
वास्तुहारा-साहाय्य समितिः—
श्रीगुरुजि-महाशयस्य आदेशानुसारं कलकत्ता-नगरे ८-२-१९५० दिनाङ्के बॅ.रणदेव-चौधरी-महोदयस्य प्रमुखपदे ‘वास्तुहारा-साहाय्य-समितिः’ प्रस्थापिता आसीत्। तस्याम् उत्कलासम-वङ्ग इति प्रदेश-त्रयस्य संघ-प्रन्त-प्रचारकाणामपि अन्तर्भावः आसीत्।
वङ्ग-यात्रावसरे गुरुजिना यत् प्रत्यक्षीकृतम् तेन सः भृशं व्यथितः। ‘वास्तुहारा-समिति-साहाय्यार्थं प्रकाशिते पत्रके तेन लिखितम् ‘पूर्वपाकिस्ताने हिन्दूनां दुर्दशा खलु वर्णनातीता। लुण्ठनम्, अग्निसात्करणम्, बलात् इस्लामीकरणम्, अमानुषः संहारः, स्त्रीषु बलात्कारः इत्यादीनाम् अत्याचाराणां वार्ताः सर्वकार-निर्मितां लोह-तिरस्करिणों विच्छिद्य अस्मद्देशं समायान्ति एव। काँग्रेस-धुरीणं धर्म-भेद-मूलं यद् देशविच्छेदनं संमतं तदेव पूर्वपाकिस्ताने निवसतां हिन्दूनां दुरवस्थायाः कारणम्। वस्तुस्थितिः सुस्पष्टा अस्ति, धैर्येण च सा प्रतिरोद्धव्या। शासकैः कृतेन सत्यापलापेन कार्यहानिरेव भवति।’
पाकिस्तानस्य निहिन्दूकरणम्—
धर्मातीत-राज्यस्य विकृता कल्पना राष्ट्रिय-समस्यानाम् अपि समाधाने अन्तरायीभवति। अस्मत्-शासकाः इमान् १५० लक्ष-संख्याकान् निर्वासितान् परकीयान् मन्यन्ते। ‘अस्माभिः एतेषां भारः किमर्थं सहनीयः’ इति पुनर्वसन-मन्त्रिणःप्रश्नस्तु अमानुषः एव प्रश्नोऽयं तेषां स्वाभाविकं भारतीय राष्ट्रियत्वं न केवलं बलाद् अपहरति अपि तु पाकिस्तानं निहिन्दूकर्तुं मुसलमानैः प्रारब्धे हिन्दु-संहार-सत्रेतेषां बलिदानाय कल्पेत। अतः प्रार्थयाम्यहं भारत-शासनं, विशेषतः प्रधानामात्यं, यद् एतान् पाकिस्तानस्य अत्याचारान् अपुतर्भवाय निराकर्तुं सः निश्चयेन उपायं योजयेत्, तेन च अस्मत्-सीमा पारे स्थितानां नर-नारी-बालकानां च उद्धारं साधयेत्। यदि सर्वकारस्य नीतिः दौर्बल्येन द्विधावृत्त्या, अनिश्चिततया च ग्रस्ता स्यात्, तर्हि १५० लक्ष-मितानां निरपराधानां भारतीयानां सर्वनाशस्य पातकं भारत-शासनस्यैत्र शिरसि निपतेत्। तस्मात् भारत-सर्वकारेण आरक्षकाभियानं (पोलिस-अँक्शन) करणीयम् अथवा भारते निवसतः सर्वान् मुसलमानान् पाकिस्तानाय विसर्ज्यं, तत्रस्थाः सर्वे हिन्दवः अत्र भारतम् आनेतव्याः। एवं प्रजानन विनिमयेन प्रश्नोऽयं समाधेयः। एवं कृते, अस्माकम् एव अस्थि-मांस भाजः सार्ध-कोटि-मिताः हिन्दुबन्धवः सुरक्षिताः स्युः इतः परं च ते स्वजीवनं विनापमानं यापयेयुः।
पत्रकस्यास्य सुपरिणामात् स्वयंसेवकाः अल्पकाले वास्तुहारा -
सहायता-समित्यर्थं नव-लक्ष-रूप्यकाणां निधि संकलितुं समर्थाः बभूवुः। ब्रह्मदेशे तथा चीनदेशेऽपि स्व-व्यवसाय-निमित्तं स्थितः संघ स्वयंसेवकैः स्वीयः साहाय्यांशः प्रेषितः। स्थाने स्थाने शिबिराणि उद्घाट्य वा.स.समित्या निर्वासितेभ्यः अन्न-वस्त्र-निवासादिकं प्रदत्तम्; रुग्णानाम् औषधोपचारैःशुश्रूषा कृता; विद्यार्थिनां कृतेशिक्षण-वर्गाः संचालिताः; आजीविका-प्राप्त्यर्थमपि केषांचित् साहाय्यं कृतम्। स्वयंसेवकैःअनया रीत्या फेब्रुआरीतः ऑगस्टपर्यन्तं शतसहस्रेभ्यः निर्वासितेभ्यः भोजनम् दत्तं, सार्धलक्ष-मितेभ्यश्च वस्त्र-प्रावरणादिकं प्रदत्तम्। अस्मिन् सेवा-कार्ये पञ्चसहस्रात् अधिकाःसंघ स्वयंसेवकाः संमिलिताः आसन्।
श्रीगुरुजिना वास्तुहारा-समित्याः कार्यं सरदार पटेल-महाशयाय प्रथमं पत्रद्वारा निवेदितम्। पश्चात् सः स्वयमुपेत्य संघेन कृतं सर्वं निर्वासित-सेवा-कार्यं तस्मै सविस्तरं कथितवान्। तेन संतुष्टेन सरदार-महाशयेन वङ्गभूमौ संघकार्यं सदा वृद्धिं यातु इति शुभेच्छा प्रकटीकृता।
रक्षितानां कृतज्ञता—
३०–४–१९५० दिनाङ्के भारत राजधान्यां संघकार्य-हितेच्छुभिः १,०१, १०१ रूप्यकाणाम् ‘अर्घ्य-प्रदानेन’ श्रीगुरुजिः संपूजितः। अवसरेऽस्मिन् तेन ३० सहस्र-श्रोतॄणां पुरतः ‘केवलं द्रव्यरूपार्ध्य-प्रदानेन भवतां संतोषो मास्तु। भवतां सर्वेषां सर्वं जीवनं संघमयं भवतु’ इति शब्दैःनिजं हार्दं प्रकटीकृतम्।
एतादृशः सत्कार-समारोहः महाराष्ट्रे पुण्यपत्तनेऽपि १९५१ क्रिस्ताब्दे मकर-संक्रमण-दिने संपन्नः। तदानीं महाराष्ट्र-प्रान्त-संघचालकेन श्रीसर-संघचालकाय एक-लक्ष-रूप्यक-मितः ‘मधुपर्क’ समर्पितः। मधुपर्कोऽयं शतसहस्र-मितानां संघ-हितेच्छूनां शुभेच्छा-शर्करया अवगुण्ठितः आसीत्, यतः प्रतिपुरुषम् एक-रूप्यक-मात्रः अंशः स्वीकृतः आसीत्। सत्कारोत्तरं कृते कृतज्ञता-प्रवचने श्रीगुरुजिरवदत्—
‘न काङक्षे ईदृशं लक्षं, लक्ष्यं संघे हि कामये।’
तदानीं नूतनां प्रान्तरचनाम् अधिकृत्यापि गुरुजिना स्वमतं प्रकटी-कृतम्। सः अब्रवीत्—‘नाहं भाषाधार-प्रान्तरचनायाः विरुद्धः। यतः
शासन-सौकर्यार्थं प्रान्तानां नवरचना न अनिष्टा। तदर्थं तु स्वजनानामेव रक्तपातः तैवसमर्थनीयः’।
एकतः वास्तुहारा-साहाय्य-समित्याः कार्य प्रचलति सति १५-८-१९५० दिने अभूतपूर्वेण भू-कम्पेन समस्तः असम-प्रान्तः सहस्रशः विदीर्णः अभवत्। एतस्मिन् अतिकराले आधिभौतिक-सङ्कटे, संघ-स्वयंसेवकैः स्वयंस्फूर्त्या निःस्वार्थतया सर्वात्मना च प्राणिनाम् आर्तिनाशाय विहितं सेवाकार्यमपि प्रशंसनार्हम् एव। श्रीगुरुजिः स्वयंसेवकैः समारब्धं सेवाकार्यं विलोकयितुं दिब्रूगढं गतवान्। तत्र तेन सुसंघटितानाम् अनुशासन-बद्धानां च तीव्रेच्छा एवं रौद्र-रूपाणां समस्यानां समाधानाय प्रभवति’ इति सुविचारः चर्चितः आसीत्।
विदेशीयानां संघ-कार्य-समीक्षणम्—
समयेऽस्मिन् संघ-कार्यं निरीक्षितुं तत्-परिचयमवाप्तुं च अमेरिकातः श्री.जे.ए.क्युरान्-महाशयः तथा ऑस्ट्रेलियातः प्राध्यापकः जी.टी.विल्सन्-महोदयः इति द्वौविदेश-यात्रिकौभारतं समागतौ। तैः सर्वप्रान्तेषु संघकार्यं प्रत्यक्षीकृतम्। आ स्थापनात् संघस्य इतिवृत्तम् अधीतम्। भारतीयानां जीवने संघस्य माहात्म्यम् समवलोकितम्। तदनन्तरं श्री क्युरान्-महाशयेन (Militant Hinduism in Indian Politics’) भारतीय राजकारणे युयुत्सु हिन्दुत्वम् इत्याख्यं स्वरचितं पुस्तकं प्रकाशितम्। तत्र सः लिखति—रा.स्व.संघेन उत्साहवन्तः स्वयंसेवकाः, तेषां संघटना, तस्याःअनुशासनम् इत्यादिभिः विशेषैः हिन्दुसमाजस्य विकसनार्थम्’ एष पन्थाः एतत् कर्म’ इति मार्गदर्शनं कृतम्। श्रीमतः गोलवलकरमहोदयस्य लोकोत्तर-नेतृत्वेन संघस्य भवितव्यं समुज्ज्वलं भवेत्।’
दिवंगताय सरदार-पटेल-महाशयाय श्रद्धाञ्जलिः—
अस्मिन् एव वर्षे भारतस्य दुर्दैवेन राजनीति-निपुणः, प्रशासन-विचक्षणः, भारतस्य धुरन्धरः स्थिरधीः गृहामात्यः सरदार-पटेल-महाशयः डिसेम्बर १५ दिनाङ्के पञ्चत्वं गतः। इमां दुखःकरीं वार्ताम् आकर्ण्य श्रीगुरुजिः सत्वरं मुम्बापुरीं गत्वा तस्य महायात्रायां संमिलितः।
स्वर्गतस्य पार्थिव-देहे सुमनसां मालां निधाय सः तत्स्मृत्ये संघस्य कृतज्ञां श्रद्धाञ्जलिंसमर्पितवान्। तदनन्तरं पत्रकं प्रकाश्य तेन स्वहृदयम् आविष्कृतम्। तद्यथा—‘सरदार पटेल-महाशयस्य वियोगः दुःसहः एव। येषामर्थे तेन स्वजीवनं समर्पितम् आसीत् तैः अस्माभिः राष्ट्रं सामर्थ्ययुतं विधाय परकीय-आक्रमणात् आन्तरिक-कलहात् च स्वदेशं परित्रातुं बद्धकक्षीभूय दिवंगतेन तेन समारब्धस्य कार्यस्य परिपूर्तिः कर्तव्या। तदेव तस्मै आदरणीयाय समुचिता सर्वोत्तमा च श्रद्धाञ्जलिः स्यात्’ इति।
श्रीसोमनाथस्य पुनःप्रतिष्ठायाः को हेतुः?
भारतस्य अर्वाचीने इतिहासे ये दिवसाः सुवर्णाक्षरैर् लेखनार्हाः तेषु सांस्कृतिक दृष्ट्या प्रमुखः ११-५-१९५१ दिनाङ्कः यतः तस्मिन् सुमङ्गल-दिनं सोमनाथ-मन्दिरस्य जीर्णोद्धारेण सह परम-पूजनीयस्य श्रीशिवलिङ्गस्य प्राण-प्रतिष्ठा-समारोहः महतोत्साहेन संपन्नः। तदानीम् अन्यत्र कृते भाषणे श्रीगुरुजिःप्रोत्राच—‘भारते हिन्दुत्वमेव खलु राष्ट्रियत्वम्। भारतस्य परमादरणीयैःराष्ट्रपति महोदयैः श्रीसोमनाथ-मन्दिरस्य जीर्णोद्धारः किमर्थं कुतः? परकीयाणाम् आक्रमणस्य चिह्नम् अपिअस्मद्-देशे नावशिष्येत इत्येव तत्र हेतुः। पूर्वं मूर्तिभञ्जकैः भारतम् आक्रम्य अस्मद्-राष्ट्रस्य या अवहेलना कृता तत् शल्यम् उद्धर्तुमेव १२१ शतघ्नीनां निनादेन ‘अद्य सः राष्ट्रिय-अवमान निर्धूतः’ इति उच्चैर् उद्घोषितम्’ इति।
अवर्षण-पीडितानां सेवा—
फलज्योतिष-दृष्ट्या १९५१-५२ वर्ष कीदृशमासीत् तद् न जाने। परंतु आधिभौतिकीभिः आपद्भिस्तु बिहार-मद्रास महाराष्ट्र इति प्रान्तत्रयं तस्मिन् वर्षे अवर्षण-पीडितं संजातम्। तदानीं संघस्य जनसेवा-परायणैः स्वयंसेवकैः तनु-धन-मनोभिः अवर्षणग्रस्तानां सेवा विहिता। मद्रास-प्रान्तस्य रायलसीमा-विभागे स्वयंसेवकैः ३६ सेवा-केन्द्राणि संचालितानि। तैः प्रत्यहं १८ सहस्रेभ्यः आर्तेभ्यः भोजनं दत्तम्। महाराष्ट्रेऽपि विविध-स्थलेषु ४५ सेवा-केन्द्राणि संचाल्य, ५२८ ग्रामेषु दुःखतप्तेभ्यः
जनेभ्यः धान्यं, वस्त्राणि, औषधानि च वितीर्य स्वयंसेवकैः अवर्षण प्रपीडितानां साहाय्यं कृतम्। तदर्थं सार्ध चतुर्लक्ष-रूप्यकाणां व्ययः अभवत्। स्वयंसेवकः तदर्थं निधि संकलय्य इदं सेवाकार्यम् अनुष्ठितम् आसीत्।
सेवाकार्यं सर्वदा स्वार्थं परित्यज्य विशुद्ध-सेवा-भावनया एव कर्तव्यम् इत्यासीत् श्रीगुरुजि-महाशयस्य स्वयं सेवकेभ्यः शाश्वतः सन्देशः। सेवा-विषयम् अधिकृत्य स तेभ्यःअकथयत्—“हिन्दूनां जीवनस्य अनेके विशेषाः सन्ति। सेवा तु तेषां परमो विशेषः। निष्काम सेवा खलु भारतीय-तत्त्वज्ञानस्य स्वभावः एव। स्वार्थमूला सेवा वाणिज्ये परिणमति। अन्यच्च, यदि जनाः चिरकालं यावत् पर-कृत-साहाय्येन एव जीवेयुः तर्हि तदपि देशस्य-दुर्भाग्यमेव, यतः एवं चिर-लब्ध-साहाय्येन जनानाम् अधःपातो भवति। जनानाम् ईदृशी लज्जास्पदीभूता अवस्था पुनः कदापि माऽस्तु एतदर्थमपि संघेन प्रयतितव्यम्।”
१९. गोहत्या-निरोधादि-कार्यान्तराणि
निर्वाचन-विषये संघ-नीतिः—
१९५१ क्रिस्ताब्दे, सार्वत्रिक-निर्वाचनार्थं सर्व-पक्षाणां प्रचार-कार्यं प्राचलत्। संघस्य तु निर्वाचनेन सह संघ-दृष्ट्या न कोऽपि संबन्धः। अतः मार्च-मासे, संघस्य अखिल-भारतीय-प्रतिनिधि-सभायाः अधिवेशने, सरकार्यवाहः निर्वाचनमधिकृत्य संघस्य नीतिं स्पष्टीकृतवान्। स उवाच—‘संघस्य स्वयंसेवकाः राष्ट्रिय-संस्कारैः संवर्धिताः सन्ति। ते अकथितमपि निःस्वार्थेभ्यः राष्ट्र-हितचिन्तकेभ्यः एव स्वमतं दास्यन्ति इति विश्वसिमि।’
सिंहदुर्गे अपरःलोकमान्यः’—
पक्षोपपक्षाणां निर्वाचन-प्रचारेण वातावरणं दूषितमवलोक्य श्रीगुरुजिः मद्रासप्रान्ते नोव्हेम्बर-मासे बभाषे—‘सत्ताभिलाषया पर-स्परैः सह स्पर्धमानाः पक्षोपपक्षाः राष्ट्र-हितं विस्मृताः इव दृश्यन्ते।’
निर्वाचन-प्रदूषणेन निर्विण्णः गुरुजि महाशयः श्रीलोकमान्य-तिलक-निवासेन परिपूते ‘सिंहदुर्गे’ डिसेम्बर २५ तः जानेवारी १८ पर्यन्तं सुखं न्यवसत्। तत्रस्थेन तेन मकर-संक्रमणोत्सवे सिंहदुर्गस्य उपत्यकायां निवसतः सर्वान् ‘मावला’ -जातीयान् गिरिजनान् निजावासम् आमन्त्र्य, तेभ्यः स्वहस्तेन ‘तिलगुडं’ दत्त्वा स्नेह-संक्रमणं कृतम्। धन्यास्ते गिरिजनाः यैः१९२० ख्रिस्तवर्षानन्तरं प्रथममेव द्वितीय-लोकमान्यानां दर्शनेन, तैर् दत्तेन‘हलवा’-प्रसादेन च आत्मा पूतः आसीत्।
‘अभिनव-भारत’-साङगता समारोहे—
समाप्ते निर्वाचन-कोलाहले, सिंह-दुर्गे निजं विविक्त-वासं समाप्य श्रीगुरुजिना पुनः प्रतिवर्षानुसारं कार्य-संचारः प्रारब्धः। स्वातन्त्र्यवीरसावरकर-महाशयेन निज-यौवने क्रान्ति-कार्यार्थं संस्थापितायाः’अभिनवभारत ‘इत्याख्यायाः गुप्तः संस्थायाः ‘साङ्गता समारोहः’ १९५२ वर्षस्य मे-मासे १० दिनाङ्के प्रारब्धः। आद्यः सर संघचालकःडॉ.हेडगेवारमहोदयः स्वायुषः पूर्वार्धे क्रान्तिकार्येण सह संबद्धः आसीत्। अतः तत्प्रतिनिधित्वेन श्रीगुरुजिः साङ्गता-समारोहे निमन्त्रितः आसीत्। समारोहस्य द्वितीये दिने तत्रोपस्थितं श्रीगुरुजिं यथावकाशं भाषणं कर्तुं वीर सावरकर-महोदयः स्वयं विज्ञापितवान्। तदा लघुतमे भाषणे श्रीगुरुजिः उवाच— क्रान्तिकारकाः मूर्खाः उन्मत्ताश्च इति सामान्यतः धिक्क्रियन्ते। परं तान् धिक्कुर्वन्तः पण्डितंमन्याः क्रान्तिकारकाणां राष्ट्रभक्तेः चण्डतां सोढुं न समर्थाः इत्येव सत्यम्। राष्ट्रभक्तिशून्याः अराष्ट्रियभावनाःनिराकर्तुं, भारतस्य—हिन्दुराष्ट्रस्य—राष्ट्रजीवनं संवर्धयितुं राष्ट्रस्यास्य भगवद्-ध्वजः यावच्चन्द्र-दिवाकरौ गगनाङ्गने विहरतु इत्यर्थम् अयं साङ्गता-समारोहः सर्वान् प्रेरयतु।’
