हरिचरितम् - दशमः सर्गः

[[हरिचरितम् - दशमः सर्गः Source: EB]]

[

हरिचरितम्

**चतुर्भुजेन विरचितम् **

दशमः सर्गः

अथ भृङ्गगुञ्जितकुञ्जमञ्जुलवञ्जुलावलिसङ्कुलं

कुलटामनोज्वरकारि कोकिलकाकलीकलकूजितम् ।

जितदेवबालककामनीयकफुल्लकेशरवासितं

सितकुन्दसुन्दरशारदोत्फलकौमुदीकलितान्तरम् ॥१॥

सर्गोऽयं नानाछन्दोभिर्वृत्तजातिमयैः सन्निबद्धः । षष्ठ्यधिकानि छन्दांस्येव ग्रथितानीत्यहो कविकर्मकौशलम् । आदितश्चतुर्षु पद्येषु गीतिकाच्छन्दः । छन्दोमञ्जरीकृताप्यच्युतचरिते महाकाव्ये रासवर्णनोपोद्घात इदमेव छन्दः प्रयुक्तं पथा तत्रत्ये उदाहरणे । अत्र च ९४तमश्लोक उत्तरार्धे एतदेव च्छन्दः प्रविष्टम् । तत्र टिप्पनी द्रष्टव्या । आदितः श्लोकत्रयेणात्र वाक्यपूर्तिः । जितदेवबालकं सुरकुमारातिशायि यत्कामनीयकं सौष्ठवं, तेन फुल्लमिति विग्रहः । एतेषु यमकयमने तृतीयश्लोके स्वयं वयसीति रजः रजन्यामिति चतुर्थश्लोके मथे मथितेति नताः नतेति स्थिरे स्थिरमिति वैरूप्याणि कवीनामेवंविधप्रयोगदर्शनात्समर्थनीयानि ॥१॥

तरसोर्मिमालिकलिन्दजाजलशीतलीकृतमारुतं

रुतमोहिताखिललोककोकविनादिताखिलदिङ्मुखम् ।

मुखरीभवत्कलहंसवंशसमुल्लसन्मधुरस्वरं

स्वरसातिशोभनविश्वमोहनसारसस्वनसौभगम् ॥२॥

भगवानवेक्ष्य बलं रतिं प्रति मानसं विदधत्स्वयं

वयसि प्रियेऽभिनवे वने नववल्लरीशिरसा रजः ।

रजनौ स चेत्थमरीरमत्तरुणीर्नितान्तमनोहरं

हरणाय गोपनितम्बिनीनिकुरम्बमानसमन्वितम् ॥३॥

अन्वितमित्यनुगतं प्रवणमिति यावत। गोपनितम्बिनीनिकरस्य हरणाय विनोदाय । मानसमन्वितं नितान्तमनोहरमिति द्वे क्रियाविशेषणे । हरणायेति निकुरम्बान्तपदेन सापेक्षत्वेऽपि गमकत्वात्समासविधाने कुशकाशकल्पं समर्थम् ॥३॥

विततेऽतिमोहनवंशनिस्वन उत्थिते हृदि मन्मथे

मथिताखिलेन्द्रियवृत्तयोऽसमबाणबाणगणानताः ।

न तदा प्रियात्मजवारिता निजमन्दिरेष्ववतस्थिरे

स्थिरमानसा मधुसूदनाननदर्शनाय ययू रयात॥४॥

गणोल्लताः मा पाठः । असमबाणः कामः । आनता नम्रा वशीभूता इति यावत॥४॥

इह कापि गोपतरुणी तु

कलितकलवंशनिस्वना ।

द्वारि गुरुषु निरसत्सु बहिर्गति

रोधनादकृत कृष्णभावनाम् ॥५॥

तु इति तस्या इतरव्यावृत्तिवृत्तिः । एवं विष्णुपुराणादावाख्याने ॥५॥

प्रियतद्वियोगबहुताप

विहतनिखिलाघसञ्चया ।

ध्यानबलजहरिशन्दमुखात्

सुकृतक्षये सति विमुक्तिमभ्ययात॥६॥

शं मङ्गलं ददातीति शन्दं मङ्गलाकरं मुखं, तस्मात्तद्दर्शनादित्याशयः ॥६॥

अभिसारिणीस्तु हरिराह

किमिह निशि यूयमागताः ।

क्रूरनिकरभवनं हि वनं

गृहमाशु यात पतिसेवनोद्यताः ॥७॥

तदमूरमूमुहदसह्य

वचनरचनेन केशवः ।

श्वासततिहतिनमद्वदनाश्

चरणैर्महीं लिलिखुरत्युदश्रवः ॥८॥

अत्युदश्रवोऽतिमात्रं रुदत्यः ॥८॥

अथ ता मुकुन्दमिदमाहुर्

अहह किमिदं हरे त्वया ।

वाक्यमधिकमुदितं क्वचन

वयमागता हि तव सेवनाशया ॥९॥

विरमास्महे स्म तव कृष्ण

चरणकमलोपलालिकाः ।

ता न परिहर हरे रहसि

प्रसभं वयं तु भवतोऽनुपालिकाः ॥१०॥

यदभाणि कृष्ण भवतेह

भवनगमनाय केवलम् ।

वेणुमधुररवबद्धतया

तव पादतो विचलितुं न नो बलम् ॥११॥

पतिसेवनादरपरं च

वचनमिह यत्त्वयोदितम् ।

तत्र पतिरसि विपत्सु भवान्

भवदङ्घ्रिसेवनमतीव नो हितम् ॥१२॥

एतदन्तं पद्याष्टकमुद्गताख्य विषमाक्षरछन्दसा निबद्धम् ॥१२॥

एवमादिविनयोक्तिविधाभिर्

वल्लरीवदनचन्द्रसुधाभिः ।

प्रीणितः प्रणयतो ह्युपयाताः

कृष्ण इत्यभिदधे कृपया ताः ॥१३॥

ह्युपयाता इत्यत्र हि इति पादपूरणे ॥१३॥

यूयमेवमतिभक्तिपरा मां

आगता बत वने निशि रामाः ।

तस्थुवां चिततपःफलसारं

प्राप्नुताभिलषितं मनसारम् ॥१४॥

एतदन्ते पद्यद्वये स्वागता च्छन्दः । एवं २०२२, ३४३५तमेषु पद्येषु । तस्थुवां स्थितवताम् । अभिलक्षितमित्यनुषङ्गः । चितोऽर्जितस्तपःफलानां सारो यत्रेति विग्रहः । मनसा अरमलमत्यर्थं प्राप्नुतेत्यन्वयः ॥१४॥

तद्वचनचरणारविन्दादपतापास्

ताः कृषिताङ्गजनीकलितापाः ।

ह्रीभयभारनताननपद्मास्

तस्थुरतिप्रभया जितपद्माः ॥१५॥

एवं मापाठः । अङ्गजनीकलिता कामे नाश्रयमापिता (हलिकली कामधेनुरिति स्मरणात।) आपो याभिस्ताः विरहानलदग्धा कामेन प्रयोजकेन इति यावत। ऋक्पूरब्धूरित्यादिना समानान्तकारत्वम् । कृषिताङ्गजनिः सहतापा इति पाठकल्पनेऽपि सामञ्जस्यं स्यात। एतदादिश्लोकचतुष्के दोधकं छन्दः । प्रभया जिता पद्मा लक्ष्मीर्याभिर्लक्ष्मीदेवीतोऽप्यतिरमणीयाः । कृदिकारादक्तिन इति जनिशब्दस्यान्तस्वरस्य वैकल्पिकं दीर्घत्वम् ॥१५॥

कृष्णविकाशिमुखाम्बुजलोला

वक्रविलोकनषट्पदमाला ।

सा विरराम न गोपवधूनां

वक्त्रविनिन्दितपूर्णविधूनाम् ॥१६॥

वक्रविलोकनानि कटाक्षदृष्टयस्तासां माला न विरराम । अतितरां कटाक्षपाताः श्रीकृष्णप्रीतिसूचकाः प्रवृत्ताः ॥ ॥१६॥

तेन कटाक्षसितासितवृत्त्यो

ल्लोलचयेन च वृद्धिरवापि ।

केशवकाममहोदधिनोच्चैः

स्त्रीवदनेन्दुशतप्रभयापि ॥१७॥

तेन कटाक्षसितासितसिद्वृन्दोलचयेन [मा. पाठः] । कटाक्षाणां सितासितत्वं लोके काव्ये च प्रसिद्धम् । उल्लोला बृहत्तरङ्गाः । अथोर्मिषु महत्सूल्लोलकल्लोलौ इत्यमरः । चन्द्रोदये समुद्रस्फीतिरुत्तरलतरङ्गमालया भवति । तेनोद्दीपनेन च स्त्रियां मुखकान्तिवृद्धिर्नास्वाभाविकी ॥१७॥

