04 पञ्चमोछ्वासः

॥ पञ्चम उच्छ्वासः ॥


अथ कदाचित् राजा राज्यवर्धनं कवचहरम् आहूय हूणान् हन्तुम् उत्तरापथं प्राहिणोत् । प्रयान्तं च तं देवो हर्षः कतिचित्प्रयाणकानि तुरंगमैः अनुवव्राज । प्रविष्टे च कैलासप्रभाभासिनीं ककुभं भ्रातरि, तुषारशैलोपकण्ठेषु क्रीडन् मृगयाम् , कतिपयानि अहानि बहिरेव व्यलम्बत ॥

एकदा तु वासतेय्यास्तुरीये यामे, प्रत्युषस्येव स्वप्ने दवहुतभुजा दह्यमानं केसरिणमद्राक्षीत् । तस्मिन्नेव दावदहने समुत्सृज्य शावकान् उत्प्लुत्य चात्मानं पातयन्तीं सिंहीमप्यपश्यत् । प्रबुद्धस्य चास्य मुहुर्मुहुः दक्षिणेतरत् अक्षि पस्पन्दे । अह्नि च तस्मिन्, शून्येनैव चेतसा चिक्रीड मृगयाम् । आरोहति च हरितहये मध्यमह्नः, भवनमागत्य, वेत्रपट्टिकामधिशयानः साशङ्क एव तस्थौ ॥

अथ दूरादेव लेखगर्भया चीरचीरिकया रचितमुण्डमालकम्, वर्त्मनि शून्यहृदयतया स्खलन्तं कुरङ्गकनामानम् आयान्तमद्राक्षीत् । दृष्ट्वा च अभिद्यत हृदयेन । कुरङ्गकस्तु कृतप्रणामः, उपनिन्ये लेखम् । तं च देवो हर्षः स्वयमेवावाचयत् । “कुरङक, किं मान्द्यं तातस्य?” इत्यभ्यधात् । स च “देव, दाहज्वरो महान्” इस्याचचक्षे । तच्चाकर्ण्य सहसा सहस्रधेवास्य हृदयं पफाल । कृताचमनश्च जनयितुरायुष्कामः, आत्मपरिबर्हमशेषं ब्राह्मणसादकरोत् । अभुक्त एवोच्चचाल । वेपमानहृदयश्च, आरुह्य तुरङ्गम् एकाक्येव प्रावर्तत (गन्तुम्) ॥

तूष्णींभूतेन च भूपाललोकेनानुगम्यमानः, बहुयोजनसंपिण्डितमध्वानम् एकैनैवाह्ला समलङ्घयत् । भण्डिप्रमुखेण राजपुत्रलोकेन बहुशो विज्ञाप्यमानोऽपि नाहारमकरोत् । वहन्नेव निन्ये निशाम् ॥

अन्यस्मिन्नहनि मध्यंदिने, विगतजयशब्दम्, अस्तमिततूर्यनादम्, उपसंहृतगीतम्, उत्सारितोत्सवम् , शून्यमिव स्कन्धावारं समाससाद । तुरगादवतीर्णश्च “सुषेण, अस्ति तातस्य विशेषः, न वा” इति वैद्यकुमारमप्राक्षीत् । सोऽब्रवीत्–“नास्ति इदानीम् । यदि भवेत्कुमारं दृष्ट्वा” इति । मन्दं मन्दं प्रणम्यमानश्च द्वारपालैः, दीयमानसर्वस्वम्, पूज्यमानकुलदैवतम्, प्रयतविप्रप्रस्तुतसंहिताजपम्, कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश ॥

तत्र चातिनिःशब्दे संज्ञानिर्दिश्यमानसकलकर्मणि धवलगृहे स्थितम्, ज्वरज्वलनेन अनवरतपरिवर्तनैः शयनीये विचेष्टमानम्, पीतमिव पीडाभिः, जग्धमिव जागरेण, निगीर्णमिव वैवर्ण्येन, विरलं वाचि, क्षीणमायुषि, प्रचुरं प्रलापे, पार्श्वोपविष्टया मुहुर्मुहुः “आर्यपुत्र, स्वपिषि?” इति व्याहरन्त्या देव्या यशोवत्या शिरसि वक्षसि च स्पृश्यमानं पितरमद्राक्षीत् ॥

दृष्ट्वा च अन्तकपुरवर्तिनमेव पितरममन्यत। निराकृत इव अन्तःकरणेन क्षणमासीत् । पस्पर्श च हृदयेन भियम्, उत्तमाङ्गेन च गाम् । अवनिपतिस्तु दूरादेव दृष्ट्वा अतिदयितं तनयम्, तदवस्थोऽपि निर्भरस्नेहावर्जितः प्रसार्य भुजौ “एह्येहि” इत्याह्वयन्, विस्मृतज्वरसंज्वरः, बलादुरसि निवेश्य सुचिरमालिलिङ्ग । क्षयक्षामकण्ठश्च कृच्छ्रादिवावादीत्–“वत्स, कृशोऽसि” इति । भण्डिस्त्वकथयत्–“देव, तृतीयमहः कृताहारस्यास्य अद्य” इति ॥

