यशस्तिलकम् (पूर्वखाण्डम्)

[[यशस्तिलकम् (पूर्वखाण्डम्) Source: EB]]

[

[TABLE]

[TABLE]

काव्यमाला।

<MISSING_FIG href="../books_images/U-IMG-1734541146यशस्तिलकम्4-removebg-preview.png"/>

श्री सोमदेवसूरिविरचिते

यशस्तिलकचम्पूकाब्यम्।

श्रीश्रुतसागरसूरिकृतया चन्द्रिकाख्यया व्याख्यया समेतम्‌।

प्रथम आश्वासः।

__________

श्रियं कुवलयानन्दप्रसादितमहोदयः।
देवश्चन्द्रप्रभःपुष्पाज्जगन्मानसवासिनीम्॥१॥

श्रियं दिश्यात्स वः श्रीमान्यस्यसंदर्शनादपि।
भवेत्त्रैलोक्यलक्ष्मीणां जन्तुः कन्तु निकेतनम्‌॥२॥

_______________________________________________

विद्यानन्दिनिमानन्दप्रंद सोमप्रभं जिनम्‌।
प्रणम्य संप्रवक्ष्यामि यशस्तिलकचन्द्रिकाम्॥

** श्रियमिति।** चन्द्रप्रभो देवः श्रियं पुष्यात्‌ लक्ष्मीं करोतु। कर्थभूतश्चन्द्रप्रभोः! कुवलयानन्दप्रसादितमहोदयः कुवलयं पृथ्वीमण्डलं तस्य आनन्दाय प्रसादितः xन्नीकृतः महान्‌ अस्तमयरहित उदयो येन स तथोक्तः। कथंभूतां श्रियम्‌। जग न्मानसदासिनीम्‌ जगदेव मानसं जगन्मानसंतत्र बसतीत्येबंशीला जगन्मानसदासिनी तां तथोक्तम्। उपमालंकारः॥ १॥

** श्रियमिति।**स चन्द्रप्रभो देवो वो युष्पभ्यंश्रियमभ्युदयनिःश्रेयसलक्षणोप-

श्रिय॑ देयात्स वः कामं यसोन्मीलति केवले।
त्रैलोक्यमुत्सवोदारं पुरमेकमिवाभवत्‌॥३॥

यस्याङ्घ्रिनखनक्षत्रविजृम्भाय नभस्यते।
नमज्जगत्त्रयीपालकुन्तलाभोगडम्बरः॥४॥

बालारुणायते यस्य पादद्वितयमण्डलम्‌।
प्रह्वत्रिविष्टपाधीशकिरीटोदयकोटिषु॥५॥

नखोज्जृम्भकराभोगकेसरं यतक्रमद्वयम्‌।
नम्रामरवधूनेत्रदीर्घिकाखम्बुजायते॥६॥

यत्पदस्मृतिसंभाराद्भुवनत्रयनायकाः।
वाङ्मनोदैवसिद्धीना सिद्धादेशादिवेशते॥७॥

___________________________________________

श्रियमिति। भगवान्‌ चन्द्रप्रभो देव वो युष्मभ्य श्रियमभ्युदयोदय[स]लक्षxxपलक्षिता लक्ष्मी देयात्‌ ददातु। कथम्‌। काम यथेष्ट तृप्तिपर्यन्तम्। स कः। यत्तदेxत्यसबन्धात्‌ यस्य भगवतश्चन्द्रप्रभस्य केवले केवलज्ञाने उन्मीलति प्रादुभंवति।लोक्यमेकं पुरमिवैकनगरमिवाभवत्‌ बभूव। एकत्र मिलितमित्यर्थ, ! कथंभूतं xक्यम्‌। उत्सवोदारमुत्सवेन महोत्सवेन उदारमतिमनोहरमतिशयेन चित्तरजकम्‌॥

यस्येत्यादि पञ्चभि श्लोके कुलकम्‌। तत्रान्त्यश्लोके तस्मै जिनेन्द्राय पुर्ननम इति क्रियाकारकसंबन्ध। यस्य जिनेन्द्रस्य अङ्घ्रिनखनक्षत्रविजृम्भाय xxगत्त्रयीपालकुन्तलाभोगडम्बरो’ नभस्यते अङ्घ्रिनखा एव नक्षत्राणि अतिनिर्मलत्व xxतेषां विजृम्भाय प्रसृत्यै प्रसरणाय नमन्तो नम्रीभवन्तो ये जगत्त्रयीपाला धरणेन्द्रनरेन्द्रेन्द्रादयस्तेषा कुन्तलाभोगडम्बर. कुन्तलविस्ताराटोपौ नभस्यते नम इवाचर;चमत्करोति॥४॥

बालेति। गौडीया रीति। यस्य भगवतो जिनेन्द्रस्यपादद्वितयमण्डलंxxx युगलबिम्बंकर्तृभूतं प्रह्वत्रिविष्टपाधीशकिरीटोदयकीटिषु बालारुणायते प्रह्वानम्रीभूxxx ये जगत्त्रयविष्टपाधीदास्तेषां किरीटानि मुकुटानि तान्येव उदय उदयाचलस्तस्यxxxटिष अग्रेषु बालारुणायते बालभास्कर इवाचरति। उपमालकारः॥५॥

नखेति। अम्बुजमिवाचरति। नम्राप्रह्वीभूताः या अमरवध्वःशचीप्रभृत मूल्यxxx दीर्घिका जलभूतवापिका।, तासतथोक्तास्तासु। कथंभूतं

तस्मैसत्कीर्तिपूर्ताय विश्वदृश्चैकमूर्तये।
नमः शमसमुद्राय जिनेन्द्राय पुनः पुनः॥८॥

भूर्भुव स्वस्त्रयं यत्र वेला चलकुलायते।
अपाराय नमस्तस्मैजिनबोधपयोधये॥९॥

मतेः सूतेर्बीजं सृजति मनसश्चक्षुरपरं
यदाश्रित्यात्मायं भवति निखिलज्ञेय विषयः।

विवर्तैरत्यन्तैर्भरितभुवनाभोगविभवैः।
स्फुरत्तत्व॑ ज्योतिस्तदिह जयतादक्षरमयम्‌॥१०॥

_________________________________________________

xx

न्तनं तस्या" सभार* प्राचुय सं तथोक्तस्तस्मात्‌। भुवनत्रयनायका धरणेन्द्रनरेन्द्रदxvx

-बेन्द्रा वाङ्मनोदैवसिद्धीनाम्‌। सिद्धिशब्द प्रत्येकमभिसबध्यते। तेनायमर्थ—वाxx

क्सिद्धिर्मनःसिद्धि दैवसिद्धिस्तामा तथोक्ताना ईशते स्वामिनो भवन्ति। कस्मात्‌। उत्प्रेक्षते—सिद्धादेशादिव। अयमर्थ एवं भवति। नैमित्तिकं वचनं सिद्धादेश उच्यते तस्मा+दिवे। इत्यनेन नीतिशास्त्रोक्तं सिद्धित्रयं भवंति। उत्प्रेक्षालंकार उपमालंकारों वा॥७॥

**तस्माइति ।**तस्मै त्रिभुननप्रसिद्धाय जिनेन्द्राय जिनानां गणधरदेवादीनामिन्द्रःस्वामी जिनेन्द्रसस्म जिनेन्द्रस्तस्मैपुनः पुनर्वारंवारं नमोनमस्कारोऽस्तु। कथंभूताय तस्मै। सत्कीर्तिपूर्ताय सती अबाधिता या कीर्तिः पुण्यगुणानुकीर्तन तया पूर्त, परिपूर्णःसं तथोक्तस्तस्मै। पुनः कर्यभूत’य तस्मै। विश्वदृश्वैकमूर्तये विश्वदृश्वनी एका अद्वितीया केवलज्ञानलक्षणा मूर्तिः स्वरूपं यस्य स तथोक्तस्तस्मै। पुनः कथंभूताय।शमस्य उत्तमक्षमाया कर्मक्षमस्यवा समुद्रः तथोक्तस्तस्मै। अतिशयालंकार॥८॥

अपि च इदानीं केवलज्ञानं स्तूयते—भूर्भुवइत्यादि। तस्मै जिनबोधपयोधये नम"। जिनबोध’ केवलज्ञान स एवं पयोधिः समुद्रःअपर्यन्तत्वात्‌ गुणरत्नसभूतत्वा+सतथोक्तस्तस्मै।कस्मै यस्मिन्‌ केवलनिबोधपयोधौभूर्भुवस्वस्त्रय॑ भूः पृथ्वीलोक’ भुव अधोलोक स्व ऊर्ध्वलोकस्तेषां त्रयं भूर्भुव स्वस्त्रय॑ वेलाचलकुलायते बेलाचलाः समुद्रविकृतिताऽनपर्वतास्तेषां कुलसमूहो वेलाचलकुलंवेलाचलकुलमिवाचरति वेलाचलकुलमते। कथंभूताय जिनबोधपयोधये।अपाराय लोकालोक व्यापकत्वात्पर्यन्तरहिताय। उपमालकारः। रूपकालकारः॥९॥

अपिच इदानीं श्रुतज्ञानं स्तूयते—**मतेरित्यादि।**तद्गणधरदेवादीनां श्रुतकेव-

सर्वज्ञकल्पैःकविभिः पुरातनैरवीक्षितं वस्तु किमसि संप्रति।
ऐदंयुगीनस्तु कुशाग्रधीरपि प्रवक्ति यत्तत्सदृशंस विस्मयः॥११॥

कृतीः परेषामविलोकमानस्तदुक्तिवक्तापि कविर्न हीनः।
कृतेक्षणो राजपथेन सम्यक्प्रयानिव प्रस्युत विस्मयाय॥१२॥

कृत्वा कृतीः पूर्वकृताः पुरस्तात्प्रत्यादरं ताः पुनरीक्षमाणः।
तथैव जल्पेदथ योऽन्यथा वा स काव्यचोरोऽस्तुस पातकी च॥१३॥

_____________

सर्वोत्कर्षेण वर्तताम्‌। तस्मे अस्माकं नमस्फार इत्यर्थं। तत्किम्‌। यत्‌ श्रुतज्ञानमक्षरमयं ज्यो तिर्ज्ञानमाश्रित्य सेवित्वा ग्रन्थतोऽर्थतश्च आश्रित्य अनुशील्य पुनः. पुनरभ्यस्य अय! योगिना प्रत्यक्ष आत्मा जीवो मनस आत्मनः अपरमद्वितीय चश्चुर्लोचनं सृजति। अयमात्मा (कितु) निखिलज्ञेयविषयश्च भवति लोकालोकस्वरूपज्ञापको’ भवति। अपर कथमभूत अक्षरमयं ज्योतिः। स्फुरत्ततवं स्फुरन्ति चमत्कुर्वन्ति तत्वानि जीवादिद्रव्याणि यस्मिन्‌ ज्योतिषि तत्तथोक्तम्‌। कै कृत्वा स्फुरतत्वम्‌। विवर्तैर्नरकादिपर्यायैः। कथंभूतैविंवर्तेै। अत्यन्तै पर्यन्तरहितै। नतैरिदर्थः। अपर कथंभूतर्विवर्तैः। भरितः पूरित सपूरित भुवनस्य त्रैलोक्यस्स आभोगविभवो विस्तारविभवस्वरूपो यैस्तेभरितभुव-नाभोगविभवास्तैसथोक्तै। द्रव्याणा पर्यायाणा च स्वरूपकमित्यर्थः। जात्यलंकार ।अतिशयालकार॥ १०॥

** सर्वक्षकल्पैरित्यादि।** पुरातनैःकविभि चिरंतनाचार्थै गौतमस्वामिसमन्तभद्राकलङ्कदेव विद्यानन्दिभिश्चिरतनाचार्यै अवीक्षितं वस्तु अनवलोकित वस्तु अविज्ञात पदार्थं किमसि। अपि तु न किमप्यस्ति। कथंभूतैः पुरातनैः कविभिः। सर्वक्षकल्पै सर्वक्षादीषदपरिसमाप्तैः सर्वज्ञसमानैरित्यर्थ। ईषदसमाप्तौकल्पब्देश्यदेशीयरः” इति वचनात्‌। ऐदंयुगीनस्वु कविःअस्मिन्‌ युगे भव. ऐदंयुगीनः दुःखमयकालोत्पन्नः सम्प्रति कलौकाले कुशाग्रधीरपि कुशाग्रवत दर्भाग्रवत् तीक्ष्णा भीर्वुद्धियस्पेति स तथोक्तःअतिसूक्ष्मबुद्धिःयत्तत्सदृशं प्रवक्ति चिरंतनाचार्यसदृशंब्रूते काब्ये कावतेस विस्मय आश्चर्य वर्तते। आक्षेपारुंकारः॥ ११॥

** कृतीरित्यादि।** परेषामपरकवीनां कृतीः काब्यानि अविलोकमनोऽनिरीक्षमाणःसन्‌ तदुक्तिवक्ता अपि चिरतनाचार्यकाव्यार्थबक्ता कविर्हानि न भवति, किंतूत्कृष्टएव भवति। कृतेक्षण उत्पादितचक्षुः पुमान्‌ राजपथेन। कारकाणां विवक्षितत्वादाधारेऽपि तृतीया। राजमार्गेण सम्यक्‌ अस्खलिततया प्रयानिव गच्छन्‌। इवशब्दःपादपूरणार्थः। प्रत्युत विशेषेण बिस्मयाय आश्चर्यार्थं भवति। आक्षेपालंकारः॥ १२॥

** कृत्वेत्यादि।** स कवि काव्यचोरोऽस्तु भवतु। न केवलं काव्यचोर, भ कविः पापवाश्च भवतु ।सकः।यः. कवि पूर्वकविकृताश्चिरंतनानxxx

निष्पादिताः कवी+

असहायमनादर्शंरत्नं रत्नाकरादिव।
मत्तःकाव्यमिदं जातं सतां हृदयमण्डनम्‌॥ १४॥

उक्तयः कविताकान्ताः सूक्तयोऽवसरोचिता।
युक्तयः सर्वशास्त्रान्तास्तस्य यस्यात्र कौतुकम्‌॥ १५॥

किचित्काव्यं श्रवणसुभगं बर्णनोदीर्णवर्ण
किंचिद्वाच्योचितपरिचयं हृच्चमत्कारकारि।

अत्रासूयेत्कइह सुकृती कि तु युक्तं तदक्तं
यद्व्युत्पत्त्यैसकलविषये स्वस्य चान्यस्य च स्यात्‌॥ १६॥

काव्यानि पुरस्तादग्रतः कृत्वा पश्चात्‌ प्रत्यादरपूर्वक यथा भवन्त्येवं ताः। पुनर्वारकर- xक्षमाणोऽवलोकमान सन्‌ तथैव जल्पेत्‌ अन्यथा वा जल्पेत्‌ जल्पति स्वयति। उपमालंकारः॥ १३॥

** असहायमित्यादि।** इद काव्यं यदस्तिलकनामधेयं काव्यं यशोधरमहाxजनामधेयचरितं च मत्तः श्रीसोमदेवाचायोज्जातमुत्पन्नम्‌। कथंभूतमिदं काxयम्‌। असहायमद्वितीय सहायरहितं च। अपरं कथभूतमिदं काव्यम्‌। अनादर्शंपनिबन्धसामग्र्यनपेक्षकम्‌। अपरं कथभूतम्‌। सता विद्वज्जनाना हृदयमण्डनंहृदxस्थलविभूषणप्रायम्‌। कस्मात्किमिव। रत्नाकरात्‌ समुद्रात्‌ रत्नखनेश्चरत्नमिव माणि+क्यमिव। उपमालंकारः॥ १४॥

** उक्तय इत्यादि।** अत्रास्मिन्‌. काव्ये यस्य पुरुषस्य कौतुकं विनोदो वर्तते तस्यपुरुषस्य उक्तयः काव्यकरणे नवीनार्थोद्धावना भवन्ति। कथंभूताः उक्तयः। कविताकान्ताः तवीनकाव्यकरणे मनोहराः। तथा—अवसरोचिताः प्रस्तावयोज्याः सूक्तयः.सुभाषितानि भवन्ति। तथा—सर्वशास्त्रन्ता अवसानपर्यन्ताः सर्वशास्त्रसंबन्धिन्यx तर्कव्याकरणच्छलंकारसिद्धान्तसयादिद्यादयस्तद्युक्तयो विचारणीयाश्च भवन्ति। अस्यशास्त्रस्य फलसूचनप्रायोऽ- तिशयालंकारः॥ १५॥

** किंचिदित्यादि।** किंचिद्विवक्षितं वक्तुमिष्टं कान्य वर्णनोदीर्णवर्णंसद्वर्णनया उकटा वर्णाअक्षराणि यस्मिन्‌ वाक्ये तत्तथोक्तम्‌। श्रवणसुभगंकर्णामृतप्रायं शब्दडम्बत्वात्. कर्णसुखदंभवति। किंचिदपरं काव्यं वाच्योचितपरिचयं सदर्थबहुलतया चमत्कारकारि भवति सतां प्रीविकरंभवति। अर्थबहुलत्वात्‌। अस्मिञ्शब्दडम्बरसहितेकाव्ये इह अस्मिन्‌ संसारे को विद्वान्‌ अत्रासूयेत कोपं कुर्यात्‌। अपि तु न कश्चिदित्यर्थः। क्रोधात्‌. असूयेत्‌ कोपं कुर्यात्‌। शब्दाडम्बरकाव्यकोपः कर्तुं न युज्यते।किन्तु विशेषमाह—[ तत्र ] उक्तंकाव्यं युक्तं तत्‌. काव्यं स्वस्य चान्यस्य सकल बियय इहxxx

अत्राप्याक्षेपालंकारः॥ १६॥

आजन्मसमभ्यस्ताच्छुष्कात्तर्कात्तृणादिव ममास्या।
मतिसुरभेरभवरदिदंसूक्तिपयः सुकृतिनां पुण्यैः॥१७॥

वाच एवविशिष्टानामनन्यसमवृत्तयः।
स्वस्मातिशायिनं हेतुमाहुः कान्ता लता इव॥१८॥

वागर्थःकविसामर्थ्यं त्रयं तत्र द्वयं समम्‌।
सर्वेषामेव वक्तृृणां तृतीयं भिन्नशक्तिकम्‌॥१९॥

लोको युक्तिः क्लश्छन्दोऽलंकाराःसमयागमाः।
सर्वसाधारणाः सद्भिस्तीर्थमार्गइव स्मृताः॥२०॥

______________

आजन्मस्तमभ्यस्तादित्यादि। मम सोमदेवसूरे. सबन्धिन्या अस्या प्रय क्षीभुताया सकाशात्‌ मतिसुरभर्बुद्धिधेनुकाया इद प्रत्यक्षीभूतं सूक्तिपयः यशस्तिलक काव्यक्षीर सुकृतिना बिद्वज्जनाना पुण्यैकला अभवत्‌। मतिसुरभेः सूक्तिपयः काव्य क्षीरमपि कस्मादभवत्‌। आजन्मसमभ्यस्तात्‌ जन्मपर्यन्तमास्वादितात्तर्कात प्रमाणशास्त्रात्‌ तृणादिव घासचर्वणादिव। सूक्तिक्षीर बभूवेत्यर्थः। उपामारूपकालंकारादरसकरालंकार इत्यर्थः॥ १५॥

** वाच इत्यादि।** विशिष्टाना वाच एवं वाण्य एवं स्वस्य आत्मनः अतिशायिन अति शयवन्त हेतुं वक्तारमाहुर्बुवन्ति। कथभूता वाचः। अनन्यसमबृतयः न अन्यसम अपरकविसदृशी वृत्ति. प्रवृत्तिर्यासा ता. तथोक्ता.। पुनःकथंभूता वाचः। कान्ता अतिमनोहरा अतिप्रौढिमथुक्ताः। अपरं कथंभूताः। उतप्रेक्षिता लता इव मस्य वृक्षस्य ईदृश्योलताःशाखा वर्तते स वृक्षों महान् भविष्यतीति। अनुमानालंकारः॥ १८॥

** बागित्यादि।** काव्यकरणे काव्यरचनाया तावत्‌ वाक्‌ स्माद्यन्तश्च शब्दो विलोक्यते। अपरं अर्थो वाच्यं च विलोक्यते तत्रकविसामर्थ्यंद्विविधम्‌। तथा चो क्तम्‌—“संस्कारोत्थं स्वभावोत्थं साम्यर्थ्यद्विविध कवेः। तत्र शास्त्राश्रमं पूर्वमन्यदात्मोत्थसंश्रयम्‌॥* एतत्त्रयं काव्यरचनाया साम्यग्र्यंविलोक्यते। तत्र त्रिषु सामग्र्येषु मध्येद्वयं शब्दार्थलक्षणं सामग्र्यं सर्वेषामेव बक्तृृणां कवीना समं साधारण बर्तते। यतः सर्वेऽपि कवय सयाद्यन्तत्याद्यन्तशब्दवन्तो भवन्ति। स्वस्वसिद्धान्तासुरेण अर्थ वाच्यं जानन्ति ।परं तृतीयं कविसामर्थ्यलक्षणं सामग्र्यं भिन्नशक्तिकम्। अतिशयालंकारः॥ १९॥

** लोक इत्यादि।**लोको व्याकरणशास्त्रम्, युक्तिः प्रमाणशास्त्रम्‌,कला लिखितम् पठितादिशब्दा. सप्ततिसंख्याः, छन्द मात्रावर्णभेदेन द्विविधम्‌, अलंकारा शब्दालंकारा अर्थालंकाराश्च, समयागमा. जिनजैमिनिकपिलकणचर्वाक- शक्यानां सिद्धान्ताः सर्वसाधारणा. सद्भिः स्मृता कथिता. प्रतिपादिता क इव। तीर्थमार्ग इवभवा

अवक्तापि स्वयं लोकः कामं काव्यपरीक्षकः।
रसपाकानभिज्ञोऽपि भोक्ता वेत्तिःनकिं रसम्‌॥२९॥

वृथा वक्तुःश्रमः सर्वो निर्विचारे नरेश्वरे।
प्राज्यभोज्यविधिः कः स्यात्तृणस्वादिनि देहिनि॥३०॥

यः पार्थिवत्वसामान्यान्माणिक्याश्मसमागमः।
पार्थिवः पार्थिवो नूनंवृथा तत्र कवेः श्रमः॥३१॥

अङ्गनावद्गिरोऽगण्याः प्रायेणान्यपरिग्रहात्‌।
स्वयं विचारद्रन्यो हि प्रसिद्ध्यारज्यते जनः॥३२॥

यः स्वयं कवते नैव यश्चोक्तौमूढधीश्चरः।
मरणादपि दुःखाय काव्यकीर्तिस्तयोः पुरः॥३३॥

___________


अवक्तापीत्यादि। लोक स्वंयं अवक्तापि अकविरपि काम यथेष्टं काव्यपरीxको भवति काव्यगुणदोषज्ञायकः स्यात्‌। अमुमेवार्थं आक्षेपेण द्रढदयति—रसपाकानसज्ञोऽपि शर्करापाकस्यअविज्ञायकोऽपि भोक्ता आस्वादक. पुमान्‌ कि रसं न वेत्ति। अपि तु वेत्येव।अयमुक्तिनामा आक्षेपालंकारः॥२९॥

वृथेत्यादि। निर्विचारे नरेश्वरे विचाररहिते राजनि वक्तु, कवेः सर्वोऽपि परिश्रमः किं पुनः स्तोकोऽप्यायासः] वृथा निरर्थको निष्फलो भवति। तृणस्वादिनि घासचर्विणि xहिनि पशौ प्राज्यभोज्यविधिःप्रचुरघृतभोजनविधानं कः स्यात्‌। अपि तु न कश्चिदपि प्रादित्यर्थः। अयमप्याक्षेप एव॥३०॥
** य इत्यादि।** यः पार्थिवोनरेन्द्रःपार्थिवत्वस्य सामान्यात्‌ माणिक्याश्मसमागमो भवति ननु माविशेषरहितभावात्‌। तत्र पार्थिवे राजनि कवेः कवीन्द्रस्य सर्वोऽपि काव्यरचनाप्रयासोवृथा फल्गुर्मवति अन्तर्गत स्यात्। रुपकालंकारः॥३१॥

** अङ्गनावदित्यादि**।गिरो बाच्य प्रायेण बहुलतयाअन्यपरिग्रहात् विद्वज्जनस्वा-xगरादगण्या माननीया भवन्ति एतत्‌ शास्त्रं एते बिद्वासः पठन्ति, इदं शास्त्रं विशिष्टं xxxकाव्यं मानयन्ति। किंवत्‌। अङ्गनाबत्‌। एषा स्त्री अनेन राज्ञा परिगृहीता xxx तर्हिएषा स्त्री अतीव रचिरा भविष्यतीति मन्यते।अमुमेवार्थान्तरन्यासेन xxमति—हि यस्मात्‌ कारणात्‌ जनो लोकः स्वयं आत्मना विचारशून्योऽपि प्रसिद्धाकृत्वा रज्यते रागं करोति। अर्थान्तरन्यासालंङ्कारः॥३२॥

**य इत्यादि।**पुमान्‌ स्वयं आत्मना नैव कवते न नवीनं काव्यः करोति, यश्च xxxx परकीयशास्त्रे मूढभीश्वरः व्याख्यानकर्ता नभवति, तयोद्रेमोः पुरुषयोः

अन्तःसारं भवेद्रत्नं बहिःकाचं च सुन्दरम्‌।
यथा तथा कवेः काव्यमकवेश्च विभाव्यताम्‌॥३४॥

निःसारस्य पदार्थस्यप्रायेणाडम्बरो महान्‌।
न हि स्वर्णे ध्वनिसादृक्कसे यादृक्मजायते॥ ३५॥

काव्यकथासु त एव हि कर्तव्याः साक्षिणः ससुद्रसमाः।
गुणगण1मन्तर्निदधति दोषमलंये बहिश्च कुवन्ति॥ ३६॥

आत्मस्थितेर्वस्तु विचारणीय न जातु जात्यन्तरसश्रयेण।
दुर्वर्णनिर्वर्णविधौबुधानां सुवर्णवणैस्य मुधानुबन्धः॥३७॥

___________________

पुर अग्रे काव्यकीर्ति काव्यप्रशंसनं मरणादपि दुःखाय भवति दुःखनिमित स्यात्‌। जात्यलंकार॥ ३३॥ .