तत्समये मधुसूदनचित्तं

मारमहाम्बुधिमध्यनिमग्नम् ।

वल्लविकोच्चकुचाचलशृङ्गा

लिङ्गनरङ्गविधौ बत लग्नम् ॥१८॥

अथ काञ्चिदुदञ्चितचारुकुचाम्

अबलां नवपल्लवरम्यरुचाम् ।

स करेण विधृत्य लसद्वसने

विचकर्ष दधार च सारसने ॥१९॥

तोटकं छन्दः । एवं ६४६५१०९तमेषु पद्येषु । सारसनं मेखला । रुचा कान्तिः । टापञ्चैव हलन्तानामिति समर्थनम् ॥१९॥

सुन्दरीवदनमिन्दुमुदस्य

प्रेक्षणेऽभवदुदारमुदस्य ।

चुम्बतोऽथ हरिणा हरिणाङ्कः

स स्फुटं भवति रिक्तकलङ्कः ॥२०॥

सुन्दरीवदनं चन्द्रमभिभूय वर्तते स्म । तस्य प्रेक्षणेऽस्य श्रीकृष्णस्य उदारमुदतिशयित उल्लासोऽभूत। मुद्शब्दः क्विबन्तः । रिक्तकलङ्कः कलङ्कहीनः । वदनमिन्दुमिति काकाक्षिगोलकन्यायेनोभयत्र संबद्धम् । साक्षात्सुधांशुमुखमेव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः इति नैषधीयपद्यं मनसि कृत्वेदं व्यरचि । तत्र श्लेषेण गगनसम्बन्धी शशाङ्कः लाक्षणिको लक्षणेन कलङ्केन संस्पृष्ट इति प्रतीतिः ॥

माधवस्तदमृतपाना

नन्दनिर्वृतमना बहुमानात।

तत्प्रशस्यजलधेरमृतार्थं

बन्धनं स तदबोधि निरर्थम् ॥२१॥

अमृतकल्पमधरमधु । तस्य हेलयैव लाभात्समुद्रमन्थनमनर्थकः श्रम एवेति प्रौढोक्तिः । तत्प्रशस्येति तेनामृताश्रयत्वेन प्रशस्योऽर्हो यो जलधिरित्याकूतम् ॥२१॥

वल्लवीवदनचन्द्रचकोरस्

तद्वलत्पुलकमङ्गचयोरः ।

निर्भरं सुपरिरभ्य रसं स

प्राप पीनकुचतां प्रशशंस ॥२२॥

तद्वलदिति । तस्या वल्लव्या वलत्पुलकमुद्गतरोमाञ्चमङ्गचयमुरश्च । प्राण्यङ्गत्वात्समाहारः ॥२२॥

वसनमपनिनीषुणा कुचाभ्याम्

घनरुचिरनिजच्छविश्रिताभ्याम् ।

कर इह पिदधेऽमुना मुहुर्यत्

तदफलकुचमर्दि पर्यवास्यम् ॥२३॥

स्तनावरणमपसर्तुकामेनामुना कृष्णेन गोप्याः प्रतिबन्धकतया कल्पितः करः पिदधे । स्तनानामुज्ज्वलवर्णतया तेषु प्रतिबिम्बिताभ्यां मेघश्यामलस्वकीयकान्तिभ्यामन्धकारसृष्टया गोप्या यत्कराच्छाद्नं तद्व्यर्थमेवाभूत। प्रकृते तु प्रत्युत तत्पाणिभ्यां तत्स्तनमर्दनकार्ये पर्यवास्यत्परिणतम् । पाणिरोधमविरोधवाञ्छं [शि.व. १०.६९] इत्यादिमाघपद्यीयपङ्क्तिप्रतिरूपमिदं पद्यम् । अत्र कामदत्ता छन्दः ।

सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु ।

द्वादशाक्षरके पादे कामदत्तेति सा यथा ॥ इति भरतः ॥

एवं २५तमे श्लोके ॥२३॥

विगलितांशुकावप्युदंशुकौ

हृदयमर्दकौ चित्तनन्दकौ ।

मृदुतनोः स्तनौ दैत्यभित्तनौ

सुचिरसङ्गतौ स्थैर्यमागतौ ॥२४॥

हृदयपदेन वक्षोऽवयवः । चित्तं पुनर्मन एवम् । अत्र श्लोके स्तनयोरुदंशुकत्वेन वर्णनेनौज्ज्वल्यं प्रतीयते । कनकमञ्जरी छन्दः ॥२४॥

स्तनकनकघटद्वये

शुभकरपल्लवमर्पयन्ननन्द ।

विदधदधिकमङ्गलं

यथायं सुरमणमारभमाण आदितायम् ॥२५॥

सुरमणमारभमाणः सुरते प्रवृत्तः । मङ्गलकलससमकक्षतया मङ्गलकर्मणीव आदितः स्वीकृतवान। सुरमणमित्यत्राप्रतीततार्थदोषः । शुभेति श्लेषः ॥२५॥

हरिविरहजतापतप्ततन्वी

कुचयुगले मिलितं हरेः कराब्जम् ।

समकुचदुचितं रसस्य कान्तेर्

यदुपचयाद्भुतभानमत्तसज्जम् ॥२६॥

अद्भुतभानं विचित्रदीप्तिं तथा मत्तसज्जं च । सज्जा चन्दनादिचर्चा । मत्तसज्जं गर्वस्तम्भितप्रसाधनं कुचयुगम् । २५२७पद्येषु तथा ७५११२११४तमपद्येषु पुष्पिताग्रा च्छन्दः । रसस्येत्यत्र रथस्य इति मा.लि.पाठः । यदुपचादिति रसोदयात॥२६॥

नखलिखितघनस्तनार्दनात्

तत्करकमलं निजहस्तपङ्कजेन ।

यदरुणदरुणेक्षणः क्षणात्तं

प्रकटं स कण्टकमाततान तेन ॥२७॥

स्तनानना तत्केवकमलेति मापाठः । क्षणात्सद्य एव । कण्टकं पुलकमित्यपि ॥२७॥

सिचयमयमपास्यानङ्गरङ्गेन तस्या

हरिरवददिहान्यां ह्रीनदीसन्निमग्नाम् ।

जलमनु विजहर्थ व्यस्तवासा मदर्थं

पयसि यदुपसन्ना तत्फलं त्वं प्रपन्ना ॥२८॥

विवसनायास्त्यक्तलोकलज्जाभयाद्यन्तरायाया एकान्तितया भगवन्निष्ठा कृच्छ्रसाधनफला । मालिनीच्छन्दः । अन्योऽपि नदीमवगाहते फलकामः फलप्राप्त्या च कृत्@ओ भवतीति ॥२८॥

अग्रेवणं विषमबाणशरौघभित्ताव्

उद्भासिता बत दिगम्बरभाववित्ता ।

अर्धेन्दुलक्ष्म्यधिगतामलचारुभाला

तादात्म्यमाप हरिणा सममत्र बाला ॥२९॥

वसन्ततिलकं छन्दः । एवं ३३७९११३तमश्लोकेषु । अग्रेवणं व्रजविपिनाग्रे अथ च व्रजस्य संज्ञापि । विवसनार्धचन्द्राकृतिललाटदेशेनातिसुन्दरी शिवसदृशी सा कामबाणपीडित, तस्मात्मदनदाहकाद्भीता तादात्म्यमनेन स्वकीयात्मनिवेदनेन हरिणा हरेण शिवेन सहैकात्म्यतामभिन्नत्वं गता । हृदि विसलताहारो नायं भुजङ्गमनायकः इत्यादि, प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि [गी.गो. ३.११] इत्यन्तं गीतगोविन्दपद्यमुपजीव्यैवमुपस्थाप्यते । हरिश्चन्द्रार्केऽत्युपक्रम्य हरेऽब्जांशौ शक्रे लोकान्तरे पुमानिति मेदिनीकरः । दिगम्बरेति—दिगम्बरभावेन शिवत्वेन वित्ता प्रसिद्धा, अथ च विवसनत्वेन वित्ता भोगवती, वित्तो भोगप्रत्यययोरिति पाणिनिसमर्थनम् ॥२९॥

एवमन्यरतिरम्यमृगदृशः

प्रेयसीः कुसुमबाणसुसदृशः ।

स्नेहपूर्णहृदयेन स रमयन्न्

ईश्वरोऽत्र विजहार सुखमयः ॥३०॥

अन्यरतिरम्याः परकीयप्रीत्यात्मोत्सर्गेण परां कान्तिं गता मृगदृशः हरिणनयना गोपवनिताः । कुसुमबाणसुसदृशः कामस्य पुष्पायुधवत्सुकुमारतनूः । स्नेहेति । अत्र स्नेहपदेन रसशास्त्रे—