हिन्दु-संघटनस्य आन्तर-राष्ट्रियं महत्त्वम्—
तदनन्तरं भारते सर्वत्र संघ-प्रशिक्षण शिबिरेषु स्वयंसेवकान् उद्-बोध्य श्रीगुरुजिः नागपुर-शिबिरे’ हिन्दु संघटनस्य आन्तर-राष्ट्रियं
महत्त्वं विशदीकृतवान्। स उवाच—‘हिन्दु-समाजस्य दौर्बल्यं न केवलं भारतस्य अपि तु निखिल-मानवजातेः एव प्रतारणा अस्ति। अत एव हिन्दु-समाजस्य आत्म-विस्मृतिः असहनीया।
सांप्रतं भूमण्डले अमेरिका-रशिया इति द्वे राष्ट्रे मदिरापानेन मदोन्मत्तौगजौइव परस्परं संघट्टयतः। अनयोर्मध्ये अचलं स्थित्वा, हिन्दु-संघटनद्वारा तयोः मानवतायाः आत्मभावस्य च जागरणं निर्माय मानवजातेः कल्याणं संपादनीयम् एव।’
सार्वभौम-साधु-संमेलने श्रीगुरुजिः—
कानपुर-नगरे, १९५२ तमे क्रिस्तवर्षे ऑक्टोबर-मासे, सार्वभौमं साधु-संमेलनं संवृत्तम्। यथानिमन्त्रणं श्रीगुरुजिः तत्र गत्वा साधुमण्डलं विज्ञापितवान्—‘साधवः सर्वदा आत्मोद्धारपराः। परम् आत्मोद्धारेण सह तैः लोकोद्धारोऽपि कर्तव्यः। भारतीय-संस्कृतेः अङ्गभूतस्य यज्ञस्य प्रतीकरूपः अयं युष्माकं भगवद्-ध्वजः। तस्य संदेशं सर्वत्र प्रापयितुं भवादृशाः परिव्राजकाः एव प्रभवन्ति’ इति।
संघस्य प्रतिनिधि-सभा-प्रस्ताव-द्वयम्—
तदानीं नागपुरे संघस्य’ अखिल भारतीय प्रतिनिधि-सभा’ याः द्वितीयम् अधिवेशनं संपन्नम्। सभया द्वौ महत्त्वपूर्णा प्रस्तावौसंमतौ। तयोरेकः ‘स्वदेशीय-व्रत’ -विषयकः आसीत्। द्वितीयेन प्रस्तावेन गोहत्या निरोधार्थम् आन्दोलनं संकल्पितम्। स्वदेशीय-व्रतस्य पुरस्कारार्थं प्रस्तावस्य तीव्रा आवश्यकता आसीत्, यतः स्वातन्त्र्य-प्राप्तिपूर्वं क्रियमाणः स्वदेशीय-व्रतस्य प्रचारः प्रायः प्रतिक्रिया-रूपः न तु विशुद्धः। प्राप्ते तु स्वातन्त्र्ये, स्वदेशीय-व्रतस्य आग्रहः न केवलं परिक्षीणः, प्रत्युत विदेशीय-वस्तूनां प्रचारः क्रयश्च संवृद्धः। अतः संघस्य स्वयंसेवकाः स्व-मानसे जन-मानसे च स्वदेशीयं स्नेहं वर्धयेयुः, तारतम्येन च स्वदेशीयं व्रतं निश्चयेन पालयेयुः इत्यर्थमेव एतेन प्रस्तावेन ते आदिष्टाः आसन्।
स्वदेशीयं व्रतं नाम राष्ट्रस्य स्थायी भावः।
वर्धा-वासिने डॉ. कुमारप्पा-महाशयाय श्रीगुरुजिः कार्यवशाद् अलिखत्—‘स्वदेशीयं व्रतं खलु आदौ स्वराज्य-साधकं शस्त्रम्, पश्चात् च स्वराज्य-संरक्षणस्य महत् साधनम् अस्ति। अत एव अस्माभिः लोके स्वदेशीयं व्रतं
प्रचारयितुं निश्चितम् अस्ति’ इति।
१९५२ वर्षे संघेन गोहत्या-निरोधकम् आन्दोलनमपि प्रारब्धम्। तस्य प्रस्तावे निर्दिष्टमासीत् यद् ‘भारते गोवंश-संवर्धनस्य न केवलम् आर्थिक दृष्ट्या महत्त्वम् अपि तु सा अस्माकं सांस्कृतिकी श्रद्धा, राष्ट्रिय-एकात्मतायाःप्रतीकं च विद्यते। अत एव व्यतीते वर्ष-पञ्चके प्रजाभिः गोहत्या-निरोध-निर्बन्धार्थं पौनः-पुन्येन कृतायाः प्रार्थनायाः भारत-सर्वकारेण कृता उपेक्षा नितान्तम् अनुचिता एव।’
गोहत्या-निरोधकम् आन्दोलनम्—
गोहत्या-निरोधस्य याचना भारते अत्र तत्र सर्वत्र निवासिभिः हिन्दु-नागरिकैः कृता वर्तते इति सप्रमाणं दर्शयितुं संघेन भारत-व्यापी ‘स्वाक्षरी-संग्रहः आयोजितः। तदर्थं गोपाष्टमीतः मासैकमितः कालावधिः निश्चितः। लोकमतं जागरयितुं स्थाने स्थाने सभाः, हस्त-पत्रकाणि, भित्ति-पत्रिकाः, पुस्तिकाः, प्रदर्शनानि, चित्रपट-दर्शनम्, प्रचार-संचलनम् इत्यादयः उपायाः योजनीयाः इति सूचनाःसर्वत्र प्रेषिताः आसन्। यस्मिन् आवेदन-पत्रे ‘स्वाक्षरी’ करणीया आसीत् तस्य प्रतिकृति-पत्रकाणि अपि सर्वत्र प्रेषितानि आसन्।
ऑक्टोबर १३ दिनाङ्के श्रीगुरुजिना विज्ञप्ति-पत्रक-द्वारा सर्वे भारत-वासिनः विज्ञापिताः। तद्यथा—‘गोहत्या-निरोध प्रार्थनायाः समर्थकःकोट्यवधि-भारतीयानां स्वाक्षरी-संग्रहः परमादरणीयेभ्यः श्रीराष्ट्राध्यक्षेभ्यः प्रेषणीयोऽस्ति। स्वयंसेवकाः ग्रामे ग्रामे प्रतिगृहं गच्छेयुः। गोमाता खलु भारतीय-जीवनस्य मानचिह्नम् अस्ति। गोवंश-हत्यां निर्वन्ध-द्वारा निरोद्धुं संघेन प्रारब्धम् इदं महत्कार्यं सर्वथा जनानां सहकार्याधीनम्। अतः कार्येऽस्मिन् सर्वेषां नागरिकाणां सोत्साहः सहयोगः साग्रहं प्रार्थ्यंते’ इति।
श्रीगुरुजिना स्वातन्त्र्यवीर-सावरकरादिभ्यः कतिपयेभ्यः पुरुष-श्रेष्ठेभ्यः वैयक्तिक-पत्राण्यपि लिखित्वा तेषां सहकार्यं प्रार्थितमासीम्। स्वातन्त्र्यवीर-सावरकर-महाशयेन उत्तर-पत्रे गोहत्या-निरोधान्दोलनस्य यशसे आशीर्वादाः प्रेषिताः।
आन्दोलन-प्रारम्भः—
गोपाष्टमी-शुभदिने मुम्बापुर्यां श्रीगुरुजेः प्रवचनेन, नवदिल्ल्यां च श्रीभय्याजि-दाणी-महाशयस्य भाषणेन, लक्षावधि-नागरिकाणां समक्षम् आन्दोलनं समारब्धम्। तदर्थं लक्षावधि-रूप्यकाःअत्यावश्यकाः। अतः एकं द्रव्यनिधिं संकलयितुम् श्रीगुरुजिना अन्यत् पत्रकं प्रकाशितम्। तद्यथा—‘गोहत्या-निरोधस्य इदं पवित्रं कार्यं सर्वथा पक्षभेदातीतम् अतः वदान्याः देशभक्ताः औदार्येण आर्थिक साहाय्यं कृत्वा अस्मान् उपकरिष्यन्ति इति विश्वसिमि।’
स्वीये प्रवचने श्रीगुरुजिः प्रोवाच—“पारतन्त्र्य-मुक्तस्य स्वतन्त्र-राष्ट्रस्य आद्यं कर्तव्यं ननु परदास्य-निदर्शकानां सर्वेषां चिह्नानां समूलोत्खातः। अनया दृष्ट्या श्रीसोमनाथ-मन्दिरस्य जीर्णोद्धारः अतीव समयोचितः आसीत्। यावत् नः जीवन-परिपाटी, विचार-सरणिः, राष्ट्र-जीवनस्य संपूर्ण दृष्टिकोणश्च इत्यादिकं परकीयं विद्यते तावत् प्राप्तमपि स्वातन्त्र्यं निरर्थकमेव। इयं भारतभूमिः अस्माकं धारण-पालन-पोषणानि कुर्वती पावनतमा भू-माता अस्ति इति श्रद्धा नष्टप्राया, तथा धर्मश्रद्धाऽपि लुप्तप्राया। एवं क्रमेण अस्माकम् एकमपि श्रद्धा-स्थानं नावशिष्येत। तथा भूते, अस्मद्-राष्ट्रं गगन-स्पर्शिं कथं भवेत्? कथं तस्य उत्कर्षः स्यात्? वयं सर्वे तु राष्ट्रस्य परमोत्कर्षं कामयामहे। तदर्थं सर्वैः एकीभूय एकविचारेण कार्यं कर्तव्यम्। तदर्थं गोहत्या-निरोधः महत्त्वपूर्णः। अस्मासु कामं संप्रदाय-भेदाः सन्तु नाम। परं कः भारत-मातुः पुत्रः गोहत्या-निरोधं नेच्छति?
“भारते निवसद्भिः किश्चन-मुसलमानादि-हिन्द्वितरैः नागरिकैः अपि आन्दोलनेऽस्मिन् सहकार्यं कर्तव्यम्। तैः भारतीयां जीवन-सरणिम् आत्मसात् कृत्वा भारतीय नागरिकत्वस्य नियमानुसारम् एव अत्र स्थातव्यम्। भारतीय-राष्ट्रपुरुषाणां जय-जय-कारः कर्तव्यः। अत्रत्येषु राष्ट्रियोत्सवेषु च सहभागिना भवितव्यम्। भारतीय-जीवनसरण्या समरसताम् आपाद्य ते कुराण-बायबलादि-पठनार्थं स्वं स्वं प्रार्थना-मन्दिरं सुखेनैव गच्छन्तु। स तु तेषां वैयक्तिकःधर्मः। एवं विचार्य एव सुव्यवस्थितं राज्यं, प्रगतिशीलं राष्ट्रजीवनं च शक्यं स्यात्।
“अस्मिन् भारते, प्रतिवर्षं, १५० लक्ष-संख्याकाः गावः हन्यन्ते। नूनम् अस्यां गोपालानां भूमौ गोरूपं धनं तु न्यूनतमं विद्यते। समाजस्य राष्ट्रियां श्रद्धां पदाहृतां विधाय, राष्ट्रियंजीवनम् अवमत्य च संप्राप्तम् असंख्य-डॉलर-धनमपि अहं महत्पापमेव मन्ये।
“एतद् गोहत्या-विरोध कार्यं सर्वे मिलित्वा करणीयम्। ये तथा कुर्युः ते सर्वेऽपि तच्छेय-भाजः। यदि तु भारत-शासनं तच्छ्रेयस्कामं स्यात् तर्हि तद्विषयकः निर्बन्धः तेन अचिरात् संमन्तव्यः। तथा कृते, अस्य नैमित्तिक कार्यस्य आवश्यकता न स्यात्। तदूर्ध्वं वयं संघस्य नित्यं कर्म आनन्देन कुर्वन्तः स्थास्याम”।
काँग्रेस-कृतः आन्दोलन-विरोधः—
देशेऽस्मिन् अनेकैः लोकाग्रणीभिः पत्रकाणि प्रकाश्य इदं संघस्य गोहत्या-प्रतिबन्धकरम् आन्दोलनं समर्थितम्। आन्दोलनस्य प्रारम्भे काँग्रेस-पक्षेण तद्विरोधः न प्रदर्शितः। किन्तु पं. नेहरू-महाशयेन ‘अयं तु संघस्य राजनैतिकः जनाकर्षणोपायः(Stunt) इति घोषित-मात्रे एव काँग्रेसपक्षः विरोद्धुं प्रवृत्तः। अन्ते च तस्य प्रमुख कार्यवाहेण श्रीमन्नारायण-अग्रवालेन पत्रकं प्रकाश्य संघेन आरब्धे अस्मिन् आन्दोलने काँग्रेसीयानां सहयोगः निषिद्धः। तथापि लक्षावधि-काँग्रेस-सदस्यैः अहिन्दुभिश्च अस्य पत्रकस्य प्रकाशनोत्तरमपि गोहत्या-निरोध-पत्रके स्वाक्षरी कृता। अस्मिन् आन्दोलने ५४ सहस्र-संघ-स्वयंसेवकैः ८४ सहस्रग्रामेषु स्वाक्षरी-संग्रहार्थं संचारः कृतः। १,७५,००,००० तः (पादोनकोटिद्वयतः) अधिकैः नागरिकैः स्वाक्षरी कृता आसीत्।
७-१२-१९५२ दिनाङ्के भारतस्य राजधान्यां स्वाक्षरी-संग्रहस्य अपूर्वा, क्रोशार्ध-प्रदीर्घा, भव्या शोभा-यात्रा प्रवृत्ता। एकैकस्मिन् महाशकटे (ट्रक) एकैकस्य प्रान्तस्य स्वाक्षरी-संग्रहः तत्-संख्या-निदर्शकेन फलकेन सह स्थापितः आसीत्।
सायंकाले रामलीलाङ्गने श्रीसद्गुरुः प्रतापसिंहः, डॉ. श्यामाप्रसाद मुखर्जी, बॅ. निर्मलचन्द्र चतर्जी इत्यादीनां प्रसङ्गोचितानि तेजस्वीनि भाषणानि अभवन्। ‘संघस्यायं राजनैतिकः आकर्षणोपायः’ इति पं. नेहरूकृतम् आक्षेपं खण्डयन् श्रीगुरुजिरुवाच-‘गोपालानाम् इयं भूमिः
इति श्री. विनोबाजिः कथयतु नाम।अहं तु पृच्छामि, ‘किमियं भूमिः गोपालानाम् उताहो गोघातिनाम्?‘अन्यच्च नेदं नवीनं कार्यम्। महर्षि दयानन्देन कृतपूर्वमेतत्। किं तर्हि तेनापि राजकीय-आकर्षणहेतुना एव तत् अनुष्ठितम्? कतिपय-दिनात् प्राक्, सांची-नगरे श्रीभगवतः बुद्धस्य शिष्यद्वयस्य अस्थि-स्थापना समारोहे पं.नेहरू-महाशयोऽपि संमिलितः आसीत्। तदनन्तरं ततः केवलं क्रोशत्र-दूरे ‘भेलसा-’ स्थानं गतः सः ‘प्रचलतु गोहत्या’ इति उद्घोषितवान्। क्वभगवतः बुद्धस्य अहिंसोपदेशः क्व च इयं महामात्यस्य गोहत्या-प्रेरिका गर्जना!’ भाषणान्ते श्रीगुरुजिना आश्वासितम्—‘करोतु नाम निखिलं जगत् अस्मद्-विरोधम्। वयं तु अस्माकं राष्ट्रियाणि मान-स्थानानि अवश्यमेव रक्षिष्यामः। भारतीयत्व-मूलं सुराज्यं यावद् देशेऽस्मिन् न सुप्रतिष्ठितम् तावद् नैव विरमामः’ इत्यत्र निश्चयं कृत्वा एव प्रतिगम्यताम्”।
श्री राष्ट्राध्यक्षस्य आश्वासनम्—
अपरे अहनि, दिस्ली-पञ्जाब प्रान्तयोः संघचालकेन श्री. हंसराज - गुप्तामहोदयेन साकं श्रीगुरुजिः श्रीराष्ट्राध्यक्षं द्रष्टुम् उपेतः। गुरुजिना निवेदितं स्वाक्षरी-संग्रहस्य इतिवृत्तं निशम्य ‘यथा शासनम् इदम् आवेदनं सहानुभूत्या विचारयेत् तथा करिष्ये’ इति राष्ट्राध्यक्षेण श्रीराजेन्द्र-प्रसाद-महाभागेन आश्वासितः श्रीगुरुजिः तम् आमन्त्रयामास। अहो दुर्भाग्यं भारतस्य यत् श्रीमान् राष्ट्राध्यक्षोऽपि प्रधानामात्यम् अनुनेतुम् असमर्थः आसीत्। तथापि बिहार-उत्तरप्रदेशादिभिः कैश्चिद् अङ्गुलिमेयैः राज्यः गोहत्या-निर्बन्धः संमतः एव स्वराज्ये उदितेऽपि, भारतस्य संविधानेन गोहत्या-निरोधे आश्वासितेऽपि, गोहत्या-निर्बन्धं संमन्तुम् अतिप्रचण्डे लोकमते अभिव्यक्तेऽपि भारत-शासनेन उपेक्षिता इयं न्याय्या लोक-प्रार्थना! किं नाम एकाधिपत्यम् (Fascism) एतस्मात् भिन्नमस्ति?
२०. काश्मीर-सत्याग्रहः
१९५२ किस्ताब्दस्य ऑक्टोबर-मासे नवदिल्लीं गच्छता श्रीगुरुजिना मार्गे एव ‘पूर्वपाकिस्ताने पुनरपि अत्याचाराः प्रारब्धाः’ इति सन्तापकरं वृत्तम् आकर्णितम्। अत्याचार-विषया आत्मनः चिन्ता तेन १४-१०-५२ दिने पत्रकार-परिषदि इत्थंव्यक्तीकृता—“नेहरूलियाकत-समयः निष्फलतां गतोऽस्ति। तदुल्लङ्घनं कृतं पाकिस्तानेन। अतः इतः परं तत्पालनम् अस्मत्कृते न मनाग् अपि बन्धनकरम्। भारतशासनेन अत ऊर्ध्वं तादृशाः उपायाः योक्तव्याः यथा समस्येयं पुनर्नेवउद्भवेत्।”
श्रीगुरुजि-कृतम् अखण्ड-भारत-समर्थनम्—
तदानीं पत्रकारैः पृष्टानां केषांचित् प्रश्नानां श्रीगुरुजिना दत्तानि निःसंदिग्धानि उत्तराणि मननीयानि सन्ति—
प्र.—“अपि नाम भवान् साम्प्रतमपि लोकसंख्यायाः विनिमयं समर्थयति?”
** उ—“सांप्रतं तु तद् असाम्प्रतमेव। पूर्व-पाकिस्ताने अत्यल्पाः हिन्दवः अवशिष्टाः, अतः जनसंख्या-विनिमयस्य प्रश्नः साम्प्रतम् अस्थाने एव।”**
प्र.—“निर्वासिताः स्वं स्वं स्थानं प्रतिगच्छेयुः इति भवान् अनुमन्यते किम्?”
उ.—“न केवलम् अनुमन्ये, साग्रहं वारंवारं प्रतिपादयामि यद् विभाजनपूर्वांसुस्थितिं ते प्रापिताः स्युः।”
प्र.—“किं तर्हि भवान् अखण्ड-हिन्दुस्थानं पुरस्करोति?”
उ.—“निःसंशयम्।”
प्र.—“योजनापूर्वके जनसंख्या-विनिमये भवान् विश्वसितिनाम?”