तच्छ्रुत्वा, आयतं निःश्वस्य, उवाच–“वत्स, जानामि त्वां पितृप्रियम् अतिमृदुहृदयम् । निशितमिव शस्त्रं तक्ष्णोति मां त्वदीयः तनिमा । सुखं च राज्यं च वंशश्च प्राणाश्च त्वयि मे स्थिताः । तदुत्तिष्ठ । कुरु पुनरेव सर्वाः क्रियाः । कृताहारे च त्वयि, अहमपि स्वयमुपयोक्ष्ये पथ्यम्” इति । क्षणमात्रं च स्थित्वा पित्रा पुनराहारार्थमादिश्यमानो धवलगृहादवततार ॥

राजपुरुषेणाधिष्ठितश्च गत्वा स्वधाम, धूममयानिव कृताश्रुपातान् अग्निमयानिव जनितहृदयतापान् कतिचित्कबलान् अगृह्णात् । अस्ताभिलाषिणि च सवितरि, सर्वानाहूय उपह्वरे वैद्यान्, “किमस्मिन्नेवंविधे विधेयमधुना” इति विषण्णहृदयः पप्रच्छ । तेषां तु भिषजां मध्ये, अष्टादशवर्षदेशीयः पारं गतोऽष्टाङ्गस्य आयुर्वेदस्य रसायनो नाम वैद्यकुमारकः “देव, श्वः प्रभाते यथावस्थितम् आवेदयितास्मि” इत्यब्रवीत् ॥ गतेषु च भिषक्षु, क्षतधृतिः क्षपामुखे क्षितिपालसमीपमेव पुनरारुरोह । दूयमानहृदयो दुःखदीर्घा जाग्रदेव निशामनैषीत् ॥

उषसि चावतीर्य, चरणाभ्यामेवाजगाम स्वमन्दिरम् । तत्र च त्वरमाणो भ्रातुरागमनार्थम् उपर्युपरि क्षिप्रपातिनो दीर्घाध्वगान् प्रजविनश्च उष्ट्रपालान् प्राहिणोत् । अग्रतः स्थितानां च राजपुत्रयूनां विमनसाम् “रसायनो रसायनः” इति जल्पितमव्यक्तमश्रौषीत् । पृष्टाश्च ते “देव, पावकं प्रविष्टः” इति दुःखेन कथं कथमप्याचचक्षिरे । तच्च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विवर्णतामगात् । दुःखार्तश्च न जगाम राजसद्म । समुत्ससर्ज च सर्वकार्याणि । शयनीये निपत्य उत्तरीयवाससा सोत्तमाङ्गमात्मानमवगुण्ठ्य अतिष्ठत् । महोत्पातदर्शनदूयमानश्च कथमपि निनाय निशाम् ॥

अन्यस्मिन्नहनि, “क्व कुमारः, क्व कुमारः” इति प्रतिपुरुषं पृच्छन्ती वेलेति नाम्ना यशोवत्याः प्रतीहारी समीपमस्थाजगाम । उपसृत्य च “देव, परित्रायस्व परित्रायस्व । जीवत्येव भर्तरि, किमप्यध्यवसितं देव्याः” इति विज्ञापितवती । ततस्तदाकर्ण्य, च्युत इव सत्त्वेन, द्रुत इव दुःखेन अप्रतिपत्तिरासीत् ॥

उत्थाय च त्वरमाणोऽन्तःपुरमगात् । प्रविशन्नेव, निर्यान्तीम्, दत्तसर्वस्वापतेयाम्, गृहीतमरणप्रसाधनाम्, कुसुम्भबभ्रुणी वाससी दधानाम्, भूपालवल्लभान्कौलेयकानपि सास्रमालोकयन्तीम्, सपत्नीनामपि पादयोः पतन्तीम्, भवनपादपानपि परिष्वजमानां मातरं ददर्श ॥

“अम्ब, त्वमपि मां मन्दपुण्यं त्यजसि? प्रसीद । निवर्तस्व” इति चरण्योर्न्यपतत् । देवी तु तथा तिष्ठति पादनिहितशिरसि विमनसि कनीयसि प्रेयसि तनये, कृतप्रयत्नापि निवारयितुं न शशाक बाष्पोत्पतनम् । दूयमानमानसा च स्मरन्ती प्रसवदिवसादारभ्य सकलं शैशवमस्य, “हा वत्स, विश्रान्तभागधेयया न दृष्टोऽसि” इति प्रेष्ठं ज्येष्ठं तमयमसंनिहितं क्रोशन्ती, “अनाथा जाता” इति श्वशुरकुलवर्तिनीं दुहितरमनुशोचन्ती, मुक्तकण्ठमतिचिरं प्राकृतप्रमदेव प्रारोदीत् ॥