आरुह्य परमां काष्ठां प्रेमा चिद्दीपदीपनः ।

हृदयं द्रावयन्नेष स्नेह इत्यभिधीयते । [उ.नी. १४.७९]

इति निरुक्ताया रतेरवस्थाभेदः ॥३०॥

वल्लवदारास्ते सुरसाराश्

छद्मविहारे प्राप्य मुरारेः ।

उद्गतगर्वा न्यक्कृतसर्वाः

स्वात्मवशं तं जज्ञुरनन्तम् ॥३१॥

छद्मविहारे प्राप्य मुरारेः हरेः सङ्गमित्यध्याहारः । रुक्मवती छन्दः । एवं ५२५३५४तमश्लोकेषु । जज्ञुर्मेनिरे ॥३१॥

तद्वशगोऽपीहामतगोपी

गर्वमहत्त्वमन्तरधत्त ।

कामपि धन्यां वल्लवकन्याम्

आत्मसहायीकृत्य नु मायी ॥३२॥

तद्वशगोऽपि मायी इह अमतगोपीगर्वमहत्त्वं यथा स्यात्तथा नु कामपि धन्यां वल्लवकन्यामात्मसहायीकृत्य अन्तरधत्त अन्तर्हितोऽभवत। नु वितर्के । धन्यामन्यादृशरमणीसुलभाहङ्कृतिशून्याम् । आत्मसहायीकृत्य तया सहेति यावत। एवं हि पुराणाख्यानेऽपि वृत्तान्तोपन्यासः ।

तासां तत्सौभगमदं वीक्ष्य मानं च केशवः ।

प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ [भा.पु. १०.२९.४८] इति ॥३२॥

अन्तर्हिते प्रियतमे सममिन्दुमुख्या

प्रोवाच वाचमपि काचन तत्र मुख्या ।

किं कार्यमत्र करणीयतमं वयस्यास्

तद्वत्यसौ हृदि यदत्र बभूव यस्याः ॥३३॥

यस्या गोप्यास्तद्वति श्रीकृष्णमये हृदये यद्बभूवासौ श्रीकृष्णः । अत्र किमत्र्@अं प्रतिविधेयं वयं तु अस्वतन्त्रा एवेति यावत॥३३॥

चारुवृत्तचरणाभ्युपपन्नाः

सूक्तयोऽलमुदयाय विधेयाः ।

शब्दतोऽर्थगतितश्च सुधावत्

प्रीतिमादधति सत्सु विधेयाः ॥३४॥

परमगतिगत्या तदनुच्छन्दनमेव वरमिति तथैव चक्रुरित्यमृतस्यन्दीनि मधुरवाक्यानि तमुद्दिश्य प्रोचुः । सूक्तयः सुभाषितानि । सूक्तयोऽपि सुन्दरिअर्वृत्तैश्छन्दोभिश्चरणैः श्लोकचतुर्थभागैरुपपन्ना युक्ताः । साधुष्वेषामेव प्रयोगः कल्याणोदर्को भवति । विधेया एकत्र कार्या अपरत्र वशवर्तिन आश्रवाः । इतोऽनन्तरं षडक्षरपादादारभ्यैकविंशत्यक्षरपादं यावत्तदाश्रितानां वृत्तानां प्रथितानां विन्यासः । श्लोकेषु तेषु संज्ञाशब्दा अर्थतश्चैव तत्तत्प्रकरणे योज्याः ॥३४॥

ऊचे तनुमध्या नाहं खलसाध्या ।

कृष्णोऽप्युपगच्छन्नेयं तमिहैच्छत॥३५॥

कामाम्बुधिमग्नां पादाम्बुजलग्नाम् ।

मां स प्रविहाय क्वायाद्बहुमायः ॥३६॥

बहुविधमायाविरचनपटुरित्यर्थः । एषु छन्दःसंज्ञा बृहत्सीसाक्षरैर्मुद्रिता दर्शिता । इतः प्रभृति ५६तमं श्लोकं यावत्छन्दसां प्रत्येकमुदाहरणद्वयमव्यवहितमुपलभ्यते ॥३६॥

शशिवदनाह स्मरशरदाहः ।

हरिविरहिण्या वलति तरुण्याः ॥३७॥

तमिममुदारं तिर्भुवनसारम् ।

न परिहरामः समभिसरामः ॥३८॥

प्राहेदं मदलेखा वागेषा श्रुतिशाखा ।

गोविन्दे गुणसिन्धौ मानो मे प्रियबन्धौ ॥३९॥

वाक्वाणी श्रुतिशाखा शाखास्वधीयमानो वेदमन्त्र इवाभ्रान्ता । मानो बहुमानो गौरवमिति यावत॥३९॥

आवासः सकलानां श्रीकृष्णः स कलानाम् ।

त्यक्त्वा तं रमणीनां क्व श्रीः मारमणीनाम् ॥४०॥

मारमणीनां कामसर्वस्वभूतानामथ च लक्ष्मीभूतानां बह्वीनां तथा च, श्रियः कान्ताः कान्तः परमपुरुषः इति ब्रह्मसंहितायां व्रजलीलासङ्गिनीनां लक्ष्मीत्वेन निर्देशः ॥४०॥

विद्युन्मालानाम्ना बाला कामान्दोला मत्तोल्लोला ।

विष्णोः खेलाप्राप्तौ केलावाधत्ते नावासे हेलाः ॥४१॥

कामान्दोला कामवशादभीष्टसिद्धौ संशयान्दोलितचित्ता । मल्लोला बृहन्तस्तरङ्गाः । मत्तोल्लोला मदभरतरङ्गितभङ्गी ॥४१॥

लीलाकन्दं या गोविन्दं ध्यात्वानन्दं चक्रेऽमन्दम् ।

आलोक्येशं श्रीमद्वेशं तन्तुङ्गेशं सत्सन्देशम् ॥४२॥

तुङ्गेशं सर्वेषामुपरि ऊर्ध्वतममखिलाधिपम् । सत्सन्देशं दौत्यप्राप्यलक्ष्यम् । कुदभिहितो भावो द्रव्यवत्प्रकाश इत्यभियुक्तस्मरणात॥४२॥

चित्रपदामथ वाणीमाह परा मम पाणी ।

कृष्णपादाम्बुजसेवा स्वादधिरे खलु देवाः ॥४३॥

किं च ममाखिलमङ्गं यत्तु हरेरनुषङ्गम् ।

याति यदा सफलत्वं तर्हि ममेह ममत्वम् ॥४४॥

हरेरनुषङ्गं हरिणाभिन्नाकृतित्वेन सम्बद्धम् । ममाङ्गं यदि सकलत्वं याति तर्हि तदा तदैव इह संसारे मम ममत्वं ममेति भावः समञ्जस इति शेषः । ४५४८तमश्लोकेषु समानिकाप्रमाणिकयोरानुष्टभत्वपक्षे प्रत्येकमुदाहरणद्वयी ॥४४॥

तं समानिकाह काचिदालि तावकीनवाचि ।

रोषमेवमावहऽमि पार्श्वमेव ते नयामि ॥४५॥

यो जगाम नो विहाय सूक्तिमात्रमप्रदाय ।

तं कथं नु नाम वाममाश्रयाम धाम याम ॥४६॥

वामं प्रतिकूलमाचरन्तमिव तं श्रीकृष्णम् । नाम सम्भावनायाम् । धाम स्वकीयमालयमेव याम इति मानाधीनता ॥४६॥

अथापराह गोपिका हरिं प्रति प्रकोपिका ।

न चालि तं द्रुतं वृणु प्रमाणिका गिरः शृणु ॥४७॥

द्रुतं न वृण्वति मानावलम्बनमुपदिशति । प्रमाणिकाः कार्याकार्यव्यवस्थितौ प्रमाणत्वेन ग्रहणीयाः ॥४७॥

यदीदृशो मनोमलः सुरालयो भवेच्छलः ।

तथाप्यहं न तं भजे मनः स्फुटं नु तं व्रजेत॥४८॥

मनोमल इति पाठकल्पनायां मानरूपं चित्तकालुष्यम् । एवं चित्तकालुष्येण कर्मणा विहितेन स्वर्गोऽपि च्छलोऽर्थवादमात्रेणालीको देवभजने प्ररोचनायै अपर्याप्तः । मम तस्य भजने नानुबन्धः, न च निर्बन्धोऽपि । नु पुनर्मनस्तमेवानुधावतीति किं करोमि ॥४८॥