“केवलं विनिमयःन पर्याप्तः। देशस्य एकसन्धीकरणम् एव अत्र निश्चितः उपायः।”
परन्तु श्रीगुरुजिकृतम् एतत् पथ्यं मार्गदर्शनम् ऊषरे वर्षितम् इव व्यर्थम् आसीत्। प्रतिपक्षस्य कुटिलां नीति सम्यग् ज्ञात्वा केवलं राष्ट्रहितैक-दृष्टया दृढां नीतिम् अवलम्ब्य समस्याः समाधातुम् अत्यावश्यकः राष्ट्र-हित-दक्षः शास्ता स्वातन्त्र्योत्तरमपि भारतेन दुर्देवेनन लब्धः। नो चेत्, आदी सुसाध्याः प्रश्नाः राज्यशासकानां मृदु-नीत्या दिनानुदिनं जटिलतराः न अभविष्यन्।
अनया एव दुर्बल-नीत्या काश्मीरस्य ‘आझादाख्यः’ भू-भागः पाकिस्तानेन निगीर्णः। वस्तुतस्तु काश्मीर-राज्यस्य जम्मू-काश्मीर-लदाखेति भागत्रयं भारतीय-सेनया संघ-स्वयंसेवकैश्च सुरक्षितमासीत्। पण्डित नेहरू-महाशयेन तु भारतस्य एतस्मै अभिन्नाङ्गाय भिन्नं स्वतन्त्रं च स्थानं दापितम्। अनेन नेहरू-कृपा-विशेषेण भस्मासुरीभूतेन काश्मीर-नेतृत्वेन हिन्दून् विदलितुं कापट्यम् आश्रितम्। एवं केन्द्रीय-शासनस्य दुग्धं पीत्वा काश्मीर-नेतृरूपो भुजङ्गः परिपुष्टः संवृद्धविषश्च समभवत्।
काश्मीरे सत्याग्रहः—
काश्मीर राज्य प्रजाभिस्तु शेख-अब्दुल्ला-महाशयस्य द्वैध-नीतिः सम्यग् ज्ञाता। अतः प्रजा परिषदा पं. प्रेमनाथ-डोगरा-महाशयस्य नेतृत्वे सत्याग्रहान्दोलनं प्रारव्धम्। ‘काश्मीरस्य भिन्नता मास्तु। स प्रदेशः भारते अचिरात् समावेशनीयः। भारतस्य ध्वजः एकः, संविधानम् एकम्, प्रधानश्च एकः’ इत्यासीत् सत्याग्रहिणां घोषणा।
१९४९ वर्षादेव श्रीगुरुजिना काश्मीरे सत्तारूढस्य पक्षस्य राष्ट्र- घातकं रूपम् विज्ञातमासीत्। अत एव यदा पं. नेहरू-महाभागेन पाकिस्तानाय सुरक्षा-समित्यैच काश्मीरे सार्वमतार्थं स्वसंमतिः प्रदर्शिता तदा श्रीगुरुजिना निषेधः प्रकटीकृतः। सोऽब्रवीत्—“काश्मीर राज्य तु भारतस्य अविभाज्यम् अङ्गम्। अतः काश्मीरस्य भवितव्यताया निर्णयः न केवलं काश्मीरवासिभिः अपि तु सर्वैः एव भारतवासिभिः कर्तुं योग्यः। स्वायत्ततायाः मायया भ्रान्तचिताः वयं काश्मीरस्य स्वराष्ट्रस्य च अवनतिं कर्तुं प्रवृत्ताः स्मः।
भाषा-तत्त्वम् आश्रित्य राज्य-पुनर्घटना, स्वयंनिर्णयः तथा पृथग्
अवस्थानस्य अधिकारःएते तु राष्ट्रस्य ‘त्रि-दोषाः’ सन्ति। स्वयंनिर्णयस्य तत्त्वं खलु राष्ट्र-विच्छेदकं व्यामोहजन्यम् एव।”
काश्मीर-कारागृहे डॉ. श्यामाप्रसाद-निधनम्—
काश्मीर प्रजापरिषदा प्रारब्धम् आन्दोलनं यदा भारत-शासनेन हेतुतः दुर्लक्षितं, तदा भारत-राजधान्यां भारतीयैः पूरकः सत्याग्रहःसमारब्धः। जनसंघाध्यक्षेण श्री.डॉ.श्यामाप्रसाद मुखर्जी-महाशयेन सत्याग्रहस्य नेतृत्वं स्वीकृतम्। काश्मीर-शासनस्य अनुमतिं विनाऽपि काश्मीरं प्रवेष्टुं डॉ. मुखर्जी-महाशयेन निर्णीतम् इति वृत्तं ज्ञात्वा वीरसावरकर-महाशयः दूत-विशेष-द्वारा तस्मैसंदिदेश—’ तत्रभवान् काश्मीरं स्वयं गन्तुं नार्हति। तत्रत्यः सत्ताधीशः कापटिकोऽस्ति। भवतः तत्र घातः संभवेत्, अतः भवान् स्वनिर्णयं परावर्तयतु’ इति। तथापि ११-५-५३ दिनाङ्के डॉ. मुखर्जी-महाशयः काश्मीरं प्राविशत्। सपद्येव तत्रत्येन शासनेन स निगृहीतः कारायां च निबद्धः। अचिरात् तत्रैव तस्य देहान्तोऽभवत्।
तदानीं श्रीगुरुजिःभाग्यनगरे (हैदराबादे) आसीत्। तत्र तेन डॉ. श्यामाप्रसाद-निधन-वार्ता श्रुता। अनेन वज्राघातेन गुरुजिः भृशं व्याकुलः संवृत्तः। डॉ. श्यामाप्रसादस्य भ्रात्रे पुत्राय च तेन सान्त्वनपत्रे प्रेषिते। अचिरात् च नागपुरं प्रत्यागत्य तेन पत्रक-द्वारा स्व-वेदना इत्थम् आविष्कृता—‘न मया तस्य अन्त्यदर्शनमपि लब्धम्। डॉ. श्यामाप्रसादस्य निधनेन देशस्य अपरिमिता हानिः संजाता। आसीत् सः विदुषाम् अग्रणीः, कुशलः संघटक, प्रभाववान् वक्ता, निस्तुलः संसत्-पटुः (Parliamentarian), विशेषतश्च विशुद्धचरितः जनसेवकः। कारागृहे तस्य प्राणघात-कारिण्याः उपेक्षायाः पापभारः लोक-शासने एव आपतति।
श्रीव्यङ्कटराम-शास्त्रिणः देहावसानम्—
विपद् विपदम् अनुबध्नाति इति सत्यमेव। डॉ. श्यामाप्रसादस्य निधन-दुःखे प्रत्यग्रे सति, संघ-सहायस्य श्रीव्यङ्कटराम-शास्त्रिणः अपि निधन-वार्ता आयाता। तदा प्रेषिते तत्सम्बन्धिने पत्रे श्रीगुरुजिना तं प्रति संघस्य प्रगाढा कृतज्ञता व्यक्तीकृता। सः अलिखत्— ‘सत्ये न्याये च तस्य हार्दं, तथा छलम् अन्यायं च प्रति तस्य तिरस्कारःअविस्मरणीयो
एव। न केवलं मम, अपि तु सर्वेषां संघ कार्य कर्तॄणां हृद्देशे श्रीशास्त्रिमहोदयेन विहितः उपकार-भरः सर्वदा अम्लानः एव स्यात्’ इति।
बी.बी.सी.प्रतिनिधिना चर्चा—
अस्मिन् एव वर्षे, आङग्ल-नभोवाण्याः प्रतिनिधिः श्रीगुरुजिम् उपेत्य तं पृष्टवान्—‘भवान् काँग्रेस-पक्षस्य राजकीयं कार्यमपि पर्यालोचयति इति श्रूयते। अपि नाम तत् तथ्यम्?’।श्रीगुरुजिः प्रत्युवाच—‘अस्मद्देशस्य सांस्कृतिक-विकासस्य अवरोधकरं घातकं च यद् यत् स्यात् तस्य तस्य आलोचनं कुर्मः। वस्तुतः नाहं प्रकृत्या राजनीति प्रियः। तथापि, यदा काऽपि राजकीया घटना राष्ट्रस्य सांस्कृतिक-जीवने दुष्परिणामकरी भवति तदा तस्याः वैधं समालोचनं करणीयमेव इति मे मतम्।’
राजकीय-कार्यक्षेत्रे संघः न कदापि पदं कुरुते। स्वयंसेवकाः तु देशस्य नागरिकाः सन्ति। तस्मात् व्यक्तिगत-रीत्या यथारुचि, जीवनस्य यस्मिन् कस्मिन् अपि क्षेत्रे कार्यं कर्तुं ते स्वतन्त्रा एव। तथापि ते सर्वत्र राष्ट्र-हित-तत्परतया स्वं स्वं कार्यम् आचरन्तु इति धिया श्रीगुरुजिः वारं वारं देशे समुद्भूतान् सर्वानपि प्रश्नान् विमृशति स्म।
शासन व्यवहारे प्रादेशिक भाषा-समर्थनम्—
स्वातन्त्र्य-प्राप्तेः अनन्तरम् शासन-व्यवहारात् परकीयाम् आङ्ग्लभाषाम् अपसार्य मातृभाषा उपयोजनीया इति समीचीना न्याय्या च जनप्रार्थना (पारतन्त्र्य-काले प्रज्ञा-हतत्वात्) भारत-सर्वकारेण न आदृता। एवं गतेऽपि मध्य प्रदेश शासनेन राज्य व्यवहारे मराठी तथा हिन्दी इति प्रादेशिकं भाषा-द्वयं पुरस्कृतम्। तन्निमित्तं श्रीगुरुजिना मध्यप्रदेशस्य मुख्य-मन्त्री पं. रविशङ्कर-शुक्ल-महाशयः सानन्दम् अभिनन्दितः।
अस्मिन्नेव समये, चीन- राष्ट्रेण त्रिविष्टपः(तिबेट इति भाषायाम्) अभ्याक्रान्तः। तदानीं भारत-शासनेन, विशेषतश्च पं.नेहरू-महाशयेन मौनम् आश्रितम्। मौनं संमति-दर्शकम् इति मत्वा एकस्मिन् भाषणे श्रीगुरुजिः पृष्टवान्—‘आक्रमणमेतत् आन्तर-राष्ट्रिय-क्षेत्रे भारतस्य प्रतिष्ठां वर्धयति किम्?’ इति।
कुम्भ-मेलापके गोहत्या-निषेधः—
१९५४ क्रिस्ताब्दे, प्रयाग-क्षेत्रे कुम्भ-पर्वणि, स्थानीयया गोहत्या—
निरोध-समित्या संघ-स्वयंसेवकानां साहाय्येन २,५७,५७० नागरिकाणां स्वाक्षरी-युतम् एकम् आवेदनं भारतस्य प्रधानामात्याय प्रेषितम्। तस्य अयं विशेषः। येन मत-दातृ-संघेन पं. नेहरू निर्वाचितः आसीत् तस्मात् संघात् शत-सहस्राधिकैः मतदातृभिः आवेदनेऽस्मिन् स्वाक्षरी कृता आसीत्। तैस्तत्र सुस्पष्टं निवेदितं यत् ’ कयाऽपि रीत्या गोहत्याम् अनुमोदमानः कोऽपि पुरुषः अस्मत्-प्रतिनिधित्वं कर्तुं नैव अर्हति। कुम्भमेलापके गोहत्या-निषेध-संमेलनेऽपि श्रीगुरुजिना प्रवचन-द्वारा सम्यग् मार्गदर्शनम् कृतम्।
सिन्दी-शिबिर-विशेषः—
आसेतु-हिमाचलं प्रचलन्तीनां सर्वासां शाखानां कार्ये एकरूपता अत्यावश्यकी आसीत्। अतःवर्धा-मण्डले सिन्दी-ग्रामे, श्रीगुरुजिना एकं पञ्चदश-दिनावधिकं विशेषं शिबिरं संयोजितम्। ५-३-१९५४ दिनाङ्के प्रारब्धे तस्मिन् शिबिरे मण्डल-विभाग-प्रान्तानां ३५० प्रचारकाः संमिलिताः आसन्। संघ-तत्त्वज्ञानस्य चिन्तनम् विभिन्न प्रान्तानां दैनंदिने कार्ये सारूप्य-निर्माणं च इत्यास्ताम् तस्य प्रचारक-शिबिरस्य प्रमुखोद्देशौ। अतः परस्पर-परिचयः, इतिवृत्त-निवेदनम्, विचार-विनिमयश्च इत्यासीत् तत्र कार्यक्रमः \। सायंकाले प्रार्थनोत्तरं श्रीगुरुजिःभाषणं करोति स्म। तेन अनेकदा द्विवारमपि भाषणं कृतम्। भाषणावसरे संघस्य ध्येयम्, कार्यसरणिः, आचार नीतिः, भारतीय-परिस्थितिः, जागतिकं वातावरणं, स्वयंसेवकानां लोकानां च मनस्थितिः इत्यादि-विषयान् अधिकृत्य श्रीगुरुजिःन्याय-संगतम्, भावपूर्ण, सुबोधं च विवरणं करोति स्म। अनेन शिबिरेण संघ-कार्यं कर्तॄणां संघटन-दृष्टिःविशालतरा संजाता, संघकार्ये तेषां विश्वासश्च द्विगुणीभूतः। एवं नवोत्साह-भरिताः ते सर्वे स्वं स्वं स्थानं कार्यं-वृद्ध्यर्थं प्रतिनिवृत्ताः।
तदनन्तरं भारते सर्व-प्रान्तेषु सर्व-मण्डलेषु च संघ-प्रशिक्षण-वर्गाः प्रारब्धाः। प्रतिवर्षानुसारं श्रीगुरुजिः अपि तं तं वर्गं द्रष्टुं गतः आसीत्।
प्रान्तीयता-विरोध-संमेलनाध्यक्षः—
मुम्बापुर्यां २३-५-५४ दिनाङ्के प्रान्तीयता विरोधकं संमेलनम् अभवत्। तस्य अध्यक्षपदात् श्रीगुरुजिना कृतं विचार-परिप्लुप्तं भाषण
भाषाधारेण प्रान्तानां पुनर्घटनां कारयितुं परस्परं मुष्टीमुष्टि योत्स्यमानान् जनान् पुनर्विचारं कर्तुं प्रेरयति स्म। तदानीं गुरुजिःतत्र संमिलितान् जनान् इत्थं बोधयामास—“आङग्लानां राजकीय-धूर्ततया प्रज्ञाहताः वयं भाषाभेदात् संस्कृति-भेदो भवति इति मन्यामहे। तत्तु असमीचीनम्। अनया विचार-सरण्या भारतस्य संविधानम् अपि दूषितम्, यतः संविधाने देशोऽयं ‘संघ-राज्य’-संज्ञया निर्दिष्टोऽस्ति। तत् तु अयथार्थमेव। ये असंगताः छिन्नभिन्नाः स्युः तेषां संधानं ‘संघ-राज्य’ -इति पदेन ध्वन्यते। अस्मद्देशस्तु नासीत् छिन्नभिन्नः। भारतं तु प्रदीर्घ परंपरया एकरसं एकात्मकं राष्ट्रं वर्तते। ये तु ‘वयं किल संयुक्त-भारतस्य समर्थकाः’ इति ब्रुवन्ति तेषां कल्पनायां प्रच्छन्नः भिन्नता-भात्रः महामारीवत् सर्वत्र प्रसरन् विद्यते।” भाषाधारेण प्रान्त-निर्माणे साग्रहान् लोकधुरीणान् सः पृष्टवान्—‘एकमेव जगद्-राज्यम् अस्तु’ इति येषाम् आकाङ्क्षा ते उदार-ब्रुवाः ‘निखिलं भारतम् एकं राज्यम्’ इति विचारात् किं पलायन्ते? भारते एका एव केन्द्रीया लोक-प्रतिनिधि रूपा शासन-संस्था अस्तु। प्रदेश-विभाग-प्रान्ताश्च केवलं प्रशासन-सौकर्याथं सन्तु। सुदूरात् समागतैः परकीयैःआङग्ल-देशीयैःएकस्य समन्त्रिगणस्य राजप्रतिनिधेः साहाय्येन १५० वर्षाणि यावत् अप्रतिहतं शासनं कृतम्। वयं तु तथा कर्तुम् असमर्थाः। किमेतद् अस्मत्-पात्रतायाः लक्षणम् उताहो अपात्रतायाः प्रदर्शनम्?