अन्तःसारमित्यादि। यथा रत्नं अन्तःसारं भवेत्‌, काचंच बहिर्बाह्येसुन्दरंमनोहरं भवेत्‌, तथा यथासख्यं कवेःसुकवेरकवेश्चकुकवे, काव्यं विभाव्यताम्‌। विचार्येतामिति यावत्‌। उपमालंकार॥ ३४॥॥

** निःसारस्येदयादि।** निःसारस्य निकृष्टस्य पदार्थस्य वस्तुनः प्रायेण बेहुलतया महान्‌ गुरुतर आडम्बर आटोप. प्रजायते उत्पद्यते। स्वर्णे कनके तादृक्तादृशो ध्वनि शब्दो न प्रजायते नोत्पद्यते, यादृक्‌ ध्वनि. कंसे धातुविकृतिविशेषे प्रजायते उत्पययते। कथम्‌। हि स्फुटमिति शेषः। दृष्टान्तारुकार॥ ३५॥

** काव्यकथास्वित्यादि।** काव्यकथासु काव्यपरीक्षासु त एव पुरुषाः साक्षिणः प्रतिभुव कर्तव्या करणीयाः। ते के। ये समुद्रसमा भवन्ति महार्णवतुल्या भवन्ति।येसाक्षिणो गुणगणम्‌ औदार्यादिगुणरत्नसमूहम्‌ अन्तर्मध्ये निदधति धरन्ति, ये चसाक्षिणो दोषं कल्मषं बहिः कुर्वन्ति निष्कासयन्ति। कथम्‌। हि स्फुटमिति उपमालंकारः॥ ३६॥

** आत्मस्थितेरित्यादि।** आत्मस्थितेर्निजस्वरुपानुसारेण वस्तु काव्यदिकं विचरणीयम्‌। जातु कदाचित्‌. जात्यन्तरसंश्रयेण अपरवस्तुपरवस्त्वाश्रयेण न विचारणीयमिदत्यर्थः। न यथा तर्कशास्त्रपरीक्षाविषये व्याकरणशास्त्रपरीक्षा नकर्त॑व्या,व्याकरणशास्त्रविषये तर्कशास्त्रपरीक्षा न कर्तव्या। किं तर्हि तर्केण, तर्कस्य व्याकरणेन व्याकरणस्य काव्येन काव्यस्यपरीक्षा कर्तव्या। यथा अयं तर्कःसमीचीनोनभवति काव्याग्रतः, इदं काव्यं समीचीनं न भवति तर्कस्याग्रतः। दुर्वर्णनिर्वर्णविधौ रूप्यपरीक्षाविधाने सुवर्णवणेस्प अनुबन्धः परीक्षा बुधानां विद्वज्जनानां मुथा xxx भवति।दृष्टान्तालंकारः॥ ३७॥

गुणेषु ये दोषमनीषयान्धा दोषान्युणीकर्तुमथेशते वा।
श्रोतुं कवीनां वच्य न तेऽर्हाःसरस्वतीद्रोहिषु कोऽधिकारः॥३८॥

अयं कविर्नैष कविः किमत्र हेतुप्रयुक्तिः कृतिभिर्विधेया।
श्रोत्रं मनश्चात्र यतः समर्थं वागर्थयो रूपनिरूपणाय॥३९॥

कवितायैनमस्तस्यैयद्रसोल्लासिताश्याः।
कुर्वन्ति कवयः कीर्तिलतां लोकान्तसंश्रयाम्‌॥४०॥

निद्रां विदूरयसि शास्त्ररसं रुणत्सि
सर्वेन्द्रियार्थमसमर्थविधिं विधत्से।

चेतश्च विभ्रमयसे कविते पिशाचि
लोकस्तथापि सुकृती त्वदनुग्रहेण॥४१॥

__________________

** गुणेष्विद्यादि।** गुणेषु औदार्यसमताकान्त्यादिषु ये पुरुषाः दोषमनीषया खण्डितादिदोषबुद्ध्या अन्धाः निर्विवेकिनो भवन्ति, अथवा दोषान्‌ खण्डितव्यस्तसंबन्धादिदोषान्‌ गुणीकतु ईशते अगुणान्‌ गुणीकर्तुं समर्थाभवन्ति, ते पुरुषा कवीनां सुकवीनां वचन वाक्यं श्रोतुमाकर्णितुमर्हा योग्या न भवन्ति। युक्तोऽयमर्थ। सरस्वतीद्रोहिषु सरस्वतीं द्रुह्यन्ति ते सरस्वतीद्रोहिणस्तेषु। भारतीभजकेष्विदत्यर्थः। कोऽधिकारः। श्रोतुं न कश्चिदधिकारो नियोग इत्यर्थः ।आक्षेपालंकार॥३८॥

** अयमित्यादि।** अयं कविः सत्कविर्भवति। एष प्रत्यक्षीभूतः कविर्न भवति। कृतिभिर्विद्वद्भिः अत्र अस्मिन्‌ काव्यशास्त्रे हेतुप्रयुक्तिर्हेतुप्रयोगो विचारों विधेया किम्‌। अपि हु न विधेयेत्यर्थः। यतः यस्मात् कारणात् वागर्थयोः रूपनिरूपणाय स्वरूपविज्ञानाय श्रोत्रं श्रुतिमनश्चित्तं च समर्थंवर्तते। यथासंख्यालंकारः॥३९॥

** कवितायै इत्यादि** तयै जगत्प्रसिद्धायै कवितायै नमः नमस्कारो भवतु। कस्यै। यद्रसोल्लासिताशयाःकवयः यस्याः. कविताया रसोऽनुरागः यद्रस" यद्रसेनउल्लासितो बृद्धिं प्रापितः आशयश्चित्तंयेषां तथोक्ता’ यदनुरागवर्धितचित्ताःकवयः विद्वांसःकीर्तिलतां कीर्तिरेव लता वल्ली स्वर्गादिफलदायिका कीर्तीलतातां कीर्तिलतां लोकान्तसंश्रयां त्रैलोक्यपर्यन्तव्यापिनी कुर्वन्ति विदधति। अतिशयवद्रूपकालंकारत्वात् संकरोपमालंकारः॥४०॥

**निद्रामित्यादि।**है कविते हे पिशाचि है व्यन्तरि, त्वं निद्रा विदूरयसि स्वप्नं विनाशयसि। शास्त्ररसं रुणत्सि प्रतिबन्धिका भवसि। सर्वेन्द्रियार्थे स्पर्शनरसनघ्राणचक्षु श्रोत्राणामिन्द्रियाणामर्थं स्पर्शरसरूपगन्धशब्दादिकं असमर्थविधिं निर्बलविधानं विवत्सेकरोषि! तथा चेतश्च समो विभ्रमयसे भ्रान्तिमुत्पादयसि। एावद्दोषवती भवती त्वं वर्तसे। तथापि लोकः त्वदनुग्रहेण त्वत्प्रसादेन सुकृती पुण्यवान् भवतीति ) विषमालकारों निद्रास्तुतिर्वा॥४१ ॥

कृतमतिविस्तरेण।

अस्तिखल्विहैव सकलाश्चर्यैकपात्रे भरतक्षेत्रे चतुर्वर्गमार्गणोपकरणप्रसूतः समस्तप्रश्स्तमहीवलया- लंकरणभूतः सुरलोकमनोरथाबिधेयो यौधेयो नाम धाम संपदो जनपदः।

यत्र महानृपतय इव गोमण्डलवन्तः, चक्रवर्तिश्रिय इवमहिषीसमाकुलाः, भरतप्रयोगा इव सगन्धर्वाः, सुगतागमा इवाविकल्पप्रधानाः का-

________________


कृतमतिविस्तरेणेत्यादि। अतिविस्तरेण कृतं पूर्णं अतिवर्णनयालम्‌॥ खलुनिश्चयेन इहैव भरतक्षेत्र जम्बूद्वीपसबन्धिनि भरतक्षेत्रे न तु धातकीखण्डपुष्करार्धसबन्धिनि। यौधेयो नाम जनपदोऽस्ति विद्यते। कर्थभूते भरतक्षेत्रे। सकलाश्चर्येकपात्रे यथोक्तविशेषणविशिष्टे सकलानि समग्राणि आश्चर्याणि केवलज्ञानोतपत्त्यादिकुतूहलानि तेषा एकमद्वितीय पात्रं तत्. तथोक्तम्‌ तस्मिन्‌॥ कथंभूतोयौधेयो नाम देशः। चतुर्वर्गमार्गणोपकरणप्रसूत’ चात्वारश्च ते वर्गाश्चधर्मार्थकाममोक्षलक्षणास्तेषा मार्गणोपकरणानि जिनग्रासादजिनप्रतिमादीनि तेषां प्रसूतं उत्पत्तियेत्र स तथोक्तः। अपरं कथभूतो योधेयो नाम देश। समस्तप्रशस्तमहीवलयालंकरणभूतःसमस्तानि परिपूर्णानि प्रशस्तानि प्रशंसनीयानि महीवलयानि पृथ्वीमण्डलानि तेषांअलंकरणभूतःआभरणसदृशः। अपरं कथंभूतो यौधेयः। यथोक्तविशेषण- विशिष्टःसुरलोकमनोरथाविधेयः सुरलोकस्यस्वर्गस्य मनोरथाः अभिलाषाः अविधेयाः अकर्तव्या यस्मिन्‌ देशे स तथोक्त। भूयकथंभूतोऽपि यौधेयः। संपदो धाम लक्ष्म्याः मन्दिरम्॥

यत्र यस्मिन्‌ यौधेयदेशे ग्रामाः सन्तीति क्रियाकारकसंबन्धः। कथंभूता. ग्रामाः। गोमण्डलवन्तः गाव सुरभयो मण्डलाः शुनकास्तेविद्यन्ते येषु ग्रामेषु ते गोमण्डलवन्तः.। क इव। महानृपतय इव महामण्डलेश्वरा इव। यथा महानृपतमे गोमण्डलबन्तः पृथ्वीवलययुक्ता भवन्ति। पुनःकथंभूता ग्रामाः। महिषीसमाकुलाः xxxवीभिरर्वरीभिः समाकुलाः संयुक्ताः। का इव। चक्रवर्तिश्रिय इव xxxxx इव। यथा चक्रवर्तिश्रियों महिषीसमाकुलाः पट्टमहादेवीभिःसमाकुलाः xxx भवन्ति। पुनः कथंभूता ग्रामाः। सगन्धर्वाअश्वसंयुक्ताः। क इवं ! भरतप्रयोगा इवसंवीत xxx। यथा भरतप्रयोगां सगन्ध गन्धर्वैः सहिता। पुमः कर्थभूता जगाः। अविकल्पप्रथानाःअवीना कल्पाः समूहाः प्रधाना येषु ग्रामेषु तेऽविकल्पप्रधानाः। क इव।सुगतागमा इव बौद्धशास्त्राणीव। यथा सुगतागमाः सविकल्पमानस्वर्गपुण्यपाप प्रकृतयश्चभवन्ति। तथा चवक्ष्यति— नाहंनैष परो मे कर्मभिरिह प्रायेण बन्धः कचिद्भोक्ता प्रेत्य न तत्फलस्यच वदेदित्थं सबौद्धो यदि। कस्मादेष तप समुद्यतमनाश्चैत्यादिकं वन्दते किं वा तत्र तपोऽस्तिकेवलमसौ धूर्तैर्जडो

मिनीनितम्बा इव करभोरवः, श्रुतय इवाजसंजनितविस्तराः, श्रमणा इव जातरूपधारिणः, बृहस्पतिनीतय इवादेवमातृकाः, भागवता इव प्रतिपन्नकृष्णभूमयः, सांख्या इव समाश्रितप्रकृतयः, हरमौलय इव सुलभजलाः, संकर्षणरणकेलयइव हलबहुलाः, अश्नवादा इव प्रपञ्चितारामाः, महायो- गिन इव क्षेत्रज्ञप्रतिष्ठाः, सलिलनिधय इव विद्रुमच्छन्नोपशल्याः, स्वर्गव-

______________

वञ्चितः॥” पुन कथंभूता ग्रामा। करभोरव. करभैरुष्ट्रैउरवो गरिष्ठा। क इव। कामिनीनितम्बा इव। यथा कामिनीना नितम्बा कटिपश्चाद्भागाः; करभोरव करभस्येव उष्ट्रस्येव उरव सक्थीनि येषा नितम्बानां ते करभोरव। पुन. कथंभूता ग्रामा। अजर्संजनितविस्ताराः अजैश्छागैःसंजनितः सम्यक प्रणीतो विस्तारे येषु ते अजसंजनितविस्ताराः। का इव। श्रुतय इव। यथा श्तयो वेदाः अजेन ब्रह्मणा सजनितविस्तारा भवन्ति। अपरं कथभूता ग्रामाः। जातरूपधारिण सुवर्णधारिण। क इव। श्रमणा इव। यथा श्रमणाः जातरूपधारिणो भवन्ति। पुन" कथभूता धभामा। अदेवमातृकाः नदीजरनिष्पन्नसस्योपजीविन। का इव। बृहस्पतिनीतय इव। यथा बृहस्पतिनीतयथश्चार्वाकशास्त्राणि देवं सर्वज्ञादिविशेष॑ न मन्यन्ते। पुन. कथंभूता ग्रामा। प्रतिन्नकृष्णभूमय * प्रतिपन्ना अङ्शीकृता कृष्णा श्यामवर्णा क्षेत्रभूमिहंलोपजाबैयेंबु ते तथोक्ता"। क इव। भागवता इव वेष्णवा इवं। यथा भागवता. कृष्णभूर्सि द्वारवतीक्षेत्र षण्मासं सेवन्ते। पुन कथंभूता ग्रामा। समाश्रितप्रकृतय’ समाश्रिता अङ्गीकृता प्रकृति” अष्टादशभेदभिन्ना हलजीबविकादिका प्रकृति-प्रजा यैस्तेतथोक्ता"। क इव। सांख्या इव। यथा सांख्याः समाश्रितप्रकृतयो भवन्ति समाश्रिता प्रधानापरनामा बहुघातापरनामा चतुर्विशतिभेदभिन्ना सत्वरजस्तमोप्रकृतिका ज्ञानवती चतुर्विशतिभेदभिन्ना यैस्ते। पुनः कर्थभूता ग्रामाः। सुलभजलाः सुलभानिजरानि उदकानि येषु ते तथोक्ताः। क इव। हरमौलयइव श्रीमहादेवमुकुटानीव। यथा हरमौलयः सुलभजड़ा जव्यन्तो भवन्ति। वलयोरैक्यम्‌। अथवा हरमौलमो गङ्गाश्चरत्वात्सुलभाजलाः। उक्तं च—स्त्रीषु धन्यात्र गङ्गैव परभोभोपगा प्रिया। रत्नमालेव सोल्लासंध्रियते मूर्ध्निशंभुना॥पुनः कथंभूता ग्रामाः। हलबहुलाः ; कइव। संकर्षणरणकेलय इव। यथा बरूभद्रस्य संप्रासक्रीडाः सीरबहुकाः। उसगपक्षेपि वा हरुबहुराः।ग्रामाः। प्रपश्चितारामाः प्रपञ्चिताः विस्तारे नीता आरामोउपबनादि वयोरा। क इव। ब्रह्मवादाइव, यथा ब्रह्मबादा वेदान्तवादा प्रपञ्चितो विस्तारं नीतं आरामो विद्या येषु ब्रह्मबादेषु ते प्रपञ्चिततारामाः। पुनः कथंभूता ग्रामाः। नां प्रतिष्ठा शोभा येष ते तथोक्ताः ।महायोगिनः इव। यथा महायोगिनीगौतमस्वामिप्रभृतयः क्षेत्रज्ञप्रतिष्ठाःभवन्ति। पुनः कथंभूताग्रामाः। विद्धमच्छन्नोपशल्याःविविधैर्दुभैर्विभिःपक्षि-

सतय इवातिथिप्रार्थनमनोरथाः, गगनमार्गाइव नक्षत्रद्विजराजिनः, कलत्रकुचकुम्भाइव भर्तृकरसंबाधसह्य, सुरेश्वरसेना इव स्वाम्यनुरक्ताः, सौराज्यदिवसा इव निष्कण्टकमहीभागाः, वियदापगाप्रवाहाइव विगतोपलसीमानः, सकलजगन्निर्माणप्रदेशाइव सर्वजीविनः, सुहृद इव च परस्परप्रेमाभिजात्याःकुक्कुटसंपात्याः सन्ति ग्रामाः।

__________

भिर्वा उपलक्षितानि द्रुमाणि तैश्छन्नानि आच्छादितानि उपरशल्यानि ग्रामान्तिका येषु ते तथोक्ताः। क इव। सलिलनिधय इव समुद्रा इव ! यथा सलिलनिधयो विद्रुमैप्रवालैश्छन्नोपशल्या भवन्ति।पुन कथंभूता ग्रामा। अतिथिप्रार्थनमनोरथाः अतिथीनां। मुनीना प्रापूर्णकाना वा प्रार्थने याचने मनोरथा अभिलाषाःयेषा ते तथोक्ता, का इव। स्वर्गवसतय इव। यथा स्वर्गवसतयः स्वर्गभवनानि अतिथिप्रार्थनमनोरथा कुशनन्दनाभ्यर्थनमनोरथाःभवन्ति। पुन कथंभूता ग्रामा। नक्षत्रद्विजराजिनः क्षत्राश्च राजपुत्रा द्विजाश्च ब्राह्यणा तैर्नराजन्ते शोभन्ते इत्येवंशीला नक्षत्रद्विजराजिन। क इव। गगन- मागौ इव। यथा आकाशमार्गावक्षत्रैरश्चिनीप्रभृतिभिर्द्विजेश्च पक्षिभिश्च राजन्त इत्येवंशीला। पुन कथंभूताः ग्रामा। भर्तृकरसबाधसदा. भर्तुनेरेन्द्रस्य करस्य भागधेयस्य सबाधं पीडा सहन्ते भर्तृकरसंबाधसहाः। क इव। कलत्रकुचकुम्भाइव। यथा कलत्राणा कमनीयकामिनीना कुचकुम्भा स्तनकलशा भर्तृकरसंबाधसहाः पत्युः पाणिसंर्मदेक्षमाः भवन्ति। पुन. कथंभूता ग्रामाः। स्वाम्यनुरक्ताःस्वामिनि पालके राज्ञि अनुरक्ता अनुरागिण प्रीतिमन्त.। का इव। सुरेश्वरसेना इव। यथा सुरेश्वरसेना इन्द्रकटकानि स्वाम्यनुरक्ताः तारकमारणार्थं कार्तिकेयानुरक्ताः भवन्ति। पुनः कथंभूतःग्रामा.। निष्कण्टकमहीभागाःनिष्कण्टकाः बदरखदिरकिङ्करीरहिता महीभागा भूमि प्रदेशाःयेषां ते तथोक्ता। क इव। सौराज्यदिवसा इव। यथा सोराज्यदिवसाः शोभन. नरेन्द्रसंयुक्तराज्यादिना निष्कण्टकभूमिभागाःछुद्रशत्रुरहितभूमिप्रदेशा भवन्ति। पुनः कथंभूता ग्रामा। विगतोपलसीमानः पाषाणरहितसीमानः। कइव। वियदापगाप्रवाहा इव। यथा वियदापगाग्रवाहा गङ्गानदीप्रबाहाः विभिर्हंससारचक्रवाकादिमिर्गता प्राप्ताः उपलानां गण्डशैलानां सीमानो येषु ते विगतोपलसीमानेः। पुनः कथंभूता ग्रामाः॥ सर्वजीबिनःसर्वैराजतापसपक्षादिभिर्जीव्यन्ते उपजीव्यन्ते सर्वजीविनः। क इव। सकलजगन्निर्माणप्रदेशा इव। यथा सकलजगन्निर्माणप्रदेशाःसकलस्य समस्त जगतोऽधोमध्योष्वनिमाणग्रदेश्नाः निष्पादनप्रदेशाःसर्वेजीविनश्चातुर्गतिकप्रणिवर्गसहिता भवन्ति। कथंभूता ग्रामाः। परस्पप्रेमभिजात्याः परस्परेण प्रेम्णा xहेन स मनोहराः। क इव। सुहृद इव यथा सुहृद इव यथा सुहृदोऽभीष्टावर्गापरस्परं प्रेमबन्तो भवन्ति। चकार उक्तसमुचयार्थः। अपरं कथंभूताः। कुक्कुटसंपात्याकुक्कुटैस्ताम्रचूडैः उड्डीय सम्यक्प्राप्यन्ते। कुकूटसंपात्याःसन्ति ग्रामाः। श्लेष उपमासमुच्चयश्चालंकारः॥

अपि च विकचकर्णोत्पलस्पर्धितरलेक्षणाः केलितालक्वणत्कनकमयकङ्कणाः सरसनखराजिविच्छुरित- भुजमण्डलाः काञ्चिकोल्लासवशदर्शितोरुस्थलाःस्वैरसंजल्पनस्मेरबिम्बाधराः कर्णकण्डूमिषो- द्वलितकक्षान्तराः पृथुनितम्बवशस्खलल्लटहगतिविक्रमाः सहजशृङ्गाररसभरितमुखविभ्रमाःपीनकुच- कुम्भ-

______________

अपि च **विकचकर्णोत्पलस्पर्धितरलेक्षणा इत्यादि।**यत्रयस्मिन्‌ यौधेयदेशे शालिवप्रेषु शालिक्षेत्रेषु यान्त्योगच्छन्त्यःगोपिकाः गोपाङ्गना हलाजीवभार्याः पान्थसार्थेष पथिकसमूहेषु क्षणं मुहूर्तमेकं नयनोत्सवं नेत्रानन्दंकुर्वते सृजन्ति। पुनः पश्चाच्चिरं दीर्घकालमामरणपर्यन्तं तापं विप्रलम्भसंभवसतापसुपाचिन्वते पुष्टिं नयन्तीति क्रियाकारकसंबन्धः। कथंमूता गोपिकाःविकचकर्णो- त्परस्पर्धितरलेक्षणाः विकचानि विकसितानि उत्फुल्लानि यानि कर्णोत्पलांनि कर्णमण्डरुकुवलानि तैसहस्पर्धन्ते उपमा धरन्तीत्येवंशीलानि तरलानि चपलानि कर्णान्तविश्रान्तानि च तानि ईक्षणानि लोचनानि यासा गोपिकाना तास्तथोक्ताः। अपरं कथंभूता गोपिकाः। केलितालक्वणत्कनकमयकङ्कणा केल्या क्रीडया योऽसौ तालःपरस्परकरताडनं तेन क्वणन्ति शब्दं कुर्वन्ति यानि कनकमयानि सुवर्णघटितानि कङ्कणानि करवलयानि यासां तासथोक्ताः। पुनः कथंभूताः गोपिकाः। सरसनखरा- जिविच्छुरितभुजमण्डलाः सरसाः सान्द्रा, प्रियदत्ताःयाः नखराजयो नखक्षतश्रेणयस्ताभिर्विच्छुरितानि मण्डितानि भुजमण्डलानि वा वल्लीप्रदेशा यासा तास्तथोक्ताः। अपर कथंभूता गोपिकाः। काश्चिकोल्लासवशदर्शितोरुस्थलाः काश्चिकाः कटिमेखलास्ता- सामुल्लासवशेनउन्नयनकरणात् दर्शितानि प्रकटीकृतानि उरःस्थकानि वक्षःस्थलप्रदेशा याभिसतास्तथोक्ताः। भूयोऽपि कथंभूता गोपिकाः। स्वैरसंजल्पनस्मेरबिम्बाधरा स्वैर संजल्पनेन यथेष्टं परस्परसंभाषणेन स्मेरा ईषद्धाससहिता बिम्बाधराः पक्वतुण्डिकेरीफल्यकारा अधरा दन्तच्छन्दा यासां तास्ताथोक्ताः। पुनश्च किंविशिष्ठ गोपिकाः। कर्णकण्डूमिषोद्वलितकक्षान्तराः कर्णकण्डुमिषेण. श्रवणस्वर्जनछलेन उद्वलितानि दर्शितानि कक्षान्तराणि बाहुमूलानि याभिस्तास्तथोक्ताः। पुनरपि किंविशिष्टा गोपिकाः। पृथुनितम्ववशस्खलल्लटहगतिविक्रमाः पृथवोविस्तीर्णाये नितम्बाः कटिपश्चाद्भागास्तद्वञ्चेन; स्खलन्तः प्रस्खलन्तः प्रस्खलनं कुर्वन्तो लटहगतिविक्रमाः ललितगमनपादक्षेपाःयासां तास्तथोक्ताः। भूयोऽपि किंविशिष्टा गोपिकाः। सहजशृङ्गाररसभरितमुखबिभ्रमाःसहजःस्वाभाविकोयोऽसौ शृङ्गाररसः तेन भरिताः पुष्टि वीता मुखबिभ्रमाःवक्रकमलहावा यासां तास्तथोक्ताःः। पुनरपि किंविशेषणबिशिष्टा गोपिकाः। पीनकुचकुम्भदर्पत्रुटत्कञ्चुकापीना नातिस्थूला नातिकृशा नातिदीर्घा

दर्पत्रुटकञ्चुकाः शालिवप्रेषु यान्त्यःक्षणं गोपिकाः पान्थसार्थेषुनयनोत्सवं कुर्वते यत्र तापं पुनश्चिरमुपाचिन्वते।

स यौधेय इति ख्यातो देशः क्षेत्रेऽस्ति भारते।
देवश्रीस्पर्धया स्वर्गःस्रष्टा सृष्ट इवापरः॥ ४२॥

वपत्रक्षेत्रसजातसस्यसपत्तिबन्धुराः।
चिन्तामणिसमारम्भाःसन्ति यत्र वसुंधराः॥ ४३॥

लवने यत्र नोप्तस्य लूनस्यन विगाहने।
विगाढस्यच धान्यस्य नालं संग्रहणे प्रजाः॥ ४४॥

दानेन वित्तानि धनेन यौवनं यशोभिरायूंषि गृहाणि चार्थिभिः।
भजन्ति सांकर्यभिमानि देहिनां न यत्र वर्णाश्रमधर्मवृत्तयः॥ ४५॥

________________

नातिह्रस्वावर्तुलकारा मिलिता ये कुचकुम्भाः स्तनकलशास्तेषा दर्पेण नुन्नासेन’ त्रुटन्ति शतखण्डीभवन्ति कञ्चूकानि कूर्पासका यासा तास्तथोक्ताः। शृङ्गाररसप्रधानो विप्रलम्भसदर्शितो जात्यलंकार॥

** स इत्यादि।** जगत्प्रसिद्धो यौधेय इति नाम्ना ख्यातः प्रसिद्धो देशों भारते क्षेत्रे भरतक्षेत्रे अस्तिविद्यते। कथंभूतो देश। उत्प्रेक्षते—देवश्रीस्पर्धया इन्द्रलक्ष्म्या इर्ष्यया कृत्वास्रष्टा ब्रह्मणा अपरो द्वितीयः स्वर्गोदेवलोकः सृष्टा निर्मित इव। उत्प्रेक्षालंकार"॥ ४२॥

** वपत्रेत्यादि।** यत्र यस्मिन्‌ यौधेयदेशे वसुंधराः भूमयः सन्ति विद्यन्ते। कथं भूताः वसुधराः। वपत्रक्षेत्रसंजातसस्यसंपत्तिबन्धुराःउष्यन्ते वपत्राणि नतु तानि खेटने रहितानि यानि क्षेत्राणि सस्याधिकरणानि तेषु संजाता उत्पन्ना भासस्यसपत्तिः कणसपरत्‌ तया बसुन्धुरा, मनोहरा यास्तास्तथोक्ताः। पुनः कथंभूता बसुन्धराः। चिन्तामणिसमारम्भाः चिन्तामणिभि सम" सदृशश्चिन्तितफलदाभिलात आरम्भोयासां तास्तथोक्ताः। उपमालकारः॥ ४३॥

** लवन इत्यादि।** यत्र यस्मिन्‌ यौधेयदेशे प्रजा लोका; xप्तस्य xपितस्य भाग्यस्य सस्यस्य लवने छेदने न अलं न समर्था भवन्ति। लुनस्य छेदितस्य xस्मस्यविगाहने छेदने नअलंन समर्था भवन्ति। विगाढस्य चमर्दितस्य धान्यस्य च संग्रहणे स्वीकरणे न अलं समर्थो नभवन्ति ! दीपकालंकारः॥ ४४॥

** दानेनेत्यादि।** यत्र यस्मिन्‌ यौधेयदेशे देहिनां प्राणिनां इमानि xxx वस्तूनि सांकर्य मिश्रतां भजन्ति सेबन्ते। इमानि कानि। वित्तानि धनानि दानेन विश्राणनेन साकर्यंभजन्ति। धनेन वित्तेन यौवनं तारुण्यं सांकर्म भजति।अर्थं-

तत्र तद्विलासिनीविलासलालसमानसानाममरकुमारकाणामनालम्बे नभस्यवतरणमार्गचिह्नोचि - तरुचिभिः, उपहस्मितशिशिरगिरिहराचरशिखरैः, अटनितरनि विष्टविकटसटोत्कटकररिपुसमीप संचारचकितचन्द्रमृगविलोचनरुचिविकचकुवलयोपहारिभिः,अरुणरर्थतुरगचरणाक्षुण्णक्षणमात्रवश्रमैः, अम्बरचरचमूविमानगतिवक्रिमविधायिभिः, अनवरतविहरद्विहायश्चरचक्र-

______________

बशाद्विभक्तिपरिणामः। यशोभिः पुण्यगणैरायूंषि जीवितानि सांकर्यं भजन्ति। चकाराद्गृहाणि सदनानि अर्थिभिः सहसाकर्यंभजन्ति। वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः, आश्रमाःब्रह्मचारिगृहस्थ- वानप्रस्थभिक्षुकलक्षणाश्चत्वारः, तेषां धर्मवृत्तय आचारप्रवृत्तय सांकर्ये भजन्ति। अयमपि दीपकालंकारः॥४५॥

** तत्रेत्यादि।** तत्र तस्मिन्‌ यौधेयदेशे चैत्यालयैःउपशोभितं राजपुरं नाम नगरंवर्तते इति क्रियाकारकसंबन्धः। कथंभूतैश्चैत्यालयैः। तद्विलासिनीविलासलालसमानसा- नाममरकुमारकाणामनालम्बे नभस्यवतरणमार्गचिह्नोचितरुचिभि तस्य राजपुरस्य याविलासिन्यः कमनीयकामिन्यस्तासा विलासा कटाक्षविक्षेपरक्षणा लोचनचलनानि तेभ्यो लालसानि अत्यभिलाषीणि मानसानि चित्तानि येषा ते तथोक्तानाम्‌। स्वर्गे निश्चललोचनत्वात्‌। अमरकुमारकाणं अमराणां कुमारास्तेषां अनालम्बे नभसि आधाररहिते आकशे अवतरणमार्गचिह्नाय रक्षणाय उचिता योग्या रुचिर्दाप्तिर्येषां चैत्यालयानां ते तथोक्तास्तैस्तथोक्तैः। पुनः क्थभूतैश्चैत्यालयैः। उपहसितशिशिरगिरिहराचरशिखरैःउपहसितानि उज्बबलतया तिरस्कृतानि शिशिरगिरेर्हिमाचलस्यहराचलस्यच केलासस्यकूटानि यैस्तैसथोक्तैः। पुनःकथंभूतैश्चैत्यालयैः। अटनितटनिविष्टविकटसटोत्कटकरटिरिपुसमीपसंचारचकितचन्द्रमृगविलोचनरुचिविक चकुवलयोहारिभिःअटनीनां कटिनीनों तटनी अटानि तेषु निविष्टाउपविष्टाः प्रासदेनसहअटिता ये विकटसटोत्कटाप्रव्यक्तकन्धराःकेसरोपलक्षितप्रव्यक्ता, करटिनां गजानांरिपवोमणिघटिता ये पञ्चाननास्तेषांसमीपे संचारेण गमनेन चकितोःभीतो जीवत्सिहशङ्कया वित्रस्तो योऽसौ चन्द्रमृगः शाशाङ्कहरिणस्तस्य विलोचनवत्‌ रुचि शोभा येषां ताति चतानि विकचकुवलयानि विकसितोत्पलानि तैषां उपहारः पूजा विद्यते येषां ते उपहारिणः तैः। पुनः कथंभूतैश्चैत्यालयैः। अरुणरथतुरगचरणाक्षुण्णक्षणमात्रविश्रमैःअरुणस्यसूयेस्य योऽसौ रथस्तस्य संबन्धिनःये तुरगाः तुरङ्गमास्तेषां चरणाः पादास्तेषां गगनगमनश्रान्तानां अक्षुण्णः परिपूर्णःक्षणमात्र्ंमुहूर्तमेकं विश्रमो येषु तैस्तथोक्तैः। पुनरपिं कथंभूतेबैश्चैत्यालयैः। अम्बरचरचभूविमानगतिवक्रिमविधायिभिः अम्बरचराणांदेवविद्याधराणांवमूनांसेनानां यानि विमानानि तेषां गतेर्गमनस्यबक्रिमाणं कुxx- विदधति कुर्वन्तीत्येवंशीलास्ते विधायिनस्तैः। पुनः कथंभूतैश्चैत्यालयै।

संक्रान्तकामिनीकपोलश्रमखेदापनोदमन्दस्यन्दपताकाञ्चलपल्लवैः, रचितापराधविरुद्धाङ्गनाचरणानत- निलिम्पकवनीपकनिकायकृतकैतवालोकनकुतूहलितलज्जितस्मितसिद्धयुवतभिः,अतिसमिधसंचरत्सुरसुन्दरीकरचापलविलुप्तकेतुकाण्डचित्रै अनेकध्वजस्तम्भस्तम्भिकोत्तम्भितमणिमुकुरमुखावलोकनके2- लिकलदिवौकः स्खलितरयविमानवाहनसंबाधानुबन्धिमिः, अप्रत्नरत्नचयनिचितकाञ्चनकलशविसरद विरलकिरणजालजनितान्तरिक्षलक्ष्मीनिवासविचि–

