03 चतुर्थोच्छ्वासः

॥ चतुर्थ उच्छ्वासः ।


अथ तस्मात्पुष्पभूतेः, दुर्जयबलसनाथो हरिवंश इव शूरात् निर्जगाम राजवंशः ॥

यस्मात् अविनष्टधर्मधवलाः प्रतापाक्रान्तभुवना अजायन्त राजानः ॥

तेषु च एवमुत्पद्यमानेषु क्रमेण उदपादि हूणहरिणकेसरी, प्रतापशील इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः ।

तस्य च, पार्वतीव शंकरस्य, लक्ष्मीरिव लोकगुरोः,रोहिणीव कलावतः, हंसमयीव गतिषु, मधुमयीव संभाषणेषु, यशःपुष्टिरिव चारित्रस्य, हृदयतुष्टिरिव धर्मस्य, शमस्यापि शान्तिरिव, विनयस्यापि विनीतिरिव, धैर्यस्यापि धृतिरिव, यशोवती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य धर्मस्य सुखस्य च भूमिरभूत् ॥

निसर्गत एव च स नृपतिः आदित्यभक्तो बभूव । प्रतिदिनम् उदये दिनकृतः स्नातः सितदुकूलधारी प्राङ्मुखः क्षितौ जानुभ्यां स्थित्वा कुङ्कमपङ्कानुलिप्ते मण्डलके रक्तकमलषण्डेन अर्चां ददौ । अजपच्च प्रत्युषसि मध्यंदिने दिनान्ते च अपत्यहेतोः प्रयतेन मनसा मन्त्रम् आदित्यहृदयम् ॥

ततः समतिक्रान्ते कस्मिंश्चित्कालांशे देव्यां यशोवत्यां देवो राज्यवर्धनः प्रथममेव संबभूव गर्भे । गर्भस्थितस्यैव च यस्य यशसेव पाण्डुताम् अधत्त जननी । अदतीर्णे च दशमे मासि असूत देवं राज्यवर्धनम् ॥ अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चित्काले, नभसि देवक्या इव चक्रपाणिः यशोवत्या हृदये गर्भे च सममेव संबभूव हर्षः । ततश्च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुपक्षद्वादश्यां व्यतीते प्रदोषसमये समारुरुक्षति क्षपां यौवने, सहसैव अन्तःपुरे समुदपादि कोलाहलः स्त्रीजनस्य । निर्गत्य च ससंभ्रमं यशोवत्याः स्वयमेव हृदयनिर्विशत्या धात्र्याः सुता सुयात्रा राज्ञः पादयोर्निपत्य “देव, दिष्ट्या वर्धसे द्वितीयसुतजन्मना” इति व्याहरन्ती पूर्णपात्रं जहार ॥

तत्क्षण एव च शुक्लवाससो ब्रह्ममुखाः समुपतस्थिरे द्विजातयः। साक्षाद्धर्म इव शान्त्युदकफलहस्तः तस्थौ पुरः पुरोधाः । प्रावर्तत च विगतराजकुलस्थितिः, समस्वामिपरिजनः, निर्विशेषबालवृद्धः, दुर्ज्ञेयमत्तामत्तप्रविभागः पुत्रजन्मोत्सवो महान् ॥

एवं च वृत्ते तस्मिन्महोत्सवे, शनैः शनैः पुनरपि अतिक्रामति काले, धात्रीकराङ्गुलिलग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं वर्षम् अवतरति च राज्यवर्धने, देवी यशोवती गर्भेण अधत्त राज्यश्रियम् । पूणेषु च प्रसवदिवसेषु गौरीमिव मेनी प्रसूतवती दुहितरम् ॥

अस्मिन्नेव तु काले देव्या यशोवत्या भ्राता, सुतम् अष्टवर्षदेशीयं मकरध्वजमिव पुनर्जातं भण्डिनामानम् अनुसरं कुमारयोः अर्पितवान् ॥

एका च भुक्तवान् अभ्यन्तरगतः पिता, सुतौ आहूय, वत्सौ, प्रथमं राज्याङ्गं दुर्लभाः सद्भृत्याः । अतः परीक्षितौ शुची विनीतौ विक्रान्तौ मालवराजपुत्रौ भ्रातरौ कुमारगुप्तमाधवगुप्तौ भवतोः अनुचरत्वार्थम् अस्माभिः निर्दिष्टौ । अनयोरुपरि भवद्भ्यामपि नाम्यपरिजनसमवृत्तिभ्यां भवितव्यम्” इत्युक्त्वा, तयोराह्वानाय प्रतीहारम् आदिदेश ॥

प्रविश्य च तौ दूरादेव चतुर्भिः अङ्गैः उत्तमाङ्गेन च गां स्पृशन्तौ नमश्चक्रतुः। स्निग्धनरेन्द्रदृष्टिनिर्दिष्टाम् उचितां भूमिं भेजाते । मुहूर्तं च स्थित्वा भूपतिः आदिदेश तौ– “अद्यप्रभृति कुमारौ अनुवर्तनीयौ” इति । ततश्च आरभ्य भुजाविव सततपार्श्ववर्तिनौ कुमारयोः तौ बभूवतुः ॥

अथ राज्यश्रीरपि नृत्यगीतादिषु सकलासु कलासु प्रतिदिनमुपचीयमानपरिचया शनैः शनैरवर्धत । परिमितैरेव दिवसैः यौवनमारुरोह । निपेतुरेकस्यां तस्यां शरा इव लक्ष्यभुवि भूभुजां सर्वेषां दृष्टयः । दूतप्रेषणादिभिश्च तां ययाचिरे राजानः ॥

