[[हर्षचरितम् Source: EB]]
[
[TABLE]
[TABLE]
[All rights reserved by the publisher.]
**Publisher:-Pandurang Jawaji,
Printer:-Ramchandra Yesu Shedge, **
Nirnaya Sagar Press,
26-28, Kolbhat Street, Bombay.
॥ श्रीः ॥
महाकविश्रीबाणभट्टकृतं
हर्षचरितम् ।
महाकविचूडामणिशंकरकविरचितया संकेताख्यया
व्याख्यया समेतम् ।
**<MISSING_FIG href="../books_images/U-IMG-1721981982Screenshot2024-07-26134918.png"/>
काशीनाथ पाण्डुरङ्ग परब
इत्यनेन संशोधितम् ।
पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा
वासुदेवशर्मणा संस्कृतम् ।
____________
( षष्ठं संस्करणम् । )
__________
तच्च
मुम्बय्यां
पाण्डुरङ्ग जावजी इत्येतैः
स्त्रीये निर्णयसागराख्ययन्त्रालयेऽङ्कयित्वा
प्रकाशितम् ।
__________
शके १८५८, सन १९३७.**
__________
मूल्यं २ रूप्यकद्वयम् ।
॥ श्रीः ॥
हर्षचरितम् ।
शंकरकृतया संकेताख्यया व्याख्यया समेतम् ।
<MISSING_FIG href="../books_images/U-IMG-1721982353Screenshot2024-07-26135530.png"/>
प्रथम उच्छ्वासः ।
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥ १ ॥
हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम् ।
कालकूटविषस्पर्शजातमूर्च्छागमामिव ॥२॥
_________________________________________
संकेतः ।
श्चयोतन्मदाम्बुभरनिर्भरचण्डगण्डशुण्डाग्रशौण्डपरिमण्डितभूरिभृङ्गान् ।
विघ्नानिवानवरतं चलगण्डतालैरुत्सारयज्जयति जातघृणो गणेशः ॥
शंकरनामा कश्चिच्छ्रीमत्पुण्याकरात्मजो व्यलिखत् ।
शिष्टोपरोधवशतः संकेतं हर्षचरितस्य ॥
* 'सर्वकर्माणि कुर्वीत प्रणिपत्येष्टदेवताम्' इति शिष्टाचारमनुपालयन् 'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥' इति काव्यलक्षणामपूर्वांर्वी सृष्टिं स्थिरां प्रवर्तयन्नेष कविः शिवं बहुशक्तियुतमपि नियतशक्त्यात्मकमेव स्तौति—नमस्तुङ्गेत्यादिना*** *। न क्वचित्प्रणतो यो मूर्धा तत्स्पर्शी चन्द्र एव सितवालतुल्यप्रभाप्रसरतया स्वेदादिविनाशाद्विशिष्टस्थानस्थितश्च चामरम् । त्रैलोक्यमेव नानाभङ्गिशोभित्वान्नगरं तदारम्भे मूलस्तम्भः । नगरारम्भे हि मूलस्तम्भो भवति । तत्र च पट्टबन्धादिवदुत्प्रेक्षणानन्तरमुन्नते पृष्ठदेशे चन्द्रतुल्यं श्वेतं चामरं क्रियत इति स्थितिः । केचित्पुनः—त्रैलोक्यनगरस्यारम्भे मूलं मूलकारणं परमाणवस्तेषामुपाश्रयेण मूलकारणत्वात्स्तम्भ इव । ते हि तद्वशात्कार्यमारभन्ते । तस्य निमित्तकारणत्वादित्याहुः। 'स्वयंभूः शंभुरादित्यः' इति नामसहस्रे दृष्टत्वाद्धरेः, 'शंभू ब्रह्मत्रिलोचनौ' इत्यभिधानकोशदर्शनाच्च ब्रह्मणोऽपि नमस्कारोऽयमित्यन्ये वदन्ति । व्याकुर्वते च हरिपक्षे— त्रैलोक्याक्रमणकाले । यद्वा ‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ मही' इत्यभिप्रायेण तुङ्गमुच्छ्रितं द्युलक्षणं यच्छिरस्तच्चुम्बि चन्द्र एव चामरं तेन चारवे । ब्रह्मपक्षे—चन्द्रः खर्णं तन्मयं चामरमिव चामरं केशकलापः । हिरण्यकेशो हि ब्रह्मा त्रैलोक्यादीनि सर्वत्र तुल्यमिति ॥ १ ॥*
-
हरेत्यादिना** **। प्रियं प्रति गाढस्नेहादि सौकुमार्यं चोमयोच्यते । कालकूटविषेति प्रशंसार्थः सामान्यपदप्रयोगो मेरुमहीधरचूतवृक्षादिवत् । आगमः प्रारम्भः ॥ २ ॥*
नमः सर्वविदे तस्मै व्यासाय कविवेधसे।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ३॥
प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः।
कोकिला इव जायन्ते वाचालाः कामकारिणः ॥ ४ ॥
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे।
__________________________________________
*संप्रत्युत्कृष्टकवित्वाभिमानेन तादृशमेव कविवरं स्तौति—नमः सर्वेत्यादिना**।** सर्वा वेदादिका विद्या गीतादिकलाश्च वेत्ति यस्तस्मै। तदुक्तम्—'नासौ शब्दो न तद्वाच्यं न सा विद्या न सा कला। जायते यत्र काव्याङ्गमहो भारो महाकवेः ॥' इति कविरेव वेधाः। उक्तं च—'अपारे काव्यसंसारे कविरेव प्रजापतिः'। कवीनां वेधाः। कविशब्दोऽत्रोपचारात्कविबुद्धिषु वर्तते। तेन कविबुद्धीनां श्रेष्ठ इत्यर्थः। तथा चाह मुनिः—'इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः' इति। यद्वा व्युत्पत्त्युत्पादनद्वारेण कवय एवंभूताः सन्तः क्रियन्ते। मुख्य एव कविशब्दस्यार्थः। यदुक्तम्—'इदं कविवरैः सर्वैराख्यानमुपजीव्यते' इति। पुण्यं पावनम्। यदुक्तम्—'भारताध्ययनात्पुण्यादपि पादमधीयतः। श्रद्दधानस्य पूयन्ते सर्वपापानि देहिनः॥' इति। सरस्वती वाणी तस्या लताया इव पुष्पादिहेतुत्वाद्वर्षं वृष्टिमिव। वर्षं वा स्थानविशेषः। यतोऽसौ तत्रास्ते। यदुक्तम् —'यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्'। भरतावधिकृत्य कृतो ग्रन्थो भारतस्तम्। यद्वा भारतं वर्षमिव। भरतः कश्चिद्राजा तस्य निवासं भारतं वर्ष भूभागैकदेशस्तदिव। उक्तं च—' स्याद्दृष्ट्यां लोकधात्र्यंशे वत्सरे वर्षमस्त्रियाम्' इति। यद्वा भारतवर्षान्तरस्था भावा मनुष्येषु सुलभास्तद्वन्महाभारतस्था सरस्वती। एतदपि सरस्वत्याख्यया नद्या पुण्यम् ॥ ३ ॥*
-
एवं सर्वज्ञतागुणकथनेन कविप्रशंसां कृत्वा काव्यप्रशंसामाह—प्राय इत्यादिना**।** काव्यमेवं नाम स्वभावसुभगम्। येनेदृशा अपि कवयः प्रायः प्राचुर्येण कोकिला इव जायन्ते वल्गुवाचः संपद्यन्ते। किं पुनः संविशिष्टा न जायेरन्। केचित्पुनर्भूयसा कुत्सिताः कवयो जायन्त इति कुकविनिन्दैवेयमिति व्याख्यातवन्तः। रागो द्वेषपूर्वकोऽनर्थाभिनिवेशस्तेनाधिष्ठिता दृष्टिर्बुद्धिर्येषाम्। वाचाला असंबद्धप्रलापिनः। कामेन स्वेच्छया, न त्वलंकारकृद्दर्शितनीत्या, कुर्वन्ति ये ते। कोकिलपक्षे—कुकन्ति गृह्णन्ति चेतांसीति कुकाः। ते च ते वयो मयूरप्रवराः पक्षिणः। रागो लौहित्यम्। दृष्टिश्चक्षुः। वाचा भारत्या आला आ समन्ताल्लान्त्यावर्जयन्ति यतस्तादृशाः सन्तः। कामं व्यसनं कुर्वन्ति तच्छीलाः। कामोद्दीपनविभावतां यान्तीत्यर्थः। यद्वा अवाचालाः। अकारप्रश्लेषोऽत्र ॥ ४ ॥* -
- **सन्तीत्यादि। असंख्या अगणनार्हाः। जातिं स्वरूपवर्णनमात्ररूपां वक्रोक्तिशून्यां भजन्ते। ‘गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः’ इत्यादिवत्।
उत्पादका न बहवः कवयः शरभा इव॥५॥
अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः।
अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यते॥६॥
श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम्।
उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडम्बरः॥७॥
नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः।
विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम्॥८॥
किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी।
____________________________________________________________
श्वानोऽप्यसंख्याः नास्ति संख्यं सङ्ग्रामो येषां ते। जातिशब्देनात्र श्वजातिसमवेता अमेध्यभक्षणादयो गृहीताः। यद्वा श्वत्वं नाम जातिस्तत्प्रतिपादनं प्रयोजनान्तरशून्यतामावेदयति। उत्पादका नवनिर्माणकारिणः, ऊर्ध्वपादाश्च। शरभा हि प्राणिभेदाः। अष्टपादा एते। श्वजातीया इति केचित्॥५॥
** अन्येति। कविश्चौरः सहृदयानां मध्येऽनाख्यातः कथितोऽपि न ज्ञायते। न आ समन्तात्ख्यातः, अपि तु किंचित्प्रथितो वा। अन्ये पूर्वकविनिबद्धविलक्षणा येवर्णा अक्षराणि तेषां रचनेन बन्धचिह्नं श्रीलक्ष्मीप्रभृतिरचनालिङ्गम्। अन्ये तु भाषालंकारप्रभृतिबन्धचिह्नमाहुः। अथ च सतां साधूनां मध्ये चौरो लक्ष्यते। कीदृक्। न ना अना कापुरुषः, अख्यातोऽप्रसिद्धः। केन। अन्यः प्राक्तनच्छायाव्यतिरिक्तस्त्रासकृतः पाण्डिमादिर्वर्णो मुखरागविशेषस्तत्परिवर्तनेन। यद्वा शूद्रत्वे सति द्विजादिवर्णाश्रयेण। स्वजात्युचितस्य स्वभावस्य त्यक्तुमशक्यत्वाद्भावप्रकटनमवश्यमेव भवति। यतो बन्धः शृङ्खलादिकृतो ग्रन्थिस्तच्चिह्नंत्वग्दूषणादि॥६॥
- श्लेषेत्यादि। मात्रकपदेन श्लेषयमकाद्यलंकारशून्यत्वं दर्शयति। अक्षरेत्यादिनार्थविशेषाभावं प्रसादादिगुणगुम्फनाभावं चाख्याति। एतदुक्तं भवति—क्वचित्कश्चिद्गुणोऽपि भवति। स च भवन्नपि न सहृदयजनावर्जक इति। अमुनैवाभिप्रायेण नव इत्यादीनि प्रत्येकं विशेषणपदानि वक्ष्यति॥७॥*
** नव इत्यादि। नव आद्यैः कविभिरनिबद्धः, चमत्कारी च। जातिः स्वभावोक्तिः। अग्राम्येति, न तु ‘गतोऽस्तमर्कः’ इत्यादीरूपा। सधर्मेषु तन्त्रप्रयोगः श्लेषः। अक्लिष्टः सम्यगनेकार्थप्रतिपादनक्षमः। स्फुटो दुर्बोधभङ्गयादिभिरदूषितो रसः शृङ्गारादिः। ‘विकट उदारतालक्षणबन्धयुक्तः। यत्र सति नृत्यन्तीव पदानि प्रतिभासन्ते॥८॥
- किमित्यादि। वृत्तानि वर्णमात्रागणसमार्धसमविषमरूपाणि तदन्तगमनं तद्विरचनक्षमत्वम्। भारती वाणी। न व्याप्नोति। अदृष्टमपि दृष्टमिव जगत्त्रयं प्रतिभानवशाद्वयुत्पत्तेश्च तथात्वेनप्रकाशयति। यद्वा जगत्त्रयप्रथिता भवतीति स्फुट एवार्थः। भरतानधिकृत्य ग्रथिता भारती कथेव। सापि सर्वे ये वृत्तान्ताः सत्पुरुषचरितान्यु-*
कथेव भारती यस्य न व्याप्नोति जगत्त्रयम्॥९॥
उच्छ्वासान्तेऽप्यखिन्नास्ते येषां वक्त्रे सरस्वती।
कथमाख्यायिकाकारा न ते वन्द्याः कवीश्वराः॥१०॥
कवीनामगलद्दर्पो नूनं वासवदत्तया।
शत्तयेव पाण्डुपुत्राणां गतया कर्णगोचरम्॥११॥
पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः।
भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते॥१२॥
अविनाशिनमग्राम्यमकरोत्सातवाहन1।
_________________________________________________________
पाख्यानानि च तान्गमयति बोधयति। तथा सर्वत्र ज्ञेया भवति। तथा च—‘नारदोऽश्रावयद्देवानसितो देवलः पितॄन्। गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः॥’ इत्युक्तम्॥९॥
-
अधुना स्वगुरुतः स्वप्रभृतिभिः कृतानाख्यायिकादीन्काव्यभेदान्स्तुवन्ननौद्धत्यार्थं सर्वत्र नमस्कारमाह—उच्छ्वासान्त इति। उच्छ्वास इवोच्छ्वासो विश्रान्तिस्थानं सर्गादिवत्कथासंधिस्तस्यान्तेऽप्यखिन्ना उच्छ्वासान्तरकरणक्षमाः। अविच्छिन्नप्रतिभाना इति यावत्। गुरुत्वाद्बहुवचनम्। ‘नान्द्यन्ते ह्यम्बुधेर्वक्त्रम्’ इति वक्त्रलक्षणम्। वक्त्रेसरस्वती। वृत्तविशेषयोगिनीत्यर्थः। एतस्मिन्नाख्यायिकाकृद्भिर्भाविवस्तुसंसूचनाय वाग्विरच्यते। तथा चाह भामहः—‘वक्त्रंचापरवक्त्रंच काव्ये काव्यार्थशंसिनि’ इति। आख्यायिकाः कुर्वन्तीत्याख्यायिकाकाराः। यद्वा आख्यायिकेवाकारो येषाम्। अथ ‘कविं पुराणम्’ इति न्यायेन कवयश्च त ईश्वरा हरिहरब्रह्माणः। उच्छ्वसन्ति भूतान्यस्मिन्नित्युच्छ्वासः कल्पस्तदन्ते संहारेऽपि तेऽखिन्नाः कल्पान्तरजननोद्योगिनस्तेषां मुखे वागीशी। उक्तं च—‘सरस्वतीवाग्बलमुत्तमोऽनिलः’ इत्यादि। आख्यायिकाभिराख्यानैराकारो येषाम्। सर्वस्य हि शास्त्रागमसमधिगम्याः, न पुनः प्रत्यक्षलक्ष्याः। ते च वन्द्याः सर्वस्य॥१०॥*
-
कवीनामिति। वासवदत्ता कथा, वासवेन शक्रेण दत्ता च। कर्णः श्रवणं, राधेयश्च। कवीनां काव्यकर्तॄणां द्रोणादीनां च॥११॥*
** **पदेत्यादि। पदानां सुप्तिङन्तानां बन्धः प्रकृष्टा रचना। रीतिरित्यर्थः। स्वमण्डलावष्टम्भश्च। हारी हृद्यः, हारयुक्तश्च। अहारीति वा। न कस्यचिदपि यो हरति। कृता वर्णानामक्षराणां क्रमेण भामहादिप्रदर्शितनीत्या स्थितिरवस्थानं यत्र, कृतयुगवद्वर्णानां द्विजादीनां क्रमेण मन्वादिस्मृतिकारप्रकाशितमार्गेण स्थितिः पालनं यस्मिन्सतीति च। भट्टारेति पूजावचनम्॥१२॥
- अविनाशिनमित्यादि। अविनाशिनं प्रसिद्धम्, अनश्वरं च। अप्राम्यं वैदग्ध्ययुक्तम्, अग्रामभवं च। जातिः स्वभावोक्तिरूपोऽलंकारः। कोशः समुच्चयः,*
विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः॥१३॥
कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला।
सागरस्य परं पारं कपिसेनेव सेतुना॥१४॥
सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः।
सपताकैर्यशो लेभे भासो देवकुलैरिव॥१५॥
निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु।
प्रीतिर्मधुरसान्द्रासु2 मञ्जरीष्विव जायते॥१६॥
समुद्दीपितकंदर्पा कृतगौरीप्रसाधना।
_____________________________________________________________
गञ्जश्च। सुभाषितैः सूक्तिभिः, शोभनं च भाषितं प्रभाववर्णनं येषां तैः॥१३॥
- कीर्तिरित्यादि। प्रवरसेनः कश्चित्कविः प्रवे प्लुते रसो येषां ते प्रवरसा वानरास्तेषामिनः स्वामी प्रवरा च सेना यस्य स सुग्रीवश्च। कुमुदवत्कैरववत्। यद्वा कुर्भूमिस्तस्या मुत्प्रहर्षस्तयेति, कुमुदेन वानरसेनापतिना च। सेतुः प्राकृतकाव्यग्रन्थः, सेतुश्च॥१४॥*
** **सूत्रेत्यादि। सूत्रधारः पूर्वरङ्गस्य प्रवक्ता चार्चिक्यः, स्थपतिश्च। भूमिकाः पात्राणि रामाद्यनुकार्यावस्थाभूमयः, उपभोगनिमित्तान्युत्पत्तिस्थानानि। पताका अर्थप्रकृतिः। उक्तं च—‘बीजं बिन्दुः पताका च प्रकरी कार्यमेव च। अर्थप्रकृतयो ह्येताः पञ्च सर्वप्रयोगगाः॥’ इति। ‘यद्वृत्तं तु परार्थं स्यात्प्रधानस्योपकारकम्। प्रधानवच्च कल्पेत सा पताकेति कीर्त्यते॥’ इति वैजयन्ती च पताका॥१५॥
-
निर्गतास्विति। निर्गता उच्चारितमात्राः। आस्तां तावदर्थावगतिः, आपात एव गीतध्वनिवत्किमपि श्रोत्रहारिण्यः। यदुक्तम्—‘अपर्यालोचितेऽप्यर्थे बन्धसौन्दर्यसंपदा। गीतवद्धृदयाह्लादं तद्विदां विदधाति यत्॥ तत्काव्यम्’ इत्यादि। तथा निर्गताः सर्वदेशप्रतीताः, अन्यत्र निर्गता अभिनवोद्भिन्नाः। न वा कस्येत्यनेनैतदुक्तम्। आसतां तावत्काव्यतत्त्वविदः सहृदया विवेक्तारः, येऽपि शास्त्राप्रहितबुद्धयो दुर्दुरूढा मत्सरप्रायास्तेषामपि या हृदयमाह्लादयन्ति। तथा चोक्तम्—‘असुणिअ परमन्थाण वि हरेइ वाआमणं कइम्माण। आणाणजकुवलअवणमलद्धगन्धाण वि सुहाइ॥’ इति। मधुराश्चताः सान्द्राः सरसाः। अन्यत्र मधुना मकरन्देन किंजल्केन रसेन सान्द्राः सुगन्धयः॥१६॥*
-
समुदित्यादि। बृहत्कथा कस्य न विस्मयाय। अपि तु सर्वस्यैव गर्वविनाशाय भवतीत्यर्थः। अद्भुतकथावर्णनाद्वाश्चर्याय। समुद्दीपितो वृद्धिं नीतःकंदर्पो यस्याम्। कामिजनानां बहूनां वृत्तान्तानां वर्णनादुद्बोधितः स्मरो ययेति वा। काव्यसेवया हि शृङ्गाररसः समुद्भवति। तथा चोक्तम्—‘ऋतुमाल्यालंकारप्रियजनगान्धर्वकाव्यसेवाभिः। उपवनगमनविहारैः शृङ्गाररसः समुद्भवति॥’ यद्वा समुद्दीपितः प्रकाशितः ख्यातिं नीतः कंदर्पो नरवाहनदत्तो यस्यामिति। स ** हि*
हरलीलेव नो कस्य विस्मयाय बृहत्कथा॥१७॥
आढ्यराजकृतोत्साहै3र्हृदयस्थैः स्मृतैरपि।
जिह्वान्तः कृष्यमाणेव न कवित्वे प्रवर्तते॥१८॥
तथापि नृपतेर्भक्त्याभीतो निर्वहणाकुलः।
करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम्॥१९॥
सुखप्रबोधललिता सुवर्णघटनोज्ज्वलैः।
शब्दैराख्यायिका भाति शय्येव प्रतिपादकैः॥२०॥
^(२)जयति ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः।
________________________________________________________
कामांश इत्यागमः। कृतं गौर्या विद्याभेदस्याराधनं यस्याम्। सा हि नरवाहनदत्तेनेशारूपाराधितेति तत्रोक्तम्। यद्वा गौरीं प्राति पूरयति गौरीप्रः। साधनं परिकरबन्धो यथाप्रस्तावो यस्याम्। गौरीप्रेरितेन हि हरेण तथा तस्यां परिकरबन्धः कृतो यथा सातीव पिप्रिये। हरलीलापि समुत्सहर्षा, दग्धकामा च। कृतं गौर्याः प्रसाधनं मण्डनं यस्याम्। क्वकामं प्रति तादृग्द्वेषः, क्व च कान्तां प्रति प्रसाधनमिति कृत्वा विस्मयमाश्चर्यम्॥१७॥
-
आढ्येति।*** आढ्यराजः कश्चित्कविः। उत्साहो नृत्ते तालविशेषः। उदीर्यमाणगीत्याधारभूतपदोपचारात्काव्यमप्युत्साह इति केचित्। यत्र पूर्वं श्लोकेनार्थं उपक्षिप्यते, पश्चात्स एव गद्येन वितन्यते, मध्ये वृत्तनिबन्धश्च भवति, स परिसमाप्तार्थ उत्साह उच्यत इत्यन्ये। अपिः समुच्चये। यद्वा आढ्यराजहृदयस्था अप्यन्तर्जिह्वां नाकर्षयन्ति, तत्कथं त एव स्मृता इत्यपिशब्दार्थः॥१८॥
-
एवमनौद्धत्यमुक्त्वाह—तथेत्यादि। तथापीत्थं जानन्नपि जिह्वाप्लवनलक्षणं चापलं करोमि। यतो नृपतेर्भक्त्याहमभि इतः समन्ताद्युक्तः। निर्वहणे समाप्तावाकुलः। जिह्वा चाब्धावकालवातस्तत्र वहन्त्यां कश्चिद्यथाप्लवनरूपं चापलं करोति। अत्र पक्षे—अभीतोऽत्रस्तः। निर्वहणं पारप्राप्तिः। ‘कृत्ये च’ इति णत्वम्॥१९॥*
-
सुखेत्यादि। सुखेन जायासंमितत्वेन हृदयाह्लादनपूर्वम्, न तु वेदेतिहासादिवत्, यः प्रबोधः प्रकृष्टं बोधनं धर्मादिसाधनव्युत्पत्तिः। उक्तं च—‘कटुकौषधिवत्काव्यमविद्याव्याधिभेषजम्। आह्लाद्यमृतवत्काव्यमविवेकगदापहम्॥’ इति। सुवर्णघटना शोभनाक्षररचना। प्रतिपादकैर्विवक्षिताभिधायकैः। शय्यापक्षे—सुखं यः प्रबोधः स्वापादुत्थानम्। सुवर्णघटना हेमयोजना। प्रतिपादकैः खट्वाया उन्नामकैः। तदा पादानां प्रतिच्छन्दाः प्रतिपादकाः पुरुषयत्नोत्थापिताः पादमुद्रास्तैः। अत्र च शोभनो वर्णोऽलक्तादिकृतः॥२०॥*
-
इदानीं यमुद्दिश्येयमाख्यायिका क्रियते तस्य ‘तथापि नृपतेर्भक्त्या’ इत्यनेन नृपतिशब्देन सामान्येन निर्देशं कृत्वा विशेषेणाह—जयतीत्यादि। ज्वलन्दीप्रतया-*
__________________________________________________________________________
२अस्माच्छ्लोकात्पूर्वं ‘दर्शयन्ती मुखे खेदं प्रस्खलन्ती पदे पदे। कथंचिन्नीयते शय्यां कथा नववधूरिव॥’ इत्ययं श्लोकोऽधिको जीवानन्दपुस्तके।
सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः॥२१॥
एवमनुश्रूयते—पुरा किल भगवान्स्वलोकमधितिष्ठन्परमेष्ठी विकासिनि पद्मविष्टरे समुपविष्टः सुनासीरप्रमुखैर्गीर्वाणैः परिवृतो ब्रह्मोद्याः कथाः कुर्वन्नन्याश्च निरवद्या विद्यागोष्ठीर्भावयन्कदाचिदासांचक्रे। तथासीनं च तं त्रिभुवनप्रतीक्ष्यं मनुदक्षचाक्षुषप्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरःसरा महर्षयः सिषेविरे। केचिदृचः स्तुतिचतुराः समुदचारयन्। केचिदपचितिभाञ्जि यजूंष्यपठन्। केचित्प्रशंसासामानि जगुः। अपरे विवृत-
___________________________________________________
प्रसरन्प्रताप एव ज्वलनस्तं प्राति पूरयति य आकारस्तेन कृता जगति रक्षा येन सः। सकलानां प्रणयिनां ये मनोरथास्तत्सिद्धौ श्रियां पर्वतो गिरिः। श्रियस्तत्र कूटीभूता इव स्थिता इति यावत्। यद्वा यथा पर्वतस्थः कश्चिद्दुरभिभवः, तद्बद्धर्षस्था श्रीरिति। अथ च श्रीपर्वताख्यो गिरिरीदृगेव। तथा च ज्वलत्प्रकृष्टतापो यो ज्वलनो जठराग्निः स एव निषेधकत्वात्प्राकारः सालस्तेन कृता मुक्तेर्विघ्नहेतुतया जगतो भूलोकस्य रक्षा येन सः। अन्यत्रोत्सादनं तद्यावत्। अन्ये तु—त्रिपुरदाहे यो विघ्नमकरोद्गणेशस्तदा हरेण ज्वलत्प्रकृष्टतापो ज्वलनप्राकारो निर्मितः। तेन च तत्र रक्षा विधीयत इत्याहुः। ज्वलत्प्रतापो ज्वलनप्राकारश्च द्वौ मुद्रारूपौ मन्त्रविशेषौ स्तः, ताभ्यां कृतजगद्रक्ष इति केचित्। प्रणयिनः सिद्धिकामाः। हर्षः कथानायकः। इतरत्र हर्षकारितया हर्षः। सर्वत्र च परमार्थतो हर्ष एव जयति। तस्यैवाभिलषणीयत्वात्स एव काव्येन क्रियत इति ध्वनयति॥२१॥
- एवमिति। अनुश्रूयते पारम्पर्येणाकर्ण्यते। किलेत्यत एवागमसूचनाय। भगवानिति केवलनिर्देश उल्लुण्ठनपरिहारार्थम्। ब्रह्मलोकमित्युक्ते सत्युत्कर्षदायिन्यात्मीयताप्रतिपत्तिर्न स्यादिति स्वग्रहणं साभिप्रायम्। अधितिष्ठन्बहुमानेन तद्योगक्षेमादिकमुद्वहन्। परमे पदे तिष्ठतीति परमेष्ठी। विक्रासिनीति नित्ययोग इनिः। विष्टरमासनम्। सुनासीर इन्द्रः। गिरः स्तुतिरूपा बणन्ति भजन्तीति गीर्वाणा देवाः। गीरेव बाणः शरो येषामिति तैः परिवृतश्चतुर्दिक्कं वृतः परिवलितः। तस्य चतुर्मुखत्वात्। ब्रह्म वदन्तीति ब्रह्मोद्याः। ‘वदः स्वपि क्यप्च’। ब्रह्मणा वेदेन, ब्रह्मणि परमात्मनि वा वेदितव्या ब्रह्मोद्याः। उक्तं च—‘ब्रह्मोद्या सा कथा यस्यामुच्यते ब्रह्म शाश्वतम्’ इति। सामान्यविशेषभावेन ‘उष्ट्रासिकामासते’ इतिवत्। ब्रह्मवदनरूपा वा कथास्तासां वक्ष्यमाणगोष्ठ्यभिप्रायेण प्राधान्यात्स्वयंकरणम्। निरवद्या दोषरहिताः। तथा च वात्स्यायनः—‘या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी। परहिंसात्मिका या च न तामवतरेद्बुधः॥लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया। गोष्ठपा सह चरन्विद्वांल्लोकसिद्धिं नियच्छति॥’ समानविद्यावित्तशीलबुद्धिवयसामनुरूपैरालापैरेकत्रासनबन्धो गोष्ठी। प्रतीक्ष्यः पूज्यः सम्य-*
क्रतुक्रियातन्त्रान्मन्त्रान्व्याचचक्षिरे। विद्याविसंवादकृताश्च तत्र तेषामन्योन्यस्य विद्याविवादाः प्रादुरभवन्।
अथातिरोषणः प्रकृत्या महातपा मुनिरत्रेस्तनयस्तारापतेर्भ्राता नाम्ना दुर्वासा द्वितीयेन मन्दपालनाम्ना मुनिना सह कलहायमानः साम गायन्क्रोधान्धो विस्वरमकरोत्। सर्वेषु च तेषु शापभयप्रतिपन्नमौनेषु मुनिष्वन्यालापलीलया चावधीरयति कमलसंभवे भगवति कुमारी किंचिदुन्मुक्तबालभावे भूषितनवयौवने नवे वयसि वर्तमाना, गृहीतचामरप्रचलद्भुजलता पितामहमुपवीजयन्ती, निर्भर्त्सनताडनजातरागाभ्यामिव स्वभावारुणाभ्यां पादपल्लवाभ्यां समुद्भासमाना, शिष्यद्वयेनेव पदक्रममुखरेण नूपुरयुगलेन वाचालितचरणा, मदननगरतोरणस्तम्भविभ्रमं बिभ्राणा जङ्घाद्वितयम्, सलीलमुत्ककलहंसकुलकलालापप्रलापिनि मेखलादाम्नि विन्यस्तवामहस्तकिसलया, विद्वन्मानसनिवासलग्नेन गुणकलापेनेवांसावलम्बिना ब्रह्मसूत्रेण पवित्रीकृतकाया, भास्वन्मध्यनायकमनेकमुक्तानुयातमपवर्गमार्गमिव
_________________________________________________________
गुदात्तादित्रैस्वर्यादिप्राधान्यादुदचारयञ्जगुः। अपचितिः पूजा। सामानि जगुरिति साम्नां गानमेवोचितम्। विद्याविसंवादकृता इति, न तु मात्सर्यादिना। प्रादुरभवन्नित्यनौचित्यशङ्कया तत्कर्तृत्वपरिहारः।
** **प्रकृत्येति। अन्यथा ब्रह्मसंनिधानेन कथमीदृगाक्षेपः। कथमीदृशोऽवकाश इत्याह—महातपा इति। मुनिरित्यनेनास्य ज्ञानप्राधान्यात्तुल्यतोद्भासनमतीवोपकारः। अत्रेस्तनय इति न केवलं महातपस्त्वेन यावदत्रितनयत्वेन ब्रह्मलोकप्राप्तिरस्य। ततस्तारापतेरित्यादिना तथाभूतपरमप्रजापतिसंबन्धयोग्यत्वमस्याख्यायते। द्वितीयेनेति तत्समत्वमुच्यते। कथं सामगानेऽप्यनवहित इत्याह—क्रोधान्ध इति। सर्वेष्वित्यादौ देवी सरस्वती श्रुत्वा जहासेति क्रियाप्रतिपत्तिरस्य माभूदित्युत्तमप्रकृतित्वादन्येत्याद्युक्तम्। अन्येन सहालापलीलाकथाक्रीडया। **कुमारीति। कुमारीत्वेनास्या हास्यादिकं नानुचितमिति दर्शयति। भूषितेत्यनेन दर्शनीयत्वमाह। **पितामहमिति। सर्वप्राधान्यमनेनोक्तम्। निर्भर्त्सनताडनं तेन तदर्थं वा यत्ताडनं रोषाद्भूमिहननं तद्वशाच्च जातरागाभ्यामिव पादपल्लवाभ्यामित्यनेनारुणत्वं सौकुमार्यं चाह। अतएव गाढताडनेन रक्तत्वमुत्प्रेक्षितम्। ताडितो वा यं ताडितस्तत्तुल्यो रागो जातो ययोरिति व्याख्येयम्। पदक्रमं पादन्यासपरिपाटी। अन्यत्र च पदानि च क्रमश्च तत्पदक्रमम् चरणौ पादौ चरणाश्च विशिष्टशाखापाठकता वाचालिताः क्षोभिता ययेति। उत्का उत्सुकाः। मेखलादाम्नि रशनागुणे। मानसं चित्तं, सरोविशेषश्च। गुणा अपि भास्वन्दीप्रो मध्यनायकः पदकं यत्र तत्। अथ च भास्वतो मध्यं
हारमुद्वहन्ती, वदनप्रविष्टसर्वविद्यालक्तकरसेनेव पाटलेन स्फुरता दशनच्छदेन विराजमाना संक्रान्तकमलासनकृष्णाजिनप्रतिमां मधुरगीताकर्णनावतीर्णशशिहरिणामिव कपोलस्थलीं दधाना, तिर्यक्सावज्ञमुन्नमितैकभ्रूलता, श्रोत्रमेकं विस्वरश्रवणकलुषितं प्रक्षालयन्तीवापाङ्गनिर्गतेन लोचनाश्रुजलप्रवाहेणेतरश्रवणेन च विकसितसितसिन्धुवारमञ्जरीजुषा हसतेव प्रकटितविद्यामदा, श्रुतिप्रणयिभिः प्रणवैरिव कर्णावतंसकुसुममधुकरकुलैरुपास्यमाना, सूक्ष्मविमलेन प्रज्ञाप्रतानेनेवांशुकेनाच्छादितशरीरा, वाङ्मयमिव निर्मलं दिक्षु दशनज्योत्स्नालोकं विकिरन्ती देवी सरस्वती श्रुत्वा जहास।
दृष्ट्वा च तां तथा हसन्तीं स मुनिः ‘आः पापकारिणि, दुर्गृहीतविद्यालवावलेपदुर्विदग्धे, मामुपहससि’ इत्युक्त्वा शिरःकम्पविशीर्यमाणबन्धविशरारोरुन्मिषत्पिङ्गलिम्नो जटाकलापस्य रोचिषा सिञ्चन्निव रोषदहनद्रवेण दश दिशः कृतकालसंनिधानामिवान्धकारितललाटपट्टाष्टापदामन्तकान्तःपुरमण्डनपत्रभङ्गमकरिकां भ्रुकु-
____________________________________________________
तेन नयति सः। यदुक्तम्—‘परिव्राड्योगयुक्तश्च शूरश्चाभिमुखे हतः। द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ॥’ इति। मुक्ता मौक्तिकानि, मोक्षगामिनश्च। हारं मुक्ताकलापं च, अपवर्गमपि। हारं हरसंबन्धिनं तत्प्रसादप्राप्यत्वात्। ‘अलक्तकरसेनेव पाटलेन’ इति वा पाठः। स्फुरतेति रोषात्। भगवतीकपोले शशिहरिणस्यैवावतारः संभाव्यत इति शशिपदम्। अत्र हि कपोले ब्रह्मकृष्णाजिनसंक्रान्तिः तत्र कामदसंभावना सामान्यहरिणस्यावतरणे। **कलुषितं प्रक्षालयन्तीवेति। सलिलस्य क्षालनमेव युक्तमिति समुचितेयमुक्तिः। श्रुतिप्रणियिभिरिति। श्रूयते इति श्रुतिर्ध्वनिस्तया प्रणयः प्रसंशातिशयो येषां तैः। यद्वा श्रुती श्रोत्रे तत्कर्तृकः प्रणयः प्रार्थना मधुरध्वनित्वाद्येषां तैः। कर्णसंबन्धैरिति व्याख्याने तु कर्णावतंसेत्यादिना पौनरुक्त्यमपरिहार्यम्। श्रुतिर्वेदोऽपि। सूक्ष्मार्थदर्शित्वात्सूक्ष्मस्तीक्ष्णः विमलस्तत्त्वग्राही। अन्यत्र सूक्ष्मं तनु, विमलं शुक्लम्। प्रतानः प्रसारः।
- दृष्ट्वेत्यादौ स मुनिस्तां तथा हसन्तीं दृष्ट्वा शापजलं जग्राहेति संबन्धः। तथेति पादताडनभ्रूक्षेपादिपूर्वम्। स मुनिरिति प्राग्वर्णितस्वरूपः। आः इत्यक्षमायाम्। मामिति योऽहं त्रैलोक्यप्रख्यातरोषणस्तमेवेति। समीप एव विशीर्यते तच्छीलो विशरारुरितश्चामुतश्च। अतएवोन्मिषत्पिङ्गलिमा। रोचिषा दीप्त्या। रोषदहनो द्रवो रस इव, द्रवत्वं च यद्यपि विशिष्टस्यैव तेजसः सुवर्णादि संभवति, तथाप्यत्रोपचारात्सादृश्यम्। कालः कृष्णो गुणो यमश्च। अन्धकारितं संकुचितत्वाददर्शनीयमेव चकितं ललाटपट्टमेवाष्टापदम्। यथा प्रतिपङ्क्ति अष्टौ पदान्यस्येत्यष्टापदं चतुरङ्गफलकम्।*
टिमाबध्नन्, अतिलोहितेन चक्षुषामर्षदेवतायै स्वरुधिरोपहारमिव प्रयच्छन्, निर्दयदष्टदशनच्छदभयपलायमानामिव वाचं रुन्धन्दन्तांशुच्छलेन, अंसावस्रंसिनः शापशासनपट्टस्येव ग्रथ्नन्ग्रन्थिमन्यथा कृष्णाजिनस्य, स्वेदकणप्रतिबिम्बितैः शापशङ्काशरणागतैरिव सुरासुरमुनिभिः प्रतिपन्नसर्वावयवः, कोपकम्पतरलिताङ्गुलिना करेण प्रसादनलग्नामक्षरमालामिवाक्षमालामाक्षिप्य कामण्डलवेन वारिणा समुपस्पृश्य शापजलं जग्राह।
अत्रान्तरे स्वयंभुवोऽभ्याशे समुपविष्टा देवी मूर्तिमती पीयूषफेनपटलपाण्डरं कल्पद्रुमदुकूलवल्कलं वसाना, बिसतन्तुमयेनांशुकेनोन्नतस्तनमध्यबद्धगात्रिकाग्रन्थिः, तपोबलनिर्जितत्रिभुवनजयपताकाभिरिव तिसृभिर्भस्मपुण्ड्रकराजिभिर्विराजितललाटाजिरा, स्कन्धावलम्बिना सुधाफेनधवलेन तपःप्रभावकुण्डलीकृतेन गङ्गास्रोतसेव योगपट्टकेन विरचितवैकक्ष्यका, सव्येन ब्रह्मोत्पत्तिपुण्डरीकमुकुलमिव स्फटिककमण्डलुं करेण कलयन्ती, दक्षिणमक्षमालाकृतपरेक्षेपं कम्बुनिर्मितोर्मिकादन्तुरितं तर्जनतरङ्गिततर्जनीकमुत्क्षिपन्ती
________________________________________________________
अत एवानेन भ्रूसमुन्नमनमव्यक्तीकृतरेखवत्तया विस्पष्टव्यलीकमेतत्। ‘ललाटमुपगीयते। भ्रुवोर्मूलसमुत्क्षेपाद्भ्रुकुटिं परिचक्षते’। सुशब्दः सुतरां नैरपेक्ष्यसूचनाय वा चोभयसंबन्धः। **अंसावस्रंसिन इति। संरम्भाच्छासनपट्टः शुक्लत्वाल्लिपिकार्ष्ण्याच्च सितासितवर्णसंवलितमध्यः पर्यन्तशुक्लश्च भवति। अत एव ते बिन्दुचित्रत्वादुपान्तशुक्लत्वाच्च कृष्णाजिनमुत्प्रेक्षते। यथा शासनपट्टे सति क्वचिद्ग्रामादावधिकारो भवति, तद्वच्च जनसमूहः प्रार्थनां करोति। सहस्तपादादि के सर्वस्मिन्नङ्गे गलति। कोपेत्यादौ कम्पग्रहणम्। रोषः शरीरं बाधत इति यावत्। संनिवेशसाधर्म्यादुक्तम्—अक्षरमालामिवेति। सरस्वतीसंबन्धतया चोक्तम्—प्रसादनलग्नामिति। विक्षिप्यन्ते। यश्च विरुद्धपक्षः प्रसादयति स विक्षिप्यते तिरस्क्रियते। कामण्डलवेन मुनिकरकभवेन। समुपस्पृश्याचम्य।
- अत्रान्तर इत्यादौ मूर्तैश्चतुर्भिर्वेदैः सह सावित्री समुत्तस्थाविति संबन्धः। अभ्याशे समीपे। गात्रिकाग्रन्थिर्ग्रन्थिविशेषः स्वस्तिकाकारः स्त्रीणामुत्तरीयस्य स्तनोद्देशे भवति। तिलकं पुण्ड्रकं स्कन्धावंसौ वायुस्थानानि च स्कन्धाः। फेनैस्तद्वच्च धवलेन। ‘तिर्यग्वक्षसि विक्षिप्तं वैकक्ष्यकमुदाहृतम्’। सव्येन वामेन। पुण्डरीकमुकुलं मुकुलितं पद्मम्। कलयन्ती क्षिपन्ती, धारयन्ती वा। परिक्षेपः परिवलनम्। कम्बुः शङ्खः। ऊर्मिका वालिका। दन्तुर इव दन्तुरो व्याप्तस्तम्। तर्जनं निर्भर्त्सनम्।*
करम्, ‘आः पाप, क्रोधोपहत, दुरात्मन्, अज्ञ, अनात्मज्ञ, ब्रह्मबन्धो, मुनिखेट, अपसद, निराकृत, कथमात्मस्खलितविलक्षः सुरासुरमुनिमनुजवृन्दवन्दनीयां त्रिभुवनमातरं भगवतीं सरस्वतीं शप्तुमभिलषसि’ इत्यभिदधाना, रोषविमुक्तवेत्रासनैरोंकारमुखरितमुखैरुत्क्षेपदोलायमानजटाभारभरितदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनाटोपच्छायाश्यामायमानदिवसैरमर्षनिःश्वासदोलाप्रेङ्खोलितब्रह्मलोकैः सोमरसमिव स्वेदविसरव्याजेन स्रवद्भिरग्निहोत्रपवित्रभस्मस्मेरललाटैः कुशतन्तुचारुचामरचीरचीवरिभिराषाढिभिः प्रहरणीकृतकमण्डलुमण्डलैर्मूर्तैश्चतुर्भिर्वेदैः सह बृसीमपहाय सावित्री समुत्तस्थौ।
ततो ‘मर्षय भगवन् अभूमिरेषा शापस्य’ इत्यनुनाथ्यमानोऽपि विबुधैः, ‘उपाध्याय, स्खलितमेकं क्षमस्व’ इति बद्धाञ्जलिपुटैः प्रसाद्यमानोऽपि स्वशिष्यैः, ‘पुत्र, मा कृथास्तपसः प्रत्यूहम्’ इति निवार्यमाणोऽप्यत्रिणा, रोषावेशविवशो दुर्वासाः ‘दुर्विनीते, व्यपनयामि ते विद्याजनितामुन्नतिमिमाम्। अधस्ताद्गच्छ मर्त्यलोकम्’ इत्युक्त्वा तच्छापोदकं विससर्ज। प्रतिशापदानोद्यतां सावित्रीम् ‘सखि, संहर रोषम्। असंस्कृतमतयोऽपि जात्यैव द्विजन्मानो माननीयाः’ इत्यभिधाना सरस्वत्येव न्यवारयत्।
_____________________________________________________________
तरङ्गिता तर्जिता चलिता। तर्जनी प्रदेशिन्यङ्गुष्ठनिकटाङ्गुलिः। क्रोधोपहतेत्यात्मविनाशायैव ते क्रोध इत्युक्तं भवति। ब्रह्मबन्धो निकृष्टब्राह्मण। अपसदो नीचः। निराकृतोऽस्वाध्यायः। विलक्षो लज्जितः। सुरासुरमनुजाश्च परस्परविरुद्धानुष्टानाः। अत्र पुनरीदृशामपि न विप्रतिपत्तिरिति भावः। अभिलषसीति। इच्छामात्रकमपीदं महत्साहसमित्यर्थः। ॐकार एवमुखरितं मुखं येषां तैः। परिकरबन्धःपर्यङ्कबन्धः। स चोत्थितस्यापि संरम्भभाजो भवति। आटोपो वक्षःप्रदेशे श्यामायमानो रात्रिरिवाचरद्दिवसा यैर्हेतुभिरित्यर्थः। अमर्षनिःश्वासैर्दोलावत्प्रेङ्खोलितश्चलितो ब्रह्मलोको यैः। कुशतन्तूनां चामरमिव चामरं गुच्छः। कुशतन्तुचामरं दर्भपिञ्जूलम्, चीरचीवरं वृक्षत्वग्वस्त्रं ते विद्येते येषां तैः। ‘आषाढसंज्ञो दण्डस्तु पालाशो व्रतचारिणाम्’।
- तत इत्यादौशापोदकं जग्राहेति विससर्जेति संबन्धः। मर्षय क्षमस्व। अनुनाथ्यमानः प्रार्थ्यमानः। प्रत्यूहं विघ्नम्। उन्नतिमिति। उच्चदेशस्थश्चाधस्तान्नीयत इति समुचितेयमुक्तिः। असंस्कृतमतयः संस्काररहिताः।*
अथ तां तथाशप्तां सरस्वतीं दृष्ट्वा पितामहो भगवान्कमलोत्पत्तिलग्नमृणालसूत्रामिव धवलयज्ञोपवीतिनीं तनुमुद्वहन्, उद्गच्छदच्छाङ्गुलीयमरकतमयूखलताकलापेन त्रिभुवनोपप्लवप्रशमकुशापीडधारिणेव दक्षिणेन करेण निवार्य शापकलकलम्, अतिविमलदीर्घैर्भाविकृतयुगारम्भसूत्रपातमिव दिक्षु पातयन् दशनकिरणैः, सरस्वतीप्रस्थानमङ्गलपटहेनेव पूरयन्नाशाः स्वरेण सुधीरमुवाच—‘ब्रह्मन्, न खलु साधुसेवितोऽयं पन्थाः येनासि प्रवृत्तः। निहन्त्येष परस्तात्। उद्दामप्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुषयति दृष्टिमनक्षजिताम्। कियद्दूरं वा चक्षुरीक्षते। विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वानर्थानसतः सतो वा। निसर्गविरोधिनी चेयं पयःपावकयोरिव धर्मक्रोधयोरेकत्र वृत्तिः। आलोकमपहाय कथं तमसि निमज्जसि। क्षमा हि मूलं सर्वतपसाम्। परदोषदर्शनदक्षा दृष्टिरिव कुपिता बुद्धिर्न त आत्मरागदोषं पश्यति। क्व महातपोभारवैवधिकता। क्व पुरोभागित्वम्। अतिरोषणश्चक्षुष्मानन्ध एव जनः। नहि कोपकलुषिता विमृशति मतिःकर्तव्यमकर्तव्यं वा। कुपितस्य हि प्रथममन्धकारीभवति विद्या, ततो भ्रुकुटिः। आदाविन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः।
______________________________________________________
- अथेत्यादौ भगवान्पितामहः सुधीरमुवाचेति संबन्धः। तथेति। तेन प्रकारेण। निरपराधां सरस्वतीमित्यर्थः। धवलयज्ञोपवीतिनीमिति। प्रशंसायां नित्ययोगे वा मत्वर्थीयः। ‘बिसकिसलयच्छेदपाथेयवन्तः’ इतिवत्। अन्यथा कर्मधारये कृते मत्वर्थीय एकबुद्ध्यनुमितौ बहुव्रीहौ प्रतिपत्तिर्भवतीति। इतरत्र तु बुद्धिद्वयमिति लघुत्वात्प्रक्रमस्येत्युक्तम्। उद्गच्छन्नच्छाङ्गुलीयमरकतस्य मयूखलताकलापो यस्य तेन करेण। आपीडः समूहः। पातं विन्यासम्। पातयन्कुर्वन्। अत्र हि धात्वर्थगतानुष्ठानमात्रवृत्तिः क्रिया। यथा—‘संवस्ते क्षालिते वस्त्रे’ इति। पन्था व्यवहारः, मार्गश्च। निहन्ति पातयति। प्रसृतानि गन्तुं प्रवृत्तानि, प्रसृता च जङ्घा। रजो रागः, धूलिश्च। कलुषयति कार्याकार्यदर्शनासमर्थां करोति। दृष्टिं बुद्धिम्, नेत्रं च। अक्षाणीन्द्रियाणि रथाङ्गं चाक्षः। तेन च रथो लक्ष्यते। कृतबुद्धयः संस्कृतमतयः। असदविद्यमानम्। निसर्गः स्वभावः। आलोको विवेकः, प्रकाशश्च। तमः, अज्ञानमपि। दोषाः, सव्यमण्डलत्वादीनि च। कुपिता क्रुद्धा, धातुवैषम्यदूषिता च। आत्मरागदोषमिति। आत्मभूतगुणदर्शनम्, लौहित्यलक्षणं च विकारम्; ‘वोढा भारस्य धीमद्भिर्जनैर्वैवधिकः स्मृतः। दोषैकग्राहिहृदयः पुरोभागी निगद्यते॥’*