“ये कुराणं बायबलं वा पठन्ति ते तत् सुखेनैव पठन्तु। न ते मम अप्रियाः। अस्माकं हिन्दुत्वं न तथा दुर्बलं यथा केवलं परधर्म-ग्रन्थपठनात् तद् नष्टं भवेत्। नहि नहि, सबलमेव तत्।
“जातमात्रस्य पुरुषस्य सहजं कर्तव्यं त्रिविधमस्ति—व्यष्टिधर्मः कुलधर्मः, राष्ट्रधर्मश्च। व्यक्तिधर्मस्य अर्धोऽशः अभिमत-देवतायाः उपासना-रूपः। अयं तु तस्य समग्र-कर्तव्यस्य केवलं षष्ठांशः। स्वधर्मस्य षष्ठांशे केचित् यथाभिमतं पर-धर्मम् अङ्गीकुर्वन्तु, तथापि (५/६) षट्सु पञ्चभिः अंशैः पूर्ववत् विद्यमानाः अपि ते सहसा स्वीयं नाम जीवनसरणिं च उज्झित्वा राष्ट्र-द्रोह-पराः भवन्ति इति तु अनाकलनीयम्। किन्तु अद्य यावत् इति ह आस। अत ऊर्ध्वं तु भारतस्य राष्ट्रियां श्रद्धां, राष्ट्रियान्
मानबिन्दूंश्च आदृत्य ते भारतस्य राष्ट्रिय-जीवने आत्मानं सर्वात्मना विलीनीकुर्वन्तु।”
श्रीगुरुजि-पितृपादानां देहावसानम्—
नित्यक्रमानुसारं मातापितरौ अभिवाद्य श्रीगुरुजिः१७-७-५४ दिनाङ्के नागपुरात् संघ कार्याय प्रस्थितः। २१ दिनांके सायं खाण्डवानगरे एकः श्रेष्ठी तं पृष्टवान्—‘कच्चित् कुशलिनः अत्रभवतः पितृपादाः? अहमस्मि तत्-शिष्यः।’ गुरुजिःअकथयत्–‘अहो एवमेवम् ! अस्ति कुशलं तत्रभवतः। प्रत्यहं सायंकाले स सार्धक्रोशम् आहिण्डते, देवदर्शनोत्तरं च प्रतिनिवर्तते’ इति।
रात्रौ खाण्डवातः सामरं प्रस्थितः श्रीगुरुजिः प्रभाते ८ वादने भोपाल-स्थानकं प्राप्तः। द्वौस्वयंसेवकौतत्र तम् अभ्युपेत्य एकं विद्युत्सन्देशं तस्य हस्ते दत्त्वा तूष्णीं स्थितौ। आसीत् सः श्रीभाऊजि-निधन-सन्देशः! श्रीगुरुजिः क्षणमात्रं स्तब्धः आसीत्। सपद्येव ‘अग्रे सर्वः कार्यक्रमः व्याक्षिप्तः’ इति विद्युत्-सन्देशं सागर नगरं प्रेष्य स नागपुरं प्रतस्थे। तत्पूर्वं, ‘दिनाङ्क २२ तः प्राक् तत्र ममागमनं सर्वथा अशक्यम्, अतः अन्त्य-संस्कारो यथाविधि क्रियताम्’ इति दूरध्वनि-सन्देशःतेन गृहं प्रति प्रेषितः।
२२ दिनाङ्के नागपुरं प्राप्तः गुरुजि दिनपञ्चकं तत्रैव स्थित्वा पितुः और्ध्वदेहिक-विधिं संपादयितुं नासिक-क्षेत्रं गतवान्। तत्र सर्वाम् उदकक्रियां यथाविधि समाप्य ३-८-५४ दिने पूर्व-नियोजित कार्यक्रमाय स राजधानीं प्रस्थितः। यतः
अनुष्ठानस्य नित्यत्वं स्वातन्त्र्यम् अपकर्षति।
विशेषतश्च चरतां राष्ट्र-कार्य-महाव्रतम्॥
२१. सर्वत्र राष्ट्र-हितैक-चिन्तनम्।
गोमन्तक-मुक्ति-आन्दोलनम्—
१९४७ क्रिस्ताब्दे परकीयम् आङ्ग्ल-शासनं नष्टम्। तथापि गोमन्तक-प्रदेशः पोर्तुगीज-शासनात् न मुक्तः, न वा अस्माभिर्मोचितः इति शल्यं देशभक्तस्य श्रीगुरुजेः हृदयं सततं दुनोति स्म। अस्मिन् विषये भारत-शासनं स्वयं न किमपि कुरुते‚ न वा गोमन्तकीयेभ्यः प्रजाभ्यः तदर्थं साहाय्यं वितरति इति संवीक्ष्य, १९५५ क्रिस्ताब्दे पुण्य-नगरे सर्व-पक्ष प्रमुखैः एका ‘गोमन्तक-विमोचन-समितिः’ स्थापिता आसीत्। रा.स्व.संघस्य बहवः कार्यकर्तारोऽपि तत्र स्वयंस्फूर्त्यां पुरःसराः आसन्।
१२-५-५५ दिनाङ्के वन्दनीयस्य सेनापतेः पाण्डुरङ्ग-महादेव-बापट-महाशयस्य नेतृत्वेन निःशस्त्राःदेशभक्ताः सत्याग्रह-हेतुना गोवाप्रदेशं प्रविष्टाः। पोर्तुगीज-रक्षापुरुषाः तान् कठोरैः दण्ड-प्रहारैः पादत्राण-युक्त-लत्ताभिश्च निर्घृणं प्रहरन्ति स्म। स्वतन्त्र-भारतस्य सेनया यत् कार्यं स्व-पराक्रमस्य हुंकार-मात्रेण साधितं स्यात्, तदर्थे सहस्रावधिभिः देशभक्त-युवकैः यम-यातनाः सहनीयाः इति विचारेण श्रीगुरुजिः अतीव व्यथितः अभवत्। तस्मिन् वर्षे, नागपुरे संघस्य गुरु-पूर्णिमोत्सवे इमां मनोव्यथाम् आविष्कुर्वन् सः प्रोवाच —“परैः स्वदेशे आक्रान्ते सति, यस्य सेना आक्रमकान् जेतुं समर्था, तदेव याथार्थ्येन स्वतन्त्रं राष्ट्रम्। भारतं न च न स्वतन्त्रम्, न चाप्यसमर्थम्। कस्तर्हि गोमन्तक-विमोचने प्रत्यवायः? लण्डन-स्थितानां स्वामिपादानां तत्कृते प्रायः अनुमतिर् न स्यात् इति तर्कयामि। यदि तथैव तत्, तर्हि भारतस्य स्वातन्त्र्यं नाम- मात्रम् एव इति मन्ये।”
१५ ऑगस्ट‚ स्वातन्त्र्य-दिनम्। तस्मिन् दिने संभूतः सामुदायिकःगोमन्तक-मुक्ति-सत्याग्रहः नूनं नेत्रदीपकः आसीत्। संघस्य शतशः स्वयंसेवकाः वैयक्तिक-रीत्या तत्र संमिलिता आसन्। तदानीं पोर्तुगीजसर्वकारस्य आरक्षकैःविक्रमैकरसेषु देशभक्त-युवकेषु शतघ्नीभिः गोलिकावृष्टिः कृता। निःशस्त्रेषु सशस्त्रैःकृतेन शस्त्राघातेन कतिपयाः मृताः, असंख्येयाश्च ममहिताः अभवन्।
गोमन्तक-मुक्ति-आन्दोलने भारत-शासनस्य प्रतिबन्धः—
तदानों श्रीगुरुजिः मुम्बापुर्याम् आसीत्। तत्र गोमन्तके, असङख्याः देशभक्ताः तं प्रदेशं पर-शासनात् मोचयितुम् आत्म-वलिदानं कुर्वन्ति; अत्र दिल्ल्यां तु स्वीयाम् आन्तर-राष्ट्रियां कल्पितां कीर्ति समाश्लिष्य पं. नेहरू-सर्वकारः सुखं निद्राति इत्यालोक्य श्रीगुरुजिना यत् पत्रकं प्रकाशितं तदित्यम् —“अस्मद्-नागरिकेषु परैः कृतान् प्रहारान् सविशेषं परावर्त्य, परदास्ये अवशिष्टं मातृभुवः गोमन्तक-प्रदेशं मोचयितुम् अयमेव योग्यतमः अवसरः। आन्तर-राष्ट्रिय प्रतिष्ठायाः मिथ्या-कल्पनाम् उज्झित्वा योग्यम् उपायम् अवलम्वितुम् इतः युक्ततरः अवसरःदुर्लभः एव। पोर्तुगीज-शासनेन व्याप्तस्य अस्मत्-प्रदेशस्य ‘आरक्षक-अभियानेन’, अन्यरीत्या वा द्रुतगत्या कृतेन विमोचनेन भारतस्य आन्तर-राष्ट्रिया प्रतिष्ठा वर्धेन एव। तथा कृते, अस्मत्-समीपवर्तिषु शासनान्तरेषु अपि सुपरिणामो भवेत्, भारतस्य महत्त्वं च वृद्धि गच्छेत्।”
एवं गतेऽपि‚ भारत-शासनं न केवलं निष्क्रियम् आसीत् प्रत्युत देशभक्तैःप्राणपणेन प्रारब्धं तद् गोमन्तक-मुक्ति-पुद्धं सर्वकारेण एकया विशेषाज्ञया प्रतिबद्धम् !
भारते भाषिक-राज्य-निर्मितिः राष्ट्रैक्य-नाशिका—
अस्मिन्नेव समये राज्य-पुनर्घटना-मण्डलेन निजं प्रतिवृत्तं प्रकाशितम्। तदानीं विविध-प्रान्तेषु स्थाने स्थाने असंतोषजः प्रक्षोभः आविर्भूतः। तदा श्रीगुरुजिना भारत-शासकानाम् इतरेषां विमृश्यकारिणां च कृते सद्यःस्थिति-निदर्शकं लेखं विलिख्य उपायोऽपि सुस्पष्टं निर्दिष्टः। १९५५ नोव्हेम्बरस्य प्रारम्भे लिखितोऽयं लेखः भारते सर्वप्रान्तेषु विविधभाषाणां वृत्तपत्रेषु प्रकाशितः आसीत्। तदाशयः समासतः ईदृशः—
‘परस्परम् अविश्वासेन सर्वं वातावरणं दूषितमस्ति। स्नेहभावना सर्वथा तिरोहिता। परस्परं विवदमानैः भित्रप्रान्तीयैः जनैः अधिक-भूभाग-लोलुपत्वं प्रदर्श्य प्रेतस्य मांसाधिक्यम् अवाप्तुं परस्परं गुर्गुरायमाणैः वृकैः सह आत्मनः सादृश्यं प्रकटीकृतम् इति खलु भूरि दुःखदायकम्। इमां दुरवस्थां दूरीकर्तुं राष्ट्रधुरन्धरैः संघ-राज्यस्य
कृतपूर्वा घोषणां निराकृत्य, अखिलं भारतं खलु एकात्मको देशः; तस्य एकमेव मध्यवर्ति शासनम्, तथा एकमेव विधिमण्डलं स्यात्’ इति पुनः उद्घोषणीयम्। तथा कृते, प्रान्तिक-भाषिक-जातीय-प्रभृतयः भेदकारकाः अभिनिवेशाःराष्ट्रैक्य-भङ्गाय अवसरमपि न लभेरन्’।
यदा परदेश-धुरन्धराः भारतं समायान्ति—
१९५५ हायने नोव्हेम्बर-मासे, रशिया-देशस्य प्रधानामात्यः मार्शल-बुल्गानिन्-महाशयः तथा साम्यवादी-पक्षस्य धुरीणः श्री. क्रुश्योव्-महोदयः भारतं द्रष्टुमागतौ। भारतीयैःकृतं तेषां निर्मर्यादं स्वागतं वीक्ष्य श्रीगुरुजिः पञ्जाब-प्रदेशे एकस्मिन् भाषणे वस्तुस्थिति समालोचयत्। तद्यथा—‘सर्वमप्येतद् अस्माकं राष्ट्रियत्वस्य अपरिपक्वतायाः निदर्शनमेव। अन्यत् च, यदा यदा परदेश-धुरीणाः भारतं समायान्ति तदा तदा तत्-तद्-राष्ट्रध्वज-पाणयः अस्मद्-विद्यार्थिनः सर्व-कारादेशात् तेषां स्वागतार्थं नीयन्ते, तथा तेषां जय-जय कारं कर्तुं प्रणोद्यन्ते इति सर्वमपि अप्रशस्तम्। यथा हि उपहार-गृहेषु यो वा को वा ग्राहकः आयातु, उपाहार-गृह स्वामिनः आदेशात् तत्रस्थाः सेवकाः तं वन्दन्ते, तथा एव एतत् विद्यार्थिभिः कारितं परकीयानाम् ‘आदेश-स्वागतम्’। बाल्ये वयसि विद्यार्थिषु कृताः एतादृशाः संस्काराः राष्ट्रहिताय कथं कल्पेरन्?’
ताटस्थ्यं न सदा हितम्—
१९६१ क्रिस्ताब्दे, मद्रास-प्रान्ते, एकस्यां सार्वजनिक-सभायां तथा पत्रकार-संमेलनेऽपि दूरदृष्टिना श्रीगुरुजिना सूचितमासीत् यत् ‘अचिराद् एव चीनानां भारते आक्रमणं संभवेत्’ इति। परे वर्षे (१९६२) एव संभूतस्य ‘भाई’-कृतस्य आक्रमणस्य अद्यापि सर्वे भारतीयाः स्मरन्ति एव। वस्तुतः श्रीगुरुजिना भारत-शासनाय सैनिक-दृष्ट्या पर्याप्तां सिद्धतां कर्तुं यथासमयम् आवाहनं कृतम्। परन्तु अरण्यरुदितम् इव तद् व्यर्थम् आसीत्। तदनन्तरं सः एकदा उक्तवान्—‘अस्मत्-शासकाः सन्ततं वाटस्थ्यनीतिम् अवलम्बन्ते तत् तु भारतस्य दुर्भाग्यमेव। यदि गङ्गायाः तटे पतितं तृणम् आत्मानं ‘तटस्थं’ मन्येत, तर्हि स तस्य अहंकारो व्यर्थः एव, यतः एका लध्वी वायुवीचिरपि ततस्तद् उत्क्षिपेत्। यदि तु कश्चित्
सानुमान् ‘तटस्थोऽहम्’ इति घोषयेत् तर्हि तत् समीचीनमेव, यतः झञ्झावातेऽपि सः अचलः एव तिष्ठति।’
यद्यपि श्रीगुरुजिना सर्वकारस्य नीतिगतो दोषः एवं प्रकाशितः, तथापि शत्रुभिः संगरे कृते ‘वयं पञ्चाधिकं शतम्’ इति नीतिम् अनुसृत्य संघः अस्मिन् राष्ट्रिय-संकटे भारत-सर्वकारेण सह संपूर्ण सहकार्यं कुर्यात् इत्यपि सः आश्वासयामास।
श्रीविवेकानन्द-शिला-स्मारकम्—
श्रीगुरुजि-महाशयस्य प्रेरणया एव १९६२ क्रिस्ताब्दे श्रीविवेकानन्दस्वामिनां जन्म-शताब्दी-समारोहार्थम् एका अखिल-भारतीया-समितिः, तथैव केरल-वासिनःश्रीमन्मथ-पद्मनाभन्-महाशयस्य अध्यक्षतायां ‘विवेकानन्द-स्मारक-समितिः’ इत्याख्या अन्या समितिरपि स्थापिता आसीत्। तया स्मारक-समित्या कन्याकुमारी-क्षेत्रान्तः पाति-श्रीपादशिलायां उप-लक्ष-रूप्यकाणां विनिमयेन श्रीविवेकानन्द-स्वामिपादानाम् एकं नूतनं भव्यं मन्दिरं निर्मातुम् ऐकमत्येन निर्णीतम्। तत्रस्थैः क्रिस्तानुयायिभिः धीवरैस्तु तस्य तीव्रः विरोधः कृतः। ततः मद्रास-सर्वकारेण समित्याः सा योजना असंमता। तेन हताशाःसमिति सदस्याः सर-संघ-चालकं श्रीगुरुजिं समुपेताः। श्रीविवेकानन्द-स्मारक-कार्यस्य सुदुर्धरं भारं वोढुं श्रीएकनाथ-रानडे-महाशयः एव समर्थः, नान्यः; अतः इमं कार्यभार निर्वोढुं सः कृपया अनुज्ञायताम् इति च तं प्रार्थितवन्तः। तेषां समितिसदस्यानाम् आग्रहवशात् श्रीगुरुजिना तस्मै स्वमान्यता दर्शिता, यतः श्रीविवेकानन्द-स्मारक-द्वारा आयत्यां प्रारम्भणीयं हिन्दु-संस्कृति-प्रचारकनिर्माणरूपं महाकार्यं संघस्य हिन्दु-संघटनरूपेण मूल-कार्येण सुसंवादि एव वर्तते।
प्राजक-दिन-संचलने रा. स्व. संघः—
भारतस्य राजधान्यां‚ प्रतिवर्षं, जानेवारी २६ दिनाङ्के शासनेन गणतन्त्र-महोत्सवः क्रियते। १९६३ वत्सरे, अस्मिन् ‘प्राजक’-दिने आयोजिते सेना-सञ्चलने संमिलितुं पं. नेहरू-महाभागः संघस्य दिल्ली-
शाखायाः स्वयंसेवकान् अपि निमन्त्रितवान्। यदा च काँग्रेस-पक्षस्य संसदीय-समित्यां प्रश्नोऽयं चर्चितः आसीत् तदा स्वयं पण्डित-नेहरूमहाशयः समिति-सदस्यान् अकथयत्—‘कामं संघेन सह अस्माकं मतभेदोऽस्तु, संघस्य देशभक्तिस्तु निःसन्देहा एव’ इति।
अस्मिन् संवत्सरे महा-शिवरात्रि-पर्वणि श्रीगुरुजिःनेपालदेशे श्रीपशुपतिनाथस्य दर्शनार्थम् अगच्छत्। देव-दर्शनोत्तरं स तत्र श्रीमन्तं नेपाल-नरेशमपि द्रष्टुं गतः आसीत्।
विश्व-हिन्दु-परिषदः संस्थापक-प्रवर्तकः—
हिन्दुराष्ट्रस्य परमोत्कर्षं साधयितुं श्रीमता गुरुजिना समारब्धम् अस्ति अन्यदेकं महत्वपूर्ण कार्यम्। श्रीमतां प्रेरणया एव मुम्बापुर्यां पवईमध्ये, श्रीमतः चिन्मयानन्द-स्वामिनः ‘सान्दीपनी’-आश्रमे ३०-८-६४ दिनाङ्के श्रीकृष्ण-जन्म-दिवसे, ‘विश्व-हिन्दु-परिषद्’ स्थापिता आसीत्। तत्पूर्वं‚ जगत्यस्मिन् निवसतां सर्वेषां हिन्दूनां एकीकरणम् अधिकृत्य वि. हिं. परिषदः महामन्त्रिणा श्री. दादासाहेब आपटे-महाशयेन, श्रीमता चिन्मयानन्द-स्वामिना तथा अन्यैरपि स्वीयाः विचाराः प्रकटीकृताः आसन्। ‘हिन्दूनाम् एकं जागतिक संमेलनम् आयोजनीयम्’ इति विचारः यदा हिन्दु-महासभायाः एकेन ज्येष्ठ-कार्यकर्त्राश्रीगुरुजिमहाशयाय निवेदितः तदा सः तम् अब्रवीत्, ‘भवद्विचारः सुयोग्यः अस्ति। परन्तु केनापि राजकीय-पक्षेण सह एतादृशस्य संमेलनस्य संबन्धः नोचितः। तत् तु सर्वथा अलिप्तम् अस्तु। अस्मत्समाजे विद्यमानानाम् इतरेषां लोकनायकानाम् एका स्वतन्त्रा समितिः तत्सम्मेलनम् संयोजयतु इति।
भारते धर्मक्षेत्रेऽपि शैवाः, वैष्णवाः, गाणपत्याः, शाक्ताः, जैनाः, बौद्धाः इत्यादयः भिन्नाः पन्थानः, तथा नाथ-शीख-वारकरी-उदासीन-मधुराभक्ति-इत्यादयः बहवः संप्रदायाः सन्ति। तेषां सर्वेषां प्रमुखाः कार्यकर्तारश्च पूर्वं कदापि न संमिलिताः। स्वे स्वे कर्मण्यभिरताः ते सर्वे ‘संगच्छध्वम् संवदध्वम् सं वो मनांसि जानताम्’ (ऋ.१०-१९१-२) इति मन्त्रं तु वारं वारम् उच्चरन्ति स्म; परं संगन्तुम् संवदितुं संमन्तुं ते सर्वे न कदापि एकीभूताः। स्वं स्वम् अहङ्कारं त्यक्तुं न कोऽपि सिद्धः
आसीत्। श्रीगुरुजि-महाशयेन प्रयत्नानां पराकाष्ठां कृत्वा पीठचतुष्टयस्य श्रीशङ्कराचार्याः विविध-संप्रदायानां च यावच्छक्यं सर्वे साधवः, महात्मानः, प्रमुखाश्च एकत्र, एकस्मिन् परिषदि, एकस्मिन् मञ्चे, उच्च-नीच-भावं विस्मार्य समानीताः इत्यहो अभूतपूर्वम् अश्रुतपूर्वं च महत्कार्यं श्रीगुरुजिना साधितम्।
पृथिव्यां यत्र कुत्रापि निवसद्भिः सर्वैः हिन्दु-बन्धुभिःहिन्दु-धमं हिन्दुराष्ट्रं च परं वैभवं नेतुं प्रयतितव्यम् इति कल्पनामूलं विश्व-हिन्दुपरिषदः प्रथमं जागतिकं संमेलनं १८८८ शाके, विश्वावसु-संवत्सरस्य माघ-शुद्ध-प्रतिपदातः तृतीया-पर्यन्तं (दि. २२, २३, २४ जानेवारी १९६६), पूर्ण-कुम्भावसरे तीर्थराजे प्रयागे संपन्नम् आसीत्। पू. श्रीशङ्कराचार्याणाम् अत्याग्रहात् तस्मिन् संमेलने अन्तिम-दिने श्रीगुरुजिना कृतं भाषणं विचार-प्रवर्तकं चिरस्मरणीयं च आसीत्। तस्य अयम्आशयः—
“अस्माकं धर्मः सनातनोऽस्ति। यः पूर्वम् आसीत्, साम्प्रतम् अस्ति, आयत्यां च स्यात्, अर्थात् यः सदा तनोति सः त्रिकालाबाधितः सिद्धान्तमयः धर्मः एव सनातन-धर्मः। भारतस्य प्रदीर्घ-परम्परायां समुद्भूताः बौद्धाः जैनाः इत्यादयः सर्वे धर्म-पन्थानः सनातन-धर्मे अन्तर्भूता एव। अस्माकं दशावतारेषु भगवान् बुद्धः अस्ति एव। मम परिभ्रमणे अथैकदा मया जैन-संप्रदायस्य कस्यापि पूजनीय-मुनिवर्यस्य दर्शन-योगः लब्धः। स मया पृष्टः—“भगवन्, ‘जैनानुशासनम् भिन्नमस्ति, अतः वयं जैनाः, न हिन्दवः’ इति केचित् मन्यन्ते। अत्र अत्रभवान् एव प्रमाणम्।”तदा स मुनिवर्यः प्रोवाच—“वेदमाता कारुण्यमयी। तया न कोऽपि निषिद्धः। सर्वेभ्यः तत्-तत्-प्रकृत्यनुसारम् उपासनाः उपदिष्टाः। तामसानां राजसानां सात्त्विकानां च कृते भिन्नाः उपासनाः। सात्त्विकतराणां कृतेऽपि तया मार्गे दर्शितः। तान् एव सिद्धान्तान् स्वीकृत्य जैन-संप्रदायः प्रचलति। यः ‘हिन्दुर्नास्मि’ इतिमनुते सः जैनोऽपि कथं स्यात्?”