हरिशरणबलात्तां

अकथयदथ काचित्ताम् ।

भुजगशिशुभृताद् भीताप्य्

अभिसरणरसाभीता ॥४९॥

भुजगशिशुसृतात्सर्पाहितात्विषादिति यावत। अत्र भ्टिआप्यभिसारणरसात्त्वत्पार्श्वोपनयनफलातभीता प्रत्युत तत्रान्तराकृतवती यतस्त्वमस्माकं पालकः पतिः । विषजलाप्ययाद्व्यालराक्षसात्[भा.पु. १०.३१.३] इति भागवतपद्यमुपजीव्येदं कथनम् । हरिचरणेति माःपाठः । हरिरेव शरणं रक्षिता । तद्बलात्ता तस्मिन्नेव कृतनिर्भरेयं गोपीति कवेराकूतम् ॥४९॥

इह सुमविशिखैर्वामः प्रियसखि सकलैः कामः ।

विदलति निखिलं मर्म द्रुतमभिसरणं कुर्मः ॥५०॥

सुमविशिखैः कुसुमबाणैः । वामः प्रतिकूलाचरणशीलः । कामो वाम इति हि प्रवादः ॥५०॥

इत्थं मत्ता मदनबलात्ताः

कृष्णध्यानादपगतमानाः ।

चिह्नन्यस्तं विविशुररण्यं

गायन्त्योऽमुं प्रतिपदपुण्यम् ॥५१॥

कृष्णध्यानादिति । एवमपगतमानाः । तच्चित्तविपुलाह्लादक्षीणपुण्यचया तथा [वि.पु. ५.१३.२१] इति विष्णुपुराणे । मानः सुकृतजनितोऽहङ्कारः । चिह्नैः पदाङ्कैर्न्यस्तं न्यासरूपेण विशेषितम् । एवमपि पुराणाख्याने । मत्ता अपगतमाना इति विरोधाभासः ॥५१॥

तासां गीतं परमभिनीतं

श्रावं श्रावं कृतरसभावम् ।

आसन्मृग्यश्चिरमवशास्ताश्

चित्रन्यस्ता इव कवलैस्ताः ॥५२॥

कालिदाससरणिं [रघु. १३.२५ , शाकुन्तले ४.१२ ] अनुसृत्य वर्णनेयम् । गीतमिति विशेष्यपदम् । कृतरसभावं यथा स्यात्तथाभिनीतमिति योजना । परं श्रेष्ठम् । गीतमित्यस्य विशेषणं क्रियाविशेषणम् ॥५२॥

रुक्मवतीति प्राह वनाली

मालि स दृष्टस्ते वनमाली ।

हृद्बलचौरं नन्दकुमारं

तं मृगयामः क्वाभिसरामः ॥५३॥

हृदयं बलेन असमसाहसिक्येन चोरयति यस्तम् । इदं रुक्मवतीत्याख्याया गोप्या वनराजिं सखीत्वेन सम्बोध्य वचनम् ॥५३॥

हे तुलसीशे शोभनवेशे

सत्यसमुत्थं त्वं वद तत्त्वम् ।

कामविलासी नो निजदासीर्

अत्र विहाय क्वायमयासीत॥५४॥

ईशे ऐश्वर्यसम्पन्ने वैष्णवतन्त्रे तुलस्याः कृष्णप्रेयसीत्वनिदर्शनात। सत्यसमुत्थं सत्याश्रयमनलीकमित्यर्थे वाक्प्रपञ्चः ॥५४॥

कापि गोपवनिताथ मालती

मालपद्वत हितं वितन्वती ।

नास्त्यनादृतिरथोद्धतापि न

तर्हि किं हरिरयाद्विहाय नः ॥५५॥

अथ वाक्यारम्भे । उद्धता मर्यादालङ्घिनी अनादृतिरुपेक्षापि नास्ति । तर्हि तथापि । अत्र तृतीयचरणे लघ्वन्ते दीर्घता वामनाद्यालङ्कारिकमते दोषावहा । मालत्यत्र मालतीलता । तां प्रति पूर्ववद्भाषणम् ॥५५॥

किं क्षणः स भविता पुनरेवं

अत्र कृष्णमभिवीक्ष्य पुरेव ।

स्वागतादिभिरहं तददम्भं

पूजयिष्य उदयत्परिरम्भम् ॥५६॥

उदयत्परिरम्भमालिङ्गनपूर्वकमदम्भं विनीतममायिकं तं कृष्णम् । अदम्भं पूजयिष्य इति क्रियाया विशेषणं वा । उदयत्परिरम्भं सूचितालिङ्गनमिति कृष्णविशेषणम् । अत्रापि क्रियाविशेषणपक्षः साधीयान। क्षण उत्सवः ॥५६॥

स्यादिन्द्रवज्रादतिरत्र सह्या

यद्वाधिराज्याच्च्युतिरत्र मह्याम् ।

न त्वेव कृष्णेन समं वियोगः

सोढव्य एष क्षतसर्वभोगः ॥५७॥

आद्यचरणयोर्निर्दर्शनालङ्कारगर्भोऽनुयोगः । एवमनन्तरश्लोकेऽपि । व्यतिरेकश्च वाच्य एव । अभागधेयमिति अप्रशस्तं विधिनियन्त्रणमित्यर्थः ॥५७॥

उपेन्द्रवज्राभिहतो गिरिः स्यात्

सुजर्जरः सानुचरोऽयतेऽयम् ।

भवद्वियोगादतिजर्जरं तन्मनो

ऽतनोच्चित्रमभागधेयम् ॥५८॥

अतिजर्जरं तन्मनश्चित्रमतनोदिति योजना । हे उपेन्द्रेति च्छेदः । तदनुभूतवैक्लव्यं मन आलम्बनम् । तदित्युत्तरार्धे अयमिति पूर्वार्धादुद्दीपनविभावाद्व्यतिरिच्य निर्देशः ॥५८॥

चूततरुं तरुणीदमभाणीत्

कोकिलकाकलिकोमलवाणी ।

सालरसाल[रसाल]सगामी

किं भवता हरिरैक्ष्यत कामी ॥५९॥

कोकिलेत्यादि । तरुणीविशेषणमिदम् । हे सालरसाल साररसयुक्ताम्रतरो । रलयोर्व्यत्ययो बहुलम् । रसालसगामीति हरेर्विशेषणम् ॥५९॥

दोधकमस्मदतिस्मयखिन्नः

सन्मददोधकमेतमधान्नः ।

तत्सहकार मया सहचारी

ब्रूहि हरिः क्व स कामविहारी ॥६०॥

अतिस्मयखिन्नोऽस्माकमतिमात्रेण गर्वेण खिन्नो व्यथित एतं सम्मददोधकं हर्यदोग्धारं दोधकं वत्सधात्मधादिति यात। वत्सः शकृत्करिर्दोग्धा दोधको दोधैत्यपीति शब्दरत्नावल्यां मथुरेशः । सहचारीति तात्पर्ये णिनिः ॥६०॥

ऊचे लीलाशालिनी गोपबाला

लोक्याशोकं पार्थकापास्तशोकम् ।

किं नु प्रेयानीक्षितस्ते हरिर्यन्नित्यं

कामः सान्वयं धत्स्व नाम ॥६१॥

६०६१श्लोकयोः क्रमव्यत्यासः । दोधकाधिकारे आद्यः श्लोकः परतः संन्यस्त इति तत्र हेतुः । दोग्धीति दोधक इति हलायुधो मृतसञ्जीविन्यां पिङ्गलच्छन्दः सूत्रवृत्तौ । नित्यं कामः सर्वदेव कामोऽप्रतिहतगतिः । सान्दयमन्वर्थं नाम धत्स्व धारय ॥६१॥

अथापरा वल्लविकाह मल्लिकाम्

अये कुतः सन्ददृशे त्वयाच्युतः ।

तथेह वंशस्थविलस्फुटस्फुरत्

सुधावसिक्तध्वनिनाथ सूचितम् ॥६२॥

तया गोप्या इहात्र प्रदेशे वंशस्थविलात्वेणुच्छिद्रात्स्फुटं स्फुरता प्रकाशमानेन सुधावसिक्तध्वनिना सुधावर्षिणा रवेण सूचितः “अच्युतः किं त्वया मल्लिकाख्ययादर्शि ?” इति प्रश्नः । वल्लुविका मल्लिकेत्यनुप्राससृष्टिः ॥६२॥