आरम्भे तपो गलति, पश्चात्स्वेदसलिलम्। पूर्वमयशः स्फुरति, अनन्तरमधरः। कथं लोकविनाशाय ते विषपादपस्येव जटावल्कलानि जातानि। अनुचिता खल्वस्य मुनिवेषस्य हारयष्टिरिव वृत्तमुक्ता चित्तवृत्तिः। शैलूष इव वृथा वहसि कृत्रिममुपशमशून्येन चेतसा तापसाकल्पम्। अल्पमपि न ते पश्यामि कुशलजातम्। अनेनातिलघिम्नाद्याप्युपर्येव प्लवसे ज्ञानोदन्वतः। न खल्वनेडमूकाः एडा जडा वा सर्व एते महर्षयः। रोषदोषनिषद्ये स्वहृदये निग्राह्ये किमर्थमसि निगृहीतवाननागसं सरस्वतीम्। एतानि तान्यात्मप्रमादस्खलितवैलक्ष्याणि, यैर्याप्यतां यात्यविदग्धो जनः’ इत्युक्त्वा पुनराह—‘वत्से सरस्वति, विषादं मा गाः। एषा त्वामनुयास्यति सावित्री। विनोदयिष्यति चास्मद्विरहदुःखिताम्। आत्मजमुखकमलावलोकनावधिश्च ते शापोऽयं भविष्यति’ इति। एतावदभिधाय विसर्जितसुरासुरमुनिमनुजमण्डलः ससंभ्रमोपगतनारदस्कन्धविन्यस्तहस्तः समुचिताह्निककरणायोदतिष्ठत्। सरस्वत्यपि शप्ता किंचिदधोमुखी धवलकृष्णशारां कृष्णाजिनलेखामिव दृष्टिमुरसि पातयन्ती सुरभिनिःश्वासपरिमललग्नैर्मूर्तैः शापाक्षरैरिव षट्चरणचक्रैराकृष्यमाणा शापशोकशिथिलितहस्ताधोमुखीभूतेनोपदिश्यमानमर्त्यलोकावतरणमार्गेव नखमयूखजालकेन
____________________________________________________________
रागोऽभूतगुणाभिनन्दनम्, रक्तता च। जटाः शिखाः, मूलानि वल्कलानि मुनिवस्त्राणि, त्वचश्च। वृत्तमुक्ता शीलेन त्यक्ता, परिवर्तुलमौक्तिका च। ‘जायोपजीवी हि जनः शैलूषः कथितो बुधैः’। आकल्पो वेषः। जातं प्रकारः। अतिलघिमानुपादेयता तुच्छत्वात्। उपर्येवेत्यन्तःप्रवेशाभावात्। लघुश्च जलोपरि प्लवते। ‘कथिता अनेडमूकाः श्रोतुं वक्तुं च खलु न ये शक्ताः। एडास्तु श्रुतिहीना जडास्तु मूर्खा बुधैः प्रोक्ताः’॥ रोष एव दोषस्तस्य निषद्या नियमेनावस्थितिर्यत्र तस्मिन्स्वहृदये ते। यद्वा रोषदोषस्य निषद्या आपणत्वंतस्यामन्त्रणम् हे रोषदोषनिषद्ये इति व्याख्येयम्। निगृहीतवान्प्राप्तवान्। ‘आगः पापापराधयोः’। वैलक्ष्यं लज्जितम्। याप्यो गर्ह्यः। पुनराहेति। अविश्रान्तेऽप्युक्तिक्रमे पुनरित्युपादानं वाच्यतापरिहाराय। वत्से इति प्रसादाविष्करणार्थम्। एषेति। या तवैव स्निग्धा। विनोदयिष्यति सुखयिष्यति। सस्वत्यादौ सरस्वत्यपि शप्ता गृहमगादिति संबन्धः। शारशबलाम्। धवलकृष्णामित्येव वक्तव्ये शारग्रहणं संवलितवर्णद्वयप्रतीत्यर्थम्। अधोमुखीभूतेनेति। योऽधिकरणवशादनिष्टमुपदिशति
नूपुरव्याहाराहूतैर्भवनकलहंसकुलैर्ब्रह्मलोकनिवासिहृदयैरिवानुगम्यमाना समं सावित्र्या गृहमगात्।
अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुं मध्यमं लोकमवततारांशुमाली। क्रमेण च मन्दायमाने मुकुलितविसिनीविसरव्यसनविषण्णसरसि वासरे, मधुमदमुदितकामिनीकोपकुटिलकटाक्षक्षिप्यमाण इव क्षेपीयः क्षितिधरशिखरमवतरति तरुणतरकपिलपनलोहिते लोकैकचक्षुषि भगवति, प्रस्नुततमुखमाहेयीयूथक्षरत्क्षीरधाराधवलितेष्वासन्नचन्द्रोदयोद्दामक्षीरोदलहरीक्षालितेष्विव दिव्याश्रमोपशल्येषु, अपराह्नप्रचारचलिते चामरिणि चामीकरतटताडनरणितरदने रदति सुरस्रवन्तीरोधांसि स्वैरमैरावते, प्रसृतानेकविद्याधराभिसारिकासहस्रचरणालक्तकरसानुलिप्त इव प्रकटयति च तारापथे पाटलताम्, तारापथप्रस्थितसिद्धदत्तदिनकरास्तमयार्ध्यावर्जिते रञ्जितककुभि, कुसुम्भभासि स्रवति पिनाकिप्रणतिमुदितसंध्यास्वेदसलिल इव रक्तचन्दनद्रवे, वन्दारुमुनिवृन्दारकवृन्दबध्यमानसंध्याञ्जलिवने, ब्रह्मोत्पत्तिकमलसेवागतसकलकमलाकर इव राजति ब्रह्मलोके, समुच्चारिततृतीयसवनब्रह्मणि ब्रह्मणि, ज्वलितवैतानज्वलनज्वालाजटालाजिरेष्वारब्धधर्मसाधनशिबिरनीराजनेष्विव सप्तर्षिमन्दिरेषु, अघमर्षणमुषितकिल्बिषविषगदो-
_________________________________________________________
लज्जादिनावश्यमधोमुखीभवति। जालकं समूहः। व्याहार उक्तिः।
- मध्यमं लोकं भूमिम्। अंशुमाली रविः। क्रमेणेत्यादावस्मिन्सति सावित्री सरस्वतीमवादीदिति संबन्धः। विसरशब्द औणादिकः षण्डपर्यायः। मुदिताः संजातमन्मथाः। कामिन्यः शृङ्गारिण्यः। संभोगान्तरायकारी कथमयमद्यापि नास्तमेतीत्यतः कोपः। क्षिप्यमाणश्चातित्वरितं पतति। क्षेपीयस्तूर्णतरम्। लपनं वदनम्। लोकेत्यादिना संभोगविघ्नकारित्वमेव प्रकाश्यते। माहेयी गौः। उद्दामः प्रवृद्धिं गतः। उपशल्यं समीपम्। चामीकरं सुवर्णम्। रदना दन्ताः। रदति विलिखति। सुरस्रवन्ती गङ्गा। रोधस्तटम्। स्वैरं स्वेच्छम्। ‘या दूतिका गमनकालमपाहरन्ती सोढुं स्मरज्वरभरार्तिपिपासितेव। निर्याति वल्लभजनाधरपानलोभात्सा कथ्यते कविवरैरभिसारिकेति॥’ तारापथो नभः। आवर्जिते प्रकीर्णे। ककुभो दिशः। कुसुम्भं पद्मकम्। रक्तचन्दनद्रवे स्रवति सतीति योजना। वन्दारु वन्दनशीलम्। वृन्दारकशब्दः प्रशंसायाम्। सवनं प्रातर्मध्याह्ने सायं च सोमयागैकदेशस्नानमित्यन्ये। ब्रह्म वेदः। वैतानो यज्ञभवः। जटालानि व्याप्तानि। अजिराण्यङ्गनानि। आरब्धे धर्मसाधने शिबिरे पुण्योपकरणस्कन्धावारे नीराजनाख्यं शान्तिकर्म येषु। धर्मोपकरणविषये मा दोषाः प्रादुरभवन्निति। ‘शमनं सर्वपापानां जप्यं त्रिष्वघ-*
ल्लाघलघुषु यतिषु संध्योपासनासीनतपस्विपङ्क्तिपूतपुलिने प्लवमाननलिनयोनियानहंंसहासदन्तुरितोर्मिणि मन्दाकिनीजले, जलदेवतातपत्रे पत्ररथकुलकलत्रान्तःपुरसौधे, निजमधुमधुरामोदिनि कृतमधुपमुदि मुमुदिषमाणे कुमुदवने, दिवसावसानताम्यत्तामरसमधुरमधुसपीतिप्रीते सुषुप्सति मृदुमृणालकाण्डकण्डूयनकुण्डलितकंधरे धुतपक्षराजिवीजितराजीवसरसि राजहंसयूथे, तटलताकुसुमधूलिधूसरितसरिति सिद्धपुरपुरंध्रिधम्मिल्लमल्लिकागन्धग्राहिणि सायंतने तनीयसि निशानिःश्वासनिभे नभस्वति, संकोचोदञ्चदुच्चकेसरकोटिसंकटकुशेशयकोशकोटरकुटीशायिनि षट्चरणचक्रे, नृत्तोद्धूतधूर्जटिजटाटवीकुटजकुड्मलनिकरनिभे नभस्थलं स्तबकयति तारागणे, संध्यानुबन्धताम्रे परिणमत्तालफलत्वक्त्विषिकालमेघमेदुरे, मेदिनीं मीलयति नववयसि तमसि तरुणतरतिमिरपटलपाटनपटीयसि समुन्मिषति यामिनीकामिनीकर्णपूरचम्पककलिकाकदम्बके प्रदीपप्रकरे, प्रतनुतुहिनकिरणकिरणलावण्यालोकपाण्डुन्याश्याननीलनीरमुक्तकालिन्दीकूलबालपुलिनायमाने शातक्रतवे क्रश-
_______________________________________________________
मर्षणम्’। गदो रोगः।उल्लाघं स्वस्थताकरम्। यतयश्चतुर्थाश्रमिणः। सद्यो जलत्यक्तं तटं पुलिनम्। नलिनयोनिर्ब्रह्मा।हंसानां हासः शौक्लयं, हंसा एव वा शुक्लतया हासः। दन्तुरा एव दन्तुरिताः। ये च सहासास्ते लक्ष्यमाणदन्तद्वया दन्तुरा इव दृश्यन्ते। आतपत्रं छत्रम्। पत्ररथाः पक्षिणः। कलत्रं दाराः। मधु मकरन्दः, मद्यं च। मधुपा भ्रमराः, मद्यपाश्च। मुमुदिषमाणे विचकिसिषति। अन्यत्र मोदितुमिच्छति। प्रारिप्स्यमानगीतादिगोष्ठीबन्ध इति यावत्। ‘मञ्चाः क्रोशन्ति’ इतिवत्। **ताम्यदिति। ताम्यन्ति, न तु तान्तानि, प्रदोषस्य न तावत्प्रवृत्तत्वात्। मधु, मद्यमपि। सपीतिस्तु सहपानम्। अनेन तु प्रेमातिशय आवेद्यते। सुषुप्सति निद्रासति। **मृद्विति। कण्डूयनं विक्रियाविशेषम्। कुण्डलिता चक्रीकृता। राजीवं पद्मम्। राजहंसा इत्यत्रैकशेषः। तटशब्दः प्रत्यासत्त्युपलक्षणार्थः। पुरंध्रिरुत्तममहिला। धम्मिल्लाः संयताः कचाः। मल्लिका भूपदी। एषा च सायमेवोन्मिषति। सायंतने दिनान्तभवे। कोशः कुड्मलम्। कोटरमभ्यन्तरम्। कुटी गेहम्। शयनमत्र विश्रमणम्, न तु स्वापः। पौनरुक्त्यापत्तेः अटवीति विवक्षितम्। तत्रैवाकृत्रिमकुसुमसंबन्धात्। कुटजं गिरिमल्लिका। कुड्मलं कलिका। निकरः समूहः। अनुबन्धः संस्कारः। परिणमज्जरठीभवत्। तालस्तृणराजः। मेदुरं घनम्। मीलयति स्थगयति। नववयसि प्रत्यग्रे। चम्पको हेमपुष्पकः। आश्यानमीषच्छुष्कम्। नीरं जलम्। कालिन्दी यमुना। नीलिमाभिप्रायेणैतत्पदम्। यस्तटभागो वारिणा त्यक्तस्तत्पुलिनम्। कूलं ततोऽन्यत्। क्रशयति तनूकुर्वति।
यति तिमिरमाशामुखे, खमुचि मेचकितविचकिलकुवलयसरसि शशधरकरनिकरकचग्रहाविले विलीयमाने मानिनीमनसीव शर्वरीशबरीचिकुरचये चापपक्षत्विषि तमसि, उदिते भगवत्युदयगिरिशिखरकटककुहरहरिखरनखरनिवहहेतिनिहतनिजहरिणगलितरुधिरनिचयनिचितमिव लोहितं वपुरुदयरागधरमधरमिव विभावरीवध्वा धारयति श्वेतभानौ, अचलच्युतचन्द्रकान्तजलधाराधौत इव ध्वस्ते ध्वान्ते, गोलोकगलितदुग्धविसरवाहिनि दन्तमयमकरमुखमहाप्रणाल इवापूरयितुं प्रवृत्ते पयोधिमिन्दुमण्डले, स्पष्टे प्रदोषसमये सावित्री शून्यहृदयामिव किमपि ध्यायन्तीं सास्रां सरस्वतीमवादीत्—‘सखि, त्रिभुवनोपदेशदानदक्षायास्तव पुरो जिह्वा जिह्रेति मे जल्पन्ती। जानास्येव यादृश्यो विसंस्थुला गुणवत्यपि जने दुर्जनवन्निर्दाक्षिण्याः क्षणभङ्गिन्यो दुरतिक्रमणीया न रमणीया दैवस्य वामा वृत्तयः। निष्कारणा च निकारकणिकापि कलुषयति मनस्विनोऽपि मानसमसद्दशजनादापतन्ती। अनवरतनयनजलसिच्यमानश्च तरुरिव विपल्लवोऽपि सहस्रधा प्ररोहति। अतिसुकुमारं च जनं संतापपरमाणवो मालतीकुसुममेव म्लानिमानयन्ति। महतां चोपरि निपतन्नणुरपि सृणिरिव करिणां क्लेशः कदर्थनायालम्। सहजस्नेहपाशग्रन्थिबन्धनाश्च बा-
_____________________________________________________
खमुचि त्यक्ताकाशे।भूभागमवलम्बमान इत्यर्थः। मेचकितं निर्विभागतां नीतम्। शशधरकरैः स्वीकारेण करम्बितेऽत एव क्षयं गच्छन्ति। अन्यत्र चन्द्ररश्मीनां धारणेन सेवनेन किंकर्तव्यतामूढ एवमधिगलत्यार्द्रतां भजमाने। केशपाशपक्षे तु विस्रंसमाने। चाषः किकीदिविः पक्षी। हरिः सिंहः। नखरा नखाः। हेतिरायुधम्। विभावरी रात्रिः। श्वेतभानुश्चन्द्रः। अचलोऽर्थादुदयाचलः, गोलोको रश्मिसमूहो वा। मकरमुखमिव मुखमग्रमस्येति समासः। विसंस्थूला निर्मर्यादाः। दुर्जनवन्निर्दाक्षिण्याः क्रूराः। क्षणभङ्गिन्य इत्याश्वासनगर्भेयमुक्तिः। वामाश्च स्त्रिय ईदृश्य एव। निकारः परिभवः। कणिका लेशः, शर्करिका च। कलुषयति दूषयति, कालुष्यं नयति च। मानसं चेतः, सरश्च। अनवरतमश्रुणा सिच्यमानः। अनवरतं घटसारणीप्रणालादिना नयनं प्रापणं यस्य तादृशो जलेनोक्ष्यमाणश्च। विपल्लव आपल्लेशः, विगतपल्लवश्च। प्ररोहति स्थिरीभवति। तरुपक्षे प्ररोहा विद्यन्ते यस्य स प्ररोहः स इवाचरति प्ररोहतीति व्याख्या। संतापः खेदः, ऊष्मा च। मालतीकुसुमं सुमनःपुष्पमतिसुकुमारम्। महान्त उत्तमाः द्राघीयांसश्च। सृणिरङ्कुशः। मातरोऽपि जन्मभूमयः। दारुणो विषमः, काष्ठस्य च। क्रकचः कर-
न्धवभूता दुस्त्यजा जन्मभूमयः। दारयति दारुणः क्रकचपात इव हृदयं संस्तुतजनविरहः, सा नार्हस्येवं भवितुम्। अभूमिः खल्वसि दुःखक्ष्वेडाङ्कुरप्रसवानाम्। अपि च पुराकृते कर्मणि बलवति शुभेऽशुभे वा फलकृति तिष्ठत्यधिष्ठातरि प्रष्ठे पृष्ठतश्च कोऽवसरो विदुषि, शुचाम्। इदं च ते त्रिभुवनमङ्गलैककमलममङ्गलभूताः कथमिव मुखमपवित्रयन्त्यश्रुबिन्दवः। तदलम्। अधुना कथय कतमं भुवो भागमलंकर्तुमिच्छसि। कस्मिन्नवतितीर्षति ते पुण्यभाजि प्रदेशे हृदयम्। कानि वा तीर्थान्यनुग्रहीतुमभिलषसि। केषु वा धन्येषु तपोवनधामसु तपस्यन्ती स्थातुमिच्छसि। सज्जोऽयमुपचरणचतुरः सहपांसुक्रीडापरिचयपेशलः प्रेयान्सखीजनः क्षितितलावतरणाय। अनन्यशरणा चाद्यैव प्रभृति प्रतिपद्यस्व मनसा वाचा क्रियया च सर्वविद्याविधातारं दातारं च श्वःश्रेयसस्य चरणरजःपवित्रितत्रिदशासुरं सुधासूतिकलिकाकल्पितकर्णावतंसं देवदेवं त्रिभुवनगुरुं त्र्यम्बकम्। अल्पीयसैव कालेन स ते शापशोकविरतिं वितरिष्यति’ इति।
एवमुक्ता मुक्तमुक्ताफलधवललोचनजललवा सरस्वती प्रत्यवादीत्—‘प्रियसखि, त्वया सह विचरन्त्या न मे कांचिदपि पीडामुत्पादयिष्यति ब्रह्मलोकविरहः शापशोको वा। केवलं कमलासनसेवासुखमार्द्रयति मे हृदयम्। अपि च त्वमेव वेत्सि मे भुवि धर्मधामानि समाधिसाधनानि योगयोग्यानि च स्थानानि स्थातुम्’ इत्येवमभिधाय विरराम। रणरणकोपनीतप्रजागरा चानिमीलितलोचनैव तां निशामनयत्।
_______________________________________________________
पत्त्रम्, हृदयं चित्तम्, मध्यं च। संस्तुतः परिचितः। सेति। सर्वनामपदं जानासीत्यादिपूर्वोक्तार्थगर्भीकारेण। अभूमिरस्थानम्, अक्षेत्रं च। क्ष्वेडो विषम्। **शुभेऽशुभे वेत्यादि। सप्रतिपक्षा लोकोक्तिरियम्। ‘अव्युत्पन्नमतिः कृतेन न सता नैवासताप्याकुलः’, ‘गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः’ इत्यादिवत्। अधिष्ठातरि स्वामिनि। प्रष्ठेऽग्रगामिनि। अपवित्रतां नयन्ति, न तु शोभां त्याजयन्ति। धामसु स्थानेषु। तपस्यन्ती तपश्चरन्ती। सज्जः प्रगुणः। आज्ञाकार्ययमिति दृष्टस्वरूपः। निःसामान्यविस्रम्भभाजनतामभिव्यनक्ति सखीजनशब्दः। श्वःश्रेयसस्य कल्याणस्य दातारम्। सुधासूतिश्चन्द्रः। कलिका तरिका। शापविरतिर्ब्रह्मणैवोक्ता। अतस्तत्र किमन्यापेक्षयेत्याशङ्कयाह—अल्पीयसैव कालेनेति।
- आर्द्रयति स्नेहयति। धर्मधामानि मध्यदेशादीनि। समाधिश्चित्तैकाग्र्यम्।*
अपरेद्युरुदिते भगवति त्रिभुवनशेखरे खणखणायमानस्खलत्खलीनक्षतनिजतुरगमुखक्षिप्तेन क्षतजेनेव पाटलितवपुष्युदयाचलचूडामणौ जरत्कृकवाकुचूडारुणारुणपुरःसरे विरोचने नातिदूरवर्ती विविच्य पितामहविमानहंसकुलपालः पर्यटन्नपरवक्रमुच्चैरगायत्—
‘तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते।
अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम्॥२१॥
तच्छ्रुत्वा सरस्वती पुनरचिन्तयत्—‘अहमिवानेन पर्यनुयुक्ता। भवतु। मानयामि मुनेर्वचनम्’ इत्युक्त्वोत्थाय कृतमहीतलावतरणसंकल्पा परित्यज्य वियोगविक्लवं स्वपरिजनं ज्ञातिवर्गमविगणय्यावगणा त्रिः प्रदक्षिणीकृत्य चतुर्मुखं कथमप्यनुनयनिवर्तितानुयायिव्रतिव्राता ब्रह्मलोकतः सावित्रीद्वितीया निर्जगाम।
ततः क्रमेण ध्रुवप्रवृत्तां धर्मधेनुमिवाधोधावमानधवलपयोधराम्,
_______________________________________________________________
योगे हि तदुक्तम्—‘आदौ समाधिमासीत पश्चाद्योगमुपाचरेत्’ इति। रणरणको दुःखमरतिकृतम्।
-
अपरेद्युरपरस्मिन्नहनि। एते च कालाः संख्यादयो व्यवहारा इहत्या ब्रह्मलोक उपचरिताः। शेखर इव। शेखरो मुण्डमालकः। खलीनं कविका। क्षतजं रक्तम्। कृकवाकुः कुक्कुटः। चूडा मांसमयी शेखरिका। विविच्य विचार्य। विमानपालः स्वप्रस्तावे हंसीं यदाह तेन सरस्वती पर्यनुयोजितेवाभूत्। अपरवक्त्राख्यं वृत्तमाख्यायिकासु प्रयोज्यम्। तथा चाह भामहः*—‘वक्त्रंक्रं चापरवक्त्रंच काव्ये काव्यार्थशंसिनि’ इति। **तरलयसीत्यादि। अकलुषं मानसं यस्य स निर्मलचेता ब्रह्मा, मानसाख्यं च सरः। लालिता शीलिता। वापिका पुष्करिणी, उप्यन्तेऽस्यां तानि कर्माणीति वापिका मर्त्यभूमिरपि। पङ्कजमालयो यस्य स ब्रह्मा, सरश्च। पर्यनुयुक्ता उपपत्त्या बोधिता। अवगणा केवला सावित्रीव्यतिरेकेण नान्यपरिवारा। **कथमपीति। न भृत्यादिवत्। व्रतिव्रातस्तपस्विसमूहः।
-
तत इत्यादावीदृशं मन्दाकिनीमनुसरन्ती सरस्वती मर्त्यलोकमवततारेति संबन्धः। ध्रुवं नित्यं वियत्। तस्मात्प्रवृत्ताम्। ध्रुवस्तारकाविशेषो ध्रुवान्नित्यस्थानाद्वा विष्णोर्वा ध्रुवावूरू पश्चाद्भागौ सक्थिनी ध्रुवे वा तयोः प्रकर्षेण वृत्तां परिवर्तुलां वा। अध इति पदेन धावनक्रियासहत्वाज्जलस्य ग्रहणं सूच्यते। अत एव धवलाः शुक्लाः पयोधरा मेघा यस्यास्ताम्। इतरत्राधोधावमानाः पयःपूर्णत्वाल्लम्बमानाः क्षीरस्रुतेश्च धवलाः स्तना यस्याः। अधोधावमानं वेगेन प्रसरद्धवलं पयो धारयति या ताम्, अधोधावमानो धवलो यः पयोधो वत्सस्तं राति ददाति या ताम्, धवलो वृषस्तस्मै पयो धारयति या तां वेत्यादिकाः कुव्याख्या एव। उद्धुर उद्भटः। अन्ध-*
उद्धुरध्वनिम्,अन्धकमथनमौलिमालतीमालिकाम्, आलीयमानवालखिल्यरुद्धरोधसमरुन्धतीधौततारवत्वचम् त्वङ्गत्तुङ्गतरङ्गतरत्तरलतरतारतारकाम्, तापसवितीर्णतरलतिलोदकपुलकितपुलिनाम्, आप्लवनपूतपितामहपातितपितृपिण्डपाण्डुरितपाराम्, पर्यन्तसुप्तसप्तर्षिकुशशयनसूचितसूर्यग्रहसूतकोपवासाम्, आचमनशुचिशचीपतिमुच्यमानार्चनकुसुमनिकरशाराम्, शिवपुरापतितनिर्माल्यमन्दारदामकामनादरदारितमन्दरदरीदृषदम्, अनेकनाकनायकनिकायकामिनीकुचकलशविलुलितविग्रहाम्, ग्राहग्रावग्रामस्खलनमुखरितस्रोतसम्, सुषुम्णास्रुतशशिसुधाशीकरस्तबकतारकिततीराम्, धिषणाग्निकार्यधूमधूसरितसैकताम्, सिद्धविरचितवालुकालिङ्गलङ्घनत्रासविद्रुतविद्याधराम्, निर्मोकमुक्तिमिव गगनोरगस्य, लीलाललाटिकामिव त्रिविष्टपविटस्य, विक्रयवीथीमिव पुण्यपण्यस्य, दत्तार्गलामिव नरकनगरद्वारस्य, अंशुकोष्णीषपट्टिकामिव सुमेरुनृपस्य दुगूलकदलिकामिव कैलासकुञ्जरस्य, पद्धतिमिवापवर्गस्य, नेमिमिव कृतयुगस्य, सप्तसागरराजमहिषीं मन्दाकिनीमनुसरन्ती मर्त्यलोकमवततार। अपश्यच्चाम्बरतलस्थितैव हारमिव वरुणस्य, अमृतनिर्झरमिव चन्द्राचलस्य, शशिमणिनिष्यन्दमिव विन्ध्यस्य, कर्पूरद्रुमद्रवप्रवाहमिव दण्डकारण्यस्य, लावण्यरसप्रस्रवणमिव दिशाम्, स्फाटिकशिलापट्टशयनमिवाम्बरश्रियाः, स्वच्छशिशिरसुरसवारिपूर्णं भगवतः पितामहस्यापत्यं हिरण्यवाहनामानं महानदम्, यं जनाः शोण इति कथ-
_______________________________________________
कमथनः शिवः। आलीयमानाः श्लिष्यन्तः। वालखिल्या मुनिभेदाः। रोधस्तटम्। त्वङ्गच्चरत्। आप्लवनं स्नानम्। पितरो देवविशेषाः, आज्यपाः सोमपाः, बर्हिषदश्च। आचमनेत्यादिना पितामहवन्न स्नानादिनिष्ठत्वमस्योच्यते। अत एव शचीपदेन संभोगासक्तत्वमिव पोषितम्। निकायः समूहः। सुषुम्णाख्योऽभृतमयो रविरश्मिः। धिषणो बृहस्पतिः। सिद्धकृतत्वेन लिङ्गेषु भगवत्संनिधानमावेद्यते। निर्मोकः सर्पकञ्चुकः। विस्रसतया शुक्लत्वेन, लहरिकावलीत्वेन च निर्मोकमुक्तिमिवेत्युत्प्रेक्षा। गगनमिवोरगः कृष्णतया। ललाटिका ललाटालंकारः। विटो भुजङ्गः। उष्णीषं शिरोवेष्टनं दिक्षु प्रसिद्धम्। दुगूलशब्दो दुकूलसमानार्थः। पद्धतिर्मार्गः। अपवर्गो मोक्षः। कृतयुगस्य रचितयुगकाष्ठस्य रथस्येत्यर्थः। यथा नेमिवशाद्रथग्रहणं तथा तद्वशात्कृताख्यस्य युगस्य। सप्तसागरराजः क्षीरसमुद्रः। चन्द्राख्यः पर्वत इति केचित्। शशिमणिश्चन्द्रकान्तः। **पितामहस्येति। तद्भक्त्या तदाश्रयणम्। सिकता विद्यन्ते यस्य स सिकतिलः। मत्तशब्देन सशब्दत्वम्, वेणीपदेन च तन्त्रीसंनिवेश-
यन्ति। दृष्ट्वा च तं रामणीयकहृतहृदया तस्यैव तीरे वासमरचयत्। उवाच च सावित्रीम्—‘सखि, मधुरमयूरविरुतयः कुसुमपांशुपटलसिकतिलतरुतलाः परिमलमत्तमधुपवेणीवीणारणितरमणीया रमयन्ति मां मन्दीकृतमन्दाकिनीद्युतेरस्य महानदस्योपकण्ठभूमयः। पक्षपाति च हृदयमत्रैव स्थातुं मे’ इति। अभिनन्दितवचना च तथेति तया तस्य पश्चिमे तीरे समवातरत्। एकस्मिंश्च शुचौ शिलातलसनाथे तटलतामण्डपे गृहबुद्धिं बबन्ध \। विश्रान्ता च नातिचिरादुत्थाय सावित्र्या सार्धमुच्चितार्चनकुसुमा सस्नौ। पुलिनपृष्ठप्रतिष्ठितसैकतशिवलिङ्गा च भक्त्या परमया पञ्चब्रह्मपुरःसरां सम्यङ्मुद्राबन्धविहितपरिकरां ध्रुवागीतिगर्भामवनिपवनवनगगनदहनतपनतुहिनकिरणयजमानमयीर्मूर्तीरष्टावपि ध्यायन्ती सुचिरमष्टपुष्पिकामदात्। अयत्नोपनतेन फलमूलेनामृतरसमप्यतिशिशयिषमाणेन च स्वादिम्ना शिशिरेण शोणवारिणा शरीरस्थितिमकरोत्। अतिवाहितदिवसा च तस्मिंल्लतामण्डपशिलातले कल्पितपल्लवशयना सुष्वाप। अन्येद्युरप्यनेनैव क्रमेण नक्तंदिनमत्यवाहयत्।
एवमतिक्रामत्सु दिवसेषु गच्छति च काले याममात्रोद्गते च वावुत्तरस्यां ककुभि प्रतिशब्दपूरितवनगह्वरं गम्भीरतारतरं तुरहेषितह्रादमशृणोत्। उपजातकुतूहला च निर्गत्य लतामण्डपाद्विलोकयन्ती विकचकेतकीगर्भपत्त्रपाण्डुरं रजः संघातं नातिदवी-
_____________________________________________________________
सादृश्यमाह। वेणी पङ्क्तिः। लिङ्ग्यतेऽनेनेति लिङ्गमाकारः। पञ्च ब्रह्माणि सद्योजातः, वामदेवः, अघोरः, तत्पुरुषः, ईशानश्चेति। मुद्राबन्धो विशिष्टकराङ्गुलिसंनिवेशः। ध्रुवाख्या विशिष्टा गीतिः। वनं तोयम्। यजमान उग्रः। अष्टौ पुष्पाण्येवाष्टपुष्पिका। तत्र गन्धप्रधानं पार्थिवम्, अर्घस्नानादिकं रसप्रधानमाप्यम्, प्रदीपाभरणप्रभादिरूपप्रधानं तैजसम्, अनुलेपनप्रभृति स्पर्शप्रधानं वायवीयम्, सुषिरातोद्यगीतादिकं शब्दप्रधानमाकाशीयम्, अनुध्यानं मानसम् अस्ति सर्वत्रैवेश्वर इति निश्चयो बौद्धम्, अहमेवेश्वर इत्याहंकारिकम्। यद्वा आसनवर्गप्रवृत्तिष्वष्टसु प्रत्येकमष्टपुष्पिका। अतिशेतुमभिभवितुमिच्छतातिशिशयिषमाणेन। स्वादिना मृष्टत्वेन। शरीरस्थितिमिति। न त्वातृप्तिभोजनम्। अन्येद्युरन्यस्मिन्नहनि।
- यामः प्रहरः। नक्तंदिनशब्देन तत्कालनिवर्तनीयं कर्मैव लक्ष्यते। गम्भीरश्चिरकालस्थितः। तारतरो दूरदेशश्रूयमाणः। हेषितमश्वशब्दः, तद्रूपो ह्रादो ध्वनिस्तम्। क्रमेणेत्यादावश्ववृन्दं संददर्शेति संबन्धः। शफरा मत्स्याः। तदुदरवत्तैश्च धूसरे। प्रलम्बेत्यादिना सज्जत्वमुक्तम्। कचाः केशाः। सौकुमार्यात्पल्लवानीव।*
यसि संमुखमापतन्तमपश्यत। क्रमेण च सामीप्योपजायमानाभिव्यक्ति तस्मिन्महति शफरोदरधूसरे रजसि पयसीव मकरचक्रं प्लवमानं पुरः प्रधावमानेन, प्रलम्बकुटिलकचपल्लवघटितललाटजूटकेन, धवलदन्तपत्त्रिकाद्युतिहसितकपोलभित्तिना, पिनद्धकृष्णागुरुपङ्ककल्कच्छुरणकृष्णशबलकषायकञ्चुकेन, उत्तरीयकृतशिरोवेष्टनेन वामप्रकोष्ठनिविष्टस्पष्टहाटककटकेन, द्विगुणपट्टपट्टिकागाढग्रन्थिग्रथितासिधेनुना, अनवरतव्यायामकृशकर्कशशरीरेण, वातहरिणयूथेनेव मुहुर्मुहुः खमुड्डीयमानेन, लङ्घितसमविषमावटविटपेन, कोणधारिणा, कृपाणपाणिना, सेवागृहीतविविधवनकुसुमफलमूलपर्णेन, ‘चल चल, याहि याहि, अपसर्पापसर्प, पुरः प्रयच्छ पन्थानम्’ इत्यनवरतकृतकलकलेन युवप्रायेण, सहस्रमात्रेण पदातिबलेन सनाथमश्ववृन्दं संददर्श।
मध्ये च तस्य सार्धचन्द्रेण मुक्ताफलजालमालिना विविधरत्नखण्डखचितेन शङ्खक्षीरफेनपाण्डुरेण क्षीरोदेनेव स्वयं लक्ष्मीं दातुमागतेन गगनगतेनातपत्रेण कृतच्छायम्, अच्छाच्छेनाभरणद्युतीनां निवहेन दिशामिव दर्शनानुरागलग्नेन चक्रवालेनानुगम्यमानम्, आनितम्बविलम्बिन्या मालतीशेखरस्रजा सकलभुवनविजयार्जितया रूपपताकयेव विराजमानम्, उत्सर्पिभिः शिखण्डखण्डिकापद्मरागमणेररुणैरंशुजालैरदृश्यमानवनदेवताविधृतैर्बालपल्लवैरिव प्रमृज्यमानमार्गरेणुपरुषवपुषम्, बकुलकुड्मलमण्डलीमुण्डमालामण्डनमनोहरेण कुटिलकुन्तलस्तबकमालिना मौलिना मीलितातपं
_______________________________________________________
घटितललाटजूटता दाक्षिणात्येषु वेषः। दन्तपत्त्रिका कर्णाभरणभेदः। पिनद्धो बद्धः। कृष्णागुरुणः पङ्को निर्घृष्टकृष्णागुरुः, तस्य शुक्लस्य सतः कल्कश्चूर्णः, तच्छुरणात्कृष्णेन गुणेन शबलं कषायं साधिवासितं कञ्चुकं वारबाणं यस्य। उत्तरीयेत्यादिना संनद्धतां वर्मादिप्रसङ्गं चाह। वामेत्यनेनाश्रमिस्वभाववर्णना शृङ्गारिता चोक्ता। ‘प्रकोष्ठमन्तरं विद्यादरत्निमणिबन्धयोः’। हाटकं स्वर्णम्। यदेव द्विगुणात एव गाढग्रन्थिसहत्वम्। ग्रथिताविस्रंसिनी। असिधेनुश्छुरिका। वातहरिणो यो वाताभिमुखं धावति। अवट उन्मार्गः। कोणो लगुडः।
- मध्य इत्यादौ तस्य च मध्येऽष्टादशवर्षदेशीयं युवानमद्राक्षीदिति संबन्धः। क्षीरोदस्याप्यर्धचन्द्रादि सर्वं योज्यम्। छाया कान्तिरपि। चक्रवालेन समूहेन। ‘नितम्बशब्दो मुख्यार्थः। ‘पश्चान्नितम्बः स्त्रीकट्याः’ इत्यमरः। शिखण्डखण्डिका चूडाभरणम्।* **प्रमृज्यमानेति। वर्तमानकालोऽत्र विवक्षितः। बकुलेत्यादिना
पिबन्तमिव दिवसम्, पशुपतिजटामुकुटमृगाङ्कद्वितीयशकलघटितस्येव सहजलक्ष्मीसमालिङ्गितस्य ललाटपट्टस्य मनःशिलापङ्कपिङ्गलेन लावण्येन लिम्पन्तमिवान्तरिक्षम्, अभिनवयौवनारम्भावष्टम्भप्रगल्भदृष्टिपाततृणीकृतत्रिभुवनस्य चक्षुषः प्रथिम्ना विकचकुमुदकुवलयकमलसरःसहस्रसंछादितदशदिशं शरदमिव प्रवर्तयन्तम्, आयतनयननदीसीमान्तसेतुबन्धेन ललाटतटशशिमणिशिलातलगलितेन कान्तिसलिलस्रोतसेव द्राघीयसा घोणावंशेन शोभमानम्, अतिसुरभिसहकारकर्पूरकक्कोललवङ्गपारिजातकपरिमलमुचा मत्तमधुकरकुलकोलाहलमुखरेण मुखेन सनन्दनवनं वसन्तमिव वमन्तम्, आसन्नसुहृत्परिहासभावनोत्तानितमुखमुग्धहसितैर्दशनज्योत्स्नास्नपितदिङ्मुखैः पुनः पुनर्नभसि संचारिणं चन्द्रालोकमिव कल्पयन्तम्, कदम्बमुकुलस्थूलमुक्ताफलयुगलमध्याध्यासितमरकतस्य त्रिकण्टककर्णाभरणस्य प्रेङ्खतः प्रभया समुत्सर्पन्त्या कृतसकुसुमहरितकुन्दपल्लवकर्णावतंसमिवोपलक्ष्यमाणम्, आमोदितमृगमदपङ्कलिखितपत्रभङ्गभास्वरम्, भुजयुगलमुद्दाममकराक्रान्तशिखरमिव मकरकेतुकेतुदण्डद्वयं दधानम्, धवलब्रह्मसूत्रसीमन्तितं सागरमथनसामर्षगङ्गास्रोतःसंदानितमिव मन्दरं देहमुद्वहन्तम्, कर्पूरक्षोदमुष्टिच्छुरणपांशुलेनेव कान्तोच्चकुचचक्रवाकयुगलविपुलपुलिनेनोरःस्थलेन स्थूलभुजायामपुञ्जितम्, पुरो विस्तारयन्तमिव दिक्चक्रम्, पुरस्तादीषदधोनाभिनिहितैककोणकमनीयेन पृष्ठतः कक्ष्याधिकक्षिप्तपल्लवेनोभयतःसंवलनप्रकटितोरुत्रिभागेन हारीतहरिता निबिडनिपीडितेनाधरवाससा विभज्यमानतनुतरमध्यभागम्, अनवरतश्रमोपचितमांसकठिनविकटमक-
_______________________________________________________
निपीयमानातपतुल्यवस्तुनिर्देशः। कुन्तलः केशहस्तः स एव स्तबकः। पुष्पस्तवकः पुष्पसंघातः। सहजाकृत्रिमा, सहोत्पन्ना च लक्ष्मीः शोभना, श्रीश्च। लावण्यमत्र कान्तिः। अवष्टम्भो गर्वः। द्राघीयसा दीर्घतरेण। सहकारः सुगन्धद्रव्यभेदः सहकारफलेनेव क्रियते। पारिजातकोऽनेकद्रव्यसंस्कृतो मुखवासविशेषः, देववृक्षश्च। वसन्तश्चैवंविधेनैव मुखेन प्रारम्भेनोपलक्षितो भवति। रत्नत्रितयेन कृतं त्रिकोणकण्टकाख्यं कर्णाभरणम्। मृगमदः कस्तूरिका। संदानितं बद्धम्। वेष्टितमित्यर्थः। कुचावत्र कान्तासंबन्धिनावेव चक्रवाकयुगलं तस्य कृते पुलिनसदृशम्। कोणः पल्लवः। पृष्ठतः पश्चाद्भागे कक्ष्यायाः परिवलनादधिकस्रुतिरित्यतः क्षिप्तो लम्बमानः पल्लवो यस्य तत्। संवलनं संकोचनम्। हारीतः पक्षिभेदः। हरिता नीलेन।
रमुखसंलग्नजानुभ्यां विशालवक्षःस्थलोपलवेदिकोत्तम्भनशिलास्तम्भाभ्यां चारुचन्दनस्थासकस्थूलकान्तिभ्यामूरुदण्डाभ्यामुपहसन्तमिवैरावतकरायामम्, अतिभरितोरुभारवहनखेदेनेव तनुतरजङ्घाकाण्डम्, कल्पपादपपल्लवद्वयस्येव पाटलस्योभयपार्श्वावलम्बिनः पादद्वयस्य दोलायमानैर्नखमयूखैरश्वमण्डनचामरमालामिव रचयन्तम्, अभिमुखमुच्चैरुदञ्चद्भिरतिचिरमुपरिविश्राम्यद्भिरिव वलितविकटम्, पतद्भिः खुरैः खण्डितभुवि प्रतिक्षणदशनविमुक्तखणखणायितखरखलीने दीर्घघ्राणलीनलालिके ललाटलुलितचारुचामीकरचक्रके शिञ्जानशातकौम्भजयनशोभिनि मनोरंहसि गोलाङ्गूलकपोलकालकायलोम्निनीलसिन्धुवारवर्णे वाजिनि महति समारूढम्, उभयतः पर्याणपट्टश्लिष्टहस्ताभ्यामासन्नपरिचारकाभ्यां दोधूयमानधवलचामरिकायुगलम्, अग्रतः पठतो बन्दिनः सुभाषितमुत्कण्टकितकपोलफलकेन लग्नकर्णोत्पलकेसरपक्ष्मशकलेनेव मुखशशिना भावयन्तम्, अनङ्गयुगावतारमिव दर्शयन्तम्, चन्द्रमयीमिव सृष्टिमुत्पादयन्तम्, विलासप्रायमिव जीवलोकं जनयन्तम्, अनुरागमयमिव सर्गान्तरमारचयन्तम्, शृङ्गारमयमिव दिवसमापादयन्तम्, रागराज्यमिव प्रवर्तयन्तम्, आकर्षणाञ्जनमिव चक्षुषोः, वशीकरणमन्त्रमिव मनसः, स्वस्थावेशचूर्णमिवेन्द्रियाणाम्, असंतोषमिव कौतुकस्य, सिद्धयोगमिव सौभाग्यस्य,
___________________________________________________________
मकरमुखं जानुनोरुपरिभागः। उत्तम्भनं धारणम्। स्थासकश्चन्द्रकः। आयामो दैर्घ्यम्। न केवलमायामं शुक्लत्वमप्युपहसन्तम्। धर्मयोरेकनिर्देशोऽन्यसंवित्साहचर्यात्। ‘अतिभरितोरुभारवहनेन’ इति पाठः। ऊरू एव भारः। प्रशस्ता जङ्घा जङ्घाकाण्डम्। कल्पपादपसंबन्धितया न केवलं लौहित्यं सौकुमार्याद्युच्यते। यावत्सकलसंपत्फलप्रदत्वादिप्रकर्षान्तरम्। अतिचिरमित्यादिनानाकुलत्वमुच्यते। यदुक्तम्—‘आवृताः कुञ्चिताः स्थूलदलपाल्यग्रसंस्थिताः। विवर्ज्याश्चाकुलपदन्यासेन गमनेन च॥’ इति। विकटं चित्रम्। खुरैरिति।* तद्व्यापारवैचित्र्याद्बहुत्वमग्रिमयोरेव। एवंविधसंनिवेशसंभवात्। खलीनं कविका। लालिका कविकाशेखरम्। जयनं हयमण्डनमाला। गोलाङ्गूलः कृष्णमुखो वानरः। नीलेत्यादौ कुमुदकुन्दमृणालगौर इत्यादिवन्न पौनरुक्त्यम्।* महतीति। उक्तं च—‘सर्वलक्षणहीनोऽपि महाकायः प्रशस्यते’इति। आसन्नेत्यनेन विश्वसनीयत्वमुक्तम्। अनङ्गयुगेति। अनङ्गजन्मना यदुपलक्षितं युगं कालविशेषस्तस्य नूतनमदनसादृश्यात्। यद्वा अनङ्गयोर्युगं तदवतारमिव। द्वित्वसंख्यापूर्वकत्वात्। चन्द्रमयीमिवेति कान्तिमत्त्वेन। आकर्षणाञ्जनं वशीकरणार्थं कज्जलम्। असंतोषमिवेति।* यस्यैनं प्राप्य कौतुकं न निवर्तते,*
पुनर्जन्मदिवसमिव मन्मथस्य, रसायनमिव यौवनस्य, एकराज्यमिव रामणीयकस्य, कीर्तिस्तम्भमिव रूपस्य मूलकोषमिव लावण्यस्य, पुण्यकर्मपरिणाममिव संसारस्य, प्रथमाङ्कुरमिव कान्तिलतायाः, सर्गाभ्यासफलमिव प्रजापतेः, प्रतापमिव विभ्रमस्य, यशः प्रवाहमिव वैदग्ध्यस्य, अष्टादशवर्षदेशीयं युवानमद्राक्षीत्।
पार्श्वे च तस्य द्वितीयमपरसंश्लिष्टतुरङ्गम्, प्रांशुमुत्तप्ततपनीयस्तम्भाकारम्, परिणतवयसमपि व्यायामकठिनकायम्, नीचनखश्मश्रुकचम्, शुक्तिखलतिम्, ईषत्तुन्दिलम्, रोमशोरःस्थलम्, अनुल्बणोदारवेशतया जरामपि विनयमिव शिक्षयन्तम्, गुणानपि गरिमाणमिवानयन्तम्, महानुभावतामपि शिष्यतामिवानयन्तम्, आचारस्याप्याचार्यकमिव कुर्वाणम्, धवलवारबाणधारिणम्, धौतदुकूलपट्टिकापरिवेष्टितमौलिं पुरुषम्।
अथ स युवा पुरोयायिनां यथादर्शनं प्रतीत्य विस्मितमनसां कथयतां पदातीनां सकाशादुपलभ्य दिव्याकृति तत्कन्यायुगलमुपजातकुतूहलः प्रतूर्णतुरगो दिदृक्षुस्तं लतामण्डपोद्देशमाजगाम। दूरादेव च तुरगादवततार। निवारितपरिजनश्च तेन द्वितीयेन साधुना सह चरणाभ्यामेव सविनयमुपससर्प। कृतोपसं-
____________________________________________________________
तस्य संतोष एव नास्ति। केषांचिदेव द्रव्याणां संबन्धी यो न कदाचित्कार्ये व्यभिचरति स सिद्धयोगः। सौभाग्यं तावत्सर्वं किंचन वशीकुरुते, एवं चास्य तदेव सिद्धयोग इव तदाश्रयणतन्निःशेषलोकवशीकरणक्षमत्वम्। जन्मदिवसमिति तद्गोचरपतितानां कामोत्पत्तेः। रसायनमिवेति। यथा रसायनवशात्कश्चित्परिपूर्णश्च स्थिरश्च भवति, तद्वदेतदाश्रयेण यौवनम्। ईषदसमाप्तोऽष्टादशवर्षोऽष्टादशवर्षदेशीयस्तम्। न परेण संश्लिष्टस्तुरङ्गो यस्य तम्। दधीचस्य तु पर्याणश्लिष्टाद्युक्तम्। परिणतवयस्त्वेन सत्यवादिना सावित्रीसरस्वत्यौ प्रति च विस्रम्भकारित्वमुच्यते। अन्यथोपक्रम एव संभाषणमात्रं न प्रवर्तते।
- शुक्तिखलर्तिं शुक्लाकारखल्वाटम्। तुन्दिलं लम्बोदरम्। अत एवास्य विकुक्षिरिति नाम। अनुल्बणोऽनुद्धतः। उदारः श्रेष्ठः।* जरामिति।* जरा किल सर्वं विनयं शिक्षयति। महानुभावता महाशयता। अनुभावयति कार्यमकार्यं वा बोधयतीत्यनुभावः। * शिष्यतामिति। * परशासनदक्षकर्म महानुभावतया तत एवावसीयत इत्युक्तं भवति। आचारः शास्त्रकारप्रदर्शिता विशिष्टा विनीतिः। स च सर्वस्मिन्नाचार्यकमवलम्बते। संस्कारातिशयमापादयतीत्यर्थः। वलक्षः शुक्लः। वारबाणः कञ्चुकः। मौलेयाः केशाः।*
*** अथेति।** नतु गतागतिकतया सर्वचेतनाभिप्रायेण सौन्दर्यमेतयोरभिव्यज्यते। प्रतीत्य न पुनः प्रसङ्गत उपेत्य। कन्यकात्वादेतन्नानुचितम्। प्रतूर्णो वेगगामी*
ग्रहणौ तौ सावित्री समं सरस्वत्या किसलयासनदानादिना सकुसुमफलार्ध्यावसानेन वनवासोचितेनातिथ्येन यथाक्रममुपजग्राह। आसीनयोश्च तयोरासीना नातिचिरमिवस्थित्वा तं द्वितीयं प्रवयसमुद्दिश्यावादीत्—‘आर्य, सहजलज्जाधनस्य प्रमदाजनस्य प्रथमाभिभाषणमशालीनता, विशेषतो वनमृगीमुग्धस्य कुलकुमारीजनस्य। केवलमियमालोकनकृतार्थाय चक्षुषे स्पृहयन्ती प्रेरयत्युदन्तश्रवणकुतूहलिनी श्रोत्रवृत्तिः। प्रथमदर्शने चोपायनमिवोपनयति सज्जनः प्रणयम्। अप्रगल्भमपि जनं प्रभवता प्रश्रयेणार्पितं मनो मध्विव वाचालयति। अयत्नेनैव चातिनम्रे साधौ धनुषीव गुणः परां कोटिमारोपयति विस्रम्भः। जनयन्ति च विस्मयमतिधीरधियामप्यदृष्टपूर्वा दृश्यमाना जगति स्रष्टुः सृष्ट्यतिशयाः। यतस्त्रिभुवनाभिभावि रूपमिदमस्य महानुभावस्य। सौजन्यपरतन्त्रा चेयं देवानांप्रियस्यातिभद्रता कारयति कथां न तु युवतिजने सहोत्था तरलता। तत्कथयागमनेनापुण्यभाक्कतमो विजृम्भितविरहव्यथः शून्यतां नीतो देशः। क्व वा गन्तव्यम्। कस्य वायमपहृतहरहुंकाराहंकारोऽपर इवानन्यजो युवा। किंनाम्नः समृद्धतपसः पितुरयममृतवर्षी कौस्तुभमणिरिव हरेर्हृदयमाह्लादयति। का चास्य त्रिभुवननमस्या प्रभातसंध्येव महतस्तेजसो जननी। कानि वास्य पुण्यभाञ्जिभजन्त्यभिख्यामक्षराणि।
____________________________________________________
साधुना विनीतेन। ‘उपसंग्रहणं धीराः कथयन्त्यभिवादनम्’। आतिथ्यमेवोपजग्राहापूजयत्। ‘प्रवयाः स्यात्परिणतः’। अशालीनता धृष्टता। वनशब्देन मृगीसामान्येऽपि जनसंपर्काद्यभावमाह। उपायनं ढौकनिका। उपनयति ढौकयति। **प्रगल्भमित्यादि। मनः कर्तृ अप्रगल्भमपि जनं वाचालयति। कीदृशम्। प्रभवता स्वामिना प्रश्रयेण प्रत्यर्पितं दत्तमेवंविधमस्मदीयं युष्मासु मन इति’बहिःप्रकाशितं यश्च परतश्च केनापि प्रभावशीलेन ढौकितं मध्वप्रगल्भमपि जनं कुलयोषित्प्रायं वाचालयति किंचन जल्पयति। अत्रापि प्रश्रयेणेति साभिप्रायम्। तथा च—‘अन्यथान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या। नीतभूरिसुरयापि न मोदे निर्वृतिर्हि मनसो मदहेतोः॥’ इत्युक्तम्। नम्रे प्रह्वे, कुब्जे च। गुणो विनयादिः, ज्या च। कोटिः प्रकर्षः, धनुःशिखा च। देवानांप्रियस्येति पूजावचनम्। षष्ठ्याअलुक्। अत्रागमनेत्यादिना ब्रह्मोक्तशापबुद्ध्या दधीचस्य तद्भर्तृयोग्यतया कतम इति देशोत्कर्षकुलादिकं पृच्छति—कस्येति। देवस्य। सिद्धा देवाः। अनन्यजः कामः। महतस्तेजस इति। महश्च तेजः सूर्याख्यम्। अभिख्या नाम। अयमेव