कदाचित्तु राजा अन्तःपुरप्रासादस्थितः पार्श्वस्थितां महादेवीं जगाद– “देवि, तरुणीभूता वत्सा राज्यश्रीः। एतदीया गुणवत्तेव क्षणमपि हृदयान्नापयाति मे चिन्ता । प्रायेण च सत्स्वप्यन्येषु वरगुणेषु अभिजनमेव अनुरुध्यन्ते धीमन्तः। धरणीधराणां च मूर्ध्नि स्थितो माहेश्वरो मौखरी वंशः । तत्रापि तिलकभूतस्य अवन्तिवर्मणः सूनुः अग्रजो ग्रहवर्मा नाम पितुरन्यूनो गुणैरेनां प्रार्थयते । यदि भवत्या अपि मतिरनुमन्यते, ततस्तस्मै दातुमिच्छामि“ इति ।

“आर्यपुत्र, संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः कन्यकानाम् । दाने तु प्रमाणमासां पितरः” इति महादेवी प्रत्युवाच ॥

राजा तु जातनिश्चयो दुहितृदानं प्रति, समाहूय सुतावपि विेदितार्थौ अकार्षीत् । शोभने च दिवसे ग्रहवर्मणा प्रेषितस्य प्रधान दूतपुरुषस्य करे सर्वसमक्षं दुहितृदानजलम् अपातयत् । जातमुदिकृतार्थे गते च तस्मिन् , आसन्नेषु च विवाहदिवसेषु, रमणीयं च औत्सुक्यदं च मङ्गल्यं च आसीद्राजकुलम् ॥

देवी तु यशोवती विवाहोत्सवपर्याकुलहृदया, हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निमन्त्रितस्त्रीषु, आदेशेन परिजने, एकापि बहुधा विभक्तेवाभवत् ॥

एवं च तस्मिन्नविधवामय इव भवति राजकुले, भूषणमय इव भ्रमति परिजने, लक्ष्मीमय इव विजृम्भमाणे महोत्सवे, आलोक्यमान इव मार्गध्वजैः आहूयमान इव मौहूर्तिकैः आकृष्यमाण इव मनोरथैः, आजगाम विवाहदिवसः। प्रातरेव प्रतीहारैः समुत्सारितनिखिलानिबद्धलोकं विविक्तम् अक्रियत राजकुलम् ॥

अथ प्रतीहारः प्रविश्य नृपसमीपम् ‘‘देव, जामातुरन्तिकात् ताम्बूलदायकः पारिजातकनामा संप्राप्तः” इत्यभिधाय, स्वकारं युवानम् अदर्शयत् । आगतजामातृनिवेदनागतं च तं ज्ञात्वा राजा “यामिन्याः प्रथमे यामे विवाहकालात्ययकृतो यथा न भवति दोषः” इति संदिश्य प्रतीपं प्राहिणोत् ।

अथ समवसिते वासरे, नक्षत्रमालामण्डितमुखीं करिणीमरूढः, दीपिकाचक्रवालस्यालोकेन पिञ्जरीकुर्वन्सकलं जीवलोकम्, नववधूवदनालोकनकुतूहलेनेव कृष्यमाणहृदयः आजगाम प्रत्यासन्नलग्नो गृहवर्मा ॥

नचिराच्च नृपमुपसृत्य मौहूर्तिका “देव, समसीदति लग्नवेला । व्रजतु जामाता कौतुकगृहम्’ इत्यूचुः । अथ नरेन्द्रेण “गच्छ” इति गदितो गृहवर्मा आससाद कौतुकगृहद्वारम् । निषारितपरिज नश्च प्रविवेश । तत्र कतिपयप्रियसखीस्वजनप्रायपरिवाराम्, अरुणांशुकावगुण्ठितमुखीम्, चन्दनधवलतनुलताम्, कुसुमामोदनिर्हारिणीम्, अधोमुखीम्, मुहुर्मुहुः कृतमुखोन्नमनप्रयत्नं च सखीजनं निर्भर्त्सयन्तीं वधूमपश्यत् ॥

परिहासस्मेरमुखीभिश्च नारीभिः कौतुकगृहे यद्यत् कार्यते जामाता, तत्तत् सर्वमतिपेशलं चकार । कृतपरिणयानुरूपवेषपरिग्रहां गृहीत्वा करे वधूं निर्जगाम । जगाम च नवसुधाधवलाम् उपकृशानु निहितानुपहतहरितकुशां वेदीम् । आरुरोह च तां दिवमिव सज्योत्स्नः शशी । हुते च हुतभुजि, दक्षिणावर्तप्रवृत्ताभिः ज्वालाभिरेव सह प्रदक्षिणं बभ्राम । पात्यमाने लाजाञ्जलौ, अदृष्टपूर्ववधूवररूपविस्मयस्मेर इव अदृश्यत विभावसुः ॥

अत्रान्तरे निर्वदनविकारं रुरोद वधूः । उदश्रुविलोचनानां च बान्धववधूनाम् उदपादि महानाक्रन्दः । परिसमापितवैवाहिकक्रियाकलापस्तु जामाता, वध्वा समं प्रणनाम श्वशुरौ । प्रविवेश च मङ्गलप्रदीपैः प्रकाशितम्, सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम्, शयनशिरोभागस्थितेन च निद्राकलशेन राजतेन विराजमानं वासगृहम् ॥

स्थित्वा च अभिनवोपचारैः अपुनरुक्तानि आनन्दमयानि दशदिनानि, कथं कथमपि विसर्जितो नृपेण, वध्वा सह स्वदेशमगमत् ॥

इति हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम चतुर्थ उच्छ्वासः ॥