व्यालेन्द्रवंशातिवलद्विषानलं

यः सञ्जहाराधिहृदं महानलम् ।

पातुं सदा न्यस्तधिया विभावसौ

पापच्यते नो परमे विभावसौ ॥६३॥

व्यालेन्द्रवंशात्कालियाख्यश्रेष्ठनागकुलात। परमे विभौ परमेश्वरे तस्मिन्सदा न्यस्तधिया अनन्यासक्तमनसा विरहो दारुणो भवति । प्रकृत्यादित्वात्तृतीया । अधि हृदमित्यत्र द्वितीये वर्णे शास्त्रानुमता लघुता । यो विभावसौ विरहरूपाग्नौ नो पापच्यते न भृशं पचति । वयं तु विरहाग्निना पचाम एव ॥६३॥

अथ काचिदवोचत तत्र सखी त्वम्

इतो कलावती मेऽभिमुखी ।

किमपीह विषदसि मुग्धतमा

हरिरेष पुरोऽस्म्यवलोकय माम् ॥६४॥

अयि कलावति त्वमितोऽट इतोऽपसरेति यावत। अहं कृष्णभङ्गीमनुकरोमि । एवमनन्तरेषु पञ्चसु पद्येषु कृष्णलीलानुकरणं प्रसज्यते ॥६४॥

इह पश्य ममास्यगतिं

ललितामिति केशववल्ललना वलिता ।

मृदु वेणुमवीवददित्यबला

हरिकेलिषु शिक्षितसर्वकला ॥६५॥

हरिकेलिषु हल्लिशकादिषु राससदृशक्रीडासु । ललितां कमनीयामास्यगतिं मुखविवलनभङ्गीम् ॥६५॥

हरितयात्मविभावनकृत्परा

चलदुदूखलबद्धकलेवरा ।

द्रुतविलम्बितमित्यपरावनौ

विदलितावपरौ यमलार्जुनौ ॥६६॥

द्रुतविलम्बितं यथा स्यात्तथा अचलत्चङ्क्रमणमकरोत। तत्र व्यापारे तस्या उलूखलांशद्वयेन कथञ्चित्यमलार्जुनवृक्षद्वयप्रतिभानम् । भागवतेऽनुरूपं वर्णनम्—

बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले ।

भीता सुदृक्पिधायास्यं भेजे भीतिविडम्बनम् ॥ [भा.पु. १०.३०.२] इति ॥६६॥

अहं कालियोऽस्मीति तत्रालिचक्रे

भुजङ्गप्रयातं परा चानुचक्रे ।

शिरोऽथारुरोहापरास्या वयस्या

मुकुन्दोऽहमस्मीति चारुस्मितास्या ॥६७॥

ऊढगोवर्धनं श्रीहरिस्पर्धनं

कुर्वती रागिणी कापि च स्रग्विणी

जग्रथे सुस्रजं व्याजह्रे च व्रजं

नात्र भीर्वर्षतः स्थीयतां हर्षतः ॥६८॥

सुस्रजं शोभनां मालां ग्रथितवती च व्याजह्रे व्रजमुद्दिश्यैवमुवाच । व्याजह्रे इत्यत्र द्वितीयस्वरो लघुः प्रह्वेवा इत्यस्य विधानस्यादेति शात। एवमष्टमे १०३तमे पद्ये यथा विवृतं प्राक॥६८॥

अथ शिशुकृष्णानुकरणकृष्ट्या

स्तनयुगधिष्ण्या रुदितमथान्या ।

प्रपदमुदस्याहत सुवयस्यां

शकटचरित्रां कुसुमविचित्राम् ॥६९॥

स्तनयुगधिपतिं मापाठः । काचित्गोपी शिशुकृष्णलीलामनुकुर्वत्यपरस्या गोप्याः स्तनयुगोपरिदेशे स्थितवती रुदितवता क्रन्दनं चकार । तदनन्तरं काचिदन्या गोपी पदाग्रभागेन शकटविचित्रां शकटायमानामन्यां सुवयस्यामाहृत । आत्मनेपदं चिन्त्यम् । सुवयस्यामुद्दिश्यत्यकर्मकत्वाश्रयेण समर्थनम् । भागवतपुराणमवलाम्ब्योभयत्र वर्णनम् । प्रथमा पूतनावधं, द्वितीया शकटभङ्गमभिनिनाय ॥६९॥

एवं किल नाना लीला विदधानाः

कृष्णार्पितचित्तास्तास्तदु विरहार्ताः ।

आसनिन्दूद्द्योतादतिमधूयन्त्यो

बत बालाः शिञ्जन्मणिमालाः ॥७०॥

इन्दूद्द्योताज्ज्योत्स्नाप्रकाशादुद्दीपनादतिमन्दूयन्त्योऽतितरामनवस्थितचित्ता । कण्डवादिभ्यो यगिति यक। गणपठे तु अस्यानुपलम्भः । मन्तुश्च अपराधे रीष इत्येक इति तत्र पठितम् ॥७०॥

हरिरहितामरसं विचरन्तीम्

अकथयदलिरथाभिसरन्ती ।

अगमदनेन पथा सखि भिन्ना

पदततिरत्र सरोरुध चिह्ना ॥७१॥

हरिरहितां कृष्णविरहिणीमरसं विहरनतीमतात्पर्यं शून्यमनसा विचरन्तीमालिमन्यालीम् ॥७१॥

प्रमिताक्षरां शृणु ममेह गिरं

गतवाननेन स पथा न चिरम् ।

ध्वजवज्रपङ्कजयवाङ्कुशं

बत पदकं हरेः स्फुरति यन्नु तत्त्वतः ॥७२॥

पङ्कजवरेति मा.लि.पाठः । तत्र वरपदं पादपूरण्@अम् । भागवते तु यवाङ्कुशमिति दृश्यते ॥७२॥

चन्द्रवर्त्मसममेतदेव गतं

वर्त्म चारुतरविष्णुपदनतम् ।

तापहारि भवतारकममलं

निस्तलक्ष्ममभिपश्यत चपलम् ॥७३॥

निस्तमक्षमभिपक्षत इति मा.पाठः । निस्तलानवगाढा क्ष्मा भूमिर्यत्र । चपलं तिरश्चीनमिति यावत्न केवलं चञ्चलम् । वृत्तसंज्ञासामञ्जस्याय स एव साधीयान्कल्पः ॥७३॥

श्रुततद्वचना मृगलोचना

हरिपदानुगता हरिणप्लुताः ।

समुपेत्य तदा ददृशुर्मुदा

तमनुसस्रुरनेन पथा वने ॥७४॥

हरिणप्लुता मृगवत्गामिन्यः । यद्वा, हरिणप्लुतेति विसर्गहीनः पाठः । हरिणस्य प्लुता प्लुतगमनेन समुपेत्येति सम्बन्धः । तथात्वे प्लुतिति क्विबन्तः ॥७४॥

अथ पथि परिहाय पुष्पिताग्रां

नववनराजिमधिश्रियं समग्राम् ।

हरिपदकततीर्विलोभनायाञ्

पदनिचयान्समपश्यदङ्गनायाः ॥७५॥

अधिश्रियमधिगता श्रीर्यथा तां शोभामयीम् । पदकं शोभनह्रस्वपदमित्यर्थे । तती राजीरङ्किताः । ७१श्लोके पूर्वमृष्टापरा सखी समपश्यदिति क्रियायाः कर्त्री ॥७५॥

ऊचेऽथ प्रियसखि का प्रहर्षणीयं

यत्सङ्गान्मधुरिपुणा प्रहर्षणीयम् ।

सस्नौ सा किमु तपसि स्वयं प्रयागे

गोकोटिं किमथ ददौ द्विजाय यागे ॥७६॥

प्रहर्षणी इति छन्दोनामात्र । यत्सङ्गात्प्रहर्षणीयमानन्दयितव्यम् । तपसि माघे मासि । माघमासे प्रयागस्नानं बहुतरपुण्यफलमाहुधर्मशास्त्रकाराः ॥७६॥

यस्याः वश्यः कामकलायामतिशूरः

कृष्णस्तस्या रम्यजतुर्मत्तमयूरः ।

सान्द्रानन्दा सा शरदि स्यादपदोषा

मन्ये धन्या केवलमेषा वरयोषा ॥७७॥

रम्यजतू रमणीयश्लेषाधायिवस्तुकः । इदं मत्तमयूरमिति च अतितरां मत्ता मयूरा यस्मादिति द्वे कृष्णविशेषणे ॥७७॥