आर्यपरिज्ञानेऽप्ययमेव क्रमः कौतुकानुरोधिनो हृदयस्य’ इत्युक्तवत्यां तस्यां प्रकटितप्रश्रयोऽसौ प्रतिव्याजहार—‘आयुष्मति, सतां हि प्रियंवदता कुलविद्या। न केवलमाननं हृदयमपि च ते चन्द्रमयमिव सुधाशीकरशीतलैरानन्दयति वचोभिः।सौजन्यजन्मभूमयो भूयसा शुभेन सज्जननिर्माणशिल्पकला भवादृश्यो जायन्ते। दूरे तावदन्योन्यस्यालापनमभिजातैः सह दृशोऽपि मिश्रीभूता महतीं भूमिमारोपयन्ति। श्रूयताम्—‘अयं खलु भूषणं भार्गववंशस्य भगवतो भूर्भुवःस्वस्त्रितयतिलकस्य, अदभ्रप्रभावस्तम्भितजम्भारिभुजस्तम्भस्य, सुरासुरमुकुटमणिशिलाशयनदुर्ललितपादपङ्केरुहस्य, निजतेजःप्रसरप्लुष्टपुलोम्नश्चवनस्य बहिर्वृत्तिजीवितं दधीचो नाम तनयः। जनन्यप्यस्य जितजगतोऽनेकपार्थिवसहस्रानुयातस्य शर्यातस्य सुता राजपुत्री त्रिभुवनकन्यारत्नं सुकन्या नाम। तां खलु देवीमन्तर्वत्नीं विदित्वा वैजनने मासि प्रसवाय पिता पत्युः पार्श्वात्स्वगृहमानाययत्। असूत च सा तत्र देवी दीर्घायुषमेनम्। अनेहसावर्धत तत्रैवायमानन्दितज्ञातिवर्गो बालस्तारकराज इव राजीवलोचनो राजगृहे। भर्तृभवनमागच्छन्त्यामपि दुहितरि नासेचनकदर्शनमिममुञ्चन्मातामहो मनोविनोदनं नप्तारम्। अशिक्षतायं तत्रैव सर्वा विद्याः सकलाश्च कलाः। कालेन चोपारूढयौवनमिममालोक्याहमिवासावप्यनुभवतु मुखकमलावलोकनानन्दमस्येति मातामहः कथंकथमप्येनं पितुर-
_______________________________________________________
**क्रम इति। यथास्योत्पत्त्यादिकं तद्वद्भवतोऽपीत्यर्थः। कला उपायः। भूरिति रेफान्तो भूवाची। भुव इति रेफान्तः पातालवाची। भूश्चभुवश्च स्वश्च भूर्भुवःस्वः। एषां त्रयमिति समासः। अदभ्रोऽनल्पः। जम्भारिरिन्द्रः। स ह्यश्विभ्यां यज्ञभागभुजौ कुर्वावामिति चिरं प्रार्थितः। तथेति प्रतिपद्य ताभ्यां भागं दददिन्द्रेणोद्यतवज्रेण रोषितः। ततस्तेनास्य सवज्रः स्तम्भितो भुज इति। दुर्ललितोऽलभ्यविषयः। **प्लुष्टपुलोम्न इति। अनवरतं रुदत्यां दुहितरि कोपान्मात्रा गृहाणेमामिति पुलोम्नो राक्षसस्योक्तम्। ततस्तां प्रतिगृह्य तत्रैव स्थापयित्वा क्वापि गते रक्षसि सा भृगुणा विवाहिता। ततः सगर्भा सती पुलोम्नागत्यापह्नियमाणतया च्यवनं गर्भमत्याक्षीत्। तेन चान्वर्थनाम्ना तद्रक्षो दृष्ट्वैवादह्यत। अन्तर्वत्नीं गर्भिणीम्। वैजनने मासि प्रसवमासे। दीर्घायुषमिति साभिप्रायम्। रूपकुलाद्युत्कर्षे वर्णिते सत्येतदेव वरगुणवर्णनमवशिष्यते। अनेहसा परिपूर्णेन कालेन। ‘न जायते यत्र तृप्तिस्तदासेचनकं विदुः’। नप्तारं पौत्रम्।
न्तिकमधुना व्यसर्जयत्। मामपि तस्य देवस्य सुगृहीतनाम्नः शर्यातस्याज्ञाकारिणं विकुक्षिनामानं भृत्यपरमाणुमवधारयतु भवती। पितुः पादमूलमायान्तं मया साभिसारमकरोत्स्वामी। तद्धि नः कुलक्रमागतं राजकुलम्। उत्तमानां च चिरंतनता जनयत्यनुजीविन्यपि जने कियन्मात्रमपि मन्दाक्षम्। अक्षीणः खलु दाक्षिण्यकोशो कोशो महताम्। इतश्च गव्यूतिमात्रमिव पारेशोणं तस्य भगवतश्च्यवनस्य स्वनाम्ना निर्मितव्यपदेशं च्यावनं नाम चैत्ररथकल्पं काननं निवासः। तदवधिश्चेयं नौ यात्रा। यदि च गृहीतक्षणं दाक्षिण्यमनवहेलं वा हृदयमस्माकमुपरि भूमिर्वा प्रसादानामयं जनः श्रवणार्हो वा, ततो न विमाननीयोऽयं नः प्रथमः प्रणयः कुतूहलस्य। वयमपि शुश्रूषवो वृत्तान्तमायुष्मत्योः। नेयमाकृतिर्दिव्यतां व्यभिचरति। गोत्रनामनी तु श्रोतुमभिलषति नौ हृदयम्। तत्कथय कतमो वंशः स्पृहणीयतां जन्मना नीतः। का चेयमत्रभवती भवत्याः समीपे समवाय इव विरोधिनां पदार्थानाम्। तथा हि। संनिहितबालान्धकारा भास्वन्मूर्तिश्च, पुण्डरीकमुखी हरिणलोचना च, बालातपप्रभाधरा कुमुदहासिनी च, कलहंसस्वना समुन्नतपयोधरा च, कमलकोमलकरा हिमगिरिशिलापृथुनितम्बा च, करभोरुर्विलम्बितगमना च, अमुक्तकुमारभावा स्निग्धतारका च’ इति। सा त्ववादीत्—‘आर्य, श्रोष्यसि कालेन। भूयसो दिवसानत्र स्थातुमभिलषति नौ हृदयम्। अल्पीयांश्चायमध्वा। परिचय एव प्रकटीकरिष्यति। आर्येण न विस्मरणीयोऽयमनुषङ्ग-
________________________________________________________
साभिसारं ससहायम्। मन्दाक्षमुपरोधम्। गव्यूतिः क्रोशद्वयम्। यात्रा प्रस्थानम्। गोत्रं वंशः। समवाय एकत्रस्थितिः। बालेषु केशेष्वन्धकारं तम इति यस्या बालं प्रत्यग्रम्। भास्वती मूर्तिमती, भास्वत आदित्यस्य च मूर्तिः। न कदाचित्संनिहितबालान्धकारा भवतीति विरोधः। पुण्डरीकं पद्मम्, सिंहश्च तस्य मुखं यत्र तत्र कथं हरिणस्य विलोचने स्त इति विरोधः। पयोधरौ स्तनौ, मेघाश्च पयोधराः। कलहंसानां स्वनो यस्यां सा। सरित्कथं प्रावृड् भवतीति विरोधः। करो हस्तः, रश्मिश्च। शिला वातवज्रीभूतं हिमम्। यत्र च हिमगिरिशिलाभिः पृथुर्मध्यभागस्तत्र कथं पद्मकोमलकान्तिः। हिमस्पर्शे पद्मनाशात्। ‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ करभश्चोष्ट्रः। विलम्बितं सविलासम्, लम्बितश्च करभो यस्याः। करभोरुः कथं विगतकरभगमनेति विरोधः। कुमारभावो बाल्यम्, कुमारे च भावो भक्तिः। स्निग्धो रम्यः, प्रतीतश्च। तारकाक्ष्णः कनीनिका, दैत्यभेदश्च तारकः स्कन्देन यो हतः। परिचयः संस्तवः। अनुषङ्गः
दृष्टो जनः’ इत्यभिधाय तूष्णीमभूत्। दधीचस्तु नवाम्भोभरगभीराम्भोधरध्वाननिभया भारत्या नर्तयन्वनलताभवनभाजो भुजगभुजः सुधीरमुवाच—‘आर्य, करिष्यति प्रसादमार्याराध्यमाना। पश्यामस्तावत्तातम्। उत्तिष्ठ। व्रजामः’ इति। तथेति च तेनाभ्यनुज्ञातः शनकैरुत्थाय कृतनमस्कृतिरुच्चचाल। तुरगारूढं च तं प्रयान्तं सरस्वती सुचिरमुत्तम्भितपक्ष्मणा निश्चलतारकेण लिखितेनेव चक्षुषा व्यलोकयत्। उत्तीर्य च शोणमचिरेणैव कालेन दधीचः पितुराश्रमपदं जगाम। गते च तस्मिन्सा तामेव दिशमालोकयन्ती सुचिरमतिष्ठत्। कृच्छ्रादिव च संजहार दृशम्।
अथ मुहूर्तमिव स्थित्वा स्मृत्वा च तां तस्य रूपसंपदं पुनः पुनर्व्यस्मयतास्या हृदयम्। भूयोऽपि चक्षुराचकाङ्क्ष तद्दर्शनम्। अवशेष केनाप्यनीयत तामेव दिशं दृष्टिः। अप्रहितमपि मनस्तेनैव सार्धमगात्। अजायत च नवपल्लव इव बालवनलतायाः कुतोऽप्यस्या अनुरागश्चेतसि। ततःप्रभृति च सालस्येव शून्येव सनिद्रेव दिवसमनयत्। अस्तमुपयाति च प्रत्यक्पर्यस्तमण्डले लाङ्गलिकास्तबकताम्रत्विषि कमलिनीकामुके कठोरसारसशिरःशोणशोचिषि सावित्रे त्रयीमये तेजसि, तरुणतरतमालश्यामले च मलिनयति व्योम व्योमव्यापिनि तिमिरसंचये, संचरत्सिद्धसुन्दरी-
__________________________________________________________
प्रसङ्गः। विकुक्षिप्रार्थितयापि सावित्र्या कौतुकनिवृत्तिर्माभूदित्यात्मस्वरूपं नोक्तम्। अत एवोत्तरत्र तदनुबन्ध एवोक्तः—भूयसो दिवसानित्यादिना।स्वरूपोक्तौ च ज्ञातसरस्वतीकत्वेनापत्यजननकार्यभङ्गो भवेत्। भारती वाक्। भुजगभुजो मयूरान्, भुजग इव भुजावस्येति च। उच्चचाल गन्तुं प्रवृत्तः। उत्तम्भितान्युत्क्षिप्तानि।
- कुतोऽपि कस्मादपि न ज्ञायत इत्यर्थः। मनुष्यतस्तथाविधस्तादृश्याः कथमनुराग इति। कथमेतदस्या उपपद्यत इति न वाच्यम्। यदाह मुनिः—शापभ्रं शात्तु दिव्यानां तथा चापत्यलिप्सया। कार्यो मानुषसंयोगः शृङ्गाररससंश्रयः॥’ इति। अन्यत्र कुतः क्षितेर्नवपल्लवोऽनुरागहतो लतार्थो जायत इत्येवमभिलाषरूपं प्रथमं दशान्तरमालभ्येत्यादिना द्वितीयचिन्तनरूपमाह। अनयत्कष्टेनात्यवाहयत्। अस्तमित्यादौ पल्लवशयने तस्थाविति संबन्धः। प्रतीच्यां पश्चिमायाम्। लाङ्गलिकाफलिनी। मयूरशिखौषधिरित्यपरे, रक्तिकेत्यन्ये। कमलिनीकामुक इति सरस्वतीदयिताभिप्रायेणोक्तम्। कठोरो जरठः। सारसो लक्ष्मणः। शोणो लोहितः। शोचिर्दीप्तिः। ‘ऋग्यजुःसामनामानि त्रयो वेदास्त्रयी स्मृता। वेदे च पठ्यते सैषा’।*
नूपुररवानुसारिणि च मन्दं मन्दं मन्दाकिनीहंस इव समुत्सर्पति शशिनि गगनतलम्, कृतसंध्याप्रणामा निशामुख एव निपत्य विमुक्ताङ्गी पल्लवशयने तस्थौ। सावित्र्यपि कृत्वा यथाक्रियमाणं सायंतनं क्रियाकलापमुचिते शयनकाले किसलयशयनमभजत। जातनिद्रा च सुष्वाप।
इतरा तु मुहुर्मुहुरङ्गवलनैर्विलुलितकिसलयशयनतला निमीलितलोचनापि नाभजत निद्राम्। अचिन्तयच्च—‘मर्त्यलोकः खलु सर्वलोकानामुपरि, यस्मिन्नेवंविधानि संभवन्ति त्रिभुवनभूषणानि सकलगुणग्रामगुरूणि रत्नानि। तथा हि। तस्य मुखलावण्यप्रवाहस्य निष्यन्दबिन्दुरिन्दुः। तस्य च चक्षुषो विक्षेपा विकचकुमुदकुवलयकमलाकराः। तस्य चाधरमणेर्दीधितयो विकसितबन्धूकवनराजयः। तस्य चाङ्गस्य परभागोपकरणमनङ्गः। पुण्यभाञ्जि तानि चक्षूंषि चेतांसि यौवनानि वा स्त्रैणानि, येषामसावविषयो दर्शनस्य। क्षणं नु दर्शयता च तमन्यजन्मजनितेनेव मे फलितमधर्मेण। का प्रतिपत्तिरिदानीम्’ इति चिन्तयन्त्येव कथंकथमप्युपजातनिद्रा चिरात्क्षणमशेत। सुप्तापि च तमेव दीर्घलोचनं ददर्श।
_____________________________________________________________
त्रय्येव विद्या तपतीति। ‘कृत—‘इत्यादिना ‘तस्थौ’ इत्यन्तेन क्रियान्तरत्यागेन वैमनस्यमावेद्यते। ‘वेपते श्वसते चैव मनोरथविचिन्तनैः। प्रद्वेषेणान्यकार्याणामनुस्मृतिरपीष्यते॥‘निशामुख एवेति।** न पुनरुचिते शयनकाले विमुक्ताङ्गीत्यनेन निःसहाङ्गत्वमस्या दर्श्यते। **तस्थाविति। न पुनर्निद्रामलभत। यथाक्रियमाणमित्यनेन च सरस्वतीतोऽस्या व्यतिरेकं दर्शयन्सरस्वत्या एवानङ्गावस्थामाह।
- विलुलितं विपर्यासितम्। मर्त्यलोक इत्यादिना गुणकीर्तनम्। चतुर्थमवस्थाविशेषमाह। तदुक्तम्—‘अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टासहितेक्षणैः। नास्त्यन्यः ‘सदृशस्तेन तदेतद्गुणकीर्तनम्॥’ इति। गुणा वैदग्ध्यादयः, सूत्राणि च। तद्वशेन गुरूणि बहुमानभाञ्जि। इतरत्र तु तिष्ठतु तावदेकः। गुणग्रामस्यापि गुणिरूपितेनापि दुर्वहानीति यावत्।तस्येति।*** पूर्वानुभूतस्य बिन्दुरिति न केवलं लावण्यप्रवाहाभिप्रायेण यावत्संनिवेशसादृश्यात्। विक्षेपाः परतः प्रेरणानि। कुमुदेत्याद्युक्तम्। शुक्लकृष्णरक्तरुचित्वाच्चक्षुषो दीधितय इति मणिशब्दाभिप्रायेण। विकसितशब्देन लौहित्यातिशयमाह। अङ्गानि विद्यन्ते यस्य तदङ्गं शरीरम्। परभागो वर्णस्य वर्णान्तरेण शोभातिशयः। स्त्रैणानि स्त्रीसंबन्धीनि। का प्रतिपत्तिः किमनुष्ठेयम्। मदन—इत्यादिनोद्वेगरूपं पश्चममवस्थाभेदमाह। यदुक्तम्—‘आसने शयने वापि न हृष्यति न तुष्यति। नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च। कुर्यात्तदेवमत्यन्तमुद्योगाभिनयेन च॥’ इति। दश किल
स्वप्नासादितद्वितीयदर्शना चाकर्णाकृष्टकार्मुकेण मनसि निर्दयमताड्यत मकरकेतुना। प्रतिबुद्धाया मदनशरताडितायाश्च तस्या वार्तामिवोपलब्धुमरतिराजगाम। तथा हि। ततःप्रभृति कुसुमधूलिधवलाभिर्वनलताभिरताडितापि वेदनामधत्त। मन्दमन्दमारुतविधुतैः कुसुमरजोभिरदूषितलोचनाप्यश्रुजलं मुमोच। हंसपक्षतालवृन्तवातव्रातविततैः शोणशीकरैरसिक्ताप्यार्द्रतामगात्। प्रेङ्खत्कादम्बमिथुनाभिरनूढाप्यघूर्णत वनकमलिनीकल्लोलदोलाभिः। विघटमानचक्रवाकयुगलविसृष्टैरस्पृष्टापि श्यामतामाससाद विरहनिःश्वासधूमैः। पुष्पधूलिधूसरैरदष्टापि व्यचेष्टत मधुकरकुलैः।
अथ गणरात्रापगमे निवर्तमानस्तेनैव वर्त्मना तं देशमागत्य तथैव निवारितपरिजनश्छत्रधारद्वितीयो विकुक्षिर्डुढौके। सरस्वती तु तं दूरादेव संमुखमागच्छन्तं प्रीत्या सम्यक्समुत्थाय वनमृगीवोद्ग्रीवा विलोकयन्ती मार्गोपरिश्रान्तमस्नपयदिव धवलितदशदिशा दृशा। कृतासनपरिग्रहं तु तं प्रीत्या सावित्री पप्रच्छ—‘आर्य, कच्चित्कुशली कुमारः’ इति। सोऽब्रवीत्—‘आयुष्मति, कुशली। स्मरति च भवत्योः। केवलममीषु दिवसेसु तनीयसीमिव तनुं बिभर्ति। अविज्ञायमानां चानिमित्तां शून्यतामिवाधत्ते। अपि
____________________________________________________________
कामावस्थाः। तदुक्तम्—‘प्रथमे त्वभिलाषः स्याद्द्वितीये चिन्तनं भवेत्। अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम्॥ उद्वेगः पञ्चमे प्रोक्तः प्रलापः षष्ठ उच्यते। उन्मादः सप्तमे चैव भवेद्व्यधिस्तथाष्टमे॥ नवमे जडता प्रोक्ता दशमे मरणं भवेत्॥’ इति। अरतिर्दुःखासिका हि कामवधूप्रतिपक्षभूतेति तदागमनाभिधानम्। हंसपक्षा इव तालवृन्तं व्यजनम्। आर्द्रतां सस्नेहताम्, क्लिन्नतां च। प्रेङ्खद्दोलायमानम्। कादम्बाः कृष्णहंसाः। श्यामता शृङ्गाररसाविष्कारिवैवर्ण्यम्। यदुक्तम्—शृङ्गारदेवो भगवान्मुरारिः संगीयते श्यामवपुर्मुरारिः। श्यामो मनाविस्नग्धतरश्च तेन शृङ्गारशंसी मुखराग उक्तः॥’ अथ श्यामता सधूमता। श्यामत्वेऽपि सधूमता इति विरोधाभासः।
- गणरात्रं निशाबह्वयः।* **तेनैव वर्त्मनेति। अनेन तस्य यदृच्छया तदाश्रयमागमनमिति दर्शयति। प्रधानप्रकृतेः स्थवीयसस्तथाविधव्यापारविनियोगादिनौचित्यात्। अत एव वक्ष्यति—‘यथाभिलषितं देशमयासीत्’। डुढौके इत्यनेन निमित्तपरतन्त्रया संनिकृष्टमेवैनमालुलोकेति प्रदर्शितम्। यदुक्तम्—‘पटुता धार्ष्ट्यता इङ्गिताकारज्ञानं प्रतारणे देशकालज्ञता कार्येषु विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सापाया च इति दूतीगुणाः’। भरतमुनिरपि—‘विज्ञानगुणसंपन्ना कथिनी लिङ्गिनी तथा। रङ्गोपजीविनी चापि प्रतिपत्तिविचक्षणा॥ प्रोत्साहनैककुशलेत्यादिदूतीगुणैर्युता॥’
च। अन्वक्षमागमिष्यत्येव मालतीति नाम्ना वाणिनी वार्तां वो विज्ञातुम्। उच्छ्वसितं सा कुमारस्य’ इति। तच्छ्रुत्वा पुनरपि सावित्री समभाषत–‘अतिमहानुभावः खलु कुमारो यदेवमविज्ञायमाने क्षणदृष्टेऽपि जने परिचितिमनुबध्नाति। तस्य हि गच्छतो यदृच्छया कथमप्यंशुकमिव मार्गलतासु मानसमस्मासु मुहूर्तमासक्तमासीत्। अशून्यं हि सौजन्यमाभिजात्येन वः स्वामिसूनोः। अलसः खलु लोको यदेवं सुलभसौहार्दानि येनकेनचिन्न क्रीणाति महतां मनांसि। सोऽयमौदार्यातिशयः कोऽपि महात्मनामितरजनदुर्लभो येनोपकरणीकुर्वन्ति त्रिभुवनम्’ इति। विकुक्षिरुच्चावचैरालापैः सुचिरमिव स्थित्वा यथाभिलषितं देशमयासीत्।
अपरेद्युरुद्यति भगवति द्युमणावुद्दामद्युतावभिद्रुततारके तिरस्कृततमसि तामरसव्यासव्यसनिनि सहस्ररश्मौ शोणमुत्तीर्यायान्ती, तरलदेहप्रभावितानच्छलेनात्यच्छं सकलं शोणसलिलमिवानयन्ती, स्फुटितातिमुक्तककुसुमस्तबकसमत्विषि सटाले महति मृगपताविव गौरी तुरंगमे स्थिता, सलीनमुरोवध्रारोपितस्य तिर्यगुत्कर्णतुरगाकर्ण्यमाननूपुरपटुरणितस्यातिबहलेन पिण्डालक्तकेन पल्लवितस्य कुङ्कुमपिञ्जरितपृष्ठस्य चरणयुगलस्य प्रसरद्भिरतिलोहितैः प्रभाप्रवाहैरुभयतस्ताडनदोहदलोभागतानि किसलयितानि रक्ताशोकवनानीवाकर्षयन्ती, सकलजीवलोकहृदयहठहरणाघोषणयेव रशनया शिञ्जानजघनस्थला, धौतधवलनेत्रनिर्मितेन निर्मोकलघुतरेणाप्रपदीनेन कञ्चुकेन तिरोहिततनुलता,
_______________________________________________________
इति। अत एवागृह्णच्चाकारतःप्रभृतीत्यादि वक्ष्यते। अन्वक्षं प्रत्यक्षम्। वाणिनी दूती। उच्छ्वसितमित्यनेनातिविस्रम्भवत्ता ख्याता। उच्छ्वसितं प्राण इति वा। यदृच्छया यथाकथंचित्। यश्च तथागच्छति यस्य निरवधानतया क्वचिदंशुकादि गलति। आभिजात्येन महाकुलीनत्वेनोपकरणीकुर्वन्त्यायततां नयन्ति। उच्चावचैः प्रकृतवस्त्वसंस्पर्शिभिः, विचित्रैरिति वा।
- अपरेद्युरित्यादावीदृशी मालती समदृश्यतेति संबन्धः। दिवि मणिरिव द्युमणिः। वियद्भूषणं सूर्यः। अभिद्रुता न्यक्कृता। तामरसं पद्मम्। व्यासो विकासः। अतिमुक्तकं पुष्पभेदः। केचिन्मालतीलताकुसुममाहुः। सटास्ति यस्येति। ‘प्राणिस्थादातोलजन्यतरस्याम्’। गौरी गौराङ्गी, पार्वती च। सजलतुरङ्गाङ्गस्पर्शपरिजिहीर्षयोरोवध्रेत्याद्युक्तम्। प्रियमधुरशब्दत्वादश्वानामाकर्ण्यमानेत्युक्तम्। पिण्डालक्तकः क्वथितोऽलक्तकरसः। दोहदोऽभिलाषः। वाद्यविशेषानुगताङ्क्यघोषणा। रशना मेखला। शिञ्जानं शब्दायमानम्। निर्मोकः सर्पत्वक्। आप्रपदं प्राप्नोत्या-*
छातकञ्चुकान्तरदृश्यमानैराश्यानचन्दनधवलैरवयवैः स्वच्छसलिलाभ्यन्तरविभाव्यमानमृणालकाण्डेव सरसी, कुसुम्भरागपाटलं पुलकबन्धचित्रं चण्डातकमन्तःस्फुटं स्फटिकभूमिरिव रत्ननिधानमादधाना, हारेणामलकीफलनिस्तुलमुक्ताफलेन स्फुरितस्थूलग्रहगणशारा, शारदीव श्वेतविरलजलधरपटलावृता द्यौः, कुचपूर्णकलशयोरुपरि रत्नप्रालम्बमालिकामरुणहरितकिरणकिसलयिनीं कस्यापि पुण्यवतो हृदयप्रवेशवनमालिकामिव बद्धां धारयन्ती, प्रकोष्ठनिविष्टस्यैकैकस्य हाटककटकस्य मरकतमकरवेदिकासनाथस्य हरितीकृतदिगन्ताभिर्मयूखसंततिभिः स्थलकमलिनीभिरिव लक्ष्मीशङ्कयानुगम्यमाना, बहलताम्बूलकृष्णिकान्धकारितेनाधरसंपुटेन मुखशशिपीतं ससंध्यारागं तिमिरमिव वमन्ती, विकचनयनकुवलयकुतूहलालीनयालिकुलसंहत्या नीलांशुकजालिकयेव निरुद्धार्धवदना, नीलीरागनिहितनीलिम्ना शिखिगलशितिना वामश्रवणाश्रयिणा दन्तपत्रेण कालमेघपल्लवेनेव विद्युदिव द्योतमाना बकुलफलानुकारिणीभिस्तिसृभिर्मुक्ताभिः कल्पितेन बालिकायुगलेनाधोमुखेनालोकजलवर्षिणा सिञ्चन्तीवातिकोमले भुजलते, दक्षिणकर्णावतंसितया केतकीगर्भपलाशलेखया रजनिकरजिह्वालतयेव लावण्यलोभेन लिह्यमानकपोलतला, तमालश्यामलेन मृगमदामोदनिष्यन्दिना तिलकबिन्दुना मुद्रितमिव मनोभवसर्वस्वं वदनमुद्वहन्ती, ललाटलासकस्य सीमन्तचुम्बिनश्चटुलातिलकमणेरुदञ्चता चटुलेनांशुजालेव रक्तांशुकेनेव कृतशिरोवगुण्ठना, पृष्ठप्रेङ्खदनादरसंयमनशिथिलजूटिकाबन्धा नीलचामरावचूलिनीव चू-
______________________________________________________
प्रपदीनः पादं यावत्। छातस्तनुः। कुसुम्भं पद्मकम्। नानावर्णबिन्दुन्यासः पुलकबन्धः,मणिविशेषाश्च पुलकाः। चण्डातकमर्धोरुकम्। कुचावेव कस्यापि पुण्यवत इवेति वक्ष्यमाणाभिप्रायेण पूर्णकलशौ। कस्यापीत्यलौकिकस्य। वनमाला पत्रपुष्पयोजिता स्रक्। सापि पूर्णकलशयोरुपरि बध्यते। प्रकोष्ठः प्रकुञ्चनकः। वेदिका रत्नप्रतिष्ठापीठिका। बहलं पोनःपुन्येन कृतम्। कृष्णिका कृष्णलेखा। मुखमेव तमःपारप्रतिपिपादयिषया शशी। ताम्बूलकारणत्वेन लौहित्यमेव संभवतीति ससंध्यारागमित्युक्तम्। नील्योषधिभेदः। शितिर्नीलः। पल्लवः पिण्डः। बालिका कर्णोपवेधोऽलंकारः। अधोमुखेन घटादिना जलवर्षिणा लता सिच्यते। मृगमदः कस्तूरिका। तिलकबिन्दुः परिवर्तुलस्तिलकः। लासको नर्तकः। ‘सुवर्ण-
डामणिमकरिकासनाथा, मकरकेतुकेतुपताका, कुलदेवतेव चन्द्रमसः, पुनःसंजीवनौषधिरिव पुष्पधनुषः, वेलेव रागसागरस्य, ज्योत्स्नेव यौवनचन्द्रोदयस्य, महानदीव रतिरसामृतस्य, कुसुमोद्गतिरिव सुरततरोः, बालविद्येव वैदग्ध्यस्य, कौमुदीव कान्तेः, धृतिरिव धैर्यस्य, गुरुशालेव गौरवस्य, बीजभूमिरिव विनयस्य, गोष्ठीव गुणानाम्, मनस्वितेव महानुभावतायाः, तृप्तिरिव तारुण्यस्य, कुवलयदलदामदीर्घलोचनया पाटलाधरया कुन्दकुड्मलस्फुटदशनया शिरीषमालासुकुमारभुजयुगलया कमलकोमलरया बकुलसुरभिनिःश्वसितया चम्पकावदातदेहया कुसुममय्येव ताम्बूलकरङ्कवाहिन्या महाप्रमाणाश्वतरारूढयानुगम्यमाना, कतिपयपरिचारकपरिकरा मालती समदृश्यत। दूरादेव च दधीचप्रेम्णा सरस्वत्या लुण्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन, प्रत्युद्गतेवोत्कलिकाभिः, आलिङ्गितेवोत्कण्ठया, अन्तःप्रवेशितेव
____________________________________________________
शृङ्खलाबद्धो नानारत्नौघमण्डितः। ललाटलम्ब्यलंकार श्चटुलातिलको मतः॥’ अवचूलं चिह्नम्। मकरिका मकराकारं रूपम्। वेला यथा सागरं क्षोभयति तद्वदेवेयं रागम्। क्षोभेन यथा सागरो दुरुत्तर एवमेतयापि रागः। यथा। ज्योत्स्नया विना चन्द्रोदयो भवन्नपि न क्वापि विलसन्विभाव्यते तथैतया विना यौवनं सविलासमन्यत्र न दृश्यते। रतिप्रधानो रसः शृङ्गार एव। माधुर्यातिशययोगित्वात्प्रकृष्टत्वाच्च। ह्लादनममृतम्। यदुक्तम्—‘शृङ्गार एव परमः परः प्रह्लादनो रसः’ इति। संप्रयोगो रतं रहःशयनं मोहनमिति पर्यायाः। बालविद्या न कंचन मुञ्चति, तद्वदेष वैदग्ध्यम्। कौमुदीति। तथाविधकान्त्यतिशयसंभवात्। ध्रियते येन धृतिः। अस्यां सत्यां धैर्यमपि। यद्वा धृतिः प्रवेशरक्षणम्। यथा प्रविशन्कश्चिद्राजनिकटं ध्रियते केनचित्तथा धैर्यं तावत्प्रसरति। यावदेषा न दृष्टा एतस्यां दृष्टायां सर्वे धैर्यशून्या इति। ‘समानविद्यावित्तशीलबुद्धिवयसामनुरूपैरालापैरेकत्रासनबन्धो गोष्ठीमनस्विता’ इत्यनेनैतस्या महानुभावताया व्यभिचारित्वमुच्यते। यस्माद्यत्र मनस्विता तत्र महाशयत्वमेवावश्यं संभावयतीति स्थितमेव। **तृप्तिरिवेति। यथा कश्चित्संजाततृप्तिर्नान्यत्किंचित्पुनरपेक्षते तद्वदासादितमालतीकं तारुण्यम्। एतदाश्रयणेन परिपूर्णवैषयिकोपभोगप्राप्तिस्तारुण्यस्येत्यर्थः। कुसुममय्येवेति। कुवलयादिभिर्नयनादीनां विधानम्। तरुणोऽश्वोऽश्वतरः। ‘वत्सोक्षाश्वर्षमेभ्यश्च तनुत्वम्’ इति तनुत्वे तरप्। अत्र च व्याख्यातम्—‘तनुत्वं द्वितीयवयःप्राप्तिः’ इति। अश्वतरो वा गर्दभेनाश्वायां जातः। **मालतीति। एवं दधीचपरिवारभूतया मालत्यागुणवर्णनद्वारेण सरस्वत्या एव निःसामान्यगुणातिशयो ध्वन्यते। **लुण्ठितेवेति। वक्ष्यमाणं प्रार्थनादि। तया मनोरथैरुत्प्रेक्ष्य स्वीकृतमित्यतस्तैर्लुण्ठितेवे-
हृदयेन, स्नपितेवानन्दाश्रुभिः, विलुप्तेव स्मितेन, वीजितेवोच्छ्वसितैः, आच्छादितेव चक्षुषा, अभ्यर्चितेव वदनपुण्डरीकेण, सखीकृतेवाशया सविधमुपययौ। अवतीर्य च तुरगाद्दूरादेवावनतेन मूर्ध्ना प्रणाममकरोत्। आलिङ्गिता च ताभ्यां सविनयमुपाविशत्। सप्रश्रयं ताभ्यां संभाषिता च पुण्यभाजमात्मानममन्यत। अकथयच्च दधीचसंदिष्टं शिरसि विनिहितेनाञ्जलिना नमस्कारम्। अगृह्णाच्चाकारतः प्रभृत्यग्राम्यतया तैस्तैरपि पेशलैरालापैः सावित्रीसरस्वत्योर्मनसी।
क्रमेण चातीते मध्यंदिनसमये शोणमवतीर्णायां सावित्र्यां स्नातुमुत्सारितपरिजना साकूता मालती कुसुमप्रस्तरशायिनीं समुपसृत्य सरस्वतीमाबभाषे—‘देवि, विज्ञप्यं नः किंचिदस्ति रहसि। अतो मुहूर्तमवधानदानेन प्रसादं क्रियमाणमिच्छामि’ इति। सरस्वती तु दधीचसंदेशाशङ्किनी किं वक्ष्यतीति स्तनविनिहितवामकरनखकिरणदन्तुरितमुद्भिद्यमानकुतूहलाङ्कुरनिकरमिव हृदयमुत्तरीयदुकूलवल्कलैकदेशेन संछादयन्ती, गलतावतंसपल्लवेन श्रोतुं श्रवणेनेव कुतूहलात् धावमानेनानवरतश्वाससंदोहदोलायितां जीविताशामिव समासन्नलतामवलम्बमाना, समुत्फुल्लस्य मुखशशिनो लावण्यप्रवाहेण शृङ्गाररसेनेव प्लावयन्ती जीवलोकम्, शयनकुसुमपरिमललग्नैर्मधुकरकदम्बकैर्मदनानलदाहश्यामलैर्मनोरथैरिव निर्गत्य मूर्तैरुत्क्षिप्यमाणा, कुसुमशयनीयात्स्मरशरसंज्वरिणी, मन्दं मन्दमुदगात्। ‘उपांशु कथय’ इति कपोलतलप्रतिबिम्बितां लज्जयेव कर्णमूलं मालतीं प्रवेशयन्ती मधुरया गिरा सुधीरमुवाच—‘सखि मालति, किमर्थमेवमभिदधासि। काहमवधानदानस्य शरीरस्य प्राणानां वा। सर्वस्याप्रार्थितोऽपि प्रभवत्येवातिवेलं चक्षुष्यो जनः। सा न
__________________________________________________
त्युक्तम्। लुण्ठनं च पाथेयाभिवितरणमेवमन्यत्। उत्कलिका रुहरुहिका। सविधं समीपम्। अपि च यः स्निग्धो दूरात्सविधमायाति, तस्य लुण्ठनादिसर्वमर्चनावसानं क्रियत इति ध्वनिः। पेशलैर्हृद्यैः।
- आकूतमभिप्रायः। रहस्येकान्ते। सरस्वतीत्यादौ सरस्वती कुसुमशयनीयादुदगादुदतिष्ठदिति संबन्धः। अवतंसपल्लवेन गलतेतीत्थंभूतलक्षणे तृतीया। संदोहः समूहः। संज्वरः संतापः। उपांश्वनुक्तम्। अतिवेलमतिमात्रम्। ‘अतिपेशलः’ इति पाठे पेशलः सुन्दरः। चक्षुष्योऽनुकूलः। त्वमिव व्यक्तम्। चक्षुष्य इतिभङ्ग्या दधी-*
काचिद्या न भवसि मे स्वसा सखी प्रणयिनी प्राणसमा च। नियुज्यतां यावतः कार्यस्य क्षमं क्षोदीयसो गरीयसो वा शरीरकमिदम्। अनवस्करमाश्रवं मे त्वयि हृदयम्। प्रीत्या प्रतिसरा विधेयास्मि ते। व्यावृणु वरवर्णिनि, विवक्षितम् इति सा त्ववादीत्—‘देवि, जानास्येव माधुर्यं विषयाणाम्, लोलुपतां चेन्द्रियग्रामस्य, उन्मादितां च नवयौवनस्य, पारिप्लवतां च मनसः। प्रख्यातैव मन्मथस्य दुर्निवारता। अतो न मामुपालम्भेनोपस्थातुमर्हसि। न च बालिशता चपलता चारणता वा वाचालतायाः कारणम्। न किंचिन्न कारयत्यसाधारणा स्वामिभक्तिः। सा त्वं देवि, यदैव दृष्टासि देवेन तत एवारभ्यास्य कामो गुरुः, चन्द्रमा जीवितेशः, मलयमरुदुच्छ्वासहेतुः, आधयोऽन्तरङ्गस्थानेषु, संतापः परमसुहृत्, प्रजागर आप्तः, मनोरथाः सर्वगताः, निःश्वासा विग्रहाग्रेसराः, मृत्युः पार्श्ववर्ती, रणरणकः संचारकः, संकल्पा बुद्ध्युपदेशवृद्धाः। किं वा विज्ञा-
________________________________________________
च इति ध्वनति। स्वसा भगिनी। प्रणयिनी विश्वस्ता। अतिशयेन क्षुद्रमल्पं क्षोदीयः। ‘ज्ञेयं गुह्यमवस्करम्’। आश्रवं वचसि स्थितम्। प्रतिसरानुकूला। विधेया वश्या। व्यावृणु प्रकटय। वरवर्णिनि वरारोहे। लोलुपतां साभिलाषत्वम्। ‘चलार्थकौ निगद्येते पारिप्लवपरिप्लवौ’। बालिशोऽज्ञः। चारणता धूर्तता। असाधारणानन्यसदृशी। देवी देवेनेति च परस्परसमगुणयोगित्वमभिव्यनक्ति। गुरुर्गरीयान्, उपदेष्टा वा। तद्वशवर्तित्वात्। यश्च देवस्तस्य गुरुराचार्यः कश्चिदवश्यं संभवति। जीवितस्येश्वरः स्वामी जीवितेशः। शिशिरतया मदनदाहप्रशमनहेतुत्वात्। अमृतमयत्वेन च जीवितसंधारणशक्तत्वात्। अथ च जीवितेशो मृत्युः। चन्द्रादयो ह्यापातत एव तापं शमयन्ति, अनवरतं सेव्यमानाः पुनः कामोद्दीपकत्वेन मृत्युं दिशन्ति। राजपक्षे जीवितेशः कश्चित्पुरोहितप्रायः। उच्छ्वसनमुच्छ्वासस्तत्र हेतुः। अथ च श्वासोत्क्रान्तौ कारणम्, इतरत्र सचिवप्राया विश्वसनीयाः। आधयश्चित्तपीडाः। अत एवान्तरङ्गमन्तःशरीरं यानि स्थानानि तेषु, इतरत्रान्तरङ्गान्तर्वंशिकस्तत्स्थानेषु विश्वसनीयजनाधिकारेषु। परं प्रकृष्टम्। असुहरोऽमित्रो वा, अन्यत्र परमसुहृन्मित्रं च आप्तः प्राप्तो बान्धवप्रायः कश्चित्। सर्वगताश्चारा अपि संस्थाख्याः। विग्रहो विरोधः, देहश्च। मृत्युरिति। त्वदनङ्गीकारेण निश्चितं म्रियते। राज्ञोऽपि पार्श्वे मृत्युस्तिष्ठत्येव। रणरणको दुःखमरतिकृतम्। अत एव संचारक एकत्र नरे संभवदितरत्र संचारयति, चरितं वस्तु यः प्रापयते सः। द्विविधा हि चाराः—संस्थाः, संचारकाश्च।
पयामि। अनुरूपो देव्या इत्यात्मसंभावना, शीलवानिति प्रक्रमविरुद्धम् धीरइत्यवस्थाविपरीतम्, सुभग इति त्वदायत्तम्, स्थिरप्रीतिरिति निपुणोपक्षेपः, जानाति सेवितुमित्यस्वामिभावोचितम्, इच्छति दासभावमामरणात्कर्तुमिति धूर्तालापः, भवनस्वामिनी भवसीत्युपप्रलोभनम्, पुण्यभागिनी भजति भर्तारं तादृशमिति स्वामिपक्षपातः, त्वं तस्य मृत्युरित्यप्रियम्, अगुणज्ञासीत्यधिक्षेपः, स्वप्नेऽस्य बहुशः कृतप्रसादासीत्यसाक्षिकम्, प्राणरक्षार्थमर्थयत इति कातरता, तत्रागम्यतामित्याज्ञा, वारितोऽपि बलादागच्छतीति परिभवः। तदेवमगोचरे गिरामसीति श्रुत्वा देवी प्रमाणम्’ इत्यभिधाय तूष्णीमभूत्।
अथ सरस्वती प्रीतिविस्फारितेन चक्षुषा प्रत्यवादीत्—‘अयि, न शक्नोमि बहु भाषितुम्। एषास्मि ते स्मितवादिनि वचसि स्थिता। गृह्यन्ताममी प्राणाः’ इति। मालती तु ‘यदाज्ञापयसि। अतिप्रसादः’ इति व्याहृत्य प्रहर्षपरवशा प्रणम्य प्रजविना तुरगेण ततार शोणम्। अगाच्च दधीचमानेतुं च्यवनाश्रमपदम्। इतरा तु सखीस्नेहेन सावित्रीमपि विदितवृत्तान्तामकरोत्। उत्कण्ठाभारभृता च ताम्यता चेतसा कल्पायितं कथंकथमपि दिवसशेषमनैषीत्, अस्तमुपगतवति भगवति गभस्तिमति, स्तिमिततरमवतरति तमसि, प्रहसितामिव सितां दिशं पौरंदरीं दरीमिव केसरिणि मुञ्चति चन्द्रमसि सरस्वती शुचिनि चीनांशुकसुकुमारे तरङ्गिणी दुगूलकोमले शयन इव शोणसैकते समुपविष्टा स्वप्नकृतप्रार्थनापादपतनलग्नां दधीचचरणनखचन्द्रिकामिव ललाटिकां दधाना, गण्डस्थलादर्शप्रतिबिम्बितेन ‘चारुहासिनि, अयमसावाहृतो हृदयदयितो जनः’ इति श्रवणसमीपवर्तिना निवेद्यमान-
_________________________________________________
वृद्धा महान्तः, स्थविराश्च। अनुरूप इत्यादिनेदमिदं तत्रास्तीति वक्रोक्त्या सातिशयं मालती वैदग्ध्येनाह। प्रक्रम आरम्भः। निपुणोपक्षेपो बुद्धिमत्प्रक्रमः। धूर्तालापः प्रतारणावचनम्। **वारित इति। भवत्येवेत्यर्थात्।
- प्रजविनेति साभिप्रायम्। अस्तमित्यादौ सरस्वती प्रतिपालयामासेति संबन्धः। गभस्तिमान्रविः। पौरंदर्यैन्द्री। दरी गुहा। चीनेत्यादि सैकतविशेषणम्। उपमानस्य तु दुगूलकोमल इत्युक्तम्। तरङ्गिणी प्रतिदिनं क्षीयमाणेन वारिणा कृतलेखे भङ्गियुक्ते च चन्द्रिका कान्तिरत्र। ललाटालंकारो ललाटिका।*
मदनसंदेशेवेन्दुना, विकीर्यमाणनखकिरणचक्रवालेन बालव्यजनीकृतचन्द्रकलाकलापेनेव करेण वीजयन्ती स्वेदिनं कपोलपट्टम्, ‘अत्र दधीचादृते न केनचित्प्रवेष्टव्यम्’ इति तिरश्चीनं चित्तभुवा पातितां विलासवेत्रलतामिव बालमृणालिकामधिस्तनं स्तनयन्ती कथमपि हृदयेन वहन्ती प्रतिपालयामास। आसीच्चास्या मनसि—‘अहमपि नाम सरस्वती यत्रामुना मनोजन्मना जघन्येव परवशीकृता तत्र का गणनेतरासु तपस्विनीष्वतितरलासु तरुणीषु’ इति।
आजगाम च मधुमास इव सुरभिगन्धवहः, हंस इव कृतमृणालधृतिः, शिखण्डीव घनप्रीत्युन्मुखः, मलयानिल इवाहितसरसचन्दनधवलतनुलतोत्कम्पः कृष्यमाण इव कृतकरकचग्रहेण ग्रहपतिना, प्रेर्यमाण इव कंदर्पोद्दीपनदक्षेण दक्षिणानिलेन, उह्यमान इवोत्कलिकाबहलेन रतिरसेन, परिमलसंपातिना मधुपपटलेन पटेनेव नीलेनाच्छादिताङ्गयष्टिः, अन्तःस्फुरता मत्तमदनकरिकर्णशङ्खायमानेन प्रतिमेन्दुना प्रथमसमागमविलासविलक्षस्मितेनेव धवलीक्रियमाणैककपोलोदरो मालतीद्वितीयो दधीचः। आगत्य च हृदयगतदयितानूपुररवमिश्रयेव हंसगद्गदया गिरा कृतसंभाषणो यथा मन्मथः समाज्ञापयति, यथा यौवनमुपदिशति, यथानुरागः शिक्षयति, यथा विदग्धताध्यापयति, तथा तामभिरामां
______________________________________________________
चक्रवालं समूहः। बालव्यजनं चामरम्। स्वनमध्ये प्रवेशाभावात्तिरश्चीनमित्युक्तम्। यश्च वेत्री प्रवेशनिषेधननिमित्तं वेत्रलतां पातयति स तिरश्चीनं स्तनयोरधिस्तनम्। विभक्त्यर्थेऽव्ययीभावः। कुचपृष्ठ इत्यर्थः। स्तनयन्ती कलयन्ती। स्तनिः शब्दार्थश्चौरादिकः। ‘स्तनन्ति’ इति वा पाठः। तपस्विनीषु वराकीषु॥
- आजगामेत्यादावाजगामेति संबन्धः। सुरभिगन्धवहो वातः सुरभिगन्धं च यो वहति। धृतिर्धारणम्, प्राणयात्रा च। घनः। सरसंसान्द्रं यच्चन्दनं तेन धवलया तनुलतयाहितत्रप उत्कम्पः कामधर्मो यस्य। अन्यत्र चन्दनांश्च धर्वाश्च लान्ति श्रयन्ति यास्तन्व्यो लतास्तासामाहित उत्कम्पः कम्पनंयेनेति। कृष्यमाण इत्युद्दीपनकारणत्वात्। करा रश्मयः, हस्तश्च करः। हस्तस्य कर्षणं समुचितम्। ग्रहपतिश्चन्द्रः।* **प्रेर्यमाण इति। अनिलस्योचितमेतत्कर्म। **उह्यमान इति। जलस्योचितमेतत्। उत्कलिका रुहरुहिका, ऊर्मयश्च। रसोऽभिलाषः, जलं च। परिमल आमोदः। पटलं समूहः। प्रतिमा प्रातिच्छन्दकम्। **यथा मन्मथ इति। मन्मथस्य प्रभवनशीलत्वेनाज्ञादानमुचितम्। एवं सर्वत्रोपदिशती। इत्थमित्थं वर्तस्वेत्युपदेशः। देवताविषयं संभोगशृङ्गारवर्णनमनुचितमिति न तत्र विस्तरः प्रवर्तते। कुमारित्वे च गान्धर्वविवाहो विस्तरेण
रामामरमयत्। उपजातविस्रम्भा चात्मानमकथयदस्य सरस्वती। तेन तु सार्धमेकं दिवसमिवानयत्संवत्सरमधिकम्।
अथ दैवयोगात्सरस्वती बभार गर्भम्। असूत चानेहसा सर्वलक्षणाभिरामं तनयम्। तस्मै च जातमात्रायैव ‘सम्यक्सरहस्याः सर्वे वेदाः सर्वाणि च शास्त्राणि सकलाश्च कलाः मत्प्रसादात्स्वयमाविर्भविष्यन्ति’ इति वरमदात्। सद्भर्तृश्लाघया दर्शयितुमिव हृदयेनादाय दधीचं पितामहादेशात्समं सावित्र्या ब्रह्मलोकमारुरोह। गतायां च तस्यां दधीचोऽपि हृदये ह्रादिन्येवाभिहतो भार्गववंशसंभूतस्य भ्रातुर्ब्राह्मणस्य जायामक्षमालाभिधानां मुनिकन्यकामात्मसूनोः संवर्धनाय नियुज्य विरहातुरस्तपसे वनमगात्। यस्मिन्नेवावसरे सरस्वत्यसूत तनयं तस्मिन्नेवाक्षमालापि सुतं प्रसूतवती। तौ तु सा निर्विशेषं सामान्यस्तन्यादिना शनैः शनैः शिशू समवर्धयत्। एकस्तयोः सारस्वताख्य एवाभवत्, द्वितीयोऽपि वत्सनामाभवत्। आसीच्च तयोः सोदर्ययोरिव स्पृहणीया प्रीतिः।
अथ सारस्वतो मातुर्महिम्ना यौवनारम्भ एवाविर्भूताशेषविद्यासंभारस्तस्मिन्सवयसि भ्रातरि प्रेयसि प्राणसमे सुहृदि वत्से वाङ्मयं समस्तमेव संचारयामास। चकार च कृतदारपरिग्रहस्यास्य तस्मिन्नेव प्रदेशे प्रीत्या प्रीतिकूटनामानं निवासम्। आत्मनाप्याषाढी, कृष्णाजिनी, वल्कली, अक्षवलयी, मेखली, जटी च भूत्वा तपस्यतो जनयितुरेव जगामान्तिकम्।
अथ तस्मात्प्रवर्धमानादिपुरुषजनितात्मचरणोन्नतिनिर्गतप्रघोषः, परमेश्वरशिरोधृतः, सकलकलागमगम्भीरः, महामुनिमान्यः,
___________________________________________________
न तथा वर्णितः शापनिर्वाहणमात्रपरत्वादिति। वृत्तस्यान्यथानिजभर्तृत्यागो दोषावहः किमर्थं कृत इत्यादिकाः कुविकल्पा उत्पद्येरन्निति।
-
अनेहसा कालेन। रहस्यं ज्ञानभागः। ह्रादिनी वज्रम्।*
-
वाक्प्रस्तुता यत्र तद्वाङ्मयम्। ‘आषाढसंज्ञो दण्डः स्यात्पालाशो व्रतचारिणाम्। वृक्षत्वङ्निर्मितं वस्त्रं वल्कलं समुदाहृतम्॥’ मेखला मुञ्जतृणादिरचितं कटिसूत्रम्। जटा रूक्षसंहतकेशाः।*
-
अथेत्यादौ वत्सात्प्रावर्तत विपुलो वंश इति संबन्धः। प्रवर्धमानाः संतानादिना*
विपक्षक्षोभक्षमः, क्षितितललब्धायतिः, अस्खलितप्रवृत्तो भागीरथीप्रवाह इव पावनः प्रावर्तत विपुलो वंशः। यस्मादजायन्त वात्स्यायना नाम गृहमुनयः, आश्रितश्रौता अप्यनालम्बितालीकबककाकवः, कृतकुक्कुटव्रता अप्यबैडालवृत्तयः, विवर्जितजनपङ्क्तयः, परिहृतकपटकीरकुचीकूर्चाकूताः, अगृहीतगह्वराः, न्यक्कृतनिकृतयः, प्रसन्नप्रकृतयः, विगतविकृतयः, परपरीवादपराचीनचेतसः वर्णत्रयव्यावृत्तिविशुद्धान्धसः, धीरधिषणावधूताध्येषणाः, असङ्कसुकस्वभावाः, प्रणतप्रणयिनः, शमितसमस्तशाखान्तरसंशीतयः, उद्घाटितसमग्रग्रन्थार्थग्रन्थयः, कवयः, वाग्मिनः, विमत्सराः, सरसभाषितव्यसनिनः, विदग्धपरिहासवेदिनः, परिचयपेशलाः, नृत्यगीतवादित्रेष्वबाह्याः, ऐतिह्यस्यावितृष्णाः, सानुक्रोशाः, सत्यशुचयः, साधुसंमताः, सर्वसत्त्वसौ-