_______________

अनवरतविहरद्विहायश्चक्रसकसक्रान्तकामि नीकपोलश्रमखेदापनोदमन्दस्यन्द पताकाश्च पल्लवैःअनवरतमहर्निश विहरन्त" पर्यटन्तो ये विहायश्चरया विद्याधरास्तेषां चक्राणि समूहास्तेषु सक्रान्तः उत्पन्नो योऽसौ कामि नीना कपोलेषुश्रमखेदः खेदसंबन्धी खेदस्तस्यापनोदो विनाशस्तदर्थं मन्दस्यन्दा [अ]बहुलचलना पताकाञ्चलपल्लवा येषु तेस्तथोक्तेः। पुनरपि कथंभूतैश्चैत्यालयैः। रचितापराधविरुद्धाङ्गनाचरणानतनिलिम्पकवनीपकनिकायकृतकैतवावलोकनकुतुहलितलज्जितस्मितसिद्धयुवतिभिःरचितः योऽसावपराधसतेनं विरुद्धाः कोपं प्राप्ता या अङ्गनाः कमनीयकामिन्यस्तासां चरणेषु चरणकमलेषु आनता नम्रीभूता ये निलिम्पका देवास्तेषां वनीपका अब्राह्मणभट्टाः। स्तुतिपाठका इत्यर्थः। तेषा निकायः समूहस्तेन कृतं विहितं कैतवं धूर्तत्वंतेन यदवलोकनं निरीक्षणं तेन कुतूह॒लिताःपूर्वमाश्चर्य प्राप्ताः पश्चाल्लज्जितास्नपां गताः पश्चात्स्मिता मनाक्हसिताः सिद्धानामणिमादिगुनोपेतानां देवविशेषाणां युवतयः कमनीयकामिन्यो येषु वे सिद्धयुवतयस्तेस्तथोक्तै। पुनरपि कथंभूतेश्चैत्यालये। अतिसविधसंचरत्सुरसुन्दरीकरचापरविलुप्तकेतुकाण्डचित्रैः अतिसविधे अतिसमीपे संचरन्यो याः .सुरसुन्दर्यास्तासायत्करचापलं तेन विलुप्तानि छेदितानि केतुकाण्डाना ध्वजस्तम्भाना चित्राण्यालेलयानि येषु ते तथोक्तैः। पुनः कथंभूतैश्चैत्यालयैः। अनेकध्वजस्तम्भस्तम्भिकोत्तम्मितेमणिमुकुरमुखावलोकनकेलिकलरूदिवौक स्खलितरयविमानवाहनसबाधानुबन्धिभिः अनेका बहुला ये ध्वजस्तम्भास्तेषां सम्भिकाः स्तम्भोपरि लघुसम्भासासूत्तम्भिता बद्धा येमणिमुकुरा रत्नादर्शास्तेषु मुखावलोकनस्य वक्रबिम्बनिरीक्षणस या केलिः कीड़ा तया कला मनोहरा ये दिवौकसो देवास्तेषां स्खलितरयाणि भग्नेवेगानि मानि बिमानवाह- नानि तेषां संबाधां कष्टमनुबध्नन्त्यनुकुर्वन्तीयेबंशीलासे अनुबन्धिनस्तैस्तथोक्तैः। पुनः कथंभूतश्चैत्यालयैः। अप्रत्नरत्नचयनिचितकाञ्चनकलशविसरदविरलकिरणजालजनितान्तरिक्षलक्ष्मीनिवासविचित्रसिचयोल्लोचेौःअप्रयत्नानि नूतनानि यानि रत्नानि तेषां चयः समूहस्तेवं निचिता जटिता ये काञ्चनकलशा- कनककुम्भास्तेभ्यो विसरन्ति प्रसरन्ति निर्गच्छन्ति यानि अविरलानि अविच्छिन्नानि किरणजालानि xxxxxx

त्रसिचयोल्लोचैः, अमृतकरातपस्पर्शद्रवच्चन्द्रकान्तमयप्रणालोच्छलज्जकूजालकासारसिच्यमानवियद्वि- हारिणीविरहवैश्वानरकर्ममर्मरशरीरयष्टिभिः अहिमधामधृष्णिसंधुक्षितदिनकृत्कान्तृकिंपिरिपर्यन्तस्फुर त्कृशानुकणविकास्यमानामरमुनिमध्याह्नदीपैः,अमलकामलासारविलसत्कलहंसश्रेणिद्विगुणदुकूलांशुकवैजयन्तीसततिभिः, उपरितनतलचलत्प्रचलाकिबालकभयपलायमानजयविजयपुर3पवनाशनैः, उपान्तस्तूपनिपतत्पारापतपतङ्गपङ्क्तिपुनरक्तधूप-

______________

उत्पादिता अन्तरिक्षलक्ष्मीनिवासस्य आकाशस्य श्रीगृहस्य विचित्रसिचयोल्लोवाःपञ्चवर्ण- वस्त्रचन्द्रोपका यैस्ते तथोक्तैः। पुनः कथभूतैश्चैत्यालयैः। अमृतकरातपस्पर्शद्रवच्चन्द्रकान्तमय प्रणलोच्छलज्जलजालकासारसिच्यमानवियद्विहारिणी विरह वैश्वानर कर्ममर्मरशरीरयष्टिभिः अमृतकरश्चन्द्रस्तस्यातप उद्द्योतस्तस्य स्पर्शेनोच्छोपनेन द्रवन्तश्च्योतन्तो ये चन्द्रकान्ता शशाङ्ककान्तमणयस्ताभिर्निवृत्तानि प्रणालानि जलनिर्गमद्वाराणि तेभ्य उच्छलन्ति उत्पतन्ति यानि जलजालकानि जलसमूद्दास्तेषामासारों वेगवद्वर्षस्तेन सिच्यमाना आप्यायमाना वियद्विदारिणीनां विद्याधरीर्णा विरहस्य विप्रलम्भस्य यत्‌ वैश्वानरकर्म अग्निप्रवेशस्तेन मर्मरा अङ्गारीभूताः शरीरयष्टयोऽङ्गयष्टयोयेषु चेत्यालयेषु ते तथोक्तास्तैः.। पुनः कथभूतैश्चैत्यालयैः। अहिमधामधृष्णिसधुक्षितदिनकृत्कान्तकिंपिरिपर्यन्तस्फुरत्कुशानुकणविकास्यमानामरमुनिमध्याह्नदीपैःअहिमधामा श्रीसूर्यस्तस्य धृष्णयः किरणास्तैः. संधुक्षितः प्रज्वलितो यो दिनकृत्कान्तकिंपिरिपर्यन्तः सूर्य- कान्तमण्युपरितनभूमिमुखं तत्र स्फुरन्त उच्छलन्तो ये कृशानुकणा अग्निस्फुलिशास्तैर्विकास्यमाना- प्रज्वाल्यमाना अमरमुनीनां सप्तऋषीणां मध्याह्नदीपा येषु चैत्याल्येषु ते तथोक्तास्तैः। पुनः कथंभूतैश्चैत्यालयैः। अमलकामलासारविलसत्कलहंसश्रेणिद्विगुणदुकूलांशुकवैजयन्तीसंततिभिः अमला निर्मलाये कामलासाराः स्फटिकमण्युपरितनभूमयस्तत्र विलसन्तः ये क्रीडन्तो ये कलहंसास्तेषां श्रेणयः समूहास्तैस्ताभिर्वा द्विगुणा द्विरुक्ताशुक्लांशुकवैजयन्तीसंततयः शुक्लपट्टदुकुलवसत्रष्वयजश्रेणयो येषु तेतथोक्तैः। पुनः कथंभूतैश्चैत्यालयैः। उपरितनतलचरत्प्रचलाकिबालकभयपलायमानजयबिजयपु- रपवनाशनैः उपरितनतलमुपरिभूमिस्तत्र चलन्तः पर्यटन्तो ये प्रचलाकिबालका मयूर-शिशवस्तेषा भयात्‌ पलायमाना शीघ्रं नश्यन्तो जयविजयपुरयोः. अन्तरिक्षनगरविशेषयोर्येपवनाशना नागा यत्र येषु ते तथोक्तैः। पुनः कथंभूतैश्चैत्यालयैः। उपान्तस्तुपनिपतत्पारापतपतङ्गपङ्क्तिपुनरुक्तधुपधूमाडम्बरैः। उपान्तेषु समीपेषु ये स्तुपाःकृत्रिमपर्वतेषु निपतन्तो निर्गच्छन्तो ये पारापतपतङ्गाःकलरवपक्षिणस्तेषां पङ्क्तिभि. श्रेणिभिः पुनरुक्ताद्विगुणीकृता ये धूपधूमास्तेषामाडम्बर- आटोपोयत्रते त-

धूमाडम्बरैः,अतिनिकटविटङ्कोपविष्टशुकशावसंदिह्ममानहरितारुणमणिमिः,इतस्ततोविदूरतरचरच्चाषच्छदमूर्च्छदतुच्छच्छायाच्छाद्यनमेचकरचनैः,,अनिललयप्रेङ्खोलनकलक्वणत्किंकिणीजालवाचालपालिध्वजध्वानारब्धविद्याधरवधूद्वेल्लितविधिभिः, अनवधिसुधाप्रधावद्धामसदिग्धस्वर्धुनीप्रवाहैः, प्रफु- ल्लस्तबकैरिवान्तरिक्षवृक्षस्य, श्वेतदीपसृष्टिभिरिव रोदःकोरस्य, शिखण्डमण्डनपुण्डरीकानीकैरिव नभोदेवतायाः, पुष्यपुञ्जोपार्जनक्षेत्रैरिव त्रिभुवन-

_____________

थोक्तैः। वानेया हि कपोता धूसरा भवन्ति। पुनःकथंभूतैश्चैत्यालयैः। अतिनिकट- विटङ्कोपविष्टशुकशावसदिह्यमानहरितारुणमणिभि अतिनिकटे अतिसमीपे ये विटङ्कापक्षिविश्रामार्थ बहिनिर्गतानि काष्ठानि तेषूपविष्टा स्थिता ये शुकशावाः कीरबालकास्तेषा[स्थित्या] संदिह्यमाना भ्रान्तिमागता हरितारुणमणयो हरितवर्णाअरुणवर्णश्च मणयो येषु ते तथोक्तैः। पुन कथंभूतैश्चैत्यालयैः। इतस्ततोविदूरतरचरचाषछदमूर्च्छदतुच्छच्छयाच्छाद्यमानमेचकस्वनैः इतस्ततो यत्रतन्रातिदूरतरे निकटे चरन्तः पर्यटन्तो ये चाषा भासपक्षिण। करण्टापरनामानो जलकाका इति यावत्‌.। तेषां छदाः पत्त्राणि तेभ्यो मूर्च्छन्ती निर्गच्छन्ती अतुच्छा प्रचुरा या छाया कान्तिस्तया आच्छाद्यामाना लुप्यमाना मेचकरचना कृष्णमणिघटना येषु ते तथोक्तैः। पुनः कथं. भूतैश्चेत्यालयै। अनिरलयप्रेङ्खोलनकलक्वणत्किंकिणीजारवाचालपालुध्वजध्वानारब्ध विद्याधरवधूद्वेल्लितविधिभिः अनिलो बातस्तस्यलयः सश्लेषणं विलासो वा तेन यत्प्रेङ्खोलनं कम्पनं तस्मात्‌ कलं मधुरं यथा भवत्येवं क्वणन्त्यः शब्दायमाना. किंकिण्यः क्षुद्रघण्टिकास्तासां जालानि समूहास्तैर्वाचालः शब्दवन्तो ये पालिध्वजाश्चिह्नपताकास्तेषाध्वानै" शब्दैरारब्ध प्रकल्पितो विद्याधरवधूभिर्वियश्चरकमनीयकामिनीभिxxxतविधिर्नर्तनं चित्तं ध्यान येषु तेतथोक्तैः। पुनः कथंभूतैश्चैत्यालयैः।xxxxxx प्रधावद्धामसंदिग्धखर्धुनीप्रवाहै अनवधि अमर्यादीभूतं यत्सुधायाxxx. प्रधावद्धाम प्रसरत्तेजस्तेन संदिग्ध, संदेहं प्रापितः खर्धुनीप्रवाह आकाशगङ्गाप्रवाह यैस्तेतथोक्तैः। पुनः कथंभूतैश्चैत्यालयैः। प्रफुल्लस्तबकैरिवान्तरिक्षवृक्षस्य आकाशतरवरस्यप्रफुल्लस्तबकैरिव विकसितकुसुमगुच्छैरिव। पुनः कथंभूतैश्चैत्यालयैः.। श्वेतदीपसxxxxxx` रोदःकोटरस्यउज्ज्वलदीपरचनैरिव उच्चैः,.. …(१)। [एनः कथंभूतैश्चैत्यालयैः।] शिख्ण्डमण्डनपुण्डरीकानीकैरिव नभोदेषतायाः आकाशदेवतायाः शिखण्डमण्डनपुण्डरीकानीकैरिवमस्तकमण्डनश्वेतकमलसमूहैरिव।पुनः कथंभूतैश्चैत्यालयैः।xxxxxxxxxxxxxxxxxxxxxxxx

भव्यजनस्य, डिण्डीरपिण्डमण्डलैरिवे विहायःपारावारस्य, अट्टहासविलासैरिव व्योमव्योमकेशस्य, स्फटिकोत्कीर्णक्रीडाकुत्कीलैरिव ज्योतिर्लोकस्य, ऐरावतकुलकलभैरिवानङ्ग(न्त)वनस्य, समन्तादुत्सर्पतानेकमाणिक्यरुचितरङ्गप्रसरेण परिकल्पयद्भिरिव विनेयजनानां त्रिदशवेश्मनिवेशारोहणाय सोपानपरम्पराम्‌, अशेषस्य जगतः परलोकावलोकनोचितभावसभारसारस्यसंसारसागरोत्तरणपोतपात्रैरिव, विचित्रकोटिभिः कृटैर्धटनाश्रयां श्रियमुद्वहद्भिश्चैत्यालयैरपरैश्चाभ्रंलिहैरुत्तुङ्गतोरणमणिमरीचिपिञ्जरितामरभवनैरमहाभा- गरभवनैरुपशोभितं राजपुरं नाम नगरम्‌।

____________

तैश्चैत्यालयैः। अट्टहासविलासैरिव व्योमव्योमकेशस्य [आकाराशंकरस्य] उद्भटहासप्रसरैरिव। पुनः कथंभूतैश्चैत्यालयैः"। स्फटिकोत्कीर्णक्रीडाकुत्कीलैरिव ज्योतिर्लोकस्य चन्द्रसूर्यप्रहतारकालोकस्य स्फटिकैरुत्कीर्णाष्टङ्कच्छिन्ना ये क्रीडापर्वतास्तैरिव। पुन कथंभूतेश्चैत्यालयैः। ऐरावतकुलकरुभैरिवानङ्ग(न्त)वनस्यआकाशारण्यस्यऐरावतकुलोत्पन्नगजबालकैरिव। कि कर्वद्भिश्चैत्यालयैः। समन्तादुत्सर्पतानेकमाणिक्यरुचितरङ्गप्रसरेण परिकल्पयद्भिरिव विनेयजनानां त्रिदशवेश्मनिवेशारोहणाय सोपानपरम्पराम्‌ समन्तात्सर्वत्रोत्सर्पतोर्ध्वं गच्छता अनेकानि बहुलानि माणिक्यानि रत्नानि तेषां रुचयो दीप्तयस्तासां तरङ्गप्रसरेण कल्लोलविसरेण कृत्वा विनेयजनाना भव्यप्राणिनां त्रिदशवेश्मनिवेशारोहणायस्वर्गस्थानचढनाय सोपानपरम्परामारोहणश्रेणीं परिकल्पय. द्भिरिव रचयद्भिरिव। पुनः कर्थभूतैश्चैत्यालयैः। अशेषस्य जगत. परलोकावलोकनोxxxx संभारसारस्स संसारसागरोत्तरणपोतपात्रैरिव अशेषस्य विश्वस्य जगतो जगति स्थितासन्नभव्यजीवसमूहस्य। संसरन्ति पर्यटन्ति प्राणिनो यस्मिन्निति संसारः। “अकर्तरि च कारके संज्ञायाम्‌, .,…। ससार एव समुद्र"। अनन्तभवैरप्यप्राप्तपारत्वात्‌.। तस्य तरणमुन्मज्जनं पारप्रापणं तदर्थंपोतपात्रैरिव जलयानपात्रैरिव। कर्थभूतैश्चैत्यालयैःतस्य जगतः। परलोकावरोकनोचितभावसंभारसारस्य परलोकस्य सर्वकर्मक्षयलक्षणस्य मोक्षस्यावेलोकनं तत्रगमनम्‌। [नहि गमनेमन्तरेण मोक्षो निरीक्ष्यते धु तसिन्नुचितो योग्यो योऽसौ भावः परमधर्मानुरागलक्षणभक्तिस्तस्थ संभार" समूहस्तेन सारमतिशयवत्तस्यतथोक्तस्य। पुनः कथंभूतैश्चैत्यालयैः। विचित्रकोटिभिः कूटैर्धटनाश्रयां श्रियमहद्भिः कूटैः शिखरैःश्रियं शोभामुद्वहद्भि’। कथभूतातैश्चैत्यालयैःकूटाः। विचित्र- कोटिभिः विचित्राःपञ्चविधमाणिक्यजटिताः कोटयोऽग्राणि ते(ये)षां कूटानांते विचित्रकोटयस्तैः। कथंभूता श्रियम्‌। घटनाश्रयामनेकरचनासंबन्धिनीम। अपरैश्चाभ्रंलिहैरुत्तुङ्गतोरणमणिमरीचिपिञ्ज रितामरभवनैर्महाभागभवनैरूपशोभितम्‌। न केवलंxxxx xxxxभितं राजपुरं नाम नगरं वर्तते, किंत्वपरैश्चमहाभागभवनैर्लक्ष्मीवत्पु-

आदाय सर्वसारं विधिना दर्शयितुमस्य लोकस्य।
अमरपुरीलक्ष्मीमिव मन्ये सृष्टं प्रयत्नेन॥४६॥

यत्र यमोऽप्यसमर्थः प्रभबेत्कुत एव तत्र रिपुलोकः।
धुलिस्पर्शभयादिव मन्ये प्राकारनिर्माणम्‌॥४७॥

परिस्वावलयालंकृतमाभाति समन्ततः पुरं रम्यम्‌।
आयसनिगडनिबद्धं सुरहरणभयादिव जनेन॥४८॥

किं च।

सौधमूर्धसु यत्रोच्चैःकुम्भाः काञ्चनकल्पिताः।
भान्ति सिद्धवधृदत्ताः शेषाः सिद्धार्थका इव॥४९॥

____________

रुषमन्दिरैरूपशोभित॑ वर्तते। कथंभूतैर्महाभागभवनैः। अभ्रंलिहैश्चुम्बितमेघपटलैः!अपरं कथंभूतैर्मदामागभवनैः। उत्तुङ्गतोरणमणिमरीचिपिञ्जरितामरभवनैःउत्तुङ्गानि अत्युन्नतानि यानि तोरणानि द्वाराणि तेषा मणीरना मरीचयः किरणास्तैःपिञ्जरितानि पीतीकृतानि अमरभवनानि देवविमानानि यैस्तानि तथोक्तैः। उत्प्रेक्षादिसंकसंलंकारः॥

** आदायेति।** मन्ये अहमेवजानामि। अस्य लोकस्य मध्यलोकस्थितमनुष्यसमूहस्य अमरपुरीलक्ष्मीं खर्गलोकशोभां दर्शयिकतुमिव अवलोकयितुमिव इदं नगरं विधिना ब्रह्मणा प्रयत्नेन सावधानतया सृष्ट निष्पादितम्‌। किं कृत्वा। पूर्वंसर्वसारं आदाय सर्वोत्कृष्ट वस्तु शहीत्वा। उत्प्रेक्षालंकारः॥ ४६॥

** यत्रैति।** यत्र यसिन्‌ राजपुरे यमोऽपि धर्मराजोऽपि असमर्थःभङ्क्तुंसमर्थोन भवति,तत्र तस्मिन्नगरे रिपुलोकः शत्रुसमूहःकुत एवकस्मादेव भङ्क्तुंप्रभवेत्‌समर्थोभवति। यदि यमोऽपि नगरभञ्जने समर्थो न वतते, तर्हिं रिपुभयात्प्राकारः किमर्थं. निर्मितो वर्तते [इत्यत आह-] मन्ये अहमेवमुत्प्रेक्षे-धूरिस्पर्शभयादिवxx मैतन्नगरंरजःस्प्राक्षीत इत्यभिप्रायेण प्राकारनिर्माणंवर्तते। आक्षोपोत्प्रेक्षालंकारौ॥ ४७॥

** पुरिखेति।** परिखाया. खाताया वल्येन मण्डलेनालंकृत॑ शोभितं पुर राजपुरं समन्ततःसर्वत्र आभाति शोभते कथंभूतं पुरम्‌। रम्यमतिमनोहरम्‌। अपरं कथंभूतम् उत्प्रेक्षते— अनेनलोकेन सुरहरणभयाद्देवतावोरशङ्कया आयसमिगडनिवद्धमिव लोहशृङ्खलयः निगडितमेव। उत्प्रेक्षालंकारः॥ ४८॥

** कि चेति।**अस्ति कश्चिद्विशेषः॥

** सौधेति।** यत्र यस्मिन्नगरे सौधमूर्धसु राजभवलशिखरेषुxxxxxxxकनकनिर्मितः कुम्भाः कलशी xxxxxशयेन भान्ति शोभन्ते। अत्रोत्प्रेक्षते—xxxxxपीतसर्षपोद्भवाःशेषा आंशिका इव ,। कथंभूताः शेषाः। सिद्धानां देवः

ब्रह्मा विलासिनीर्यत्र विनिर्माय न यौवने।
मनोविभ्रमभीत्येव व्यधाल्लोचनगोचराः॥५०॥

यत्र सरस्मयध्वंसियुवलोकविकोकनात्।
बभार सर्वदा लक्ष्मीं पुराणपुरुषो हृदि॥ ५१॥

यत्कान्तकामिनीसङ्गभयादिव नगात्मजा।
विवेश हरदेहार्धंतद्रक्षणपरायणा॥ ५२॥

यत्र चानवरतप्रसाधितालकचामरोपचारैः, अलिकाङ्गणरङ्गशृङ्गारितभ्रूल-

_____________

विशेषाणा वधूमिः कमनीयकामिनीभिर्दत्ता आरोपितास्ते सिद्धवधृदत्ताः। उपमालंकारः॥ ४९॥

** ब्रह्मेति।** यत्र यस्मिन्नगरे ब्रह्मा सृष्टिकर्ताविलासिनीःकमनीयकामिनीर्विनिर्माय सृष्ट्वायौवने विलासिनीना तारुण्ये सति लोचनाना गोचरान्‌ न व्यधात्‌ न चकार। किमिति। उत्प्रेक्षते—मनोविभ्रमभीत्येव चित्तस्खलनभयेनेव। श्लेषालंकारः॥५०॥

यन्नेति। यत्र यसिन्नगरे स्मरस्यध्वंसियुवलोकविलोकनात्‌ स्मर कंदर्पस्तस्यस्मयो रूपगर्वस्तं ध्वंसन्ति तिरस्कुर्वन्तीयेवंशीला स्मरस्मयध्वंसिनस्तेच ते युवलोकास्तरुणपुरुषास्तेषा विलोकनान्निरीक्षणात्पुराणपुरुष- श्रीनारायणो लक्ष्मीं श्रियं सर्वदा सर्वकाल हृदि हृदयस्थले बभार धृतनान्‌। हेतुगर्भितोत्प्रेक्षालंकारः॥ ५१॥

** यदिति।** नगात्मजा पार्वती परमेश्वरी हरदेहार्धं श्रीमहादेवशरीरार्धंविवेश प्रविष्टा। किमर्थम्‌। कथंभूता नगात्मजा। तद्रक्षणपरायणा श्रीमहदिवन्यभिचारभयतत्परा! कस्मात्तद्रक्षणपरायणा। यत्कान्तकामिनीसङ्गभयादिवयस्य नगरस्य संबन्धिन्यःकान्ता अतिमनोहरायाःकामिन्यः स्त्रियस्तासां सङ्गभयात्‌। ताभिः सह व्यभिचरतीत्यर्थः। उत्प्रेक्षालंकारः॥५२॥

** यत्र चेत्यादि।** यत्र च यस्मिन्नगरे मनसिजमहाराजनन्दनः कामदेवनृपकुमारः। महाराजस्य नन्दनो मंहाराजनन्दनोमहानृपकुमारः। मनसिजः कंदर्पस्तस्य (एव) महुराजनन्दनः वनादिक्रीडाप्रियत्वान्सनसिजमहाराजनन्तनो यधनसरसेष्वपि आत्माराधनसरागेष्वपि उत्सवदिवसेषु श्रावणकृष्णतृतीयाफाल्गुनशुक्लत्रयोदशीदिवसेषु मदनोत्सवेषुपरपुरपुरंध्रीणामपरनगरस्त्रीणामर्हणासु आराधनासु परिचयं सङ्गंन चकारः न कृतवान्‌। कथंभूतो मनसिजः। पौराङ्गनाजनैस्तन्नगरस्त्रीसमूहैर्विनोद्यमान इवक्रीडांकार्यमाण इव। कथंभूतैः! पौराङ्गनाजनैः। अनवरतप्रसाधितालकचामरोंपचारैः अनवरतं निरन्तरे प्रसाधित उपढौकितः अलकचामराणां कुन्तलप्रकीर्णकानामुपचारःसेx यैस्ते तथा तैः। अपरं कथभूतैः, पौराङ्गनाजनैः। अलिकाङ्गणरङ्गशृङ्गा- xxxभलताकोटिभिः अलिकाङ्गणरङ्गोललाटपट्टकवरनर्तनभूमिस्तत्र शृङ्गारिताः सxकृता

ताकोटिभिः,उपसर्पितविलासविकासाविरललोकविलोचनलीडाकमलेः,संकल्पितकपोललावण्यमधुमाग-मैः, विस्फारितामृतकान्तबिम्बाधररसे., संजनितस्मरसाराला4पकर्णपूरेः, उदारहारनिर्झरोचितकुच- क्रीडाचकूविहारसंपादिभिः, सनमुकुल्मणालकीलावलिवांहिनी विहितजलरूकेलिविभ्रमैः, प्रदर्शित- मनोहंसावासनाभीवलभिगर्भैः, प्रकटितचेतोवासनिवासशासनमसीलिखितलि-

_____________

भ्रूलताकोट्यश्चिल्लीकोटयो येस्तेतथा तै। पुनःकथंभूतैपौराङ्गनाजनैः। उपसर्पित- विलासविकासाविरलविलोकविलोचनलीलाकमलैविलासो नेत्रशोभा तस्य विकास उत्फुल्लनंतेनाविरर्विरोकोऽबिच्छिन्नविरोकनं तेनोपरुक्षितानि यानि विलोचनानि नेत्राणि तान्येव लीलाकमलानि उपसर्पितानि उपढौकितानि विलासविकासाविरलर्विलोकविलोचनलीलाकमलानि यस्ते तथा तै। पुनःकथंभूतैपौराङ्गनाजनैः। संकल्पितकपोललावण्यमघुसमागमैः. कपोलाना लावण्यं तदेव मधु मद्यम्‌। क्षीबत्वकारणात्‌। अथवा तंदेव मधुसमागमो वसन्तागमनम्‌। कामसहायकारित्वात्‌। कपोललावण्यमधुसमागम। संकल्पितः सम्यग्रचितः कपोललावण्यमधुसमागमों यैस्तेतथा तैः। पुनः कथंभूतैः पौराङ्गनाजनै। विस्फारिताग्रतकान्तमिम्बाधररसैः अमृतवत्‌ पीयुषवत्‌ कान्तः मनोहरः। सुखादुत्वात्। स चासो बिम्बाधररस पक्वातिन्दुकेरीसमानाधस्तनौष्ठानां रसः पुण्ड्रेक्षुखण्डितनिर्यासः अमृतकान्तबिम्बाधररसः। विस्फारितःप्रचुरीकतोविशेषेण प्रायित अमृतकान्तबिम्बाधररसो यैस्तेतथा तै। पुनः कथंभूतैः। पौराङ्गनाजनैः.। संजनितस्मरसारारापकर्णपूरैः स्मरेण कामेन सारः सारीभूतो योऽसावालापः संभाषणं स एव कर्णपूरःकर्णाभरणं श्रवणावतंसः। हदयसौख्यकारित्वात्‌। स्मरसारालपकर्णपूरः। संजनितः सम्यगारोपित स्मरसारालापकर्णपूरों यैस्तेतथा तैः। पुनः कथंभूतैः पोराङ्गनाजनैः। उदारहारनिर्झरोचितकुचक्रीडाचलविहारसंपादिभिः उदारा अतिमनोहारा ये हारा मुक्ताफलमालास्त एव निर्झराः। पानीयप्रवाहास्तैरुचिता योग्यतां नीता ये कुचक्रीडाचलाःस्तनक्रीडापर्वताः। कठिनोन्नतगुणल्वात्‌। तेषु विहारः पथ उत्पादयन्तीदेवंशीरासते तथा तैः।पुनः कथंभूतैः पौराङ्गनाजनैः। स्तनमुकुलामृणालल़ीलावलिवाहिनीविहितजलकेलिविभ्रमैःस्तना एवमुकुला स्तनमुकलास्तेषां … …..आवल्य उदररेखास्ता एव वाहिन्यो नद्यस्तत्र बिहितः कृतो जलकेलिविभ्रमों जलक्रीडाविलासो यैस्ते तथा ते। पुन. कथंभूतैःपौराङ्गनाजनैः। प्रदर्शितमनोहंसावास नाभीवलभिगर्भे प्रदर्शितःप्रकटीकृतो मनोहसावासनिमित्तं नाभीवलभिगर्भस्तुन्दीपञ्जरमध्यो यैस्तेतथा तै.। पुनः कथभूतैः पौराङ्गनाजनैः। प्रकटितचेतोवासनिवासशासनमसीलिखितलिपिस्पर्धभामानरोमराजिभिः चेतोवासः कामदेबस्तस्य निवासो वसतिका

पिस्पर्धमानरोमराजिभिः, विस्तारितसमस्तसुखसाम्राज्यचिह्नजघनासिंहासनैः, संचारितोरुकदली- काण्डकाननैः, चरणनख़संपादितरतिरहस्यरत्नदीपविरचनैःपौराङ्गनाजनैर्विनोद्य5मान इव मनसिज- महाराजनन्दनो निजाराधनसरसेष्वप्युत्सवदिवसेषु न परपुरपुरंध्रीणामर्हणासु परिचयं चकार।

तत्र [चासि] समसमहीमहिला6शिखण्डमण्डनकरे पुरे सुकृतिनों हरिवंशजन्मनः प्रचण्डदोर्दण्डमण्डटीमण्डनमण्डलाग्रखण्डितारातिप्रकाण्डस्य चण्ड7महासेनस नृपतेः सूनुः पराक्रमापहसितनृगनरनहुषभरतभगीरथभगदत्तो मार(रि)दत्तो नाम राजा।