इह काप्यवोचत सुमञ्जुभाषिणी

ध्रुवमम्बुधावमृत कृष्णतोषणी ।

इयमत्र येन हरिणा सहाधुना

रमते रहस्यतिविहारसाधुना ॥७८॥

विहारसाधुना रतिप्रवीणेनामुना रहसि गुप्तं यथा स्यात्तथा तिरमत इति योजना ॥७८॥

काचिद्वधूः समवधूय तदाचचक्षे

सा सुन्दरी सुकृतिनी ललनासु लक्षे ।

यासौ वसन्ततिलकं किल कण्ठलग्ना

कृष्णं चिरं रमयति स्फुटभावमग्नाः ॥७९॥

लक्षे ललनासु ललनालक्षमध्ये निर्धारणे सप्तमी । लक्षे इति विंशत्यादेरनावृत्तावेकवचनम् । वसन्ततिलकं वसन्तस्य ऋतुराजस्य तिलकं भूषणम् । वसन्तेत्युद्दीपनभावस्य ऋतुसामान्यस्योपलक्षणम् ॥७९॥

देवीनामपि वध्या देवानामभिनन्द्या

जन्मौघैः कृतपुण्या सैवैका गुणगण्या ।

कृष्णोऽस्या यदलोलां भक्तिं बहु मेने

येनासाविह कान्तामेकान्ते भजते ताम् ॥८०॥

मसौ म्मौ गावलोला इति हेमचन्द्रः । लोलेत्यपरे । उभयथाप्यत्र लक्षलक्षणसङ्गतिः । सप्तभिः सप्तभिर्यतिः ॥८०॥

इति पथि कलयन्ती तत्र तत्र प्रयान्ती

गलितकुसुममालामाकलय्याह बाला ।

प्रियतमपरिरम्भादत्र दामातिदम्भान्

मृदितमकमनीयं किं जहौ मालिनीयम् ॥८१॥

प्रियतमपरिरम्भादतिदम्भादतिप्रकृष्टाहङ्कारवशात्मृदितमङ्गसङ्गात्म्लानमकमनीयं दाम जहावित्यन्वयः ॥८१॥

किमियमकृत बत शमवधिविधुरं

रहसि पिबति यदधरमधु मधुरम् ।

मधुरिपुरनुपमवपुरमरवरस्

तुलितललितशशिमणिगुणनिकरः ॥८२॥

शमबाधविधुरमिति मापाठः । अवधिविधुरं निरवधि मङ्गलं किमियमकृतेति वितर्के । विधुरपदेन लक्षणया राहित्यमवसीयते । तावत्फलं सुकृतं नात्र क्लिष्टम् इति कालिदासीयशाकुन्तलपद्यस्यानुरणनम् ॥ तुलितः समीकृतः शशिमणेश्चन्द्रकान्तस्य गुणनिकरो येन चन्द्रकान्तमणिरिव सकलाह्लादहेतुः ॥८२॥

रतिरियमुल्लसद्रसमयी हरिः स कामः

किमु जनकात्मजा गुणवती स चाभिरामः ।

किमथ शची रुचेर्विहरते स नाकभर्ता

बत करवालिनी सहभवा किमेवमार्ता ॥८३॥

करवालिनी खड्गिनीत्यर्थे । छन्दोनामापि तथा मतमस्य कवेः । वाणिनीति बहुषु छन्दोनिबन्धेऽप्यस्य संज्ञा । करवालिनी धृतखड्गा देवीव सहभवा भवेन शिवेन सहिता ॥८३॥

लसन्नानापत्रावलीविलसनोल्लासिसुमनाः

स्फुरद्रत्नाकीर्णा कनकरुचिरा चारुजघना ।

स्थलीयं किं मेरोः स्तनयुगसदुच्चैः शिखरिणी

हरेः क्रीडाभूमिः प्रविततनितम्बा सुतरुणी ॥८४॥

गोपीपक्षे पत्रावली चन्दनादिचर्चा सुमनसः पुष्पाणि रत्नानि मणिमाणिक्यादीनि गात्रभूषणानि । कनकरुचिरा सुवर्णेन शोभना स्तनयुगमेव सदुत्कृष्टमुच्चः उन्नतं शिखरं तद्विद्यते यस्याः क्रीडाभूमिः केलिस्थलीयम् । प्रविततनितम्बा विशालनितम्बवती । मेरुस्थलीपक्षे पत्राणि वृक्षपत्राणि सुमनसो देवाः । सुवर्णदिरत्नानामाकर एव सुमेरुरिति प्रवादः । जघननितम्बौ प्रवतांशदेशवाचकौ । शिखराणि च पर्वतशृङ्गाणि । स्थली अकृत्रिमा भूमिः । इयमपि गोपी निसर्गरमणीया ॥८४॥

अथ पथि तदङ्गनापदमवीक्ष्य सम्भावनाम्

इमामकृत साबला हरिरसावुवाहामला ।

नितम्बभरमन्थरामिह गतिं दधतीं त्वरां

मतं मुररिपोः पदं किल मञ्जु पृथ्व्यामिदम् ॥८५॥

सम्भावनां सत्तायोग्यताम् ॥८५॥

जहार हरिणेक्षणश्रियमियं भृशं कानने

द्वयोर्नयनयोरथ न्यधित तामशङ्कानने ।

न चित्रमतिमत्र तद्वितनुते रवे राजतः

किलाविकलमण्डलादहरदम्बरे राजतः ॥८६॥

अशङ्का निर्भया तस्करस्वभावत्वेऽपि प्रचण्डसाहसा । आनने तां श्रियं न्यधित न्यासमिव स्थापितवती । विलोलदृष्टं हरिणाङ्गनासु च [कु.सं. ५.१३] इति कविगुरोर्वचनमुपजीव्व्यैषा भणितिः । अम्बरे आकाशे अविकलमण्डलाद्राजतः शोभमानस्य रवेस्तथाखण्डमण्डलात्राजतश्चन्द्रात। तदाननं राजतोऽपि दीप्तिमत्तरं चन्द्रादप्यधिकतरमाह्लादि । जहारेति अहरदिति च तात्पर्यगर्भमाख्यानम् । चित्रमतिं विस्मयसूचकविचिकित्साम् ॥८६॥

अहह हरिणीवाहं मोहं वहे हरिवर्जिता

विलसतितरां सिंहीवेयं हरेः कृपयोर्जिता ।

चिरमिह कुरङ्गासङ्गेनामुना जनतर्जिता

तनुमनुदिनं हीना हास्याभ्यथासुखभर्जिता ॥८७॥

अहमभाग्या गोपी कुरङ्गासङ्गेनामुना निन्दितरागेण रहः परकीयारत्या जनतर्जिता लोके तिरस्कृता मूर्च्छामापन्ना मतिभ्रममापन्ना वा । सा च हरेः कृपयोर्जिता ओजस्विनी बलवती । हरिवर्जितेति श्लेषेण मृगी । हरिः सिंहः, कुरङ्गो मृगः ॥८७॥

प्रेक्ष्य प्रेयःप्रपदमवनौ मानमेषाचचक्षे

मन्दाक्रान्तामिह हरिपदाग्रेण भूमिं निरीक्षे ।

नूनं कान्तामतिसुमनसं कर्तुमस्याः प्रियैषी

प्रांशुप्राप्यं कुसुमनिचयं चारुमुच्चैरचैषीत॥८८॥

मानमभिमानमाचचक्षे सूचितवती गिरेति यावत। यद्भूमिर्हरिपदाग्रेण आक्रान्ता । अतिसुमनसमतिप्रसन्नचित्तामुत्कृष्टैः पुष्पैर्भूषिताम् ॥८८॥

तस्मिन्कुञ्जे कुसुमितलतागुञ्जिरोलम्बपुञ्जे

सा रामा का रुचिरहरिणा भुक्तपत्या निकुञ्जे ।

पत्रालीभिः पिककुललयैराकुले पुण्यगम्ये

तज्जीवात्मा मधुरिपुपदं याति चित्तेऽनियम्ये ॥८९॥

का इति प्रश्ने अथ च अनिर्वचनीयपुण्यमाहात्म्यवती सा रामा या मधुरिपुपदं यातीति योजना ॥८९॥

यदङ्के क्रीडन्तीं न भयमविशन्मेघविस्फूर्जितान्मान्

नवासीद्दासीयं स्वभवनशिखिक्लेशतो दूषितात्मा ।

विना तं गोविन्दं हृदयमुदयद्वंशनादादिदानीं

स कस्मान्मेऽनङ्गो दहति सहसा योषितोऽस्या न मानी ॥९०॥

गोविन्दक्रोडे क्रीडन्तीं मां मेघगर्जिताद्भयं नाविशत। नापीयं दासी मल्लक्षणा स्वभवनशिखिनां वर्षासु तेषां केकारवतः क्लिष्टा उद्वेगिता वासीत॥