“अतोऽहं ब्रवीमि यद् अस्माकं सर्वे सम्प्रदायाः वेदमूलाः एव। तेषु सामञ्जस्यं संस्थाप्य, अस्माकं समाजं परमोत्कर्षं प्रापयितुं सर्वैः
ऐकमत्येन स्कन्धास्कन्धि प्रयतितव्यम्। सद्यःस्थिती एकीकरणम् अत्यावश्यकम्। ये च अस्माकं हिन्दुबान्धवाः भारताद् बहिः देशान्तरेषु निवसन्ति तेषां सर्वेषाम् आवश्यकतानुसारम् अस्मद्-धर्म-संस्कृति-प्रचारकैः सर्वात्मना‚‘स्वकर्मणा तमभ्यर्च्य’ इति धिया, हिन्दु-राष्ट्र-गौरवार्थं सर्वेषाम् अविरोधेन कार्यपरैः भाव्यम्।
“अद्य यावत् प्रसुप्तम् अस्मद् भाग्यम् अद्य प्रबुद्धम् अस्ति। पूर्वं परम-वन्दनीयेन श्रीविवेकानन्द-स्वामिना उद्घोषितम् आसीत् यत् ‘सर्वस्य जगतः मूर्ध्नि अस्माकं भगवद्-ध्वजः आयत्याम् उच्चैर्विहरेत्।’ तत् सुवर्णदिनं शीघ्रमेव उदेष्यति।”
२२. पाकिस्तानस्य पुनराक्रमणम्
१९६५ क्रिस्ताब्दस्य सेप्टेम्बर-मासे पाकिस्तानेन भारते पुनरपि आक्रमणं कृतम्। तदानीं स्वनाम-धन्यः श्री. लालबहादुर-शास्त्री-महाशयः प्रधानामात्य-पदे विराजते स्म। सः भारते विद्यमानानां सर्व-पक्षाणां प्रमुखान् विचार-विनिमयार्थं राजधानीम् आहूतवान्। श्रीगुरुजिरपि निमन्त्रितः आसीत्।
राजधान्यां सर्व-पक्ष-प्रमुख-परिषद्—
उपवेशने रा. स्व. संघस्य गोलवलकर-गुरुजिं दृष्ट्वा साम्यवादसमर्थकैः तथा कैश्चिद् इतरैःअपि कोलाहलः प्रारब्धः। तदा तं प्रतिबन्धुं स्वयं प्रधानामात्यः सुस्पष्टं कथितवान्—‘मया बुद्ध्या एव संघ-प्रमुखः निमन्त्रितोऽस्ति। संघस्य देशभक्तिः खलु संशयातीता विद्यते।’ एतेन प्रधानामात्यस्य स्पष्टीकरणेन सर्वेऽपि विरोधकाः तूष्णीं स्थिताः।
उपस्थितैः सर्वैः चर्चावसरे स्वं स्वं मतं प्रतिपादितम्। अथ एकेन पुनश्च संघे कृतम् आक्षेपं श्रुत्वा श्रीगुरुजिः सुस्पष्ट जगाद–‘विभाजन-काले देशोऽयं आपत्ति-तमसा आवृतः आसीत्। तदानीं राष्ट्रस्य संरक्षण-
रूपं प्रदीपं प्रज्वाल्य रा. स्व. संघेन तस्मिन् घोरान्धकारे सर्वत्र प्रकाशकिरणान् प्रसारयितुं प्रयत्नः कृतः। अनेकैः स्वयंसेवकैः आत्म-बलिदानेन स्व-देश-बान्धवानां प्राणाः रक्षिताः। अद्य पुनरपि पाकिस्तानेन कृतस्य आक्रमणस्य प्रतीकाराय वयं सर्वात्मना सिद्धाः स्मः। यत्र गन्तुं न कोऽपि धृष्णुयात् तत्र स्वयंसेवकान् मां च कार्याय संनद्धान् भवन्तः पश्येयुः’ इति।
जानन्ति एव सर्वे दिल्लीवासिनः यत् तस्मिन् भारत-पाकिस्तानयुद्ध-काले राजधान्यां यातायात व्यवहार-नियमनं संघ-स्वयंसेवकैरेव कृतम् आसीत्।
श्रीगुरुजेः स्पष्टोक्तिः—
श्रीगुरुजि-महाशयस्य अत्युत्कटा देशभक्तिः तस्मिन्नेव उपवेशने अन्यरीत्याऽपि स्पष्टीभूता। तद्यथा—तदानीं साम्यवादी श्री. डांगेमहाशयः ‘प्रथमम् अस्मद्-युद्ध हेतुः स्पष्टीक्रियताम्’ इति प्रधानामात्यम् अब्रवीत्। अन्येन एकेन यदा ‘युष्मत्सेना’ इति शब्दः द्विवारम् उच्चारितः तदा तस्य दोषं शोधयितुं श्रीगुरुजि तं ‘अस्मत्सेना’ इति वक्तुं कथितवान्। यदा तु तेन पुनरपि ‘युष्मत्सेना’ इत्येव शब्दः प्रयुक्तः तदा गुरुजिःताड् इति तम् अवरुध्य उपालभत—“किमाह भवान्? ‘युष्मत्’ इति शब्दप्रयोगेण स्वदेश-रक्षणकरं स्वसैन्यं परकीयम् इति ध्वन्यते। अवहेलना इयम् अस्मत्सेनायाः। तथा च युद्धेऽस्मिन् विजयः संपादनीयः इत्येव अहं जाने। तदर्थं ये ये प्रयत्नाः आवश्यकाः स्युः तान् कर्तुं सर्वैरपि सन्नद्धेन भाव्यम्। अत्र पक्षविचारः अस्थाने एव। यैः देशोऽयम् आक्रान्तः तैः सह नियुध्य देशरक्षणं करणीयम् \। युद्धस्यास्य अयं हेतुः सुस्पष्टः एव। एवं स्थितेऽपि, युद्धहेतोः स्पष्टीकरणाय कृतम् आह्वानम् सर्वथा आश्चर्यावहम्। ये आक्रमकाः स्युः ते स्पष्टीकुर्वन्तु तेषां युद्धहेतुम्। भारतस्य हेतुस्तु स्पष्टः एव। आततायी शत्रुः भारतम् आक्रमितुं पुनर्न कदापि धृष्णुयात् एवं रीत्या युद्ध्वा जयश्रीः संपादनीया। युद्धहेतुं स्पष्टयितुं कृतेन आह्वानेन तु युद्धकार्य प्रत्यूहः क्रियते।”
१९७० क्रिस्ताब्दे, भारतस्य पूर्व-सीमायाः समीपे पाकिस्तानेन तत्-सेना-विभागानां स्थाने स्थाने निवेशान् कर्तुं तथा च युद्ध-दृष्ट्या सिद्धतां कर्तुं प्रारम्भः कृतः। तदानीं सर-संघ-चालकेन श्रीगुरुजिना प्रकाशितम्—
“युद्धकालोऽयम्। आक्रामिका शत्रुसेना अस्मद्देशस्य सीमोपकण्ठंसमागता। बङ्गला-देशस्य परिस्थिति निमित्तीकृत्य पाकिस्तानेन भारतीय-नगरेषु शतघ्नीभिः गोलिका-क्षेपणं-ध्वंगोल-निक्षेपं च कृत्वा युद्धं प्रारब्धमस्ति। भारतेन सह ‘युद्ध-स्थितिः ‘अपि तेन घोषिताऽस्ति।
आक्रमणमिदं परावर्तयितुं भारतस्य सैन्यं सुसज्जम् अस्ति एव। तथापि, सांप्रतिके युद्धे केवला सैन्य-संसिद्धिः अपर्याप्ता। रणे सेनायाः विजयलाभःविविध-प्रकाराणाम् अवान्तर-कार्याणाम् अधीनः इति नैव विस्मर्तव्यम्। देशे सर्वत्र शान्तता-रक्षणम्, सर्वेषाम् उद्योगानां सहकार्येण सुव्यवस्थितं च संचालनम्, जनतायाः मनोबलस्य प्रतिपालनम्, उत्पादने अन्तरायाणां निराकरणम्, यथावश्यकम् उत्पादन-संवर्धनम्, सेनायाः सर्वापेक्षाणां शीघ्रं परिपूरणम्, नागरिक-संरक्षणम्, रक्तदानम् रुग्णानां च शुश्रूषणम् इत्यादीनि विविधानि कार्याणि सत्वरम्, अप्रमादं नियमबद्धतया च करणीयानि सन्ति। कार्याण्येतानि नागरिकैः कारयित्वा अस्मत्-सर्वकारस्य राष्ट्र-रक्षण-प्रयत्नेषु सर्वात्मना सहकार्य-दानं च नितान्तम् आवश्यकम्। एतत् च अस्मदीयं पवित्रं राष्ट्रिय-कर्तव्यम् एव इति विज्ञाय, सर्वप्रकारकान् पक्षीय-मतभेदान् न केवलम् अपसार्य अपि तु विस्मृत्य‚ अविरतं संघटित-रीत्या च प्रयत्नान् अनुष्ठातुं सर्वे नागरिकाः पुरःसराः भवन्तु।
राष्ट्रहितम् एव सर्वस्वम्, पक्षादीनां विचारस्तु गौणः इत्येव रा. स्व. संघेन सदैव उपदिष्टमस्ति। अत एव सांप्रतं शत्रुणा संगरे कृते, देशरक्षणस्य सर्वकार्येषु संघस्य सर्वे स्वयंसेवकाः संघप्रिया नागरिकाश्च
वैयक्तिक-रीत्या तथा संघस्य स्वयंसेवकत्वेन अपि सर्वभावेन सहकार्य कुर्युः इति स्वाभाविकमेव। संघस्य स्वयंसेवकेभ्यः एतदेव अपेक्ष्यते।
अस्मिन् कार्ये यद् यद् दायित्वं कार्यभार-वहनं वा आवश्यकं स्यात् तत् तत् शासनाधिकारिणां संमत्या अङ्गीकृत्य, तत्-परिपूर्त्यर्थं सर्वात्मना सर्वशक्ति समुपयुज्य प्रत्येकेन कार्यपरेण भाव्यम्।
नागपुरम् ४।१२।१९७१
—मा. स. गोलवलकर
♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦♦
श्रीमत्यैमहामात्यायैपत्रम्—
यदा च युद्धं समाप्तं तदा भारतस्य वृद्धिंगतेन गौरवेण आनन्दितः सर-संघचालकः प्रधानामात्यां पत्रद्वारा इत्यम् अभिनन्दितवान्—
श्रीमत्यैप्रधानामात्यायैइन्दिरा-गान्धी-महोदयायै—
सादरं नमो नमः। बङ्गला-देशस्य ‘निरीह’-जनतायाः उपरि ये अत्याचाराः अभवन् तैः खलु मानवता कलङ्किता। अत्याचाराणां वार्तया कः सत्प्रवृत्तः पुरुषः संक्षुब्धो न भवेत्? भारतीयानां दुःखं क्षोभश्च स्वाभाविके एव, यतः आतंत्राणं हि भारतस्य परम्परागतं व्रतम्। तथा च बङ्गला-देश-निवासिनां भारतं प्रति सहानुभूतिः वर्तते इति व्याजेन पाकिस्तानस्य युद्ध-कामुकैः सत्ताधीशैःभारत-पुण्यभुवम् आक्रमितुं प्रारम्भः कृतः। भारतीय-सेनायाः त्रिभिरपि दलैःऐकमत्येन, कौशल्येन, परमवीर्येणच तत्प्रतीकारं विधाय रिपुः पराजितः तथा च पाकिस्तानस्य दास्यात् बङ्गला-देशः विमोचितः। तत्रभवती एव प्रामुख्येन तत्-श्रेयभागिनी। आदौ संयमेन मिथो विवादं शमयितुं भवत्या प्रयत्नं कृत्वा आत्मनः शान्तिप्रियता परिचायिता आसीत्। परम्, आत्म-रक्षणार्थं युद्धस्य अनिवार्यताम् आलोच्य भवत्या निर्भयतया युद्धाभिमुखीभवितुम् अस्मत्-सेना प्रेरिता, भारतीय-जनता च विजयावाप्त्यर्थं सर्वात्मना परिश्रमं कर्तुं प्रणोदिता आसीत्। मित्रब्रुवाणां देशान्तराणां विरोधः, साहाय्यं निरुध्य तैः आदूता दमन-नीतिः, पाकिस्तानाय शस्त्रादीनां साहाय्यं कृत्वा आपद्-वृद्धिकरी. तत्प्रवृत्तिः इति सर्वमपि अवगणय्य, स्वावलम्बनेनंसङ्कट-प्रतीकारे भवत्याः
दृढनिश्चयः स्वाभिमान-पूर्णः भारतस्य च गौरव-वर्धकः आसीत्। अत एव समग्रं भारतवर्षं तत्रभवतीं सोत्साहं सभाजयति।
बङ्गला-देश-मुक्ति-हेतौपूर्णत्तां गते, भवत्या कृता युद्ध-विरामघोषणा भारतस्य शान्ति-प्रियां नीतिम् अनुसरति इति सर्वे मन्येरन्। कामं युद्ध-विरामः संजातः सङ्कटं तु न निरस्तम्। अत एव देशस्य बलेन सर्वदा जागरूकतया संनद्धेन भाव्यम् इत्यस्मिन् विषये तत्रभवती अपि सावधान एव इति मन्ये। राष्ट्रभक्ति-युते एकता-सूत्रे ग्रथिताः सर्वे देश-बान्धवाः, आर्थिकी समृद्धिः, सुयोग्या वाहिनी च इति शक्ति-त्रितयं सततं संसिद्धमस्तु \। देशस्य हितं संरक्षणं, स्वाभिमानं च घातयन्त्यः अन्तर्गताः प्रवृत्तयः कदापि दुर्लक्षिताः मा भवन्तु।
अधुना बङ्गला-देशे स्वतन्त्रे सति‚ अतीतेषु २४ वर्षेषु ये ततः निर्वासिताः आसन् ते सर्वे यथा पुनश्च स्वं स्वं गृहं प्रतिगन्तुं शक्नुयुः, स्वीयाम् अपहृतां संपत्ति च पुनः संप्राप्य ते आत्मनःनव-मुक्त-देशस्य उन्नत्यर्थंप्रयत्नशीलाः भवेयुः तादृशी न्यायसङ्गता व्यवस्था कार्या भवेत्। अस्मिन् विषये तत्रभवत्या नैकवारं दत्तम् आश्वासनम् अचिरात् पूर्णं भवतु कोटिशः पीडितानां जनानां कृतज्ञता-युतान् धन्यवादांश्च तत्रभवती प्राप्नुयात्।
देशस्य एकात्मता, परिस्थित्याः वास्तवं मूल्याङ्कनं तथा राष्ट्राभिमानस्य राष्ट्र-गौरवस्य च रक्षणे यथार्थः संकल्पः इत्येतत् सन्ततं तिष्ठतु। न केवलम् आपत्काले अपि तु राष्ट्रोत्थानस्य सर्वासु क्रियासु सत्संकल्पोऽयं सदैव आवश्यकोऽस्ति। निज-राष्ट्रस्य गौरव-भावनान्वितायाः एकात्म-शक्तेः निर्माण-कार्ये निरतः रा. स्व. संघः तस्मिन् कार्ये सन्ततं सर्वकारेण सह सहकार्यम् अकरोत् कुर्वन् अस्ति, करिष्यति च। समग्र-देश-प्रतिनिधिभूता तत्रभवती एतत् सर्वं यथावद् विचार्य एव देशस्य राष्ट्रियां नीति तथा विदेश-नीति च निर्धारयेत् इति विश्वसिमि। तत्रभवत्याः नेतृत्वेन भारतवर्षम् एवमेव अधिकाधिकं गौरव-युतं भवतु \।
सांप्रतिकस्य राष्ट्र-संमान-वर्धनस्य यशोर्थम् तत्रभवतीं भवत्याः मन्त्रिगणं च रा. स्व. संघद्वारा अभिनन्दामि, तथा च देशस्य अजय्यां सैन्य-शक्तिम् अभिवादयामि। इति शम्।
२२-१२-७१
—मा. स. गोलवलकर
२३. व्यक्तित्व-विशेषाः
श्रीगुरुजेः प्रसिद्धि-पराङ्मुखता—
‘टाइम्स ऑफ इण्डिया’ वृत्तपत्रं प्रतिवर्षं स्वीये ‘सांवत्सरिकपुस्तक’ (Year-Book)-मध्ये विद्यमान-महापुरुषाणां संक्षिप्तं चरितदिग्दर्शनं कुरुते। १९७० क्रिस्ताब्दे तेन श्रीगुरुजिः स्व-चरित-विषयकं वृत्तान्तं प्रेषयितुं प्रार्थितः। तदा लिखिते प्रत्युत्तरे श्रीगुरुजेः प्रसिद्धिपराङमुखता स्पष्टीभवति। तत् [पत्रमिदम्](# “श्री. गुरुजीः समग्रदर्शन (मराठी) खण्ड ६ पृ. २८६— " I am not interested in having myself included in any list of outstanding personalities in the country for the simple reason that I do not belong to that category. Allow me, therefore, to request you to drop my name and any reference to my biography’. I hope you will do me this favour.”")—
** “न काङ्क्षे देशे विद्यमानानां महापुरुषाणां नामावल्यां मम समावेशम्, यतः नास्म्यहं तादृशः महापुरुषः। अतः मम नाम्नः चरितस्य च तत्र उल्लेख वर्जयितुं प्रार्थये। भवान् प्रार्थनामिमां स्वीकुर्यात् इति आशासे।”**
छुरिका-विद्वाय कार्यकर्त्रे पत्रम्—
अस्मिन्नेव वर्षे संघस्य एकःकार्यकर्ता केनापि आततायिना छुरिकया विद्धः आसीत्। १०-१२-१९७० दिनाङ्के श्रीगुरुजिना तस्मै लिखितं पत्रंसर्व-कार्य-कर्तॄणां मार्गदर्शकम् इति कृत्वा अत्र दीयते।—
“भवान् केनापि छुरिकया विद्धः परन्तु भगवत्कृपया अचिरात् लब्धेन वैद्यकीय-साहाय्येन सुरक्षितः। इयं खलु ईश्वरस्यैव अनुकम्पा। तदर्थं वयं सर्वे तस्य कृतज्ञाः।
कार्यावसरे सर्वप्रकारकाः प्रसंगाः पुरुषे आपतन्ति। साम्प्रतं तु देशे सर्वत्र असहिष्णुता-पूर्णम् अत एव हिंसा-प्रायं वातावरणम् अस्ति।
अस्माभिस् तु स्वयम् असहिष्णुभिर् न भाव्यम्। हिंसाचारस्य विचारोऽपि दूरतः विसर्जनीयः। परंतु एतादृशीभ्यः दुर्घटनाभ्यः आत्मानं संरक्ष्य धैर्येण, आनन्देन निर्भयतया च स्वकार्यं करणीयमेव। एतदर्थं व्यवहारे नित्यं सावधानेन दक्षतया च व्यवहर्तव्यम्।
पुनश्च प्रभोः उपकार-निमित्तं तच्चरणयोः कृतज्ञतया शतशः प्रणम्य भवतः जीवनं सफलं कर्तुं तं प्रार्थये।”
व्यवहारे दक्षता—
व्यवहारे शब्दानाम् उपयोगः तेषाम् अर्थम् अज्ञात्वा असावधानं कथं क्रियते तत्सूचयितुकामः श्रीगुरुजिः एकदा अब्रवीत्—
‘कोऽपि पुरुषः राष्ट्रस्य घटकः, सेवकः, पूजको वा स्यात्। परं न कोऽपि राष्ट्रस्य पिता भवितुमर्हति यतः राष्ट्रम् प्राचीनम् ‘राष्ट्रपिता’ शब्द-वाच्यः पुरुषः अर्वाचीनः। पुत्रः पितुः जनकः कथं भवेत्? सर्वथा विसङ्गतम् एतत्। आदरभावं द्योतयितुमपि विशेषणानि तारतम्येन एव योजनीयानि’। एवं योग्य-शब्द-प्रयोगे सावधानताइत्यासीत् श्रीगुरुजेः एको विशेषः।