____________________________________________________
वृद्धिं गच्छन्तो य आदिपुरुषाः पूर्वबान्धवाः शुक्राद्यास्तैः कृताः स्वेषां चरणानां कठादिशाखाध्यायिनामुन्नतिरुत्कर्षो यस्य सः। अन्यत्र प्रवर्धमानस्तु वामनरूपो य आदिपुरुषो हरिस्तेन जनिता स्वपदोन्नतिर्माहात्म्यं यस्य स इति। किल त्रैलोक्याक्रान्तिकाले ब्रह्मलोकप्राप्ताद्विष्णुपदाद्ब्रह्मणा कमण्डलुजलक्षालिताद्गङ्गा समभवदिति वार्ता। प्रदोषो यशः, शब्दश्च। परमेश्वरो राजा, हरश्च। सकलानां कलानां वृत्ताद्यानामागमस्तेन सह कलकलेन च सकलकलं यदागमनं तु न च। महामुनिर्जह्नुरपि। विपक्षाः शत्रवः, शैलाश्च। वीनां पक्षिणां वा पक्षच्छेदेषु सहिष्णुः। आयतिः प्रतापः, विस्तारश्च। स्खलितं स्वाचारच्युतिः। प्रवृत्तः प्रकृष्टवृत्तः। अस्खलितं असंरुद्धं कृत्वा गतश्च। श्रौतं वेदभवम्, चिरवृत्तं च। ‘भिन्नो भयाद्वा शोकाद्वा ध्वनिः काकुरुदाहृता’। अत्र च छद्म लक्ष्यते। बकस्य काकुः बकच्छद्म यैश्च चिरवृत्तमाश्रितं ते छद्मचारित्वादाश्रितबककाकवो भवन्त्येव। अमी तु न तथेति विरोधः। कुक्कुटव्रतं नियमविशेषः। यत्र कुक्कुटाण्डप्रमाणग्रासभोजनम्। न बैडाली हिंसावृत्तिर्येषां तैः, विरोधे तु कुक्कुटानां व्रतं भक्षणं येन कृतं स कथं बिडालवृत्तिर्न स्यात्। पङ्क्तिर्लोकप्रसिद्धो व्यवहारः, पाको वा। कपटो व्याजवृत्तिः। कूर्चाः स्फुटाः। आत्ममहिम्ना व्यवहारः, समूह इत्यन्ये। एतेष्वाकूतं परिहृतं यैः। गह्वरं पापम्। निकृतिः शाठ्यम्। प्रकृतिः स्वभावः। पराचीनं पराङ्मुखम्। अन्धोऽन्नम्। धीरा स्थिरा। धिषणा बुद्धिः। अध्येषणा याच्ञा।असङ्कसुकः स्थिरः, मृदुर्वा। शाखाः कठाद्याः। संशीतिः संशयः। ग्रन्थिर्दुर्बोधः प्रदेशः। परिहासं विदन्ति, न तु स्वयं कुर्वन्ति। परिचयः संस्तवः। सुकुमाराः, अद्वन्द्वकूटा इत्यर्थः। अबाह्याः, न तु तदेकनिष्ठाः। ऐतिह्यमागमः। अनुक्रोशो दया। संमता इष्टाः। सौहार्दं प्रीतिः। सर्वे गुणा
हार्दद्रवार्द्रहृदयाः, तथा सर्वगुणोपेता राजसेनानभिभूताः, क्षमाभाज आश्रितनन्दनाः, अनिस्त्रिंशा विद्याधराः, अजडाः कलावन्तः, अदोषास्तारकाः, अपरोपतापिनो भास्वन्तः, अनुष्माणो हुतभुजः, अकुसृतयो भोगिनः, अस्तम्भाः पुण्यालयाः, अलुप्तक्रतुक्रिया दक्षाः, अव्यालाः कामजितः, असाधारणा द्विजातयः।
तेषु चैवमुत्पद्यमानेषु, संसरति संसारे, यात्सु युगेषु, अवतीर्णे कलौ, वहत्सु वत्सरेषु, व्रजत्सु वासरेषु, अतिक्रामति च काले प्रसवपरम्पराभिरनवरतमापतति विकाशिनि वात्स्यायनकुले, क्रमेण कुबेरनामा वैनतेय इव गुरुपक्षपाती द्विजो जन्म लेभे। तस्याभवन्नच्युत ईशानो हरः पाशुपतश्चेति चत्वारो युगारम्भा इव ब्राह्मतेजोजन्यमानप्रजाविस्तारा नारायणबाहुदण्डा इव सच्चक्रनन्दकास्तनयाः। तत्र पाशुपतस्यैक एवाभवद्भूभार इवा-
____________________________________________________
धैर्याद्याः। राज्ञां सेनया चानभिभूता ये च सर्वैर्गुणैः सत्त्वरजस्तमोभिर्युक्तास्ते कथं राजसेन गुणेनानभिभूता भवन्तीति विरोधः। एवमुत्तरत्र विरोध उद्भावनीयः। क्षमा क्षान्तिः, भूश्च। आश्रितानां नन्दना नन्दयितारः, देवोद्यानं नन्दनं च। न निस्त्रिंशा अक्रूराः। विद्यां धारयन्तीति विद्याधराः पण्डिताः,निस्त्रिंशाश्च खड्गाएव। ये च विद्याधरा देवभूतास्ते सखङ्गाएव। न त्वनिस्त्रिंशा इति मालाखड्गगुलिकाञ्जनादिना भेदेन भिन्नानामपि विद्याधराणां खड्गहस्तत्वं न व्यभिचरति। अजडा अमन्दधियः, अशीताश्च। कलावन्तो गीताभिज्ञाः, कलावांश्चन्द्रः स चाजडोऽशीत इति विरोधः। दोषा द्वेषाद्याः, रात्रिश्च। तारयन्तीति तारका आचार्याः, नक्षत्राणि च। उपतापः पीडा, उष्णत्वं च। भास्वन्तस्तेजस्विनः, आदित्याश्च। ते परांस्तापयन्ति। ऊष्मा स्मयः, दाहिकाशक्तिश्च। हुताशशब्देन हुतमिष्टमुच्यते। हुतं भुञ्जते हुतभुजः, आहिताग्नयो वह्नयश्च। कुसृतिः शाठ्यम्, कौ भूमौ सृतिः सरणम्। भोगिनः सुखिनः, सर्पाश्च। स्तम्भः स्तब्धता, सात्त्विको भावभेदश्च, अप्रणतिर्वा, गृहधारणकाष्ठं च। पुण्यालयाः सुकृतिनः, मठादिस्थानानि च। दक्षाश्चतुराः, प्रजापतिभेदश्च दक्षः। स च लुप्तक्रतुक्रियो हररोषजेन वीरभद्रेण। व्यालाः शठाः, सर्पाश्च। कामजितः संतुष्टाः, हरश्च कामजित्। असाधारणाः सर्वोत्कृष्टाः। द्विजातयो विप्राः। येषां च द्वे जाती तेषां कथं नासादृश्यम्।
- काल इति। पूर्वोक्ते। अन्यथैतत्पुनरुक्तं स्यात्। पक्षपातो भक्तिर्यस्यास्ति सः, पक्षैश्च यो याति सः। द्विजो विप्रः, विधुः, पक्षी च। युगारम्भा अपि चत्वारः। ब्रह्म वेदादि, स्रष्टा च ब्रह्मा। सच्चक्रस्य साधुवृन्दस्य नन्दकास्तोषयितारः। चक्रं*
चलकुलस्थितिश्चतुरुदधिगम्भीरोऽर्थपतिरिति नाम्ना समग्राग्रजन्मचक्रचूडामणिर्महात्मा सूनुः। सोऽजनयद्भृगुं हंसं शुचिं कविं महिदत्तं धर्मं जातवेदसं चित्रभानुं त्र्यक्षमहिदत्तं विश्वरूपं चेत्येकादश रुद्रानिव सोमामृतरसशीकरच्छुरितमुखान्पवित्रान्पुत्रान्। अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां बाणमात्मजम्। स बाल एव विधेर्बलवतो वशादुपसंपन्नया व्ययुज्यत जनन्या। जातस्नेहस्तु नितरां पितैवास्य मातृतामकरोत्। अवर्धत च तेनाधिकतरमेधीयमानधृतिर्धाम्नि निजे।
कृतोपनयनादिक्रियाकलापस्य समावृत्तस्य चतुर्दशवर्षदेशीयस्य पितापि श्रुतिस्मृतिविहितं कृत्वा द्विजजनोचितं निखिलं पुण्यजातं कालेनादशमीस्थ एवास्तमगात्। संस्थिते च पितरि महता शोकेनाभीलमनुप्राप्तो दिवानिशं दह्यमानहृदयः कथंकथमपि कतिपयान्दिवसानात्मगृह एवानैषीत्। गते च विरलतां शोके शनैः शनैरविनयनिदानतया स्वातंन्त्र्यस्य, कुतूहलबहलतया च बालभावस्य, धैर्यप्रतिपक्षतया च यौवनारम्भस्य, शैशवोचितान्यनेकानि चापलान्याचरन्नित्वरो बभूव। अभवंश्चास्य वयसा समानाः सुहृदः सहायाश्च। तथा च। भ्रातरौ पारशवौ चन्द्रसेनमातृषेणौ, भाषाकविरीशानः परं मिन्त्रम्, प्रणयिनौ रुद्रनारायणौ, विद्वांसौ वारबाणवासबाणौ, वर्णकविर्वेणीभारतः प्राकृतकृत्कुलपुत्रो वायुविकारः, बन्दिनावनङ्गबाणसूचीबाणौ, कात्यायनिका
_____________________________________________________
सुदर्शनं च। नन्दकः खड्गश्च। बाहवोऽपि चत्वारः। अचलकुलस्थितिरभिन्नवर्षमर्यादः। अचलानां गिरीणां कुलैर्वृन्दैः स्थितिर्यस्य। चतुरुदधिवत्तैश्च गम्भीरः। अग्रजन्मानो द्विजाः। सोमस्तृणभेदः, इन्दुश्च। उपसंपन्ना मृता। निजे धाम्निस्वेगृहे।
- उपनयनं मेखलादानम्। समावृत्तो निष्पादितवृत्तः। स्नातक इत्यर्थः। वेदवेदाङ्गपाठक इत्यन्ये। ईषदसमाप्तश्चतुर्दशवर्षश्चतुर्दशवर्षदेशीयः। ‘श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः’। दशामुपेतो दशमीस्थ उदाहृतः, न दशमीस्थः। अपूर्णायुरित्यर्थः। संस्थितो मृतः। आभीलं कष्टम्। इत्वरो गमनशीलः। ‘अभयंश्च’ इत्यादिनात्मनस्तथाभूतकलावित्संपर्कमैश्वर्यातिशयं दर्शयति। पारशवो द्विजः शूद्रायां जातः। ‘परस्त्रीपरश्वम्’ इति बिदाद्यञ् परश्वादेशश्च। भाषागेयवस्तुवाचस्तेषु कविः। गाथादिषु गीतिद इत्यर्थः। अपभ्रष्टगीतविद्यः। ‘पञ्चाश-*
चक्रवाकिका, जाङ्गुलिको मयूरकः, ताम्बूलदायकश्चण्डकः, भिषक्पुत्रो मन्दारकः, पुस्तकवाचकः सुदृष्टिः, कलादश्चामीकरः, हैरिकः सिन्धुषेणः, लेखको गोविन्दकः, चित्रकृद्वीरवर्मा, पुस्तकृत्कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ सोमिलग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकरपारावतौ, गान्धर्वोपाध्यायो दर्दुरकः, संवाहिका केरलिका, लासकयुवा ताण्डविकः, आक्षिक आखण्डलः, कितवो भीमकः, शैलालियुवा शिखण्डकः, नर्तकी हरिणिका, पारशरी सुमतिः, क्षपणको वीरदेवः, कथको जयसेनः, शैवो वक्रघोणः, मन्त्रसाधकः करालः असुरविवरव्यसनी लोहिताक्षः, धातुवादविद्विहंगमः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश्चकोराक्षः, मस्करी ताम्रचूडः। स एतैश्चान्यैश्चानुगम्यमानो बालतया निघ्नतामुपगतो देशान्तरालोकनकौतुकाक्षिप्तहृदयः सत्स्वपि पितृपितामहोपात्तेषु ब्राह्मणजनोचितेषु विभवेषु सति चाविच्छिन्ने विद्याप्रसङ्गे गृहान्निरगात्। अगाच्च निरवग्रहो ग्रहवानिव नवयौवनेन स्वैरिणा मनसा महतामुपहास्यताम्।
अथ शनैः शनैरत्युदारव्यवहृतिमनोहृन्ति बृहन्ति राजकुलानि वीक्षमाणः, निरवद्यविद्याविद्योतितानि च गुरुकुलानि सेवमानः, महार्हालापगम्भीरगुणवद्गोष्ठीश्चोपतिष्ठमानः, स्वभावगम्भीरधीर्ध-
______________________________________________________
द्वर्षदेशीयां वीरां संस्थितभर्तृकाम्। वदन्ति कात्यायनिकां धृतकाषायवाससम्’॥ जाङ्गुलिको गारुडिकः। भिषग्वैद्यः। ‘स्वर्णकारः कलादः स्यात्तदध्यक्षस्तु हैरिकः’। पुस्तकृल्लेप्यकारः। ‘प्रसाधनोपचारज्ञा सैरन्ध्री स्ववशा स्मृता’। संवाहिका या पादादिमर्दनं विधत्ते। लासको नर्तयति यः। युवेत्यादिना वयसः समानत्वमुच्यते। अक्षैर्दीव्यतीत्याक्षिको द्यूतकारः। कितवो धूर्तः। शैलाली स्वयं यो नृत्यति नटः। पारशरी भिक्षुः। असुरविवरव्यसनी पातालाभिलाषी। धातुवादविद्रसवादज्ञः। मस्करी परिव्राट्। निघ्नतामस्वातन्त्र्यम्। कौतुकेति। न पुनरर्थाभिलिप्सया। एतदेव सत्स्वपीत्यादिना प्रकाशयति। निरवग्रहः स्वतन्त्रः। ग्रहवान्भूतगृहीतः। स्वैरिणा स्वतन्त्रेण।
- अत्युदारेत्यादिप्रकृतोपयोगी यस्मात्कविना तथाविधवस्तुवेदिनावश्यमेव भवितव्यम्। वीक्षमाण इत्यनेनात्मनः किमपि प्रकृष्टमुत्कर्षातिशययोगित्वमाह। अथ च वीक्षमाणो न तु गुरुकुलवत्सेवमानः। गाहमान इत्यनेन तेजस्वित्वमाहात्मनः। वैपश्चितीं विद्वज्जनोचिताम्। संस्तव आदरः। ज्ञातीनां कर्म ज्ञातेयं बन्धुत्वम्।*
नानि विदग्धमण्डलानि च गाहमानः, पुनरपि तामेव वैपश्चितीमात्मवंशोचितां प्रकृतिमभजत्। महतश्च कालात्तामेव भूयो वात्सायनवंशाश्रयामात्मनो जन्मभुवं ब्राह्मणाधिवासमगमत्। तत्र च चिरदर्शनादभिनवीभूतस्नेहसद्भावैः ससंस्तवप्रकटितज्ञातेयैराप्तैरुत्सवदिवस इवानन्दिताभिगमनो बालमित्रमण्डलस्य मध्यगतो मोक्षसुखमिवान्वभवत्।
इति श्रीबाणभट्टकृतौ हर्षचरिते वात्स्यायनवंशवर्णनं नाम प्रथम उच्छ्वासः।
___________________________________________________
‘कपिज्ञात्योर्ढक्’। आप्तैरिति। बन्धुभिर्योगिभिश्च। योगिपक्षे बाल इव बालो मित्रो रविर्निस्तेजस्त्वात्। उक्तं च—‘तपस्यन्तं रविं दृष्ट्वा निस्तेजा जायते रविः। मोक्षमार्गप्रयत्ने तु तेजो नैवास्य विद्यते॥’ इति। मित्रं सखा, सूर्यश्च मित्रः। मण्डलं समूहः। बिम्बम्। मोक्षसुखमपि सूर्यबिम्बगतैरनुभूयत इति। आख्यायिकासु कविभिर्निजवंशवर्णनं कानने तथा वंशः ख्यापितः स्यादिति। आत्मनश्च विटवर्णनम्। सकलकलाकौशलं ममास्तीति। हर्षस्य चरिते च वर्णयितव्ये नाम प्रस्तुतं चैतदिति शिवम्॥
इति श्रीशंकरकविरचिते हर्षचरितसंकेते प्रथम उच्छ्वासः।
<MISSING_FIG href="../books_images/U-IMG-1723405833Screenshot2024-08-12031709.png"/>
द्वितीय उच्छासः।
अतिगम्भीरे भूपे कूप इव जनस्य निरवतारस्य।
दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः॥१॥
रागिणि नलिने लक्ष्मीं दिवसो निदधाति दिनकरप्रभवाम्।
अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम्॥२॥
अथ तत्रानवरताध्ययनध्वनिमुखराणि, भस्मपुंड्रकपाण्डुरललाटैः कपिलशिखाजालजटिलैः कृशानुभिरिव क्रतुलोभागतैर्बदुभिरध्यास्यमानानि, सेकसुकुमारसोमकेदारिकाहरितायमानप्रघणानि, कृष्णाजिनविकीर्णशुष्यत्पुरोडाशीयश्यामाकतण्डुलानि, बालिकाविकीर्यमाणनीवारबलीनि, शुचिशिष्यशतानीयमानहरितकुशपूलीपलाशसमिन्धि, इन्धनगोमयपिण्डकूटसंकटानि, आमिक्षीयक्षीरक्षारिणीनामग्निहोत्रधेनूनां खुरवलयैर्विलिखिताजिरवितर्दिकानि, कामण्डलव्यमृत्पिण्डमर्दनव्यग्रयतिजनानि, वैतानवेदीशङ्कव्यानामौदुम्बरीणां शाखानां राशिभिः पवित्रितपर्यन्तानि, वैश्वदे-
______________________________________________________
-
अतीत्यादि। यस्य क्रोधादिभावगण इङ्गितादिना परेण न चेत्यते स गम्भीरः। उक्तं च—‘यस्य प्रसादादाकारात्क्रोधहर्षभयादयः। भावस्था नोपलभ्यन्ते तद्गाम्भीर्यमुदाहृतम्॥’ इति। अगाधश्च। अवतरणमवतारः, प्रवेशनम्। अवतरन्ति येनेत्यवतारः, सोपानादिश्च। समीहितसिद्धिं राजगृह आत्मनः प्रवेशलक्षणम्, जलग्रहणलक्षणं च। गुणा औदार्यादयः, आकर्षणरज्जवश्च। पार्थिवा राजानः, पृथ्वीविकाराश्च। घटयन्ति वाञ्छितेन प्रयोजयन्तीति घटकाः, कुम्भाश्च। अनेन तादृशे राज्ञि बाणस्य कृष्ण एव समीहितसिद्धीराध्यास्यत इति सूचितम्॥१॥*
-
रागिणि रक्ते, विषयाभिषङ्गिणी च। लक्ष्मीं शोभाम्, समृद्धिं च। अत्र नलिनादिकमप्रस्तुतम्, बाणाद्यास्त्वप्रस्तुताः। अनेन कृष्ण ईदृशे बाणे राजप्रभवां श्रियं निधास्यतीत्युक्तम्॥२॥*
-
अथेत्यादि।*** बाणो बान्धवानां भवनानि भ्रमन्सुखमतिष्ठदिति संबन्धः। शिखा चूडा, ज्वाला च। सोमो यज्ञियं द्रव्यम्। केदारिकं स्वल्पं क्षेत्रम्। प्रघटनेषु तथोचितत्वात्। अहरिता हरिताः संपद्यमाना हरितायमानाः। लोहितादित्वात्क्यप्। प्रघनान्यङ्गनानि। ‘उशन्ति प्रघनाभिख्यामेकदेशे तु वेश्मनः’। पुरोडाशीयेत्यादि सहितेऽर्थ ईयः। बालिकाः कुमार्यः। नीवारा अकृष्टपच्या व्रीहयः। कूटो राशिः। आमिक्षीयमिति। तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा। ‘आमिक्षा सा श्रृतोष्णे या क्षीरे स्याद्दधियोगतः’ इति। तस्यै हितमामिक्षीयम्। आमिक्षाप्रकृतित्वमस्य व योग्यत्वात्। अग्निहोत्रेषु तस्या अनाम्नातत्वात्, यद्वा यदन्नस्य जुहुयादिति। तस्या
वपिण्डपङ्क्तिपाण्डुरितप्रदेशानि, हविर्धूमधूसरिताङ्गनविटपिकिसलयानि, वत्सीयबालकलालितललत्तरलतर्णकानि, क्रीडत्कृष्णशारच्छागशावकप्रकटितपशुबन्धप्रबन्धानि, शुकसारिकारब्धाध्ययनदीयमानोपाध्यायविश्रान्तिसुखानि, साक्षात्त्रयीतपोवनानीव चिरदृष्टानां बान्धवानां प्रीयमाणो भ्रमन्भवनानि, बाणः सुखमतिष्ठत्।
तत्रस्थस्य चास्य कदाचित्कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः संफुल्लमल्लिकाधवलाट्टहासो महाकालः। प्रत्यग्रनिर्जितस्यास्तमुपगतवतो वसन्तसामन्तस्य बालापत्येष्विव पयःपायिषु नवोद्यानेषु दर्शितस्नेहो मृदुरभूत्। अभिनवोदितश्च सर्वस्यां पृथिव्यां सकलकुसुमबन्धनमोक्षमकरोत्प्रतपन्नुष्णसमयः। स्वयमृतुराजस्याभिषेकार्द्राश्चामरकलापा इवागृह्यन्त कामिनीनां चिकुर-
____________________________________________________
अपि हवनं भवत्येव। वलयैः समूहैः। वितर्दिका वेदिका। कमण्डलुर्मुनिकरकस्तस्मै हिताः कामण्डलव्याः। ‘उगवादिभ्यो यत्’। यतीनां निष्किंचनत्वादादरत्वाच्च स्वयंकरणम्। वितानो यज्ञः तत्र भवा वैतानी यज्ञाग्निकार्यभूः। शङ्कुः कीलकः। तस्मै हितः शङ्कव्यः। औदुम्बरीणामिति। तासां यज्ञियत्वात्। वत्सेभ्यो हिता वत्सीयाः वत्सपरिचर्याचतुराः। तर्णकाः सद्योजाता वत्साः। कृष्णशारेति छागविशेषणम्। तदुक्तम्—‘लोहितसारङ्गः कृष्णसारङ्गो वा’ इति सारङ्गशब्दः शबले वर्तते। कृष्णशारा मृगा इति केचित्। तत्तु न। तेषां तदानुपयुक्तत्वात्। पशुबन्धा यज्ञाः।
- कुसुमसमयो वसन्तः स एव युगं कल्पस्तल्लक्षणं वा युगं मासद्वयम्। समुत्फुल्लमल्लिकाभिर्धवला अट्टा विक्रयस्थानानि तेषां विकासो यत्र, अन्यत्र तद्वदट्टहास उद्धतं हसितं यस्य। शब्दशक्तिमूलानुरणनव्यङ्ग्यरूपो ध्वनिश्च। प्रकृतवर्णने ह्यन्यदप्यत्र प्रतीयते। न वाच्यतया। तथा च— महाकालः साट्टहासः कल्पमुपसंहरञ्जृभते मुखं च विदारयति। महान्कालो ग्रीष्माख्यः, भैरवश्च। पयो जलम्, क्षीरं चाबालापत्यपक्षे—नवमुद्यानमुद्गमनं येषां तेषु। इदंप्रथमतयागमनप्रवृत्तेष्वित्यर्थः। दर्शितस्नेह इत्यनेनास्य विजिगीषुव्यवहार आरोपितः। निर्जितस्य च पुनः प्रतिष्ठापनमेव युक्तम्। स्नेहः आर्द्रता, प्रीतिश्च। मृदुरकठोरः, सदयश्च।* अभिनवोदित इति। साधारणं विशेषणम्। वासन्तिकपुष्पाभिप्रायेण सकलपदबन्धनं वृन्तकारी च प्रतपन्प्रकर्षेण तपन्, अन्यत्र शत्रुहृदयेषु प्रतापं जनयन्। अभिनवोदितश्च राजा बन्धनमोक्षं करोति। उक्तं हि—‘युवराजाभिषेके वा परचक्रावरोपणे। पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते॥’ इति। आदरप्रतिपादनाय स्वयंशब्दः। अभिषेकः स्नानम्। अन्यत्र मङ्गलजलपातनं तत्संपर्कवशाच्चार्द्रत्वम्।
चयाः कुसुमायुधेन। हिमदग्धसकलकमलिनीकोपेनेव हिमालयाभिमुखीं यात्रामदादंशुमाली।
अथ ललाटंतपे तपति तपने चन्दनलिखितललाटिकापुण्ड्रकैरलकचीरचीवरसंवीतैः स्वेदोदबिन्दुमुक्ताक्षवलयवाहिभिर्दिनकराराधननियमा इवागृह्यन्त ललनाललाटेन्दुभिः। चन्दनधूसराभिरसूर्यंपश्याभिः कुमुदिनीभिरिव दिवसमसुप्यत सुन्दरीभिः। निद्रालसा रत्नालोकमपि नासहन्त दृशः, किमुत जरठमातपम्। अशिशिरसमयेन चक्रवाकमिथुनाभिनन्दिताः सरित इव तनिमानमानीयन्त सोडुपाः शर्वर्यः। अभिनवपटुपाटलामोदसुरभिपरिमलं न केवलं जलम्, जनस्य पवनमपि पातुमभूदभिलाषो दिवसकरसंतापात्।
क्रमेण च खरखगमयूखे, खण्डितशैशवे, शुष्यत्सरसि, सीदत्स्रोतसि, मन्दनिर्झरे, झिल्लिकाझांकारिणि, कातरकपोतकूजि-
_____________________________________________________
चिकुराः केशाः। ते हि तदा स्नानार्द्रतया संयमनात्सुन्दरतया विशेषतः शृङ्गारमुद्दीपयन्ति। तथा च महाकवेः कालिदासस्य—‘स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु। कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे रतिमङ्गनानाम्’॥ यथा वा। राजशेखरस्य—‘तदात्वे स्नातानां दरदलितमल्लीमुकुरिणाम्’ इत्यादि। हिमाभिप्राये च हिमालयग्रहणम्। अंशून्मलति धारयतीत्यनेन हिमं प्रतिभवनशीतलत्वमस्योच्यते।
-
ललाटं तपतीति ललाटंतपः इति खश्। खरतर इत्यर्थः। ललाटेऽलंकारो ललाटिका। ‘कर्णललाटात्कनलंकारे’। ललाटिकैव पुण्ड्रकं तिलकमिति सर्वत्र रूपकम्। संवीतैः प्रावृतैः। चन्दनेन च तद्वद्धूसराः। असूर्यंपश्याभिरिति। आतपासहिष्णुतया। अन्यत्र स्वभावात्। दिवसं सुप्यत इति द्रव्यकर्मणि लादिविधानात्कर्मणि द्वितीयैव। भावे लः। यदातु कर्माप्याख्याततया विवक्ष्यते तदा दिवसः सुप्यत इति भाव्यमिति निर्णीतम्। स्वापो निद्रा, मुकुलता च। जरठं कठोरम्। यतो ग्रीष्मेण तनूकृता अत आह—चक्रवाकेत्यादि। रात्रौ किल चक्रवाकानां वियोगो भवतीत्यल्पतया तैस्ता अभिनन्द्यन्ते। सरितश्च वृत्तिकारिकास्तेषामिति तदभिनन्दनम्। उडुपः शशी, प्लवश्च।*
-
क्रमेण चेत्यादावेवंविधे निदाघकाले कठोरीभवति सत्युन्मत्ता मातरिश्वानः प्रावर्तन्तेति संबन्धः। खगो रविः। शुष्यदिति साभिप्रायम्। स्रोतसश्च प्रसरणधर्मत्वादाह—सीददिति। समन्तादावेगगामिनः। झिल्लिका चीरीनामकः प्राणी यो वर्षासु तरुषु सीत्कारमुच्चैः करोति। कातरेति। कपोता हि मेदोम-*
तानुबन्धबधिरितविश्वे, विश्वसत्पतत्त्रिणि, करीषंकषमरुति, विरलवीरुधि, रुधिरकुतूहलिकेसरिकिशोरकलिह्यमानकठोरधातकीस्तबके, ताम्यत्स्तम्बेरमयूथवमथुतिम्यन्महामहीधरनितम्बे, दूयमानद्विरददीनदानाश्यानश्यामिकालीनमूकमधुलिहि, लोहितायमानमन्दारसिन्दूरितसीम्नि, सलिलस्यन्दसंदोहसंदेहमुह्यन्महामहिषविषाणकोटिविलिख्यमानस्फुटत्स्फाटिकदृषदि, धर्ममर्मरितगर्मुति, तप्तपांशुकुकूलकातरविकिरे, विवरशरणश्वाविधि, तटार्जुनकुररकूटज्वरनिवर्तमानोत्तानशफरशारपङ्कशेषपल्वलाम्भसि, दावजनितजगन्नीराजने, रजनीराजयक्ष्मणि, कठोरीभवति निदाघकाले, प्रतिदिशमाटीकमाना इवोषरेषु प्रपावाटकुटीपटलप्रकटलुण्ठकाः,
____________________________________________________
यत्वान्नितान्तं घर्मासहाः। अत एव पतत्त्रित्वेऽपि पृथगुपादानम्। पतत्त्रित्वाभिप्रायेण श्वासमित्येतावदेव समुचितम्। एषां तथाभूतरुजाभावात्। करीषो गोमयम्। वीरुत्सपर्णशाखाजटिलं कुप्यकादि। किशोरकेति। बालत्वेन तृष्णाद्यसहिष्णुता, मुग्धतातिशयश्च द्योत्यते। धातकी लताभेदः। स्तबकः पुष्पगुच्छः। स्तम्बेरमो हस्ती। वमथुः करिकरशीकरः। तिम्यन्त आर्द्रीभवन्तः। नितम्बाः सानवः। द्विरदाः करिणः। दीनं क्षीणम्। आश्याना अप्रसरणधर्मकत्वादीषच्छुष्कश्यामिका मदलेखासंबन्धिनी। लीना अतितर्षाच्छिल्ष्टाः। मूका गुञ्जितहीनाः। अलोहिता लोहिता भवन्तो लोहितायमानाः। मन्दाराः पारिभद्रद्रुमाः। सिन्दूरिता आहितसिन्दूरा इव। लोहितत्वात्। ग्रामस्य ग्रामान्तरेण मर्यादा सीमा। स्यन्दः स्रुतिः। विलिख्यमाना विपाट्यमानाः। मर्मरिताः शुष्कत्वेन शब्दायमानाः। गर्मुतो लताः। कुकूलं तुषाग्निः। विकिराः कुक्कुटाद्याः। श्वाविधः शललाः सेहिकाख्या हिंस्राःप्राणिनः। तटशब्देन नैकट्यमाह। अर्जुनाः ककुभवृक्षाः। कुरराः क्रौञ्चपक्षिणः। कूटः शब्द एव संतापकारित्वाज्वरस्तेन स्फुरन्तः शफरा मत्स्यास्तैः। शारं सितोदरत्वात्। पल्वले नड्वले। कुररास्तटस्था यदा कूजन्ति तदा मत्स्याः पीडिताः सन्त उत्प्लवन्तीति वस्तुधर्मोऽयम्। नीराजनमिति। नीराजनं शान्तिकर्म। राजयक्ष्मा क्षयव्याधिः। शनैः शनैरपचयकारित्वात्। मातरिश्वानः कीदृशाः प्रावर्तन्तेत्याह—प्रतिदिशमित्यादि। आटीकमाना उच्चैर्भ्रमन्तः। साभिप्रायमेतत्। रजोवशादेतेषां तथाविधसंनिवेशात्। ग्रीष्मे ह्येवंविधा मारुताः प्रावर्तन्तेति कालधर्मः। उन्मत्तपक्षे—आटीकमाना इत्यादि सर्वं वक्ष्यमाणयोग्यतया योजनीयम्। उद्धतभ्रमणाद्या ह्युन्मादस्यानुभावाः। तदुक्तम्—‘अनिमित्तहसितरुदितोत्कृष्टाबद्धप्रलापशयनोत्थितप्रधावितवृत्तगीत-पठितस्मितपांस्ववधूनननिर्माल्यचीरघटवक्रशरावाभरणस्पर्शनोपभोगैरन्यैश्चाव्यव-स्थितचेष्टानुकरणादिभिरनुभावैरभिनयेत्’ इति। ऊषरं
प्रपक्वकपिकच्छूगुच्छच्छटाच्छोटनचापलैरकाण्डकण्डूला इव कर्षन्तः शर्करिलाः कर्करस्थलीः, स्थूलदृषच्चूर्णमुचः, मुचुकुन्दकन्दलदलनदन्तुराः, समन्ततः पतन्मुखरचीरीगणमुखशीकरशीक्यमानतनवः, तरुणतरतरणितापतरले तरन्त इव तरङ्गिणि मृगतृष्णिकातरङ्गिणीनामलीकवारिणि, शुष्यच्छमीमर्मरमारवमार्गलङ्घनलाघवजवजङ्घालाः, रैणवावर्तमण्डलीरेचकरासरसरभसारब्धनर्तनारम्भारभटीनटाः, दावदग्धस्थलीमषीमिलनमलिनाः, शिक्षितक्षपणकवृत्तय इव वनमयूरपिच्छचयानुच्चिन्वन्तः, सप्रयाणगुञ्जा इव
___________________________________________
सिकताबहुलो रूक्षो देशः। प्रपा सनम्। वाटः कुनालम्। पटलं छदिः। कपिकच्छूः कण्डूदायको द्रव्यमेदः। अत एवाह—कर्षन्त इति। शर्कराः पाषाणकणिका विद्यन्ते यासु ताः शर्करिलाः। पिच्छादित्वादिलच्। कर्करस्थली ऊषरभूः पाषाणभूः। अत एवाह—स्थूलेत्यादिना। मुचुकुन्दं पुष्पभेदः। कन्दलं नवनालम्। दन्तुरा इति। कपिकच्छूस्पर्शचालनेन च ये कण्डूलास्तादृशाश्चूर्णमुचः प्रकटदन्ताः परुषं कषन्ति। शीक्यमानाः सिच्यमानाः। तरुणतरः प्रौढः। तरणिरादित्यः। तरन्त इवेति। वालुकावशात्तथा लक्ष्यमाणत्वात्। मृगतृष्णिका मरीचिका। तृषितमृगाणां रविरश्मिखचितासु सिकतासु नीलत्वदर्शनाज्जलबुद्धिः। वारिणीति। सतरङ्गे वारिणि ये सभीकास्ते सतापं देशं तरन्ति। उन्मत्तपक्षेऽपि विचित्तत्वेनैवंकारित्वम्। शम्योऽग्निगर्भा वल्ली मेदाः। लाघवं नैपुणम्। सव्यायामाश्च विषमं मार्गं लाघवेन तरन्ति। जङ्घाला वेगवन्तः। रैणवावर्ताः पांसुसंबन्धिन आवर्तनरूपाः संनिवेशास्तेषां मण्डली समूहः। रेचयति पृथक्करोतीति रेचकम्। रैणवावर्तमण्डल्या रेचकं तथा रासे रसिते यो रसस्तेन यो रभसस्तद्वशेनारब्धं यन्नर्तनमिव नर्तनं तदारम्भे विषय आरभटीनटा इव आरभटीनटाः। इयरतेति अराः। अराश्च ते भटा अरभटाः। तेषामियमारभटी नटजातिविशेषो वीररसप्रधानः। उक्तं च—‘प्लुष्टावपातप्लुतगर्जितानि च्छेद्यानि मायाकृतमिन्द्रजालम्। चित्राणि यूथानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति॥‘इति, नृत्तपक्षे—आवर्ता आवृत्तयः। यदाह मुनिः—‘यदा नृत्तवशादङ्गं भूयोभूयो निवर्तते। तत्राद्यमभिनेयं स्याच्छेषं नृत्ते नियोजयेत्॥’ इति। मण्डलीनृत्तं हलीमकम्। यदाह—‘मण्डलेन’ तु यन्नृत्तं हलीमकमिति स्मृतम्। एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः॥’ इति। रेचकास्त्रयः—कटीरेचकः, हस्तरेचकः, ग्रीवारेचकश्चेति। रासलक्षणम्—‘अष्टौ षोडशद्वात्रिंशद्यत्र नृत्यन्ति नायकाः। पिण्डीबन्धानुसारेण तन्नृत्तं रासकं स्मृतम्॥’ इति। अस्यैव तु हलीमकाद्या विशेषाः। क्षपणकवृत्तय इवेति। क्षपणकाश्च मषीमलिना बर्हिपिच्छानि शास्त्रचोदनया वहन्ति। उन्मत्तपक्षे—निर्विवेकतया मयूरपिच्छचय इत्युक्तं प्राक्। गुञ्जन्तीति गुञ्जा ढक्कामेदाः। उन्मत्तानां नृत्ताव-
शिञ्जानजरत्करञ्जमञ्जरीबीजजालकैः, सप्ररोहा इवातपातुरवनमहिषनासानिकुञ्जस्थूलनिःश्वासैः, सापत्या इवोड्डीयमानजवनवातहरिणपरिपाटीपेटकैः, सभ्रुकुटय इव दह्यमानखलधानबुसकूटकुटिलधूमकोटिभिः, सावीचिवीचय इव महोष्ममुक्तिभिः, लोमशा इव शीर्यमाणशाल्मलिफलतूलतन्तुभिः, दद्रुणा इव शुष्कपत्रप्रकराकृष्टिभिः, सिराला इव तृणवेणीविकिरणैः, उच्छ्मश्रव इव धूयमाननवयवशूकशकलशङ्कुभिः, दंष्ट्राला इव चलितशललसूचीशतैः, जिह्वाला इव वैश्वानरशिखाभिः, उत्सर्पत्सर्पकञ्चुकचूडाला ब्रह्मस्तम्भरसाभ्यवहरणाय कवलग्रहमिवोष्णैः कमलमधुभिरभ्यस्यन्तः सकलसलिलोच्छोषघर्मघोषणापटहैरिव शुष्कवेणुवनास्फोटनपटुरवैस्त्रिभुवनबिभीषिकामुद्भावयन्तः, च्युतचलचाषपक्षश्रेणीशारितसृतयः, त्विषिमन्मयूखलतालातप्लोषकल्माषवपुष इव स्फुटि-
_________________________________________
सरे सर्व एव करतलादि वादयन्ति। शिञ्जानाः शब्दायमानाः। करञ्जो वृक्षमेदः। प्ररोहोऽङ्कुरः। उन्मत्ता अपि खेदान्निःश्वसन्ति। सापत्या इवेति। उन्मत्ता अपि श्वभ्रादिपतनभयादपत्यानि न त्यजन्ति। पेटकैर्यूथैः। सभ्रुकुटय इवेति। दह्यमानाभिप्रायेणोक्तम्। उन्मत्ता अपि क्रोधप्राया एव क्रोधस्य भ्रुकुट्यादयोऽनुभावाः। खलधानं क्षोदादिदेशः। क्षुद्यमानं धान्यमित्यन्ये। सस्यस्य ज्वालाभावाद्धूमवर्णनं समुचितम्। कुटिलपदेन च भ्रुकुटीसादृश्यमाह। अवीचिर्नरकमेदस्तस्य वीचय इव वीचयो ज्वालाः। महोष्मेति। उन्मत्ता अपि खेदादिवशादूष्मायन्ते। लोमशा इवेति। उन्मत्ता अपि क्षुद्रकर्मविना लोमशाः। तूलं कार्पासः। दद्रूः कुष्ठविकारः। सास्यास्तीति दद्रुणः। ‘दद्वा ह्रस्वत्वं च’ इति नः। उन्मत्ता अप्युद्वर्तनं विना दद्रूयुक्ता भवन्ति। सिरालाः प्रकटस्नायवः। उन्मत्ता अपि कृशत्वात्सिराला भवन्ति। वेणी पङ्क्तिः। सिरासादृश्यप्रतिपादनाय वेणीपदम्। श्मश्रुः कूर्चः। शुकाः किंशारवः। उन्मत्ता अपि केशवपनाभावाद्दीर्घश्मश्रवः। दंष्ट्रा बहिर्निर्गता दन्ताः। शललः श्वावित्। सूची दीर्घकण्टकरूपाणि रोमाणि, अन्ये तु—दंष्ट्रालाः शललाः, श्वाविधः पक्षाश्च शलला उच्यन्ते। तथा च—‘श्वाविधः शललैरिव’ इति महाभारते दृश्यत इत्याहुः। उन्मत्ता अप्येवमादिविकारेण सर्वं भीषयन्ते। एवं जिह्वाला अपि। एवमेव स्नानादिना विनोन्मुक्तचूडत्वादुत्सर्पदित्यादि। कञ्चुकस्त्वक्। ब्रह्मस्तम्भो ब्रह्माण्डः। रसाभ्यवहरणं शोषणम्, रसानां च मधुरादीनां भोजनम्। ‘असंचार्यो मुखे पूर्णे गण्डूषः कवलोऽन्यथा’। अभ्यस्यन्तीति। एवमिदं शोषयिष्याम इति। घर्मो ग्रीष्मः। घोषणा श्रावणा। विभीषिकामिति। ये सगर्वा जगद्भसनशीलास्ते त्रिभुवनेऽपि भयमुत्पादयन्ति। चाषः किकीदिविः पक्षिमेदः। उन्मत्तपक्षे—विस्मरणशीलत्वाद्युतेत्यादि योज्यम्। सृतिर्मार्गः। त्विषिमाव्रविः। अलातमु-
तगुञ्जाफलस्फुलिङ्गाङ्गाराङ्किताङ्गाः, गिरिगुहागम्भीरझांकारभीषणभ्रान्तयः, भुवनभस्मीकरणाभिचारचरुपचनचतुराः, रुधिराहुतिभिरिव पारिभद्रद्रुमस्तबकवृष्टिभिस्तर्पयन्तस्तारवान्वनविभावसून्, अशिशिरसिकतातारकितरंहसः, तप्तशैलविलीयमानशिलाजतुरसलवलिप्तदिशः, दावदहनपच्यमानचटकाण्डखण्डखचिततरुकोटरकीटपटलपुटपाकगन्धकटवः, प्रावर्तन्तोन्मत्ता मातरिश्वानः।
सर्वतश्च भूरिभस्त्रासहस्रसंधुक्षणक्षुभिता इव जरठाजगरगम्भीरगलगुहावाहिवायव, क्वचित्स्वच्छन्दतृणचारिणो हरिणाः, क्वचित्तरुतलविवरविवर्तिनो बभ्रवः क्वचिज्जटावलम्बिनः कपिलाः, क्वचिच्छकुनकुलकुलायपातिनः श्येनाः क्वचिद्विलीनलाक्षारसलो-
_____________________________________________
ल्मुकम्। कल्माषं रक्तकृष्णम्। गुञ्जा रक्तिकोत्पलानि लोहितकृष्णानि भवन्ति। स्फुलिङ्गा अग्निकणाः। अङ्गाराङ्कितानीवाङ्गाराङ्कितानि दग्धान्यङ्गानि। ये च साङ्गारास्ते मलिनशरीरा भवन्ति। उन्मत्ता अप्यग्निशस्त्रश्वभ्रादिषु बलादतिपतन्ति। झांकारभीषणा भ्रमन्ति च॥ अभिचार उच्चाटनम्। अभिचारिणश्चोच्चाटनमारणाद्यर्थं चरुपचनं कुर्वन्ति, रक्तेन चाग्नीन्प्रीणयन्ति। पारिभद्रा निम्बाः। मदना इत्यन्ये। उन्मत्ता अपि निर्विवेकतया रक्तादि यत्किंचिदशुचिप्रायमग्निषु विक्षिपन्ति, तत एव विश्वस्य दोषाय पर्यवस्यन्ति। तारकितमिव रंहो वेगो येषां ते। शिलाजतुरश्मसारः। दावदहनेन पच्यमानानि यानि चटकाण्डानि तेषां विदारणवशात्स्फुटिता ये खण्डाः कपालानि तैः। दोलावदुपरिपतितैः खचितानि कचायमानानि यानि तरुकोटरेषु कीटपटलानि क्रिमिसमूहास्तेषामतिपेशलत्वेन यत एव तप्तैः त्वण्डैरुपर्याच्छादकतया स्थितैः पुटपाकैः प्रसूतधूमोऽभ्यन्तरपातस्तद्गन्धेन कटव उद्वेजकाः। अत्राग्निपाकेन खण्डत्वं खण्डेभ्यो रसनिःसरणात्खचितत्वं कीटानाम्। उन्मत्ता इति। ये चोन्मत्तास्ते सिकताव्याप्ताः कर्दमविलिप्तदिशो गन्धकटवः शाटीकराद्याः पूर्वोक्ताः क्रियाः प्रायेण कुर्वत इति। सर्वत्रात्र महावाक्ये ध्वनिच्छायान्वेष्या। मातरिश्वानो वायवः।
- सर्वतश्चेत्यादौ दावाग्नयः प्रत्यदृश्यन्तेति संबन्धः। भस्त्रा दृतिः। संधुक्षणमुद्दीपनम्। जरठाजगरा वृद्धसर्पाः। गला एव गुहा गलगुहाः। स्वच्छन्दमपविग्नम्, यथारुचि। चरणं भक्षणम्, गमनं च। हरिणाः शुक्लाः, मृगाश्च। बभ्रवः कपिलाः, नकुलाश्च। इतरत्र जटामूलानि च। कपिलाः पिङ्गलाः। कपिलाख्यमुनिव्रतग्रहणान्मनुष्या एवाभेदोपचारेण कपिलाः। एते च जटावल्कलधारिणः। कुलाया नीडाः। श्येनाः शुक्लाः, पाजिकाश्च। अधरा धर्तुमशक्याः, अधोभवा वा। लाक्षाया विलीनतया पीतत्वात्। ओष्ठाश्चाधराः। आ समन्तात्सादिता आहताः, स्वी-*
हितच्छवयोऽधराः, क्वचिदासादितशकुनिपक्षकृतपटुगतयो विशिखाः, क्वचिद्दग्धनिःशेषजन्महेतवो निर्वाणाः, क्वचित्कुसुमवासिताम्बरसुरभयो रागिणः, क्वचित्सधूमोद्गारा मन्दरुचयः, क्वचित्सकलजगद्ग्रासघस्मराः सभस्मकाः, सभस्मकाः, क्वचिद्वेणुशिखरलग्नमूर्तयोऽत्यन्तवृद्धाः, क्वचिदचलोपयुक्तशिलाजतवः क्षयिणः, क्वचित्सर्वरसभुजः पीवानः, क्वचिद्दग्धगुग्गुलवो रौद्राः क्वचिज्ज्वलितनेत्रदहनदग्धसकुसुमशरमदनाः कृतस्थाणुस्थितयः, चटुलशिखानर्तनारम्भारभटीनटाः क्वचिच्छुष्ककासारसृतिभिः स्फुटन्नीरसनीवारबीजलाजवर्षिभिर्ज्वालाञ्जलिभिरर्चयन्त इव घर्मघृणिम्, अघृणा इव हठहूयमानकठोरस्थलकमठवसाविस्रगन्धगृध्नवः स्वमपि धूममम्भोदसमुद्भूतिभियेव भक्षयन्तः, सतिलाहुतय इव स्फुटद्बहलबालकीटपटलाः कक्ष्येषु, श्वित्रिण इव प्लोषविचटद्वल्कलधवलशम्बूक-
_____________________________________________
कृताश्च। स्निग्धतया नीरसतया च। शकुनीनां पक्षेषु कृतपटुगतयः निःसारतया कालस्थापितत्वात्। विगता शिखा ज्वाला येषां ते, विविधशिखाः शराश्च। निःशेषाः समस्ताः, ग्राक्तनजन्मान्तरसंचिता अपि। जन्महेतवस्तृणाद्याः, कर्माणि च। निर्वाणाः शान्ताः, मोक्षगामिश्च। कुसुमं धूमः, पुष्पं च। अम्बरं नभः, वस्त्रं च। रागिणो लोहिताः, शृङ्गारिणश्च। अजीर्णकृतोऽपि धूमोद्गारः। रुचिर्दीप्तिः, भोजनाभिलाषश्च। जगदेव ग्रासः कवलं तद्भक्षणशीलाः। भस्मभूरिकश्चात्यशनव्याधिः। वृद्धा वृद्धिं गताः, स्थविराश्च। ते वेणुशिखरमवलम्बन्ते यष्टिं गृह्णन्ति। अचलाः पर्वताः। अन्यत्र क्षयस्य दीर्घकालपर्यवसायित्वादचलमविच्छिन्नं भक्षितशिलाह्वयाः। उक्तं च—‘शिलाधातुप्रयोगाद्वा प्रसादाद्वाथ शांकरात्। अजामूत्रप्रयोगाद्वा क्षयः क्षीयेत नान्यथा॥’ इति। क्षयो विनाशः, व्याधिभेदश्च यक्ष्माख्यः। रसः सलिलादिः। अत एव पीवानः। अन्यथा कथं सलिलादिभक्षणशक्तित्वममीषां प्रसज्येत। ये च मधुरादिसर्वरसानुपभुञ्जते ते स्थूला भवन्ति। रौद्रा भीषणाः, रुद्रभक्ताश्च। नेत्राणां मूलानां दहनेन दग्धाः सकुसुमाः काण्डानि मदना वृक्षभेदाश्च यैः। स्थाणुश्छिन्नशाखो वृक्षः, शिवश्च। स्थितिः स्थानम्, व्यवहारश्च। स्थाणुनापि नयनाग्निना सकुसुमशरः कामो दग्धः। चटुलत्वेन नर्तनाम्भः, रवश्च। शुष्कत्वाच्चटुलादेरार-भटीग्रहणम्। कासाराणि नड्वलास्तेषु याः सृतयः। क्वचित् ‘स्मृतयः’ इति पाठः। इतरत्र तु—शुष्ककं शुष्कगीतं झण्ठुमादि। आसार्यन्त इत्यासाराः। आसारितानि यद्यपि गीयन्त एव, तथापि ‘वर्धमानमथापीह ताण्डवं यत्र योज्यते’ इति। ताण्डवं ह्यारभटीप्रधानम्। अर्चयन्त इवेति। तेषां तदभिमुखत्वात्। घर्मघृणिः सूर्यः। अघृणा अजुगुप्साः। कमठः कूर्मः। ‘विस्रं स्यादामगन्धि यत्’। गृध्नवो लम्पटाः। समुद्भूतिः संभारः। धूमात्किल मेघोत्पत्तिर्मेघाः शमयन्ति। कीटाः कृमयः। प्लोषो
शुक्तयः शुष्केषु सरःसु, स्वेदिन इव विलीयमानमधुपटलगोलगलितमधूच्छिष्टवृष्टयः काननेषु, खलतय इव परिशीर्यमाणशिखासंहतयो महोषरेषु, गृहीतशिलाकवला इव ज्वलितसूर्यमणिशकलेषु शिलोच्चयेषु, प्रत्यदृश्यन्त दारुणा दावाग्नयः।
तथाभूते च तस्मिन्नत्युग्रे ग्रीष्मसमये कदाचिदस्य स्वगृहावस्थितस्य भुक्तवतोऽपराह्णसमये भ्राता पारशवश्चन्द्रसेननामा प्रविश्याकथयत्—‘एष खलु देवस्य चतुःसमुद्राधिपतेः सकलराजचक्रचूडामणिश्रेणीशाणकोणकषणनिर्मलीकृतचरणनखमणेः सर्वचक्रवर्तिनां धौरेयस्य महाराजाधिराजपरमेश्वरश्रीहर्षदेवस्य भ्रात्रा कृष्णनाम्ना भवतामन्तिकं प्रज्ञाततमो दीर्घाध्वगः प्रहितो द्वारमध्यास्ते’ इति। सोऽब्रवीत्—‘आयुष्मन्, अविलम्बितं प्रवेशयैनम्’ इति।