प्रशान्ते च मन्युवेगे, सस्नेहमुत्थापयामास सुतम् । हस्तेन चास्य प्ररुदितस्य क्षरन्तीं दृष्टिमुन्ममार्ज । “वत्स, नासि न प्रियो निर्गुणो वा परित्यागार्हो वा । स्तन्येनैव सह त्वया पीतं मे हृदयम् । कुलकलत्रमस्मि चारित्रधना धर्मधवले कुले जाता । किं विस्मृतोऽसि मां समरशतशौण्डस्य पुरुषप्रकाण्डस्य गृहिणीम् । वीरजा वीरजननी च मादृशी पराक्रमक्रीता कथमन्यथा कुर्यात् । एवंविधेन पित्रा ते गृहीतः पाणिः । मर्तुमविधवैव वाञ्छामि । मरणश्च मे जीवितमेवास्मिन् समये स्राहसम् । तदहमेव त्वां तात, प्रसादयामि । न पुनर्मनोरथप्रातिकूल्येन कदर्थनीयास्मि " इत्युक्त्वा पादयोरपतत् ॥

स तु ससंभ्रममपनीय चरणयुगलम् , अवनमिततनुः, उदनमयन्मातरम् । कुलयोषिदुचितां च तामेव श्रेयसीं मन्यमानः क्रियाम्, तूष्णीमधोमुखोऽभवत् ॥

देव्यपि परिष्वज्य समाघ्राय च शिरसि, निर्गत्य चरणाभ्यामेव अन्तःपुरात् , सरस्वतीतीरं ययौ। तत्र च भगवन्तं चित्रभातुं प्राविशत् । इतरोऽपि मातृमरणविह्वलः पितुः पार्श्व प्रायात् । अपश्यच्च स्वल्पावशेषप्राणवृत्तिं जनयितारम् । आश्लिष्यास्य पादपद्मौ, इतरवद्विमुक्तावश्चिरं रुरोद ॥

राजा तु तम् उपरुध्यमानदृष्टिः अविरतरुदितशब्दाश्रितश्रवणः प्रत्यभिहाय शनैः शनैरवादीत्- “पुत्र, नार्हस्येवं भवितुम् । भवद्विधा नह्यमहासत्त्वाः। सत्त्ववतां चाप्रणीः सर्वातिशयाश्रितः क्व भवान् , क्व बैक्लब्यम् " इत्येवं वदन्नेव अपुनरुन्मीलनाय निमिमील राजसिंहो लोचने ॥

अस्मिन्नेव चान्तरे पूषापि आयुपेव तेजसा व्ययुज्यत । पूर्वस्थां दिशि दृश्यमाने चन्द्रमसि, नरेन्द्रः स्वयं समर्पितस्कन्धैर्गृहीत्वा शवशिबिकां सामन्तैः पौरैश्च पुरोहितपुरःसरैः सरितं सरस्वतीं नीत्वा नरपतिसमुचितायां चितायां हुताशसंस्क्रियया यशःशेपतामनीयत ॥

देवोऽपि हर्षः शोकमूकेन राजकुलसंबद्धेन लोकेन परिवृतः, निर्व्यवधानायां भूमावुपविष्ट एव तां निशीथिनीं जजागार । अस्य कथमपि स क्षयमियाय यामिनी । ततो निर्जगाम राजकुलात्। अगाच्च सरस्वतीतीरम् । तस्यां स्नात्वा पित्रे ददावुदकम् । अपस्नातश्च निरातपसश्चरणाभ्यामेव भवनमाजगाम ॥

देवमपि हर्षं तदवस्थं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति जीवितम् अयश इति आहारं विषमिति मन्यमानं सर्वासु क्रियासु विमुखम्, कुलपुत्राः, गुरवः, जरद्द्विजातयः, अमात्याः ब्रह्मवादिनः, पौराणिकाश्च शोकापनयननिपुणाः पर्यवारयन् ॥

अनुनीयमानश्च तैः, कथं कथमप्याहारादिकासु क्रियासु आभिमुख्यमभजत । भ्रातृगतहृदयश्चाचिन्तयत्–“अपि नाम तातस्य मरणमिदमुपश्रुत्य आर्यो बाष्पजलस्नातो न गृह्णीयात् वल्कले? नाश्रयेद्वा राजर्षिराश्रमपदम्? न विशेद्वा पुरुषसिंहो गिरिगुहम्? इहागतो वा राजभिरभिधीयमानो न पराचीनतामाचरेत्?” इत्येतानि चान्यानि च चिन्तयन्, भ्रातुरागमनमुदीक्षमाणः कथं कथमप्यतिष्ठत् ॥

इति हर्षचरिते महाराजमरणवर्णनं नाम पञ्चम उच्छ्वासः ॥