__________

तन्निमित्तं यत्‌ शासन लेख्यं तस्य सन्धिनी या मसीलिखितलिपिर्भिन्नाशनलिखिताक्षरविन्यासस्तया स्पर्धमना तदुपमां धरन्ती या रोमराजी रोमावलिचेतोवासनिवासशासनमसीलिखितलिपिस्पर्धमानरोमराजि। प्रकटिता लोचनगोचरीकृता चेतोवासनिवासशासनमसीलिखितलिपिस्पर्धमानरोमराजिर्यैस्ते तथा तैः। पुन कथंभूतैः पौराङ्गनाजनैः विस्तारितसमस्तसुखसाम्राज्यचिह्नजघनसिंहासनैःसमस्तसुखं परिपूर्णसुखं तच्चतत्साम्राज्य चक्रवर्तित्वं च तस्य चिह्नमभिज्ञानं यज्जघनसिंहासन तत्त्लीकव्यविस्तरं(*) विसतारितसुपढौकितं समस्तसुखसाम्राज्यचिह्नजघनसिहासनं यैस्ते तथा तै। पुन. कथंभूतै पौराङ्गनाजनैः.। संचारितोरुकदलीकाण्डकाननैः केन वायुना दल्यते विदार्यते कदली, कदलीनां काण्डानि स्कन्धास्तेषां काननानि वनानि। समूहा इत्यर्थः। ऊरव एव चण्ड कान्येव कदलीकाण्डकाननानि। स्पर्शोदेव सुखशीतलोत्पादकत्वात्‌। संचारितानि उपढौकितानि ऊरुकदलीकाण्डकाननानि यैस्ते तथा तैः! पुनः कथंभूतैः पौराङ्गानाजनै। चरणनखसंपादितरतिरहस्यरत्नरदीपविरचनैः चरणानां नखापुनर्भवास्तैसंपादिता निष्पादिता रतेःसंभोगस्म यद्रहस्यं गोप्यतत्त्वं तदुद्द्योतनंरत्नदीप[शिखा] विरचना माणिक्यप्रदीपकल्पनासृष्टिर्यैस्तेतथा तैः। संकरालंकारः॥

** तत्रेत्यादि।** तत्र पुरे मार(रि)दत्तो नाम राजा वर्तते। कथंभूते पुरे। समस्तमहीमहिलाशिखण्डमण्डनकरे समस्ता परिपूर्णाया मही पृथ्वी सैवमहिला कमनीयकामिनी। पुरुषस्य संसारसुखहेतुत्‌वात्। तस्याः शिखण्डस्य मस्तकस्यमण्डनकरं तिलकरचनाबिधायकं तत्तथोक्तं तस्मिन्‌। कथंभूतो मार(रि)दत्तो नाम राजा। चण्डमहासेनस्य. नृपतेर्नरेन्द्रस्यसूनुः पुत्रः। कथंभूतस्म चण्डमहासेनस्य। सुकृतिनः पूर्वोपार्जितविशिष्टपुण्यस्य पुनःकथंभूतस्यचण्डमहासेनस्य। हरिवंश जन्मा वृषभजिन्महासामन्तहरिकान्तनरेन्द्रस्य वंशे कुले जन्मोत्पत्तिर्यस्यस हरिवंशजन्मातस्य हरिवंशजन्मनः । पुनःकथंभूतस्य चण्डामहासेनस्य।प्रचण्डदोर्दण्डमण्डलीमण्डनम-

स बालकालएवलब्धलक्ष्मीसमागमः, कुलवृद्धानां च प्रतिपन्नपितृवननपोवनलोकत्वादसंजात- विद्यावृद्धगुरुकुलोपासन’, समानशीलव्यसनचरित्रैर्नर्मसचिवपुत्रैःपरिवृतः, समाविभेवता च तार्तीयीकेन वयसा निरङ्कशतां नीय

___________________

ण्डसग्रखण्डितारातिप्रकाण्डस्य प्रचण्डो बलवत्तरो योऽसौ दोर्दण्डो बाहुदण्डस्तस्य[मण्डली तस्या] मण्डनमलंकरणभूतो योऽसौ मण्डलाग्र. खड्गस्तेन खण्डितो द्विधाकृतोऽरातिप्रकाण्डः दानुस्कन्धप्रदेड। ग्रीवेत्यर्थ। येन सतथा स तस्य। पुन कथंभूतो मार(रि)दत्तः। पराक्रमापहसितनृगनलनहुषभरतभगीरथभगदत्तःनृगश्चनृगनामा नृपति , नलश्च दमयन्तीपतिः, नहुषश्च नहुषनामा यादवनरेन्द्र भरतश्च वृषभजिन्नन्दन", भगीरथश्च सगरपुत्रः, भगदत्तश्च नृपतिविशेष, नृगनलनहुषभरतभगीरथभगदताः, पराक्रमेण बलवत्तया अपहसितास्तिरस्कृता नृगादयो येन स तथोक्तः॥

** [स इत्यादि।]** यथोक्तविशेषणविशिष्ट. स मार(रि)दत्तो राजा कदाचित्कस्मिश्चिदेववासरे सामजैर्हस्तिमिः सह चिक्रीड क्रीडां चकार इति क्रियाकारकसबन्धः। कथंभूत। बालकाल एव लब्धलक्ष्मीसमागम बालकालएव कौमार्यादधस्तने व लब्धलक्ष्मीसमागम लब्ध प्राप्त लक्ष्म्याराजलक्ष्म्या समागम समागमनं येन प तथोक्तः। पुनरपि कथंभूत। कुलबृद्धाना च अतिपन्नपितृवन]तपोवनलोकलादसजातविद्यावृद्धगुरुकुलोपासन विद्ययाशास्त्रेण युद्वृद्धंमहत्वं(प्राप्त] तद्भस्कृलं शास्रनिपुणमद़या* दिसमूद तस्योपासन सेवन शाल्लसग्रद विद्यावृद्धगुरुकुलोपासनम्‌, अर्सजातमजुत्पन्ने विद्यावृद्धगुरुकुलोपासने यस्य स तथा। कस्मादसजातविद्यावृद्धयुर्कुलोपासन इत्याह—कुलबृद्धाना कुलमहापुरुषाणा च प्रतिपन्नपितृविन]तपोवनलोकल्लात्‌। पितृवनलोकश्चतपोवनलोकश्चपितृ[वन]तपोवनलोकौ, [प्रतिपन्नौ गमिकर्मीकृतौपितृवनतपोवनलोको याभ्या तो प्रतिपन्नपितृवनतपोवनलोकौ,] तयोर्भाव. प्रतिपन्नपितृ [वन] तपोवनलोकत्वम्‌, तस्मात्प्रतिपन्नपितृवन]तपोवनलोकलात्‌। केचित्कुलवृद्धाः पितृवनलोकं गता श्मशान प्राप्ता। मृता इत्यर्थ। केचिकुलबृद्धासपोवनलोकं गतों॥ संसार देहभोगविरक्तत्वाद्दीक्षां प्राप्ता इत्यर्थ। तेन कारणेन विद्यावृद्धगुयकुलोपासमे दस्य न संजातम्‌। यंदि गुरुकुलोपासन तस्य न संजातं तहिं सकीदृशः संजात इत्याह—नमं सचिवानां मण्डाना पुत्रास्तै परिवृतो वेष्टितः। कथंभूतर्नर्मसचिवपुत्रैः। समानशीलव्यसनचरित्राणि शीलं च दुष्टस्वभावः, व्यसनं वेश्यागमबाविकम्‌, चरित्रं च दुष्टाचारः,शौलव्यसनचर्रित्रोंणि, समानानि मार(रि)दत्तनरेन्द्रस च शीकब्यसनभरिभाणि येषांतै तथा ते"। अपरं कि क्रियमाणः। समाविर्भवता सम्यकप्रादुर्भवताxxx यौवनेन। तृतीयमेव तार्तीयींकेन तेनं तातायीकेन। निरङ्कुशतां नीयमानःxxxxxx।अपर [स] कथंभूतः भार(रि)दतः। स्वयंपरिगृहीतवीरपरिकरविधिः स्वयं

मानः, कदाचित्स्वयंपरिगृहीतवीरपरिकरविधिःउभयकटकंदरन्योन्याभिमुखनिलीनमदशौये श्रीवेणिदण्डानुकारिणादानद्रवेण श्यामलितकपोरभित्तिभिः, मदमदिरामोदस्वादोन्मदमधुकरारावपुनरुक्तडिण्डिमाडम्बरैः, कोध- नलज्वालकरालकोचनाचरितसकलरूदिक्पारूस्माध्वसैः, अनूरुसारथिरथोन्माथ- सिथो8दस्तहसतनिष्ठुरनिष्ठ्यू तवमथुपाथः प्रवाहप्लावितसुरसदनैः, करावलेपभय-

स्वयमेव परिगृहीतःस्वीकृत [वीर]परिकरविधिः शिरस्त्राणवारबाणोरस्त्राणादिविधिर्येन स तथोक्त। कथंभूतैसामजै। उभयकटकंदरान्योन्याभिमुखनिलीनमदशौर्यश्रीवेणिदण्डानुकारिणा दानद्रवेण श्यामलतिकपोलभित्तिभिः दानद्रवेण मदजलेन श्यामलिता. श्यामलीकृताः कृष्णीक्षतःकपोलभित्तयःकटा येषा ते श्यामलितकपोलमित्तयस्तैस्तथोक्तैः। कथंभूतेन दानद्रवेण उभयकटेत्यादि।उभयौ(सौ) वामदक्षिणो कटौ गण्डौतयोः कदरो मध्यप्रदेशस्तत्रान्योन्याभिमुखनिलीनेपरस्परसमुखमुपविष्टे ये मद. शोयेश्रीश्चतयोर्वेणिदण्डौसयतकुन्तलकलापौतावनुकरोति तत्सदृशों भवतीत्येवंशीलः स तथोक्तस्तेन अपरं कथभूतै सामजै। मदमदिरामोदस्वादोन्मदमधुकररावपुनरुक्तडिण्डिमाडम्बरै मदो दान स एवं मदिरा। विह्लकारित्वात्‌। तस्थया आमोदो दूरव्यापी परिमलस्तस्यास्वादेन पानेनोन्मदा हर्षवन्तो ये मधुकरा भ्रमरास्तेषाभाराव. शब्दस्तेन पुनरुक्तो द्विगुणीकृतस्तिरस्कृतो वा डिण्डिमाडम्वरः पटहशब्दो येषां सामजाना ते तथा ते। पुनः कथमूसैः सामने.। क्रोघानलज्वालाकराललो चना- वरितसकरूदिक्पालसाध्वसेः क्रोधः कोप एवानलो5मिः। देहसतापकारकत्वात्‌। तस्य ज्वालाः कीलास्तामिः करालानि रोक्राणि यानि लोचनानि नेत्राणि तैराचरितमुत्पादित सकलानां दिक्पालानामिन्द्रादीना शबुनरेनद्राणा वा साध्वसं भयं यैसे तथा तैः। पुनः कथंभूतैः सामजै’। अनूरसारथिरथोन्माथमिथोदस्तहस्तनिष्ठुरनिष्ठ्यूतवमथुपाश्चप्रवाहप्लावितसुरसदनैःअनूरररुणनामा सारथिः [सूतो यद स] श्रीसूर्यस्तस्यो स्थो व्योमयानं तस्मोन्माश्रायाथ पातनाय मिथ9 परस्परसुदस्ता क्षिप्ता.। अत्र मिथःशब्देन …यानिर्दिष्टस्य निद्यत्वात्‌। ‘यैसषमाद्ध्रुवमीक्षेतोर्हन्इति आशाधरेण दर्शनात् (१)ये हस्ताः शुण्डादण्डास्त्रेषों निष्ठुरों निर्दयो योऽसौ निष्ठ्यूतवमधुर्दीभवमनं स एव पाथो जलं तस्य प्रवाहेण पूरेण प्लबितानि क्षालितानि सुरसदनानि देवविपानानि यैस्तेतथा तैः। पुनः; कथंभूतैः सामजैः! करावलेपभयभ्रस्यदाशाकरटि-

__________

घटैः; कराणा शुण्डादण्डानामवलेप संचारस्तस्माद्भयेन भ्रस्यन्त आशाकरटिनां दिग्गजेन्द्राणा घटा घटना येते तथा तैः। पुनः कथंभूतै सामजैः। प्रधावजवकस्पितधरणिदेवतैः प्रधावो वेगवद्गमन तस्य जवेन वेगेन कम्पिता वेपिता धरणिदेवता भूमेरधिष्ठातृदेवता यैस्ते तथा तैः। पुनः कथभूतैःसामजैः। चरणन्यासनमद्भूयोलक[भार[दलितशेषफणावलयैःचरणानां पादानां न्यासेनारोपणेन नमन्‌. नम्रीभवन्‌ योऽसौ भूगोलकस्तस्यभारेण दलितानि चूर्णितानि चूर्णीकृतानि शेषफणावलयानि धर- णेन्द्रभोगमण्डलानि यैस्ते तथा तैः। पुनः कथंभूतैःसामजैः।प्रत्यक्पुरःपक्षभ्रमि- प्रारम्भविजृम्मितग्रभञ्जनजनितकुलशैेरशिखरविघटनैःप्रत्यक्पश्चाद्धागः, पुरः अग्रभाग , पक्षो वामदक्षिणपार्श्वप्रत्यक्पुरःपक्षास्तेषां भ्रमिर्भ्रमणं तस प्रारम्भो रचनादिकर्म तेन विजृम्भितः प्रसृतः योऽसौ प्रभञ्जनो वायुस्तेन जनितमुत्पादितं कुलशैलशिखराणां कुछपर्वतकूटानां विघटन त्रोटन यैस्तेतथा तैः। पुनः कथंभूतैःसामजैः। कटकष्डूयननिनोदभग्नमहामहीरुहनिवहैः काटानां गण्डस्थलानां। नवि खजूस्फुटनेनभग्नाश्चूर्णीकृता महामहीरुहाणां महावृक्षाणां निवहा. समूहा यैस्ते तथा तैः। पुनः कथंभूतैः सामजैः। समस्तसत्त्वसंमदोतुषच्छोच्छलच्छोणितच्छराबिष्किन्नोंपदारसेतर्पितमदपुरषैः समस्तसत्त्वानां सर्वजीवानां संमर्देन चूर्णीकरणअतुच्छंबहुलमुच्छलदुत्पतच्छोणित॑ रुधिरं तस्य च्छटा धारासासामविष्छिन्नोपहारोऽखण्डपूजनं तेन संतर्पितास्तृप्ति नीता मदपुरुषा राक्षसा यैसे तथा तैः। पुनःसामजैः। मन.सु धृतसंहारसमयैरिव मन सु चित्तेषु धत आरोपितः कैसे तथा तैः। पुनः कथंभूतैः सामजैः। कृतकाशपिखैरिष्‌ रश्यु खो्रेषट छतो एतः काछामिरद- प्रसयकारुरदो यैस तथा तैः। पुनः कथभूतैः सामजैः। दशनेषु निवेशितशसनकर्मभिरिवददनेषु दन्तेषु [वि] निवेशितमारोपितं विशसनकर्म हिंसाकम यैस्तेतथा तैः। पुनः कथंभूतैः सामजैः। करेषु विहितवधक्रियोपायारिव करेषु, शुण्डदण्डेषु निहितं आरोपितो वधक्रियोपानों हिँसा बहुदुःखा यैस्तेतथा तैः। पुनः कथंभूतैः सामजैः। पादेषु संपादितवज्रसंपातैरिव

बज्रसंपातैरिव, वालधिषु च नियुक्तयमदण्डैरिव, निजमदगन्धालुबन्धवाधितापरद्विरदमदपरभेदैः, स्यन्दनवेदभुपतिष्ठमानैः, नरशिरोदर्शंप्रधावद्धिः, तुरगालोकं पुरः प्रतिभासमानैः, सपत्नद्विपमदगन्धाघ्रायं प्रक्षुभ्यद्भिः, प्रतिपक्षेभमणिरवश्रावं संरम्भमाणैः, क्रमेलकविषयं विनिरन्धद्भिः, छत्रगोचरं परिलुम्पमानैः, प्रलयकालानिकचलिताचलकुलविभीषणैः, प्रतिकरिशङ्कयेव

_____________

पादेषु चरणेषु संपादित उत्पादितो वज्रसंपातोऽशनिपातो यैस्ते तथा ते। पुनःकथंभूतैःसामजैः। वालधिषु च विनियुक्तयमदण्डैरिव वालधिषु पुच्छेषु च नियुक्त आरोपितो यमदण्डो यैस्ते तथा तैः। पुनः कथभूतैःसामजैः। निजमदगन्धानुबन्धवाधितापरद्विरदमदप्रभेदैः। निजमदगन्धेन स्वकीयदानपरिमलेन अदुबन्धेन सततप्रवृत्या बाधितः पीडितोऽपरद्विरदमदप्रभदोऽन्यगजमदो यैस्तैतथा तैः। पुनः कथंभूतेः सामजैः। स्यन्दनवेदमुपतिष्ठमानैः स्यन्दनस्यरथस्य यद्वेदनं ज्ञानम्‌। [“विदे साकल्ये नम्‌।] तदुपरक्षीकृत्योपतिष्ठमानैर्ग्रहीतुमागच्छद्धिः। पुनः कथंभूते सामजैः। नरशिरोदर्शं प्रधावद्धि नरशिरोमनुष्यशिरो दृष्ट्वाप्रधावद्भिर्वेगवत्तयागच्छद्भिः।दृशो नम्‌ साकल्ये। पुन कथंभूते सामजैः। तुरगालोकं पुरः प्रतिभासमानैःतुरगमालोक्य तुरगरथव्याप्तिपुरःसर देदीप्यमानैः। सामजैःकिं कुर्वद्भि। सपत्नद्विपमदगन्धाघ्राय प्रक्षभ्यद्भिःसपत्नानां शत्रूणां संबन्धिना द्विपाना गजाना मद्गन्धाघ्राय यथा भवत्येवं मदगन्धस्याघ्राय मदगन्धस्याघ्राणं पूर्वं वा मदगन्धमाघ्राय। “द्वितीयायां च" इत्यनेन नम्प्रत्ययः परीप्सायाम्‌। प्रक्षुभ्यद्ङ.। अपरं किं कुर्वाणैःसामजैः। प्रतिपक्षेभमणिरवश्राव संरम्भमाणै अतिपक्षाणां शत्रूणामिभाना हस्तिनांमणिरवश्रावं यथा भर्वत्येवं सरम्भमाणै कोपमवद्भिः। अपरं कि कुर्वाणैःसामजैः। क्रमेलकबिषय बिनिरुन्धद्भिक्रमेलकानामुद्राणां विषयं गोचरं बिनिरुन्धद्भिःविशेषेणातिशयेन रन्धद्भिःस्वीकुर्वद्भिः। उष्ट्राणांस्थानमङ्गीकुर्वद्भिरित्यर्थः। पुनःकिं कुर्वाणैःसामजैः। छत्रगोचर परिलुम्पमानैः। छत्रगोचरमातपवारणबिषंय परिलुम्पमनेः। छत्राणि त्रोटयद्भिरित्यर्थः। (पुनः कथंभूतैः सामजैः। मणीनां10 पादारोपितलोहचक्राणां शब्दानां श्रवणपूर्वेपरिसमन्ताच्छेदमद्भिः।) पुनः कथंभूतैःसामजैः। प्रलयकालनिलचलिताचलकुल- विभीषणप्रलयकालःकल्पान्तकालस्तस्यसंबन्धी अनिलो वातस्तेन चलितान्युड्डायितानि यानि अचलकुलानि पर्वतसमूहास्तद्वद्विभीषणास्ते तथा तैः। पुनः कथभूतैः सामजैः। प्रतिकरिशङ्कयेव गिरिकलीलालुलि-

गिरिकलीलालुलितमहाशिलाशकलनिष्पिष्टगण्डशैलैः; करनिष्पेषणपातितसालवनैः, दन्तकोटिसमुत्पा- टितपुरकपाटैः, स्वकीयबलविजिज्ञापयिवxxरविरथेषाडम्बरं रदेषु शेषं पुष्करेषु मन्दराचलं शरीरेषु महापगाः कोशकटस्रोत’सु सुर्यंलोचनेषु तारागणं बिन्दुषु चन्द्रं नखेषु पवनं च तरःसुदधानैः, विटपिभङ्गवदवधीरिताधोरणप्रणिधिभिः, बिसतन्तुवत्त्रुटितवल्लिकैः, वीरणप्ररोहबत्पर्यस्तवाहरिकैः, लताप्रतानवदुन्मथितबन्धनैः, नलदण्डवत्प्रमर्दिताला-

___________

तमहाशिलाशकलनिष्पिष्टगण्डशैले प्रतिकरिणा शत्रुगजाना शङ्कयेव गिरिकरीला कन्दुकक्रीडा तद्वत्‌ लुलितानि उद्धूलितानि महाशिलाना शकलानि खण्डानि तैर्निष्पिष्टाश्चूर्णीकृता गण्डाशैल क्षुद्रपर्वता यैस्तेतथा तै। पुन कथंभूतैःसामजैः। करनिष्पेषणपातितसालवनैः। कराणा शुण्डदण्डाना निष्पेषणेन आस्फालनेन पातितानि मूलादुन्मूलितानि सालवनानि शालवृक्षवनानि यैस्ते तथा तैः। पुन किं कुर्वाणैः(कीदृशै) सामजैः। दन्तकोटिसमुत्पाटितपुरकपाटै। दन्तकोटिभिर्दन्तार्ग्रैः कृत्वा स-मुत्पाटितानि अधःपातितानि नगरकपाटानि नगरद्वारकपाटानि यैस्ते तथा तैः। पुनः किं कुर्वाणैः सामजैः। स्वकीयबलविजिज्ञापयिषयेवनिजपराक्रमं ज्ञापयितुमिच्छयेव रविरथेषाडम्बरं रवे श्रीसूर्यैस्यरथस्य या ईषा दीर्घकाष्ठंतस्या आडम्बरमाटोपं रवेषु दन्तमुसलेषु दधानैर्धरद्धि। शेष नागं पुष्करेषु शुण्डादण्डेबु दधानै। मन्दराचले मेरुर्पर्वतं शरीरेषु कायेषु दधानैः। महापगा गङ्गायसुनानर्मदाद्या नदीः कोशकटस्रोतःसुकोशो मेढ्ररन्ध्रं कटो गण्डस्थलंतयोःस्रोतःसु तत्र मदप्रवहेषुदधानैः। सूर्ये भास्करं लोचनेषु नेत्रेषु दधानै। तारागण नक्षत्रमण्डलंबिन्दुषु मदबिन्दुषु दधानैः। चन्द्रं शशाङ्कमण्डले नखेषु विंशतिनखेषु दधानैः। पवनं नभखन्तं च समुच्चये तरःसु वेगेषु दधानैः। समुच्चयदीपकालंकारः। पुनः कथंभूतैसामजैः। विटपिभङ्गवदवधीरिताधोरणप्रणिधिभिः विटपिनां गृहाणां भङ्गवत्त्रोटनवदवधीरिता अवगणिता आधोरणानां हस्तिपकाना प्रणिधयो याचनानि वा अङ्कुशप्रयोगा यैसे तथा तैः।पुनःकिंभूतेः सामजैः। बिसतन्तुवन्नटितवल्लिके. पद्मिनीकन्दभागोत्पन्नसुन्नवश्नुटिता अङ्गमापिता वल्लिका शृङ्खला यैस्तेतथा तै। पुन कीदृशैः सामजैः। बीरणप्ररोहवत्पयस्तवाहरिकः वीरणप्ररोहवदुशीरतृणाङ्कुरवत्‌ पर्यस्ताअधःपातिता वाहरिकाआलानस्तम्भोयैस्ते तथा तैः। पुनः किदृशः सामजैः। लताप्रतानवदुन्माभितबन्धनैः लताप्रतानवंद्वल्लीजालबदुन्मभिताति शतखण्डीकृतानि बन्धतानि बरत्रादीनि तथा तैः। पुन. कीदृशैःसामजैः।नलदण्डवत्प्रमदितालानस्तम्भैः।गलदण्डबद्धमनदण्डवत्‌ पोटगलवत्‌ कमलदण्डवत् प्रमदिताश्चूर्णीकृता आलानस्तम्भा गजसम्भा यैस्ते तथा तैः। पुनःकीदृशैःसामजैः। मृणालजालबंद्विंघटितार्गलैःः मृणालजालबत्‌ प-

नस्तम्भैः, मृणालजालवद्विघटितार्गलैः, कुमुदकाण्डवटुन्मूलितनिकराचैः, मुखपटाभोगवदवगणितकरेणुभिः, परमाणुवल्लोचनगोचरादपि दूतरसंचरच्चारैः, कर्णतालपवनपरिक्षिप्तदिगन्तघनसधैः, गगनाघ्राणोत्कूणितकरसूत्कारकम्पित ब्रह्मलोकैः, पांशुप्रमाथोन्मथितमार्तण्डमण्डलैः, पङ्कोपदेहदुर्दिनीकृतनभोभागैः, जलावगाहपलायितजलदेवतैः,कामचारविहारवित्रासितवनदेवीसंदोहैः, उल्लङ्घितबलवेगवीथीपरिमाणैः, शाक्यशासनप्रमाणेरिव सकलजगच्छून्यतामानेतुं प्रवृत्तिसहजैः सामजैःसह चिक्रीड।

______________

द्मिनीकन्दसमूहवत्‌ विघटिता भङ्गमानीता अर्गलाःपिण्डकाष्ठानि यैस्तैतथा तैः। पुनः किंभूतैः सामजैः। कुमुदकाण्डवदुन्मूलितनिकायैः(चै) कुमुदकाण्डवच्छ्वेतोत्पलनालवत्‌ उन्मूलिता उत्पाटिता निकाया (चा) गात्रबन्धना यैस्ते तथा तैः। पुनः किमतः सामजै। मुखपटाभोगवदवगणितकरेणुभिः मुखपटाभोगवत्कृत्रिमसिंहमुखालेपवदवगणिता अवहेलिता करेणवोऽपरगजा यैस्तेतथा तैः। पुनःकथंभूतैः सामजै। परमाणुवल्लोचनयोचरादपिदूरतरसचरच्चारैः परमाणुवल्लोचनगोचरादपि नेत्रविषयादपि दूरतरंअतिविप्रकृष्टं संचरन्तो वेष्टयन्तश्चारा वीरपुरुषा यैस्ते तथा तै। पुनःकीदृशैः सामजैः। कर्णतालपवनपरिक्षिप्तदिगन्तघनसंघैः कर्णतालानां कर्णतारपत्त्राणा पवनेन वातेन परिक्षिप्ताः उड्डायिता दिगन्तेषु घनसंघा मेघपटलानि यैस्तेतथा तैः। पुनः कीदृशैःसामजैः। गगनाघ्राणोत्कूणितकरसूत्कारकम्पितब्रह्मलोकैःगगनाघ्राणायाकाशगन्धोपादानाय उत्कूणिता वक्रीकृता ये कराः शुण्डादण्डास्तेषां सूत्कारेण शब्दविशेषेण कम्पिता वेपिता ब्रह्मलोका अन्तरिक्षनगराणि यैस्ततथा तैः। पुनः कीदृशैः सामजैः। पांशप्रमाथोन्मशितमार्तण्डमण्डलैःपांशुप्रमाथेन धुलिप्रक्षेपेण उन्मथितं उपरिक्षिप्तं मार्तण्डमण्डलंसूर्यविमानं यैस्ते तथा तैः। पुनः कथंभूतैः सामजैः। पङ्कोपदेहदर्दिनीकृतमभोभागैः पङ्कस्य कर्दमस्यउपदेशे वृद्धिस्तमा दुर्दिनीकृतों नभसो भागः प्रदेशोयैस्तेतथा तैः। पुनः कीदृशैःसामजैः। जलावगाहपलायितजलदेवतैजलावगाहैन नदीसरोवरादिजलविलोडनेन पलायिता दूरंनाशिता जलदेवता यैस्तेतथा तैः। पुनः कीदृशैः सामजैः। कामचारविहार [वि] त्रासितवनदेवीसंदोहैःकामचारबिहारेण स्वेच्छयापर्यटनेन [वि] त्रासिता भयंप्रापिता भीतिमापिता वनदेहानां ब्यन्तरीणां संदोहाःसमूहा यैस्ते तथा तैः। पुनः कीदृशैः सामजैः। उल्लङ्घितबलक्येबीथीपरिमाणैःउल्लङ्घितानि उत्फालनेन मापितानि बलवेगेन कृता दीभ्याः परिमाणानि प्रभावद्भूमिदैर्य्या यैस्ते तथा तैः। पुनः कीदृशैःसामजैः।

कदाचित्कोणकोटिकलकन्दुकाम्बरचारणापरिस्खलितदिग्देवताविमानमण्डलोदुष्टाश्चै, सह प्रीतिं बबन्ध।

कदाचिन्निजभुजपराक्रमव्यायोधितासरा(र)लजलव्यालो महासरसीनामर्णासि विजगाहे।

कदाचिद्दोर्दण्डदलितदुर्दमशार्दूल कुत्कीलकुहराघ्रायिघूकघूत्कारघोराखरण्यानीषु विजहार।

कदाचिन्नियुद्धायासितप्रबलवेतालपूतनाकरोड्डमरडमरुकारवभैरवाः क्षपासु पितृवनावनी सचचार॥

_____________

शाक्यशासनप्रमाणैरिव बौद्धसमयशास्त्रैरिव सकल जगत्‌ सर्वजगत्‌ पृथ्वीमण्डल शून्यतामानेतुमुद्वासता प्रापयितु प्रवृत्तिसहजैश्चेष्टितेस्वभावो येषा ते तथा तै। संकरालंकार॥

** कदाचिदिति।**स मारिदत्तो राजा कदाचित्कस्मिंश्चिदवसरे पु(दु)ष्टाश्चैसह करटघोटकैसार्ध प्रीतिं प्रेम बबन्ध बद्धवान्‌ बध्नाति स्म।कथभूत स। कोणकोटिकलकन्दुकाम्बरचारणापरिस्खलितदिग्देवता विमानमण्डल कोणो मूलच(व)क्रकाष्ठयष्टिस्तस्य कोटिरग्रतया कलकन्दुकस्यअम्बरचारणा गगननयनमाकाशप्रापण तयापरिस्खलितानि अवष्टब्धानि दिग्देवताना विमानमण्डलानि व्योमयानसमूहा येन स तथा॥

कदाचित्कस्मिंश्चिदवसरे महासरसीना महासरोवराणामर्णासि जलानि विजगाहे विलोडयामास। कथभूत स। निजभुजपराक्रमव्यायोधितासरा(र)लजलव्यानिजौ स्वकीयौ भुजौ बाहुदण्डौतयो पराक्रमेण बलवत्तया व्यायोधिता विविध युद्ध कारिता असरा(र)ला महान्तो(वक्रा) जलव्याला मकरादयो जलजन्तवो येन स तथा॥