अथ तेनानीयमानम्, अतिदूरगमनगुरुजडजङ्घम्, कार्दमिकचेलचीरिकानियमितोच्चण्डचण्डातकम्, पृष्ठप्रेङ्खत्पटच्चरकर्पटघटितगलितग्रन्थिम्, अतिनिबिडसूत्रबन्धनिम्नितान्तरालकृतव्यवच्छेदया लेखमालिकया परिकलितमूर्धानम्, प्रविशन्तं लेखहारकमद्राक्षीत्। अप्राक्षीच्च दूरादेव—‘भद्र, भद्रमशेषभुवननिष्कारणबन्धोस्तत्रभवतः कृष्णस्य’ इति। सः ‘भद्रम्’ इत्युक्त्वा प्रणम्य नातिदूरे समुपाविशत्। विश्रान्तश्चाब्रवीत्—‘एष खलु स्वामिना माननीयस्य लेखः प्रहितः’ इति विमुच्य चार्पयत्। अथ बाणः सादरं गृही-
_________________________________________
दाहः। वल्कलशब्दस्त्वगुपलक्षणार्थः। शम्बूकाः शुक्तिमन्तः प्राणिभेदाः। मधुपटलगोलो माक्षिककरण्डः। मधूच्छिष्टं सिक्थकम्। खलतयः खल्वाटाः। शिखा ज्वाला, चूडा च। ऊषरं सिकताबहलो रूक्षो देशः। शिलोच्चयो गिरिः। ‘दावो वह्निगतो वह्निर्दावश्च वनमुच्यते’।
-
तथाभूतदेश इत्यादिनात्मानं प्रति तेषामादरातिशयं दर्शयति। आकुर्वत इति। न त्वप्रस्तावे(?)। एतेन स्वस्य किमपि माहात्म्यमाह। स्वयमवसरमन्तरेण वा तस्य तदा प्रवेशाभावात्। एतदेव देवस्येत्यादिविशेषणसंदर्भमुखेन द्वारमध्यास्त इत्यनेन पोषयिष्यते। पारशवः शूद्रापुत्रः। शाणो मणिकषणम्। कोणोऽश्रिः। चक्रवर्तिनः सार्वभौमाः। धौरेयो मुख्यः। प्रज्ञाततमोऽतिप्रतीतः। एतेन च बाणं प्रति बहुमान एव गम्यते।*
-
जडा गमनाशक्ताः। कर्दमेन रक्तं कार्दमिकम्। चेलं वस्त्रम्। चीरिका खण्डिका। उच्चण्डमुच्चम्। गाढमित्यन्ये। चण्डातकमर्धोरुकं वासः। पटच्चरं जीर्णवस्त्रम्। निम्नितं नमितम्।लेखमालिकेति। अन्यैरपि तद्धस्ते लेखः प्रहित इति परागतः संबन्धः। ‘परिकरित*—‘इति पाठे वेष्टित इत्यर्थः। तत्रभवतः पूज्यस्य। नाति-
त्वा स्वयमेवावाचयत्—‘मेखलकात्संदिष्टमवधार्य फलप्रतिबन्धी धीमद्भिरपहरणीयः कालातिपात इत्येतावदत्रार्थजातम्। इतरद्वार्तासंवादनमात्रकम्’। अवधृतलेखार्थश्च समुत्सारितपरिजनः संदेशं पृष्टवान्। मेखलकस्त्ववादीत्—‘एवमाह मेधाविनं स्वामी—जानात्येव मान्यः यथैकगोत्रता वा, समानजातिता वा, समं संवर्धनं वा, एकदेशनिवासो वा, दर्शनाभ्यासो वा, परस्परानुरागश्रवणं वा, परोक्षोपकारकरणं वा, समानशीलता वा, स्नेहस्य हेतवः। त्वयि तु विना कारणेनादृष्टेऽपि प्रत्यासन्ने बन्धाविव बद्धपक्षपातं किमपि स्निह्यति मे हृदयं दूरस्थेऽपीन्दोरिव कुमुदाकरे। भवन्तमन्तरेणान्यथा चान्यथा चायं चक्रवर्ती दुर्जनैर्ग्राहित आसीत्। न च तत्तथा। न सन्त्येव ते येषां सतामपि सतां न विद्यन्ते मित्रोदासीनशत्रवः। शिशुचापलापराचीनचेतोवृत्तितया च भवतः केनचिदसहिष्णुना यत्किंचिदसदृशमुदीरितम्। इतरो लोकस्तथैव तद्गृह्णाति वक्ति च। सलिलानीव गतानुगतिकानि लोलानि खलु भवन्त्यविवेकिनां मनांसि। बहुमुखश्रवणनिश्चलीकृतनिश्चयः किं करोतु पृथिवीपतिः तत्त्वान्वेषिभिश्चास्माभिर्दूरस्थितोऽपि प्रत्यक्षीकृतोऽसि। विज्ञप्तश्चक्रवर्ती त्वदर्थम्—यथा प्रायेण प्रथमे वयसि सर्वस्यैव चापलैः शैशवमपराधीति। तथेति च प्रतिपन्नं स्वामिना। अतो भवता राजकुलमकृतकालक्षेपमागन्तव्यम्। अवकेशीवादृष्टपरमेश्वरो बन्धुमध्यमधिवसन्नासि मे बहुमतः। न च सेवावैषम्यविषादिना परमेश्वरोपसर्पणभीरुणा वा भवता भवितव्यम्। यतो यद्यपि—
_________________________________________________
दूर इति। अपि तु दूर एवेति सर्वत्रैव स्वस्य प्रभावातिशयं प्रतिपादयति। फलं प्रतिबध्नाति रुणद्धीति फलप्रतिबन्धी। कालातिपातः कालात्ययः। अर्थजातमभिघेयप्रकारः। अवधृतो ज्ञातः। एकेत्यादि कारणमुत्तरोत्तरमप्रधानम्। अन्यथा चान्यथा चेति। एतेन किंचिदेव संभवतीति दर्शयति। अत एवाह—न च तत्तथेति। तथात्वे तु बाणस्य दुर्वृत्तता प्रसज्येत। कृष्णस्यापि तादृशः पक्षपातः स्वामिप्रतारणादि च दोषायैव भवेत्। अत एव वक्ष्यति—तत्त्वान्वेषिभिरित्यादि। ग्राहित इत्येतावति वक्तव्य आसीदित्यनेन दुर्जनाः संपत्तिनिरवकाशा इति प्रतिपादितम्। अतएव वक्ष्यति—तथेति च प्रतिपन्नं स्वामिनेति। सतां साधूनमपि। सतां भवताम्। उदासीनो मध्यस्थः। अपराचीनापराङ्मुखी चेतोवृत्तिर्यस्याः। अवकेशी
स्वेच्छोपजातविषयोऽपि न याति वक्तुं
देहीति मार्गणशतैश्च ददाति दुःखम्।
मोहात्समाक्षिपति जीवनमप्यकाण्डे
कष्टं मनोभव इवेश्वरदुर्विदग्धः॥३॥
तथाप्यन्ये ते भूपतयः, अन्य एवायम्। न्यक्कृतनृगनलनिषधनहुषाम्बरीषदशरथदिलीपनाभागभरतभगीरथययातिरमृतमयः स्वामी। नास्याहंकारकालकूटविषदिग्धदुष्टा दृष्टयः, न गर्वगुरुगरगलग्रहगदगद्गदा गिरः, नातिस्मयोष्मापस्मारविस्मृतस्थैर्याणि स्थानकानि, नोद्दामदर्पदाहज्वरवेगविक्लवा विकाराः, नाभिमानमहासंनिपातनिर्मिताङ्गभङ्गानि गतानि, न मदार्दितवक्रीकृतौष्ठनिष्ठ्यूतनिष्ठुराक्षराणि जल्पितानि। तथा च। अस्य विमलेषु साधुषु रत्नबुद्धिः, न शिलाशकलेषु। मुक्ताधवलेषु गुणेषु प्रसाधनधीः, नाभरणभारेषु। दानवत्सु कर्मसु साधनश्रद्धा, न करिकीटेषु। सर्वाग्रेसरे यशसि महाप्रीतिः, न जीवितजरत्तृणे। गृहीतकरास्वाशासु
____________________________________________
निष्फलतरुः। स चादृष्टरविस्तरुमध्यगो न कस्यचित्प्रियः। स्वेच्छोपजाता विषया मण्डलानि यस्मात्तादृगपि देहि प्रयच्छेति वक्तुं न पार्यते। इतरत्र खेच्छया स्वसंकल्पेनोपजात उत्पन्नो विषयो गोचरो यस्य। तथा चोच्यते—‘काम जानामि ते मूलं संकल्पात्किल जायसे’ इति। अथ च स्वेच्छया उपजाता विषया यस्यायं देही च शरीरवानिति वक्तुं न याति। न शक्यत इति विरोधः। कामश्चानङ्गत्वाद्देही शरीरवानिति वक्तुं न युज्यत इत्यन्यार्थः। मार्गणा याचकाः, शराश्च मार्गणाः। जीव्यतेऽनेनेति जीवनम् ग्रामादि जीवितं च, ईश्वरो राजा हरश्च। दुर्विदग्धो दुरूढः, दुष्टत्वाद्विशेषेण दग्धश्च। अमृतेत्यादि साभिप्रायम्। यस्मादहंकारादि कालकूटादिना रूपयति, अतश्चाहंकारादीनामत्यन्ताभावप्रकाशनेच्छयामृतमयत्वमस्य दर्शयति। अमृतमयस्य च कालकूटादिभिर्न योगः। गरं विषम्। स्मयो गर्वः। स्थानकानि स्थितयः। अर्दितं वातव्याधिभेदः। तस्मिन्सति मुखं वक्रं भवति। तथाचोक्तम्—‘वायुः प्रवृद्धस्तैस्तैश्च वातलैरूर्ध्वमाश्रितः। वक्रीकरोति वक्तारमुक्तं हसितमीक्षितम्॥’ इति। निष्ठ्यूतानि निर्गतानि। विमलेष्वपापेषु, अन्यत्र सुच्छायेषु। पद्मरागादिष्विति वक्तव्ये शिलेत्यादिपदमादरार्थम्। एवमुत्तरत्रापि वाच्यम्। मुक्तवत्ताभिश्च धवलास्तेषु गुणेष्वौदार्यादिषु, सूत्रेषु च। प्रसाधनं प्रकृष्टं साधनम्, अर्जनम्, भूषणं च। दानं धनत्यागः, मदश्च। साधनं संपादनम्, सैन्यं च। साध्यतेऽनेनेति कृत्वा। करो दण्डः, पाणिश्च। आशा दिशः, चेतः, वाञ्छा-
प्रसाधनताभियोगः, न निजकलत्रचर्मपुत्रिकासु। गुणवति धनुषि सहायबुद्धिः, न पिण्डोपजीविनि सेवकजने। अपि च। अस्य मित्रोपकरणमात्मा, भृत्योपकरणं प्रभुत्वम्, पण्डितोपकरणं वैदग्ध्यम्, बान्धवोपकरणं लक्ष्मीः, कृपणोपकरणमैश्वर्यम्, द्विजोपकरणं सर्वस्वम्, सुकृतसंस्मरणोपकरणं हृदयम्, धर्मोपकरणमायुः, साहसोपन करणं शरीरम्, असिलतोपकरणं पृथिवी, विनोदोपकरणं राजकम्,प्रतापोपकरणं प्रतिपक्षः। नास्याल्पपुण्यैरवाप्येत सर्वातिशायिसुखरसप्रसूतिः पादपल्लवच्छाया’ इति। श्रुत्वा च तमेव चन्द्रसेनं समादिशत्—‘कृतकशिपुं विश्रान्तसुखिनमेनं कारय’ इति।
अथ गते च तस्मिन्, पर्यस्ते च वासरे, संघट्टमानरक्तपङ्कजसंपुटपीयमान इव क्षयिणि क्षामतां व्रजति बालवायसास्यारुणेऽपराह्णातपे, शिथिलितनिजवाजिजवे जपापीडपाटलेऽस्ताचलशिखरस्खलिते खञ्जतीव कमलिनीकण्टकक्षतपादपल्लवे पतङ्गे, पुरः
___________________________________________
च। प्रसादनं संपादनम्, दण्डश्च। गुणो ज्या, शौर्याद्याश्च गुणाः। उपक्रियन्तेऽनेनेत्युपकरणमुपयोगः। आत्मेति। नहि मित्राणि मित्रव्यतिरेकेण बान्धवादिव लक्ष्यादि किंचिदपेक्ष्यन्ते। प्रभुत्वमिति। तस्य प्रभुत्वं सेवकादीनां दानसंपादनादि। यथाह—‘यथाकालं प्रवर्तन्ते पण्डिताः’ इत्यादिवैदग्ध्यमात्रापेक्षया पण्डितानां क्षेपणादिवदर्थादनपेक्षितया हि तेषामौचित्यं न प्रतीयते। अनेन पण्डितसामान्यात्तदभिप्रायेण स्वस्य समुचितमेव हेवाकमव्यभिनक्ति। वैदग्ध्यापेक्षित्वं दर्शयतीति यावत्। बान्धवाः कुल्याः। लक्ष्मीश्छत्रचामरादिप्रतिपत्तिरूपा छत्रादिवत्तुल्या एव लभन्तेऽन्येषामनर्हत्वात्। कृपणेत्यादि। कृपणानां पोषणमेव समुचितम्। तत्र चैश्वर्यमेव हेतुः। ऐश्वर्यमर्थवत्ता। न तु द्विजातिवदेते सर्वस्वमर्हन्ति। सर्वशब्देन दारा अप्युच्यन्ते। एवमादि तु द्विजा एव लभन्ते। तद्व्यतिरेकेणान्येषामनर्हत्वात्। एवं हृदयादि तत्तदभिप्रायेण विचारणीयम्। सुखमेवास्वाद्यतया रस एव। रसः सुखरसः। छाया कान्तिः। यद्वा छायावत्त्वमेषां सर्वस्य कस्यचिदाश्रयणीयत्वादुपचर्यते। अल्पेत्याभिद्यभिप्रायेण पादयोः कल्पवृक्षतुल्यत्वमभिव्यज्यते। पुण्यवशात्तदवाप्तेः। एतत्पक्षे छायातपप्रतिपक्षजातिः। ‘भोजनाच्छादने सद्भिरुमे कशिपुरुच्यते’।
- वायसः काकः। जपा रविप्रियं पुष्पम्। आपीडः स्तबकः। कोऽत्रास्तेत्यादिस्वरूपकथनं क्षतपादपल्लवत्वादुत्प्रेक्षणम्। खञ्जतीवेति। यश्च खञ्जति स शिखरप्राये विषमे पथि। ये पुनरस्ताचले शिखरस्खलनकारणकं खञ्जनमित्युप्रेक्षयन्ते तान्प्रति कमलिनीत्यादि निरर्थकम्। खञ्जतीव स्खलतीव। पुरः पूर्वस्यां*
परापतति प्रेङ्खदन्धकारलेशलम्बालके शशिविरहशोकश्याम इव श्यामामुखे, कृतसंध्योपासनः शयनीयमगात्। अचिन्तयच्चैकाकी—‘किं करोमि। अन्यथा संभाविऽतोस्मि राज्ञा। निर्निमित्तबन्धुना च संदिष्टमेवं कृष्णेन। कष्टा च सेवा। विषमं च भृत्यत्वम्। अतिगम्भीरं महद्राजकुलम्। न च तत्र मे पूर्वजप्रवर्तिता प्रीतिः, न कुलक्रमागता गतिः, नोपकारस्मरणानुरोधः, न बालसेवास्नेहः, न गोत्रगौरवम्, न पूर्वदर्शनदाक्षिण्यम्, न प्रज्ञासंविभागोपप्रलोभनम्, न विद्यातिशयकुतूहलम्, नाकारसौन्दर्यादरः, न सेवाकाकुकौशलम्, न विद्वद्गोष्ठीबन्धवैदग्ध्यम्, न वित्तव्ययवशीकरणम्, न राजवल्लभपरिचयः। अवश्यं गन्तव्यम्। सर्वथा भगवान्पुरारातिर्भुवनगुरुर्गतस्य मे सर्वं सांप्रतमाचरिष्यति’ इत्यवधार्य गमनाय मतिमकरोत्।
अथान्यस्मिन्नहन्युत्थाय, प्रातरेव स्नात्वा धृतधवलदुकूलवासाः, गृहीताक्षमालः, प्रास्थानिकानि सूक्तानि मन्त्रपदानि च बहुशः समावर्त्य, देवदेवस्य विरूपाक्षस्य क्षीरस्नपनपुरःसरां सुरभिकुसुमधूपगन्धध्वजबलिविलेपनप्रदीपकबहुलां विधाय पूजाम्, परमया भक्त्या प्रथमहुततरलतिलत्वग्विचटनचटुलमुखरशिखाशेखरं प्राज्याज्याहुतिप्रवर्धितदक्षिणार्चिषं भगवन्तमाशुशुक्षणिं हुत्वा, दत्वा द्युम्नं यथाविद्यमानं द्विजेभ्यः, प्रदक्षिणीकृत्य प्राङ्मुखीं नैचिकीम्, शुक्लाङ्गरागः, शुक्लमाल्यः, शुक्लवासाः, रोचनाचित्रदूर्वाग्रपल्लवग्रथितगिरिकर्णिकाकुसुमकृतकर्णपूरः, शिखासक्तसिद्धार्थकः, पितुःकनीयस्या स्वस्रा मात्रेव स्नेहार्द्रहृदयया श्वेतवाससा साक्षादिव
________________________________________________
दिशि। श्यामा रात्रिः, योषिच्च। मुखमारम्भः वदनं च। निर्निमित्तेत्याद्यभिप्रायेण वक्ष्यति अवश्यं गन्तव्यं चेत्यादि। ‘काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः’। इह च लक्षणया वक्रोक्तिः। सांप्रतं युक्तम्।
- अथेत्यादावन्यस्मिन्नहनि प्रीतिकूटान्निरगादिति संबन्धः। प्रस्थानं प्रयोजनं येषां तानि प्रास्थानिकानि सूक्तानि, वेदोक्ता मन्त्रविशेषाः। विरूपाक्षस्त्र्यक्षः। प्राज्यं भूरि। आज्यं घृतम्। द्युम्नं धनम्। यथाविद्यमानमित्यनेन निर्लोभतोक्ता। नैचिकीं वराङ्गीम्, होमधेनुं वा, शुक्लां वा,। गिरिकर्णिकाश्वखुरी मङ्गल्यौषधिः। सिद्धार्थकानि सर्षपाः। स्वस्रा भगिन्या। महाश्वेता देवताविशेषः। रविस्थदेवतेः-*
भगवत्या महाश्वेतया मालत्याख्यया कृतसकलगमनमङ्गलः, दत्ताशीर्वादो बान्धववृद्धाभिः, अभिनन्दितः परिजनजरतीभिः, वन्दितचरणैरभ्यनुज्ञातो गुरुभिः, अविवादितैराघ्रातः शिरसि कुलवृद्धैः, वर्धितगमनोत्साहः शकुनैः, मौहूर्तिकमतेन कृतनक्षत्रदोहदः, शोभने मुहूर्ते हरितगोमयोपलिप्ताजिरस्थण्डिलस्थापितमसितेतरकुसुममालापरिक्षिप्तकण्ठं पिष्टपञ्चाङ्गुलपाण्डुरं मुखनिहितनवचूतपल्लवं पूर्णकलशमुदीक्षमाणः, प्रणम्य कुलदेवताभ्यः कुसुमफलपाणिभिरप्रतिरथं जपद्भिर्निजद्विजैरनुगम्यनानः, प्रथमचलितदक्षिणचरणः, प्रीतिकूटान्निरगात्।
प्रथमेऽहनि घर्मकालकष्टं निरुदकं निष्पत्रपादपविषमं पथिकजननमस्क्रियमाणप्रवेशपादपोत्कीर्णकात्यायनीप्रतियातनं शुष्कमपि पल्लवितमिव तृषितश्वापदकुललम्बितलोलजिह्वालतासहस्रैः पुलकितमिवाच्छभल्लगोलाङ्गूललिह्यमानमधुगोलचलितसरघासंघातै रोमाञ्चितमिव दग्धस्थलीरूढस्थूलाभीरुकन्दलशतैः शनैश्चण्डिकाकाननमतिक्रम्य मल्लकूटनामानं ग्राममगात्। तत्र च हृदयनिर्विशेषेण भ्रात्रा सुहृदा च जगत्पतिनाम्ना संपादितसपर्यः सुखमवसत्। अथापरेद्युरुत्तीर्य भगवतीं भागीरथीं यष्टिग्रहकनान्नि वनग्रामके निशामनयत्। अन्यस्मिन्दिवसे स्कन्धावारमुपमणितारमन्वजिरवति कृतसंनिवेशमाससाद।अतिष्ठच्च नातिदूरे राजभवनस्य।
________________________________________
त्यन्ये। दत्तेत्यादिभागो। बान्धववृद्धाभिप्रायेण समुचित एव। अभिनन्दित इति। प्रतिपदं द्वयमूह्यम्। जरत्यो वृद्धाः। आघ्रातः शिरसि चुम्बितः। मौहूर्तिका गणकाः। नक्षत्रदोहदं प्रति नक्षत्रप्राशनम्, नक्षत्रविषयोऽभिलाषो। वा। अजिरमङ्गनम्। स्थण्डिलं भूः। परिक्षिप्तो वेष्टितः। पिष्टपञ्चाङ्गुलमाजकोक्ताभिः पञ्चभिरङ्गुलीभिर्मङ्गल्याय दीयते। अप्रतिरथं प्रास्थानिकं मन्त्रम्। निजेत्यादिना स्वस्य दातृत्वमुक्तम्।
- उत्कीर्णा निखाता। कात्यायनी दुर्गा। प्रतियातना प्रतिमा। काननत्वात्पल्लवितमिवेत्युत्प्रेक्षा। जिह्वैव लता। दीर्घत्वात्। गोलाङ्गूलः कृष्णमुखो वानरः। मधुगोलं माक्षिककरण्डः। सरघा मधुमक्षिकाः। अभीरुः शतावरी। कन्दलानि नवनालानि। भ्रात्रेति चन्द्रसेनेन। हृदयेत्याद्यभिप्रायेण सुखमित्युक्तम्। मणितारं पत्तनभेदम्। अन्वजिरवति नदी भेदनिकटे। संनिवेशो गृहादिरचना।*
निर्वर्तितस्नानाशनव्यतिकरो विश्रान्तश्च मेखलकेन सह याममात्रावशेषे दिवसे भुक्तवति भूभुजि प्रख्यातानां क्षितिभुजां बहूञ्शिबिरसंनिवेशान्वीक्षमाणः शनैः शनैः पट्टबन्धार्थमुपस्थापितैश्च डिण्डिमाधिरोहणायाहृतैश्चाभिनवबद्धैश्च विक्षेपोपार्जितैश्च कौशलिकागतैश्च नागवीथीपालप्रेषितैश्च प्रथमदर्शनकुतूहलोपनीतैश्च दूतसंप्रेषणप्रेषितैश्च पल्लीपरिवृढढौकितैश्च स्वेच्छायुद्धक्रीडाकौतुकाकारितैश्च दीयमानैश्चाच्छिद्यमानैश्च मुच्यमानैश्च यामस्थापितैश्च सर्वद्वीपजिगीषया गिरिभिरिव सागरसेतुबन्धनार्थमेकीकृतैर्ध्वजपटपटुपटहशङ्खचामराङ्गरागरमणीयैः पुष्याभिषेकदिवसैरिव कल्पितैर्वारणेन्द्रैः श्यामायमानम्, अनवरतचलितखुरपुटप्रहतमृदङ्गैर्नर्तयद्भिरिव राजलक्ष्मीमुपहसद्भिरिव सृक्कपुटप्रसृतफेनाट्टहासेन जवजडजङ्घां हरिणजातिमाकारयद्भिरिव संघट्टहेतोर्हर्षहेषितेनोच्चैःश्रवसमुत्पतद्भिरिव दिवसकररथतुरगरुषा पक्षायमाणमण्डनचामरमालैर्गगनतलं तुरङ्गैस्तरङ्गायमाणम्, अन्यत्र प्रेषितैश्च प्रेष्यमाणैश्च प्रेषितप्रतीपनिवृत्तैश्चबहुयोजनगमनगणनसंख्याक्षरावलीभिरिव वराटिकावलीभिर्घटितमुखमण्डनकैस्तारकितैरिव संध्यातपच्छेदैररुणचामरिकारचितकर्णपूरैः सरक्तोत्पलैरिव रक्तशालिशालेयैरनवरतझणझणायमानचारुचामीकरघुरुघुरुकमालिकैर्जरत्करञ्जवनैरिव रणितशुष्कबीजकोशीशतैः श्रवणोपान्तप्रेङ्खत्पञ्चरागवर्णोर्णाचित्रसूत्रजूटजटाजालैः कपिकपोलकपिलैः क्रमेलककुलैः कपिलायमानम्,
_______________________________________________________
निर्वर्तितेत्यादौ राजद्वारमीदृशमगमदिति संबन्धः। निर्वर्तितेत्यादि राजदर्शनेऽकातरत्वमात्मनः प्रतिपादयति। वारणेन्द्रैःश्यामायमानमिति राजद्वारविशेषणम्। डिण्डिमः पटहः। विक्षेपः करः। नागवीथी हस्तिभूः। पल्ली शबरवसतिः। परिवृढः स्वामी। आकारितैराह्वानैः। आच्छिद्यमानैरपह्रियमाणैः। यत्र दिने पुष्यनक्षत्रे राजा स्नाति तद्दिनं पुष्याभिषेकाख्यम्। श्यामायमानं कालत्वमापद्यमानम्। अथ च दिवसः श्यामायति रात्रिवदाचरतीति वक्रोक्तिः। अभिषेकदिनानि च ध्वजादिरम्याणि। अनवरतेत्यादौ तुरङ्गैस्तरङ्गायमानमिति संबन्धः। मृदोऽङ्गं मृदङ्गश्च मुरजः। सृक्किण्योष्टपर्यन्तौ। अन्यत्रेत्यादौ क्रमेलककुलैः कपिलायमानमित्यन्वयः। वराटिकाः श्वेतिकाः। शालीनां भवनं क्षेत्रं शालेयम्। ‘व्रीहिशाल्योर्ढक्’। बीजकोशी शिम्बिका। क्रमेलका उष्ट्राः। अन्यत्रेत्यादिनातपत्रखण्डैः श्वेतायमानमित्यन्वयः। सद्य इत्याद्यभिप्रायेण शर-
अन्यत्र शरज्जलधरैरिव सद्यःस्रुतपयःपटलधवलतनुभिः कल्पपादपैरिव मुक्ताफलजालकजायमानालोकलुप्तच्छायामण्डलैर्नारायणनाभिपुण्डरीकैरिवाश्लिष्टगरुडपक्षैः क्षीरोदोद्देशैरिव द्योतमानविकटविद्रुमदण्डैः शेषफणाफलकैरिवोपरिस्फुरत्स्फीतमाणिक्यखण्डैः श्वेतगङ्गापुलिनैरिव राजहंसोपसेवितैरभिभवद्भिरिव निदाघसमयमुपहसद्भिरिव विवस्वतः प्रतापमापिबद्भिरिवातपं चन्द्रलोकमयमिव जीवलोकं जनयद्भिः कुमुदमयभिव कालं कुर्वद्भिर्ज्योत्स्नामयमिव वासरं विरचयद्भिः फेनमयीमिव दिवं दर्शयद्भिरकालकौमुदीसहस्राणीव सृजद्भिरुपहसद्भिरिव शातक्रतवीं श्रियं श्वेतायमानैरातपत्रखण्डैः श्वेतद्वीपायमानम्, क्षणदृष्टनष्टाष्टदिङ्मुखं च मुष्णद्भिरिव भुवनमाक्षेपोत्क्षेपदोलायितं दिनं गतागतानीव कारयद्भिरुत्सारयद्भिरिव कुनृपतिकलङ्ककालीं कालेयीं स्थितिं विकचविशदकाशवनपाण्डुरदिशं शरत्समयमिवोपपादयद्भिर्बिसतन्तुमयमिवान्तरिक्षमाविर्भावयद्भिः शशिकरशुचीनां चलतां चामराणां सहस्रैर्दोलायमानम्, अपि च हंसयूथायमानं करिकर्णशङ्खैः, कल्पलतावनाय-
_______________________________________________________
ग्रहणम्। स्रुतं निर्गतम्। पयः क्षीरम्, जलं च। पटलवत्तेन च धवला तनुराकारो येषाम्। अन्यत्र धवलाश्च ते तनवः, क्षीणाश्च ते। पुण्डरीकग्रहणेनाकरसदृशत्वमप्युच्यते। गरुडपक्षा रत्नमेदाः, गरुडस्य चाङ्गरुहाः। क्षीरोदेति। शुक्लतया। राजहंसाः प्रख्यनृपाः; रक्तचञ्चुचरणा राजहंसाः। निदाघस्य तिरस्करणादभिभवद्भिरिवेत्युक्तम्—उपहसद्भिरिवेति। प्रतापस्योपहास एव समुचितो वैयर्थ्यात्। अथ च प्रतापपदेन भङ्ग्याविवस्वत आरोपितविजिगीषुव्यवहारत्वाच्छत्रुमनःसंतापकारि यश उक्तम्। आतपं प्रकाशम्। आपिबद्भिरिति। तस्य सर्वत एवातिदर्शनात्। जीवलोकमिति। यश्च जीवानां लोकस्तत्र कथं चन्द्रलोक इति विरोधः। कुमुदमयमिवेति। कुमुदमयत्वाच्छुक्लंभवति न तु कालम्। कुमुदमयं च समयं कार्तिकादि। ज्योत्स्नेति। वासरे ज्योत्स्ना न संभवतीति विरोधः। एवं च दिवः फेनमयीत्वम्। जलदे हि फेनानामभावः। कौमुदी कुमुदिनी, कार्तिकी च ज्योत्स्ना। पूर्वं सामान्येनोक्ता इति। विशेषेण श्वेता इवाचरन्तः श्वेतायमानाः। तैस्तत्र तेषां स्वत एव श्वेतत्वाच्छ्वेतपदेन कथमुपमानतेत्युच्यते। श्वेतगुणा इवाचरन्तः श्वेतायमानाः। तेन यथा श्वेतगुणयोगादन्यत्किंचिच्छ्वेतते तद्वदेतद्योगात् राजद्वारमिति। श्वेताः स्फटिका इत्यन्ये। केचित्तु ‘श्वेतमानैः’ इति पठन्ति। क्षणेत्यादौ चामराणां सहस्रैर्दोलायमानमित्यन्वयः। कलेरियं कालेयी। सर्वत्राग्निकलिभ्यां ढक्। पद्मरागा इव बाला
मानं कदलिकाभिः, माणिक्यवृक्षकवनायमानं मायूरातपत्रैः, मन्दाकिनीप्रवाहायमाणमंशुकैः, क्षीरोदायमानं क्षौमैः, कदलीवनायमानं मरकतमयूखैः, जन्यमानान्यदिवसमिव पद्मरागबालातपैः, उत्पद्यमानापराम्बरमिवेन्द्रनीलप्रभापटलैः, आरभ्यमाणापूर्वनिशमिव महानीलमयूखान्धकारैः, स्यन्दमानानेककालिन्दीसहस्रमिव गरुडमणिप्रभाप्रतानैः, अङ्गारकितमिव पुष्परागरश्मिभिः, कैश्चित्प्रवेशमलभमानैरधोमुखैश्चरणनखपतितवदनप्रतिबिम्बनिभेन लज्जया स्वाङ्गानीव विशद्भिः कैश्चिदङ्गुलीलिखितायाः क्षितेर्विकीर्यमाणकरनखकिरणकदम्बकव्याजेन सेवाचामराणीवार्पयद्भिः कैश्चिदुरःस्थलदोलायमानेन्द्रनीलतरलप्रभापट्टैः स्वामिप्रकोपप्रशमनाय कण्ठबद्धकृपाणपट्टैरिव कैश्चिदुच्छ्वाससौरभभ्राम्यद्भ्रमरपटलान्धकारितमुखैरपहृतलक्ष्मीशोकधृतलम्बश्मश्रुभिरिवान्यैः शेखरोड्डीयमानमधुपमण्डलैः प्रणामविडम्बनाभयपलायमानमौलिभिरिव निर्जितैरपि संमानितैरिवानन्यशरणैरन्तरान्तरा निष्पततां प्रविशतां चान्तरप्रतीहाराणामनुमार्गप्रधावितानेकार्थिजनसहस्राणामनुयायिनः पुरुषानश्रान्तैः पुनःपुनः पृच्छद्भिः ‘भद्र, अद्य भविष्यति भुक्त्वा स्थाने दास्यति दर्शनं परमेश्वरः, निष्पतिष्यति वा बाह्यां कक्ष्याम्’ इति दर्शनाशया दिवसं नयद्भिर्भुजनिर्जितैः शत्रुमहासामन्तैः समन्तादासेव्यमानम्, अन्यैश्च प्रतापानुरागागतैर्नानादेशजैर्महीपालैः प्रतिपालयद्भिर्नरपतिदर्शनकालमध्यास्यमानम्, एकान्तोपविष्टैश्च जैनैरार्हतैः पाशुपतैः पाराशरिभिर्वर्णिभिश्च सर्वदेशजन्मभिश्च जनपदैः सर्वाम्भोधिवेलावनवलयवासिभिश्च म्लेच्छजातिभिः सर्वदेशान्तरागतैश्च दूतमण्डलैरुपास्यमानम्,सर्वप्रजानिर्माणभूमिमिव
_________________________________________
तपास्तैः। महानीला गरुडमणयः। पुष्परागाश्च मणिभेदाः। कैश्चिदित्यादौ शत्रुमहासामन्तैः समन्तादासेव्यमानमित्यन्वयः। सेवेत्यादि। त्वयेदानीं चामरग्रहणेन सेवनीय इति तेषां हि क्षितिः कलत्रमतस्तद्वारेण सेवनेच्छा। ‘हारस्य यो मध्यमणिस्तरलः स प्रकीर्तितः। चपलो वा। शेखरं मुण्डमालिकम्। मौलयः केशाः। निर्जितैः पुरस्कृतन्यक्कृतैः, राजसेवाप्राप्तैः, संमानितैः पूजितैरिव। अनुयायिन इति। तेषां स्वयं सुलभत्वात्। जैनैः शाक्यैः। आर्हतैर्नग्नक्षपणकैः। पाशुपतैः शैवमेदैः। पराशरेण प्रोक्तमधीयते पाराशरिणो यतयस्तैः। वर्णिभिर्ब्रह्मचारिभिः। सर्वप्रजेति। अत्र हि स्थित्वा यदि प्रजापतयो न सृज्येयुः
प्रजापतीनां लोकत्रयसारोच्चयरचितं चतुर्थमिव लोकम्, महाभारतशतैरप्यकथनीयसमृद्धिसंभारम्, कृतयुगसहस्रैरिवकल्पितसंनिवेशम्, स्वर्गार्बुदैरिव विहितरामणीयकम्, राजलक्ष्मीकोटिभिरिव कृतपरिग्रहं राजद्वारमगमत्।
अभवच्चास्य जातविस्मयस्य मनसि—‘कथमिवेदमियत्प्रमाणं प्राणिजातं जनयतां प्रजासृजां नासीत्परिश्रमः, महाभूतानां वा परिक्षयः, परमाणूनां वा परिच्छेदः, कालस्य वान्तः, आयुषो वाव्युपरमः, आकृतीनां वा परिसमाप्तिः’ इति। मेखलकस्तु दूरादेव द्वारपाललोकेन प्रत्यभिज्ञायमानः ‘तिष्ठतु तावत्क्षणमात्रमत्रैव पुण्यभागी’ इति तमभिधायाप्रतिहतः पुरः प्राविशत्।
अथ स मुहूर्तादिव प्रांशुना, कर्णिकारगौरेण, वीध्रकञ्चुकच्छन्नवपुषा, समुन्मिषन्माणिक्यपदकबन्धबन्धुरशस्तबन्धकृशावलग्नेन, हिमशैलशिलाविशालवक्षसा, हरवृषककुदकूटविकटांसतटेन, उरसा चपलहृषीकहरिणकुलसंयमनपाशमिव हारं बिभ्रता, ‘कथयतं यदि सोमवंशसंभवः सूर्यवंशसंभवो वा भूपतिरभूदेवंविधः’ इति प्रष्टुमानीताभ्यां सोमसूर्याभ्यामिव श्रवणगताभ्यां मणिकुण्डलाभ्यां समुद्भासमानेन, बृहद्वदनलावण्यविसरवेणिकाक्षिप्यमाणैरधिकारगौरवाद्दीयमानमार्गेणेव दिनकृतः किरणैः प्रसादलब्धया विकचपुण्डरीकमुण्डमालिकयेव दीर्घया दृष्ट्या दूरादेवानन्दयता, नैष्ठुर्याधिष्ठानेऽपि प्रतिष्ठितेन पदे पदे प्रश्रयमिवावनम्रेण,
_____________________________________________
तत्कथं सर्वे भावाः कारणभूता इव तत्र लक्षेरन्। अर्बुदं दश कोटयः। कोटिर्लक्षशतम्। इह तु बहुसंख्योपलक्षणार्थावर्बुदकोटिशब्दौ।
-
परिसमाप्तिरनारम्भः। तिष्ठत्विति। विद्यायुक्ते कदाचिदनादरशङ्केत्येतदर्थमाह—पुण्यभागीति।*
-
अथेत्यादावीदृशपुरुषेणानुगम्यमानो निर्गत्यावोचदिति संबन्धः। अन्तराले वस्त्वन्तरादिवर्णनाभावादथेत्यादिना समनन्तरमेव निर्गमनेन पुनरादर एव प्रतीयते। अत आह—मुहूर्तादिवेति। पुरुषानुगतत्वेन चादर एव पोष्यते। वीध्रं निर्मलम्। बन्धुरं शोभनम्। शस्तं सुवर्णपट्टिकाकटिसूत्रम्। तस्य बन्धेन निवेशनेन कृशमवलग्नं मध्यं यस्य तेन। हिमशैले। हिमग्रहणं राज्ञो धवलत्वात्। हरग्रहणं जराशौक्लथप्रतिपादनाय पूर्ववत्। हृषीकाणीन्द्रियाणि। आनीताभ्यामिति। आनयने तस्य प्रभविष्णुता ध्वन्यते। यश्च स्रष्टुमानीयते स स्रवणं*
मौलिना पाण्डुरमुष्णीषमुद्वहता, वामेन स्थूलमुक्ताफलच्छुरणदन्तुरत्सरुं करकिसलयेन कलयता कृपाणम्, इतरेणापनीततरलतां ताडितीमिव लतां शातकौम्भीं वेत्रयष्टिमुन्मृष्टां धारयता पुरुषेणानुगम्यमानो निर्गत्यावोचत्—‘एष खलु महाप्रतीहाराणामनन्तरश्चक्षुष्यो देवस्य पारियात्रनामा दौवारिकः। समनुगृह्णात्वेनमनुरूपया प्रतिपत्त्या कल्याणाभिनिवेशी’ इति। दौवारिकः समुपसृत्य कृतप्रणामो मधुरया गिरा सविनयमभाषत—‘आगच्छत। प्रविशत दर्शनाय। कृतप्रसादो देवः’ इति। बाणस्तु ‘धन्योऽस्मि, यदेवमनुग्राह्यं मां देवो मन्यते’ इत्युक्त्वा तेनोपदिश्यमानमार्गः प्राविशदभ्यन्तरम्।
अथ वनायुजैः, आरट्टजैः, काम्बोजैः, भारद्वाजैः, सिन्धुदेशजैः, पारसीकैश्च, शोणैश्च श्यामैश्च, श्वेतैश्च, पिञ्जरैश्च, हरिद्भिश्च, तित्तिरिकल्माषैश्च, पञ्चभद्रैश्च मल्लिकाक्षैश्च, कृत्तिकापिञ्जरैश्च, आयतनिर्मांसमुखैः, अनुत्कटकर्णकोशैः, सुवृत्तश्लक्ष्णसुघटितघण्टिकाबन्धैः, यूपानुपूर्वीवक्रायतोदग्रग्रीवैः, उषचयश्वसत्स्कन्ध-
_________________________________________________
गच्छति। वेणिका प्रवाहः। वामेनेति। तदा तस्य व्यापारानुपपत्तेः। अपनीतेत्यादिनास्य नियमविधायित्वं पोष्यते। उन्मृष्टामुत्तंसिताम्। अनेन भास्वरतैव पोष्यते। अनन्तरः प्रधानम्। चक्षुष्यः प्रियः। आगच्छतेत्यादौ बहुत्वनिर्देशेनादर एवास्यापाद्यते।
- अथेत्यादावेवंविधैस्तुरङ्गैरारचितां मन्दुरां विलोकयन्दूरादिभधिष्ण्यागारमपश्यदिति संबन्धः। वनायुजादीनि देशविशेषेणाश्वानां नामानि। शोणैरित्यादिवर्णविशेषवर्णनम्। ‘शोणः पद्मारुणः स्मृतः’। पिञ्जरैरीषत्कपिलैः। हरिच्छुकनिभो वर्णः। तित्तिरिः पक्षिभेदस्तद्वच्चित्रैः। ‘सिताश्च यस्य वाजिनः शफाः समस्तकं मुखम्। स पञ्चभद्रनामको नृपस्य राज्यसौख्यदः’। शुक्लपर्यन्ते असिततारके नयने येषां ते मल्लिकाक्षाः। उक्तं च—‘पृथुस्निग्धा समा चैव मल्लिकाकुसुमप्रभा। राजी यस्य तु पर्यन्ते परिक्षेप्ये तु लोचने॥ सह यो मल्लिकाक्षस्तु दृष्टिपर्यन्ततारकः॥’ इति। तारका कदम्बककल्पानेकबिन्दुकल्माषितत्वचः कृत्तिकापिञ्जराः यतः। आयतेत्यादि। तदुक्तम्—‘मुखं तन्वायतनतं चतुरङ्गं समाहितम्। ऋजु चैवोपदिष्टं च परिपूर्णं च शस्यते॥’ इति। कृष्णेनाप्युक्तम्—‘उज्जा अतुङ्गअत्थं णिम्मं संवाहिराण अच्चअणम्’ इति। अनुत्कटो ह्रस्वः। कोशो मध्यम्। शिरसो ग्रीवायाश्च यन्मध्यं स घण्टिकाबन्धः। यो निगाल इत्युच्यते तस्य सुवृत्तादि शस्यते। यदाह—‘ग्रीवाशिरोऽन्तरश्लिष्टो दीर्घवृत्तः समाहितः।*
संधिभिः, निर्भुग्नोरःस्थलैः, अस्थूलप्रगुणप्रसृतैर्लोहपीठकठिनखुरमण्डलैः, अतिजवत्रुटनभयादनिर्मितान्त्राणीवोदराणि वृत्तानि धारयद्भिः, उद्यद्द्रोणीविभज्यमानपृथुजघनैः, जगतीदोलायमानबालपल्लवैः, कथमप्युभयतो निखातदृढभूरिपाशसंयमननियन्त्रितैः, आयतैरपि पश्चात्पाशबन्धप्रसारितैकाङ्घ्रिभिरायततरैरिवोपलक्ष्यमाणैः, बहुगुणसूत्रग्रथितग्रीवागण्डकैः, आमीललोचनैः, दूर्वारसश्यामलफेनलवशबलान्दशनगृहीतमुक्तान्फरफरितत्वचः कण्डूजुषः प्रतीकान्प्रचालयद्भिः, सालसवलितवालधिभिः, एकशफविश्रान्तिस्रस्तशिथिलितजघनाधैः, निद्रया प्रध्यायद्भिश्च, स्खलितहुंकारमन्दमन्दशब्दायमानैश्च, ताडितखुरधरणीरणितमुखरशिखरखुरलिखितक्ष्मातलैर्घासमभिलषद्भिश्च, प्रकीर्यमाणयवसग्रासरसमत्सरोद्भूतक्षोभैश्च, प्रकुपितचण्डचण्डालहुंकारकातरतरतरलतारकैश्च, कुङ्कुमप्रमृष्टिपिञ्जराङ्गतया सततसंनिहितनीराजनानलरक्ष्यमाणैरिवोपरि-
_____________________________________________
नोद्वर्तो नार्धितो नातिदुर्नाहोऽतिविधानतः॥ सुदिग्धोऽनुपदिग्धश्च निगालो गदतः शुभः॥’ इति। यूपो यज्ञचिह्नं तस्येवानुपूर्वी यस्याः। तथा वक्राआयता उदग्रा उद्धुरा ग्रीवा येषाम्। तदुक्तम् —‘ग्रीवा भूलम्बिनी वृत्ता दीर्घा च सुसमाहिता। गले बद्धा विदौर्वृत्ता तथा शिरसि चोद्यता॥ निगाले स्याच्च निर्मांसा वृद्धौ साकुञ्चिता भृशम्। श्लिष्टमांसाग्रबद्धा च तुरगस्य प्रशस्यते॥’ इति। उपचयेत्यादि। तदुक्तम्—‘स्कन्धः सुपरिपूर्णः स्याद्व्यक्तमांसः पृथुत्रिकः। बहुमांसाङ्गसंश्लिष्टः स्थिरमांसश्च पूरितः॥’ इति। निर्भुग्नं स्थूलत्वाद्बहिर्निःसृतम्। उक्तं च—‘स्थूलास्थि महदच्छिद्रं पृथुलं यच्च निर्वलि। उर ईदृक्प्रशंसन्ति स्थूलक्रोडं महत्तरम्॥’ इति। निर्भुग्नमुत्पन्नद्रोणिकमिति केचित्। अस्थूलप्रगुणप्रस्थितैर्निर्मांसऋजुजङ्घैः। उक्तं च—‘जङ्घे वृत्ते दीर्घे निर्मांसे पूजिते निगूढसिरे’ इति। मण्डलशब्देन वृत्तत्वमुच्यते। तदुक्तम्—‘खुरास्तुरङ्गे वृत्ताश्च ह्रस्वाश्च सुदृढा घनाः’ इति। तथा शिलातलनिभैः खुरैरिति। उदराणीति। तदुक्तम्—‘उदरं वृत्तमगुरु मृगस्योपचितं तथा। अच्छिद्रह्रस्ववृत्ताल्पसमकुक्षि च पूजितम्॥’ इति। द्रोणी शोभाविशेषः। यदाह—‘पृष्ठोरःकटिपार्श्वस्थमांसोत्कर्षणनिर्मिता। द्रोणिकेति प्रशंसन्ति शोभा वाजिनि पश्चमी॥’ इति। बाला एव पल्लवाः। उभयत इति। अत्युद्दामवेगवत्त्वादुभयत्र पाशबन्धः। गण्डको भूषणमेदः। फरफरिताः पुनः पुनरीषत्कम्पिताः। वालधिः पुच्छः। शफः समुद्गयुक्तः पादः। खुरधरणी खुराधःकाष्ठपट्टाच्छादिता भूः। चण्डालोऽश्वपालः। प्रमृष्टिः प्रमार्जनम्। वितानकं रक्तकम्। देवतात्र गोविन्दः। आरचितां भूषिताम्। हस्तवामशब्दो भाष्य-
विततवितानैः, पुरः पूजिताभिमतदैवतैः, भूपालवल्लभैस्तुरङ्गैरारचितां मन्दुरां विलोकयन्, कुतूहलाक्षिप्तहृदयः किंचिदन्तरमतिक्रान्तो हस्तवामेनात्युच्चतया निरवकाशमिवाकाशं कुर्वाणम्, महता कदलीवनेन परिवृतपर्यन्तं सर्वतो मधुकरमयीभिर्मदस्रुतिभिर्नदीभिरिवापतन्तीभिरापूर्यमाणम्, आशामुखविसर्पिणा बकुलवनानामिव विकसतामामोदेन लिम्पन्तं घ्राणेन्द्रियं दूरादव्यक्तमिभधृष्ण्यागारमपश्यत्। अपृच्छच्च—‘अत्र देवः किं करोति’ इति। असावकथयत्—‘एष खलु देवस्यौपबाह्यो बाह्यं हृदयं जात्यन्तरित आत्मा बहिश्चराः प्राणा विक्रमक्रीडासुहृद्दर्पशात इति यथार्थनामा वारणपतिः। तस्यावस्थानमण्डपोऽयं महान्दृश्यते’ इति। स तमवादीत्—‘भद्र, श्रूयते दर्पशातः। यद्येवमदोषो वा पश्यामि तावद्वारणेन्द्रमेव। अतोऽर्हसि मामत्र प्रापयितुम्। अतिपरवानस्मि कुतूहलेन’ इति। सोऽभाषत—‘भवत्वेवम्। आगच्छतु भवान्। को दोषः। पश्यतु तावद्वारणेन्द्रम्’ इति।
गत्वा च तं प्रदेशं दूरादेव गम्भीरगलगर्जितोर्जितैर्वियति चातककदम्बकैर्भुवि च भवननीलकण्ठकुलैः कलकेकाकलकलमुखरमुखैः क्रियमाणाकालकोलाहलम्, विकचकदम्बसंवादिमदसुरासौरभभरितभुवनम्, कायवन्तमिवाकालमेघकालम्, अविरलमधुबि-
______________________________________________________
कृता वामहस्तमार्ग इत्यर्थे घृतः। बकुलेत्यादिना प्राशस्त्यमेव पोषयति। तदुक्तम्—‘मालतीमुक्तपुंनागबकुलोपमसौरभम्। दानं पिष्टाम्बुसदृशं मुञ्चच्छ्वेतं तु शीतलम्॥’ इति। श्लैष्मिका दानलक्षणम्। एवं च धर्मलक्षणे तु प्रकोपसमयेऽपि तथाविधमदवर्णनया श्लेषप्रकृतित्वं प्रकाशयति—‘श्लेषप्रकृतिकं श्रेष्ठं भद्रजातिं तथैव च’ इति च शास्त्रकृता दर्शितम्। धिष्ण्यं मण्डपम्। औपबाह्यः क्रीडाहस्ती। यस्मात्केचन संनाह्याः केचिद्भद्रजातीया उभयस्वभावा भवन्ति करिणः। अस्य च यद्यपि विक्रमक्रीडासुहृदित्यनेन दर्पशात इति यथार्थनामा वारणपतिरित्यनेन च सांनाह्यत्वमेवोक्तम्, तथाप्यौपबाह्य इति कथनेऽर्धद्वयेऽपि योग्यत्वाद्भद्रजातीयत्वं चास्य निश्चीयते। जात्यन्तरितो द्वितीयां जातिं हस्तिरूपां प्राप्तः। यद्येवमिति। यदि सत्यं दर्पशातोऽयमदोषो वेति। वाशब्दश्चार्थे। यदि च न दोष इत्यर्थः। यतो रसदानादिभयेन केनचिद्द्रुष्टुं न लभ्यते। कुतूहलेन परवान्कुतूहलायितः।
- गत्वेत्यादौ दूरादेवं दर्पशातमपश्यदिति संबन्धः। गर्जितं बृंहितम्। चातकाः स्तोककाः। नीलकण्ठा मयूराः। केका मयूररुतानि। मेघकाल-*
न्दुपिङ्गलपद्मजालकितां सरसीमिवाभ्यवगाढां दशां चतुर्थीमुत्सृजन्तम्, अनवरतमवतंसशङ्खैरामन्द्रकर्णतालदुन्दुभिध्वनिभिः पश्चमीप्रवेशमङ्गलारम्भमिव गायन्तम्, अविरतचलनचित्रत्रिपदीललितलास्यलयैर्दोलायमानदीर्घदेहाभोगतयामेदिनीविदलनभयेन भारमिव लघयन्तम्, दिग्भित्तितटेषु कायमिव कण्डूयमानम्, आहवायोदस्तहस्ततया दिग्वारणानिवाह्वयमानम्, ब्रह्मस्तम्भमिव स्थूलनिशितदन्तेन करपत्रेण पाटयन्तम्, अमान्तं भुवनाभ्यन्तरे बहिरिव निर्गन्तुमीहमानम्, सर्वतः सरसकिसलयलतालासिभिर्लेशिकैश्चिरपरिचयोपचितैर्घनैरिव विक्षिप्तसशैवलबिसविसरशबलसलिलैः सरोभिरिव चाधोरणैराधीयमाननिदाघसमयसमुचितोपचारानन्दम्, अपि च प्रतिगजदानपवनादानदूरोत्क्षिप्तेनानेकसमरविजयगणनालेखाभिरिव वलिवलयराजिभिस्तनीयसीभिस्तरङ्गितोदरेणातिस्थवीयसा हस्तार्गलदण्डेनार्गलयन्तमिव सकलं सकुलशैलसमुद्रद्वीपकाननं ककुभां चक्रवालम्, एकं करान्तरार्पितेनोत्पलाशेन कदलीदण्डेनान्तर्गतशीकरसिच्यमानमूलम्, मुक्तपल्लवमिवापरं लीलावलम्बिना मृणालजालकेन समररसोच्चरोमाञ्चकण्टकितमिव दन्तकाण्डं वहन्तम्, विसर्पन्त्या च दन्तकाण्डयुगलकस्य कान्त्या सरःक्रीडास्वादितानीव कुमुदवनानि बहुधा वमन्तम्,
__________________________________________________
मिति। मेघकालश्च चातककदम्बनीलकण्ठकुलकदम्बकसौरभादियुक्तः। अविरला घना ये मधुबिन्दव इव मधुबिन्दवो माक्षीककणास्तद्वत्पिङ्गलानि पद्मजालकानि संजातानि यस्याम्। ‘पद्मकं बिन्दुजालं स्याद्गात्रकं करिणामिति’। यथा—‘पद्मस्वस्तिकसंस्थानो बिन्दुभिश्च कचैस्तथा। स्वङ्किताङ्गस्तुषाराभः शावः शक्तिकरः करी॥’ इत्युक्तम्। अन्ये मधुबिन्दवो मकरन्दकणास्तैः पिङ्गलानीति व्याख्येयम्। महत्सरः सरसी। अभ्यवगाढामिति। परिणताम्। दशां कालावस्थाम्। चतुर्थीमिति। ‘चतुर्थ्यामवगाढायां लेखाबिन्दुभिराचितः’ इत्युक्तम्। शङ्खैः। शङ्खशब्दैरित्यर्थः। कर्णेत्यादि। कर्णौ च दुन्दुभिध्वनितौ। ‘कर्णौ च कारिणः कार्यकारिणौ सत्प्रशंसिनौ’ इति। पञ्चमी दशा त्रिपदी एकपदोत्क्षेपे पादत्रयावस्थितिः। लयो लीलाः। आहवः सङ्ग्रामः। ब्रह्मस्तम्भो ब्रह्माण्डम्। करपत्रं क्रकचं स्थूलनिशितदन्तं भवति। तच्च भेदयति स्तम्भम्। अमान्तमवर्तमानम्। लेशिकैर्घासिकैः। आधोरणैर्गजारोहैः। वलयाकारा वलिर्वलिवलयम्। अर्गलयन्तं सनाटकं कुवार्णम्। कुमुदवनानीत्युत्प्रेक्षा। दन्तयोर्वर्णप्राशस्त्यमाह—‘पयःकुमुदकु-