तदानीं मानीति नान्त्यानुप्रासभङ्गः शङ्कनीयः । अनुस्वारविसर्गयोगस्यादूषकत्वमिति चित्रकवीनामाम्नायः ॥९०॥

इत्थं तदु भवनेऽभिसारतरला द्वीपिन्युपेतेऽबलाः

पप्रच्छुर्भवता व्यलोक्यत हरेः शार्दूलविक्रीडितम् ।

श्रीकृष्णार्पितचेतसामभिभवस्तासां ततो नाभवद्

दूरादेव पलायितोऽतिभयतो रक्षन्निजं जीवितम् ॥९१॥

हरेः श्रीकृष्णस्य, अथ च सिंहस्य शार्दूलस्येव विक्रीडितम् ॥९१॥

यामादाय प्रयातो हरिरहह रहस्येष्टा सुवदना

रुद्धा गर्वादवादीत्प्रियतम गमने शक्तास्मि न मनाक।

बन्धुः स्कन्धेन तस्माद्वहतु स च तथेत्युक्त्वा नततरो

पान्तामारोढुमिच्छुः सपदि बत विहायान्तर्धिमकरोत॥९२॥

यामादाय हरिः प्रयातः सा रहस्येष्टा गोपनसंयोगेऽभिलाषिणी प्रिया ॥९२॥

अथ सा हरिं परितो धनानि वनानि तत्र विचिन्वती

बत नव्यपल्लवकोमलावयवाबला विरहाधिना ।

विलसन्नितम्बयोधराधिकभारमन्थरतान्विता

विततान साभिनयं सुधामधुरां हरिप्रियगीतिकाम् ॥९३॥

बतेति खेदे । पादादौ निपातोऽयं न साधुरित्यभियुक्ताः । विरहाधिना विच्छेदार्त्या, हेतुना गीतिकां विततानेत्यन्वयः । गीतिकाच्छन्दः । प्राकृतसाहित्ये देशियभाषासाहित्य्क्वचिच्च देवभाषायामपीदृशीनां गीतीनां सन्दर्भणेन ललिता काव्यस्श्रीइरजायतेति सुधियां नातिरोहितम् ॥९३॥

कान्तेऽथानागेऽस्मिन्रहसि वरवधूः सापराधानुतप्ता

मोहप्राप्ता श्रिताश्रुप्रकरसरवलन्मौक्तिकस्रग्धरासौ ।

आलोक्यालीः समाना हरिविरहमहावह्निदण्डं धुनाना

लब्धाश्वासाथ ताभिः सहसमभिससाराथ यन्निःसरासौ ॥९४॥

मोहप्राप्ता मूर्च्छता अश्रुप्रकरसरवलन्मौक्तिकस्रग्धरा नयनजलधाराभिर्मौक्तिकमालारचनानुकारिणी । समानाः समानावस्था मानाभिभूताश्च । महावह्निदण्डमुन्मूककल्पम् । अयं ते बाष्पौघस्त्रुटित इव मुक्तामणिसरः इति भवभूतिपद्येऽप्येवं भणितम् ॥९४॥

कौमुद्या परिकलितं ललितं परिसृत्य मोहतोऽरण्यम् ।

विनिवृत्य कृष्णसख्यः पथ्यार्यास्ता जगुः पुण्यम् ॥९५॥

कौमुद्या शारदीयचन्द्रिकया परिकलितं व्याप्तम् । मोहतो विरहकृतमूर्च्छाजनितसंज्ञालोपात। कृण एव सखा समप्राणत्वेन श्रेष्ठो यासां ताः । पथि व्रजमार्गे । श्लोकोऽयमार्यायाः पथ्यात्वेन संज्ञितो भेदः ॥९५॥

सर्वासु वल्लवीषु नितरां विरहवाहदूनचित्तासु ।

विपुला कृष्णे करुणासीत्तद्दृग्वर्त्मनोऽयासीत॥९६॥

चपला कापि कृष्णं कटाक्षबाणैर्बिभेद बहु कोपात।

मुक्ता च सातितृष्णां हरिं परित्यज्य सन्तापात॥९७॥

काचित्स्मितं वितेने हरिं विरीक्ष्य पुरो रामा ।

मुखचपला सा मधुरं वाचमवोचद्वलत्कामा ॥९८॥

मुखचपला मुखरा । आर्याया भेदश्च मुखचपला । वलन्स्फुरं कामः प्रियसंयोगाभिलाषो यस्याः सा ॥९८॥

तद्रससरसाभाषणपूर्वं

अरीरमदुदारगुणशीला ।

पुरुषायितेऽथ विष्णोश्चकार

तोषं जघनचपला ॥९९॥

पुरुषायितरतोत्साहवती अत एव जघनचपलेयम् । तदिति हेतुनिर्देशः । रसेन प्रीत्या सरसाभाषणपूर्वं मधुरालापसहितमरीरमदिति योजना ॥९९॥

रासे हरिरिह मोहनगीतं

स जगावथ धृतिराकलिता ।

इयमथ सुधेव गीतिर्मन्मथ

बलदीपनाय बहु जाता ॥१००॥

मधुरिपुगीतरसायन

घनपानसमुल्लसच्छक्तेः ।

कामिन्यामुपगीतिस्तस्य

विनोदं दधे रक्तेः ॥१०१॥

प्रथमार्धे समस्तपदं रक्तेरित्यस्यान्तिमपदस्य विशेषणम् । कामिन्यां गोपीसामान्ये विषये जातावेकवचनम् । उपगीतिः पूर्वगीतेरुपरि उप समीपेऽव्यवहितोऽन्तरकाले श्रीकृष्णविहितातिरिक्ता गीतिरिति यावत। उच्चैर्गीतेतीयमुद्गीतिरपि यथानन्तरे पद्ये ॥१०१॥

उद्गीतिं बत विष्णोः श्रुत्वा देवाङ्गना मुग्धाः ।

रासक्रीडादर्शनमनोरथादिह समागता मुग्धाः ॥१०२॥

उच्चैरुच्चरितां कृष्णप्रशस्तिं श्रुत्वा मुग्धा मोहिता, अथ च मुग्धा मध्याप्रलम्भयोर्विलक्षणा देवाङ्गनाः ॥१०२॥

अथ रासे रसमस्य त्रिदशेशो दिवि निरीक्ष्य विलसन्तीभिः ।

सुरभिकुसुमनिकरेण तमतोषयत्सुरवधूपहार्यगीतिः ॥१०३॥

इति विजहार हरी रमणीभिर्

वरतरुणीमूर्धमणीभिः ।

मदनसमुद्धतयेऽतरुणीभिः

प्रवरकरीव समं करिणीभिः ॥१०४॥

मणिशब्दोऽस्त्रियामिति कोपः । तेन स्त्रियां कृदिकारादुक्तिन इति गणसूत्राद्वैवक्षिकं दीर्घत्वं यथा, मनोहरमणीरमणीयमुच्चैरिति नैषधे । वरतरुणीलणमूर्धमभिमिरित्यसङ्गतः पाठः ॥१०४॥

अथ सलिले विहर्तुमनोभिर्

युवतीभिरिष्टसरित्सुमनोभिः ।

समममुना यमुनावजगाहे

विहतविषास्त महाभुजगाहे ॥१०५॥

इष्टा सरित्यमुना । तत्र पुष्पाभेदेन रूपिता युवतयः । महाभुजस्याजानुलम्बितभुजस्य महापुरुषस्य श्रीकृष्णस्य गाहे जलावगाहनेनेति यावत। वैवक्षिकी विभक्तिरिति सप्तमी सोढव्या । एतावत्पर्यन्तमार्यागीतिच्छन्दः ॥१०५॥

अमलकलिन्दसुताजलपूरे

लसति वधूषु हरौ रतिपूरे ।

नभसि शशिन्युरुसंसदि शोभा

क्षितिवियती समपूरि दिशो भा ॥१०६॥

क्षितिवियती आकाशे तथा व्रजविपिने च दिशो भा दिशो दीप्तिः समपूरि सम्पूर्णासीत। अत्रानन्तरे च पद्ये शोभेति वृत्तसंज्ञा—ललितपदेत्यन्यत्र नाम । ललितपदा भरतस्य नजौ ज्यौ इति जयकीर्तिः । क्षितिवियती इत्यत्रात्यन्तसंयोगे द्वितीया ॥१०६॥