कदाचित्कस्मिश्चिदवसरे अरण्यानीषु महारण्येषु विजहार पर्यटन चकार। सकथभूत। दोर्दण्डदलितदुर्दमशार्दूलदोर्दण्डेन बाहुदण्डेन दलिता मृत्युनीता मृत्पिण्डीकृता दुर्दमा बलवत्तरा शार्दूला व्याघ्रसिंहादयों येन स तथा। कथभूताखरण्यानीषु। कुत्कीलकुहराघ्रायिघूकघूत्कारघोरासु कुत्कीलानां पर्वतानां कुहराणि विषराणि जिघ्रन्ति गन्ध गृह्ण तीत्वेवशीला कुत्कीलकुहराघ्रायिणस्तेच ते घुका उलूकपक्षिणनस्तेषा घुत्करैरौद्रशब्दैर्घारा भयानकास्तास्तथा तासु॥

कदाचित्कस्मिंश्चिदवसरे क्षपासु रातिषु पितृवतावनी श्मशानभूमिकासंचचार पर्यटितवान्‌। स कथभूत। नियुद्धायासितप्रबलवेताल। नियुद्धेन बाहुयुद्धेनायासिता दमिता प्रबलाप्रचण्डा वेताला भूताविष्टमृतकशरीराणि येन स तथा। कथभुताःपितृवनावनी। पूतनाकरोड्डमरडमरुकारवभैरवा पूतनाना राक्षसीनां करेषु हस्तेषुउड्डमरा उत्कटा ये डमरुका ढक्कास्तेषामारवाःशब्दास्तैर्भैरवा भयानकास्ताः॥

कदाचिदसहायसाहस साश्चर्यशौर्यनिर्जितविनतदुर्वारवीरावतारभूपालचूडामणिमरीचि प्रसरसर- स्ताण्डवितचरणकमल शत्रुक्षत्रियकलत्रनेत्रापाङ्गसङ्गोल्लोललजाञ्जलिपातानामात्मानपात्रता निनाय॥

कदाचित्तौर्यत्रिकातिशयविशेषविजितगन्धर्वलोक खल11तिकलतालयरङ्गेषु वनदेवताना समाज नर्तयामास॥

कदाचिदान्ध्रीणामलकवल्लीरीविजृम्भ12णजलधर, चोलीषु भ्रूलतानर्तनमल-

___________

कदाचित्कस्मिंश्चिदवसरे शत्रुक्षत्रियकलत्रनेत्रापाङ्गसङ्गोल्लोललजाञ्जलिकिपातानामात्मान पात्रता निनाय शत्रुक्षत्रिया सपत्नराजपुत्रास्तेषां कलत्रा(णि) यौवनमदवत्य स्त्रियस्तासा नेत्राणा लोचनानामपाङ्गसङ्गेन कटाक्षासङ्गेन कटाक्षसगत्या उल्लोलाउत्कटा लाजाजलय आर्द्रतण्डुरुप्रसृतयस्तासा पाता पातनानि तेषां (आत्मान13 निजशरीरं) पात्रताममत्रता निनाय नीतवान्‌ नयति स्म। कथभूत स। असहायसाहस अद्वितीयाद्भूतकूमा। पुन कथभूत। साश्चर्यशीयनिर्जितविनतदुर्वोरवीरावतारभूपारुचूडामणिमरीचिप्रसरसरस्ताण्डवितचरणकमलसाश्चर्यचतुरचित्तचमत्कारकारक यच्छौर्यबलतेन पूर्व निर्जिता भङ्ग प्रापिता पश्चाद्विनता नम्रीभूता ये दुर्वारवीरा वतारभूपाला। दुखेन महता कष्टेन वारयितुमशक्या दुर्वारा। धीरेषु सुभटेष्वव तारो जन्म येषा ते दुर्वारवीरावतारा ते च ते भूपाला राजानस्तेषां चूडामणय शिरोरत्नानि तेषा मरीचय किरणास्तेषां प्रसरे व्याप्ति स एवसरस्तडागस्तत्रताण्डबित्‌ चरणकमलपादपद्य येन स तथा॥

कदाचित्कस्मिश्चिदवसरे खलतिकलतालयरङ्गेषु वनदेवतानां समाज नर्तयामास।खलतिक नाम वनानि तस्य लतालया लतामण्डपास्तेषां रङ्गेषुनर्तनभूमिषुवनदेबताना कान्तारदेवतानों समाज समूहं वर्तयामास नृत्य कारितवान्‌। स कथंभूतः। तौर्यत्रिकातिशयविशेषविजितगन्धर्वलोकः तौर्यत्रिकगीतनृत्यवादित्रशास्त्रंतस्याति शयविशेषश्चातुर्यातिशयस्तेनविजिता भङ्गंप्रापिता गन्धर्वलोका कलत्रवाकसमूहा येन स तथा॥

स मारि(र)दत कदाचित्कस्मिंश्चिदवसरे कामक्रीडया स्मरं कदर्पं विडम्बयामास तिरश्चकार। कथभूत स। अन्ध्रीणां तिलिङ्गदेशवनितानां अलकवल्लरीविजुम्भणजलधर अलकाश्चूर्णकुन्तलास्त एव वल्लर्योमजर्योवल्ल्यो वा तासां विजृम्भणे उल्लासने जलधरो जीमूतसदृश। पुन कथभूत। चोलीषु चोलदेशवनितासु भ्रूलतानर्तने चि-

यानिल, केरलीना नयनदीर्घिकाकेलिकलहस, सिंहलीषु मुखकमलमकरन्दपानमधुकर, कर्णाटीना कुचकलशविलासपल्लव, सौराष्ट्रीषु वलिवाहिनीविनोदकुञ्जर, कम्बोजीना नाभिवलभिगर्भसभोगभुजङ्ग, पल्लवीषु नितम्बस्थलीखेलनकुरङ्ग, कलिङ्गीना चलनकिसलयोत्सवपुष्पाकर [ स ] स्म विडम्बयामास॥

कदाचिदुन्निद्रारविन्दमकरन्दबिम्बकोल्लोलजलकेलिवापिकेषु, माकन्दम-

_______________

ल्लीवल्लीनर्तने मलयानिलश्चन्दनाचलवातसदृश। पुन कथभूत स। केरलीनां दक्षिणपथदेशविशे[षयो]षाणा नयनदीर्घिकाकेलिकलहस नयनानि नेत्राणि तान्येव दीघिका चाप्यो वापिका। कान्तिजलसभृतत्वात्। तासु केलिकरणे क्रीडाविधाने कलहसो राजह ससदृश। पुन कथभूत स। सिंहलीषु लङ्काद्वीपवनितासु मुखकमलमकरन्दपानमधुकर मुखान्येव कमलानि सहस्रपत्त्राणि। सौरभगुणविराजमानत्वात्। तेषा मकरन्दपाने पुष्परसास्वादे मधुकरो भ्रमरसदृश। पुन कथभूत स। कर्णाटीनां वनवासदेशयोषिता कुचकलशविलासपल्लव कुचा एव कलशा। शृङ्गाररसभृतत्वात्। तेषा विलासे शोभाविधाने पल्लव प्रवालसदृश। पुन कथभूत स। सौराष्ट्रौषु गिरिनारिसौराष्ट्रियोषित्सु वलिवाहिनीविनोदकुञ्जर वलय उदरत्रिभङ्गास्त एव वाहिन्यो नद्य। कान्तिजलसभृतत्वात्। तासा विनोदे क्रीडाकरणे कुञ्जरो यूथनाथसदृश। पुन कथभूत स। कम्बोजीना बृहन्मुण्डकमनीयकामिनीनां नाभिवलभिगर्भसंभोगभुजङ्ग नाभ्यस्तुन्दि कास्ता एव वलभय पटलाधारवशपत्त्राणि तासां गर्भसभोगे मध्यप्रदेशक्रीडने भुजङ्गो नागेन्द्रसदृश। पुन कथभूत स। पल्लवीषु नितम्बस्थलीखेलनकुरङ्ग पल्लवीषु पल्लव देशवनितासु नितम्बा स्त्रीकटिपश्चाद्भागास्त एव स्थल्य उन्नतप्रदेशास्तत्र खेलने क्रीडाकरणे कुरङ्ग कस्तूरिकामृगसदृश। पुन कथंभूत स। कलिङ्गीनां चलनकिसलयोत्सवपुष्पाकर कलिङ्गीनां कोटिशिलादेशस्त्रीणा चलना पादास्त एव किसलयानि पल्लवाः। कोमलत्वादरुणवर्णत्वाच्च तेषामुत्सवे उल्लासने पुष्पाकरो वसन्तसदृश शृङ्गाररसप्रधानत्वात्। उपमादिसकरालंकार॥

स मारि(र) त कदाचिन्मधुमासवासरेषु वसन्तर्तुदिनेषु कामाश्रमधर्मचारितां कामस्य कदर्पस्याश्रमो निवासभूमि। स्मरमन्दिरमित्यर्थं। तस्य संबन्धिनी या धर्मचारिता संभोगक्रीडा तामाप्रपेदे प्राप्तवान्। इति क्रियाकारकसंबन्ध। कथंभूतेषु मधुमासवासरेषु। उन्निद्रारविन्दमकरन्दबिम्बकोल्लोलजल केलियापिकेषु उन्निद्राण्युत्कुल्लानि विकसितानि च तानि अरविन्दानि कमलानि तेषां मकरन्द पुष्परसस्तस्य बिम्बकानि मण्डलानि तैरुपलक्षितमुकल्लोलमुत्कल्लोलं यज्जल तस्य संबन्धिन्य केलिवापिका क्रीडादीर्धिका येषु ते तथा तेषु। पुनः कथभूतेषु मधुमासवासरेषु। माकन्दमजरीजालका

-

ञ्जरीजालकावलोकनोल्लासितविलासिमानसेषु, मलयाचलावनीवनप्रसूनसौरभोड्डमरमरुदुद्धूयमान मकरध्वजध्वजदुकूलेषु, कामिनीमुखमदिरोन्मादितबकुलकाननेषु, विलासिनीविलोकितामृतस्तर्प्यमाण कुरबकतरुषु, रमणीमणिमञ्जीरशिञ्जितमुखरचरणास्फालनसनाथाशोकशाखिषु, परिमल मिलन्मिलिन्दसदोहदूषितषट्पदातिथिपादपेषु, कदम्बकुसुमधूलिधूसरधरापृष्ठेषु, कन्दरकलापसचरद्रति चतुरविकिरनखमुखावलिख्यमानवल्लरीशरीरेषु, का-

_______________

वलोकनोल्लासितविला14सिमानसेषु माकन्दानामाम्रतरूणा मञ्जर्यो वल्लर्यस्तासा जालकानि समूहास्तेषामवलोकनेनोदीक्षणेनोल्लासितानि आनन्द प्रापितानि विलासिना कामुकाना मानसानि चित्तानि येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। मलयाचलाव नीवनप्रसूनसौर- भोड्डमरमरुदुद्धूयमानमकरध्वजध्वजदुकूलेषु मलयाचलश्चन्दनगिरिस्तस्या वनी भूमिस्तत्र यद्वन चन्दनतरुवन तस्य प्रसूनानि पुष्पाणि तेषा सौरभ सौगन्ध्य तेनोड्डमर उत्कटो योऽसौ मरुद्वातस्तेनोद्यमानानि कम्पमानानि मकरध्वजस्य कामदेवस्य ध्वजदुकूलानि केतुवस्त्राणि येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। कामिनीमुसमदिरो मादितबकुलकाननेषु कामिनीना मुखानि वक्राणि तेषा या मंदिरा मद्य तयोन्मादितानि विशोकीकृतानि बकुलकाननानि मञ्जुलवनानि येषु ते तथा तेषु। पुन क्थभूतेषु मधुमासवासरेषु। विलासिनीविलोकितामृतस्तर्प्यमाणकुरबकतरुषु विलासिनीनां तरुणयोषिता विलोकितान्यवलोकनानि तान्येवामृतानि पीयूषाणि। जीव नदायकत्वात्। तै संतर्प्यमाणा सप्रीयमाणा कुरबकतरवो येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। रमणीमणिमञ्जीरशिक्षितमुखरचरणास्फालनसना याशोक शाखिषु रमणीनां कमनीयकामिनीना ये मणिमञ्जीरा रत्नसचितनूपुराणि तेषा शिक्षितानि शब्दानि ( ) तैर्मुखरा वाचाला ये चरणा पादास्तेषामास्फालनेन ताडनेन सनाथा विकास प्राप्ता अशोकशाखिनो येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। परिमलमिलन्मिलिन्दसंदोहदूषितषट्पदातिथिपादपेषु परिमलेन सौरभेण मिलन्त एकत्रीभवन्तो ये मिलिन्दा भ्रमरास्तेषां संदोहे समूहैर्दुषिता कृष्णवर्णीकृता षट्पदातिथिपादपाश्चम्पकरक्षा येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। कदम्बकुसुम धूलिधूसरधराष्टष्ठेषु कदम्बानां कदम्बवृक्षाणा कुसुमानि प्रसवस्तेषा धूलिभी रजोभिर्धूसराणि इषत्पाण्डुराणि धरापृष्ठानि भूमिमण्डलानि येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। कन्दरकलापसचरद्रतिचतुरविकिरनखमुखावलिख्यमानवल्लीरीशरीरेषु कन्दरकलापेषु गुहासमूहेषु संचरन्त प्रविशन्तो ये रतिचतुरविकिरा पारापतपक्षिणस्तेषां नखैर्मुखैश्चावलिख्यमानानि चुम्ब्यमानानि वल्लरीणा शरीराणि काया

न्तारकुहरविहरत्कोकिलकुलकोलाहलोत्थापितानङ्गव्यालव्याकुलितकामुकेषु, प्रोषितयोषिद्विरहाशुशुक्षणिसधुक्षिषु, मनसिजाजकवटकारद्रवदध्वन्यहृदयेषु, दिवाप्यभिसारिकाजनानामन्धतमसप्रसाधिषु, धीराणामपि प्रणयिनीप्रणतिहेतुषु मानिनामपि प्रियतमाप्रसादनदैन्यनिनादेषु15 शूराणामपि वल्लभाचाटुकारकारणेषु, यमिनामपि रतिरसातङ्कायतनेषु, पुष्पचापशरप्रसारसारेषु, मधुमासवासरेषु कामाश्रमधर्मचारितामाप्रपेदे॥

___________

येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। कान्तारकुहरविहरत्कोकिलकुल कोलाहलोत्थापितानङ्गव्यालव्याकुलितकामुकेषु कान्तारकुहरेषु उद्यानविवरेषु मध्येषु विहरन्त पर्यटन्तो ये कोकिला पुस्कोकिलास्तेषा कुलानि समूहास्तेषा कोलाहल कलकलशब्दस्तनोत्थापित प्रकटीकृतोऽनङ्ग एव व्याल कन्दर्पकालसप। अचेतनो (नतो) त्पादकत्वात्। तेन व्याकुलिता विह्वलीकृता कामुका स्त्रीलम्पटपुरुषा येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। प्रोषितयोषिद्विरहाशुशुक्षणिसंधुक्षिषु प्रोषितयोपित परदेशप्राप्तभर्तृका स्त्रियस्तासा विरहो विप्रलम्भ स एव आशुशुक्षणिवैश्वानर।शरीर सतापकारकत्वात्। त सधुक्षयन्ति प्रदीपयन्तीत्येवशीलास्ते तथा तेषु। पुन कथंभूतेषु मधुमासवासरेषु। मनसिजाजकवटकारद्रवदध्वन्यहृदयेषु मनसिज कामस्तस्याजकवधनुस्तस्य टकार शब्दस्तेन द्रवति नश्यन्ति ह्रियन्ते अध्वन्यानां पथिकाना हृदयानि चित्तानि येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। दिवाप्यभिसारिकाजनानामन्धतमसप्रसाधिषु दिवाणि दिवसेऽपि रात्रौ चापि अभिसारिकाजनानां परपुरुषलम्पटस्त्रीसमूहानामन्धतमसप्रसाधिषु अन्धतमसमन्धकारं प्रसाधयन्तीत्येवशीलास्ते तथा तेषु। अन्धकारकारकेष्वित्यर्थं। ‘अवतमसमन्धतमसं ध्वान्तमन्धकारं च’ इति हलायुध। पुन कथभूतेषु मधुमासवासरेषु। धीराणामपि योगीश्वराणामपि। अपिशब्दात्कातराणामपि। प्रणयिनीना स्त्रीणा प्रणते पादपतनस्य हेतवकारणानि येषु ते तथा तेषु। पुन कथभूतेषु मधुमासवासरेषु। मानिनामपि प्रियतमाप्रसादनदैन्यनिनादेषु मानिनामपि अभिमानवतामपि। अपिशब्दान्निर्मानानामपि। प्रियतमानां स्त्रीणां प्रसादनेषु प्रसन्नकरणेषु यद्दैन्यमकिंचित्करं याचकत्व तस्य निनादाः (नि) यैस्ते तथा तेषु प्रियतमाप्रसादनदैन्यनिनादेषु। पुन कथभूतेषु मधुमासवासरेषु। शूराणामपि वल्लभाचाटुकारकारणेषु शूराणामपि सहस्रभटलक्षभटकोटिभटानामपि। अपिशब्दात्संप्रामान्निवर्तकानामपि। वल्लभानां प्रियतमस्त्रीणां चाटुकारस्य मिथ्यास्तुते कारणानि हेतुभूता ये तेषु वल्लभाचाटुकारकारणानि तेषु। पुन कथभूतेषु मधुमासवासरेषु। मनिनामपि रतिरसातकायतनेषु यमिनाम्। अपिशब्दात् अब्रतानामपि। रते संभोगक्रीडायाः

‘कदाचिच्चरणकिसलयोल्लासमसृणितमार्गनिर्गमाभि, पादनखमयूखोपहारितविहार महीमण्डलाभि, मेखलाकलापकलितोरुस्तम्भिकापुनरुक्तकाननदेवतोद्यानतोरणमालाभि, नितम्बस्थलीद्विगुणिताशोकशाखाशयनसनिवेशाभि, तनूरुहराजिविजितलताप्ररोहप्रसराभि, नाभिगर्भनिर्भर्सितक्रीडाकुत्कीलकन्दराभि, वलिविलासविलुप्तवल्लरीचलनाभि, स्तनविस्तारविडम्बितप्रसूनस्तब-

_____________

यो रसोऽनुराग स एवातङ्क सद्य प्राणहरो व्याधिस्तस्यायतनानि आस्पदीभूतानि ते (?) रतिरसातङ्कायतनानि तेषु। पुन कथभूतेषु मधुमासवासरेषु। पुष्पचापशरप्रसारसारेषु पुष्पचाप कन्दर्पस्तस्य शरा वाणास्तेषा प्रसार प्रवृत्तिस्तेन सारा बलवत्तरा ये तथा तेषु। सकरालंकार॥

स मारिदत्त कदाचित्कस्मिंश्चिदवसरे प्रमदवनेषूद्यानवनविशेषेषु युवतिभि कमनी यकामिनीभि सह सार्धं रेमे क्रीडा चकार। इति क्रियाकारकसबन्ध। कथभूताभिर्युवतिभि। यथोक्तविशेषणविशिष्टाभि अलकारीकृतवनस्पतिविभूतिभि अलकारीकृता शरीरेष्ववतारिता वनस्पति विभूतिरुद्यानलक्ष्मीर्याभिस्तास्तथा ताभि। तत्कारणगभितविशेषणान्याह—कथभूताभिर्युवतिभि। चरणकिसलयोला समसृणित मार्गनिर्गमाभि चरणा पादास्त एव किसलयानि कुम्पलानि। कोमलारुणवर्णसयुक्तत्वात्। तेषामुहास क्रीडन तेन मसृणिता कोमलीकृता मार्गनिर्गमा पथ प्रवृत्तयो याभिस्तास्तथा ताभि। पुन कथ भूताभिर्युवतिभि। पादनखमयूखोपहारित विहारमही मण्डलाभि पादनखानां चरणपुनर्भवानां मयूखा किरणास्तैरुपहारितानि पूजितानि विहारस्य पर्यटनस्य महीमण्डलानि भूमिदेशा याभिस्तास्तथा ताभि। पुन कथभूताभिर्युनतिभि। मेखलाकलापकलितोरुस्तम्भिकापुनरुककाननदेवतोद्यानतोरणमालाभि मेखलाकलाप जघनोपरिस्थितवस्त्रोच्चय स्तेन कलिता वेष्टिता ऊरुस्तम्भिका पिचण्डलघुस्तम्भास्ताभि पुनरुता द्विगुणीकृता काननदेवतानामुद्यानदेवतानां तोरणामालाभि महोत्सवधन्दनमाला याभिस्तास्तथा तामि। पुन कथभूताभिर्युवतिभि। नितम्बस्थलीद्विगुणिताशोकशाखाशयनसंनिवेशामि नितम्बस्थलीभि कटिपश्चाद्भागस्थलीभिर्द्विगुणित अशोकशाखानां शयनसंनिवेश शय्यास्थान याभिस्तास्तथा ताभि। पुन कथभूताभिर्युवतिभि। तनूरुहराजिविजितलताप्ररोहप्रसराभि तनूरुहराजिभी रोमराजिभिर्विजितस्तिरस्कृतो लताप्ररोहप्रसरो बल्ल्यङ्कुरप्रसारो याभिस्तास्तथा ताभि। पुन कथभूताभिर्युवतिभि। नाभि16गर्भनिर्भत्सि तक्रीडाकुत्कीलकन्दराभि नाभिगर्भेण नाभिमध्येन निर्भत्सिता तिरस्कृता क्रीडाकुकीलकन्दरा क्रीडाकरणक्षुद्रपर्वगुहा याभिस्तास्तथा ताभि। पुन कथभूताभिर्युवतिभि। बलिविलासविल्लुप्तवल्लरीचलनाभि वलिविलासैस्त्रिवलीभङ्गशोभाभिर्विलुप्तानि तिरस्कृतानि वल्लरीचलनानि याभिस्तास्तया ताभि। पुन कथभूताभिर्युवतिभि। स्तनविस्तार -

काभि भुजपञ्जरपराजितकान्तारतानाभङि, अधराधरीकृतबालप्रवालाभि कपोलतलोल्लसत्स्वेदजल मञ्जरीजालकुसुमितावतसपल्लवाभि, चिकुरकान्तिकलुषितसप्तच्छदच्छायाभि, अलकारीकृतवनस्पति विभूतिभिर्युवतिभि सह प्रमदवनेषु रेमे ॥

कदाचिन्मरकतमणिविनिर्मितमूलासु, कङ्केल्लकोपलसपादितभित्तिभङ्गिकासु, काञ्चनोपरचितसोपानपरम्परासु, मुक्ताफलपुलिनपेशलपर्यन्तासु, करि-

________________

विडम्बितप्रसूनस्तबकाभि स्तनाना विस्तारैर्विडम्बितास्तिरस्कृता प्रसूनस्तबका पुष्प गुच्छा याभिस्तास्तया ताभि। पुन कथभूताभिर्युवतिभि। भुजपञ्जरपराजितकान्तारता नाभि भुजपञ्जरैर्वाहुरचनाभि पराजितस्तिरस्कृत कान्तारस्य वनस्य तानो दीघत्व याभिस्तास्तथा ताभि। पुन कथभूताभियुवतिभि। अधराधरीकृतवालप्रवालाभि अधरैर्बिम्बोष्ठैरधरीकृतास्तिरस्कृता बालप्रवाला कोमलपल्लवा याभिस्तास्तथा ताभि। पुन कथभूताभिर्युवतिभि। कपोलतलोल्लसत्स्वेदजलमञ्जरीजालकुसुमितावतसपल्लवाभि क पोलतलेषु गण्डस्थलेषूल्लसन्ति उदयमानानि यानि स्वेदजलानि तान्येव मञ्जरीजालानि वल्लरीसमूहास्तै कुसुमिता पुष्पसयुक्ता कृता अवतसपल्लवा कर्णपूरप्रवाला याभिस्तास्तथा ताभि। पुन कथभूताभियुवतिभि। चिकुरकान्तिकलुषित सप्तच्छदच्छायाभि चिकुराणा केशानां कान्तिभि कृष्णतेजोभि कलुषितास्तिरस्कृता अपमानविषयीकृता सप्तच्छदाना विषमच्छदानां शारदवृक्षाणा छाया शोभा याभिस्तास्तथा ताभि। संकरालकार ।

कदाचित्कस्मिंश्चिदवसरे गृहदीर्घिकासु गृहवापिकासु कामिनीभिर्नवयौवनाभि श्रीभि परिवृतो वेष्टितो जलक्रीडासुखमन्वभूत् आस्वादितवान्। काभि क इव। करेणुभि परिवृत करी इव गज इव। यथा करेणुभि परिवृत करी सुखमन्वभूत् अनुभवति। कथभूतासु दीर्घिकासु। मरकतमणिविनिर्मितमूलासु मरकतमणिभिर्विनिर्मितानि निष्यादितानि मूलानि भूतलानि यासा तास्तथा तासु। उक्त च रत्नपरीक्षायाम्— गरुडो17द्गारदुर्गोपवशेष्वत्रकतुच्छका। मरकतश्चतुर्धातुश्चतुर्धा स्याद्विषापह॥ कदेशे महाशैले कीरपक्षाणिको (क्षनिभो) भवेत्। सधिकर्बुररन्धासारूक्षता हरित शुभ॥ हरितम णिविनिर्भिताखित्यर्थं। पुन कथभूतासु गृहदीर्घिकासु। कङ्केल्लकोपलसंपादितभित्तिमशिकासु कङ्केल्लका स्फटिकमणयस्तेषामुपलै शिलाभि संपादिता निष्पादिता भित्तीन मेडूकानां भक्तिका रचना यासा तास्तथा तासु। पुन कथभूतासु गृहदीर्घिकासु। काश्चनोपरचितसोपानपरम्परासु काञ्चनेन सुवर्णेनोपरचिता निर्मापिता सोपानपरम्परा आरोहणश्रेणिर्यासां तास्तथा तासु। पुन कथभूतासु गृहदीर्घिकासु। मुक्ताफलपुलिनपेशलपर्यन्तासु मुक्ताफलानां पुलिनैस्तोयोत्थितद्वीपै। ’ तोयोत्थितं तद्पुलिनम्’ इति न

मकरमुखमुच्यमानवारिभरिताभोगासु, कर्पूरपारीदन्तुरतरङ्गसगमासु, दुग्धोदधिवेलास्विव चन्दनधवलासु, वनस्थलीष्विव सकमलासु, शिशिरशैलशिलास्विव मृगमदामोदमेदुरमध्यासु, कण्ठीरवकण्ठपीठेष्विव सकेसरासु, विरहिणीशरीरयष्टिष्विव मृणालवलयिनीषु, मन्त्रवादोक्तिष्विव विविधयन्त्रश्लाघिनीषु, वसन्तलतास्विव विचित्रपल्लवप्रसूनफलस्फा [रस्फा ] रार्धिकासु गृह-

__________

चनात्। तै पेशला अतिमनोहरा पर्यन्ता प्रान्तदेशा यासा तास्तथा तासु। पुन कथंभूतासु गृहदीर्घिकासु। करिमकरमुखमुच्यमानवारिभरिताभोगासु करिणा कृत्रिम हस्तिना तथाविध ( धाना) मकराणां जलचराणा [च] मुखैर्मुच्यमान त्यज्यमान यद्वारि जल तेन भरिता पूरित आभोगा विस्तारा यासा तास्तया तासु। इत्यनेन विशेष णेन गृहवापिकाना कृत्रिमत्व सूचितमित्यर्थं। पुन कथभूतासु गृहदीर्घिकासु। कर्पूरपारीदन्तुरतरमसंगमासु कर्पूरपारीभिर्हिमवाकाशलाकाभिर्दन्तुर उन्नतस्तरा सगम कहोलसंगतिर्यासा तास्तया तासु। पुन कयभूतासु गृहदीर्घिकासु। दुग्धोदविवेलाखिव चन्दनववलामु। यथा दुग्धोदविवेला क्षीरसागरजलवि कृतयश्चन्दनवद्ववला भवन्ति। वापिकास्तु चन्दनेन ववला। पुन क्यभूतासु गृहदीर्घिकासु। वनस्थलीष्विव सकमलासु।सह कमलै कमलपुष्पैर्जलैर्वा वर्तन्ते सकमलास्तासु। कास्विव। वनस्थलीष्विव। यथा वनस्थल्य कमलग्गै सह वर्तन्ते। पुन कथभूतासु गृहदीर्घिकासु। शिशिरशैलशिलाथिय मृगमुद्रामोदमेदुरमध्यासु मृगमदस्य कस्तूरिकाया आमोद परिमलस्तेन मेदुरा xxxयप्रदेशा यासा तास्तथा तासु। कास्विव। शिशिरशैलो हिमाचल पर्वतस्तस्य शिला दृषदो। यथा हिमाचलस्य शिला कस्तूरिकापरिमलसहिता भवन्ति तास्विव। पुन कथभूतासु गृहदीर्घिकासु। कण्ठीरवकण्ठपीठीष्विव सकेसरा सुासह केसरै कश्मीजन्मकुसुमैर्वर्तन्त इति सकेसरास्तासु। काखिव। कण्ठीरवकण्ठपीठीष्विव। यथा कण्ठीरवकण्ठपीठ्य सिंहानां प्रशस्तकण्ठ्य सकेसरा केसरसहिता भवन्ति। पुन कथभूतासु गृहदीचिकासु। विरहिणीशरीरयष्टिष्विव मृणालवलमिनीषु। मृणालवल्यानि कमलकन्दा विद्यन्ते यासु ताखया तासु। कास्विव। विरहिणीशरीरयष्टिष्विव। यथा विरहिणीनां विप्रलब्ध स्त्रीणां शरीरयष्टय शरीरकाष्ठा मृणालवलयसहिता भवन्ति। शरीरस्य परितापसयुक्त- त्वाच्छीतोपचाराय कमलमृणालसहिता भवन्ति। पुनः कथभूतासु गृहदीर्घिकासु। मवादोतिष्विव विविधयश्रश्वाधिनीषु। विविधैर्नानाप्रकारैर्यन्त्रैर्वशनालिकादिभि श्लाघिन्य स्तुत्यास्तास्तथा तासु। कास्विव। मन्त्रवादोतिष्विव। यथा मन्त्रवादस्योकयो वचनानि अनेकयन्त्राणि (ण) सिद्धचक्रादीनां कत्थिका भवन्ति। पुन कथभूतासु गृहदीर्घिकासु। वसन्तलताखिव विचित्रपल्लवप्रसूनफलस्फा[रस्फा]रार्धिकासु। पल्लवाश्च कुम्पलानि प्रसूनानि व कुसुमानि फलानि च जातीफलादीनि विचित्राणि नानाप्रकाराणि च