निजयशोराशिमिव दिशामर्पयन्तम्, कुकरिकीटपाटनदुर्ललितान्सिंहानिवोपहसन्तम्, कल्पद्रुमदुकूलमुखपट्टमिव चात्मनः कलयन्तम्, हस्तकाण्डदण्डोद्धरणलीलासु च लक्ष्यमाणेन रक्तांशुकसुकुमारतलेन तालुना कवलितानि रक्तपद्मवनानीव वर्षन्तम्, अभिनवकिसलयराशिमिवोद्रिरन्तम्, कमलकवलपीतं मधुरसमिव स्वभावपिङ्गलेन वमन्तं चक्षुषा, चूतचम्पकलवलीलवङ्गकक्कोलवन्त्येलालतामिश्रितानि ससहकाराणि कर्पूरपूरपूरितानि पारिजातकवनानीवोपभुक्तानि पुरः करटाभ्यां बहलमदामोदव्याजेन विसृजन्तम्, अहर्निशं विभ्रमकृतहस्तस्थितिभिरर्धखण्डितपुण्ड्रेक्षुकाण्डकण्डूयनलिखितैरलिकुलवाचालितैर्दानपट्टकैर्विलभमानमिव सर्वकाननानि करिपतीनाम्, अविरलोदबिन्दुस्यन्दिना हिमशिलाशकलमयेन विभ्रमनक्षत्रमालागुणेन शिशिरीक्रियमाणम्, सकलवारणेन्द्राधिपत्यपट्टबन्धबन्धुरमिवोच्चैस्तरां शिरो दधानम्, मुहुर्मुहुः स्थगितापावृतदिङ्मुखाभ्यां कर्णतालतालवृन्ताभ्यां बीजयन्तमिव भर्तृभक्त्या दन्तपर्यङ्किकास्थितां राजलक्ष्मीम्, आयतवंशक्रमागतेन गजा-
______________________________________________________
न्दाभौ केतकीकुमुदद्युती। भृगाङ्ककिरणालोकौ कीर्तिकल्याणकारकौ॥’ इत्युक्तम्। रक्तांशुकेति। उक्तं च—‘रक्तौष्ठतालुरसनम्’ इति। स्वभावपिङ्गलेनेति। उक्तं च—‘शशिसूर्यसमाभासे कलविङ्काक्षसंनिभे। प्रसन्नमधुपिङ्गेच स्थिरे चामीलने तथा॥ अपरिस्राविणी चैव कुशाग्निनिभभास्वरे। नेत्रे शस्ते समे स्निग्धे दीर्घे चाविलपक्ष्मणी॥’ इति। चूतेत्यादिना प्रशस्तत्वमाह। यदाह—‘उभयद्युतिरप्येष विवर्णो हर्षवर्जितः। यदि स्यादपगन्धश्च तदासौ न सतां मतः॥’ इति। करटाभ्यां गण्डाभ्याम्। अर्धेत्यादिनेक्षुकाण्डकस्य लेखनीसादृश्यमाह। लिखितैः कृतलेखैरप्यलिकुलेषु सत्सु वाचालितशब्दयोगो येषामित्यनेनालिकुलस्य लिप्यक्षररूपतां ध्वनयति। लिप्यक्षरेषु च सत्सु पाट्यमानेषु वाचालता। दानपट्टकलिखितैः किंचिद्धि लभ्यते। अक्षरपाटिकैश्च तेषां हस्तस्थितिर्न क्रियते। तानि च वाच्यन्ते। यद्वा स्वहस्तेनाक्षरकरणं हस्तस्थितिः। हिमशिला वातवज्रीभूतं हिमम्। केचित्तु ‘हिमानि हिमशकलानि चन्द्रकान्ताः’ इत्याहुः। हिमस्य च तदा वर्णनानुचितत्वात्। पर्वतेभ्यो हिमानयनं सुलभमेवेति पूर्वोक्तमेव श्रेष्ठम्। यतश्चन्द्रकान्तानां दिवा स्रुतिर्न भवतीति। नक्षत्रमाला हस्त्याभरणभेदः। उच्चैस्तरामिति। उच्चं हि शिरः करिणः शस्यते। यदुक्तम्—‘समं महच्च पूर्णं च नातिस्तब्धोच्चमस्तकम्। नावाग्रं नातिपृथुलं वितानावग्रहं मृदु॥’ इति। दन्तावेव तदवस्थानसमुचितत्वात्। पर्यङ्किका च दन्तमयः पर्यङ्कः आस्त इति श्लेषः। आयतवंशः वक्रवंशः,
धिपत्यचिह्नेन चामरेणेव चलता वालधिना विराजमानम्, स्वच्छशिशिरशीकरच्छलेन दिग्विजयपीताः सरित इव पुनःपुनर्मुखेनमुञ्चन्तम्, क्षणमवधानदाननिस्पन्दीकृतसकलावयवानामन्यद्विरदडिण्डिमाकर्णनाङ्गवलनानामन्ते दीर्घशूत्कारैः परिभवदुःखमिवावेदयन्तम्, अलब्धयुद्धमिवात्मानमनुशोचन्तम्, आरोहाधिरूढिपरिभवेन लज्जमानमिवाङ्गुलीलिखितमहीतलम् मदं मुञ्चन्तम्, अवज्ञागृहीतमुक्तकवलकुपितारोहारटनानुरोधेन मदतन्द्रीनिमीलितनेत्रित्रिभागम्, कथं कथमपि मन्दमन्दमनादरादाददानं कवलान्, अवजग्धतमालपल्लवस्रुतश्यामलरसेन प्रभूततया मदप्रवाहमिव मुखेनाप्युत्सृजन्तम्, चलन्तमिव दर्पेण, श्वसन्तमिव शौर्येण, मूर्च्छन्तमिव मदेन, त्रुट्यन्तमिव तारुण्येन, द्रवन्तमिव दानेन, वल्गन्तमिव बलेन, माद्यन्तमिव मानेन, उद्यन्तमिवोत्साहेन, ताम्यन्तमिव तेजसा, लिम्पन्तमिव लावण्येन, सिञ्चन्तमिव सौभाग्येन, स्निग्धं नखेषु, परुषं रोमविषये, गुरुं मुखे, सच्छिष्यं विनये, मृदुं शिरसि, दृढं परिचयेषु, ह्रस्वं स्कन्धबन्धे, दीर्घमायुषि दरिद्रमुदरे, सततप्रवृत्तं दाने, बलभद्रं मदलीलासु, कुलकलत्रमायत्ततासु, जिनं क्षमासु, वह्निवर्षं क्रोधमोक्षेषु, गरुडं नागोद्धृतिषु, नारदं
_________________________________________________________
शरवंशः, बालवंशश्चेति चत्वारो वंशाः। तेषु बालवंश आयत एव शास्त्रकृतामभिप्रेतः। तथाच—‘यावत्पूरितपाशश्च वंशश्चापलताकृतिः। शुभो ज्ञेयो गजेन्द्राणामायतः कुरुते सुखम्॥’ इति तैरुक्तम्। आयताद्वंशात्तत्क्रमेण गोपुच्छवदायत इति विग्रहः। समानार्हो हि बालधिः शोकं करोति। यदुक्तम्— ‘वक्रं स्थूलं च ह्रस्वंच य पुच्छं कचविवर्जितम्। समानार्हं हि नागस्य भर्तुः शोककरं स्मृतम्॥’ इति। वंशं पृष्ठनभि, कुलं च। क्रम आनुपूर्वी, पारम्पर्यं च। वालधिः पुच्छम्। लज्जमानमिति। यश्च लज्जते स भूमिं लिखति, दर्पं चोज्झति। अङ्गुली करिकराग्रावयवः, करशाखा च। तन्द्री आलस्यम्, गाढनिद्रा वा। चलन्तमित्यादि दर्पाधिकरणसमुचितक्रियाप्रतिपादनसाभिप्रायं व्याख्येयम्। स्निग्धमिति। उक्तं च—‘नखाः स्निग्धाः सिताः शस्ताः’ इति। परुषं निष्कृपम्। यश्च स्निग्धः प्रीतिमान्स कथं परुषः प्रीतिशून्यो भवतीति विरोधः। एवं गुरुर्विस्तीर्णः, आचार्यश्च। विनय इति। उक्तं च—‘विनये मुनिभिस्तुल्याः क्रुद्धा नागाश्च राक्षसाः। निस्त्रिंशस्याधिकत्वाच्च शस्त्रं नागा महीपतेः॥’ इति। स्कन्धबन्धे ग्रीवामूले। दरिद्रः कृशः, दुर्गतश्च। दानं मदवारि, वितरणं च। बलभद्रो हलधरः। मदो दानम्, सुराकृतश्च। नागाः करिणः, सर्पाश्च। कलहो रणोऽपि। अविदितशत्रुसैन्ये पातोऽवस्कन्दः। मकरं
कलहकुतूहलेषु, शुष्काशनिपातमवस्कन्देषु, मकरं वाहिनीक्षोभेषु, आशीविषं दशनकर्मसु वरुणं हस्तपाशाकृष्टिषु, यमवागुरामरातिसंवेष्टनेषु, कालं परिणतिषु, राहुं तीक्ष्णकरग्रहणेषु, लोहिताङ्गं वक्रचारेषु, अलातचक्रं मण्डलभ्रान्तिविज्ञानेषु मनोरथसंपादकं चिन्तामणिपर्वतं विक्रमस्य, दन्तमुक्ताशैलस्तम्भनिवासप्रासादमभिमानस्य, घण्टाचामरमण्डनमनोहरमिच्छासंचरणविमानं मनस्वितायाः, मदधारादुर्दिनान्धकारं गन्धोदकधारागृहं क्रोधस्य, सकाञ्चनप्रतिमं महानिकेतनमहंकारस्य, सगण्डशैलप्रस्रवणं क्रीडापर्वतमवलेपस्य, सदन्ततोरणं वज्रमन्दिरं दर्पस्य, उच्चकुम्भकूटाट्टालकविकटं संचारि गिरिदुर्गं राज्यस्य, कृतानेकबाणविवरसहस्रं लोहप्राकारं पृथिव्याः, शिलीमुखशतझांकारितं पारिजातपादपं भूनन्दनस्य, तथा च संगीतगृहं कर्णतालताण्डवानाम्, आपानमण्डपं मधुपमण्डलानाम्, अन्तःपुरं शृङ्गाराभरणानाम्, मदनोत्सवं मदलीलालास्यानाम्, अक्षुण्णप्रदोषं नक्षत्रमालामण्डलानाम्, अकालप्रावृट्कालं मदमहानदीपूरप्लवानाम्, अलीकशरत्समयं सप्तच्छद-
____________________________________________
कूर्मम्। वाहिनी सेना नदी च। दशनकर्म दन्तव्यापारः, दशनरूपा च क्रिया। हस्त एव पाशः, प्रशस्तहस्तो हस्तपाश इति वा। हस्ते च पाशः। वागुरा जालम्। परिणतिषु दन्तविदारणकर्मसु। कालं यमम्। शुभाशुभादिकर्मविपाकेषु च कालमहरादिरूपम्। तीक्ष्णं कृत्वा करेण हस्तेन ग्रहणम्, रविश्च तीक्ष्णकरः। लोहिताङ्गोऽङ्गारकः। वक्रं कुटिलम्। पश्चाच्च मण्डलाकृत्या भ्रान्तेर्भ्रमणस्य विज्ञानानि कौशलातिशयगतिः। गोमूत्रिकामण्डले त्रिविधा हि गतिः। तत्रालातचक्रमुल्मुकचक्रं भ्रमणं करोति। मनोरथसंपादकमिति। शेषे षष्ठीसमासः। ‘कर्मण्यण्’ इति वाणिकृते स्वार्थे कः। दन्तौ मुक्ताशैलस्य श्वेतपाषाणस्य स्तम्भाविव यस्य। अन्यत्र दन्तस्य मुक्ताशैलानां च स्तम्भा यत्र। प्रतिमा दन्तकोशः, देवताकृतिश्च। महानिकेतनं साधुदेवगृहम्। गण्डावेव शैलौ तत्र प्रस्रवणं दाननिर्यासः। सह तेन वर्तते निर्झरश्च। ‘महतो मुक्तपाषाणान्गण्डशैलान्प्रचक्षते’। संचारी जङ्गमः। यदाह कौटिल्यः—‘हस्तिनो हि जङ्गमं दुर्गम्’ इति। कृतान्यनेकानि बाणैर्विवरसहस्राणि यस्य तम्। प्राकारेषु बाणानुत्स्रष्टुं विवरसहस्राणि क्रियन्ते त इन्द्रकोशा इति चाणक्यादिषु प्रसिद्धाः। भूनन्दनो राजा। ‘देवोद्यानं च नन्दनम्’। कर्णतालानां ताण्डवानीव ताण्डवानि। अन्यत्र लाभप्रधानानि ताण्ड-
वनपरिमलानाम्, अपूर्वहिमागमं शीकरनीहाराणाम्, मिथ्याजलधरं गर्जिताडम्बराणां दर्पशातमपश्यत्।
आसीच्चास्य चेतसि—‘नूनमस्य निर्माणे गिरयो ग्राहिताः परमाणुताम्। कुतोऽन्यथा गौरवमिदम्। आश्चर्यमेतत्। विन्ध्यस्य दन्तावादिवराहस्य करः’ इति विस्मयमानमेनं दौवारिकोऽब्रवीत्—‘पश्य।
मिथ्यैवालिखितां मनोरथशतैर्निःशेषनष्टां श्रियं
चिन्तासाधनकल्पनाकुलधियां भूयो वने विद्विषाम्।
आयातः कथमप्ययं स्मृतिपथं शून्यीभवच्चेतसां
नागेन्द्रः सहते न मानसगतानाशागजेन्द्रानपि॥४॥
तदेहि। पुनरप्येनं द्रक्ष्यसि। पश्य तावदेवम्’ इत्यभिधीयमानश्च तेन मदजलपङ्किलकपोलपट्टपतितां मत्तामिव मदपरिमलेन मुकुलितां कथमपि तस्माद्दृष्टिमाकृष्य तेनैव दौवरिकेणोपदिश्यमानवर्त्मा समतिक्रम्य, भूपालसहस्रसंकुलानि त्रीणि कक्ष्यान्तराणि चतुर्थे भुक्तास्थानमण्डपस्य पुरस्तादजिरे स्थितम्, दूरादूर्ध्वस्थितेन प्रांशुना कर्णिकारगौरेण व्यायामव्यायतवपुषा शस्त्रिणा मौलेन शरीरपरिचारकलोकेन पङ्क्तिस्थितेन कार्तस्वरस्तम्भमण्डलेनेव परि-
_____________________________________________
वानि। मधुपा भ्रमराः, विटाश्च। शृङ्गारः सिन्दूरादिदानम्, रसमेदश्च। अक्षुण्णः परिपूर्णः, अभ्रादिनानावृतः, अपूर्वो वा।
- ग्राहिताः प्रापिताः। मिथ्यैवेति। तस्या निःशेषनष्टत्वात्पुनरभावप्रसङ्गान्निःशेषेत्याद्यभिप्रायेणाह—मनोरथशतैरिति। तस्यां व्यापाररहितत्वाच्छून्यमनस्कत्वादेवाह—सहत इत्यादि। मानसं मनः, सरोभेदोऽपि। आशा दिशः, अभिलाषोऽपि। ‘देवमिति’ इत्यादौ चक्रवर्तिनं हर्षमद्राक्षीदिति संबन्धः। मदजलेन पङ्किले कपोलपट्टे पतिताम्। मत्तामिवेति। मत्तश्च पतति, मुकुलितदृष्टिश्च भवति, गतिवैकल्यादन्येन कृष्यते। भोजनं भोक्तव्यम्। भुक्ते सत्यास्थानं लोकदर्शनं तदर्थं मण्डपस्तस्य। ऊर्ध्वस्थितेत्यादि साधारणम्। प्रांशुनोन्नतेन, अन्यत्र प्रकृष्टा अंशवो यस्य तेन। कर्णिकारमारग्वधपुष्पम्। व्यायामः श्रमः। व्यायतं विभक्तावयवम्, विशेषेण दीर्घं च। शस्त्रिणा सायुधेन, स्तम्भा अपि शस्त्रेण वध्यन्ते। मौलभृतकश्रेणिमित्रामित्राटविकभेदेन षट्प्रकाराः सहाया भवन्ति। अन्यत्र मूले बुध्ने भवं मौलम्। वुध्नप्रतिष्ठमित्यर्थः। पङ्क्तिस्थितेनेति साधारणम्। कार्तस्वरं*
वृतम्, आसन्नोपविष्टविशिष्टेष्टलोकम्, हरिचन्दनरसप्रक्षालिते तुषारशीकरशीतलतले दन्तपाण्डुरपादे शशिमय इव मुक्ताशैलशिलापट्टशयने समुपविष्टम्, शयनीयपर्यन्तविन्यस्ते समर्पितसकलविग्रहभारं भुजे, दिङ्मुखविसर्पिणि देहप्रभाविताने विततमणिमयूखे घर्मसमयसुभगे सरसीव मृदुमृणालजालजटिलजले सराजकं रममाणम्, तेजसः परमाणुभिरिव केवलैर्निर्मितम्, अनिच्छन्तमपि बलादारोपयितुमिव सिंहासनम्, सर्वावयवेषु सर्वलक्षणैर्गृहीतम्, गृहीतब्रह्मचर्यमालिङ्गितं राजलक्ष्म्या, प्रतिपन्नासिधाराधारणव्रतमविसंवादिनं राजर्षिम्, विषमराजमार्गविनिहितपदस्खलनभियेव सुलग्नं धर्मे, सकलभूपालपरित्यक्तेन भीतेनेव लब्धवाचा सर्वात्मना सत्येन सेव्यमानम्, आसन्नवारविलासिनीप्रतियातनाभिश्चरणनखपातिनीभिर्दिग्भिरिव दशभिः प्रणम्यमानम्, दीर्घैर्दिगन्तपातिभिर्दृष्टिपातैर्लोकपालानां कृताकृतमिव प्रत्यवेक्षमाणम्, मणिपादपी-
__________________________________________________
*सुवर्णम्, यस्योद्धृष्यमाणस्य सतः कुङ्कुमस्येव रागो जायते सौगन्ध्यं च तद्धरिचन्दनम्। शशिमय इति वक्ष्यमाणाभिप्रायेण तुषारेत्यादिना शीतत्वममुष्य दर्शयति। दन्ते तद्वच्च पाण्डुरे पादे। रश्मयोऽपि पादाः। मुक्तेत्यादिना शुक्लतयापि शशिमय इवेत्येतदेव पोषयति। विग्रहः कायः, रणश्च। घर्मेत्यादि। मणीनां स्वभावत एव शीतत्वात्तदीया मयूखा अपि ह्लादयन्ति। यो हि बलवानारोप्यते स सर्वाङ्गेषु गृह्यते। **गृहीतब्रह्मचर्यमिति।*स्वदारसंतुष्ट ऋतुकालगामी। ‘गृहस्थोचितव्यापारो ब्रह्मचार्येव’ इति श्रुतेः। या त्वेवमनुश्रूयते। ‘यावन्मया न सकला जिता भूमिस्तावन्मे ब्रह्मचर्यम्’ इति श्रीहर्षः प्रतिज्ञातवान्। द्वादशभिश्च वर्षैर्जित्वा तां महिषीमब्रवीत्—‘प्रतिज्ञा मे निर्व्यूढा’ इति। ततो रोषात् ‘अहमपि द्वादशवर्षं ब्रह्मचर्यं चरामि’ इति सा प्रतिज्ञामकरोत्। इति ब्रह्मचर्येणाज्ञाकालोऽतिवाहितः। यश्चगृहीतब्रह्मचर्यः स कथं योषितालिङ्ग्यत इति विरोधः। असिधारा खड्गधारा, व्रतविशेषश्च। यत्र स्त्रीपुंसावकपटौ ब्रह्मचर्येण तिष्ठतः। यश्च प्रतिपन्नेषु विश्वासितेषु खड्गधारां पातयति स कस्मान्न विसंवदते नान्यथा भवति कथं च राजर्षिरसावुच्यत इति विरोधः। यश्च राजर्षिरुत्तममुनिर्गृहीतासिधारो ब्रह्मचारी च स कयाचिदालिङ्ग्येत। विषमोऽशक्यानुष्ठानो नतोन्नतरूपः। मार्गोव्यवहारः, पन्थाश्च। विषमे पथि च स्खलन्ती येन क्वचित्सुलग्नेन भूयते। लब्धवाचेति। सत्यस्य वागेवाश्रयणीयश्च। सर्वैस्त्यक्तः सम्भीतः संस्त्वां त्यजामीति वाचं लब्ध्वान्यं सेवते, वारविलासिनी शरीरोपचारचतुरा मुख्यललनाप्रतिबिम्बम्। दशभिरिति। नखानां दिशां च दशसंख्याकत्वात्।
ठपृष्ठप्रतिष्ठितकरेणोपरिगमानाभ्यनुज्ञां मृग्यमाणमिवदिवसकरेण, भूषणप्रभासमुत्सारणबद्धपर्यन्तमण्डलेन प्रदक्षिणीक्रियमाणमिव दिवसेन, अप्रणमद्भिर्गिरिभिरपि दूयमानं, शौर्योष्मणा फेनायमानमिव चन्दनधवलं लावण्यजलधिमुद्वहन्तमेकराज्योर्जियेन, निजप्रतिबिम्बान्यपि नृपचक्रचूडामणिधृतान्यसहमानमिव दर्पदुःखासिकया चामरानिलनिभेन बहुधेव श्वसन्तीं राजलक्ष्मीं दधानम्, सकलमिव चतुःसमुद्रलावण्यमादायोत्थितया श्रिया समुपश्लिष्टम्, आभरणप्रभाजालजायमानानीन्द्रधनुःसहस्राणीन्द्रप्राभृतप्रहितानि विलभमानमिव राज्ञां संभाषणेषु परित्यक्तमपि मधु वर्षन्तम्, काव्यकथास्वपीतमप्यमृतमुमुद्वमन्तम्, विस्रम्भभाषितेष्वनाकृष्टमपि हृदयं दर्शयन्तम्, प्रसादेषु निश्चलामपि श्रियं स्थाने स्थाने स्थापयन्तम्, वीरगोष्ठीषु पुलकितेन कपोलस्थलेनानुरागसंदेशमिवोपांशु रणश्रियः शृण्वन्तम्, अतिक्रान्तसुभटकलहालापेषु स्नेहवृष्टिमिव दृष्टिमिष्ठे कृपाणे पातयन्तम्, परिहासस्मितेषु गुरुप्रतापभीतस्य राजकस्य स्वच्छमाशयमिव दशनांशुभिः कथयन्तम्, सकललोकहृदयस्थितमपि न्याये तिष्ठन्तम्, अगोचरे गुणानामभूमौ सौभाग्यानामविषये वरप्रदानानामशक्य आशिषाममार्गे मनोरथानामतिदूरे दैवस्यादिश्युपमानानामसाध्ये धर्मस्यादृष्टपूर्वे लक्ष्म्या महत्त्वे स्थितम्, अरुणपादपल्लवेन सुगतमन्थरोरुणा वज्रायुधनि-
__________________________________________________________
मणिपादेति। मणिसंबन्धप्रतिष्ठानमेव पोषयति। करो हस्तोऽपि। फेनायमानमिति। जलं संतापेन सफेनं भवति। असहमानमिवेति। कथं सामान्येन समान इति। सकलमित्यादि। सकलपदेन चतुःशब्देन च शौरेरस्य विशेषमाह। यतो लवणत्वस्य तत्राद्यापि शिष्यमाणत्वात्। अलं लावण्यमादाय। एकस्माच्च समुद्रादुत्थाय लक्ष्म्या शौरिः समुपश्लिष्टः। लावण्यं लवणता, सौन्दर्यं च। प्राभृतं ढौकनिकम्। मधु मद्यम्, अमृतं च। विस्रम्भ आश्वासः। उपांश्वप्रकटम्। अतिक्रान्ते कलहे रणे शस्त्राणां स्नेहो दीयते रुधिरादिसलिलनिवारणाय। स्वच्छं निर्मलम्। सुप्रसादमाशयं भावं, प्रकृष्टतापभीतस्य च स्वच्छो निर्मल आशयो जलाधारो दृश्यते। अत्र प्रतापेत्यादिप्रकरणसाहचर्यात्स्वच्छतान्यथानुपपत्त्या च जलशब्दं विना जलाशय एव प्रतीयते। न्याये तिष्ठन्तम्। न्यायममुञ्चन्तमित्यर्थः। यः सर्वेषां हृदयस्थितः स एकस्मिन्नेव तिष्ठतीति विरोधः। अरुणो लोहितः, अनूरुश्च। शोभनं गमनं ययोस्तौ मन्थरावूरूयस्य। बुद्धश्च
ष्ठुरप्रकोष्ठपृष्ठेन वृषस्कन्धेन भास्वद्बिम्बाधरेण प्रसन्नावलोकितेन चन्द्रमुखेन कृष्णकेशेन वपुषा सर्वदेवतावतारमिवैकत्र दर्शयन्तम्, अपि च मांसलमयूखमालामलिनितमहीतले महति महार्हे माणिक्यमालामण्डितमेखले महानीलमये पादपीठे कलिकालशिरसीव सलीलं विन्यस्तवामचरणम्, आक्रान्तकालियफणाचक्रवालं बालमिव पुण्डरीकाक्षम्, क्षौमपाण्डुरेण चरणनखदीधितिप्रतानेन प्रसरता महीं महादेवीपट्टबन्धेनेव महिमानमारोपयन्तम्, अप्रणतलोकपालकोपेनेवातिलोहितौ सकलनृपतिमौलिमालास्वतिपीतं पद्मरागरत्नातपमिव वमन्तौ सर्वतेजस्विमण्डलास्तमयसंध्यामिव धारयन्तावशेषराजकशेखरकुसुममधुरसस्रोतांसीव स्रवन्तौ समस्तसामन्तसीमन्तोत्तंसस्रक्सौरभभ्रान्तैर्भ्रमर मण्डलैरमित्रोत्तमाङ्गैरिव मुहूर्तमप्यविरहितौ संवाहनतत्परायाः श्रियो विकचरक्तपङ्कजवनवासभवनानीव कल्पयन्तौ जलजशङ्खमीनमकरसनाथतलतया कथितचतुरम्भोधिभोगचिह्नाविव चरणौ दधानम् दिङ्नागदन्तमुसलाभ्यामिव विकटमकरमुखप्रतिबन्धबन्धुराभ्यामुद्वेललावण्यपयोनिधिप्रवाहाभ्यामिव फेनाहितशोभाभ्यां चन्दनद्रुमाभ्यामिव भोगिमण्डलशिरोरत्नरश्मिरज्यमानमूलाभ्यां हृदयारोपितभूभारधारणमाणिक्यस्तम्भाभ्यामूरुदण्डाभ्यां विराजमानम्, अमृतफेनपिण्डपाण्डुना मेखलामणिमयूखखचितेन नितम्बविम्बव्यासङ्गिना विमलपयोधौतेन नेत्रसूत्रनिवेशशोभिनाधरवाससा वासुकिनिर्मोकेणेव
___________________________________________________________
सुगतः। वज्राख्यमायुधं तद्वन्निष्ठुरं कठोरं प्रकोष्ठस्य पृष्टं यस्य तेन। इन्द्रश्चास्य वज्रमायुधम्। ‘प्रकोष्ठमन्तरं विद्यादरत्निमणिबन्धयोः’। वृषो दान्तः, धर्मश्च। भास्वद्भास्वरम्, रविश्च भास्वान्। बिम्बं फलभेदः, मण्डलं च। अवलोकितं वीक्षितम्, बुद्धिभेदश्चावलोकितः। कृष्णः कालः, हरिश्च कृष्णः। कलिकालेति। कलिकालस्य मलिनत्वादेवमुत्प्रेक्षा। वामपादेन पराभवनीयत्वमेव पोष्यते। कालियो नागभेदः। पुण्डरीकाक्षमिति राज्ञो विशेषणम्। तेजस्विनो वीराः, आदित्याश्च। जलजेत्यादीनि महाराजविशेषणानि लक्षणानि। एबमादि च संभवति। मकरमुखं जानुसंधिः, मकरमुखचिह्नितान्तकपोलश्च। उद्वेलतया लावण्यस्य समुच्छलद्रूपत्वमाह। फेनो रससंतानः, डिण्डीरश्च। भोगिनो नृपाः, सर्पाश्च। फेनवत्तैश्च पाण्डु। मेखला रशना, पर्वतमध्यभूमिश्च। पयो जलम्, क्षीरं च। नेत्रसूत्रं पट्टसूत्रम्, मन्थनरज्जुश्च। अघनेन छातेन, अनभ्रेण च। ताराः सूत्रबि-
मन्दरं द्योतमानम्, अघनेन सतारागणेनोपरिकृतेन द्वितीयाम्बरेण भुवनाभोगमिव भासमानम्, इभपतिदशनमुसलसहस्रोल्लेखकठिनमसृणेनापर्याप्ताम्बरप्रथिम्नाविविधवाहिनीसंक्षोभकलकलसंमर्दसहिष्णुना कैलासमिव महता स्फटिकतटेनोरुणोरःकवाटेन राजमानम्, श्रीसरस्वत्योरुरोवदनोपभोगविभागसूत्रेणेव पातितेन शेषेणेव च तद्भुजस्तम्भविन्यस्तसमस्तभूभारलब्धविश्रान्तिसुखप्रसुप्तेन हारदण्डेन परिवलितकंधरम्, जीवितावधिगृहीतसर्वस्वमहादानदीक्षाचीरेणेव हारमुक्ताफलानां किरणनिकरेण प्रावृतवक्षःस्थलम्, अजजिगीषया वालैर्भुजैरिवापरैः प्ररोहद्भिर्बाहूपधानशायिन्याः श्रियाः कर्णोत्पलमधुरसधारासंतानैरिव गलद्भिर्भुजजन्मनः प्रतापस्य निर्गमनमार्गैरिवाविर्भवद्भिररुणैः केयूररत्नकिरणदण्डैरुभयतः प्रसारितमणिमयपक्षवितानमिव माणिक्यमहीधरम्, सकललोकालोकमार्गार्गलेन चतुरुदधिपरिक्षेपखातशिलाप्राकारेण सर्वराजहंसबन्धवज्रपञ्जरेण भुवनलक्ष्मीप्रवेशमङ्गलमहामणितोरणेनातिदीर्घदोर्दण्डयुगलेन दिशां दिक्पालानां च युगपदायतिमपहरन्तम्, सोदर्यलक्ष्मीचुम्बनलोभेन कौस्तुभमणेरिव मुखावयवतां गतस्याधरस्य गलता रागेण पारिजातपल्लवरसेनेव सिञ्चन्तं दिङ्मुखानि, अन्तरान्तरा सुहृत्परिहासस्मितैः प्रकीर्यमाणविमलदशनशिखाप्रतानैः प्रकृतिमूढाया राजश्रियाः प्रज्ञालोकमिव दर्शयन्तम्, मुखजनितेन्दुसंदेहागतानि कुमुदिनीवनानीव प्रेषयन्तम्, स्फुटधवलदशनपङ्क्तिकृतकुमुदवनशङ्काप्रविष्टां शरज्ज्योत्स्नामिवं विसर्जयन्तम्, मदिरामृतपारिजातगन्धगर्भेण भरितसकलककुभा मुखामोदेनामृतमथनदिवसमिव सृजन्तम्, विकचमुखकमलकर्णिका-
________________________________________________________
न्दवः, नक्षत्राणि च। अम्बरं वासः, नभश्च। इभपतीत्यादि साधारणम्। अपर्याप्तमम्बरं वासो यस्य तादृक्प्रथिमा यस्य, अम्बरं च खम्। वाहिनी सेना, नदी च। अन्यपर्वतसाधारण्येऽपि छायावत्त्वादुन्नतत्वाच्च कैलासमिवेत्युक्तम्। हारेत्यादिना उरुत्वं काठिन्यमाह। परिवलिता। ‘परिवेष्टिता—’इति पाठे व्याप्तेत्यर्थः। अजो हरिः। भुजेत्यादिना सेनादिकृतं नयादिकृतं च प्रतापं व्यवच्छिनत्ति। माणिक्यमुत्कृष्टो मणिः। चतुर्णामुदधीनां संबन्धी परिक्षेप एव खातं परिखा यस्य स तादृग्दार्ढ्याच्छिलाप्राकार इव तेन। परिखां कृत्वान्तरे प्राकारो दीयते इति स्थितिः। राजहंसा राजोत्तमाः, हंसमेदाश्च। आयतिर्दैर्घ्यम्, प्रता-
कोशेनानवरतमापीयमानश्वाससौरभमिवाधोमुखेननासावंशेन, चक्षुषःक्षीरस्निग्धस्य धवलिम्ना दिङ्मुखान्यपूर्ववदनचन्द्रोदयोद्वेलक्षीरोदप्लावितानीव कुर्वाणम्, विमलकपोलफलकप्रतिबिम्बितां चामरग्राहिणीं विग्रहिणीमिव मुखनिवासिनीं सरस्वतीं दधानम्, अरुणेन चूडामणिशोचिषा सरस्वतीर्ष्याकुपितलक्ष्मीप्रसादनलग्नेन चरणालक्तकेनेव लोहितायतललाटतटम्, आपाटलांशुतन्त्रीसंतानवलयिनीं कुण्डलमणिकुटिलकोटिबालवीणामनवरतचलितचरणानां वादयतामुपवीणयतामिव स्वरव्याकरणविवेकविशारदम्, श्रवणावतंसमधुकरकुलानां कलक्कणितमाकर्णयन्तम्, उत्फुल्लमालतीमयेन राजलक्ष्म्याः कचग्रहलीलालग्नेन नखज्योत्स्नावलयेनेव मुखशशिपरिवेषमण्डलेन मुण्डमालागुणेन परिकलितकेशान्तम्, शिखण्डाभरणभुवा मुक्ताफलालोकेन मरकतमणिकिरणकलापेन चान्योन्यसंवलनवृजिनेन प्रयागप्रवाहवेणिकावारिणेवागत्य स्वयमभिषिच्यमानम्, श्रमजलविलीनबहलकृष्णागुरुपङ्कतिलककलङ्ककल्पितेन कालिम्ना प्रार्थनाचाटुचतुरचरणपतनशतश्यामिकाकिणेनेव नीलायमानललाटलेखाभिः क्षुभितमानसोद्गतैरुत्कलिकाकलापैरिव हारैरुल्लसद्भिरवष्टभ्यमानाभिर्विलासवल्गनचटुलैर्भ्रूलताकल्पैरीर्ष्यया श्रियमिव तर्जयन्तीभिरायामिभिः श्वसितैरविरलपरिमलैर्मलयमारुतमयैः पाशैरिवाकर्षन्तीभिर्विकटबकुलावलीवराटकवेष्टितमुखैर्बृ-
__________________________________________________________
पश्च। कर्णिका कोशः, चक्रं च। आपीयमानं श्वाससौरभं यस्य तम्। अधोमुखेनेति। अनेन सुलक्ष्यत्वं सौरभस्य तथापीयमानानुमितिं (?) दर्शयति। अंशुरेव तन्त्रीसंतानः स एव वलयाकारत्वाद्वलयं विद्यते यस्यास्ताम्। कुण्डलमणिकुटिलकोटिमेव बालवीणां सप्ततन्त्रीकां विपञ्चीं वादयताम्। अनवरतेत्यादिना व्यापारसादृश्येनोक्तम्। वद (वादय) तामिति। वीणयोपगायतामुपवीणयतामिति गानस्य प्राधान्यं प्रतिपादयति। स्वरव्याकरण विशारदमित्यादिना गानं दर्शयति। परिवेषः परिधिः। वृजिनेन शकलेन, कलुषेण वा। प्रयागो गङ्गायमुनासंगमः। तत्प्रवाहस्य वेणिकारूपेण वारिणेव। श्रमजलेत्यादौ वारविलासिनीभिः सर्वतो विलुप्यमानमसौभाग्यमिवेति संबन्धः। प्रार्थनाचाट्वित्यादौ प्रार्थनादीनि सर्वाणि श्रीहर्षविषयाणि ज्ञेयानि। मानसं सरः, चेतश्च। उत्कलिका रुहरुहिकाः, वीचयश्च। अविरलेत्यादिना धारणम् आकर्षणं वशीकरणम्, समीपप्रापणं च। विकटेत्यादिनोद्दीपनभावमेव पोषयति। वराटको रज्जुः। बृहद्भिरिति। बृहत्त्वेन हृद्यत्वमेषामाह। बृहत्त्वादेव च वक्ष्यति—अशेष-
हद्भिः स्तनकलशैः स्वदारसंतोषरसमिवाशेषमुद्धरन्तीभिः कुचोत्कम्पिकाविकारप्रेङ्खितानां हारतरलमणीनां रश्मिभिराकृष्य हृदयमिवहठात्प्रवेशयन्तीभिः प्रभामुचामाभरणमणीनां मयूखैः प्रसारितैर्बहुभिरिव बाहुभिरालिङ्गन्तीभिर्जृम्भानुबन्धबन्धुरवदनारविनन्दावरणीकृतैरुत्तानैः करकिसलयैः सरभसप्रधावितानि मानसानीव निरुन्धतीभिर्मदनान्धमधुकरकुलकीर्यमाणकर्णकुसुमरजःकणकूणितकोणानि कुसुमशरशरनिकरप्रहारमूर्च्छामुकुलितानीव लोचनानि चतुरं संचारयन्तीभिरन्योन्यमत्सरादाविर्भवद्भङ्गुरभ्रुकुटिविभ्रमक्षितैः कटाक्षैः कर्णेन्दीवराणीव ताडयन्तीभिरनिमेषदर्शनसुखरसराशिं मन्थरितपक्ष्मणा चक्षुषा पीतमिव कोमलकपोलपालीप्रतिबिम्बितं वहन्तीभिरभिलाषलीलानिर्निमित्तस्मितैश्चन्द्रोदयानिव मदनसाहायकाय संपादयन्तीभिरङ्गभङ्गवलनान्योन्यघटितोत्तानकरवेणिकाभिः स्फुटनमुखराङ्गुलीकाण्डकुण्डलीक्रियमाणनखदीधितिनिववहनिभेनाकिंचित्करकामकार्मुकाणीव रुषा भञ्जतीभिर्वारविलासिनीभिर्विलुप्यमानसौभाग्यमिव सर्वतः, स्पर्शस्विन्नवेपमानकरकिसलयगलितचरणारविन्दां चरणग्राहिणीं विहस्य कोणेन लीलालसं शिरसि ताडयन्तम्, अनवरतकरकलितकोणतया चात्मनः प्रियां वीणामिव श्रियमपि शिक्षयन्तम्, निःस्नेह इति धनैरनाश्रयणीय इति दोषैर्निग्रहरुचिरितीन्द्रियैर्दुरुपसर्प इति कलिना नीरस इति व्यसनैर्भीरुरित्ययशसा दुर्ग्रहचित्तवृत्तिरिति चित्तभुवा स्त्रीपर इति सरस्वत्या षण्ढ इति परकलत्रैः काष्ठामुनिरिति यतिभिर्धूर्त इति वेश्याभिर्नेय इति सुहृद्भिः कर्मकर इति
_____________________________________________
मिति। स्तनकलशैरिति। स्तनैः किल रज्जुवेष्टितमुखै रसो जलमुद्भियते। रसोऽभिलाषः, जलं च बन्धुरं हृद्यम्। कूणितः संकोचितः। मदनादिशब्दे विद्यमानेऽपि मदनान्धेत्यभिप्रायेण कुसुमशरग्रहणम्। अत्रपक्षे कर्णपदं त्यज्यते। अनिमेषदर्शनसुखरसराशिमिव श्रीहर्षम्। प्रतिविम्वितमिति। अथ च रसो जलादिः विमले मणिभाजनादावन्तर्वर्त्यपि प्रतिबिम्बितो लक्ष्यते। करवेणिका परस्परानुबन्धस्थितकरद्वयाङ्गुलिविन्यासः। विलुप्यमानसौभाग्यादिना ताः सुभगा इत्यर्थः। कोणो वीणादिवादनभाण्डम्। प्रियामिति। वीणायाः श्रियाश्च विशेषणम्। निःस्नेह इत्यादावेतैरेकमप्यनेकधागृह्यमाणमिति संबन्धः। षण्ढः प्रजननाक्षमः। काष्टा पराधारा तत्प्रधानो मुनिः काष्ठामुनिरतिशयवांस्तपस्वी।
विप्रैः सुसहाय इति शत्रुयोधैरेकमप्यनेकधा गृह्यमाणम्, शन्तनोर्महावाहिनीपतिम्, भीष्माज्जितकाशिनम्, द्रोणाच्चापलालसम्, गुरुपुत्रादमोघमार्गणम्, कर्णान्मित्रप्रियम्, युधिष्ठिराद्बहुक्षमम्, भीमादनेकनागायुतबलम्, धनंजयान्महाभारतरणयोग्यम्, कारणमिव कृतयुगस्य, बीजमिव विबुधसर्गस्य, उत्पत्तिद्वीपमिव दर्पस्य, एकागारमिव करुणायाः, प्रातिवेशिकमिव पुरुषोत्तमस्य, खनिपर्वतमिव पराक्रमस्य, सर्वविद्यासंगीतगृहमिव सरस्वत्याः, द्वितीयामृतमथनदिवसमिव लक्ष्मीसमुत्थानस्य, बलदर्शनमिव वैदग्ध्यस्य, एकस्थानमिव स्थितीनाम्, सर्वस्वकथनमिव कान्तेः, अपवर्गमिव रूपपरमाणुसर्गस्य, सकलदुश्चरितप्रायश्चित्तमिव राज्यस्य, सर्वबलसंदोहावस्कन्दमिव कन्दर्पस्य, उपायमिव पुरंदरदर्शनस्य, आवर्तनमिव धर्मस्य, कन्यान्तःपुरमिव कलानाम्, परमप्रमाणमिव सौ-
_________________________________________________________
नेयः परवशः। शन्तनुर्नाम राजा भीष्मस्य पिता वाहिन्या गङ्गायाः पतिः, अयं तु तस्मादपि महतीनां वाहिनीनां सेनानां पतिः शन्तनुरिति। ‘पञ्चमी विभक्ते’ इति पञ्चमी। भीष्मो जितकाशी जितेन्द्रियः। यतस्त्वयि त्वत्पुत्रे वा सत्यस्मद्दौहित्रस्य कुतो राज्यमिति। यदा हि दाशाधिपतिना स्वसुता मत्स्योदरोद्गता मात्स्यवती नामास्मै पित्रर्थमर्थयते न दत्ता, तदैतेन प्रतिज्ञातम्—‘नाहं राज्यं विवाहं वा करिष्यामि’ इति। अत एव ब्रह्मचार्येवाभूत्। राजा च ततोऽपि जितकाशितमः, जितकाशी वा जितेन जयेन काशते शोभते यः। तथा हि भीष्मेण रामो जितः। सर्वराजमहितं काशिराजं च जित्वा भ्रात्रर्थमम्बादिकन्यात्रयमनैषीत्। राजा तु ततोऽपि जितकाशितमः। द्रोणश्चापाचार्यः। सहि चापे धनुषि लालसः। चापलं न करोतीत्यर्थः। यद्वा चः समुच्चये। अपगता लालसा यस्य सोऽपलालसः। निरभिलाष इत्यर्थः। गुरुपुत्रोऽश्वत्थामा तस्य सफलशरता। तथा शास्त्रोपसंहारोऽक्षमया याचितोऽपि कस्यचिदेकस्य मारणमन्तरेण न तदुपसंजहार। तत उत्तराया उदरस्थे परीक्षिति पाटिते तस्मिंस्तदुपसंहृतवान्। अन्यत्रामोघा मार्गणा याचका यस्येति। मित्रः सूर्यः, सुहृच्च मित्रम्।क्षमा क्षान्तिः, भूश्च। अनेकानि बहूनि अनन्यसदृशानि च। एकशब्दस्य च साधारणार्थं तृच्। बलं सामर्थ्यम्, सैन्यं च। धनंजयोऽर्जुनः। महाभारतानां कुरूणां यो रणः सङ्ग्रामः। अन्यत्र महतो भारस्य कार्यधुरायास्तरणं निर्वाहणम्। प्रातिवेशिकं प्रतिबिम्बम्। खनिराकरः। अपवर्गः समाप्तिः। संदोहः समूहः। अवमृथो यज्ञान्तः। गम्भीरं प्रसन्नं चेति परस्परापेक्षं बोद्धव्यम्। तथा च सति गन्भीरत्वे प्रसन्नत्वं ऋजुत्वं चेन्न स्यात्ततो जिह्मप्रकृतित्वं प्रसज्येत। एवं त्रासेत्यादौ
भाग्यस्य, राजसर्गसमाप्त्यवभृथस्नानदिवसमिव सर्वप्रजापतीनाम्, गम्भीरं च, प्रसन्नं च, त्नासजननं च, रमणीयं च, कौतुकजननं च, पुण्यं च, चक्रवर्तिनं हर्षमद्राक्षीत्।
दृष्ट्वा चानुगृहीत इव निगृहीत इव साभिलाषइव तृप्त इव रोमाञ्चमुचा मुखेन मुञ्चन्नानन्दबाष्पवारिबिन्दून्दूरादेव विस्मयस्मेरः ‘समचिन्तयत—‘सोऽयं सुजन्मा, सुगृहीतनामा, तेजसां राशिः, ‘चतुरुदधिकेदारकुटुम्बी, भोक्ता ब्रह्मस्तम्भफलस्य, सकलादिराजचरितजयज्येष्ठमल्लो देवः परमेश्वरो हर्षः। एतेन च खलु राजन्वती ‘पृथ्वी। नास्य हरेरिव वृषविरोधीनि बालचरितानि, न पशुपतेरिव दक्षोद्वेगकारीण्यैश्वर्यविलसितानि, न शतक्रतोरिव गोत्रविनाशपिशुनाः प्रवादाः, न यमस्येवातिवल्लभानि दण्डग्रहणानि, न वरुणस्येव निस्त्रिंशग्राहसहस्ररक्षिता रत्नालयाः, न धनदस्येव निष्फलाः सन्निधिलाभाः, न जिनस्येवार्थवादशून्यानि दर्शनानि, न चन्द्रमस इव बहुलदोषोपहताः श्रियः। चित्नमिदमत्यमरं राज-
______________________________________________
बोद्धव्यम्। तथा च कालिदासः ‘भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम्। अधृष्यश्चाधिगम्यश्च यादोरत्नैरिवार्णवः॥’ इति दिलीपं प्रति वर्णितवान्। कौतुकजननपुण्यत्वादपि संभाव्यते। अत आह—पुण्यमिति। गम्भीरं च प्रसन्नं चेत्यादौ सर्वत्र विरोध उद्भाव्यः। गम्भीरं सतमिस्रंप्रसन्नं निर्मलं न भवतीति।
*** अनुगृहीत इवेत्यादि।** एवंविधमहीपतिप्रसादवशात्। निगृहीत इवेति। संकोचवशात्। साभिलाष इवेति। तस्य दर्शनीयत्वात्। तृप्त इवेति। तथैव तस्य कृतार्थत्वात्। विरोधो ह्यत्र सुबोधः। केदारं क्षेत्रम्।ब्रह्मस्तम्भं जगत्। फलं रत्नादि। यच्च स्तम्भस्य फलं धान्यादि तद्भोक्ता कर्षको भवति। राजन्वती प्रशस्तराजयुता। वृषो धर्मः, अरिष्टासुरो दान्तरूपश्च। बालेति। बाला हि विवेकहीनत्वाद्धर्मविरुद्धमाचरन्ति। अस्य तु तस्यामपि दशायां धर्मविरोधाभावः। दक्षः कुशलः, प्रजापतिभेदश्च। महेश्वरपक्ष ऐश्वर्यशब्दो मुख्यवृत्तिः, इतरत्र गौणः। गोत्रं कुलम्, कुलपर्वता गोत्राः। अतिवल्लभानीति। अतिशब्देन युक्तदण्डत्वमाह। दण्डः करः, यमायुधं च। निस्त्रिंशग्राहाः खङ्गहस्ताः, जलचरभेदाश्च। रत्नालया भाण्डागाराणि समुद्राश्च। निष्फला ऐश्वर्यादिफलप्राप्तिशून्याः, दानादिविनाकृताश्च। सन्निधिः सन्निधानम्। एतस्य दर्शनं सर्वस्य फलदायि भवतीत्यर्थः। अन्यत्र संनिधयः शोभनानि निधनान्यस्य। दर्शनानि जिनस्येवार्थवादशून्यादि। अर्थो धनं तस्य वादः, अनेनेदं लब्धमिति, तेन शून्यानि। सर्वे तद्दर्शिनोऽर्थेन युज्यन्ते। जिनस्य पुनरर्थवा-*
त्वम्। अपि चास्य त्यागस्यार्थिनः, प्रज्ञायाः शास्त्राणि, कवित्वस्य वाचः, सत्त्वस्य साहसस्थानानि, उत्साहस्य व्यापाराः, कीर्तेर्दिङ्मुखानि, अनुरागस्य लोकहृदयानि, गुणगणस्य संख्या, कौशलस्य कला, न पर्याप्तो विषयः। अस्मिंश्च राजनि यतीनां योगपट्टकाः, पुस्तकर्मणां पार्थिवविग्रहाः, षट्पदानां दानग्रहणकलहाः, वृत्तानां पादच्छेदाः, अष्टापदानां चतुरङ्गकल्पना, पन्नगानां द्विजगुरुद्वेषाः, वाक्यविदामधिकरणविचाराः, इति समुपसृत्य चोपवीती स्वस्तिशब्दमकरोत्।
अथोत्तरे नातिदूरे राजधिष्ण्यस्य गजपरिचारको मधुरमपरवक्त्रमुच्चैरगायत्—
‘करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः।
मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः’॥५॥
राजा तु तच्छ्रुत्वा दृष्ट्वा च तं गिरिगुहागतसिंहबृंहितगम्भीरेण स्वरेण पूरयन्निव नभोभागमपृच्छत्—‘एष स बाणः’ इति। ‘यथाज्ञापयति देवः। सोऽयम्’ इति विज्ञापितो दौवारिकेण। ‘न ता-
______________________________________________
दशून्यानि महायानयोगाचारमाध्यमिकदर्शनानि। बहुलाः प्रभूता दोषा रागाद्याः, बहुलदोषाश्च कृष्णपक्षरात्रयः। श्रियः समृद्धयः, शोभाश्च। पर्याप्तः परिपूर्णः। योगपट्टका यतीनामुपकरणं पर्यङ्कबन्धनार्थम्। ते यतीनां चतुर्थाश्रमिणामेव, न पुनर्योगेन युक्ताः पट्टकाः कूटप्रधानानि लेख्यपत्राणि केषांचित्। एवमन्यत्रापि। पुस्तकर्म लेप्यम्। पार्थिवविग्रहा मृण्मयशरीराणि, राजभिः सह वैराणि च। दानग्रहं मदजलं दानम्, ऋणव्यवहारश्च। वृत्तानां गुरुलघुनियमात्मकानां समाश्च समविषमानां पादच्छेदा भागविरामाः, चरणकर्तनानि च। अष्टापदानां चतुरङ्गफलकानाम्। ‘चत्वार्यङ्गानि सेनाया हस्त्यश्वरथपत्तयः’। तेषां कल्पना रचना, चतुर्णामङ्गानां पाणिपादस्य च छेदः। द्विजगुरुर्गरुडोऽपि। वाक्यविदां मीमांसकानामधिकरणविश्रान्तिस्थानानि। राज्ञां च धर्मनिर्णयस्थानानि। अधिकबलो वा रणः सङ्ग्राम इति केचित्। उपवीती दक्षिणावीती करः। उक्तं च—‘उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः’ इति।