सर्वदा रचनात्मिका दृष्टिः इत्यासीत् तस्य अपरो विशेषः।अथैकदा, ‘अपि नाम साम्यवादिभिः सह भवतां द्वन्द्वं संभवेत्? ‘इति केनापि हेतुतः पृष्टे सति श्रीगुरुजिःतं प्रत्युवाच—“नहि नहि, अस्माकं नीतिः प्रेममयो, न तु द्वेषमयी। निखिलं हिन्दुसमाजं प्रति स्वाभाविकः स्नेहः एव संघ-कार्यस्य मूलाधारः। यथा रशिया-देशस्य धुरंधरेण ‘तीव्रा द्वेषभावना एव अस्मद्-यशसः रहस्यम्’ इति निर्दिष्टमासीत् तथा उत्कटः स्नेहः एव संघस्य यशसः रहस्यम् इति जानीत।”
अथ अन्यस्मिन् प्रसङ्गे सः उपदिष्टवान्—“द्वेषमूलःप्रतिक्रियारूपः विचारः अन्ततो गत्वा राष्ट्रहिताय न कल्पते। प्रदीर्घ-परम्परायाः संस्कृत्याः च अभिमानेन युक्तः एकरसः, एकात्मकः, एकसूत्रबद्धः समाजः एव राष्ट्रम्। एवंरूपः हिन्दुसमाजः एव भारते राष्ट्र-पद-वाच्यः। ये तु
आक्रमकाः देशान्तराणां परम्परां संस्कृति, पुरुषश्रेष्ठान् आत्मीयत्वेन अङ्गीकुर्वन्ति ते भारते अराष्ट्रियाः। ‘भारतं हिन्दुराष्ट्रम्’ इति घोषयितुं केचिद् न धृष्णुवन्ति। इतरेभ्यः सत्य-कथनं न रोचेत ते. अस्मद्-विरुद्धाः भवेयुः इति भीत्या ते मिथ्या-मैत्रीम् अवलम्बितुं स्वीयां राष्ट्रियतां हन्तुं प्रवर्तन्ते। यथा मृगजलेन तृष्णा न शाम्यति तथा मित्रतायाः आभासेन शान्तिः न लभ्यते। भीरुतया च उन्नतिः न साध्यते।”
उक्तं च—
‘स्वातन्त्र्यं राजते लोके यत् स्वसामर्थ्य-संगतम्।
सामर्थ्यहीनं स्वातन्त्र्यं विनाबाणं यथा धनुः।’
संस्कृत-भाषाऽभिमानः—
श्रीगुरुजि-महाशयः महान् संस्कृताभिमानी आसीत्। संस्कृतभाषायाः अध्ययनं अध्यापनं च भारते सर्वेः कर्तव्यम् एव इत्यासीत् तस्य निश्चितं मतम्। तस्य तदर्थकाः प्रयत्नाः सर्वेषां संस्कृताभिमानिनाम् अपि न परिचिताः। अधस्तनं संस्कृतं पत्रं तस्य देववाणी-विषयकम् अभिप्रायं सम्यक् प्रकटीकरोति।
जयपुरतः प्रकाश्यमानायाः’भारती’ इति संस्कृत-मासिक-पत्रिकायाः संपादकाय १९५४ क्रिस्ताब्दे श्रीगुरुजिना अभिनन्दनपत्रम्प्रेषितम्। तत्र सः लिखति—
** “हिन्दी-प्रभृतयः सर्वाः प्रादेशिक्यः भाषाः संस्कृतोद्भूताः सन्ति। परं सांप्रतं विविध-भाषा-भाषिणां भारतीयानां स्व-स्व-भाषादुरभिमानः परां कोटिं गतः इव अवलोक्यते। स्व-स्व-भाषा-दुरभिमानेन सर्वे परस्परपार्थक्यम् उद्घोषयन्ति। एतस्य प्रादेशिक-भाषा-मूलक-दुरभिमानस्थ प्रशमनार्थं संस्कृत-प्रचार-सदृशं नान्यत् बलवत्तरं रसायनम्।”** संस्कृतभाषा न केवलं जीवति अपि तु सा सर्वाःप्रादेशिक-भाषाः जीवयत
तेषां संवर्धनं च करोति इति विस्तरेण लिखित्वा स पत्रान्ते लिखति—“संस्कृत-भाषायाः एतत् अनुक्त-सिद्धं सजीवत्वं सर्वकषं च सामर्थ्यं ज्ञात्वा सर्वैः राष्ट्र-कल्याण-कामैः संस्कृत-भाषायाः अध्ययनम् अवश्यमेव कर्तव्यम् इति मे सुस्पष्टं मतम्।”
श्रीगुरुजेः संस्कृतानुरागस्य अस्ति अन्यदेकं लेखनिबद्धं प्रमाणम्। २६ फेब्रुआरी १९७२ दिनाङ्के सः गोमन्तके ‘कवले’-नामके नगरे ‘विद्यमानं ‘श्रीशाङ्कर-विद्यापीठं’ द्रष्टुम् अगच्छत्। संचालकस्य विज्ञप्तिमनुं अभिप्राय-संपुटिकायां सः स्वाभिप्रायम् इत्थं लिखितवान्—
“भारतीय-जीवनस्य आधारभूतं ज्ञानं याथातथ्येन वेदितुं संस्कृतभाषायाः अध्ययने पारंगतता अनिवार्या। नूनम् अस्माकं राष्ट्रिय-प्रवाहस्य सद्गुण-संपन्न-संस्कृतेः सम्यग् आकलनार्थं, तथा च व्यक्तिमात्रस्य जीवनं राष्ट्रिय-परम्परानुरूपं घटयितुं देववाण्याः सम्यग् ज्ञानम् आवश्यकम्, यतः अस्मत्-संस्कृतेः मूलाधार-भूतं निरूपणं गीर्वाण-भाषायाम् एव विद्यते।
** “श्रुतिः एव सु-संस्कार-करण-विधीनाम् उद्भवस्थानम्। वेदानां पठन-पाठनं निरन्तरं करणीयम्। परन्तु सांप्रतं, संस्कृतभाषाध्ययनं, वेदाध्ययनं तदङ्गभूता उपासना च उपेक्षितानि सन्ति। तेनैव सांप्रतं वर्धमानाः अभारतीयता-भोगप्रवणता-नीतिभ्रष्टता-प्रभृतयः अनिष्टवृत्तयः सर्वत्र दरीदृश्यन्ते। सर्वे विचार-शीलाः सज्जनाः मन्यन्ते यद् ईदृशी अवस्था राष्ट्र-संवर्धन-दृष्ट्या तथा तत्-संरक्षण-दृष्ट्याऽपि भयावहा एव। अत एव राष्ट्रिय-हेतु पूरकःसंस्कृताध्ययनस्य वेद-पठनस्य च अत्रत्यः उपक्रमः अभिनन्दनार्हः। युवकाः बालाश्च तदध्ययनार्थम् अवश्यं प्रेरणीयाः।”**
प्रेमामृतास्वादनम्—
अथैकदा भारते परिभ्रमन् श्रीगुरुजिःबिहार-प्रान्ते एकस्मिन् खर्वटेगतः आसीत्। आसीत् सा अस्पृष्टानां वसतिः। तत्रापि संघशाखा प्राचलत्। अस्पृश्यता-निवारणे रा. स्व. संघेन यद् यशः लब्धं तेन
म. गान्धिरपि विस्मितः। अस्तु तत्। तस्मिन् खर्वटे निवसद्भिः पूर्वं चित्रे एव श्रीगुरुजिःदृष्टः आसीत्। तस्मिन् दिने तस्य साक्षात् दर्शनेन खर्वटवासिनः आनन्द-निर्भराः संजाताः। परिचयः, वार्तालापः इति कार्यक्रमोत्तरं चहापानान्ते तान् आपृच्छ्य श्रीगुरुजिः ततः प्रतस्थे।
टॅक्सी-यानेन सः अग्रे गच्छन् आसीत्। अकस्मात् यानं स्तब्धम्। सारथिः अस्वस्थः अभवत्। यदा तु सर्वोऽपि पीतः ‘चहा’ वमनेन निरगच्छत् तदा स्वस्थः सः पुनरपि यानं प्राचालयत्। ५-१० मिनिटानन्तरं यानस्थाः अन्येऽपि चत्वारः कार्यकर्तारः चहाम् अवमन्। केवलं श्रीगुरुजिः अवशिष्टः। तेन तु स्नेहाग्रहवशात् चषक-द्वयं पीतम् आसीत्। परं सहचराणां वमन-चक्रेण सः नैव अभिभूतः। तं सर्वथा स्वस्थं दृष्ट्वा सर्वे तत्-सहचराः स्तिमिताः अभवन्। अन्ते एकतमः धैर्येण तम् अपृच्छत्—‘अस्माभिः सर्वैरपि चहापानं कृतम्। तेन वयं सर्वे बाधिताः। अत्रभवति तु तस्य लेशमात्रमपि विपरिणामः न दृश्यते; कथमेतत्?
तदा तद्रहस्यं विशदीकुर्वन् स जगाद्—“भवद्भिः खर्वटे अत्र तत्र विद्यमाना अशुचिता मलिनता वा प्राधान्येन वीक्षिता। यदि तु तेषाम् आतिथ्यम्, अव्याजाकर्षकं प्रेम च भवद्भिः सम्यग् वीक्षितं स्यात्, तर्हि भवतां जठरेऽपि स चहा प्रायः जीर्णः अभविष्यत्। भवद्भिः मलिनं कल्कं पीतम्; मया तु तेषां प्रेमामृतम् आस्वादितम्। तेनैव मम पोषणं भवति। कथं तर्हि ततः कुत्सा, वमनं वा संभवेत्?” इति।
कुष्ठिनाम् अपि आधार-भाजनम्—
अस्ति एकः कुष्ठ-रोगी संघ-स्वयंसेवकः। यदा प्रभृति सः कुष्ठग्रस्तः अभवत् तदा प्रभृति समाज-संपर्क सर्वथा वर्जयित्वा सः स्वयमेव अज्ञातवासं गतः। मराठवाडा-विभागे, औंढ्या-नागनाथ-नामाद्रौ अध्यात्म-मठे सः वर्षत्रयम् उवास। तत्रस्थेन महात्मना यदा अध्यात्म-शक्त्या कुष्ठ-निवारण-प्रयोगःस्थगितः, तदा तम् आश्रमं विहाय असौ कुष्ठी स्वयंसेवकःमध्यप्रदेशे छत्तीसगढ-विभागे चम्पा-खेटके संचाल्यमानं**‘भारतीय-कुष्ठ-निवारक-संघं’ प्रयातः।**
तस्मिन् भा. कु. नि. संघेभगवद्-ध्वज-चित्रस्य अधस्तात् लिखितम्
आसीत्—‘ध्वजोऽयम् सर्वेषु राष्ट्र-कार्येषु आत्म-समर्पण-भावम् अपेक्षते।’ तत्र संचालक-महाशयः एकदा श्रीगुरुजिना प्रेषितम् एकं पत्रं प्राप्तवान्। तद्यथा—“भवताम् आश्रमे श्री *** नाम एकः युवकः संप्रत्येव प्रविष्टः इति श्रुतम्। अस्ति सः सुशिक्षितः, विश्वासार्हः ध्येयवादी च। भवताम् आश्रम-कार्य-संवर्धने सः उपयुक्तः भवेत्।”
पत्रमिदं पठित्वा तस्य नवागतस्य मुखात्, भावनावेशात्, ‘त्वमेव माता च पिता त्वमेव’ इति वचनं सहसा विनिर्गतम्। महारोगिणाम् अपि योग-क्षेम-विषये जागरूकेण श्रीगुरुजिना, काले काले, तद्-विषयकं वृत्तम् अवगन्तुं प्रयतितम् आसीत्।
तस्य भा. कु. नि.-संघस्य संचालकोऽपि अस्ति स्वयं कुष्ठ निर्मुक्तः झांशी-निवासी एकःवयोवृद्धः संघ-स्वयंसेवकः एव। तस्य कुष्ठ-सेवा-कार्यम् आलोक्य यदा कोऽपि निरीक्षकः तस्मै धन्यवादान् ददाति‚ तदा सगद्गदं श्रीगोलवलकर-गुरुजेः छायाचित्रं प्रति अंगुलि-निर्देशं कृत्वा सः भणति—
‘मूकं करोति वाचालं पङगुं लङ्घयते गिरिम्।
यत्कृपा तमहं वन्दे परमानन्द-माधवम्।
५-६-७८ दिने प्रकाशिते’ तरुण-भारत’-पत्रे, प. पू. श्रीगुरुजेः पञ्चमे सांवत्सरिक-श्राद्ध-दिने, तस्मै श्रद्धाञ्जलि समर्पयितुकामेन तेन युवकेन लिखिते लेख-विशेषे सः वर्णयति—“सप्ताहात् प्राक्, महाराष्ट्रे ‘पद्मश्री’ पद-विभूषितः कुष्ठ-सेवा-परः महाशयः मां पृष्टवान्‘यथा वयं स्नेहभावेन भवतः सेवामहे तथा आत्मीय-दृष्ट्या स्नेह-भावेन च यूयं कुष्ठिनः पूर्वं केनाऽपि सेविताः किम्?’ इति। पद्मश्रिये तस्मै किमुत्तरं देयम्? परम-कारुणिकः श्रीगुरुजिःअन्य-रोगिणः इव दीनान् महारोगिणः अपि न कदापि व्यस्मरत्। सः अस्मादृशान् प्रेम्णा उपादिशत्—‘कुष्ठ-सेवा नाम धर्म-संप्रदायातीतं समाजकार्यम्। एतद् एव भवादृशानां कार्यक्षेत्रम्। तदर्थं परकीय-मिशनरीषु सवकारे वा अवलम्बनं न युक्तम्। सामाजिक-कर्तव्य-भावनया, प्रेम्णा निष्ठया च कृताः प्रयत्नाः कुष्ठ-निवारणाय प्रभवन्ति। अतः दुःखतप्तानाम् आर्तिनाशन-धर्मंसर्वभावेन चरत’ इति। आत्मवत् सर्वभूतेषु पश्यन् प. पू. श्रीगुरुजिः अत एव नः माता पिता च आसीत्।”
विदेहवृत्तिः—
अपरोऽपि एकः प्रसंग-विशेषः ज्ञातव्योऽस्ति। बैतूल-कारावासाद् आरभ्य श्रीगुरुजेः दक्षिणः हस्तः सन्ततं दुनोति स्म। अनेके उपायाः निष्फलाः आसन्। अतः१९५२ तमे क्रिस्ताब्दे वैद्यराजस्य सूचनामनु एकःतीक्ष्णः उपायः अनुष्ठितः आसीत्। पुण्यपत्तने श्रीवैद्यराजः प्रतप्तरजत-शलाकया तं न केवलं २–३ वारम् अपि तु ३२ वारं अदहत्। प्रतिदाहं दाहस्थाने ‘चर्र्’ इति शब्दः श्रूयते स्म। दग्ध-त्वग्- दुर्गन्धिः घ्रायते स्म। तद् दाह-करणं प्रेक्षमाणानाम् अपि मुखात् सीत्काराः निर्गच्छन्ति स्म। एवंगते अपि श्रीगुरुजिः स्वयं शान्तचित्तः, प्रसन्नः, वार्तालाप-मग्नश्च आसीत्। न कोऽपि तत्रस्थःतेन रौद्र-चिकित्सा-कर्मणा व्याकुलो भवेत् इति हेतुना अथवा आत्मानं विनोदयितुं स तान् विनोदकथाः श्रावितवान्।
‘देहः दह्यते, नाहम्। अहं तु अदाह्यः’ इति श्रीगीतोपदेशः श्रीगुरुजिना न केवलं पठितः अपि तु अनुभूतः। या विदेह-वृत्तिः पुरा तुषाग्नि-दाहे आत्मनः देहं दाहयतः श्रीकुमारिल-भट्ट-महोदयस्य प्रकटीभूता या विदेह-वृत्तिः मण्डाले-कारागृहे आधिभौतिकम् सुदुःसहं दुःखं शान्त-चित्तेन सहमानस्य लोकमान्य-तिलकस्य प्रकटीभूता, या विदेह-वृत्तिः यम-पुरायमाणे अण्डमान-कारागृहे तथा प्रायोपवेशन-काले स्वातन्त्र्यवीरसावरकर-महाशयस्य आविरासीत् सा विदेह-वृत्तिः अथवा ‘नाहं देहः प्रत्यगात्माऽहमस्मि इति सोऽहं’-भावात्मिका अनुभूतिः श्रीगुरुजेः जीवनेऽपि प्रसङ्गानुरोधेन प्रेक्षावद्भिः प्रत्यक्षीकृता।
२४. निर्वाणम्
कर्करोग-प्रादुर्भावः—
१९६५ क्रिस्ताब्दे श्रीगुरुजेः पृष्ठे एकः लघु-ग्रन्थिः उदभवत्। पुण्यपत्तनस्थेन होमिओपॅथ-डॉ. नामजोशी-महाशयेन सः निर्मूलितः। वर्षचतुष्टयोत्तरं १९६९ तमे वर्षे‚ यदा श्रीगुरुजिः कर्णाटके सिर्सी-ग्रामं गतः आसीत् तदा तस्य वक्षःस्थले अन्यःग्रन्थिः उद्भूतः। उपचारे प्रचलति सति, १९७० तमे वर्षे तस्य वामे बाहुमूलेऽपि ग्रन्थिः प्रादुर्भूतः। श्री. डॉ. नामजोशी तस्य सम्यग् निरीक्षणं कृतवान्। कर्क-रोगाशङ्कया तन्मनः अक्षुभ्यत्, अचिरात् ग्रन्थेः सम्यग् निदानं तज्ज्ञेन कारयितुं सः असूचयत्। तदुत्तरं मुम्बय्यां तज्ज्ञैः भिषग्व-र्यैरपि कर्कोऽयम् इत्येव निदानं कृतम्। तन्निदानं ज्ञात्वाऽपि‚देहः अनित्यः इति जानन् श्रीगुरुजिः भिषग्वरम् निर्भीकतया अब्रवीत्—‘अधुना समयो नास्ति। समाप्ते प्रवासे अवश्यम् अहम् अत्र पुनरागमिष्यामि तदानीं रोगमूलं व्यवच्छिद्यताम्।’ तदनुसारं, ३० जून १९७० दिनाङ्के संघ-प्रशिक्षण-वर्ग-निमित्तकं प्रवासं समाप्य, सः मुम्बईम् आगतः। अपरेद्युः टाटा-शल्य-चिकित्सा-गृहेडॉ. प्रफुल्ल-देसाई-महाशयेन यदा शल्यक्रिया कृता तदाः कर्कः एव इति स्पष्टीभूतम्। अतः निम्न-क्ष-किरण-चिकित्सा अपि कृता आसीत्।
शस्त्रक्रिया-निमित्तं श्रीगुरुजिःचिकित्सालये २६ दिनानि अवसत्। तदानींये अन्ये रोगिणः तत्र आसन् तान् आत्मौपम्येन पश्यन् सः कुशलं पृच्छति स्म, ‘अचिरादेव पूर्ववत् स्वास्थ्यं भवेत्, अलं चिन्तया’ इति च तान् आश्वासयति स्म।
वस्तुतः शस्त्रक्रियां कारयितुं अनिच्छता अपि गुरुजिना संघ-कार्यकर्तृणाम् आग्रहवशाद् एव तदर्थं संमतिः दत्ता आसीत्।
ऑगस्ट-मासे गुरुजिःनागपुरं प्रत्यायातः। पूर्ववत् सर्वे कार्यक्रमाःपुनः प्राचलन्। १९७१ क्रिस्त-वर्षं व्यतीतम्। १९७२ सप्टेम्बर-मासे तस्य स्कन्धदेशे नवीनो ग्रन्थिः समुद्भूतः। तथापि स्थिरचेताः सः नित्यं नैमित्तिकं च सर्वमपि कार्यजातं यथावत् कुरुते स्म।
यमराजस्य हत्या-सत्रम्—
१९७२ वर्षे यमराजेन हत्यासत्रमिव प्रारब्धम्। २६-३-१९७१ दिने श्री. भय्याजिः दाणी कालधर्मंप्राप्तः आसीत्। १५-३-१९७२ दिने पं. श्रीबच्छराज-व्यासः पञ्चत्वं गतः। मार्च २१ दिने (भूतपूर्वः जम्मूसंघचालकः) **श्रीप्रेमनाथ-डोगरा-महाशयः दिवं गतः। जुलै २६ दिनाङ्कश्रीबाबासाहेब-आपटे-**महोदयः कालेन कवलीकृतः। एप्रिल-मासे नेपालाधीशस्य महामहिम श्रीमहेन्द्र-महाराजस्य निधन वार्तया श्रीगुरुजिः अतीव दुःखितः अभवत्। अन्येऽपि बहवः नैष्ठिकाः संघ-कार्य-कर्तारः तस्मिन् वर्षे कालेन कवलिताः आसन्। खामगाव-मण्डल-संघचालकः, सिन्नर-संघ चालकः, बसमतनगर-संघचालकः, नन्दुरबारस्थःश्री. बालासाहेब-पतकी, पञ्जाब-निवासी श्रीदिवाण-शान्तिस्वरूपजिः, नासिकस्थः श्रीरत्नपारखी, अमृतसरस्थः श्रीकृपारामःनन्दाजिः, मङ्गलोरस्थःश्री. ए. नारायण-रावः, नैरोबी-स्थितः श्रीमुलुखराज-शर्मा इत्येतेषां सर्वेषाम् एकस्मिन् एव वर्षे संवृत्तेन निधनेन संघ-कार्यस्य भूरि भूरि हानिःसंजाता !