दीर्घिकासु करेणुभि करीव कामिनीभि परिवृतो जलक्रीडासुखमन्वभूत्॥

अन्तर्लीनसत्त्व शर्वरीवातूल इव रजस्तमोबहुलोऽपि चण्डानिल हव व्यसनेषु बद्धप्रीतिरपि, वनगज इव कामचारप्रवर्तनोऽपि, धनुग्रह इवावगणितमन्त्रिलोकोऽपि, रविरिव कुवलयानवेक्षणोऽपि, वसन्त इव विजात्यानन्द-

______________

तानि पल्लवप्रसूनफलानि तेषा स्फार प्राचुर्य तेन स्फार प्रचुरोऽर्ध पूजा वर्तते यामु तास्तथा तासु। काखिव। वसन्तलताखिव। यथा वसतलता वसन्तर्तुशाखावत्रयश्च विचित्र पनवप्रसून फलस्फारा भवन्ति। सकरालंकार ॥

स मारिदत्त स्वस्य दैवायत्तावतारामिव स्वस्य आत्मन दैवायत्तावतारां देव सबन्धि अवतारां कल्याणपरम्परामाचचक्षे कल्याणश्रेणा सूचितवान्। ‘अह मनुष्यो न भवामि, देवोऽहम्’ इति मन्यते स्म। इति क्रियाकारकसबन्ध \। स कथभूत। अन्तर्लीनसत्त्व शर्वरीवातूल इव रजस्तमोबहुलोऽपि। राजसी प्रकृति ।‘अह राजा’ इत्यहकारवान् इति रज। रजश्च तमश्च दैन्यलक्षण ताभ्यां बहुलोऽपि प्रचुरोऽपि सन्नन्तर्लीनसत्त्व अन्तर्मनसि अन्तरात्मनि वा लीन तन्मयता गत सत्त्व पुण्यपरिणाम प्रसन्नता यस्य सोऽन्तर्किनसत्त्व क इव शर्वरीवा तूल इव। यथा रात्रिसबन्धी वातूलो वातमण्डली अन्तलीनसत्त्वो मध्यप्रविष्टपिशाचो भवति। एवगुणविशिष्टोऽप्यात्मान देवावतार मानितवान्। सत्त्वरजस्तमोलक्षण यथा—वदननयनादिप्रसन्नता सत्त्वगुणेन स्यात्। रजोगुणेन तोप। स चानन्दपर्याय। तल्लिङ्गानि स्फूर्त्यादीनि तमोगुणेन दैन्य जन्यते। ‘हा देव, नष्टोऽस्मि वञ्चितोऽस्मि’ इत्यादि वदनविच्छायतानेत्रसंकोचनादिव्यञ्जनीय दैन्य तमोगुणलिङ्गम् इति व पुन कथंभूत। चण्डानिक इव व्यसनेषु बद्धप्रीतिरपि [आत्मान देव ज्ञातवान् ]। व्यसनानि वाग्दण्डपारुष्ये अर्थदूषण पान स्त्री मृगया द्यूत चेति सप्त व्यसनानि तेषु बद्धप्रीति। क इव। चण्डानिल इव। यथा चण्डानिल प्रचण्डवात विविधेष्वसनेषु क्षेपणेषु बद्धप्रीतिर्भवति। पुन कथभूत। वनगज इव कामचारप्रवेतनोऽपि [आत्मान देवायत ज्ञातवान् ] कामचारेषु स्वेच्छाचारेषु प्रवर्तन यस्य स कामचारप्रवर्तन।क इव। वनगज इव। यथा वनगज कामचारप्रवर्तनो भवति। पुनः कथभूतः। धनुग्रह इवावगणितमत्रिलोकोऽपि अवगणितोऽनादृतो मन्त्रिलोक सचिवलोक स तथा [आत्मान दैवायत ज्ञातवान्]। क इव। धनुग्रह व। यथा धनुग्रहोऽसाध्यपिशाचविशेषो मन्त्रिलोकमवगणयति। पुन कथभूत। रविरिव कुवख्यानवेक्षणोऽपि [आत्मान दैवायत्त ज्ञातवान् ]।गर्हासमुच्चयप्रश्नशङ्कासंभावनासु च वर्तमानोऽप्यपिशब्दोऽत्र गर्हायां ज्ञातव्यः। सर्वत्रापि गर्हायां ज्ञातव्य। कुबलयस्य पृथ्वीलग्नस्य अनवेक्षणमवीक्षणं यस्य स कुवलयानवेक्षण। क इव। रविरिव। यथा रविः श्रीभास्कर कुवलयानामुत्पलानामवेक्षणं न करोति। पुन कथभूतः। वसन्त इव

नोऽपि द्रुमार्दन इव विदूरितकमलोत्सवोऽपि, पारिपुङ्ख इवानात्मनीनवृत्तिरपि, कमलीव दोषागमरुचिरपि, कादिशीक इवानवस्थितक्रियोऽपि प्रतिपच्चन्द्र इव दुर्दर्शोऽपि, चक्रवाक इव वारवनिताप्रियोऽपि रथचरणनाभिदेश इवाक्षासक्तोऽपि, शूर्पकारातिरिव मधुलब्धविजृम्भणोऽपि, जलव्याल इवाच्छोद-

___________

विजात्यानन्दनोऽपि [आत्मनि देवत्व ज्ञातवान्]। विजातीना नीचजातीनामानन्दन यस्मात् इति विजात्यानन्दन। क इव। वसन्त इव। यथा वसन्तो विशिष्टाना जाती पुष्पाणामानन्द करोति। पुन कथभूत। द्रुमार्दन इव विदूरितकमलोत्सवोऽपि [आत्मनि देवत्व ज्ञातवान् ]। कस्य आत्मनो मल पाप कमल तत्र उत्सव उद्यमो यस्य स कमलोत्सव। विदूरितो निकटीकृत कमलोत्सवो येन स विदूरितकमलोत्सव। क द्रव। द्रुमादन इव। यथा इमादनो हेमन्त कमलाना पद्मपुष्पाणामुत्सव विदूरयति हिमेन दग्धानि करोति। पुन कथभूत। पारिपुङ्ख इवानात्मनीनवृत्तिरपि [आत्मनि देवत्व ज्ञातवान्]। आत्मने हिता आत्मनीना। हितायेषु चतुर्थी। ‘सप्तपदादिभ्य इनण्]। न आत्मनीना न आत्महिता वृत्तिराजीविका यस्य सोऽनात्मनीनवृत्ति। क इव। पारि पुत इव। यथा पारिपुको बौद्ध आत्मनोऽस्तित्व न मानयति। परिपुङ्खस्य राज्ञोऽपत्य पुमान्पारिपुद्ध। पुन कथभूत। कमलीव दोषागमरुचिरपि [आत्मनि देवत्व ज्ञातवान् ]। दोषागमेषु पापशास्त्रेषु रुचिर्यस्य स। क इव। कमलीव। यथा कमली चन्द्रमा दोषागमे रात्र्यागमे रुचिमxx न्भवति। पुन कथंभूत। कादिशीक श्वानवस्थितक्रियोऽपि [आत्मनि देवत्व ज्ञातवान् ]। न अवस्थिता न्यायमार्गे क्रिया यस्य सोऽनवस्थितक्रिय। क व कांदिशीक इव। यथा कादिशीको भयः पुमान् स्थिरक्रियो न भवति। पुन कथंभूत। प्रतिपच्चद्र इव दुर्दशऽपि [आत्मनिदेवत्व ज्ञातवान् ] दुःखेन मूढता कष्टेन द्रष्टुमशक्यो दुर्दर्श.। सेवागतलोकानां दर्शन न ददातीत्यर्थं। क इव। प्रतिपक्ष न इव। यथा प्रतिपञ्चन्द्रो दुष्टो18 दर्श अमवास्यानिकटवर्ती यस्य भवति स दुर्दर्श। पुन कथभूत। चक्रवाक इव वारवनिताप्रियोऽपि [आत्मनि देवत्व ज्ञातवान् ]।वारवनिता वारे सेवाक्रमे मुख्या वनिता वारवनिता वेश्या प्रिया यस्य स वारवनिताप्रिय। क इव। चक्रवाक इव। यथा चक्रवाकपक्षी वारां पानीयानामवनि भूमिस्तस्यास्ता लक्ष्मी शोभा प्रिया वल्लभा यस्य स। पुन कथभूत। रथन्चरणनाभिदेश श्वाक्षासकोऽपि [आत्मनि देवत्व ज्ञातवान्]। अक्षाणामिन्द्रियाणां सुखे आसक्तोलम्पटोऽपि। क इव। रथचरणनाभिदेश इव। यथा रथचरणस्म शकटचक्रस्य नाभिदेश पीडिकाप्रदेश अक्षासक्त कीलकसहितो भवति। पुन कथभूत। शूर्पकारातिरिव। मधुलब्धविजृम्भणोऽपि [आत्मनि देवस्व ज्ञात वान्] मधुनि मद्ये लब्ध प्राप्त विजृम्भण प्रवृत्तिर्येन स मधुलब्धविजृम्भण। क इव।शूर्पकारातिरिव। यथा शूर्पकाराति कन्दर्पो मधुना वसन्तेन लब्धविजृम्भणो भवति। पुन

नाभिरतोऽपि, विगतविपद्राक्षसीसमागम स्वस्य दैवायत्तावतारामिव कल्याणपरम्परामाचचक्षे॥

एव तस्य धरोद्धारकुलशिखरिण करिण इव स्वच्छन्दाचारपरागकलुषिता निजवश- लक्ष्मीमुपयच्छमानस्य, क्षणमिन्द्रियाणामानन्दजननीम सुरवृत्तिं वीरकलावतारामिवात्मनि सकल्पयत परत्रेह च परिणामदारुण मृगयादिव्यसनमेष खलु क्षत्त्रपुत्राणा कुलधर्म इति मन्यमानस्य, मरुषु पथिकस्येव

________________

कथभूत। जलव्याल इवाच्छोदनाभिरतोऽपि [आत्मनि देवत्व ज्ञातवान् ]। अ (आ) च्छोदने मृगयाया अभि समन्ताद्रत अ ( आ ) च्छोदनाभिरत। क इव। जलव्याल इव। यथा जलव्यालो मकरादिक [आसमन्तात् ] अच्छस्य निर्मलस्य उदस्य पानीयस्य नाभौ मध्ये रतो भवति। पुन कथभूत। विगतविपद्राक्षसीसमागम विगतो विनष्टो विपद्राक्षस्या समागम आगमन यस्य स विगतविपद्राक्षसीसमागम। सकरालकार श्लोषोपमालकारश्च।

एवममुना प्रकारेण तस्य मारिदत्तस्य निजवशलक्ष्मीमुपयच्छमानस्य उपाददत स्वी कुर्वत सत कतिचित्सवत्सरा कियातो वर्षा व्यतिचक्रमुर्व्यतिक्रामन्ति स्म। निर्गता इत्यर्थं। इति क्रियाकारकसबन्ध। तस्य कथभूतस्य। धरोद्धारकुलशिखरिण धराया पृथिव्या उद्धरणकार्याय कुलपर्वतस्य। यथा कुलशिखरी कुलपर्वतो धरामुद्धरति। कस्येव। करिण इव यूथनाथस्येव। यथा करी गजेन्द्रो निजवरालक्ष्मीं स्वकीयवशप्रदेशशोभामुपादत्ते स्वीकरोति। कथभूत निजवशलक्ष्मीम्।स्वच्छदाचारपरागकxxपिता स्वच्छन्दाचार स्वेच्छाचरण स एव पन्तु धूलि। शरीरस्य जीवस्य च मालिन्यकारित्वात्। तेन कलुषितानिर्मला ताम्। यथा च्छन्दवारी गजो निजवशलक्ष्मी निजपृष्ठशोभा धूल्या कलुषिता धूलिता धरति। पुनव तस्य श्रीमारिदत्तस्य कि कुवत। असुरवृत्ति मृगयादिव्यसनक्रिया राक्षसाचारमात्मने निजचित्ते वीरकलावतारामिव संकल्पयतो विचारयत। कथभूतामसुरवृत्तिम्। क्षणमिन्द्रियाणामानन्दजननी क्षण स्तोककालमिन्द्रि याणा नेत्रादीनामानन्दजननी कौतुकोत्पादिकाम्। पुन किं कुर्वाणस्य तस्य नरेन्द्रस्य। इति मन्यमानस्य। इतीति किम्। मृगयादिव्यसनमा खेटा विक्रियादुराचार एष प्रत्यक्षीभूत खलु निश्चयेन क्षत्रपुत्राणा राजपुत्राणा कुलधर्म कुलाचार इति। कथंभूत मृगयादिव्यसनम्। परत्रेह च परिणामदारुण परत्र आगामिनि भवे इह च अस्मिजन्मनि परिणामदारुण परिणामे विपाके सति दारुणमतिदु खजनकम्। पुनश्व किं कुर्वतस्तस्य नरेन्द्रस्य सवत्सरा व्यतिचक्रमु। मनोविभ्रमहेतुषु कथास्वतितृष्यत मनविभ्रमहेतुषु चित्तभ्रान्तिकारणभूतासु कथासु शास्त्रेषु अतितृष्यत। कस्येव। मरुषु पथिक स्येव। म्रियन्ते प्राणिनो येषु तृषया इति मरवोमरुस्थलभूमय। पथिकस्येव अध्वन्य-

मनोविभ्रमहेतुषु कथास्वतितृष्यत, परिपाकगुणकारिणीं क्रियामकल्पस्येव परोपरोधादुपयुञ्जानस्य, सत्पुरुषगोष्ठीविषादप्यनिष्टतरा परिगणयत, चेतोविजृम्भणकरमनुचर वप्तुरप्याप्ततरमवेक्षमाणस्य, वितथस्तुतिमुखरेषु चिन्तामणेरिव फलत, सकलजनसाधारणेऽपि स्वदेहे त्रिकमतदीक्षितस्येव देवभूयेनाभिनिविशमानस्य, निजाजीवनपरैरपायेषु नीयमानस्याप्यरण्यवारणस्येवाचेतत, खलालापानिलगलितहितोपदेशावतसस्य, चन्दनतरोरिव दुर्जनाहिव्यूहितत्वाद्दूरतरोत्सरत्कल्याणा वहलोकस्य कतिचित्सवत्सरा व्यतिचक्रमु ॥

___________

स्येव। यथा—मरुषु पथिको मनोविभ्रमहेतुषु कथास्वतितृप्यति अतितृष्णा करोति। पुन किं कुर्वाणस्य तस्य। परिपाकगुणकारिणी परिपाके उदये गुण करोतीत्येवशीला तथा ता क्रियामाचारं परोपरोवात्परेपा बलात्कारेण साक्षेपेण उपयुञ्जानस्य सेवमानस्य। कस्येव। अत्पस्येव। यथा अकल्पो रोगी ओषधेन गुणकारिणी क्रिया परेषामाक्षेपेण सेवते कटुकमप्योपव भुङ्क्ते, न त्वात्मरच्या। पुनस्तस्य कि कुवत। सत्पुरुषगोष्ठीं पुण्यपुरुपसज विषादपि हालाहलादपि अनिष्टतरा विद्वेषकरापरिगणयतो जानत। पुन कि कुवाणस्य। चेतोविजृम्भणकरं पापप्रवर्तनकरम् अनुचर सेवक वप्तुरपि जनका दपि आप्ततरं हितकरमवेक्षमाणस्य ज्ञायमानस्य (?) (जानत)। पुन किं कुर्वत। वितयस्तुतिमुखरेषु चिन्तामणेरिव फलत असत्यस्तव नवाचारेषु पुरुषेषु चिन्तारत्न मि (स्ये) व फल ददानस्य। अपर कि कुर्वाणस्य। सकलजनसाधारणेऽपि सर्वलोकसमानेऽपि स्वदेहे निजशरीरे देवभूयेन देवत्वेन अभिनिविशमानस्य अभिनिवेश कुर्वाणस्य अभिप्राय विदधानस्य।कस्येव। त्रिकमतदीक्षितस्येव। यथा xकमतदीक्षित श्रीमहादेव दीक्षासहित पुमान् निजदेहो देवभूतो देवत्व प्राप्त इत्यभिनिवेशमभिप्रायं करोति। ‘भुवो भावे’ इति वचनात्क्यप्। पुन किं कुर्बत। निजाजीवनपरैरात्मोदरपूरणपैर पुरुपैरपायेषु मृत्युस्थानेषु नीयमानस्यापि प्राप्यमाणस्यापि अचेतत अजानत।क स्येव। अरण्यवारणस्येव। यथा अरण्यवारणो विन्ध्यवनगजो निजाजीवनपरै पुरुष रपायेषु नीयमानोऽपि वारिस्थानेषु प्राप्यमाणोऽपि न चेतति न जानाति। अपरं कथभूत तस्य। खलालापानिलगलि[तहि] तोपदेशावतसस्य खलानां दुर्जनानामालापास्त एवानिलो वात। पिण्डपीडाकरणत्वात्। तेन गलितोऽध पातित \हित उपदेशावतस इहपरलोकहि तधर्मोपदेशा (श एवा) वतस कर्णपूरावतसो यस्य स तथा तस्य। अपरं कथभूतस्य। दूरतरोत्सरत्कल्याणावहलोकस्य दूरतरं विप्रकृष्टमुत्सरन्तो नश्यन्त कल्याणावहलोका शुभकारिजना यस्मादिति तथा तस्य। लोप कस्मात्। दुर्जनाहि-व्यूहितत्वात्। दुर्जना अहितकारिणो लम्बा (2) लुञ्चनकरा लोकास्त एवाहय सर्पा। प्राणहारित्वात्। तैर्व्यूहितो

स पुनरेकदा नृपतिरात्मराजघान्यामेव चण्डमारिदेवताया पुरतःसकलसत्त्वोपसहारात् स्वय च सकललक्षणोपपन्नमनुष्यमिथुनवधाद्विद्याघरलोकविजयिन करवालस्य सिद्धिर्भवतीति वीरभैरवनामका- त्कुलाचार्यकादुपश्रुत्य खेचरीलोकलोचनावलोकनकुतूहलितचेतास्तथैव प्रतिपन्नतदाराधनविधि, अकालमहानवमीमहमिषसमाहूतसमस्तसामन्तामात्यजानपद, प्रलयकालक्षुभितसप्तार्णवरवघोरानक- खानाविर्भावितभुवनान्तरसचरद्देवतामद; ससरम्भमम्बरतलादिलाया पातालमूलाद्दिगन्तरालेभ्यश्च विभावर्यांतमःसंत-

____________

वेष्टितस्तस्य भावस्तत्त्व तस्मात्। कस्येव। चन्दनतरोरिव। यथा च दनतरो सर्पवेष्टितत्वात्कल्याणकरो लोको दूरमुत्सरति। सकरालकार॥

स इति। स जगत्प्रसिद्धो नृपतिर्मारिदत्तमहाराज पुनरेकदा पश्चादेकस्मिन्प्रस्तावे त मिथुनाय मनुष्ययुगलनिमित्त दण्डपाशिकभटान् कोटपालकिंकरान् चण्डकमकोटपालसुभटान् आदिदेश आदेश दत्तवान्। इति क्रियाकारकसबन्ध। किं कृत्वा। पूर्वमात्मराजधा न्यामेव राजपुरनगर्यामेव वीरभैरवनामकाच्चार्वाककुत्सितशिष्यात् कुलाचार्यकात् इति इदृशमुपदेशमुपश्रुत्य आकर्ण्य। इतीति किम्। चण्डमारिदेवताया पुरत सकलसरवोपसंहारात् सर्वजीवयुगलमारणप्जनात्। स्वयमात्मना च सकललक्षणोपपन्नमनुष्यमिथुनवधात् मारणात्विद्याधरलोकविजयिनो विद्याधरलोकसाधकस्य करवालस्य खङ्गस्य सिद्धिर्भवति इति। स नृपति कथभूत। खेचरीलोकलोचनालोकन कुतूहलितचेता खेचरीलोकस्य विद्याधरीसमूहस्य लोचनाना नेत्राणामवलोकने निरीक्षणे खेचरीलोकशरीरभोगकरणेषु कुतूहलितचेता विनोदितमना। तथैव तेनैव जीवयुगलवधप्रकारेण प्रतिपन्नतदारावनविधि अङ्गीकृतदे वतापूजनविधि। अपरं कथभूतो नृपति। अकालमहानवमी महमिपसमाहूतसमस्तसामन्तामात्यजानपद अकालमहानवमीमहमिषेण चैत्रशुक्लनवमीदिवसपूजामिषेण समाहूता आकारिता समस्ता समग्रा सामन्ता देशपतयो राजान, अमात्याश्चमन्त्रिण, जानपदाथ लोका येन स तथोक्त। अपरं कयभूत। प्रलयकालक्षुभितसप्तार्णवरवधोरानकस्वानाविर्भावित- भुवनान्तरसचरद्देवतामद प्रलयकाल संबन्धिन क्षुभिता क्षोभ प्राप्ता ये सप्तार्णवा सप्त समुद्रास्तेषा रवच्छब्दवत् ये घोरानकस्वाना रौद्रवादित्रशब्दास्तैराविर्भावित प्रकटीकृतो भुवनान्तरेषु पृथ्वीमण्डलेषु संचरन्तीनां देवतानां मदो हर्षो येन स तथोक्त। किं कृत्वा। पूर्वे तद्देवतायतन चण्डमारीदेवताप्रासादमुपगम्य आगत्य। न केवल तद्देवतायतनमुपगम्य, किंतु तत्पादपीठोपकण्ठे उपविश्य चण्डमारीदे वताचरणसिंहासनसमीपे उपविश्य स्थित्वा च। कथभूत तद्देवतायतनम्।ससंरम्भ साटोप यथा भवत्येव अम्बरतलादन्तरिक्षमण्डलात् इलाया भूमिमध्यात्, पातालमलादधोलोकबुध्नात्, दिगन्तरालेभ्यश्चतुर्दिग्विदिग्भ्य आविर्भवन्तीभि प्रकटीभवन्तीभि-

तिभिरिवाविर्भवन्तीभि, गतिवेगविगलज्जटाजालाक्षिप्यमाणमहाग्रहग्राहक्षोभरुषितगगनगामिलोकाभि, परस्परसघट्टस्फुटत्खद्वाङ्गकोटिघटितघण्टाटकृताकर्णनावतीर्णनटन्नारदजनितवैलक्ष्यामि, कपर्दनिर्दय समर्दनिर्मोदालगर्दगलगुहास्फुरत्फूत्कारस्फारितललाटलोचनानलज्वालाग्लपितादितिसुतनिकेतनपता- काभोगाभि, शिखण्डमण्डनोड्डमरनरशिर श्रेणिपर्यन्तभ्रान्तप्रवृद्धगृद्ध्रनिरुद्धब्रध्नदीधितिप्रबन्धाभि, श्रवणभूषणभुजड्गजिह्वालिह्यमानकपोलतल-

___________

र्महायोगिनीभिर्महाव्य तरीभिदेवताभिरापूर्यमाणपरिसरं परिपूर्यमाणप्रमाणम्। क्थमा विर्भवन्तीभि। विभावर्या रात्रौ तम सततिभिरिव। यथा रात्रौ तम सततयोऽन्ध कारश्रेणय आविर्भवन्ति। क्थभूताभिर्योगिनीभि। गतिवेगविगलज्जटाजालाक्षिप्यमाणमहाग्रहग्राहक्षोभरुषितगगनगामिलोकाभि गतेर्वेगो गतिवेगो गतेरुत्सुक्त्व तेन विगलन्ति मुक्तानि भवन्ति यानि जटाजालानि केशसमूहास्तैराक्षिप्यमाणास्तिरस्कृतायमाना ये महाग्रहा रव्यादयो महाग्रहग्राहाच पिशाचास्तेषा क्षोभेण चलनेन रपिता कोप प्रापि ता गगनगामिलोका विद्यावरा याभिस्तास्तथा ताभि। पुन कयभूताभि। परस्पर सघट्टस्फुटत्खट्वारकोटिघटितघण्टाटकृताकर्णनावतीर्णनटन्नारदजनितवैलक्ष्याभि रमन्योन्य योऽसौ सघट्टोभटभेटकस्तेन स्फुटन्ति शतखण्डीभवति यानि [खट्वा19ङ्गानिखट्वादेशास्तेषा कोटिषुअग्रेषु घटिता सबद्धा घण्टा नादिन्यस्तासा टकृताना टकारशब्दानामाकर्णनेन श्रवणेनावतीर्ण आकाशे समागतो योऽसौ नटन्नारद। सग्रामभ्रान्त्युत्वन्नप्रहर्षत्वात्। तस्य जनितमुत्पादित वैलक्ष्य निष्प्रतिपत्तिक्त्व याभिस्तास्तथा ताभि। पुन कथभूताभियौगिनीभि। कपदनिर्दयसमर्दनिर्मोदालगर्दगलगुहास्फुरत्फूत्कारस्फारितललाटलोचनानलज्वालाग्लपिता- दितिसुतनिकेतनपताकाभोगाभि कपर्दस्य सपबद्धजटाजूटस्य योऽसौ निर्दयसमर्दो दयारहितपीडन तेन निर्मादा हर्षरहिता ये अलगर्दा सपविशेषास्तेषां गलगुहाभ्य कण्ठविवरेम्य स्फुरन्तो निर्गलन्तो ये फुत्कारा शब्दविशेषास्तै स्फारिता प्रचुरीकृता या ललाटलोचनानामनलज्वाला वैश्वानरकीलास्ताभिर्ग्लपितो भस्मीकृतोऽदितिसुतस्य श्रीभास्करस्य संबन्धिनो निकेतनस्य विमानस्य पताकाभोगो ध्वजानामाटोपो याभिस्तास्तथा ताभि। पुन कथभूतानि। शिखण्ड मण्डनमरनरशिर श्रेणिपर्यन्तभ्रान्तप्रवृद्धगृद्धनिरुद्धब्रध्नमदीधितिप्रबन्धाभि शिखण्डस्य मस्तकस्य मण्डनानि आभरणभूतानि यानि उड्डमराणि अतिभयानकानि नरशिरांसि मनुष्यमुण्डानि तेषां श्रेणय समूहास्तेषां पर्यन्तेषु प्रान्तेषु भ्रान्ता मण्डलिता ये प्रवृद्धगृद्ध्रामहागृद्ध्रापक्षिणस्तैर्निरुद्ध आच्छादितो ब्रध्नस्य श्रीसूर्यस्य दीधितिप्रबन्ध किरणसमूहो याभिस्तास्तथा ताभि। पुन कथभूताभिः। श्रवणभूषणभुजङ्गजिह्वालिह्यमान

लिखितरक्तपत्त्राभि, इतरेतरस्खलनमत्सराविर्भूतोद्भटभ्रकुटिभीषणमुखमुक्तस्फीतफेत्कारभयपलाय- मानहिमकरहरिणपरित्राणोत्तालितनक्षत्रनिकराभिवियद्विहाराश्रयश्रमप्रसारितासरालरसनापसारित-सुरापगापय स्पर्शप्रकोपितसप्तर्षिभि, अतिबाढप्ररूढदष्ट्राङ्कुराग्रलग्नघनसघातनिर्जितवराहवेषविष्णु- समुद्रतधराशोभाभिः, सनादरोद क्रोडक्रीडत्क्रमाक्रान्तिमुखरघर्घरकघोरघोषभीषितानिमिषपरिषद्धि, दिवापि कीकसोत्कटकोटीरकीर्णकेशावकाशतया तार-

_____________

कपोलतललिखितरक्तपत्त्राभि श्रवणाना शब्दग्रहाणा भूषणानि आभरणभूता ये भुजगा लेलिहानास्तेषा जिह्वाभी रसनाभिरालिह्यमानान्यास्वाद्यमानानि कपोलतलेषु गण्डस्थलेषु लिखितानि रक्तपत्त्राणि रंधिरपत्रावलयो यासा तास्तथा ताभि। पुन कथभूतानि। इतरेतर स्खलनमत्सराविर्भूतोद्भटभ्रकुटिभीषणमुखमुक्तस्फीतफेत्कारभय- पलायमानहिमकरहरिणपरित्राणोत्तालितनक्षत्रनिकराभि इतरेतराणा परस्पराणां स्खलनेन गतिभङ्गेकरणेन योऽसौ मत्सरो द्वेषस्तेनाविर्भूता प्रकटीभूता उद्भटा महाटोपा या भ्रूकुटयो भ्रूभङ्गास्ताभिर्भाषणानि भयानकानि यानि मुखानि तेभ्यो मुक्ता प्रकटीभूता प्रकटीकृता स्फीता प्रचुरा ये फेत्कारा शब्दास्तेभ्यो भयाद्भीते पलायमान शीघ्र नश्यन् योऽसौ हिमकरस्य चन्द्रमसो हरिण कुरङ्गस्तस्य परित्राणे रक्षणे उत्तालित उत्सुकीकृतो नक्षत्रनिकरश्चान्द्रायणीसमूहो माभिस्वास्तथा ताभि। पुन कथभूताभि। वियद्विहाराश्रयश्रमप्रसारितासरालरसनापसारि तसुरापगापय स्पर्शप्रकोपितसप्तर्षिभि वियद्विहाराश्रयश्रम आकाशगमनसबन्धी योऽसौ खेद शरीरखेदस्तेन प्रसारिता प्रकटिता मुखाद्बहिनिगता असराला अपर्यन्ता या र सना जिह्वा तयापसारित गलहस्तित यत् सुरापगाया पय आकाशगङ्गाजल तस्य स्प र्शेन छुपनेन प्रकोपिता कोप प्रापिता सप्तषयो मरीच्यत्रिप्रभृतयो याभिस्तास्तथा ताभि। पुन कथभूताभि। अतिबाढप्ररूढदष्ट्राङ्कुराग्रलग्नघनसघातनिर्जितवराह- वेषविष्णुसमुद्धृतधराशोभाभि अतिबाढमतिशयेन गाढ प्ररूढा मुखाद्बहिर्निर्गता या दष्ट्रा तस्या अङ्कुरो नवोद्भिन्नस्तस्याग्रे प्रान्ते लग्नस्थितो योऽसौ घनसघातो मेघसमूहस्तेन निर्जिता वराहवेषसमुद्धृतधराशोभा याभिस्तास्तथा ताभि। वराहवेषेण विष्णुना किल दष्ट्राग्रेण धरा पृथ्वी उद्धृता [तस्या] शोभा महायोगिनीभिर्निर्जितेत्यर्थ। पुन कथभूताभि। सनादरोद क्रोडक्रीडत्क्रमाक्रान्तिमुसरघर्घरकघोर- घोषभीषितानिमिषपरिषद्भि सनादा सशब्दा रोद क्रोडे क्रीडत्क्रमाक्रान्तिर्द्यावाभूमिमध्ये क्रीडन्तो रममाणा ये क्रमा पादास्तेषामाक्रान्तिर्व्याप्तिस्तया मुखरा वाचाला ये घर्घरका घुघुर्मालास्तेषां घोरो भयानको योऽसौ घोष शब्दस्तेन भीषिता भय प्रापिता अनिमिषाणा देवानां परिषत्समूहो गामिस्तास्तथा ताभि। पुन कथभूताभि। दिवापि कीकसोत्कटकोटीरकीर्णकेशावकाशतया तारकितमिव व्योम निर्मापयन्तीभि दिवापि दिवसेऽपि व्योमाकाशं तारकितमिव ता