तरलतरङ्गभुजा यमुनाथा

विरतरतोत्कतया हरिनाथा ।

अतिसरसस्फुटकैरवहास्या

हरिरुपमा बहुमानवहास्याः ॥१०७॥

उपमा उपमास्थलमुपमानम् ॥१०७॥

आलिङ्गितास्तैर्यमुनातरङ्गैः

कृताच्युतालिङ्गनजातरङ्गैः ।

सस्नेहमेताः स्तिमिताः समानी

कृता नहीर्ष्याभ्यभवत्तदानीम् ॥१०८॥

ईर्ष्या तदानीं नाभ्यभवदित्यन्वयः ॥१०८॥

वरमम्बरमम्बरभावमितं

स्तिमितं स्तनयोर्नवभावमितम् ।

रुचिरं रुचिरञ्जनसंवलिता

प्रतिबिम्बनया सरसं वलिता ॥१०९॥

रुचिरं रुचिरस्ततीति माःपाठः । स्तनयोर्नवभावमितमपूर्वदीप्त्योद्भासितं रुचिरं स्तिमितं स्थिरमम्बरमाकाशमम्बरभावं वस्त्रतामितं नीलत्वात। रुच्या रञ्जनेन रागेण च तरङ्गरूपेण संवलिता । अन्यकर्तृकोऽभिलाषो रुचिः स्वहृदयवृत्ती रस इवि विवेकः ॥१०९॥

कलिन्दजायां जलकेलिकाले

नभोविलम्ब्यम्बुदबिन्दुजाले ।

मुक्तावलीभूषितचारुकाया

द्यौरेव किं केलिविलोकिकायात॥११०॥

विलोलमायादिति माःपाठः । केलिविलोलं शृङ्गारं किं द्यौरायात्सङ्गतवतीति वितर्कः । केलिविलोकिकेति क्रीडाविलोकनावश्यकव्यापारवतीत्यर्थे । अयमेव साधीयान्पाठः ॥११०॥

कालिन्द्यपःकान्तिसमानकाय

कान्तिं हरिं तत्र विनिश्चिकाय ।

गोपीगणं पङ्कजतुल्यनेत्र

विलासचिह्नैर्जलखेलनेऽत्र ॥१११॥

कालिन्द्यपसां कान्तिः । अपःपदं जलपर्यायम् । आपः अप इति द्विरूपकोषे । दैके आपः कर्माख्यायामिति ह्रस्वो नुट्च । उदकेनुभ्भौ च इत्युणादिसूत्रेण । चकारात्क्वचिन्न इति आप्धातोः असुन्प्रत्ययः । यमुनाजलानां कान्त्या समाना कायकान्तिर्देहद्युतिर्यस्य तं हरिम् ॥१११॥

दिनकरतनयातिनिर्मलाम्भः

प्रकरमनु प्रतिबिम्बिताः स्त्रियस्ताः ।

हरिपरिचरणाय चारुकाय

प्रचयमिवादधिरे तपःप्रशस्ताः ॥११२॥

जलखेलनं जलकेलिः तच्च शृङ्गाराङ्गेन सर्गबन्धेषु प्रायशो वर्णितम् । नेत्रविलासचिह्नैः कटाक्षयातरूपैर्लिङ्गैः । इत्थम्भूतलक्षणे तृतीया । किं तावत्सरसि सरोजमेतदाराद्[शि.व. ८.२९] इत्यादिमाघपद्यमुपजीव्य रचितोऽयं श्लोकः । तत्र श्लोके विव्वोकैर्विलासैरित्यर्थ इति वल्लुभमल्लिनाथयोर्व्याख्यानम् । उभयत्र निश्चयान्तसन्देहोऽलङ्कारः ॥११२॥

कृष्णातिकेलिकलनात्प्रमदासु तासु

शीत्कारकम्पपुलकादिसमन्वितासु ।

कृष्णातिकेलिकलनात्पुनरुक्तिमाप

शीत्कारकम्पपुलकान्नु लिहानमापः ॥११३॥

कृष्णेन सहैशायितक्रीडासम्पादनात्तासु प्रमदासु गोपीषु शीत्काररूपसात्त्विकभावसमन्वितासु कृष्णा यमुना शीत्कारादीन्स्वाङ्गे धारयन्ती पुनरुक्तिमाप । कृष्णा यमुनार्थात्तद्द्वारि पुनः शीत्कारकम्पपुलकान्लिहानमास्वादयत्समन्तात्पुनरुक्तिमाप वाचालतां प्राप अत्युच्छलितमभूदित्यर्थः । नु वितर्के । अतिकेलिकलनादुद्दामक्रीडावशात्पुनरुक्तिं कृष्णतरत्वं कृष्णप्रेयस्त्वं चेति मिषात्प्रौढोक्तिः । भ्रमराः कृष्णवर्णः । कृष्णोऽपि तथा । तेन कृष्णवर्णस्य बाहुल्यं जातम् । अति के अत्यर्थं जलेऽलिकलनात्नारीणां देहसौरभाकृष्टानां भ्रमराणां वेष्टनात। तथा च भागवते—

ततश्च कृष्णोपवने जलस्थल

प्रसूनगन्धानिलजुष्टदिक्तटे ।

चचार भृङ्गप्रमदागणावृतो

यथा मदच्युद्द्विरदः करेणुभिः ॥ [भा.पु. १०.३३.२५] इति ॥११३॥

अथ करतलताडनेन नाना

जलमयतुङ्गकुचा विराजमाना ।

बलहघनरसाञ्जना स्वदेव

प्रियसरिदौज्झिवधूभिरीर्ष्ययेव ॥११४॥

स्वदेवप्रियसरित्कृष्णप्रिया नदी यमुनापि कृष्णेनोपभुक्तेत्यालोक्य तस्या कृष्णनायिकाभावमुपलभ्य गोप्योऽसहिष्णुतया तां तदा जहौ इति प्रौढिः । बलहघनरसाञ्जना प्रचुरघनरसेन चन्दनसान्द्रनिर्यासेन अञ्जनमभ्यङ्गतया सम्यक्म्रक्षणं यस्याः सा । पुंलिङ्गः स्याद्घनरसः सान्द्रनिर्यासनीरयोः इति रभसः ॥११४॥

दुःखितासु तरुणीषु मुरारिर्स्

तूर्णमेव विजहार परारि ।

तद्गुणैः स हि सदैव विकृष्टः

सत्कृतानुगमनेऽभिनिविष्टः ॥११५॥

परारि पूर्वतरस्मिन्वर्षे । कात्यायनीव्रतं पूर्वतरे वर्षे हेमन्ते मासि याभिश्चरितं ताभिरत्र रासेऽपि मेलनं जातम् । याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः [भा.पु. १०.२२.२७] इति निर्देशात। पुराणप्रवीणस्य कवेर्नेदमयथार्थं कालकल्पनम् ॥११५॥

पृथ्वीजलानलसमीरनभःसमानः

स्वात्मावबोधधुतकारकताभिमानः ।

गोपाङ्गनाकृततपःप्रचयप्रयुक्तः

केईश्चकार हरिरेष तु नित्यमुक्तः ॥११६॥

सत्कृतः सत्कारः परिचर्येति यावत। तस्यानुगमने तद्विधानेऽभिनिविष्टोऽवहितः ॥११६॥

क्रीडामध्ये नवघनरुचिस्तीक्ष्णशृङ्गी नतास्यः

कृष्णं हन्तुं दितिजवृषभो धृष्ट आयादरिष्टः ।

शृङ्गं धृत्वा स्तिमितपटवत्कण्ठमापीड्य तस्य

श्रीकृष्णस्तं मुररिपुररं हेलयैवावधिष्ट ॥११७॥

पृथ्वीत्यादि पञ्चभूतात्मक इति यावत्क्रीडनेनेह देहभाक्[भा.पु. १०.३३.३५] इति भागवते । अथ च स्वात्मेति सम्यक्निर्लेपो नित्यमुक्तत्वात। गोपाङ्गनेति रासविलासप्रकरणे हेतुगर्भं विशेषणं हरेर्भगवतः । गोप्यस्तु रसिकमण्डलशेखरेण श्रीकृष्णेन रसविधाववतारिताः स्वांशभूता इति भक्तानां रहस्योद्घोषणं—क्रीडितं तत्लोकानुग्रहहेतोः केवलमवनौ प्रकाशमायातमिति वैष्णवाग्रगण्याः कविरसिकाः ॥११७॥

इति हरिचरिताख्ये नव्यसत्काव्यमुख्ये

प्रसरदमृतघोरे वर्णितेशावतारे ।

कृतकलुषनिरासे तुष्टबालाविलासे

दशम उरुविशेषश्छन्दसां सर्ग एषः ॥११८॥

दितिजवृषभो दैत्यप्रधानोऽरिष्टासुरः । अरिष्टो वृषभासुरः इति भागवतवर्णनात। वृषाकृतिरसाविति पौराणिकाः । अरमलम् । अरमिति हेलयैवेत्यन्तर्भूतवधक्रियाया विशेषणम् ॥११८॥

]