*** गजपरिचारक इति।** अन्यगजपरिचारकस्य स्वजातिसमुचितं वस्तु राज्ञः प्रकृतस्मारकं जातम्। तत्र करिणां स्वभावत एव रागित्वादस्यापि रागवित्त्वाद्भुजंगतास्मृतिः संजातेति। भङ्गुरो वक्रः। मृगपतिनखकोटिभङ्गुर इति स्पष्टा व्याख्या। गुरुर्भारः, शासिता च। उपरि पृष्ठदेशे, प्रभुभावे च अङ्कुश इवाङ्कुश इत्यपि। अत आह—तच्छ्रुत्वेति। बृंहितं गर्जितम्। अंशव एवांशुकाः।*
वदेनमकृतप्रसादः पश्यामि’ इति तिर्यङ्नीलधवलांशुकशारां तिरस्कारिणीमिव भ्रमयन्नपाङ्गनीयमानतरलतारकस्यायामिनीं चक्षुषः प्रभां परिवृत्य प्रेष्ठस्य पृष्ठतो निषण्णस्य मालवराजसूनोरकथयत्—‘महानयं भुजङ्गः’ इति। तूष्णींभावेन त्वगमितनरेन्द्रवचसि तस्मिन्मूके च राजलोके मुहूर्तमिव तूष्णीं स्थित्वा बाणो व्यज्ञापयत्—‘देव, अविज्ञाततत्त्व इव, अश्रद्दधान इव, नेय इव, अविदितलोकवृत्तान्त इव च कस्मादेवमाज्ञापयसि। स्वैरिणो विचित्राश्च लोकस्य स्वभावाः प्रवादाश्च। महद्भिस्तु यथार्थदर्शिभिर्भवितव्यम्। नार्हसि मामन्यथा संभावयितुमविशिष्टमिव। ब्राह्मणोऽस्मि जातः सोमपायिनां वंशे वात्स्यायनानाम्। यथाकालमुपनयनादयः कृताः संस्काराः। सम्यक्पठितः साङ्गो वेदः। श्रुतानि यथाशक्ति शास्त्राणि। दारपरिग्रहादभ्यागारिकोऽस्मि। का मे भुजङ्गता। लोकद्वयाविरोधिभिस्तु चापलैः शैशवमशून्यमासीत्। अत्रानपलापोऽस्मि। अनेनैव च गृहीतविप्रतीसारमिव मे हृदयम्। इदानीं तु सुगत इव शान्तमनसि मनाविव कर्तरि वर्णाश्रमव्यवस्थानां सनवर्तिनीव च साक्षादण्डभृति देवे शासति सप्ताम्बुराशिरशनामशेषद्वीपमालिनीं महीं क इवाविशङ्कः सर्वव्यसनबन्धोरविनयस्य मनसाप्यभिनयं कल्पयिष्यति। आसतां तावन्मानुष्यकोपेताः। त्वत्प्रभावादलयोऽपि भीता इव मधु पिबन्ति। रथाङ्गनामानोऽपि लज्जन्त इवाभ्यनुवृत्तिव्यसनैः प्रियाणाम्। कपयोऽपि चकिता इव चपलायन्ते। शरारवोऽपि सानुक्रोशा इव श्वापदगणाः पिशितानि
________________________________________________
अंशुकं च वस्त्रम्। तिरस्कारिणी जवनिका। प्रेष्ठस्यातिप्रियस्य। नेयः परवशः। स्वैरिणः स्वतन्त्राः। सोमपायिनां सोमपानाम्। ‘शिक्षा कल्पो व्याकरणं ज्योतिषं निरुक्तं छन्दोविचितिः’ इति षडङ्गानि वेदस्य। अभ्यागारिको गृहस्थः, सम्यग्वृत्तिस्थितो वा। कामे भुजंगतेति कामभुजंगता शृङ्गारित्वम्। कामे मदने भुजंगता ज्ञेया, न मादृशेषु। नहि मे काचिद्भुजं बाहुं गता प्राप्तेत्यर्थः। लोकद्वयेत्यादिना त्रिवर्गस्यानुपघातं दर्शयति। शास्त्रविरोधप्रसङ्गात्। शतायुर्वै पुरुषः कालमन्योन्यानुबद्धं परस्परस्यानुपघातेन त्रिवर्गं सेवत इत्यत एवाह—शैशवमिति। अशून्यमिति। अनेन तदेकासक्तत्वं परिहरति। अनपलापो निरपह्नवः। विप्रतीसारः पश्चात्तापः। सुगतो बुद्धः। समवर्ती यमः। मनुष्यस्य भावो मानुष्यकम्। रथाङ्गनामानश्चक्रवाकाः चपलायन्ते चपलत्वमाचरन्ति। शरारवो
भुञ्जते। सर्वथा कालेन मां ज्ञास्यति स्वामी स्वयमेव। अनपाचीनचित्तवृत्तिग्राहिण्यो हि भवन्ति प्रज्ञावतां प्रकृतयः’ इत्यभिधाय तूष्णीमभूत्।
भूपतिरपि ‘एवमस्माभिः श्रुतम्’ इत्यभिधाय तूष्णीमेवाभवत्। संभाषणासनदानादिना तु प्रसादेन नैनमन्वग्रहीत्। केवलममृतवृष्टिभिः स्नपयन्निव स्नेहगर्भेण दृष्टिपातमात्रेणान्तर्गतां प्रीतिमकथयत्। अस्ताभिलाषिणि च लम्बमाने सवितरि विसर्जितराजलोकोऽभ्यन्तरं प्राविशत्। बाणोऽपि निर्गत्य धौतारकूटकोमलातपत्विषि निर्वाति वासरे, अस्ताचलकूटकिरीटे निचुलमञ्जरीभांसि तेजांसि मुञ्चति वियन्मुचि मरीचिमालिनि, अतिरोमन्थमन्थरकुरङ्गकुटुम्बकाध्यास्यमानम्रदिष्ठगोष्ठीनपृष्टास्वरण्यस्थलीषु, शोकाकुलकोककामिनीकूजितकरुणासु तरङ्गिणीतटीषु, वासविटपोपविष्टवाचाटचटकचक्रवालेष्वालवालावर्जितसेकजलकुटेषु निष्कुटेषु, दिवसविहृतिप्रत्यागतं प्रस्रुतस्तनं स्तनंधये धयति धेनुवर्गमुद्गतक्षीरं क्षुधिततर्णकव्राते, क्रमेण चास्तधराधरधातुधुनीपूरप्लावित इव लोहितायमानमहसि मज्जति संध्यासिन्धुपानपात्रे पातङ्गे मण्डले, कमण्डलुजलशुचिशयचरणेषु चैत्यप्रणतिपरेषु पाराशरिषु, यज्ञपात्रपवित्रपाणौ प्रकीर्णबर्हिष्युत्तेजसि जातवेदसि, हवींषि वषट्कुर्वति यायजूकजने, निद्राविद्राणद्रोणकुलकलिलकुलायेषु कापेयविकलकपिकुलेष्वारामतरुषु, निर्जिगमिषति जरत्तरुकोटरकुटीकुटुम्बिनि कौशिककुले, मु-
_______________________________________________________
हिंस्राः। श्वापदगणाः प्राणिसमूहाः। पिशितं मांसम्। अनपाचीनाऽमृष्टा। अविपरीतेत्यर्थः। निर्दोषा वा।
- बाणोऽपीत्यादौ बाणोऽप्यस्मिन्सति निवासस्थानमगादिति संबन्धः। ‘रीतिः स्त्रियामारकूटम्’ इत्यमरः। निर्वाति शाम्यति। निचुलो वेतसवृक्षः। भुक्तोद्गीर्णाहारचर्वणं रोमन्थः। म्रदिष्ठंमृदुतमम्। गोष्ठीपूर्वं गोष्ठीनम्। ‘गोष्ठात्खञ्भूतपूर्वे’। उक्तं च—‘गोष्ठं गोस्थानकं तत्तु गोष्ठीनं भूतपूर्वकम्’ इति। कोकाश्चक्रवाकाः। तरङ्गिणी नदी। आलवालमावापः। कुटा घटाः। निष्कुटाः स्वगृहारामाः। स्तनंधयस्तर्णकश्च वत्सः। धुनी नदी। सिन्धुः समुद्रः। शयः करः। चैत्यमायतनम्। पाराशरिषु भिक्षुषु। बर्हीषि कुशाः। वषडिति दानक्रियासु मोचनमन्त्रः। वषट्कुर्वति। जुह्वतीत्यर्थः। यायजूकोऽत्यर्थं यजनशीलः। विद्राणोऽलसः। द्रोणः काकः। कलिला आकुलाः। ‘कुलायो नीडमस्त्रियाम्’। कापेयं चाप-*
निकरसहस्रप्रकीर्णसंध्यावन्दनोदबिन्दुनिकर इव दन्तुरयति तारापथस्थलीं स्थवीयसि तारकानिकुरम्बे, अम्बराश्रयिणि शर्वरीशबरीशिखण्डे, खण्डपरशुकण्ठकाले कवलयति बाले ज्योतिःशेषं सांध्यमन्धकारावतारे, तिमिरतर्जननिर्गतासु दहनप्रविष्टदिनकरकरशाखास्विव स्फुरन्तीषु दीपलेखासु, अररसंपुटसंक्रीडनकथितावृत्तिष्विव गोपुरेषु, शयनोपजोषजुषि जरतीकथितकथे शिशयिषमाणे शिशुजने, जरन्महिषमषीमलीमसतमसि जनितपुण्यजनप्रजागरे विजृम्भमाणे भीषणतमे तमीमुखे, मुखरितविततज्यधनुषि वर्षति शरनिकरमनवरतमशेषसंसारशेमुषीमुषि मकरध्वजे, रताकल्पारम्भशोभिनि शम्भलीभाषितभाजि भजति भूषां भुजिष्याजने, सैरन्ध्रीबध्यमानरशनाजालजल्पाकजघनासु जनीषु, वशिकविशिखाविहारिणीष्वनन्यजानुप्लवासु प्रचलितास्वभिसारिकासु, विरलीभवति वरटानां वेशन्तशायिनीनां मञ्जुनि मञ्जीरशिञ्जितजडे जल्पिते, निद्राविद्राणद्राघीयसि द्रावयतीव च विरहिहृदयानि सारसरसिते, भाविवासरबीजाङ्कुरनिकर इव च विकीर्यमाणे जगति प्रदीपप्रकरे निवासस्थानमगात्। अकरोच्च चेतसि—‘अतिदक्षिणः खलु देवो हर्षः, यदेवमनेकबालचरितचापलोचितकौलीनकोपितोऽपि मनसा स्निह्यत्येव मयि। यद्यहमक्षिगतः स्याम्, न मे दर्शनेन प्रसादं कुर्यात्। इच्छति तु मां गुणवन्तम्। उपदिशन्ति हि विनयमनुरूपप्रतिपत्त्युपपादनेन वाचा विनापि भर्तव्यानां स्वामिनः। अपि च धिङ्मांस्वदोषान्धमानसमनादरपीडितमेवमतिगुणवति राजन्यन्यथा चान्यथा च चिन्तयन्तम्। सर्वथा करोमि तथा, यथा यथावस्थितं जानाति मामयं कालेन’ इत्येवमवधार्य चापरेद्युर्निष्क्रम्य कटकात्सुहृदां
_______________________________________________________
लम्। कौशिका उलूकाः। स्थवीयसि स्थूलतरे। शिखण्डो जूटकः। खण्डपरशुः शिवः। करा एव शाखास्तदाकारत्वादङ्गुलयश्च करशाखाः। अररः कपाटः। संक्रीडनं शब्दः। आवृत्तिः स्थगनम्। ‘गोपुरं स्यात्पुरद्वारं द्वारमात्रेऽपि गोपुरम्’। उपजोषः सुखम्, तूष्णींभावो वा। जरती वृद्धा। शिशयिषमाणे सुषुप्सति। ‘यक्षाः स्युः पुण्यजनाः’। तमी रात्रिः। शेमुषी बुद्धिः। आकल्पो वेशः। शम्भली कुट्टनी। भुजिष्या दासी। सैरन्धी प्रसाधनोपचारज्ञा। जनी वशिका शून्या। विशिखा रथ्या। अनन्यजः कामः। अनुप्लवः सहायः। ‘कान्तार्थिनी
बान्धवानां च भवनेषु तावदतिष्ठत् यावदस्य स्वयमेव गृहीतस्वभावः पृथिवीपतिः प्रसादवानभूत्। अविशच्च पुनरपि नरपतिभवनम्। स्वल्पैरेव चाहोभिः परमप्रीतेन प्रसादजन्मनो मानस्य प्रेम्णो विस्रम्भस्य द्रविणस्य नर्मणः प्रभावस्य च परां कोटिमानीयत नरेन्द्रेणेति।
इति श्रीबाणभट्टकृते हर्षचरिते राजदर्शनं नाम
द्वितीय उच्छ्वासः।
_________________________________________________________
- तु या याति संकेतं साभिसारिका’। ‘हंसस्य योषिद्वरटा’। वेशन्तः पल्वलम्। कासारमत्यल्पसरः। मञ्जीरं नूपुरम्। दक्षिणोऽनुकूलः। कौलीनं जनापवादः। अक्षिगतो द्वेष्यः। विस्रम्भस्याश्वासस्य। द्रविणस्य धनस्य। नर्मणः परिहासस्य॥*
॥इति श्रीशंकरकविरचिते हर्षचरितसंकेते द्वितीय उच्छ्वासः समाप्तः॥
<MISSING_FIG href="../books_images/U-IMG-1723227873Screenshot2024-08-10015527.png"/>
तृतीय उच्छ्वासः।
निजवर्षाहितस्नेहा बहुभक्तजनान्विताः।
सुकाला इव जायन्ते प्रजापुण्येन भूभुजः॥१॥
साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम्।
न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम्॥२॥
अथ कदाचिद्विरलितबलाहके, चातकातङ्ककारिणि, क्वणत्कादम्बे, दर्दुरद्विषि, मयूरमदमुषि, हंसपथिकसार्थसर्वातिथौ, धौतासिनिभनभसि, भास्वरभास्वति, शुचिशशिनि, तरुणतारागणे, गलत्सुनासीरशरासने, सीदत्सौदामनीदाम्नि, दामोदरनिद्राद्रुहि, द्रुतवैदूर्यवर्णार्णसि, घूर्णमानमिहिकालघुमेघमोघमघवति, निमीलन्नीपे, निष्कुसुमकुटजे, निर्मुकुलकन्दले, कोमलकमले, मधुस्यन्दीन्दीवरे, कह्लाराह्लादिनि, शेफालिकाशीतलीकृतनिशे, यूथिकामोदिनि, मोदमानकुमुदावदातदशदिशि, सप्तच्छदधूलिधूसरितसमीरे, स्तबकितबन्धुरबन्धूकाबध्यमानाकाण्डसंध्ये, नीराजितवा-
________________________________________________________
*** निजेति।** निज आत्मीयः। वर्षो लोकः, वृष्टिश्च। वर्षं वर्षमपि निजं समुचितकालप्राप्तम्। स्नेहः प्रीतिः, आर्द्रता च। भक्ताः अनुरक्ताः, ओदनश्च। भक्तं भक्तरूपाणां भूभृतां सुकालानां च प्रजापुण्यं हेतुः। अनेन महानुभावपुष्पभूतिवर्णना सूचिता॥१॥*
*** साधूनामित्यादिनापि** भैरवाचार्योपकारकरणम्, स्वयं लक्ष्मीदर्शनम्, विहायसा गमनं भैरवाचार्यस्य, महात्मचरितश्रवणकुतूहलं च निजभ्रात्रादीनां सूचितम्॥२॥*
- अथेत्यादावेवंविधे शरत्समयारम्भे बन्धून्द्रष्टुं बाणो ब्राह्मणाधिवासमगादिति संबन्धः। विरलिताः न पुनरेकान्ततोपगताः। बलाहका मेघाः। चातकाः स्तोककाख्याः पक्षिणः। कादम्बाः कृष्णहंसाः। दुर्दरा मण्डूकाः। हंसा एव पथिकसार्थाः, तेषां निर्मलजलदानादिना स्यात्सर्वातिथित्वम्। शुचिर्निर्मलः। सुनासीर इन्द्रः। सौदामनी विद्युत्। दामोदरो हरिः। अस्य निद्रां द्रोग्धि यस्तस्मिन्। तदा किल हरिर्विबुध्यत इति वार्ता। अर्णो जलम्। घूर्णमाना भ्रमन्ती या मिहिका नीहारस्तद्वल्लघवस्तुच्छा ये मेघास्तैर्मोघो निष्फलो मघावानिन्द्रो यत्र तस्मिन्। वर्षाभावादिन्द्रस्य मोघत्वम्। इन्द्रादेशेन हि मेघा वर्षन्ति। मेघवद्गर्जितमित्यन्ये। नीपाः कुटजाः। कन्दलाश्च वृक्षमेदाः। कह्लाराणि सौगन्धिकापरनामकानि श्वेतोत्पलानि। जलकुसुमपत्रिकेत्यन्ये। शेफालिका पुष्पमेदः रात्रावेव विकसति। यूथिका हरिणिका। मोदमानानि विकसन्ति। सप्तच्छंदा*
जिनि, उद्दामदन्तिनि, दर्पक्षीबौक्षके, क्षीयमाणपङ्कचक्रवाले, वालपुलिनपल्लवितसिन्धुरोधसि, परिणामाश्यानश्यामाके, जनितप्रियङ्गुमञ्जरीरजसि, कठोरितत्रपुसत्वचि, कुसुमस्मेरशरे, शरत्समयारम्भे राज्ञः समीपाद्बाणो बन्धून्द्रष्टुं पुनरपि तं ब्राह्मणाधिवासमगात्।
समुपलब्धभूपालसंमानातिशयपरितुष्टास्तस्य ज्ञातयः श्लाघमाना निर्ययुः। क्रमेण च कांश्चिदभिवादयमानः कैश्चिदभिवाद्यमानः, कैश्चिच्छिरसि चुम्ब्यमानः, कांश्चिन्मूर्ध्नि समाजिघ्रन्, कैश्चिदालिङ्ग्यमानः, कांश्चिदालिङ्गन्, अन्यैराशिषानुगृह्यमाणः, पराननुगृह्णन्, बहुबन्धुमध्यवर्ती परं मुमुदे। संभ्रान्तपरिजनोपनीतं चासनमासीनेषु गुरुषु भेजे। भजमानश्चार्चादिसत्कारं नितरां ननन्द। प्रीयमाणेन च मनसा सर्वांस्तान्पर्यपृच्छत्—‘कच्चिदेतावतो दिवसान्सुखिनो यूयम्। अप्रत्यूहा वा सम्यक्करणपरितोषितद्विजचक्रा क्रातवी क्रियते क्रिया। यथावद विकलमन्त्रभाञ्जि भुञ्जते वा हवींषि हुतभुजः। यथाकालमधीयते वा बटवः। प्रतिदिनमविच्छिन्नो वा वेदाभ्यासः। कच्चित्स एव चिरंतनो यज्ञविद्याकर्मण्यभियोगः, तान्येव व्याकरणे परस्परस्पर्धानुबन्धावन्ध्यदिवसदर्शितादराणि व्याख्यानमण्डलानि, सैव वा पुरातनी परित्यक्तान्यकर्तव्या प्रमाणगोष्ठी, स एव वा मन्दीकृतेतरशास्त्ररसो मीमांसायामतिरसः। कच्चित्त एव वाभिनवसुभाषितसुधावर्षिणः काव्यालापाः’ इति।
अथ ते तमूचुः–‘तात, संतोषजुषां सततसंनिहितविद्याविनो-
____________________________________________________
सप्तपर्णाख्या वृक्षभेदाः। बन्धुरा हृद्याः। बन्धूका बन्धुजीवाख्या वृक्षाभेदाः। नीराजिताः कृतशान्तिविधानाः। क्षीबाणीवौक्षकानि दान्तसमूहा यत्र तस्मिन्। चक्रवालं समूहः। वालं तत्क्षणस्रुतजालम्। सिन्धवो नद्यः। श्यामाको नीवारः। प्रियङ्गुर्व्रीहिभेदः। त्रपुसं लाडुकम्।
-
संभ्रान्तः सत्वरः। सत्कारं पूजाम्। कच्चिदितीष्टप्रश्ने। प्रत्यूहो विघ्रः। सम्यक्करणं यथाशास्त्रं संपादनम्। क्रतूनां यज्ञानामियं क्रातवी। अधीयत इति। वेदपाठो बालानामेवोचितः। प्रमाणं तर्कविद्या। मीमांसा ब्रह्मनिदर्शनम्। अत एवाह—अतिरस इति।*
-
तात इति पूजावचनम्। वैतानाः क्रातवाः। कौसीद्यमालस्यम्। निष्प्रयत्नतेत्यर्थः।*
दानां वैतानवह्निमात्रसहायानां कियन्मात्रं नः कृत्यं सुखितया सकलभुवनभुजि भुजङ्गराजदेहदीर्घे रक्षति क्षितिं क्षितिभुजे। सर्वथा सुखिन एव वयम्, विशेषेण तु त्वयि विमुक्तकौसीद्येपरमेश्वरपार्श्ववर्तिनि वेत्रासनमधितिष्ठति। सर्वे च यथाशक्ति यथाविभवं यथाकालं च संपाद्यन्ते विप्रजनोचिताः क्रियाकलापाः’ इत्येवमादिभिरालापैः स्कन्धावारवार्ताभिश्च शैशवातिक्रान्तक्रीडानुस्मरणैः पूर्वजकथाभिश्च विनोदितमनास्तैः सह सुचिरमतिष्ठत्। उत्थाय च मध्यंदिने यथाक्रियमाणाः स्थितीरकरोत्। भुक्तवन्तं च तं सर्वे ज्ञातयः पर्यवारयन्।
अत्रान्तरे दुगूलपट्टप्रभवे शिखण्ड्यपाङ्गपाण्डुनी पौण्ड्रे वाससी वसानः स्नानावसानसमये बन्दितया तीर्थमृदा गोरोचनया च रचिततिलकः, तैलामलकमसृणितमौलिः, अनुच्चचूडाचुम्बिना निबिडेन कुसुमापीडकेन समुद्भासमानः, असकृदुपयुक्तताम्बूलविमलाधरकान्तिः, एकशलाकाञ्जनजनितलोचनरुचिः, अचिरभुक्तः, विनीतमार्यं च वेषं दधानः, पुस्तकवाचकः सुदृष्टिराजगाम। नातिदूरवर्तिन्यां चासन्द्यां निषसाद। स्थित्वा च मुहूर्तमिव तत्कालापनीतसूत्रवेष्टनमपि नखकिरणैर्मृदुमृणालसूत्रैरिव वेष्टितं पुस्तकं पुरोनिहितशरशलाकायन्त्रके निधाय, पृष्ठतः सनीडसंनिविष्टाभ्यां मधुकरपारावताभ्यां दत्ते स्थानके प्राभातिकप्रपाठकच्छेदचिह्नीकृतमन्तरपत्रमुत्क्षिप्य गृहीत्वा च कतिपयपत्रलध्वीं कपाटिकाम्, क्षालयन्निव मषीमलिनान्यक्षराणि दन्तकान्तिभिः, अर्चयन्निव सित-
_____________________________________________
- अत्रेत्यादौ सुदृष्टिः पुस्तकवाचक आजगामेति संबन्धः। दुगूलेति। एकस्माद्दुगूलपट्टाद्दीर्घाच्छित्वा गृहीते, शिखण्ड्यपाङ्गपाण्डुत्वेन कार्कश्यमपि दर्शितम्। पौण्ड्रे पुण्ड्रदेशजे। गोरोचना रक्षाद्रव्यभेदः। मौलयः केशाः।अनुच्चेति। अदीर्घतया कुसुमापीडकस्य श्रोत्रियत्वं विनीतत्वं चास्य दर्शितम्। निबिडेन संहतपुष्पेण। रुचिरं नैर्मल्यम्। भोजनं भुक्तमचिरं भुक्तं यस्य सः। अनेन तस्यानवलिप्तत्वमुक्तम्। आसन्द्यां वेत्रपीठिकायाम्। स्थित्वेत्यादौ पुराणं पपाठेति संबन्धः। सनीडे समीपे। प्रपाठको वाचकः, प्रपठनं वा। तस्य तत्र वा छेदः। इयन्मात्रं वाचितं नान्यद्विति तेन चिह्नीकृतं लक्ष्यीकृतम्। गमयन्ति रागस्वरूपमिति गमकाः।*
कुसुममुक्तिभिर्ग्रन्थम्, मुखसंनिहितसरस्वतीनूपुररवैरिव गमकैर्मधुरैराक्षिपन्मनांसि श्रोतॄणां गीत्या पवमानप्रोक्तं पुराणं पपाठ।
तस्मिंश्च तथा श्रुतिसुभगगीतिगर्भं पठति सुदृष्टौ नातिदूरवर्ती बन्दी सूचीबाणस्तारमधुरेण गीतिध्वनिमनुवर्तमानः स्वरेणेदमार्यायुगलमपठत्—
‘तदपि मुनिगीतमतिपृथु तदपि जगद्व्यापि पावनं तदपि।
हर्षचरितादभिन्नं प्रतिभाति हि मे पुराणमिदम्॥३॥
वंशानुगमविवादि स्फुटकरणं भरतमार्गभजनगुरु।
श्रीकण्ठविनिर्यातं गीतमिदं हर्षराज्यमिव॥४॥’
तच्छ्रुत्वा बाणस्य चत्वारः पितामहमुखपद्मा इव वेदाभ्यासपवित्रितमूर्तयः, उपाया इव सामप्रयोगललितमुखाः, गणपतिः, अधिपतिः, तारापतिः, श्यामल इति पितृव्यपुत्रा भ्रातरः, प्रसन्नवृत्तयः, गृहीतवाक्याः, कृतगुरुपदन्यासाः, न्यायवादिनः, सुकृतसंग्रहाभ्यास-
_____________________________________________
असाधारणानि स्वराणां निमीलनानि यानि लक्ष्येष्वान्तरमार्ग इति प्रसिद्धास्तैर्गमकैः स्वरयतिविशेषैः। पवमानो वायुः।
- बन्दी स्तुतिपाठकः। पृथुरादिनृपोऽपि। पवमानं वायुप्रोक्तमपि। गीतपक्षे—वंशेन वेणुनानुगमो ययोस्तौ विवादिनौ स्वरौ विश्रुत्यन्तरौ गान्धारनिषादौ स्वरौ यत्र तत्। करणमपदः। सताल आविद्धः स्वरसंनिवेश उच्चारणस्थानं वा। भारतं भरतमुनिकृतो ग्रन्थः। श्रीकण्ठः श्रीयुक्तः कण्ठः वैस्वर्यादिदोषाभावात्। यद्वा श्रीकण्ठो हर एव सर्वविद्यानां तत एवोत्पत्तेः। हर्षराज्यमपीदृशमेव। तथा च वंशं कुलमनुगच्छत्यनुसरति यत्तद्वंशानुगम्। तथाविद्यमाना विवादिनो यत्र तदविवादि सौराज्यं। न केचित्तत्र विवदन्ते। करणमधिकरणं यत्र विद्यापरीक्षा धर्मनिर्णयो वा क्रियते, व्यापारो वा। भरतो नाम पूर्वं राजाभूत्। श्रीकण्ठो देशभेदः। गीतमपि हर्षस्य प्रमोदस्य राज्यमिव। तस्य विजृम्भमाणत्वात्। तच्छ्रुत्वेत्यादौ बाणस्य चत्वारो भ्रातरः परस्परस्य मुखानि व्यलोकयन्निति संबन्धः। तच्छ्रुत्वेत्यादिनास्य प्रकरणस्य प्रकृतानुगुणत्वं दर्शितम्। तेषां च प्रस्ताववेदित्वम्। मुखपद्मा अपि चत्वारः सामवेदभेदाः। सान्त्वं च सुखमारम्भोऽपि। प्रसन्ना शुद्धा, सुबोद्धा च। वृत्तिर्वर्तनम्, सूत्रविवरणं च। गृहीतमादृतम्, ज्ञानार्थं च। वाक्यं विवरणम्, वार्तिकं च। यत्करणात्कात्यायनो वार्तिककार उच्यते। कृतो गुरूणां संबन्धिनि पदे स्थाने न्यासः स्थितिर्येषां ते। सर्वेणोपदेष्टृपदे स्थापितास्त इत्यर्थः। यद्वा कृतो गुरुणि पदे न्यासो यैः। महति पदे स्थिता इत्यर्थः। अन्यत्र कृतोऽभ्यस्तो गुरुपदे दुर्बोधशब्दे न्यासो वृत्तिर्विवरणं यैः। न्यायो युक्तम्,*
गुरवो लब्धसाधुशब्दा लोक इव व्याकरणेऽपि सकलपुराणराजर्षिचरिताभिज्ञाः, महाभारतभावितात्मानः, विदितसकलेतिहासाः, महाविद्वांसः, महाकवयः, महापुरुषवृत्तान्तकुतूहलिनः, सुभाषितश्रवणरसरसायनाः, वितृष्णाः, वयसि वचसि यशसि तपसि सदसि महसि वपुषि यजुषि च प्रथमाः, पूर्वमेव कृतसंगराः, विवक्षवः, स्मितसुधाधवलितकपोलोदराः, परस्परस्य मुखानि व्यलोकयन्।
अथ तेषां कनीयान्कमलदलदीर्घलोचनः श्यामलो नाम बाणस्य प्रेयान्प्राणानामपि वशयिता दत्तसंज्ञस्तैः सप्रणयं दशनज्योत्स्नास्नपितककुभा मुखेन्दुना बभाषे—‘तात बाण, द्विजानां राजा गुरुदारग्रहणमकार्षीत्। पुरूरवा ब्राह्मणधनतृष्णया दयितेनायुषा व्ययुज्यत। नहुषः परकलत्राभिलाषी महाभुजङ्ग आसीत्।
___________________________________________________
*उपपत्त्यनुपपत्तिविचारश्च। सुकृतं पुण्यम्, सुष्ठु विहितं च। संग्रहः संचयः। व्याकरणं, व्याडिकृतो ग्रन्थश्च। गुरवो महान्तः, उपाध्यायाश्च। साधुशब्दः साधुवादः, साधवोऽमी इत्येवंरूपो वा। साधवः संस्कृताः, शब्दाश्च। पाण्डित्यप्रकटनेनानेन द्रष्टुमिष्टस्य वस्तुन उत्कृष्टतोच्यते। सकलेत्यादिविशेषणत्रयेण द्विजराजादिवृत्तान्तेऽभिज्ञतोच्यते। महापुरुषेत्यादि। हर्षचरिते शुश्रूषाया हेतुः। **सुभाषितेत्यादि।*स्वकाव्यप्रशंसासूचनपरम्। सदसि सभायाम्। संगरं संकेतः।
*** कनीयानिति।** अनेन प्रियवचनत्वमस्य दर्शितम्। ब्रूहीति दत्तसंज्ञः। तात बाणेत्यादिना पूर्वराजदोषोद्भावनद्वारेण हर्षस्य गरीयस्तां ख्यापयति। अत्र क्वचिच्छब्दद्वारेण क्वचिच्चार्थद्वारेण यथायोग्यं दोष उद्भाव्यः। चन्द्रादिशब्दाभिधानेन राजत्वप्रतीतिर्न स्यादिति द्विजानां राजेत्युक्तम्। गुरुर्बृहस्पतिः, पित्राद्याश्च गुरवः। अत्र कथा —पुरा पूर्णचन्द्रमुदितं वीक्ष्य कामयमानां गुरुपत्नीं ताराख्यामभिगच्छत्। तदसहमानेन च बृहस्पतिना यदेन्द्राद्याः प्रोत्साहितास्तदानयनाय, तदा चन्द्रेण शुक्रः शरणमाश्रितः। ततः शुक्रप्रेरितैर्दैत्यैः सह तेषामन्योन्यं दिव्यं वर्षसहस्रं युद्धमासीत्। तारापि नारदबोधिता सगर्भा सती पुनर्गुरुमेवाभिगतेति। दयितेनायुषा प्रियेण जीवितेन पुत्रेणायुर्नाम्ना। कथा चात्र—पुरूरवाः पूर्वां दिशं जेतुं गच्छन्केनाप्याहृतप्रभूतधनेन विप्रेण यज्ञे निमन्त्रितो लोभाक्षिप्तस्तद्धनं जिहीर्षुस्तच्छापान्नष्टः। तस्मिन्मृते स विप्रो नृपं विना प्रजा निवर्तत इति ज्ञात्वा तदायुषा राजर्षिमायुर्नामानमजीजनदिति। भुजङ्गो विटोऽपि। पुरा वृत्रं हत्वा ब्रह्महत्यया शक्रः पलाय्य मृणालच्छिद्रान्तरे यदातिष्ठत्तदा नहुषो यज्वा शूरैश्च देवैरिन्द्रत्वं नीतो दर्पाच्छचीं प्रार्थयमानो बृहस्पत्युपदेशात्तयोक्तोयथा—‘यानेनापूर्वेणागच्छ’ इति। ततो ब्रह्मर्षीन्वाहनीकृत्य व्रजन्कामवशात्त्वरमाणः पादेनाताड्यसर्प-*
ययातिराहितब्राह्मणीपाणिग्रहणः पपात। सुद्युम्नः स्त्रीमय एवाभवत्। सोमकस्य प्रख्याता जन्तुवधनिर्घृणता। मांधाता मार्गणव्यसनेन सपुत्रपौत्रो रसातलमगात्। पुरुकुत्सः कुत्सितं कर्म तपस्यन्नपि मेकलकन्यकायामकरोत्। कुवलयाश्वो भुजङ्गलोकपरिग्रहादश्वतरकन्यामपि न परिजहार। पृथुः प्रथमपुरुषकः परिभूतवान्पृथिवीम्। नृगस्य कृकलासभावे वर्णसंकरः समदृश्यत।
________________________________________________
सर्प’ इति चोदयन्नगस्त्येन ‘सर्पो भव’ इति शप्तः सर्पोऽभवत्। पपातेति नरकगामी बभूव, स्वाचारभ्रष्टत्वात्पतितश्चाभूत्। वृषपर्वणोऽसुरराजस्य दुहित्रा शर्मिष्ठया कलहायमाना ‘अस्मद्भृत्यसुता वराकी भूत्वा स्पर्धते’ इत्युक्त्वा कूपान्तः पातितां शुक्रसुतां देवयानीं ज्ञात्वा ययातिर्वनविहारी पाणिं गृहीत्वोज्जहार। गते ययातौ परिभवोद्विग्ना वन एवावसत्। अथ नारदाद्यथावृत्तं ज्ञात्वा वृषपर्वा शुक्रस्य प्रार्थनामकरोत्। संदिष्टा च—‘कुमारी शतपरिचारवतीयं शर्मिष्ठा यदा मे दास्यं करोति तदागच्छामि’ इति। शुक्रशापभीतेन वृषपर्वणा संपादितमनोरथा देवयानी पुनरपि दासीभूतया शर्मिष्ठया सह वने क्रीडन्ती ययातिमायान्तं दृष्ट्वा बभाषे’—क्वाद्य मां त्यक्त्वा पाणिग्राहो महानुभावो गतोऽभूत्’ इति। ततो ययातिर्ब्राह्मणीत्वादनङ्गीकुर्वंस्तत्पित्रा शोकविधुरेण शुक्रेण ‘पापं मास्तु, क्रियतामयं विधिः’ इति बुद्ध्वा तां स्वीचक्रे। कालेन चासौ पपातेति। सुद्युम्नो राजा, शोभनं द्युम्नं बलमस्येति च। स्त्रीमयो महिलाकृतिः, कान्तानुरक्तश्च। योऽत्र तोयमुपयोक्ष्यति स स्त्रीत्वमापत्स्यत इति भगवता भवान्याभ्यर्थितेन भवेन शप्तः सन्सरसः पीत्वातोयं सुद्युम्नो मृगयाविहारी स्त्रीमयोऽभूदिति। जन्तुर्नाम सोमकस्य राज्ञः पुत्रः, जन्तवः प्राणिनश्च। सोमकस्य राज्ञो जन्तुर्नामैकः पुत्रोऽभूत्। स चैकपुत्रत्वादपुत्रत्वं वरमिति जानन्नुद्विग्नः पुरोधसाभ्यधायि—‘बहून्पुत्रांश्चेदिच्छसि तदास्य सुतस्य वपया होमः क्रियताम्। ततो यावत्यो धूममाजिघ्रन्ति ताः पुत्रैर्युज्यन्ते’ इति। स चापि घृणामपहाय तथा कारितवानिति। मार्गणं याच्ञा, शराश्च मार्गणाः। मार्गणेषु व्यसनं युद्धं व्यसनम्। रसातलमगमदधस्ताज्जगाम। विनष्ट इत्यर्थः। रसातलं पातालं च। मांधाता च भुवं जित्वा स्वर्गं जेतुं गतः। शक्रेणोक्तम्—‘पातालं जित्वागतस्य तव दास्यं यास्यामि’। स च तद्वचनादविचार्यैव रसातलं गतस्तत्र हरप्रसादासादितत्रिशूलेन लवणनाम्ना दावनेन ससुतसैन्योऽन्तमनीयत इति। मेकलकन्यका नर्मदा। पुरुकुत्सः पुरा तपश्चरन्नर्मदायां स्नानं कुर्वन्कामप्यङ्गनामालोक्य कामाविष्टो नीतिमुत्ससर्जेति। भुजङ्गाः सर्पाः, विटा अपि। अश्वतरकन्यां वडवामपि। कुवलयाश्वो राजा मृगयाक्रीडाप्रसङ्गेन धर्मातुरो मज्जनरभसेन सरसीमवतीर्णो रसातलं प्राप्तोऽश्वतराभिधां नागकन्यामूढवानिति। प्रथम आद्यः, प्रधानश्च। कुत्सितः पुरुषः पुरुषकः। पृथुरादिनृपो भूधराक्रान्तां सर्वां गां विलोक्य
सौदासेन नरक्षिता पर्याकुलीकृता क्षितिः। नलमवशाक्षहृदयं कलिरभिभूतवान्। संवरणो मित्रदुहितरि विक्लवतामगात्। दशरथ इष्टरामोन्मादेन मृत्युमवाप। कार्तवीर्यो गोब्राह्मणातिपीडनेन निधनमयासीत्। मरुत्त इष्टबहुसुवर्णकोऽपि देवद्विजबहुमतो न
____________________________________________________
चापकोट्या भुवः पर्यन्तेषु चिक्षेप। धरणकारणभूतभूभृत्परिभवाद्भवो विभवः। अत एवास्य कापुरुषत्वम्। विष्णुपुराणे तु—आकृष्टकार्मुकेन पृथुना ‘देहि मे भर्तब्यभरणोपायम्’ इत्यनुबध्यमाना भूर्भुवनानि बभ्राम। ततः शरणमलब्ध्वा सास्य सर्वाः सस्यसंपदोऽजनयदिति वर्णितम्। एतस्मात्परिभूताभूदिति। कृकलासः प्राणिमेदः। तद्भावेऽपि तस्यां दशायामपि किं पुना राज्यस्येति निन्द्यत्वम्। वर्णः शुक्लादिः, ब्राह्मणादिश्च। नृगो राजा दानप्रस्तावे कस्यचिद्विप्रस्य संबन्धिनीं गामविज्ञायैवान्यस्मै द्विजाय ददौ। कदाचिच्च तस्या गोः स्वामी तां गां परिज्ञाय तं ययाचे। न च तस्माद्गां लेभे। ततस्तौ द्वावपि राजद्वारं राजविज्ञापनाय गतौ। ग्राम्यभोगासक्तराजदर्शनमलभमानौ च क्रोधात् ‘कृकलासो भव’ पुनः इति राज्ञः शापं दत्त्वा कस्मैचिद्गां वितीर्य यथागतं प्रतिजग्मतुरिति। नरान्क्षिणोतीति नरक्षिता, न पालिता च। सौदासो नाम राजा मृगयाखिन्नः पथिगच्छन्कदाचिन्मुनिं शक्रनामानं मार्गमध्ये स्थितम् ‘अपसर्प’ इत्यवदत्। ‘पन्थादेयो ब्राह्मणाय’ इति वचनान्न्यायमनुवर्तमानो यावन्न चलितस्तावद्राज्ञा कशयाभिहतः। अथ रोषावेशात् ‘गच्छ मनुष्यभक्ष्यो राक्षसो भव’ इति तं शशाप। वशमायत्तमक्षहृदयमक्षज्ञानम्, अक्षाणीन्द्रियाणि हृदयं च। तच्च नलो राजा द्यूतव्यसनी तत्स्वरूपानभिज्ञश्च कलिनाभिभूत इति प्रसिद्धम्। मित्रो रविः, सुहृच्च मित्रम्। तपती नाम मित्रस्य रवेर्दुहिताभूत्। तस्यां संवरणो नाम राजा व्यसनी ल बभूव। रामो दशरथसुतः, रामा स्त्री च। दशरथो मृगयासक्तो घटपूरणरवंश्रुत्वा बृंहितशङ्कया शब्दपातिना शरेण मुनिपुत्रं व्यापादयत्। तेन च बोधितान्वयः पित्रोः समीपं तं निनाय। तद्वचनाच्छल्यमुद्धरति नृपे शिशुर्मृतः। अथ च सदारेण वृद्धतापसेन ‘पुत्रादहमिव त्वमपि प्राप्स्यस्यन्तम्’ इति शप्तो रामवियोगात्प्राणांस्तत्याजेति। गोनिमित्तं ब्राह्मणस्य जमदग्नेरतिपीडनम्। निधनमयासीत्। जामदग्न्येन हत इत्यर्थः। कार्तवीर्यो गवां कोटेरप्यधिकतरां धेनुमपहरञ्जमदग्निं व्यापादितवान्। अथ च तत्सुतेन रामेण क्रोधात्परशुच्छिन्नबाहुसहस्रोऽसौ सर्वक्षत्रियैः सह मृत्युं लेभे। इष्टः कृतः, अभिमतश्च। देवद्विजो बृहस्पतिः, अन्यत्र देवाश्च द्विजाश्चेति द्वन्द्वः। मरुत्तो नाम राजा बहुसुवर्णकाख्येन क्रतुनापि यक्ष्यमाणो देवपुरोधसम् ‘मां याजय’ इति याचमानस्तेन ‘मनुष्योऽयमेव दृष्टः’ इति। स चोपहसति धिषणे नारदेनोक्तो यथा—‘गच्छ। अस्यैव भ्राता संवर्तको नाम ग्रहगृहीतच्छद्मना वाराणस्यां स्थितः। तं प्रार्थयस्व’ इत्युक्त्वा च नारदोऽग्निं विवेश। स च नारदोक्तचिह्नैस्तं भगवत्प्रमाणं कृत्वा निर्यान्तं
बभूव। शंतनुरतिव्यसनादेकाकी वियुक्तो वाहिन्या विपिने विललाप। पाण्डुर्वनमध्यगतो मत्स्य इव मदनरसाविष्टः प्राणान्मुमोच। युधिष्ठिरो गुरुभयविषण्णहृदयः समरशिरसि सत्यमुत्सृष्टवान्। इत्थं नास्ति राजत्वमपकलङ्कमृते देवदेवादमुतः सर्वद्वीपभुजो हर्षात्। अस्य हि बहून्याश्चर्याणि श्रूयन्ते। तथा हि—अत्र बलजिता निश्चलीकृताश्चलन्तः कृतपक्षाः क्षितिभृतः। अत्र प्रजापतिना शेषभोगिमण्डलस्योपरि क्षमा कृता। अत्र पुरुषोत्त-
____________________________________________
परिज्ञाय बहुशो गालीर्ददतमप्यनुद्विजमानो याजनाय प्रार्थयामास। संवर्तकेन कथितं च—‘नेदं तवोक्तं यावत्तं वक्ष्यामि। देवेभ्यश्च श्रुत्वा यज्ञभागो न दातव्यः’ इति। राजा यथोक्तमनुतिष्ठंस्तेन याजितो देवद्विजस्य नाभिमतोऽभवदिति। अतिव्यसनादत्यन्तसङ्गात्। वाहिनी नदी, सेना च। महाभिषः पुरा ब्रह्मसदसि गङ्गायाश्चामरग्राहिण्याश्चलितवाससोऽङ्गदर्शनहृतहृदयः शृङ्गारपदानि वदन्ब्रह्मणा शप्तः पतित्वा क्षत्रियगृहे शन्तनुर्नामाभूत्। गङ्गादि ‘मत्कृतेऽयमिमां दशां प्राप्तः’ इति मत्वा सखेदमवतरन्ती धेनुहरणकुपितवसिष्ठशापसंपन्नमनुष्यलोकावतरणदुःखितैर्वसुभिर्विदितवृत्तान्तैरभ्यधायि—‘तत्र नृपे चेत्तव प्रीतिः, तद्वयं त्वय्येवोत्पत्स्यामहे। जातमात्राश्च वयं त्वया स्वजले क्षेप्तव्याः’ इति। सा तु तथेत्यङ्गीकृत्य वने विहरन्तं प्रार्थयमानं शन्तनुमवोचत्। ‘यदहं करोमि तत्र त्वया निर्बन्धो न विधेयः। न चाहं त्वया जन्म प्रष्टव्या’ इति। तथेति तेनाङ्गीकृतवता बहुतरं कालमरंस्त। अथ यः कश्चित्सूनुरुदपादि सर्वस्तया स्वजलेक्षिप्तः। एवं सप्तस्वतीतेषु गङ्गामासेव्य निःसंतानोऽयं मा भूदिति मन्वानैः सप्तभिरेव वसुभिः कृतात्मसंनिधिर्भीष्मो जातः। ततस्तमपि जले क्षिपन्ती शन्तनुना निषिद्धा। तेन ‘सापराधो भवान्’ इत्युक्त्वा सा प्रतिजगाम। ततस्तद्वियोगविधुरधीर्बहु विललापेति व्यसननिमित्तकः सेनया वियोगेन च विलापो विजिगीषोरनुचित एव। वनं तोयम्, विपिनं च। मदनः कामः फलविशेषश्च मदनम्। पाण्डुर्वने मृगरूपया ब्राह्मण्या सह सुरतकर्मसक्तं मृगरूपं कर्दमाख्यं मुनिं शरेण जघान। तेन च म्रियमाणेन ‘स्त्रीसंभोगस्थो मरिष्यसि’ इति शप्तो माद्र्यासह स्मरार्तः क्रीडन्विपन्न इति। गुरोर्द्रोणाचार्यस्य भयेन, गुरुणा महता च त्रासेन युधिष्ठिरो बलानि दग्धुमुद्यतं द्रोणाचार्यं रणमूध्निं’अश्वत्थामा हतः’ इत्युक्त्वा पुत्रशोकाकुलमसत्येनासूनत्याजयदिति। इत्थमिति। इत्थं कृतयुगादारभ्य कलिप्रारम्भपर्यन्तं राज्ञां नास्त्यपकलङ्कं राजत्वमिति। बलजित्प्रजापतिमुखाः शब्दा राज्ञि यथार्था वेदितव्याः। बलं सैन्यम्, बलाख्यश्चासुरः। निश्चलीकृता इति सहायाभावाच्छत्रुषु यानं न विदधिर इति। अन्यत्र स्थावरत्वं लम्भिताः। पक्षाः सहायाः, पतत्राणि च। क्षितिभृतो राजानः, गिरयश्च। प्रजापतिना राज्ञा,
मेन सिन्धुराजं प्रमथ्य लक्ष्मीरात्मीकृता। अत्र बलिना मोचितभूभृद्वेष्टनो मुक्तो महानागः। अत्र देवेनाभिषिक्तः कुमारः। अत्र स्वामिनैकप्रहारपातितारातिना प्रख्यापिता शक्तिः। अत्र नरसिंहेन स्वहस्तविशसितारातिना प्रकटीकृतो विक्रमः। अत्र परमेश्वरेण तुषारशैलभुवो दुर्गाया गृहीतः करः। अत्र लोकनाथेन दिशां मुखेषु परिकल्पिता लोकपालाः सकलभुवनकोशश्चाग्र्यजन्मनां विभक्तः, इत्येवमादयः प्रथमकृतयुगस्येव दृश्यन्ते महासमारम्भाः। अतोऽस्य सुगृहीतनाम्नः पुण्यराशेः पूर्वपुरुषवंशानुक्रमेणादितः प्रभृति चरितमिच्छामः श्रोतुम्। सुमहान्कालो नः शुश्रूषमाणानाम्। अयस्कान्तमणय इव लोहानि नीरसनिष्ठुराणि क्षुल्लकानामप्याकर्षन्ति मनांसि महतां गुणाः, किमुत स्वभावसरसमृदूनीतरेषाम्। कस्य न द्वितीयमहाभारते भवेदस्य चरिते कुतूहलम्। आचष्टां भवान्। भवतु भार्गवोऽयं वंशः
_________________________________________________________
ब्रह्मणा च। शेषस्यावशिष्टस्य भोगिमण्डलस्य राजसमूहस्योपरि विषये क्षान्तिः कृता। अन्यत्र शेषाख्यस्य भोगिनो नागस्य मण्डनमाभोगस्तत्पृष्ठे भूमिर्निहिता। पुरुषोत्तमो नरोत्कृष्टो राजा, हरिश्च। सिन्धुराजो सिन्धुदेशाधिपतिः, क्षीरोदधिश्च। लक्ष्मीश्छत्रचामरादिरूपा, देवताकृतिश्च। बलिना बलवता, असुरेश्वरेण च भूभृद्राजा श्रीकुमाराख्यः। श्रीकुमारो नाम राजा किल दर्पशातेनापजातमदेन हस्तिना वेष्टितः। ततः श्रीहर्षेणाकृष्य खङ्गंतस्मान्मोचितोऽसौ दन्ती च रोषाद्वने परित्यक्त इति वार्ता। भूभृच्च पर्वतो मन्दराख्यः। महानागो दर्पशातः, वासुकिश्च। मोचितभूभृद्वेष्टनोऽमृतमन्थनार्थे। मन्थनार्थे कुमारः कुमारगुप्ताख्यः कुमारो वा यो दर्पशातान्मोचितः। कुमारो गुहः, पुत्रश्च कुमारः। स्वामी प्रभुः, कुमारश्च। अरातयः शत्रवः, तारकश्चासुराधिपतिः। शक्तिः सामर्थ्यम्, आयुधमेदश्च। नरसिंहः उत्तमनरः, नृसिंहरूपो हरिश्च। सहस्तेनेति। न तु साधनबलेन। अन्यत्र तु चक्रादिनिजायुधेन परमेश्वरेण सार्वभौमेन। न तु मण्डलमात्रस्य भोक्त्राहरेण। दुर्गाया दुर्गमायाः, गौर्याश्च। करो दण्डः, पाणिश्च। ‘लोकनाथो राजा, हरिः, बुद्धश्च। दिशां मुखेषु सीमासु। लोविन्द व लोकपालाः) सीमापतयः, इन्द्राद्या दिक्पालाश्च। कोशो धनसंचयः मध् न ग्रन्थमेदश्च। अग्र्यजन्मानो द्विजाः, आदिनृपाः, श्रमणाश्च। एवमादय इति। न त्वेतावन्त एव। प्रथमकृतयुगस्येवेति। पर्वतपक्षशातनादयो वृत्तान्ता अभवन्। मणय इवेति। मणिशब्देनोपमेयानां गुणानां रत्नत्वमुक्तम्। लोहान्यपि नीरसनिष्ठु-
शुचिनानेन राजर्षिचरितश्रवणेन सुतरां शुचितरः’ इत्येवमभिधाय तूष्णीमभूत्।
बाणस्तु विहस्याब्रवीत्—‘आर्य, न युक्तयनुरूपमभिहितम्। अघटमानमनोरथमिव भवतां कुतूहलमवकल्पयामि। शक्याशक्यपरिसंख्यानशून्याः प्रायेण स्वार्थतृषः। परगुणानुरागिणी प्रियजनकथाश्रवणरसरभसमोहिता च मन्ये महतामपि मतिरपहरति प्रविवेकम्। पश्यत्वार्यः क्व परमाणुपरिमाणं बटुहृदयम्, क्व समस्तब्रह्मस्तम्भव्यापि देवस्य चरितम्। क्व परिमितवर्णवृत्तयः कतिपये शब्दाः, क्व संख्यातिगास्तद्गुणाः। सर्वज्ञस्याप्ययमविषयः, वाचस्पतेरप्यगोचरः, सरस्वत्या अप्यतिभारः, किमुतास्मद्विधस्य। कः खलु पुरुषायुषशतेनापि शक्नुयादविकलमस्य चरितं वर्णयितुम्। एकदेशे तु यदि कुतूहलं वः, सज्जा वयम्। इयमधिगतकतिपयाक्षरलवलघीयसी जिह्वा क्वोपयोगं गमिष्यति। भवन्तः श्रोतारः। वर्ण्यते हर्षचरितम्। किमन्यत्। अद्य तु परिणतप्रायो दिवसः। पश्चाल्लम्बमानकपिलकिरणजटाभारभास्वरो भगवान्भार्गवो राम इव समन्तपञ्चकरुधिरमहाह्रदे निमज्जति संध्यारागपटले पूषा। श्वो निवेदयितास्मि’ इति। सर्वे च ते ‘तथा’ इति प्रत्यपद्यन्त। नातिचिरादुत्थाय संध्यामुपासितुं शोणमयासीत्।
अथ मधुमदपल्लवितमालवीकपोलकोमलातपे मुकुलितेऽह्नि, कमलिनीमीलनादिव लोहिततमे तमोलिहि रवौ लम्बमाने, रविरथ-
___________________________________________
राणि। क्षुल्लकाः खलाः। बाला इत्यन्ये। आचष्टामाख्यातु। भार्गव इति मृगुगोत्रत्वम्।
-
अवकल्पयामि निश्चिनोमि। शक्तमिदमित्येवंरूपेण परिसंख्यानेन गणनया स्वार्थतृषो गृध्नवः शून्याः। शक्याशक्यविवेकं गृध्नवो न जानन्तीत्यर्थः। बटुद्विजशिशुः। ब्रह्मस्तम्भं जगत्। पुरुषायुषेत्यादिना योग्येऽपि मयि वर्णयितरि वर्णनीयस्य भूयस्त्वम्, अल्पीयस्त्वाच्चायुषः सामस्त्येन वर्णनं न घटत इति प्रतिपादितम्। अत एवाह—एकदेश इति। संज्ञा (सज्जा) वर्णनाभिमुखा इति भवन्त इति। तं तु यादृशतादृशाः। हर्षचरितमिति। न तु यदेव किंचित्। समन्तपञ्चकं कुरुक्षेत्रम्। तथेत्येवमस्त्विति प्रत्यपद्यन्ताङ्गीकृतवन्तः।*