कितमिव व्योमनिर्मापयन्तीमि , सकलस्य जगत क्षयक्षपाभिरिवातिदारुणदीर्घदेहाभिर्महायोगिनी- भिरापूर्यमाणपरिसरम्‌, [अपि च] क्वचित्प्रनृत्यदुत्तरलतालवेतारकुरुविडम्ब्यामानलडाकिनीताण्डवाड म्बरम्‌ , क्वचिद्भ्रूभङ्गाभीरभूतानेर्भर्त्सितकपिक्षपाचरभरभज्यमानाभ्यर्णभूरूहम्‌, क्वचित्करोड्डमरडमरु करवलयखेलत्कपालिनीत्रिशूलवल्गननिर्भिन्नद्रवदुत्तसचन्द्रामृतपानपरचकोरकामिनीकर्बुरीक्रियमाण- ककुभाभोगस्‌ ,क्वचिदुन्माथप्रमाथसार्तकदर्थ्यंमानपिथुरा-

____________

रकासयुक्तमिव निर्मापयन्तीमि रचयन्तीभि। कया। कीकसानामस्थ्नामुत्कटानि-त्यकानि कोटीराणि मुकुटानि तेषु कीर्णाविक्षिप्ता प्रसारिता ये केशा कुन्तलास्तेष्ववकाशतया प्रसारतया। पुन कथभूतामि। अतिदारुणदीर्घदेहामि अतीवासह्यो दीर्घ आयतो देह शरीरं यासा तास्तथा ताभि। काभिरिव। सकलस्य जगत क्षयक्षपामिरिव। सकलस्य जगत पृथ्वीमण्डलस्थितलोकस्य क्षयक्षपाभि प्रलयकालरात्रिभिरिव। यथा प्रलयकालक्षपा सकलस्यजगतोऽतिदारुणा अत्यसह्या दीघस्वरूपा भवन्ति। अपि च। अपराणि विशेषणानि दीयन्ते। कथभूत देवतायतनम्‌। क्वचित्प्रनृत्यदुत्तरलतालवेतालकुलविडम्ब्यमानडा किनीताण्डवा़म्बरम्‌ क्वचित्कस्मिंश्चित्स्थाने’ प्रनृत्यन्ति नर्तन कुर्वन्ति उत्तरलतालानि उत्कटकरताडनानि यानि बेतालकुलानि वेतालाविष्टमृतकसमूहासैर्विंडम्ब्यमान कदर्थ्यमानों डाकिनीना शाकिनीना ताण्डवाडम्बरो बाहुनर्तनाटोपो यत्र तत्तथोक्तम। पुन कथभूतम्‌। क्वचिद्भ्रूभङ्गाभीलभूतनिर्भर्त्सितक पिक्षपाचरभरभज्यमानाभ्यर्णभूरुहम्‌ क्वचित्कस्मिंश्चित्स्थाने भ्रूभङ्गेन-भ्रकुटिबन्धेना भीला भयानका ये भूता व्यन्तरविशेषास्तैर्निर्भर्त्सिता निघाटिता ये कपिक्षपाचरा वानररूपराक्षसास्तेपा भरेण भारेण भ ज्यमाना स्वयमेव भङ्ग प्राप्नुवन्तोऽभ्यर्णभूरहासमीपतरवो यत्र तत्तथोक्तम्‌। पुन कथ भूतम्‌। क्वचित्करोड्डमरडमरुकरवलबखेलत्कपालिनीत्रिशुलवत्गननिर्भिन्नद्रवदुत्तसचन्द्रा मृतपानपर्चकोरकामिनीकर्बुरीक्रिय- माणककुभाभोगम्‌। क्वचित्कस्मिश्चित्त्स्थाने करेषु हस्तेषुड्डमरा अतिभयानका डमरुका ढक्कानामवादित्राणि तेषा रवस्य शब्दस्य लयेन साम्यतया खेलन्त्योरममाणा या कपालिन्यो व्यन्तरीयोगिन्यस्तासा त्रिशूलवल्गनेन भिशूलोच्छलनेन निर्भिन्नाश्छिद्रिता द्रवतं क्षरन्तो ये उत्तसचन्द्रा मुकुटशशिनस्तेषा संबधीनि यान्य तानि मृतानि पीयूषवर्षणानि तेषा पाने आस्वादने परास्तत्परा याश्चकोरकामिन्यो जीवजी वचनितास्ताभि कर्बुरीक्रियमाणा विचित्रवर्णविधीयमाना ककुभाभोगा दिग्मण्डलानि यत्र तत्तथोक्तम्।पुन कथभूतम्‌। क्वचिदुन्माथप्रमायवसार्थकदर्थ्यमानपिथुरार्पितजरूथमन्थरकपालशकलम् क्वचित्कस्मिंश्चित्स्थाने उन्माथ हिंसका ये प्रमाथा पिशाचास्तेषां सार्थै समूहैकदर्थ्यमाना ये पिथुरा राक्षसास्तैरर्पितानि दत्तानि यानि जरूथानि आर्द्रमांसानि तैर्मन्थराणि मन्दगमनानि ।भृतानीत्यर्थ। कपालशकलानिशरावख

र्पितजरूथमन्थरकपालशकलम्, क्वचित्सधुक्षितक्षुदक्षुण्णाकाङ्क्षध्वाङ्क्षराक्षसक्षिप्यमाणयक्षरक्षितक्षेत्रनिक्षिप्तवनदेवतापोतम् [क्वचि20त्तरक्षुरक्षोदरावदार्यमाणपुराणास्थिप्रस्थम्] क्वचित्कौशिकपलाशतुण्ड खण्ड्यमानावानाजिनवैजयन्तीकम्,क्वचिच्छार्दूलदानववदनविदूयमानचिरच्छिन्नच्छ्गलगलजालजटिल-तोरणमालम्, क्वचित्कासरासुरखुरप्रचारचूर्ण्यमानकरङ्कप्राकारम्, क्वचित्करिरूपकोणपकरालकर विकीर्यमाणजीर्णचर्मविनिर्मितवितानम्, क्वचित्पुरुदशोनिशा

_____________

ण्डानि यत्र तत्तथोक्तम्। पुन कथभूतम्। क्वचित्सधुक्षितक्षुदक्षुण्णाकाङ्क्षध्वराक्षसक्षिप्यमाणयक्षरक्षि- तक्षेत्रनिक्षिप्तवनदेवतापोताम् क्वचित्कस्मिश्चित्स्थाने संधुक्षिता उद्दीपिता या क्षुद् बुभुक्षा तया अक्षुण्णाकाङ्क्षा परिपूर्णध्नुता येषा ते च ते ध्वाहराक्षसा काकरूपराक्षसास्तै क्षिप्यमाणा प्रेर्यमाणा यक्षरक्षितक्षेत्रे धनदरक्षितस्थाने निक्षिप्ता निर्मुक्ता वनदेवतापोता वनदेवतानां बालका यत्र तत्तथोकम्। पुन कथभूतम्। क्वचित्कौशिकपलाशतुण्डखण्ड्यमानावानाजिनवैजयन्तीकम् क्वचित्कस्मिंश्चित्स्थाने कौशिकरूपेण घूकरूपेण ये पलाशा राक्षसास्तेषां तुण्डैश्चश्रुभिखण्ड्यमाना चर्व्यमाणा आवानाजिनस्य शुष्कचर्मणो वैजयन्ती पताका यत्र तत्तथोकम्। पुन कथभूतम्। क्वचिच्छावूलदानववदनविदूयमानचिरच्छिन्नच्छ्गलगलजालजटिलतोरणमालम् क्वचित्कस्मिंश्चित्स्थाने शार्दूलदानवाना व्याघ्रवेषेण राक्षसाना वदनैर्मुखैर्विदूयमानानि चर्व्यमाणानि चिरच्छिन्नानि बृहद्वेलाविदारितानि छगलगलजालानि वस्तुमुण्डसमूहास्तेषा जटिलाभिर्जटाभिरुपलक्षिता तोरणमाला वन्दनमाला यत्र तत्तथोक्तम्। पुन कथभूतम्। क्वचित्कासरासुरखुरप्रचारचूर्ण्यमानकरङ्कप्राकारम् क्वचित्कस्मिंश्चित्स्थाने कासररूपेण महिषरूपेण येऽसुरा दानवास्तेषा खुराणां शफानां प्रचारण प्रकृत्या चूर्ण्यमान शतखण्डीक्रियमाण करङ्कप्राकार शुष्कपशुशरीरदुर्गे यत्र तत्तथोक्तम्। पुन कथभूतम्। क्वचित्करिरूपकोणपकरालकरविकीर्यमाणजीर्ण चर्मविनिर्मितवितानम् क्वचित्कस्मिंश्चित्स्थाने करिरूपेण गजरूपेण मे कोणपा अलपा राक्षसा स्तेषा करालकरैरुन्नतशुण्डादण्डैर्विकीयमाणानि विक्षिप्यमाणानि जीर्णचर्मभिर्विनिर्मितानि शुष्कवरचितानि वितानानि चन्द्रोपकानि यत्र ततयोक्तम्। पुन कर्मभूतम्। क्वचित्पुरुदशोनिशाचरखरनखरशिखोल्लिख्यमानाश्यान- शोणितदत्तभित्तिपश्चxx क्वचित्कस्मिंश्चित्स्थाने पुरुदश स्वरूपिणो मार्जाररूपिणो ये निशाचरा राक्षसास्तेषा खरनखरास्तीक्ष्णनखास्तेषां शिखाभिरग्रैरुल्लिख्यमानानि आश्यानानि शुष्काणि शोणितदत्तानि रुधिरकृतानि भित्ते संबन्धीनि पञ्चाङ्गुलानि स्थानका यत्र तत्तथोक्तम्

खरनखरशिखोल्लिख्यमानाश्यानशोणितदत्तमित्तिपञ्चाङ्गुलम्, क्वचिदखर्वगर्वोद्गूर्णगोमायुनैगमे (कषे)यजुष्यमाणपानपात्रासवनिपकर्परम्, क्वचित्साधकलोकनिजशिरोदह्यमानगुग्गुलरसम् क्वचिन्न रव्यालप्रबोधितस्वीयशिरावलिप्रदीपम् क्वचिन्महासाहसिकात्मरुधिरधारापानप्रसाद्यमानरुद्रम्, क्वचिन्म- हाव्रतिकवीरक्रयविक्रीयमाणस्ववपुर्लृनवल्लूरम्, क्वचित्तीक्ष्णपुरुषापकृष्टस्वकीयान्त्रयन्त्रदोलनतोप्य माणमातृमण्डलम्, क्वचित्परुषमनीषमनुष्यात्मीयतरसाहुति-

____________

पुन कथभूतम्। क्वचिदखर्वगवेद्गर्णगोमायुनैकषेयजुप्यमाणपानपात्रासवनिपकर्परम् क्वचित्कस्मिंश्चित्स्थाने अखर्वो बृहद् गर्वोऽहकारो येषा ते अखवगर्वा। अतिशयेन दर्पवन्त इत्यर्थ। अखर्वगर्वाश्च ते उद्गूर्णा उद्यमपरा, अथवा अखवगर्वेणोद्गूर्णा, अथवा अखर्वगर्वेउद्गूर्णा उत्पन्ना, ते च ते गोमायव शृगालरूपेण नेकपेया राक्षसास्तैर्जुष्यमाणानि आस्वाद्यमानानि पानस्य मद्यस्य पात्रभूता ये आसवनिपा मद्यघटास्तेषा कपराणि शकलानि भिन्नानि यत्रतत्तथोक्तम्। पुन कथभूतम्।क्वचित्साधकलोकनिजशिरोदह्यमानगुग्गुलरसम् क्वचित्कस्मिंश्चित्स्थाने साधकलोकैर्मन्त्रसा धकलोकैनिजशिरसि आत्ममस्तके दह्यमानो जाज्वल्यमानो गुग्गलस्य क्षेत्रपालधूपस्य रसो निर्यासो यत्र तत्तथोक्तम्। पुन कथभूतम्। क्वचिन्नरव्यालप्रबोधितस्वीयशिरावलिप्रदीपम् क्वचित्कस्मिंश्चित्स्थाने नरव्यालैर्दुष्टपुरुषै प्रबोधिता प्रज्वालिता स्वीयशिरावलीना निजनसाश्रणीनां प्रदीपा यत्र तत्तथोक्तम्। पुन कथभूतम्। क्वचिमहासाहसिकात्मरुधिरधारांपानप्रसाद्यमानरुद्रम् क्वचित्कस्मिश्चित्स्थाने महासाहसिकैरात्मरुधिरस्य निजरतस्य धारापानेन प्रसाद्यमान प्रसन्नीक्रियमाणो रुद्र श्रीमहादेवो यत्र तत्तथोक्तम्।पुन कथभूतम्। क्वचिन्महाव्रतिकवीरक्रयविक्रीयमाणस्ववपुलूनवनवल्लूरम् क्वचित्कस्मिंश्चित्स्थाने महाव्रतिक्वीरैश्चार्वाकसुभटै क्रयविक्रयमाण मूल्येन विक्रीयमाणं स्ववपुषो निजशरीरस्य लूनवाल्लूरं छेदितमांसं यत्र तत्तथोक्तम्। पुन कथभूतम्। क्वचित्तीक्ष्णपुरुषापकृष्टस्वकीयान्त्रयन्त्रदोलनतोष्यमाणमातृमण्डलम् क्वचित्कस्मिंश्चित्स्थाने तीक्ष्ण- पुरुषैर्निर्दयपुरुषैरपकृष्टान्युदराद्बहिर्निष्कासितानि स्वकीयान्यात्मीयानि अन्त्रयन्त्राणि पुरीतत्समूहास्तेषु दोलनेन प्रेङ्खणेन तोष्यमाणमानन्द्यमान मातृमण्डल मातृसमूहो यत्र तत्तथोकम् ।उक्त च—‘ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वाराही व तथेन्द्राणी चामुण्डा सप्त मातर ॥’ इत्यादि। पुन कथंभूतम्। क्वचित्पयषमनीष मनुष्यात्मीयतरसाहुतिहूयमानसप्तजिह्वम् क्वचित्कस्मिंश्चित्स्थाने परुषा कारुण्यरहिता मनीषा बुद्धिर्येषां ते परुषमनीषास्ते चते मनुष्याश्च तैरात्मीयतरसाहुतिभिर्निजमांसाहुतिभिर्हुयमान संतर्प्यमाण सप्तजिह्वोऽग्निर्यत्र तत्तथोक्तम्। पुन कथभूतम्। यम-

हूयमानसप्तजिह्वम्‌, यमस्यापि कृतशङ्कतङ्कम्‌, महाकालस्यापि विहितसाध्वसोद्रेकर, समस्तसत्त्वसहारायतन देवतायतनमुपगम्योपविश्य च तत्पादपीठोपकण्ठेकीनाशनगरमार्गानुकारिणा करापितेन तरवारिणा प्रकम्पितसुरासुरलोकस्तन्मिथुनाय दण्डपाशिकभटानादिदेश॥

अत्रान्तरे भगवानमरचूडामणिमयूखशेखरितचरणनखशिखोल्लेखपरिधि, सुदततापरनामनिधि, अनाश्वान्‌, आश्चर्यपर्यायाचा(च)र्यचातुर्योद्भूतभावना-

___________

स्यापि कृताशङ्कतङ्कम् आस्ता सामान्यो लोक , यमस्यापि कृतो विहित शङ्कातङ्कोयेनतत्तथोक्तम्‌। पुन कथभूतम्‌। महाकालस्यापि विहितसाध्वसोद्रेकम्‌ महाकालस्यापि रूद्रस्यापि विहित साध्वसस्यभयस्योद्रेक उत्कषता येन तत्तथोक्तम्‌। पुन कथभूतम्‌। समस्तसत्त्वसहारायतनम्‌ समस्ताना सत्त्वाना प्राणिना सहारस्यप्रलयकालस्यआयतन गृहम्‌। कथभूत स मारिदत्त। तरवारिणा सर्वधारेण खङ्गेन प्रकम्पितोभय प्रापित सुरासुरलोको देवदानवरोकसमूहो येन स तथा। कथभूतेन तरवारिणा। कीनाशनगरमार्गानुकारिणा कीनाशस्य यमस्य यन्नगरं पत्तन तस मार्गस्य पथोऽनुकरोति उपमा धरतीत्येवशीलस तथा तेन। पुन कथभूतेन तरवारिणा। करार्पितेन हस्तोद्धृतेन। उद्गमितेनेत्यर्थ॥

अत्रान्तरेऽस्मिन्नरवसरे भगवानिन्द्रादरीनामाराध्य सुदत्तो नामाचार्य लोचनगोचरायामेषु लोचनाना गोचरा गम्या आयामा दैर्घ्याणि येषा ते लोचनगोचरायामस्तेषु ईदृग्विधेषु ग्रामेषु विष्वाणार्यमुनीना भ्रामरीनिमित्तम्‌ अखिलश्रमणसध ऋषिमुनियत्यनागारलक्षणम्‌ आदिदेश आदेश दत्तवान्‌। इति क्रियाकारकसंबन्ध। कथभूतो भगवान्पुदत्त। अमरचूडामणिमयूखशेखरितचरणनखशिखोल्लेखपरिधि अमरणां चतुनिकायदेवाना ये चूडामणय शिरोरत्नानि तेषा मयूखेषुशेखरिता मुकुटीकृता ये चरणनखा पादपुनर्भवास्तेषा शिखोच्छ्रितिस्तस्या उल्लेखपरिधि प्रकटितमण्डल यस्य सतथोक्त। षड्विंशतिरावरणास्तस्यभगवतो नाम वर्तन्ते। पुनरपि कथभूत। सुदत्तापरनामनिधि सुदत्त इति अपरं द्वितीय यन्नाम तद्य नाम्नो निधिरक्षय निधानम्। सुदत्तइति नाम सवरपि गृह्यते, परं क्षय नायाति। न हानिं प्राप्नोतीति भाव। अपरं कथभूतो भगवान्‌। अनाश्वाननशनशीलअनेकोपवासविधानस्वभाव। उक्तच निरुक्तेषु—‘योऽक्षस्तेनेष्वविश्वस्त शाश्वते पथि निष्ठित। समस्तसत्त्वविश्वास्यःसोऽनाश्वानिह गीयते॥’ इति वक्ष्यति श्रीसोमदेवार्च। अपरं कथभूत। आश्चर्यपर्यायाचा(च)र्यचादुरमोद्भूतभावनाप्रभावप्रकम्पितायातविनतवबनदेवतोत्तस प्रसूनमकरन्दस्यन्ददुर्दिनीकृतक्रम आश्चर्यस्याद्भूतस्यये पर्यायास्तैरुपलक्षित21 आचार्यस्तस्य चातुर्यं

प्रभावप्रकम्पितायातविनतवनदेवतोत्तसप्रसूनमकरन्दस्यन्ददुदिनीकृतक्रम, सकलसिद्धान्तसमर्थतीर्थप्रार्थनपदार्थसार्थ समर्थनातिशयविशेषसाक्षाद्भवत्सर


य (त) स्मिन्वा यच्चातुर्य दाक्षिण्य तस्मादुद्भूता उत्पन्ना या भावना क्मात्मनोभदविज्ञान तस्या प्रभावेण पूर्व प्रकम्पिता आकम्प प्रापिता पश्चादायाता जागतास्तदनन्तर विनता नम्रीभूता या वनदेवता कान्तारदेवतास्तासामुत्तसानि मुकुटानि तेषा प्रसूनानि पुष्पाणि तेषा मकरन्द पुष्परसस्तस्य स्यदश्च्योतन तेन दुदिनीकृतौ तिमिरीकृतौ क्रमो पादपद्मौ यस्य स तथोक्त। पुनरपि कथभूत। सकलसिद्धान्तसमर्थतीर्थप्रार्थनपदाथमार्थसमर्थनातिशयविशेषसाक्षाद्भवत्सरस्वतीकरक्रीडाकमलकत्पितसपर्यसकलाश्च ते सिद्धान्ता जिनजैमिनीयकपिलकणचर [गोतम] चार्वाक्शाक्यप्रणीतशास्त्राणि त एव समर्थतीर्थस्तस्य प्रार्थन याचन येषा ते सक्लसिद्धान्तसमर्थतीर्थप्रार्थनास्त एव च ते पदाथा। जिनसिद्वाते—जीवाश्रपवन्धनिजरामोक्षास्तत्त्व पुण्य पाप चेति नव पदार्था। जैमिनीयसिद्धान्ते—नित्येभ्यो वेदवाक्येभ्य एव तत्त्वनिश्चय। तत्रचोदनालक्षणोअर्थो धर्मस्तत्त्वम्। कपिलसिद्धान्ते—सत्त्वरजस्तम साम्यावस्था प्रकृति, प्रकृतेर्महान् महतोऽहकार, अहकारात्पञ्च तन्मात्राणि एकादश चेन्द्रियाणि तत्र—शब्दतन्मात्रादाकाशम्, रूपतमात्रात्तेज। गन्धतन्मात्रात्पृथ्वी, रसतन्मात्रादाप, स्पर्शतन्मात्राद्वायु, स्पर्शनरसनघ्राणचक्षुश्रोत्राणि पञ्च बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि, एकादश मनश्चेति। अमूतश्चेतन्यरूपोऽक्ता भोक्ता च पुरुष, ‘मूलप्रकृतिरविकृतिर्महदाद्या प्रवृतिविकृतय सप्त। षोटशकश्च विकारो न प्रकृतिर्न विकृति पुरुष॥’ प्राग्बन्धव प्रकृतिपुरुषयोगात्पञ्चविंशतितत्त्वज्ञान मोक्ष मार्गा। प्रकृतिपुरुषविवेकदर्शनाभिन्नत्ताया प्रवृत्तौ पुरुषस्य स्वरूपावस्थान मोक्ष।सत्वरजस्तमस्त्रीणि तत्त्वानि, पञ्च तन्मात्राणि इत्यष्ट। पञ्च पृथिव्यादय इति त्रयोदश। एकादशेद्रियाणीति चतुर्विंशतिः, तत पुरुष। एव कपिलसिद्धान्ते पञ्चविंशतिपदार्था। कणचरसिद्धान्ते—[ द्रव्यगुणकर्मसामान्यविशेषसमवायाभावा सप्त पदार्था। गौतमसिद्धान्ते—] षोडश पदार्था। तथाहि—प्रमाणम्, प्रमेयम्, संशय, प्रयोजनम्, दृष्टान्त, सिद्धान्त, अवयव, तर्क, निर्णय, वाद, जल्प, वितण्डा, हेत्वाभास, छलम्, जाति, निग्रहस्थान, चेति। चार्वाकसिद्धान्ते—देवो ( ? ) नास्ति मोक्ष इति। पृथिव्यप्तजो वायवश्चेति चत्वार पदार्था। शाक्यसिद्धान्ते—दुःखममुदायनिरोवमोक्षमागरूपाणि चत्वारि आर्यसत्वानि चत्वार पदार्था। तेषांपदार्थांना सार्थ समूहस्तस्य समर्थनातिशयो विचारोत्कर्पस्तस्य विशेषोऽतिशयविशेषस्तस्मात्साक्षाद्भव ती लोचनानां गोचरं संजायमाना या सरस्वती त्रिलोचना मयूरवाहिनी तस्या करक्रीडाकमल निजहस्तक्रीडाकमल तेन कल्पिता कृता सपर्या पूजा यस्य स तथोक्त। अपरं कथभूतो

स्वतीकरक्रीडाकमलकल्पितसपर्य, चतुरुदधिरोध सविधवनविनिषण्णकिंनरीवदनविरोचनविकास्यमानयश कुशेशयावतसितजलदेवतासमाज, समस्तसमयानवद्यविद्याविदग्धबुधप्रकाण्डपुण्डरीकमण्डलीमार्तण्ड, कृत्स्नदिगन्तविश्रान्तविश्रुतशिष्यश्रेणिसमीरपथप्रथमानकीर्तिकलहसीनिवासीकृतनिखिलभुवनाभोग, शुद्धाभिसधिसमाधिविधुविशेषोन्मेषनिर्विषीकृतविषविषमदोषकलुष-


भगवान्। चतुरुदधिरोध सविधवनविनिषण्णकिंनरीवदनविरोचनविकास्यमानयश कुशेशयावतसितजलदेवतासमाज चत्वारश्च ते उदधयश्च समुद्रास्तेषा [रोधसस्तटस्य ] सविधानि निकटानि यानि वनानि तेषु विनिषण्णा उपविष्टा किंनर्यश्चामुण्डासुख्यास्तासा वदनानि मुखान्येव विरोचना श्रीसूया। महाप्रकाशत्वात्। तैर्विकास्यमानानि स्फुटीक्रियमाणानि विकचीक्रियमाणानि यश कुशेशयानि पुण्यगुणकीर्तनकमलानि तैरवतसित कर्णपूरीकृतो जलदेवतासमाज समुद्रजलदेवतासमूहो यस्य स तथोक्त। पुन कथभूतो भगवान्। समस्तसमयानवद्यविद्याविदग्धबुधप्रकाण्डपुण्डरीकमण्डलीमार्तण्ड समस्ता समग्रा ये समया शासनानि जिनशास्त्रानादिशास्त्राणि तेषां संबन्धिनि अनवद्या निरवद्या या विद्या ज्ञान तस्यां विदग्धानि चतुराणि यानि बुधप्रकाण्डानि प्रशस्तविद्वांसस्ता न्येव पुण्डरीकाणि श्वेतकमलानि। [यश कीर्तिपरिमलविराजितत्वात्, बुधमधुकरसेवितत्वाञ्च।] तेषां मण्डली समूहस्तस्य विकासकरणे मार्तण्ड [मृतण्डाया अपत्यं पुमान् मार्तण्ड]। श्रीभास्कर इत्यर्थ। पुन कथभूतो भगवान्। कृत्स्नदिगन्तविश्रान्त विश्रुतशिष्यश्रणिसमीरपथप्रथमानकीतिकलहसीनिवासीकृतनिखिलभुवनाभोग कृत्स्नदि गन्तेषु सर्वदिक्प्रान्तेषु विश्रान्ता स्थिता ये विश्रुतशिष्या विख्यातश्रुतज्ञानसंयुक्तान्तेवासिनस्तेषा श्रेणि समूह स एव समीरपथ आकाशस्तत्र प्रथमाना विस्तरन्ती व्याप्नुवती या कीर्ति पुण्यगुणकीर्तन सैव कलहसी राजहसी। [ नयप्रमाणलक्षणोभयपक्षशुद्धत्वात्। ] तथा निवासीकृतो निखिलस्य भुवनस्य समस्तपृथ्वीमण्डलस्य आभोगो विस्तारो यस्य स तथा। पुन कथभूतो भगवान्। शुद्धाभिसधिसमाधिविधुविशेषोन्मे-षनिर्विषीकृतविषविषमदोषकलुषविषयविषधर शुद्धो रागद्वेषमोहादिरहितो योऽसावभि सधिर्मनोभिप्रायस्तत्र तेनोपलक्षितो वा योऽसौ समाधिध्यानविशेष स एव विधुविशेषश्चन्द्रमाप्रकार। [ मोक्षामृतधाराचर्षित्वात्।] तस्य उन्मेष उदयस्तेन निर्विषीकृतो विषरहितविहितो विषविषमदोषकलुषविषयविषधरो येन विषवद्धालाहलवत् विषमस्तीव्रतरो योऽसौ दोष पापकर्म तेन कलुष कश्मलीभूतो योऽसौ विषय स्पर्शादिसमूह स एव विषधर सर्पोयेन स तथा। उक्त—च ‘वर्चोगृह विषयिणां मदनायुधस्य नाडीव्रणौ विषमनिर्वृतिपर्वतस्य। प्रच्छन्नपादुकमनङ्गमहाहिरन्ध्रमाहुर्बुधा जघनरन्ध्रमिदं युवत्याः22॥’

विषयविषधर, प्रसख्यानपविपावकप्लुष्टानुत्थानमन्मथमददरिद्रितरुद्रस्मरविजय, अरजस्तमोबहुलोऽप्याततगुणधर्मघर, अकिंचनोऽपि रत्नत्रयनिवास, अविभूषणोऽपि सुवर्णालंकार, अविषमलोचनोऽपि सपन्नोमासमागम, अकृ-


अपर च कथभूत। प्रसरयानपविपावकप्लुष्टानुत्थानमन्मयमददरिद्रितरुद्रस्मरविजय प्रसरयान धर्मशुक्लध्यान तदेव पविपावको वज्राग्नि [ कर्मणा दाहपाचनकारकत्वात्। ] तेन प्लुष्टो भस्मीकृतोऽनुत्थान यथा भवत्येव पुनरुज्जीवन यथा न भवत्येव योसौ मन्मथमद कदर्प [दर्प] स्तेन दरिद्रितोऽकिचनीकृतस्तिरस्कृतो रुद्रस्य श्रीमहादेवस्य स्मरविजय कन्दर्पनिजयो येन स तथा। सुदत्त कथभूत। अरजस्तमोबहुलोऽप्याततगुणधर्मधर। ननु यो रजस्तमोबहुलो न भवति स आततगुणधर्मधर आरोपितप्रत्यञ्चाचापधर कथं भवति। विरुद्धमेतत्। परिह्रियते—रज पाप तमोऽज्ञानम्, न तु धूल्यन्धकार, न रजस्तमोबहुल अरजस्तमोबहुल। अपि निश्चयेन आतता विस्तीर्णभेदा ये गुणा धर्मश्च चरित्रं रत्नत्रय च उत्तमक्षमादिकश्च दशविव त धरतीति आततगुणधर। उक्त च—’ रयणत्तय च धम्मो खमादिभावो य दहविहो धम्मो। चारित खलु धम्मो जीवाण य रक्सणो धम्मो॥ \धम्मो वत्युसहाओ खमादिभावो य दहविहो धम्मो। रत्तत्तय च धम्मो जीवाण य रक्खण हवे [धम्मो23॥] अपरं कथभूत। अकिचनोऽपि रत्नत्रयनिवास अकिंचनोऽपि दरिद्रोऽपि रत्नत्रयनिवास माणिक्यत्रयनिवास कथं भवति। विरुद्धमेतत्। परिह्रियते—अकिंचन नास्ति किंचन धनमस्येति अकिंचनो निग्रन्थाचायवय। अपि निश्चयेन रत्नत्रयनिवास सम्यग्दर्शनज्ञानचारित्रमन्दिरम्। अपरं कथभूत। अविभूषणोऽपि सुवर्णालंकार न विद्यन्ते भूषणानि आभरणानि यस्येति स अविभूषण निनु यो विभूषण अपि निश्चयेन सुवर्णो राजकुल तस्यालंकार वा सुवर्णस्य कनकस्य अलंकाराणि आभूषणानि यस्य स सुवर्णालंकारः कनकाभरण राजकुलशृङ्गार कथं भवति। विरुद्धमेतत्। परिह्रियते—अ सर्वज्ञोऽर्हन् स विभूषण मण्डन यस्य स अविभूषण। अपि निश्चयेन सुवर्णो राजकुल पुण्यगुणकीर्तनलक्षण यशश्चसोऽलकारो मण्डन यस्येति सुवर्णालंकार। पुन कथभूत। अविषमलोचनोऽपि संपन्नोमासमागम अविषमलोचन अत्रिलोचन। ननु य अत्रिलोचन स संपन्नोमासमागम स परिपूर्णपार्वतीसंभोग कथम्। विरुद्धमेतत्। परिह्रियते—अविषमलोचन विषस्य हालाहलस्य मा लक्ष्मीर्ययोस्ते विषमे ते च ते लोचने विषमलोचने, न विद्येते विषमलोचने यस्य स अविषमलोचन। अक्रूरदृष्टिरित्यर्थ। रागद्वेषरहितसमदर्शी। अथवा शास्त्रोक्तलोचनसंयुक्त। लोकृ लोचृ गत्यर्थत्वात्। तस्य धातो प्रयोगत्वादन्यथा लुश्चमिति भवति। अपि निश्चयेन सपन्ना परिपूर्णा या उमा कीर्ति समश्च समतापरि णाम. सर्वजीवेषु साम्य आगमश्च सिद्धान्तो यस्येति संपन्नोमासमागम एव। पुन कथ-