१९७२ वर्षे, मार्च-मासस्य अन्तिमे सप्ताहे, संघस्य अखिल भारतीय-प्रतिनिधि-सभायाः सांवत्सरिकम् अधिवेशनम् अभवत्। तत्र बाङ्गला-देशस्य अभिनन्दनम्, आत्मनः पराक्रमेण भारत-कीर्ति-सौरभं सर्वासु दिक्षु प्रसारयतां सैनिक-वीराणां सभाजनं‚ युद्धे निहतेभ्यः श्रद्धाञ्जलि-समर्पणम्, प्रधानामात्यायै श्री. इन्दिरा-गान्धी-महोदयायै आभार-प्रदर्शनम् इत्यादयः प्रस्तावाः संमताः आसन्।
१८ ऑगस्ट ७२ दिने इन्दूर-नगरे महर्षि-अरविन्द-जन्मशताब्दीमहोत्सवे श्रीगुरुजिना भाषणं कृत्वा पूजनीय-महर्षये आदराञ्जलिःः समर्पितः। २० ऑगस्ट दिने नवदिल्ल्यां, ‘दीनदयाल-शोध-संस्थान’ स्य उद्घाटनम्, पं. दीनदयाल-महाशयस्य प्रतिमायाः अनावरणं च श्रीगुरुजिना एव विहितम्।
अग्रजातम् अशुभ-निमित्तम्—
८ ऑक्टोबर-दिवसः खलु सर्वान् चिन्ताक्रान्तान् चक्रे। श्रीगुरुजिः जयपुर-नगर गतः आसीत्। शरीरेण अतीव अस्वस्थोऽपि सः अपराह्णे
उपवेशन-स्थानं गतवान्। तेन भाषणं प्रारब्धम्। परन्तु शरीरे वेपथुः आसीत्। त्वग्दाहोऽपि प्रवृत्तः। ज्वरः १०५° यावत् प्रावर्धत। सः सम्यग् अवस्थातुमपि नाशक्नोत्। शब्दोच्चाराः अपि अस्फुटाः आसन्। अहो किमथुना भवेत्? सर्वेऽपि चिन्ताकुलाः संजाताः। अकस्मात् श्री. बापुराव मोघे-महाशयः गुरुजि धाष्टर्येन असूचयत्—‘प्रार्थना-वेला संजाता’ इति। ‘नमस्ते सदा वत्सले मातृभूमे.—परं वैभवं नेतुमेतत् स्वराष्ट्रं समर्था भवत्वाशिषा ते भृशम्’। प्रार्थना समाप्ता।
हृदय-तज्ज्ञःडॉ. कोटिया-महाशयः आगतः। यथावत् परीक्ष्य ‘श्रीमतः हृदयं सुष्ठु वर्तते, अलं चिन्तया। ‘इति यद्यपि सः आश्वासयत्, तथापि’ अस्याम् अवस्थायाम् भवन्तः श्रीमतः सर-संघ-चालकस्य प्रवासादि-कार्यक्रमं कथम् आयोजयन्ति? ‘इति सः तत्रस्थान् संघीयान् भृशम् उपालभत। ईशकृपया तु अपरेद्युः ज्वरः प्रशान्तः। तस्मिन् एव दिने (११-१०-७२) श्रीगुरुजिःविमानेन नागपुरं प्रत्यागतः। प. पू. श्रीगुरुजेः प्राण-परित्राणार्थं सर्वैः जयपुरस्थैः स्वयंसेवकैः श्रीपरमेशः सर्वभावेन संपूजितः। सर-संघ-चालकस्य तदेव अन्तिमं दर्शनं स्यात् इति नियति तु तदानीं न कोऽपि अजानात् !
ऑक्टोबर २०-२१ दिनाङ्कयोः पुनश्च मुम्बापुर्यां टाटा-चिकित्सालये डॉ. देसाई-महाशयेन श्रीगुरुजिः यथावत् निरीक्षितः। ग्रीवायाः वामभागे नूतनं ग्रन्थि-द्वयम् उद्भूतमासीत्। अतः दश-दिनावधि पुनश्चगभीर-क्ष-किरणोपचारः कारितः।
ठाणे-मण्डले अभ्यास-वर्गः—
१९७२ वर्षे, ठाणे-मण्डले, ऑक्टोबर २८ तः नोव्हेम्बर ३ पर्यन्तं केवलं विभाग-स्तरे कार्यकर्तॄणाम् एकः अभ्यासवर्गः प्रयोजितः आसीत्। प्रत्यहं वर्गे सत्र-त्रयं भवति स्म। प्रारम्भे प्रश्नोत्तराणि‚ तदूर्ध्वंश्रीगुरुजेः प्रवचनम् इत्यासीत् आह्निकः कार्यक्रमः। संघस्य सिद्धान्ताः, कार्यपद्धतिः, आधुनिक-जीवनस्य प्रणालिकामनु संघर्षमय-परिस्थितौसंघ-कार्यस्य उपयुक्तता तथा अनिवार्यता, हिन्दुराष्ट्र संघटितं वैभव-युतं च कर्तुम् ‘एष पन्थाःएतत् कर्म’ इति रीत्या सुस्पष्टं च विवरणम् इत्येवंरूपंसर्वंकषं
मार्गदर्शनं लब्ध्वा सर्वे कार्यकर्तारः उत्साह-निर्भराः अभवन्। यत् तेभ्यः कथनीयम् आसीत् तत्सर्वमपि तस्मिन् अभ्यास-वर्गे श्रीगुरुजिना सुष्ठु स्पष्टीकृतम्।
भ्रातृ-द्वितीया-नीराजनम्—
तदनन्तरं ३-११-७२ तः १०-११-७२ पर्यन्तं श्रीगुरुजिःचेम्बूराख्ये मुम्बई-उपनगरे श्री. अनन्तराव-देशपाण्डे-महाशयस्य गृहे न्यवसत्। प्रत्यहं सायं भिन्न-भिन्न-शाखानां दैनंदिनं कार्यम् आलोकयितुं स गच्छति स्म। तदानीं दीपावल्युत्सवः प्राचलत्। यम-द्वितीया-दिनेमाहुल-खेटके, शाखाकार्योत्तरं गुरुजिः शाखा-कार्यवाहस्य श्रीरामचन्द्रमाहुलकरस्य गृहं गतवान्। पर्णकुटि-सदृशं तद् गृहं वीक्ष्य सः सुप्रीतः अभवत्। चहापानोत्तरं श्रीरामचन्द्रस्य सहधर्मिणी नीराजन-साहित्यम् आदाय तत्र आगत्य सविनयम् अब्रवीत्—‘अद्य नः सुदिनं यतः अस्त्यद्यभातृ-द्वितीया, नीराजयामि’ इति। श्रीगुरुजिरपि तेन नीराजन-मङ्गलेन प्रसन्नोऽभवत्। धन्या सा भगिनी यया संपादितस्य नीराजन-विधेः उल्लेखः श्रीगुरुजिना अन्यत्र भाषणावसरेऽपि कृतः आसीत्।
तदानीं चेम्बूर-वास-काले नैके महाजनाः श्रीगुरुजिं द्रष्टुमागताः। तेषु ‘इलस्ट्रेटेड वीकलि’-साप्ताहिकस्य संपादकःश्रीखुशवन्तसिंहमहाशयः, विश्व-हिन्दु-परिषद्’-अध्यक्षःमेवाडस्य भूतपूर्वो नरेशः श्रीमान् राणाजिः इत्येते प्रमुखाः आसन्।
नोव्हेम्बर ११ दिने, गुरुजिः नागपुरं गन्तुं प्रस्थितः। तद्-वियोगेन देशपाण्डे-कुटुम्बीयाःव्यथिताः अभवन्। सौभाग्यवती देशपाण्डे श्रीगुरुजि प्रणामपूर्वकं ‘गम्यतां पुनरागमनाय’ इत्युक्तवती। ‘पुनरा- गमनं तु अशक्यप्रायम्’ इति गुरुजिना उक्ते, सर्वेषां चेतांसि व्याकुलीभूतानि।
नोव्हेम्बर १२ तः डिसेम्बर २ पर्यन्तं श्रीगुरुजिःनागपुरे आसीत्। गभीर-क्ष-किरण-चिकित्सया तस्य गलः दग्धः आसीत्। शाल्योदनभक्षणं, चहापानं सर्वम् अपि असह्यम् आसीत्। सः न किमपि गिलितुम् अपि शक्तः। तथापि नित्यं संघकार्यम् सः अविरतं कुरुते स्म। द्रष्टुम् आगतैः सह वार्तालापोऽपि दुःखकरः इति दृष्ट्वा भिषग्वरैः ‘कृपया
मौनं पाल्यताम्’ इति प्रार्थितः सः **‘कथमेतत् शक्यम्?’**इति तान् प्रत्यपृच्छत्।
दिने दिने प्रकृतिः अधिकाधिकं क्षीणतरा भवति स्म। अतः पूर्वायोजितः महाकोसल-विदर्भ-महाराष्ट्रेति-प्रान्तत्रयस्य प्रवासः प्रान्त-संघ-चालकैः परस्परं संमन्त्र्य स्थगितः। अतः सप्ताह-त्रये कार्यान्तराभावात् गुरुजिः सार्ध-शतम् (१५०) पत्राणि लिखितवान्। तथैव आदरणीयस्यडॉ. मुञ्जे-महोदयस्य शताब्दी-निमित्तं सर्वेभ्यः प्रचारकेभ्यः संघचालकेभ्यश्च चक्र-मुद्रितानि (सायक्लोस्टाइल्ड) पत्राणि सः स्वहस्तेन स्वाक्षरीं कृत्वा प्रेषितवान्।
नोव्हेम्बरान्ते सुदैवेन गल-पीडा संशान्ता। अतः गुरुजिना२९-१२-७२ तः पुनरपि प्रवासः प्रारब्धः। १९७३ क्रिस्ताब्दे फेब्रुवारी २ तः ५ दिनाङ्कं यावत् कर्णाटक-प्रान्त संघ कार्यकर्तॄणाम् अविस्मरणीयं संमेलनम् अभवत्। तैः सह गुरुजिःअत्युत्साहेन संमिलितः। तदानीं तेन आत्मनः छाया-चित्रणमपि अनुज्ञातम्। ततः तमिलनाडू-प्रान्तं, ततश्च आन्ध्रप्रदेश, तदूर्ध्वम् उत्कलं च गत्वा सः २०-२-७३ दिने नागपुरं प्रत्यायातः।
रुद्रयागः—
कतिपये हितचिन्तकाः श्रीगुरुजेः जन्म-पत्रिकाम् आदाय एकं विख्यातं दैवज्ञम् उपेताः। ‘यस्यैषा जन्म पत्रिका तस्यायुषः ६८तमं वर्षम् अतीव दुःखकरम्’ इति स न्यवेदयेत्। अतः तैः हितेच्छुभिःमाघे वदि ११ दिने (२८-२-७३) तत्-स्वास्थ्य-लाभार्थं वाराणस्याम् एकः रुद्रयागःकारितः। अन्तिमे पूर्णाहुति दिने श्रीगुरुजिं तत्र आनाययितुं ते सर्वे पू. श्रीप्रभुदत्त-ब्रह्मचारिणं प्रार्थितवन्तः। तेषां प्रार्थनाम् आदृत्य पू. प्रभु-दत्त-महाराजः श्रीगुरुजये पत्रं लिखित्वा २८ दिनाङ्के काशीक्षेत्रम् आगन्तुं साग्रहं विज्ञापितवान्। पू. प्रभुदत्ताज्ञा अनुल्लङ्घनीया इति कृत्वा श्रीगुरुजिः वाराणसीं गतवान्। आसीत् तत् तस्य ६७ तमं जन्मदिनम्। रुद्रयागस्य पूर्णाहुति-दिने स्वयं श्रीप्रभुदत्त जिः, पं. रामनारायण-शास्त्री, पं. राजेश्वरशास्त्री द्रविडः, श्रीलाला-हंसराज-गुप्तः, बॅ. नरेन्द्रजितसिंहः, श्रीमाधवराव मुलये, तथा तदानींतनः सरकार्यवाहः श्रीबालाराव देवरस -
महाशयः इत्यादयः श्रीगुरुजि-महोदयस्य हितचिन्तकाः तत्र समुपस्थिताः आसन्। स्वयं श्रीगुरुजिः पूर्णाहुति-दिने दीर्घकालं यावत् यागे आहुतीः दत्तवान्। तदनन्तरं च सः तत्रस्थान् सर्वान् प्रणनाम \। श्री. माधवराव देशमुख-महाशयः तस्य यागस्य यजमानः आसीत्। गुरुजिना निबंध-पृष्टः सः कथमपि यागहेतुं निवेदितवान्। तदनन्तरम् एकमपि शब्दम् अनुक्त्वा गुरुजिःस्मितपूर्वं तम् आमन्त्रयत।
भारत-भ्रमणस्य अन्त्य-पर्व—
वाराणसीं विहाय मार्च १ दिने श्रीगुरुजिः कलकत्तां गतवान्। तस्मिन् एव दिने असम-प्रान्ते गोहाटी-नगरं ततः इम्फालम्, ततश्च सिल्चरम् एवम् असम-प्रान्त-प्रवासं समाप्य सः बिहार प्रान्ते दरभङ्गानगरं ततः पटना-पुरं ततश्च मार्च ९ दिने रांची-पुरीं समागतः। ततः कलकत्तां गत्वा व्योमयानेन सः १४ दिनाङ्के नागपुरं न्यवर्तत। एवं मार्च १ दिने प्रारब्धः प्रवासः सप्ताह-द्वयं प्राचलत्। यदा १० मार्च दिने सः रांचीनगर-स्थानके अग्निशकटे स्थितः आसीत् तदा कथा प्रसङ्गेन तत्रोपस्थितान् सज्जनान् सः अकथयत्-अधुना शरीरमिदं सहकार्यं न कुरुते। श्रीशः तद् यथेच्छम् अपनयतु। सिद्धोऽस्म्यहं सर्वथा’ इति।
श्रीगुरुजि-महाशये नागपुरं प्रत्यागते सति तस्य अखण्ड-सहचरः सचिवःडॉ. आबाजिःअचिरात् तस्य नवीनं क्ष-किरण-चित्रमादाय मुम्बई प्रयातः। चित्रं निरीक्ष्य डॉ. देसाई-महाशयः’कर्कः पार्श्वास्थिगतः दृश्यते’ इत्युक्वा कर्क-वृद्धि निवारयितुं ‘Indoxom’ नामकं सूची-भरणं दशवारं दातुं सूचितवान्। तथा कृतेऽपि श्रीगुरुजेः स्वास्थ्यम् अतीव क्षीणं संवृत्तम्। कास-श्वासौ तं वारं वारं भृशं पीडयामासतुः। स्वशरीर-भारम् अपि सः कथं कथम् अपि बिभर्ति स्म। एवं गतेऽपि संघकार्यव्रतानुष्ठानम् अखण्डतया प्राचलत्।
२२ मार्च।**अ. भा. प्रतिनिधि सभायाः वार्षिकम् अधिवेशनम्।**श्रीगुरुजिरपि उपस्थितः। २५ दिनाङ्के समारोपात्मकं भाषणं केवलं १० मिनिटावधि कर्तुं विज्ञापितोऽपि सः ४० मिनिटानि यावत् भाषणं कृतवान्। संघस्य स्वयंसेवकान् उद्दिश्य तदेव श्रीगुरुजि महाशयस्य अन्तिमं भाषणम्। प्रायः अचिरात् भविष्यद् आत्मनः देहावसानं सूचयितु-
कामः स तदानीं जगाद—“मुम्बापुर्याः’ठाणे’ नाम उपनगरे मया कथितपूर्वं यत् इतःपरं संघकार्येण सह मे सहयोगः अशक्यप्रायः। कार्यम् एतद् अतःपरं सर्वैरपि यथापूर्वं करणीयम्। इयं मे स्पष्टोक्तिः तेषां रुचये नासीत्। मया तु यत् सत्यं तदेव कथितमासीत्। अधुना सर्वेषु संघ-शिक्षण-वर्गेषु एकवारम् उपस्थातुकामोऽस्मि। अत ऊर्ध्वम् ईश्वरेच्छा बलीयसी !