-
अथेत्यादावस्मिन्नस्मिन्सति बाणस्वयैव गोष्ठ्यातस्थाविति संबन्धः। कपोलकोमलो गण्डसदृशः। मुकुलिते प्राप्तसंकोचे। कुटीरं जरद्गृहम्। पटलं छाद-*
तुरगमार्गानुसारेण यममहिष इव धावति नभसि तमसि, क्रमेण च गृहतापसकुटीरकपटलावलम्बिषु रक्तातपच्छेदैः सह संहृतेषु वल्कलेषु, कलिकल्मषमुषि पुष्णति गगनमग्निहोत्रधामधूमे, सनियमे यजमानजने मौनव्रतिनि, विहारवेलाविलोले पर्यटति पत्नीजने, विकीर्यमाणहरितश्यामाकशालिपूलिकासु दुग्धासु होमकपिलासु, हूयमाने वैतानतनूनपाति, पूतविष्टरोपविष्टे कृष्णाजिनजटिले जटिनि जपति बटुजने, ब्रह्मासनाध्यासिनि ध्यायति योगिगणे, तालध्वनिधावमानानन्तान्तेवासिनि अलसवृद्धश्रोत्रियानुमतेन गलद्ग्रन्थदण्डकोद्गारिणि संध्यां समवधारयति वठरविटबटुसमाजे, समुन्मज्जति च ज्योतिषि तारकाख्ये खे, प्राप्ते प्रदोषारम्भे भवनमागत्योपविष्टः स्निग्धैर्बन्धुभिश्च सार्धं तयैव गोष्ठ्यातस्थौ। नीतप्रथमयामश्च गणपतेर्भवने परिकल्पितं शयनीयमसेवत। इतरेषां तु सर्वेषां निमीलितदृशामप्यनुपजातनिद्राणां कमलवनानामिव सूर्योदयं प्रतिपालयतां कुतूहलेन कथमपि सा क्षपा क्षयमगच्छत्।
अथ यामिन्यास्तुर्ये यामे प्रतिबुद्धः स एव बन्दी श्लोकद्वयमगायत्—
‘पश्चादङ्घ्रिप्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चै–
रासज्याभुग्नकण्ठो मुखमुरसि सटा धूलिधूम्रा विधूय।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुन्दस्तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां सुरेण॥५॥
कुर्वन्नाभुग्नपृष्ठो मुखनिकटकटिः कंधरामातिरश्चीं
__________________________________________________
नम्। विहारो वह्निसंधुक्षणमग्निहोत्रार्थम्। पूलिको वरण्डः परिमाणमेदः। तनूनपाद्वह्निः। विष्टरमासनम्। तालध्वनिरङ्गुलिजः शब्दः। अन्तेवासिनः शिष्याः। श्रोत्रियो वेदोपाध्यायः। तदनुमतेन संध्यां स संधारयति। वदनव्यग्रत्वाद्गलतो विस्मरतो ग्रन्थदण्डका ऋग्गणा उद्गिरति यस्तस्मिन्। वठरा मूर्खाः। विटा भुजङ्गप्रायाः। बटवो बालाश्च। गृहश्रोत्रियैर्बालाः संध्यावन्दनाय प्रवर्त्यन्ते निर्विवेकत्वात्।
- तुर्यश्चतुर्थः। त्रिकं पृष्ठकटीसंधिः। द्राघयित्वा दीर्घतरीकृत्वा। आभुग्नो नमितः कण्ठो यस्य तत्। मुखमुरस्यासज्यं कृत्वा। धूम्रा धूसराः। प्रतानस्योपरि प्रोथः प्रतानमुत्तरोष्टमध्यम्। ‘वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्’।*
लोलेनाहन्यमानं तुहिनकणमुचा चञ्चता केसरेण।
निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुक्तिस्तुरङ्ग–
स्त्वङ्गत्पक्ष्माग्रलग्नप्रतनुबुसकणं कोणमक्ष्णः खुरेण॥६॥
बाणस्तु तच्छ्रुत्वा समुत्सृज्य निद्रामुत्थाय प्रक्षाल्य वदनमुपास्य भगवतीं संध्यामुदिते मगवति सवितरि गृहीतताम्बूलस्तत्रैवातिष्ठत्। अत्रान्तरे सर्वेऽस्य ज्ञातयः समाजग्मुः, परिवार्य चासांचक्रुः। असावपि पूर्वोद्धातेन विदिताभिप्रायस्तेषां पुरो हर्षचरितं कथयितुमारेभे—
श्रूयताम्—अस्ति पुण्यकृतामधिवासो वासवावास इव वसुधामवतीर्णः सततमसंकीर्णवर्णव्यवहारस्थितिः कृतयुगव्यवस्थः, स्थलकमलबहलतया पोत्रोन्मूल्यमानमृणालैरुद्गीतमेदिनीसारगुणैरिव कृतमधुकरकोलाहलैर्हलैरुलिख्यमानक्षेत्रः, क्षीरोदपयःपायिपयोदसिक्ताभिरिव पुण्ड्रेक्षुवाटसंततिभिर्निरन्तरः, प्रतिदिशमपूर्वपर्वतकैरिव खलधानधामभिर्विभज्यमानैः सस्यकूटैः संकटसीमान्तः, समन्तादुद्धातघटीसिच्यमानैर्जीरकजूटैर्जटिलितभूमिः, उर्वरावरयोभिः शालीयैरलंकृतः, पाकविशरारुराजमाषनिकरकिर्मीरितैश्च स्फुटितमुद्गफलकोशीकपिशितैर्गोधूमधामभिः स्थलीपृष्ठैरधिष्ठितः, महिषपृष्ठप्रतिष्ठितगायद्गोपालपालितैश्च कीटपटललम्पटचटकानुसृतैरवटुघटितघण्टाघटीरटितरमणीयैरटद्भिरटवीं हरबृषभपीतमामयाशङ्कया बहुविभक्तं क्षोरोदमिव क्षीरं क्षरद्भिर्बाष्प-
_____________________________________________________
तुहिनमवश्यायः। केसराणि ललाटतटस्थाः केशाः, अश्वकृकाटिकालम्भनः केशपाशो वा। कषायमापिङ्गलम्। त्वङ्गदुच्चम्। कोणं प्रान्तम्। उद्धातः कथाप्रस्तावः।
- अस्तीत्यादौ श्रीकण्ठनामा जनपदोऽस्तीति संबन्धः। पुण्यकृतो देवा अपि। अधिवासो वसतिः। वासवावासः स्वर्गः। पोत्रं हलमुखम्। सारा उत्कृष्टाः अतिमाधुर्यात्क्षीरोदेत्याद्युत्प्रेक्षा। निरन्तरो निर्विवरः। तदैव कल्पितत्वादपूर्वत्वम्। खलधानधामभिः खलपालैः। उद्धातोऽरघट्टः। जीरकोऽजाजी। जूटः समूहः। उर्वरा सर्वसस्याढ्या भूः। वरीयोभिरुरुतरैः। शालीयैः शालिक्षेत्रैः। युगपत्पाकसंभवाद्विशरारुत्वम्। किर्मीरैः शबलैः। कोशी शिम्बिका। गोधनत्य क्षतपृष्ठत्वात्कीटसंभवः। अवटुर्ग्रीवा। घण्टैव घटी। आमयोऽजीर्णम्। हरवृषभेण पीतं संतमजीर्णसंभावनया बहुधा विभक्तम्। बाष्पच्छेद्येति सौकुमार्यकथनपरम्।*
च्छेद्यतृणतृप्तैर्गोधनैर्धवलितविपिनः, विविधमखहोमद्भगो यौवन्युमुक्तैर्लोचनैरिव सहस्रसंख्यैः कृष्णशारैः शारीकृतोद्देश..शोभिलधूलीमुचां केतकीवनानां रजोभिः पाण्डुरीकृतैः प्रथमोद्धूलन..सरैः शिवपुरस्येव प्रवेशैः प्रदेशैरुपशोभितः, शाककन्दलश्यामलितग्रामोपकण्ठकाश्यपीपृष्ठः, पदे पदे करभपालीभिः पीलुपल्लवप्रस्फोटितैः करपुटपीडितमातुलुङ्गीदलरसोपलिप्तैः स्वेच्छाविचितकुङ्कुमकेसरकृतपुष्पप्रकरैः प्रत्यग्रफलरसपानसुखसुप्तपथिकैर्वनदेवतादीयमानामृतरसप्रपागृहैरिव द्राक्षामण्डपैः स्फुरत्फलानां च बीजलग्नशुकचञ्चुरागाणामिव समारूढकपिकुलकपोलसंदिह्यमानकुसुमानां दाडिमीनां वनैर्विलोभनीयोपनिर्गमः, वनपालपीयमाननारिकेलरसासवैश्च पथिकलोकलुप्यमानपिण्डखर्जूरैर्गोलाङ्गूललिह्यमानमधुरामोदपिण्डीरसैश्चकोरचञ्चुजर्जरितारुकैरुपवनैरभिरामः, तुङ्गार्जुनपालीपरिवृतैश्च गोकुलावतारकलुषितकूलकीलालैरध्वगशतशरण्यैररण्यधराबन्धैरवन्ध्यवनरन्ध्रः, करभीयकुमारकपाल्यमानैरौष्ट्रकैरौरभ्रकैश्च कृतसंबाधः, दिशि दिशि रविरथतुरगविलोभनायैव विलोठनमृदितकुङ्कुमस्थलीरससमालब्धानामुत्प्रोथपुटैरुन्मुखैरुदरशायिकिशोरकजवजननाय प्रभञ्जनमिव चापिबन्तीनां वातहरिणीनामिव स्वच्छन्दचारिणीनां वडवानां वृन्दैर्विचरद्भिराचितः, अनवरतऋतुधूमान्धकारप्रवृत्तैर्हंसयूथैरिव बाणैर्धवलितभुवनः, संगीतगतमुरजरवमत्तैर्मयूरैरिव विभवैर्मुखरितजीवलोकः, शशिकरावदातवृत्तैर्मुक्ताफलैरिव गुणिभिः प्रसाधितः, पथिकशतविलुप्यमानस्फीतफलैर्महातरुभिरिव सर्वातिथिभिरभि-
________________________________________________________
विपिनं गहनम्। मुक्तैः पतितैः। लोचनान्यपि कृष्णशाराणि सहस्रसंख्यानि च। कृष्णशारा मृगभेदाश्च। प्रमथा गणाः। प्रवेशैर्मार्गैः। काश्यपी भूः। करभपालीभिः। इत्थंभूतलक्षणे तृतीया। करभो बालोष्ट्रः। पीलुर्वृक्षमेदः। प्रस्फोटितैर्नीराजनीकृतैः। प्रपा पानीयशालिका। उपनिर्गमनानि निर्गमनमार्गाः। उद्यानानीति केचित्। अर्जुनाः ककुभवृक्षाः। कीलालं तोयम्। धराबन्धास्तटाकानि। करमेभ्यो हिताः करभीयाः। औष्ट्रकैरुष्ट्रसमूहैः। कृतसंबाध आवृतः। किशोरका वत्साः। प्रभञ्जनं वातम्। वडवा अश्वाः। धूमान्धकारप्रवृत्तैर्बाणैर्वर्धितभुवन इति विरोधच्छाया। हंसानामप्यन्धकारप्रवृत्तत्वं तमसि प्रचारात्ः। प्रवृत्तैराविर्भूतैः। हंसपक्षे—पलायितैः। वृत्तं चरितम्, परिवर्तुलं च। गुणिभिः शौर्यादिगुणयुक्तैः,
गमनीयः, मृगमदपरिमलवाहिमृगरोमाच्छादितैर्हिमवत्पादैरिव महत्तरैः स्थिरीकृतः, प्रोद्दण्डसहस्रपत्रोपविष्टद्विजोत्तमैर्नारायणनाभिमण्डलैरिव, तोयाशयैर्मण्डितः, मथितपयःप्रवाहप्रक्षालितक्षितिभिः क्षीरोदमथनारम्भैरिव महाघोषैः पूरिताशः श्रीकण्ठो नाम जनपदः।
यत्र त्रेताग्निधूमाश्रुपातजक्षालिता इवाक्षीयन्त कुदृष्टयः। पच्यमानचयनेष्टकादहनदग्धानीव नादृश्यन्त दुरितानि। छिद्यमानयूपदारुपरशुपाटित इव व्यदीर्यताधर्मः। मखशिखिधूमजलधरधाराधौत इव ननाश वर्णसंकरः। दीयमानानेकगोसहस्रशृङ्गखण्ड्यमान इवापलायत कलिः। सुरालयशिलाघट्टनटङ्कनिकरनिकृत्ता इव व्यदीर्यन्त विपदः। महादानविधानकलकलाभिद्रुता इव प्राद्रवन्नुपद्रवाः। दीप्यमानसत्रमहानससहस्रसंतापिता इव व्यलीयन्त व्याधयः। वृषविवाहप्रहतपुण्यपटहपटुरवत्रासिता इव नोपासर्पन्नपमृत्यवः। संततब्रह्मघोषबधिरीकृता इवापजग्मुरीतयः। धर्माधिकारपरिभूतमिव न प्राभवद्दुर्दैवम्।
________________________________________________________
ससूत्रैश्च। फलमैश्वर्यमपि। अभिगमनीयः सेव्यः। मृगमदः कस्तूरिका। मृगरोमशब्देन तत्कृतवस्त्रमुच्यते। यस्य राङ्कवमिति संज्ञा। यथा च—‘राङ्कवं मृगरोमजम्’। अन्यत्र मृगाणां रोमाणि। पादाः प्रत्यन्तपर्वताः। महत्तरैर्वृद्धैः विपुलैश्च। सहस्रपत्राणि पद्मानि। द्विजोत्तमाः पक्षिश्रेष्ठाः, ब्राह्मणाश्च द्विजोत्तमाः। मथितं तक्रम्, विलोडितं च। पयः क्षीरम्। उभयत्रापि मथनमन्था क्षीरोदस्य। घोषो गोष्ठः, शब्दश्च। आशा आशंसा, दिशश्च।
- ‘दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः। अग्नित्रमयमिदं त्रेता’ इत्यमरसिंहः। अनेकार्थवर्गेऽपि—‘त्रेताग्नित्रितये युगे’। त्रेताग्निरूपोऽग्निरित्यग्निप्रकर्षार्थं त्रेतापदम्। अन्यथा तादृशस्याग्नेर्ग्रहणं प्रसज्येत। कुत्सानि लोकायतादीनां वेदविरुद्धानि दर्शनादीनि कुत्सिताश्च दृष्टयः कुदृष्टयः। यत्र त्रेताग्नयो हूयन्ते तत्र क्षालिता आविर्भावाद्दृष्टिर्निर्मला भवति। चयनं चित्याविशिष्टाग्निस्थानम्। घनधाराधौतो ह्यवश्यं संकीर्णवर्णो नीलादिर्नश्यति। वर्णाश्च विप्राद्याः। टङ्कः पाषाणदारणः। सन्त्रंसदादानम्। महानसं पाकस्थानम्। वृषविवाहो नीलवृषोत्सर्गः। यत्र चतसृभिर्गोभिः सह दान्तोऽरण्ये स्वैरविहाराय परित्यज्यते। ब्रह्मघोषो वेदध्वनिः। ‘अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः। अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः॥’ इति।*
तत्र चैवंविधे नानारामाभिरामकुसुमगन्धपरिमलसुभगो यौवनारम्भ इव भुवनस्य, कुङ्कुममलनपिञ्जरितबहुमहिषीसहस्रशोभितोऽन्तःपुरनिवेश इव धर्मस्य, मरुदुद्धूयमानचमरीबालव्यजनधवलितप्रान्त एकदेश इव सुरराज्यस्य, ज्वलन्मखशिखिसहस्रदीप्यमानदशदिगन्तः शिबिरसंनिवेश इव कृतयुगस्य; पद्मासनस्थितब्रह्मर्षिध्यानाधीयमानसकलाकुशलप्रशमः प्रथमोऽवतार इव ब्रह्मलोकस्य, कलकलमुखरमहावाहिनीशतसंकुलो विपक्ष इवोत्तरकुरूणाम्, ईश्वरमार्गणसंतापानभिज्ञसकलजनो विजिगीषुरिव त्रिपुरस्य, सुधारससिक्तधवलगृहपङ्क्तिपाण्डुरः प्रतिनिधिरिव चन्द्रलोकस्य, मधुमत्तमत्तकाशिनीभूषणरवभरितभुवनो नामाभिहार इव कुबेरनगरस्य, स्थाण्वीश्वराख्यो जनपदविशेषः।
यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिभूमिरित्यर्थिभिः, वीरक्षेत्रमिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः , गन्धर्वनगरमिति गायनैः, विश्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति वैदेहकैः, द्यूतस्थानमिति बन्दिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगोष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असुरविवरमिति वातिकैः, शाक्या-
____________________________________________________
-
तत्र चेत्यादौ स्थाण्वीश्वराख्यो जनपदविशेष इति संबन्धः। आरामा उपवनानि, रामाश्च भार्याः। गन्धस्य परिमलस्याभोगोऽनुभवः, संस्कारः। मलनं निवर्तनम्, समालम्भनं च। महिषी मुख्या जायापि। मरुतो वाताः, देवाश्च। शिबिरसंनिवेशः कटकबन्धः। कृतं प्रतिसमाहितं युगं द्वयं स्वपक्षपरपक्षरूपं येन स राजोच्यते। कृतयुगं वाद्यो युगभेदः। पद्मासनमासनमेदः, पद्ममेवासनं च। ब्रह्मर्षय उत्तमद्विजाः। ब्रह्मा चासावृषिश्च। यद्वा पद्मासनस्थितो ब्रह्मा च ऋषयश्चेति द्वन्द्वः। वाहिन्यो नद्यः, सेना च। विपक्षो बलम्। मेरुसमीपवासिनो जना उत्तरकुरवः। ईश्वरमार्गणो राजदण्डसाधनयाच्ञा, हरशरश्चेश्वरमार्गणः। संतापानभिज्ञेति। ईश्वरशरेण हि सस्त्रीकं त्रिपुरं दग्धम्। योधजनास्ते हियुद्धे देवैर्हता इत्याहुः। जेतात्र विजिगीषुः। ‘सुधा मक्कोलामृतयोः’। मत्तकाशिनी मुख्या स्त्री, यक्षिणी च। नामाभिहारः पर्यायान्तरम्।*
-
लासकैंर्नटैः। वैदेहकैर्वणिग्भिः। द्यूतस्थानमिति साधुभागो दीयते तत्र। वन्दिभ्योऽभिवाञ्छितसंपत्तेः सुकृतपरिणामता। वातिकैर्विवरव्यसंनिभिराचार्यैः। शाक्यो बौद्धः। चारणैः कुशीलवैः। वसुधारा धनप्रवाहः।*
श्रम इति शमिभिः, अप्सरःपुरमिति कामिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रैरगृह्यत।
यत्र च मातङ्गगामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्यामाः पद्मरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदिश्वसनाश्च, चन्द्रकान्तवपुषः शिरीषकोमलाङ्ग्यश्च, अभुजङ्गगम्याः कञ्चुकिन्यश्च, पृथुकलत्रश्रियो दरिद्रमध्यकलिताश्च, लावण्यवत्यो मधुरभाषिण्यश्च, अप्रमत्ताः प्रसन्नोज्ज्वलरागाश्च, अकौतुकाः प्रौढाश्च प्रमदाः।
यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारः कुवलयदलदामानि। अलकप्रतिबिम्बान्येव कपोलतलगतान्यक्लिष्टाः श्रवणावतंसाः पुनरुक्तानि तमालकिसलयानि। प्रियकथा एव सुभगाः कर्णालंकारा आडम्बरः कुण्डलादिः। कपोला एव सततमालोककारका विभवो निशासु मणिप्रदीपाः। निःश्वासाकृष्टमधुकरकुलान्येव रमणीयं मुखावरणं कुलस्त्रीजनाचारो जालिका वाण्येव मधुरा वीणा बाह्यविज्ञानं तन्त्रीताडनम्। हासा एवाति-
____________________________________________________________
-
मातङ्गेत्यादयो विरोधाः। मातङ्गो हस्ती, चण्डालश्च। याः प्रमदाश्चण्डालानपि गच्छन्ति ताः कथं शीलवत्य इति विरोधः सर्वत्र ज्ञेयः। गौर्यो गौराङ्गयः। विभव ऐश्वर्ये रक्ताः। यत्र विगतो भवस्तत्र कथं गौरी रतेति। विगतं भवे रतं यस्या वा। श्यामाः श्यामलाङ्ग्यः। पद्मरागिण्यो लोहितमणिभूषणाः। श्यामा रात्रयः कथं पद्मरागिण्यः। रात्रौ पद्मानां संकोचात्। द्विजैर्दन्तैः। शुचिवदना मदिरावन्मदिरया वा। आमोदी श्वसनो मुखमारुतो यासां धवलद्विजवच्छुद्धब्राह्मणवच्छुचि वदनं ताः कथं मदिरामोदिश्वसनाः। चन्द्रवत्कान्तं वपुर्यासाम्। शिरीषपुष्पवत्सुकुमाराङ्ग्यश्चन्द्रकान्तस्येव वपुर्यासां ताः कथं शिरीषकोमलाङ्ग्यः। भुजङ्गा विटाः, कञ्चुकं स्त्रीणां वासः, वारबाणाख्यश्च। याश्च कञ्चुकिन्यः सर्पिण्यस्ताः कथं भुजङ्गैर्न गम्याः। कलत्रं जघनम्। दरिद्रं क्षामं मध्यमुदरं यासाम्। कलत्रस्य परिवारस्य पृथ्वीः श्रीस्ताः। कथं दरिद्राणां निर्धनानां मध्ये कलिताः संख्याता भवन्ति। लावण्यं सौन्दर्यम्। मधुरं हृद्यम्। लावण्यरसवतीनां मधुरभाषितं विभाव्यते। अप्रमत्ताः प्रमादशून्याः। प्रसन्नो मनोहरः। उज्ज्वलो मनोहारी। प्रसन्ना च सुरा तयोज्ज्वलो मुखरागो यासां ताः। कथमप्रमत्ता अक्षीबा अकौतुका अकरकङ्कणाः। विवाहितानां हि करकङ्कणोऽवबध्यते। ‘रुद्राक्षदर्पसिद्वार्थशिखिपक्षोरगत्वचः। कङ्कणौषधयश्चेति कौतुकाख्याः प्रकीर्तिताः॥’*
-
मुण्डमालारूपं मण्डनं मुण्डमालामण्डनम्। सहजमकृत्रिमम्। अनेककुवलयदलदामाभ्यासोत्कर्षः, न तु कुवलयदलदामसंभवेऽपि प्रतिनिधिरूपतापादनम्।*
शयसुरभयः पटवासा निरर्थकाः कर्पूरपांसवः। अधरकान्तिविसर एवोज्ज्वलतरोऽङ्गरागो निर्गुणो लावण्यकलङ्कः कुङ्कुमपङ्कः। बाहव एव कोमलतमाः परिहासप्रहारवेत्रलता निष्प्रयोजनानि मृणालानि। यौवनोष्मस्वेदबिन्दव एव विदग्धाः कुचालंकृतयो हारास्तु भाराः। श्रोण्य एव विशालस्फाटिकशिलातलचतुरस्रा रागिणां विश्रमकारणमनिमित्तं भवनमणिवेदिकाः। कमललोभनिलीनान्यलिकुलान्येव मुखराणि पदाभरणकानि निष्फलानीन्द्रनीलनूपुराणि। नूपुररवाहूता भवनकलहंसा एव समुचिताः संचरणसहाया ऐश्वर्यप्रपञ्चाः परिजनाः।
तत्र च साक्षात्सहस्राक्ष इव सर्ववर्णधरं धनुर्दधानः, मेरुमय इव कल्याणप्रकृतित्वे, मन्दरमय इव लक्ष्मीसमाकर्षणे, जलनिधिमय इव मर्यादायाम्, आकाशमय इव शब्दप्रादुर्भावे, शशिमय इव कलासंग्रहे, वेदमय इवाकृत्रिमालापत्वे, धरणिमय इव लोकधृतिकरणे, पवनमय इव सर्वपार्थिवरजोविकारहरणे, गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुयात्रस्तेजसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, निषधो व-
___________________________________________________________
भार इत्यनेनैष एवार्थः प्रकटितः। एवमक्लिष्टा इत्यादौ बोद्धव्यम्। आडम्बरः स्फुटः। जालिका शिरोवस्त्रभेदः। चतुरस्रा रम्याः। विश्रमकारणमिति गुरुत्वात्।
- तत्र चेत्यादौ तत्र पुष्पभूतिर्नाम राजासीदिति संबन्धः। वर्णा विप्राद्याः, शुक्लाद्याश्च। कल्याणं श्रेयः, सुवर्णं च। मन्दरेण श्रीराकृष्टामृतमन्थने, पुष्पभूतिना भैरवाचार्यवेतालसाधने। मर्यादाचारः, सीमा च। शब्दो यशोऽपि। प्रादुर्भावः प्रकाशता। कला गीताद्याः, लेखाश्च। अकृत्रिमः सत्ययुक्तः, अपौरुषेयश्च। धृतिर्धैर्यम्, धारणं च। पार्थिवो राजा, पृथिवीसंबन्धी च। रजोविकारा रागाद्याः रेणुकार्याणि। गुर्वित्यादिना वक्रोक्त्याङ्गानां गुर्वादिमयत्वं सूचयति। गुरुरुपदेष्टा, गुरुर्महान्। गभीरशब्दत्वाद्बृहस्पतिश्च। पृथुर्विपुलः, आदिराजश्च कश्चित्। विशालो विस्तीर्णः, विशालाद्याश्च नृपा अभवन्। अथ विशालो नाम बोधिसत्त्वः स एव शान्तः शान्तमना इत्यपि प्रतीतिरस्ति। जनको जनयिता, जनक इव तपस्वीच। सुयात्र इति। शोभना यात्रा यस्य सोऽपि। कर्तव्यावधारणं मन्त्रः स शोभनो यस्येति च। बुधः पण्डितः, ग्रहश्च। अर्जुनः शुक्रोऽपि। भीष्मो भयानकः, गाङ्गेयश्च। निषधो धर्षणीयः, कठिनो वा, नलस्य*
पुषि, शत्रुघ्नःसमरे, शूरः शूरसेनाक्रमणे, दक्षः प्रजाकर्मणि, सर्वादिराजतेजःपुञ्जनिर्मित इव राजा पुष्पभूतिरिति नाम्ना बभूव।
पृथुना गौरियं कृतेति यः स्पर्धमान इव महीं महिषीं चकार। निसर्गस्वैरिणी स्वरुच्यनुरोधिनी च भवति हि महतां मतिः। यतस्तस्य केनचिदनुपदिष्टा सहजैव शैशवादारभ्यान्यदेवताविमुखी भगवति, भक्तिसुलभे, भुवनभृति, भूतभावने, भवच्छिदि, भवे भूयसी भक्तिरभूत्। अकृतवृषभध्वजपूजाविधिर्न स्वप्नेऽप्याहारमकरोत्। अजम्, अजरम्, अमरगुरुम्, असुरपुररिपुम्, अपरिमितगणपतिम्, अचलदुहितृपतिम्, अखिलभुवनकृतचरणनतिम्, पशुपतिं प्रपन्नोऽन्यदेवताशून्यममन्यत त्रैलोक्यम्। भर्तृचित्तानुवर्तिन्यश्चानुजीविनां प्रकृतयः। तथा हि। गृहे गृहे भगवानपूज्यत खण्डपरशुः। ववुरस्य होमालवालविलीयमानबहलगुग्गुलुगन्धगर्भाः स्नपनक्षीरशीकरक्षोदक्षारिणो बिल्वपल्लवदामदलोद्वाहिनः पुण्यविषयेषु वायवः। शिवसपर्यासमुचितैरुपायनैः प्राभृतैश्च पौराः पादोपजीविनः सचिवा भुजबलनिर्जिताश्च करदीकृता महासामन्तास्तं सिषेविरे। तथा हि। कैलासकूटधवलैः कनकपत्रलतालंकृतविषाणकोटिभिर्महाप्रमाणैः संध्याबलिवृषैः सौवर्णैश्च स्नपनकलशैरर्घभाजनैश्च धूपपात्रैश्च पुष्पपट्टैश्च मणियष्टिप्रदीपैश्च ब्रह्मसूत्रैश्च महार्हमाणिक्यखण्डखचितैश्च मुखकोषैः परितोषमस्य मनसि चक्रुः। अन्तःपुराण्यपि स्वयमारब्धबालेयतण्डुलकण्डनानि देवगृहोपलेपनलोहिततरकरकिसलयानि कुसुमग्रथनव्यग्रसमस्तपरिजनानि तस्याभिलषितमन्ववर्तन्त। तथा च। परममाहेश्वरः स भूपालो लोकतः
___________________________________________________________
च पिता, गिरिभेदो वा। शूरो विक्रान्तः, यदूनां राजा च। दक्षश्चतुरः, प्रजापतिश्च।
- महिषीं महादेवीमपि। निसर्गः स्वभावः। स्वैरिणी स्ववशा। खण्डपरशुः शिवः। ववुरवहन्। होमालवालमग्निकुण्डम्। सपर्या पूजा। उपायनं ढौकनिका स्वयमानीयते। प्राभृतं कौशलिका सखिभिः प्रहीयते। करदीकृता दण्डदाः कृताः। कूटं शृङ्गम्। यत्र वस्त्रेषु पुष्पाणि सूत्रैः क्रियन्ते स पुष्पपट्टः। ज्बलन्मणिशिखरा स्वर्णयष्टिर्यष्टिप्रदीपा। ब्रह्मसूत्रैर्यज्ञोपवीतैः। मुखयुक्ताः कोषा मुखकोषाः। ये लिङ्गोपरि दीयन्ते। बलये हिता बालेयाः। ‘छदिरुपधिबलेर्ढञ्’। ग्रथनशब्दश्चिन्त्यः। ग्रन्थनमिति भाव्यम्। अभिलषितमन्ववर्तन्तेत्यनेन चित्तानुवृत्तिःI*
शुश्राव भुवि भगवन्तमपरमिव साक्षाद्दक्षमखमथनं दाक्षिणात्यं बहुविधविद्याप्रभावप्रख्यातैर्गुणैः शिष्यैरिवानेकसहस्रसंख्यैर्व्याप्तमर्त्यलोकं भैरवाचार्यनामानं महाशैवम्। उपनयन्ति हि हृदयमदृष्टमपि जनं शीलसंवादाः। यतः स राजा श्रवणसमकालमेव तस्मिन्भैरवाचार्ये भगवति द्वितीय इव कपर्दिनि दूरगतेऽपि गरीयसीं बबन्ध भक्तिम्। आचकाङ्क्ष च मनोरथैरप्यस्य सर्वथा दर्शनम्।
अथ कदाचित्पर्यस्तेऽस्ताचलचुम्बिनि वासरेऽन्तःपुरवर्तिनं राजानमुपसृत्य प्रतीहारी विज्ञापितवती—‘देव, द्वारि परिव्राडास्ते कथयति च भैरवाचार्यवचनाद्देवमनुप्राप्तोऽस्मि’ इति। राजा तु त्तच्छ्रुत्वा सादरम्—‘क्वासौ। आनयात्रैव। प्रवेशयैनम्’ इति चाब्रवीत्। तथा चाकरोत्प्रतीहारी। नचिराच्च प्रविशन्तं प्रांशुम्, आजानुभुजम्, भैक्षक्षाममपि स्थूलास्थिभिरवयवैः पीवरमिवोपलक्ष्यमाणम्, पृथूत्तमाङ्गम्, उत्तुङ्गबलिमङ्गस्थपुटललाटम्, निर्मांसगण्डकूपकम्, मधुबिन्दुपिङ्गलपरिमण्डलाक्षम्, ईषदावक्रघोणम्, अतिप्रलम्बैककर्णपाशम्, अलाबुवीजविकटोन्नतदन्तपङ्क्तिम्, तुरगानूकश्लथाधरलेखम्, लम्बचिबुकायततरलपनम्, अंसावलम्बिना काषायेण योगपट्टकेन विरचितवैकक्षकम्, हृदयमध्यनिबद्धग्रन्थिना च रागेणेव खण्डशः कृतेन धातुरसारुणेन कर्पटेन कृतोत्तरासङ्गम्। पुनरुक्तबालप्रग्रहवेष्टननिश्चलमूलेन बद्धमृत्परिशोधनवंशत्वक्तितउना कौपीनसनाथशिखरेण खर्जूरपुटसमुद्गकगर्भीकृतभिक्षाकपालकेन दारवफलकत्रयत्रिकोणत्रियष्टिनिविष्टकमण्डलुना बहिरुपपा-
______________________________________________________
शुद्धान्तानां वर्णिता। भुवीति। भूस्थत्वेऽप्यसुलभत्वदर्शनमस्योक्तम्। शीलसंवादाश्चारित्रसादृश्यानि। कपर्दिनि शिवे।
- नचिराच्चेत्यादौ मस्करिणमद्राक्षीदिति संबन्धः। प्रांशुं दीर्घम्। जानूरुपर्व। उक्तं च—‘जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्’। पीवरं स्थूलम्। स्थपुटं निम्नोन्नतम्। ललाटमलिकं गोधिः। गण्डकूपोऽक्ष्णोरधोदेशः। घोणा नासिका। अलाबुस्तुम्बी। उक्तं च—‘तुम्ब्यलाबू उभे समे’। तुरगानामधस्तादोष्ठोऽनूकः। ‘अधोऽधरस्य चिबुकम्’। लपनं मुखम्। उत्तरासङ्गमुपरिप्रावरणम्। पुनरुक्तं पौनःपुन्येन कृतम्। प्रग्रहो रज्जुः। तितउश्चालनी परिपवनशब्दवाच्या। कौपीनं गुह्यदेश उपचारात्, तदाच्छादनं च खर्जूराख्यस्य वृक्षस्य च संबन्धिभिः पुटैः क्लिष्टैः, पत्रैश्च समुद्गकः कपालभङ्गः भिक्षायै क्रियते। दारवे*
दितपादुकावस्थानेन स्थूलदशासूत्रनियन्त्रितपुस्तिकापूलिकेन वामकरधृतेन योगभारकेणाध्यासितस्कन्धम्, इतरकरगृहीतवेत्रासनं मस्करिणमद्राक्षीत्। क्षितिपतिरप्युपंगतमुचितेन चैनमादरेणान्वग्रहीत्। आसीनं च पप्रच्छ—‘क्व मैरवाचार्यः’ इति। सादरनरपतिवचनमुदितमनास्तु परिव्राट् तमुपनगरं सरस्वतीतटवनावलम्बिनि शून्यायतने स्थितमाचचक्षे। भूयश्चाबभाषे—‘अर्चयति हि महाभागं भगवानाशीर्वचसा’ इत्युक्त्वा चोपनिन्ये योगभारकादाकृष्य भैरवाचार्यप्रहितानि रत्नवन्ति बहलालोकलिप्तान्तःपुराणि पञ्च राजतानि पुण्डरीकाणि।
नरपतिस्तु प्रियजनप्रणयभङ्गकातरो दाक्षिण्यमनुरुध्यमानो ग्रहणलाघवं च लङ्घयितुमसमर्थों दोलायमानेन मनसा स्थित्वा चिरं कथं कथमप्यतिसौजन्यनिघ्नस्तानि जग्राह। जगाद च—‘सर्वफलप्रसवहेतुः शिवभक्तिरियं नो मनोरथदुर्लभानि फलति फलानि। येनैवमस्मासु प्रीयते भगवान्भुवनगुरुर्भैरवाचार्यः। श्वो द्रष्टास्मि भगवन्तम्’ इत्युक्त्वा च मस्करिणं व्यसर्जयत्। अनया च वार्तया परां मुदमवाप।
अपरेद्युश्च प्रातरेवोत्थाय वाजिनमधिरुह्य समुच्छ्रितश्वेतातपत्रः समुद्धूयमानधवलचामरयुगलः कतिपयैरेव राजपुत्रैः परिवृतो भैरवाचार्यं सवितारमिव शशी द्रष्टुं प्रतस्थे। गत्वा च किंचिदन्तरं तदीयमेवाभिमुखमापतन्तमन्यतमं शिष्यमद्राक्षीत्। अप्राक्षीच्च—‘क्व भगवानास्ते’ इति। सोऽकथयत्—‘अस्य जीर्णमातृगृहस्योत्तरेण बिल्ववाटिकामध्यास्ते’ इति। गत्वा च तं प्रदेशमवततार। प्रविवेश च बिल्ववाटिकाम्।
अथ महतः कार्पटिकवृन्दस्य मध्ये प्रातरेव स्नातम्, दत्ताष्ट-
____________________________________________
काष्ठसंबन्धिनि फलकत्रये त्रयः कोणास्तेषु यास्तिस्रो यष्टयस्तासु निविष्टः कमण्डलुर्यत्र तेन। योगभारकेण मात्राभारिकया। मस्करिणं परिव्राजम्। राजतानि रौप्याणि।
-
लङ्घयितुमुत्सोढुम्। निघ्नः स्ववशः।*
-
अन्यतममपरम्। उत्तरेणोत्तरस्यां दिशि।*
-
अथेत्यादौ भैरवाचार्यं ददर्शेति संबन्धः। कार्पटिका व्रतिनः। अष्टपुष्पिका*
पुष्पिकम्, अनुष्ठिताग्निकार्यम् कृतभस्मरेखापरिहारपरिकरे हरितगोमयोपलिप्तक्षितितलवितते व्याघ्रचर्मण्युपविष्टम्, कृष्णकम्बलप्रावरणनिभेनासुरविवरप्रवेशाशङ्कया पातालान्धकारावासमिवाभ्यस्यन्तम्, उन्मिषता विद्युत्कपिलेनात्मतेजसा महामांसविक्रयक्रीतेन मनःशिलापङ्केनेव शिष्यलोकं लिम्पन्तम्, जटीकृतैकदेशलम्बमानरुद्राक्षशङ्खगुटिकेनोर्ध्वबद्धेन शिखापाशेन बध्नन्तमिव विद्यावलेपदुर्विदग्धानुपरिसंचरतः सिद्धान्धवलकतिपयशिरोरुहेण वयसा पञ्चपञ्चाशतं वर्षाण्यतिक्रामन्तम्, खालित्यक्षीयमाणशङ्खलोमलेखम्, लोमशकर्णशष्कुलीप्रदेशम्, पृथुललाटतटम्, तिरश्चया भस्मललाटिकया बहुशः शिरोर्धधृतदग्धगुग्गुलुसंतापस्फुटितकपालास्थिपाण्डुरराजिशङ्कामिव जनयन्तम्, सहजललाटवलिभङ्गसंकोचितकूर्चभागां बभ्रूभासं भ्रूसंगत्या निरन्तरामायामिनीमेकामिव भ्रूलेखां बिभ्राणम्, ईषत्काचकाचरकनीनिकेन रक्तापाङ्गनिर्गतांशुप्रतानेन मध्यधवलभासेन्द्रायुधेनेवातिदीर्घेण लोचनयुगलेन परितो महामण्डलमिवानेकवर्णरागमालिखन्तम्, सितपीतलोहितपताकावलिशबलम्, शिवबलिमिव दिक्षु विक्षिपन्तम्, तार्क्ष्यतुण्डकोटिकुब्जाग्रघोणम्, दूरविदीर्णसृक्कसंक्षिप्त कपोलम्, किंचिद्दन्तुरतया सदाहृदयसंनिहितहरमौलिचन्द्रातपेनेव निर्गच्छता दन्तालोकेन धवलयन्तं दिशां जालकम्, जिह्वाग्रस्थितसर्वशैवसंहितातिभारेणेव मनाक्प्रलम्बितोष्ठम्, प्रलम्बश्रवणपालीप्रेङ्खिताभ्यां स्फटिककुण्डलाभ्यां शुक्रबृहस्पतिभ्यामिव सुरासुरविजयविद्यासिद्धिश्रद्धयानुबध्यमानम्, बद्धविविधौषधिमन्त्रसूत्रपङ्क्तिना सलोहवलयेनैकप्रकोष्ठेन शङ्खखण्डं पूष्णो दन्तमिव भगवंता भवेन भग्नं भक्त्या भूष-
__________________________________________________________
प्रागुक्ता परिहारोऽत्र मर्यादा। शङ्खे ललाटास्थ्नि। उक्तं च—‘शङ्खो निधौ ललाटास्थ्नि’। गुटिका खण्डिका। उपरीत्याद्यभिप्रायेणोक्तम्—ऊर्ध्ववद(बद्धे)नेति। प्रशस्ता शिखा शिखापाशः। अवलेपोऽहंकृतिः। खालित्यं खल्वाटता। शङ्खो ललाटास्थि। शष्कुली कुहरम्। ‘कूर्चमस्त्री भ्रुवोर्मध्यम्’। काचरा पीतवर्णा। तुण्डं मुखम्। कोटिः प्रान्तः, चञ्चवग्रम्। ‘प्रान्तावोष्टस्य सृक्किणी’ ‘प्रकोष्ठमन्तरं विद्यादरत्निमणिबन्धयोः’। पूष्णो रविभेदस्य। पुरा दक्षयज्ञगतस्य हरं निन्दतः ‘मय्यनागते किमर्थमागतोऽसि’ इति मुष्टिप्रहारेण हरेण दन्ता भग्नाः!
णीकृतं कलयन्तम्, अखिलरसकूपोदञ्चनघटीयन्त्रमालामिव रुद्राक्षमालां दक्षिणेन पाणिना भ्रमयन्तम्, उरसि दोलायमानेनापिङ्गलाग्रेण कूर्चकलापेन संमार्जयन्तमिवान्तर्गतं निजरजोनिकरम्, अतिनिबिडनीललोममण्डलविचितं च ध्यानलब्धेन ज्योतिषा दग्धमिव हृदयदेशं दधानम्, ईषत्प्रशिथिलवलिवलयबध्यमानतुन्दम्, उपचीयमानस्फिङ्मांसपिण्डकम्, पाण्डुरपवित्रक्षौमावृतकौपीनम्, सावष्टम्भपर्यङ्कबन्धमण्डलितेनामृतफेनश्वेतरूचा योगपट्टकेन वासुकिनेवाप्रतिहतानेकमन्त्रप्रभावाविर्भूतेन प्रदक्षिणीक्रियमाणम्, अरुणतामरससुकुमारतलस्य पादयुगलस्य निर्मलैर्नखमयूखजालकैर्जर्जरयन्तमिव महानिधानोद्धरणरसेन रसातलम्, तोयक्षालितशुचिना धौतपादुकायुगलेन हंसमिथुनेनेव भागीरथीतीर्थयात्रापरिचयागतेनामुच्यमानचरणान्तिकम्, शिखरनिखातकुब्जकालायसकण्टकेन वैणवेन विशाखिकादण्डेन सर्वविद्यासिद्धिविघ्नविनायकापनयनाङ्कुशेनेव सततपार्श्ववर्तिना विराजमानम्, अबहुभाषिणं मन्दहासिनं सर्वोपकारिणं कुमारब्रह्मचारिणम्, अतितपस्विनम्, महामनस्विनं कृशक्रोधम्, अकृशानुरोधम्, महानगरमिवादीनप्रकृतिशोभितम्, मेरुमिव कल्पतरुपल्लवराशिसुकुमारच्छायम्, कैलासमिव पशुपतिचरणरजःपवित्रितशिरसम्, शिवलोकमिव माहेश्वरगणानुयातम्, जलनिधिमिवानेकनदनदीसहस्रप्रक्षालितशरीरम्, जाह्नवीप्रवाहमिव बहुपुण्यतीर्थस्थानशुचिम्, धाम धर्मस्य, तीर्थं तथ्यस्य, कोशं कुशलस्य, पत्तनं पूततायाः, शाला शीलस्य, क्षेत्रं क्षमायाः, शालेयं शा-
_______________________________________________________
तत्करस्पर्शेन पावनत्वात्तत्र भक्तिः। अखिलस्य रसस्य कूपादुदञ्चनाय घटीयन्त्रमालापि भ्राम्यते। दोलायमानत्वेन संमार्जनसंभावना। कलापग्रहणं मार्जनीसादृश्यार्थम्। रजो रागः, रेणुश्च। विचितं व्याप्तम्। तुन्दमुदरम्। स्फिजावुभयत्र प्रसिद्धे। ‘स्त्रियां स्फिजौ कटिप्रोथौ’ इत्यमरः। फेनवत्तैश्च श्वेता। वासुकिनेवेति। न सामान्येनेति प्रभावपरिशोधकम्। जर्जरयन्तं खण्डशः कुर्वाणम्। तोयेत्यादि। हंसमिथुनस्यापि विशेषणम्। शिखरेत्यादिनाङ्कुशसादृश्यं विशाखिकादण्डस्योक्तम्। निखात उत्कीर्णः। कालायसं शस्त्रभेदः। विशाखिका खनित्रिका विघ्नोऽन्तरायः विनायको गजाननः। प्रकृतिः स्वभावः मायादिका च। राशिवत्तेन च सुकुमाराः। गणाः समूहाः, प्रमथाश्च। नदनदीत्येकशेषो युक्तः। सहस्रेषु तैः प्रक्षालितशि (शरी)राः। तीर्थेषु यत्स्थानं
लीनतायाः, स्थानं स्थितेः, आधारं धृतेः, आकरं करुणायाः, निकेतनं कौतुकस्य, आरामं रामणीयकस्य, प्रासादं प्रसादस्य, अगारं गौरवस्य, समाजं सौजन्यस्य, संभवं सद्भावस्य, कालं कलेः, भगवन्तं साक्षादिव विरूपाक्षं भैरवाचार्यं ददर्श।
भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वाशशिनमिव जलनिधिश्चचाल। प्रथमतरोत्थितशिष्यलोकश्चोत्थाय प्रत्युज्जगाम समर्पितश्रीफलोपायनश्च जह्नुकर्णसमुद्गीर्यमाणगङ्गाप्रवाहह्रादगम्भीरया गिरा स्वस्तिशब्दमकरोत्।
नरपतिरपि प्रीतिविस्तार्यमाणधवलिम्ना चक्षुषा प्रत्यर्पयन्निव बहुतराणि पुण्डरीकवनानि ललाटपट्टपर्यस्तेन चोदंशुना शिखामणिना महेश्वरप्रसादमिव तृतीयनयनोद्गमेन प्रकाशयन्नावर्जितकर्णपल्लवपलायमानमधुकरः शिवसेवासमुन्मूलिताशेषपापलवमुच्यमान इव दूरावनतः प्रणाममभिनवं चकार। आचार्योऽपि—‘आगच्छ। अत्रोपविश’ इति शार्दूलचर्मात्मीयमदर्शयत्। उपदर्शितप्रश्रयस्तु राजा मत्तहंसकलगद्गदस्वरसुभगां मधुरसमयीं महानदीमिव प्रवर्तयन्वाचं व्याजहार—‘भगवन्, नार्हसि मामन्यनृपस्खलितैः खलीकर्तुम्। अशेषराजकोपेक्षिताया हतलक्ष्म्याः खल्वयं शीलापराधो द्रविणदौरात्म्यं वा यदेवमाचरति मयि गुरुः। अभूमिरयमुपचाराणाम्। अलमतियन्त्रणया। दूरस्थितोऽपि मनोरथशिष्योऽयं जनो भवताम्। माननीयं च गुरुवन्नोल्लङ्घनमर्हति गुरोरासनम्। आसतां च भवन्त एवात्र’ इति व्याहृत्य परिजनोपनीते वाससि निषसाद। भैरवाचार्योऽपि प्रीत्यानतिक्रमणीयं नृपवचनमनुवर्तमानः पूर्ववत्तदेव व्याघ्राजिनमभजत।
आसीने च सराजके परिजने शिष्यजने च समुचितमर्ध्या-
_______________________________________________________
वसनं तेन शुचिम्। तीर्थस्नानैः कनखलाद्यवस्थितिभिश्च शुचिः। शालीनता विनीतत्वम्। निकेतनं गृहम्। तत्र हि सर्वस्य कौतुकं जायते।
-
शश्यपि राजा, तं च दूरादेव दृष्ट्वाजलनिधिश्चलति। गाम्भीर्याच्च जलनिधिरेवेत्युक्तम्। बिल्वं श्रीफलम्। गङ्गेत्यादिना पवित्रत्वमाह।*
-
धवलिम्नेत्यनेन पुण्डरीकाणां धवलत्वमाह। प्राभृतपुण्डरीकाणां राजतत्वात्। आवर्जितं स्वरवच्च तेन सुभगाम्। शार्दूलो व्याघ्रः।*
दिकं चक्रे। क्रमेण च नृपमाधुर्यहृतान्तःकरणः शशिकरनिकरविमला दशनदीधितीः स्फुरन्तीः शिवभक्तीरिव साक्षाद्दर्शयन्नुवाच—‘तात, अतिनम्रतैव ते कथयति गुणानां गौरवम्। सकलसंपत्पात्रमसि। विभवानुरूपास्तु प्रतिपत्तयः। जन्मनः प्रभृत्यदत्तदृष्टिरस्मि स्वापतेयेषु। यतः सकलदोषकलापानलेन्धनैर्धनैरविक्रीतं क्वचिच्छरीरकमस्ति। भैक्षरक्षिताः सन्ति प्राणाः। दुर्गृहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि। भगवच्छिवभट्टारकपादसेवया समुपार्जिता कियत्यपि संनिहिता पुण्यकणिका। स्वीक्रियतां यदत्रोपयोगार्हम्। प्रतनुगुणग्राह्याणि कुसुमानीव हि भवन्ति सतां मनांसि। अपि च। विद्वत्संमताः श्रूयमाणा अपि साधवः शब्दा इव सुधीरेऽपि हि मनसि यशांसि कुर्वन्ति। विवरं विशतः कुतूहलस्य फेनधवलैः स्रोतोभिरिवापह्रियमाणो गुणगणैरानीतोऽस्मि कल्याणिना’ इति।
राजा तु तं प्रत्यवादीत्—‘भगवन्, अनुरक्तेष्वपि शरीरादिषु साधूनां स्वामिन एव प्रणयिनः। युष्मद्दर्शनादुपार्जितमेव चापरिमितं कुशलजातम्। अनेनैवागमनेन स्पृहणीयं पदमारोपितोऽस्मि गुरुणा।’ इति विविधाभिश्च कथाभिश्चिरं स्थित्वा गृहमगात्।
अन्यस्मिन्दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ। तस्मै च राजा सान्तःपुरं सपरिजनं सकोषमात्मानं निवेदितवान्। स च विहस्योवाच—‘तात, क्व विभवः, क्व च वयं वनवर्धिताः।
_______________________________________________________
अन्तःकरणं मनः। गौरवमुत्कर्षः, भारवत्त्वं च। अदत्तदृष्टिरिति। न तु मया धनान्यलभ्यानि। स्वापतेयेषु धनेषु। संरक्षिता इति यदि कदाचित्क्वचिदुपयोगं यास्यन्तीति। अनेन प्राणादिदानमेवोचितमित्युक्तम्। सकलसंपत्पात्रस्येयतः कियती वसुसंपत्तिर्भविष्यतीत्याशङ्क्याह—प्रतन्वित्यादि। गुणा उत्कर्षाः, तन्तवश्च। कुसुमानीवेति। कुसुमसादृश्येन मनसः सौकुमार्यमप्युक्तम्। साधवः शिष्टाः, शब्दा इव साधवः। संस्कृता विद्वत्संमताश्च। फेनवत्तैश्च धवलैर्गुणगणैः स्रोतोभिश्च।
*** स्वामिन एव प्रणयिन इति।** अनुक्तान्यपि शरीरादीनि प्रणयिनां स्वायत्तानीत्यर्थः।*
]