“अस्माभिः सर्वैः एतद् विचारणीयम्। अयं जनः अस्तु मा वा अस्तु। तेन संघटन-कार्य-हानिः न भवेत्। अस्मद्देशस्य प्राचीनः अर्वाचीनश्च इतिहासः निर्दिशति यत् संस्थाः कंचित् कालं सुष्ठु प्रचलन्ति, तदूर्ध्वंमतभेदाः व्यक्तिभेदाश्च समुद्भवन्ति। एका किंवदन्ती कर्णपथम् आगता यत् जनसंघे उद्भूतं विघटनं संघेऽपि संभवेत्। परिणामतः एवमपि वृत्तं प्रकाशितमस्ति यत् सर-संघचालक-पदम् अधिकृत्य संघेऽपि विवादः प्रचलति। ब्रुवन्तु ते यथेच्छम्। वयं तु संघटनार्थं प्रवृत्ताः, न विघटनार्थम्। अतः संघे विघटनं नैव भविष्यति। एतदपि दृढं जानीत यत् संघस्य ‘दैनंदिन-शाखां’विना कार्यान्तराणि सफलतां न गच्छेयुः। यत्र ‘शाखा’ सुष्ठु प्रचलति तत्रैव अन्यत् सर्वमपि सुकरम्।”
तस्मिन् दिने श्रीगुरुजिना बॅ. नरेन्द्रजितसिंह, लाला हंसराज गुप्त, पं. रामनारायण-शास्त्री, श्रीअप्पाजि-जोशी, श्रीबाबा-भिडे इत्यादिभिः प्रमुखैः कार्यकर्तृभिः सह भावि-व्यवस्थाम् अधिकृत्य, आदौ एकैकशः, तदनन्तरं सर्वैः सह मिलित्वा विमर्शः कृतः।
मार्च २४ दिने, डॉ. हेडगेवार-स्मारक-समित्याःउपवेशनेऽपिश्रीगुरुजिः उपस्थितः आसीत्।
कर्करोगःदेहे अन्यत्र मा प्रसरतु इति हेतुना ३० सूचिका-भरणानि प्रयुज्यापि श्रीगुरुजिःप्रतिदिनं क्षीणतरः भवति स्म।
एप्रिल २ दिने कामकोटि-पीठस्थाः पूज्यपादाः श्रीजयेन्द्रस्वामिशङ्कराचार्याः श्रीगुरुजि द्रष्टुं संघकार्यालयं स्वयम् आगताः। होरामात्रं तत्र ते अवस्थिताः। तैः गुरुजये प्रसाद-गन्धमाला साशीर्वादं प्रदत्ता।
————————————————————————————————————
२) ‘विजयही विजय है’
ऐहिक-सर्व-पाश-मुक्तिः—
तस्मिन् एव दिने, श्रीगुरुजिः रामटेके विद्यमानं स्वगृहं ‘भारतीयउत्कर्ष-मण्डलाय’ पारितोषिकत्वेन समर्पितवान्‚ विधिपूर्वकं च गृहदानस्य ‘पञ्जीयनम्’ (Registration) अपि कारितवान्।
तथा च पुण्यपत्तन-वासिनः पितृव्य-पुत्रस्य श्री. वासुदेवरावगोलवलकरस्य संमतिम् आसाद्य स्वसकाशे विद्यमानां नित्योपासनायाः उपकरण-मञ्जूषां श्रीगुरुजिः तस्मै ससूचनं प्रेषितवान्।
पू. श्री. प्रभुदत्त-ब्रह्मचारिणा पत्रद्वारा श्रीगुरुजिः स्वगृहं विश्रान्त्यर्थं निमन्त्रितः। तेन लिखितम्—‘झुंशीम् आगत्य भवान् श्रीगङ्गातटे निवसतु। प्रत्यहम् अहं भवन्तं श्रीभागवतं श्रावयिष्यामि इति। पत्रोत्तरे गुरुजिः लिखितवान्—‘कुशलोऽस्मि। किन्तु तत्रागन्तुं शरीर-बलं न पर्याप्तम्। ईशस्मरणं तु सन्ततं प्रचलत्येव’ इति।
नागपुरे संघ-शिक्षण वर्गः—
मे १९ दिनाङ्के संघ-प्रशिक्षण-वर्गःनागपुरे प्रारब्धः। दि. १९ तः दि. २५ पर्यन्तं प्रत्यहं प्रातः शिक्षणार्थिनां स्वयंसेवकानां प्रान्तशः परिचयार्थसर्वे कार्यालये संमिलन्ति स्म। परिचयान्ते केवलं मिनिट-पञ्चकं श्रीगुरुजिः भाषणं कुरुते स्म। प. पू. सरसंघचालकस्य अल्पेनापि भाषणामृतेन सर्वे उपस्थिताः स्वयंसेवकाः आत्मानं कृतार्थं मन्वते स्म। अनया रीत्या वर्ग-कार्यक्रमः दि. २५ पर्यन्तं यथावत् प्राचलत्।
‘गीत-रामायण’-श्रवणेन परमानन्दः—
तत्पूर्वं, ख्यातनामा गायकःश्री. सुधीर-फडके-महाशयः ‘गीत**रामायण’-कार्यक्रम-**निमित्तं मे ३ दिने नागपुरम् आगतः आसीत्। तदानीं ‘गीतरामायण-’नामकात् मराठी-महाकाव्यात् कतिपयानि गीतानि सः श्रीगुरुजि श्रावयामास।—
[‘तात गेले, माय गेली, भरत आतां पोरका।
मागणें हें एक रामा, आपुल्या द्या पादुका”]
“गतस्तातो गता माता, भरतोऽनाथतां गतः।
श्रूयतां राम मे याच्या कृपया देहि पादुके॥”
एतद् गीतम् सुधीर-महाभागः अतीव तन्मयतया गीतवान्। तस्मिन् दिने
सुधीरस्य गायनी कला धन्या अभवत् ! गायकस्य तन्मयतया गानमाधुर्येण च श्रीगुरुजिरवि अश्रुपूर्ण-लोचनः संजातः। गायनान्ते च सः सुधीर महाशयं सुप्रसन्नेन चेतसा प्रशंसितवान्।
‘श्रीगुरुजिः प्रतिवर्षानुसारं सं. शि.-वर्ग-निमित्तं नागपुरात् बहिर् गन्तुं नाशक्नोत्। सः अस्वस्थ-प्रकृतिकोऽस्ति’ इति वृत्तेन भारते सर्वत्र सर्वेऽपि स्वयंसेवकाः संघहितेच्छवश्च चिन्ताक्रान्ताः संजाताः। तस्य दर्शनेच्छया शतशोऽथ सहस्रशः आ-बाल-वृद्धाः जनाः नागपुरम् आगताः।
२६ मे दिनाङ्के श्रीगुरुजेः श्वासः अतीव प्रवृद्धः। तथा च ‘एकं वस्तु वस्तुद्वयमिव प्रतिभाति’ इति सः अकथयत्। कलकत्तातः वक्षःस्थल-तज्ज्ञः डॉ. श्री.कराई-महाशयः समागतः। दुर्दैवेन तस्य उत्कृष्टतमा चिकित्साऽपि निष्फला संवृत्ता। मे ३० दिनाङ्के मुम्बईतः दैवज्ञः श्रीजयन्त-सालगांवकर-महाशयः श्रीगुरुजेः दर्शनार्थं समागतः। गुरुजिःविहस्य तम् अपृच्छत्—“किं कथयति भवतः ज्योतिषम्? परं पारं कदा गमिष्यामि?”
३-६-१९७३ दिनाङ्के नाडी-गतिः१२० आसीत्। श्वासः भृशं कष्टप्रदः। सायंकाले राष्ट्रसेविका-समित्याः संचालिका वन्दनीया मावशी-केलकर प. पू. श्रीगुरुजिं द्रष्टुम् आयाता। परस्परं कुशल-प्रश्नानन्तरं यदा सा गन्तुं प्रस्थिता तदा ‘सर्वथा सिद्धोऽस्मि’ इति तेन उक्तमात्रे धीराऽपि सा ‘मावशी’ बाष्प-गद्गदा संवृत्ता।’ साम्प्रतं देहोऽयं बन्दि-गृहायते’ इति सः तस्मिन्नेव दिने पं. रामनारायण शास्त्रिणमपि कथितवान्।
दिनाङ्कः ४ जून।श्रीगुरुजिः शब्दोच्चारणं कर्तुमपि अशक्तकल्पः। श्वासः परम-पीडाकरः। डॉ. आबाजिःतस्मै वारं वारं ‘प्राणवायुं’ दत्तवान्। परं सर्वमपि व्यर्थम्। सायं संघ-प्रार्थना समाप्ता। तदूर्ध्वं श्रीगुरुजिःकथं कथमपि नित्यां सन्ध्योपासनां कृतवान्। स्वहस्तेन दीपं प्रज्वालयितुमपि सः असमर्थः। अतस्तस्य सचिवः धूप-यष्टिं समिद्धवान्। श्रीगुरुजिना रात्रौ निद्राऽपि न लब्धा। बृसी (Chair)-मध्ये उत्तराभि-मुखीभूय, संप्रेक्ष्य नासिकाग्रं स्वं दिशश्च अनवलोकयन् सः शान्तचित्तेन स्थितः आसीत्।
हा हन्त ! दुर्दिनम् उदितम्—
** जून दिनाङ्कः ५**, ज्येष्ठ-शुक्ल-पञ्चमी। सूर्यः उदितः। नहि नहिः,दुर्दिनम् उदितम्। वारं वारं प्राणवायुः दीयते स्म। तदा श्रीगुरुजिः डॉ. आबाजिम् अवदत्—“अयि आबा, अद्य ‘तस्य’ आवाहन-घण्टा अनदीत्। तच्चिन्ता नास्ति। परन्तु संघ-शिक्षण-वर्गाः प्रचलन्ति। तन्निमित्तं स्थाने स्थाने सर्वे अधिकारिणः कार्यमग्नाः सन्ति। तेषां कार्ये व्यत्ययो माऽस्तु इत्येव इच्छामि।”
प्रातः ८ वादने श्री. अटलबिहारी वाजपेयी-महोदयः तथा केचिद् अन्ये सज्जनाः श्रीगुरुजिं द्रष्टुं समागताः। श्रीअटलजिना सह किंचिद् वक्तुं स प्रयतितवान्। परम् अस्वस्थता वर्धमाना आसीत्।
मध्याह्ने भिषग्वरैः परीक्षिते सति, “स्वास्थ्यं रभसा क्षीयते, श्री. बालासाहेब देवरसः सत्वरम् आहूयताम्।”—इति श्रीगुरुजिः सूचित-वान्।
सरकार्यवाह श्रीदेवरस-महाशयः तदानीं शिक्षण-वर्गार्थं (हैदराबादं) भाग्यनगरं गतः आसीत्। किन्तु दौर्भाग्यात्, शीघ्रातिशीघ्रं नागपुरं प्रत्यागन्तुं डॉ. आबाजिना दूरध्वनिना आहूतोऽपि सः वाहनाभावे तथा कर्तुम् नाशक्नोत्।
सायं ६ वादने किञ्चिद् दुग्धं पातुं प्रार्थितः श्रीगुरुजिः स्वयंसेवकम् अवदत्—‘वस्तुतः नेच्छामि तत्। परं मा ते विरसः स्यात् इति पिबामि। दुग्धे पीतमात्रे श्वासः प्रवृद्धः। भिषग्वरैः सूचिकाभरणाय अनुमतिः प्रार्थिता। परं ‘दुरुपयोगोऽयम् औषधानाम्’ इति सः विहस्य जगाद। तथापि, तुष्यन्तु भिषजः इति धिया तेन अनुमतिर् दत्ता। तैस्तथा कृते, श्वासः तीव्रतरः अभवत्।
७ वादने संघ-प्रार्थनावसरः संजातः। प्रार्थना-स्थलं गन्तुकामोऽपि शक्तिहीनः सः धोतीं सकच्छां कर्तुमपि नाशक्नोत्। ‘अद्य अत्रैव स्थित्वा प्रार्थनां कुर्मः।’—इति डॉ. आबाजिना सूचितम्। प्रार्थना प्रारब्धा। श्रीगुरुजिना स्पष्टोच्चारेण प्रार्थना कृता। ‘भारत-मातुः विजयोऽस्तु’ इति शब्दैःमातृभुवं प्रणम्य ध्वज-प्रणामोऽपि कृतः।
नेत्रे मीलिते !
प्रार्थना पूर्णतां गता। रात्रौ ८ वादने श्वासः तीव्रतमः संजातः। नेत्रे मीलिते, देहः निश्चलः, केवलं प्रदीघैःश्वासः प्रचलति इत्यालोक्य डॉ. आबाजिना भिषग्वराः समाहूताः। शीघ्रातिशीघ्रम् आगत्या डॉ. पराञ्जपे-महाशयेन नाडीं हृदयं च परीक्ष्य ‘समाप्त-प्रायं सर्वम्। अनायासेन मरणं भवतु’ इति सूचितम्।
श्वासः शनैः शनैः संशान्तः। ९-५ वादने, अन्तकाले परमेशं स्मरन्, कलेवरं मुक्त्वा श्रीगुरुजिः परलोकं प्रयातः।
अपरेद्युः श्रीबालासाहेब-देवरस-महाशयः मध्याह्ने समायातः। असंख्याः दर्शनेच्छवः अपि उपस्थिताः आसन्।
आत्मनः देहावसानानन्तरं संघ-कार्यस्य व्यवस्था-निदर्शकं पत्रत्रयं श्रीगुरुजिना मृत्योः मास-द्वय-पूर्वमेव २-४-७३ दिनाङ्के लिखित्वा केन्द्र-कार्यालय-प्रमुखाय, श्रीपाण्डुरङ्ग-क्षीरसागर-महाशयाय ससूचनं दत्तमासीत्।
जून ६ दिनाङ्के, महाराष्ट्र-प्रान्त-संघचालकः श्रीबाबाराव-भिडेमहाशयः सर्वेषां समक्षं प्रथमं पत्रं पठितवान्।
प्रथमं पत्रम्11 30 11 ** ॥ॐ॥ **
२-४-७३
सर्वेभ्यः स्वयंसेवक-बन्धुभ्यः—
विगतैक-मासात् मम शरीर-शक्तिः द्रुतगत्या क्षीयते। चिकित्सकबन्धवः नैराश्यं गताः। एतत् शरीरम् अत ऊर्ध्वम् अत्यल्पकाल संतिष्ठेत इति सर्वेषां मतं दृश्यते।
अतः संघकार्यस्य एकः महत्त्वपूर्णः प्रश्नः उपतिष्ठते। संघकार्यं संविधानमनु सुव्यवस्थितं प्रचलेत् एव। अधुना तत् संविधानम् अनुसृत्य नूतनः सरसंघचालकःनियोक्तव्योऽस्ति। अखिल-भारतीय-कार्यकारिमण्डलस्य यैः सदस्यैः सह मया विमर्शः कृतः ते सर्वे परिपक्व-बुद्धयः, दीर्घानुभववन्तः, निपुणाः कार्यकर्तारः सन्ति। तैः सर्वैः सह कृतायाः
मन्त्रणायाः सारभूतः निर्णयःअद्यतन सरसंचालकेन मया स्वदायित्वमनु प्रकटीकर्तव्यः।
अतः स्वकार्यभार-दृष्ट्या प्रकटयामि यत् मम देहपातानन्तरं सर्वेषां परिचितः श्रीबालासाहेब इत्युपाख्यः मधुकर-दत्तात्रेय देवरस महाशयः सरसंघचालक-पद-भारम् उद्वहेत्।
स्नेहपूर्णा एकात्मता-युता च अस्मत्-कार्य-पद्धतिः, व्यक्ति-निरपेक्षता, ध्येयनिष्ठा इत्यादीन् विशेषान् संस्मृत्य सर्वे आबालवृद्धाः स्वयंसेवकबन्धवःआत्मनःप. पू. सरसंघचालकस्य मार्ग-दर्शनम् अनुसृत्य संघकार्यं-पूर्त्यर्थं शरीर-वाङ-मनोभिः कार्य-प्रवणाः स्युः, तथा च शीघ्रमेव लक्ष्यपूर्ति कुर्युः इति विश्वसिमि। सर्वेभ्यः बन्धुभ्यः सादरं नमो नमः। इति शम्।
मा. स. गोलवलकर
तत्पश्चात् सरकार्यवाहेण श्रीबालासाहेब देवरस-महाशयेन अन्ये द्वे पत्रे साश्रु-कण्ठं पठिते।
द्वितीयं पत्रम्
२-४-७३
अस्माकं कार्यं राष्ट्र-पूजकं ध्येय-पूजकं च अस्ति। तत्र व्यक्तिपूजायाः अवकाशः नास्ति। भिषग्-बन्धवः मत्-शरीरम् अल्पकालावशेषं मन्यन्ते इति ज्ञायते। शरीरं तु नश्वरमेव। अद्य श्वो वा तत् पतेत्। तस्य अवसाने शवस्य अलंकरणादयः क्रियाः विचित्राः प्रतिभान्ति। तथा च येन संघस्य ध्येयं सुनिश्चितं, तस्य ध्येयस्य दर्शनं च कारितं तस्मात् संघ-संस्थापकात् ऋते अन्यस्य कस्यापि माहात्म्य-वर्धनं तत्-स्मारकनिर्माणं च अनावश्यकम्।
मया तु ब्रह्म-कपाले आत्मनोऽपि श्राद्धं विहितपूर्वं यथा पश्चाद् न कस्मिन् अपि श्राद्धादि-भारः निपतेत्।
एतद् अतीव संक्षेपेण कथितम्। अस्य विस्तृताशयं सर्वे ज्ञातुं समर्थाः इति दृढं विश्वसिमि। इति—
मा. स. गोलवलकर
तृतीयं पत्रम्
२-४-७३
परमप्रियाः आदरणीयाः स्वयंसेवक-बन्धवः—
२१ जून १९४० दिने परमपूजनीयस्य डॉ. हेडगेवार-महाशयस्य शरीरं संशान्तं तथा तस्य इच्छानुसारं सरसंघचालक-पदस्य गुरुभारः मयि न्यपतत्। नाहं किमपि अजानाम्। तथापि मत्तः ज्येष्ठैः सर्वैः कार्यकर्तृभिः प्रेमातिशयेन सहकार्यं कृतं, मार्गदर्शनं च विहितं येन दीर्घकालं यावत्— आसन्न ३३ वर्षावधि—असौ कार्यभारः मया ऊढः। अधुना योग्ये पुरुषान्तरे अमुं कार्यभारं निधाय संघकार्यं सुयोग्यरीत्या द्रुततरं च पूर्णतां नेयम् इति भगवदिच्छा दश्यते।
दीर्घकालेऽस्मिन् मम स्वभाव-वैचित्र्यात् अथवा विविध-न्यूनतादोष-वशात् अस्माकं कतिपये कार्यकर्तारः मानसिक दुःखेन उपहताः स्युः तान् सर्वान् साञ्जलिबन्धं क्षमां याचे। अन्ते च सर्वमपि मन्मनोगतं व्यक्तीकुर्वन् श्रीतुकाराम महाराजस्य अभङ्गःअत्र उदाह्रियते—
“शेवटची विनवणी। संतजनीं परिसावी॥
विसर तो न पडावा। माझा देवा तुम्हांसी॥
आतां फार बोलों कायी। अवघें पायीं विदित॥
तुका म्हणे पडतों पायां। करा छाया कृपेची॥
मा. स. गोलवलकर
तदूर्ध्वं यः आत्मानं ‘यात्रिक’-पदेन सर्वदा परिचाययति स्म तस्य ‘महायात्रा’ प्रारब्धा।
सायंकाले ७-४५ वादने ‘रेशिमबाग’-प्राङ्गणे चन्दन-चितायां श्रीगुरुजेः पार्थिवं देहं संस्थाप्य अग्नि-संस्कारः संपन्नः। अचिरात् चिताग्निः प्रज्वलितः।
ध्वजारोहणानन्तरं परम-पूजनीयाय सर-संघ-चालकाय उपस्थितैः सर्वैःअन्तिमः प्रमाणाञ्जलिः समर्पितः। तदूर्ध्वं प्रार्थनां कृत्वा—
‘त्वदीयाय कार्याय बद्धा कटीयं शुभाम् आशिषं देहि तत्पूर्तये। —इति च प्रतिज्ञाय, ध्वजावतरणं विधाय सर्वे शोकमग्नाः जनाः निःशब्दं मन्दं मन्दं गृहं जग्मुः।
अहो आश्चर्यम् !
अयि वाचकाः! अस्ति एकः कथनार्हो विशेषः। यथा यथा श्रीगुरुजेः स्वास्थ्यं दिनानुदिनं क्षीणतरं संजातम् तथा तथा चिन्ताक्रान्तैः तत्-शिव-चिन्तकैः जनैः नागपुर-संघ-कार्यालयेन सह दूरध्वनिना अधिकाधिकः संपर्कः साधितः। जूनमासस्य प्रथमे सप्ताहे प्रायः समस्तं भारतं नागपुर-संघ-कार्यालयेन सह दूरध्वनि-मुखेन संवदति स्म।
कार्यालय-सचिवः श्रीकृष्णराव-मोहरीर महाशयः सर्वान् पृच्छकान् प्रत्युत्तराणि ददाति स्म। जून ५ दिने प्रातः ५ वादनात् ७ दिनाङ्के रात्रौ १ वादन-पर्यन्तं सः सन्ततम् अविरतं च दूरध्वनि-संपर्क-व्यापृतः आसीत्।—“अहं कृष्णरावः। नहि नहि, अद्यैव प्रतिष्ठत।…… हं; डॉ. आबाजिः अस्ति। दीयते प्राणवायुः।… अं हं, बालासाहेब अद्यापि नागतः, श्वः आयाति।…नहि नहि, अद्य वक्तुमपि न समर्थः…।को भवान्? ….एवमेवम्।प्रार्थना कक्षे एव कृता। ….अहो, डॉक्टर ! प्राणवायुः दीयते, परं….। व्यर्थं तत्….। डॉक्टर, ९-५ वादने…अं हं, समाप्तं सर्वम्। ….रेशिमोद्याने भवति….. सायं ७ वादने। ……अद्यैव …आगताः। नहिः, अद्यैव।…श्वः प्रातः प्रतिगच्छति।”
End Of Book
]