ष्णोऽपि सुदर्शनविराजित, असङ्गस्पृहोऽपि जातरूपप्रिय, अशुद्धनयनीतिरपि महाभागचरित, अकठिनवृत्तिरपि24 क्षमास्वभाव, अव्यालहृदयोऽपि नियमितकरणग्राम, उदयाचलस्तपस्तपनस्य, कौमुदीचन्द्र करुणामृतनिश्च्योतस्य, मानसप्रदेश सरस्वतीवारलाया, प्रभवपर्वत प्रशममन्दाकिनीप्रवाहस्य,


भूत। अकृष्णोऽपि सुदर्शनविराजित। ननु य अकृष्ण नारायणो न भवति स सुदर्शन नाम्ना चक्रेण विराजित कथं भवति। विरुद्धम्। परिह्रियते—अकृष्ण अपापकमा सुदर्शनेन शोभनाकारेण सम्यग्दर्शनेन सद्भावालोकनमात्रेण अहितमतेन वा सुदर्शनवत् मेरु विशेषवत् विशेषेण राजित सुदर्शनविराजित। पुन कथंभूत। असङ्गस्पृहोऽपि जातरुपप्रिय असङ्गस्पृह अविद्यमाना सङ्गे परिग्रहे स्पृहा वाञ्छा यस्य सोऽसङ्गस्पृह। ननु य परिग्रहस्पृहारहित स जातरूपप्रिय कनकप्रिय कथं भवति। विरुद्धमेतत्। परिह्रियते—असङ्गेषु कर्ममलकलङ्करहितेषु सिद्धेषु स्पृहा वाञ्छा यस्येति असङ्गस्पृह। अपि निश्चयेन जातरूपप्रिय नग्नरूपप्रिय इति शुद्धम्। पुन कथभूत। अशुद्धनयनीतिरपि महा भागचरित। ननु य अशुद्धनयनीतिरन्यायवृत्ति स महाभागचरित पुण्यकर्मेश्वर कथम्। विरुद्धमेतत्। परिह्रियते—परस्परसाक्षेपो वस्तुवर्मनिरूपणप्राय अशुद्धनय तत्र नीति प्रवृत्तियस्य स अशुद्धनयनीति। अपि निश्चयेन (महती ) महाभागा महोद्योत तयागच्छति (तत्) चरित चरणयस्य स महाभागचरित। पुन कथंभूत। (अ) कठिनवृत्तिरपि क्षमास्वभाव। ननु य (अ) कठिनवृत्ति (अ) कठोरस्वभाव क्षमास्वभाव कथम्। विरुद्धमेतत्। परिह्रियते—(अ) कठिनवृत्तिरपि (अ) कठिना गृहस्थाना अपीउनकरी अक्षम्रक्षणगर्तपूरणगो ‘चारिभ्रामरिवृत्तिराजीविका आहारो यस्य सो ( रा ) कठिनवृत्ति। अपि निश्चयेन क्षमास्वभावसर्वप्राणिषु अक्रोधस्वरूप। पुन कथभूत। अव्यालहृदयोऽपि नियमितकरणग्राम25। व्याल सर्पोहृदये कण्ठे यस्य स अव्यालहृदय यो महादेवो नास्ति स त्रिपुरदाहसहित कथम्। विरुद्धमेतत्। परिह्रियते—अव्यालमदुष्ट हृदय मनो यस्य म अव्यालहृदय। अपि निश्चयेन नियमितो वशीकृत करणग्राम इन्द्रियसमूहो येन स। अपर कथभूत। उदयाचलस्तपस्तपनस्य उदयाचल उदयगिरि। तप एव तपन श्रीसूर्य। त्रिभुवनद्योतकारित्वात्। तस्य। पुन कथंभूत। कौमुदीचन्द्र करुणामृतनिश्च्योतस्य काति कीपूर्णमासीचन्द्र करुणैव दयैव अमृत जरामरणहारित्वात् तस्य निश्चयोत स्रवण क्षरण तस्य। पुन कथभूत। मानसप्रदेश सरस्वतीवारलाया मानसम्य सरोवरविशेषस्य प्रदेशस्तद्भूमि। सरस्वती सैव वारला परमात्महसभाया। येन (नय) प्रमाणोभयपक्षशुद्धभ्वात्। [तस्या]। पुन कथभूत। प्रभवपर्वत प्रशममन्दाकिनीप्रवाहस्य प्रभवपवतो हिमाचल।

उत्पत्तिक्षेत्र सौजन्यबीजस्य, उदाहरण गम्भीरताया, निदर्शनमौदार्यस्य, प्रसूतिस्थान महिम्न, प्रत्यादेशोऽभिध्याया, निधिर्धैर्यस्य, आकरावनिश्च सर्वगुणमणीनाम्।

यस्य च सकलसत्त्वसचरणसकोचिनि, शिशिरकणमञ्जरीजालजयविजृम्भमाणानिलकुले, सकलजगच्चण्डव्यथावेपथुस्फारिणि, विरसरसदवशदेशक-


प्रशम एव उपशम एव मन्दाकिनीप्रवाह गङ्गानदीप्रवाह। सर्वेषा सतापनिवारकत्वात्। तस्य प्रशममन्दाकिनीप्रवाहस्य। पुन कथभूत। उत्पत्तिक्षेत्र सौजन्यबीजस्य निष्पत्ते सस्याधिकरणम्। सौजन्यमदुर्जनत्व तस्य बीज अनुरहेतुस्तस्य सोजन्यबीजस्य। पुन कथभूत। उदाहरण गम्भीरताया उदाहरण नष्टान्तवचन गम्भीरताया। पुन कथभूत। निदर्शनमौदार्थस्य निदर्शादृष्टान्तभूत औदार्यस्य दातृत्वस्य। उक्त च—क्रियती सप्तसहस्री कियती लक्षा च कोटिरपि कियती। ओदायानतमनसा रत्नाती वसुमती कियती॥’ पुन कथभूत। प्रसूतिस्थान महिम्न प्रसूतिस्थान जन्मभूमि महिम्नो माहात्म्यस्य। पुन कथभूत। प्रत्यादेशोऽभिध्याया प्रत्यादेशो निषेधरूप। अभिध्याया परखविपयस्पृहाया। पुन कथभूत। निधिर्धयस्य निविरक्षस्यनिधान धैर्यस्य। धैर्यय प्रतिधिय समीरयतीति वीर, धीरस्य भावो धैर्य तस्य धैर्यस्य। पुन कथभूत। आकरावनिश्च सर्वगुणमणीनाम् आकरावनि रोहणाचलसिहलादिद्वीपभ्रमि। सर्वे च ते गुणा सर्वगुणा औदायशौर्यगाम्भीयवैयादयस्त एव मणयो रत्नानि। निभुवनोद्दयोतमरकत्वात्। तेषा सर्वगुणमणीनाम्। समुच्चयालंकार॥

यस्य चेति। यस्य च भगवतो हेमन्ते शीतकाले विभावर्यो रानयो विभान्ति गच्छन्तीति क्रियाकारकसबन्ध। कथभूते हेमन्ते। सकलसत्त्वसचरणकोचिनि सकलानां सत्त्वाना प्राणिवर्गाणां संचरण पर्यटन सकोचयतीत्येवशील सकलसत्त्वसचरणसकोची तस्मिन् सकलसत्त्वसचरणसकोचिनि। अपरं कथभूते हेमन्ते। शिशिरकणमञ्जरीजालजयविजृम्भमाणातिलकुले शिशिरम्य हिमस्य कणाश्चूर्णानि तेषां मञ्जर्यो वल्यस्तासा जालानि समूहास्तेषा जयस्तिरस्कारस्तस्मिन् विजृम्भमाण अनिलकुल वातसमूहो यस्मिन् हेमन्ते स तथा तस्मिन्। पुन कथभूते हेमन्ते। सकलजगच्चण्डव्यथावेपपुस्फारिणि सकलस्य जगत जगति स्थितजन्तुजातस्य रामूहस्य चण्डव्यथा तीव्रवेदना वेपथु कम्पन च स्फारयति प्रचुरीकरोतीत्येवशील स तथा तस्मिन्। पुन कथभूते हेमन्ते। विरसरसदवशदेशकदशनवीणे विरसं यथा भवत्येव रसन्ति शब्दायमाना अवशाना परवशाना देशकानां पथिकानां दशनवीणा दन्ततन्त्री यस्मिन्। पुन कथभूते हेमन्ते। बिलमूलको-

दशनवीणे, बिलमूलकोटरकुटीसकुचितालगर्दपरिषदि, हिमपृषतपलिताङ्कुरितकुटहारिकाकुन्तलकलापे, मृगयूथरोमन्थसामर्थ्यकदर्थिनि, प्रालेयलवमुक्ताफलितकरटिरिपुरोमभागे, व्रजपालविलासिनीकपोलविधुवैशद्यशातिनि, हलाजीवजायापदपद्मलावण्यलोपिनि, वनेचरवनिताधरदलकान्तिकर्शिनि, मुनिकामिनीकरकिसलयकृततरङ्गसङ्गे, द्विजकण्ठकुण्ठताविधायिनि, विप्रलब्धपु-


टरकुटीसकुचितालगर्दपरिषदि बिलमूलमेव कोटर जीर्णतरूदरम्‌। अवकाश(दान)दायि त्वात्‌। तदेव कुटी एकस्तम्भवस्त्रगृह तत्र सकुचिता सकोच प्राप्ता अलगदपरिषद्‌ सपसमूहो यत्रस तथा तस्मिन्‌। पुन कथभूते हेमन्ते। हिमपृपतपलिताङ्कुरितकुटहारि काकुन्तरुकलापे। (हिमस्य26 शिशिरस्य पृपता बिन्दवस्ते पलिता करितापकुरिता पलिकृतकुटहारिकुलकलोप) हिमस्य शिशिरस्य पृपता बिन्दवस्तै पलिताङ्कुरिता पलितकचाङ्कुरसहिता कृता कुटहारिकाणा घटहारिचेटिकाना कुन्तलकलापा केशसमूहा यस्मिन्‌ स तथा तस्मिन्‌। पुन कथभूते हेमन्ते। मृगयूथरोमन्थसामथ्यकदर्थिनि मृगयुथाना हरिणसमूहाना रोमन्थश्चर्वितचर्वण तस्य सामर्थ्य बलकदर्थयति पीडयति इत्येवशील स तथा तस्मिन्‌। पुन केथमूते हेमन्ते। प्रालेयलवमुक्ताफलितकरटिरिपुरोमभागे प्रालेयस्यहिमस्य ये लवा कणासेर्मुक्ताफलितो मुक्ताफलसहित कृत करटिरिपूणा सिंहाना रोमभाग स्कन्धकेसरप्रदेशो यत्र स तस्मिन्‌। पुन कथभूते हेमन्ते। व्रजपालविलासिनीकपोलविधुवैशद्यशातिनि व्रजपालाना गोकुलिकाना या विलासिन्यो गोपाङ्ग नास्तासा कपोलानि गण्डस्थलान्येव विधवश्चद्रमसस्तेषा वेशद्य शुक्लत्व शातयति विध्वसयत्येवशीलस तथा तस्मिन्‌। पुन कथभूते हेमन्ते। हलाजीवजायापदपद्मलावण्यलोपिनि हलाजीवाना कर्षकाणा जायाना भायाणा पदा एव चरणा एवपद्मानि कमलानि। कोमलविराजमानत्वात्‌। तेषा लावण्य कान्तिविशेष लुम्पति विनाशषयतीत्वेवशीलस्तथा तस्मिन्‌। पुन कथभूते हेमन्ते। वनेचरवनितावरदलकान्तिकर्शिनिवनेचरा अरण्यचाण्डालास्तेषा वनिता कमनीयकामिन्य। ‘वनिता जनितात्यर्थरागायांवा[रो]यो षिति’ इत्यभिधानात्‌। तासामधरा ओष्ठास्त एवदलानि पणानि। [दतानामाच्छादकत्वात्‌।] तेषा कान्तीर्लावण्यानि कृशति तनूकरोतीत्येवशील सतथा तस्मिन्‌। पुन कथभूते हेमन्ते। मुनिकामिनी करकिसलयकृततरङ्गसङ्गे मुनीनां ग्राम्यर्षीणां कामिन्यस्तपखिन्यस्तासां करा हस्तास्त एव किसलयानि पल्लवा। अरुणत्वकोमलत्वगृणविराजमानत्वात्‌। तेषु कृतो विहितस्तरङ्गसङ्गोलहरीसगतिर्येन स तथा तस्मिन्। पुन कथंभूते हेमन्ते। द्विजकण्ठकुण्ठताविधायिनि द्विजाना ब्राह्मणाना कण्ठेषु गलकन्दलीमध्येषु कुण्ठतांक्रियासु मन्दता विदधातीत्येवशील स तस्मिन्। पुन कथभूतेहेमन्ते। विप्रलब्धपु

रन्ध्रीस्तनभारजनितजानुसबाधे, कुचकुहरोपसर्पणरतपोतखेदितबालवतीचेतसि, विदूरितरम्भोरुभूषणाभिलाषे, सहसुप्तमिथुनघनालिङ्गनादेशिनि, निरन्तरमुल्लसन्तीभि करतलपरामर्शसुखविलोपनसूचीभिरिव तनूरुहराजिभि कण्टकितानि कुर्वति शबरसहचरीवक्षोजमण्डलानि, शिथिलयति दुर्विधकुटुम्बेषु जरत्कन्थापटच्चराणि, नर्तयति पथिकेषु पाणिपल्लवानि, विरचयति दयितोदवसितमनुसरन्तीनामभिसारिकाणामरालपक्ष्माग्रलग्नैस्तुषारा-सारशीकरैर्लुलितशौक्तिकेयशुक्तिपुटस्पर्धीनि विलोचनानि, सतानयति ता-


रन्ध्रीस्तनभारजनितजानुसबाधे विप्रलब्धा वियोग प्राप्ता या पुरन्ध्र्यस्त्रियस्तासा स्तनभारैजनिता उत्पादिता जानूनामष्ठीवता सबावा दुःख येन स तथा तस्मिन्। उक्त च—‘यस्या दूतीं प्रिय प्रेष्य दत्त्वा सकेतमेव वा। कुतश्चित्कारणानैति विप्रलब्धात्र सा स्मृता27॥’ पुन कथभूते हेमन्ते। कुचकुहरोपसर्पणरतपोतखेदितबालवतीचेतसि कुचकुहरे स्तनयोमध्ये उपसपण प्रवेशस्तत्र रतस्तत्परो योऽसौ पोतो वालक्स्तेन खेदित दुःख प्रापित बालवतीना चेतो मनो यत्र स तथा तस्मिन्। पुन कथभूते हेमन्ते। विदूरितरम्भोरुभूपणाभिलापे विदूरितो निषिद्धो रम्भोरुभि कमनीयकामिनीभिभूषणाना मुक्ताफलाद्याभरणानामभिलाष प्रीतिर्यत्रस तथा तस्मिन्। पुन कथभूते हेमन्ते। सहमुप्तमिथुनधनालिङ्गनादेशिनि सहमुप्तानामेकशग्याया सुप्ताना मिथुनाना स्त्रीपुरुषयुगलाना घनालिङ्गन घनमाश्लेषणमादिशत्यादेश करोतीत्येवशील स तथा तस्मिन्। पुन किं कुर्वति सति हेमन्ते। निरन्तरमुल्लसन्तीभि करतलपरामर्शसुखविलोपनसूचीभिरिव तनूरुहराजिभि कण्टकितानि कुपति शबरसहचरीवक्षोजमण्डलानि। शबरसहचरीवक्षोजमण्डलानि तनूरुहराजिभि कण्टक्तिानि कुर्वति सति। शबराणा भिल्लाना सहचरीणां भार्याणां वक्षोजमण्डलानि स्तनयुगलानि तनूरुहराजिभि कृत्वा कण्टकितानि कण्टकेोपेतानि कुर्वति विदधति सति। कथभूताभिस्तनूरुहराजिभि। निरन्तरमविच्छिन्न उल्लसन्तीभिरुद्गच्छन्तीभि। अपरं कथभूताभि। करतलपरामर्शेन इस्ततलस्पर्शेन सुखविलोपने शातनिवारणे सूचीभिरिव आयसतीक्ष्णाग्रसूचिकाभिरिव। पुनश्च किं कुर्वति सति हेमन्ते। शिथिलयति दुर्विधकुटुम्बेषु जरत्कन्थापटच्चराणि। दरिद्रजनपरिजनेषु जरत्कन्यापटच्चराणि जीर्णक्न्थडिका जीर्णवस्त्राणि शिथिलयति शतखण्डीकुर्वति सति। अपरं किं कुर्वति सति हेमन्ते। नर्तयति पथिकेषु पाणिपल्लवानि। पथिकेषु अध्वगेषु पाणिपल्लवानि करकिसलयानि नर्तयति कम्पयति सति। अपरं किं कुर्वति सति हेमन्ते। विरचयति दयितोदवसितमनुसरन्तीनामभिसारिकाणामरालपक्ष्मा ग्रलग्नैस्तुषारासारशीकरैलुलितशौक्तिकेयशुक्तिपुटस्पर्धीनि विलोचनानि। अभिसारि-

पसीनामूरुपर्यन्तपाटलपटलकारिषु बृहद्भानुषु स्पृहयालुताम्, ध्वानयति पवर्णलयमनोहराणि गर्भरूपलपनेषु पटहवाद्यानि, मन्दयति चण्डरोचिषोऽपि तेज स्फुरितिमानम्।

अपि च यत्रातिशिशिरभरात्

कान्ते कोककुटुम्बिनी न कुरुते प्राप्तेऽपि चाटुक्रिया
हसश्चञ्चुपुटान्तरालविगलज्जम्बालकस्तिष्ठति।


काणा कान्तार्थेन सकेतस्थान यान्तीना स्त्रीणा अरालपक्ष्माग्रलग्नै वक्रलोचनरोमाग्रलग्नै तुषारासारशीकरैर्हिमसमूहकणे कृत्वा लुलितशौक्तिकेयशुक्तिपुटस्पर्धीनि। लुलितानि पर्यन्त (ङ्क) स्थितानि शौक्तिकेयानि मुक्ताफलानि यासा शुक्तीना मुक्तास्फोटाना पुटै सह स्पधन्ते उपमा धरतीत्येवशीलानि लुलितशौक्तिकेयशुक्तिपुटस्पर्धीनि विलोचनानि नेत्राणि विरचयति कुवति सति। कथभूतानामभिसारिकाणाम्। दयितोदवसित प्रियमन्दिरमनुसरन्तीना गच्छन्तीनाम्। उक्त च—‘कान्तार्थिनी तु या याति संकेत साभिसारिका’। कथभूतैस्तुषारासारशीकरै। अरालपक्ष्माग्रलग्नै। अरालानि वक्राणि पक्ष्माणि नेत्ररोमाणि तेषामग्रेषु प्रान्तेषु लग्ना सगतास्ते तथा तै। पुन किं कुर्वति सति हेमन्ते। सतानयति तापसीनामूरुपर्यन्तपाटलपटलकारिषु वृहद्भानुषु स्पृहयालुताम्। तापसीनां तापसस्त्रीणा बृहद्भानुषु अग्निषु स्पृहयालुता श्रद्धालुता सतानयति विस्तारयति सति। कथभूतेषु वृहद्भानुषु। ऊरुपर्यन्तपाटलपटलकारिषु ऊरुपर्यन्तेषु सक्थिप्रान्तेषु। स्मरमन्दिरसमीप यावत्। पाटलाना श्वेतरताना लाञ्छनाना पटलानि समूहान् कुर्वन्तीत्येवशीलास्ते तथा तेषु। अपर किं कुर्वति सति हेमन्ते। ध्वानयति पवर्णलयमनोहराणि गर्भरूपलपनेषु पटहवाद्यानि। गर्भरूपलपनेषु गर्भरूपाणा शिशूना लपनेषु मुखेषु पटहवाद्यानि ध्वानयति सति। कथभूतानि पटहवाद्यानि। पवर्णलयमनोहराणि पपपपेति पुन पुन जनस्य लय साम्य व्यञ्जकस्तेन मनोहराणि चेतोऽनुरक्षकानि। अपर किं कुर्वति सति हेमन्ते। मन्दयति चण्डरोचिषोऽपि तेज स्फुरितिमानम्। चण्डरोचिषोऽपि श्रीभास्करस्यापि तेज स्फुरितिमान तेजस स्फुरितं स्फुरणं तेज स्फुरितम्, तेज स्फुरितस्य भावस्तेज स्फुरितिमा। ‘पृथ्वादिभ्य इमनिज्वा’ इत्यनेन सूत्रेण भावे इमन्प्रत्यय। ‘सहेम्नाड्’ इति सूत्रेण इमन्यय (१) पुंलिङ्गता। त तेज स्फुरितिमान मन्दयति मन्दं स्तोक करोतीति मन्दयन्, तस्मिन् मन्दयति सति।

अपि च। विशेषार्थमाह—यत्र यस्मिन् हेमन्ते अतिशिशिरमरात् अतिशयशीतात्। कान्तेत्यादि। कोककुटुम्बिनी चक्रवाकी कान्ते चक्रवाके निजभर्तरि प्राप्तेऽपि सति प्रभातसमये आगतेऽपि सति चाटुक्रियांमिथ्यास्तुतिकरणं न कुरुते न विदधाति। [यत्रातिशिशिरभरात्] हंस श्वेतगरुत्पक्षी चक्षुपुटान्तरालवि-

कृच्छ्रात्कुञ्जरहस्तवर्तितचय पासु पुन शीर्यते
भर्तॄणा शयन न मुञ्चति पर कोपेऽपि योषिज्जनः॥५३॥

सिह सनिहितेऽपि सीदति गजे शीर्यत्क्रमस्पन्दनो
मध्याह्नेऽपि न जातशष्पकवल प्राय कुरङ्गीपति।

वत्स कुण्ठितकण्ठनालवलन पातु न शक्त स्तन
वक्र नैति विभातकर्मकरणे पाणिर्द्विजानामपि॥५४॥

पत्त्रै स्तम्बतलप्ररूढविरसप्रायैर्मृगाणा रति
क्षोणीधूलन केलयोऽपि विकिरैस्त्यक्ता प्रभातागमे।


गलज्जम्बालकस्तिष्ठति चश्चपुटातरालात् त्रोटिपुटमध्यात् विगलत् अध पतत् जम्बालक शैवल यस्य स चञ्चुपुटान्तरालविगलज्जम्बालक तिष्ठति। जम्बाल चवितु न शक्नो तीत्यर्थ। [यत्रातिशिशिरभरात्] कुञ्जरहस्तवर्तितचय पासु धूली पुन पश्चात् कृच्छ्रात् अतिकष्टेन शीर्यते अधपतति। कथभूत पासु। कुञ्जरहस्तवर्तितचय कुञ्जरेण हस्तिना हस्तेन शुण्डादण्डेन वतित कृतश्चयो राशिर्यस्य पाशो स कुञ्जरहस्तवर्तितचय। कुञ्जरशुण्डादण्डे [नाव] लग्नो धूलीसमूहो न शीर्यते। कष्टेन अध पततीत्यर्थ। [पुनश्च यत्रातिशिशिरभरात्] योषिज्जनो वनितालोक भर्तृृणा शयन पतीना शय्या परं उत्कृष्ट [यथा भवेत् तथा] कोपेऽपि क्रोधे कृतेऽपि सति न मुञ्चति न त्यजति। दीपकालंकार॥५३॥

सिंह इत्यादि। [यत्र नीहारकालागमे] गजे हस्तिनि सनिहितेऽपि निकटवतिन्यपि सिंह सीदति बुभुक्षितस्तिष्ठति। गज मारयित्वा न भक्षयति इत्यर्थ। कथभूत सिंह। शीर्यत्क्रमस्पन्दन शीर्यत् अव्यापारं भवत् क्रमाणा चरणाना स्पन्दन चलन यस्य स शीर्यत्कमस्पन्दन। अतिशिशिरभरादिति पूर्वोक्त संबन्धनीयम्। [यत्र नीहारकालागमे] कुरङ्गीपति कृष्णसारो मृग मध्याह्नेऽपि सूर्ये ललाट प्राप्तेऽपि वा ललाटतपेऽपि प्रायो बाहुल्येन जातशष्पकवलो न वर्तते। जात उत्पन्न शष्पाणा बालतृणानां कवलो ग्रासो यस्येति स जातशष्पकवल। [यत्र नीहारकालागमे] वत्स स्तर्णक स्तन पातु पयोधरं धयि (धा) तु न शक्तो न समर्थोवर्तते। कथभूतो वत्स। कुण्ठितकण्ठनालवलन कुण्ठित मन्दक्रिय कण्ठनालस्य गलनालस्य बलन नमन चेष्टित यस्य स कुण्ठितकण्ठनालवलन। [यत्र नीहारकालागमे] द्विजाना ब्राह्मणानामपि। आस्तां (सतां) तावत् क्षत्त्रवनि (णि) ज। पाणि कर विभातकर्मकरणे संध्यावन्दनकाले क उपस्पर्शादिविधाने वक्र मुख न एति नागच्छति। अयमपि दीपकालंकार॥५४॥

** पत्रैरित्यादि।** [यत्र नीहारकालागुमे] मृगाणां कुरङ्गाणां पत्रै पर्णैकरणभूतै

कोक शुष्कमृणालजालचरणन्यासै प्रिया वीक्षते
वत्क्रप्रान्तविधूनिते च कमले इस पदन्यस्यति॥५५॥

हसी चञ्चुपुटान्तरार्पितबिसच्छेदात्खर खिद्यते
भूमिस्रस्तकरा करेणुरवशक्षीरस्तनी ताम्यति।

प्रातडिम्भविचेष्टितुण्डकलनान्नीहारकालागमे
हस्तन्यस्तफलद्रवाच शबरी बाष्पातुर रोदिति॥५६॥


रतिश्चवण वर्तते। कथभूते पत्रै। स्तम्बतलेषु व्रीह्यादीना प्रकाण्डप्रदेशेषु प्ररूढाउत्पन्ना विरसप्राया नीरसत्वानि येषां पत्राणां तानि स्तम्बतलप्ररूढविरसप्रायाणि तैस्तथा। अतिशीतपीडिततया मुखचलनशक्तेरभावात् पत्राण्येव चरन्ति, स्तम्बचवण कर्तु न शक्नुवन्तीत्यर्थ। [यत्र नीहारकालागमे] विकिरै पक्षिभिश्चटकादिपतत्रैप्रभातागमे सूर्योदये क्षोणीधूलनकेलयोऽपि त्यक्ता। क्षोण्या धूलन लोटन तस्य केलय क्रीडा क्षोणीधूलनकेलय। [यत्र नीहारकालागमे] कोकश्चक्रवाक शुष्कमृणालजालचरणन्यासै कृत्वा प्रियां चक्रवाकीं वीक्षते अवलोकयति। शुष्काणि आवानानि मृणालानि पद्मिनीकन्दास्तेषा जालानि समूहास्तेषु चरणन्यासा पादारोपणानि शुष्कमृ णालजालचरणन्यासास्तै। [यत्र नीहारकालागमे] हस श्वेतगरुत्पक्षी कमले पद्मेपद चरण न्यस्यति आरोपयति। कथभूते कमले। वक्रप्रान्तविधूनिते वक्रस्य मुखस्य प्रान्तेन चञ्च्वग्रेण विधूनिते कम्पिते॥५५॥

** हसीत्यादि।** [यत्र नीहारकालागमेऽतिशिशिरभरात्] इसी हसभाया वरटेत्यप रनाम्नी खरं गाढ अतिशयेन खिद्यते दुःखिनी भवति। कस्मात्। चञ्चुपुटा तरार्पित बिसच्छेदात् चञ्चुपुटान्तरेषु मुखमध्ये हसेन स्नेहेन अपितो योऽसौ विसच्छेद पद्मिनीकन्दखण्डश्चञ्चुपुटान्तरार्पितबिसच्छेदस्तस्मात्। [अपर यत्र नीहारकालागमे] करेणुर्गजकामिनी अवशक्षीरस्तनी परवशक्षीरस्तनी ताम्यति दुःखिनी भवति। तस्याश्चिक्वस्तस्या28 स्तन शीतपीडित पातु न शक्नोति यत। कथभूता करेणु। भूमिस्रस्त करा भूमौ स्नस्त पातित कर शुण्डादण्डो यया सा तथा। [अपरं यत्र नीहारकाला गमे] शबरी भिल्लभार्या बाष्पातुरं यथा भवत्येव अश्रुपातकष्टयथा भयत्येव रोदिति रोदन करोति। कथभूता शबरी। हस्तन्यस्तफलद्रवा हस्ते करपुटे न्यस्त आरोपितो धृत फलद्रव द्राक्षादिफलरसो यया सा हस्तन्यस्तफलद्रवा। शबरी कस्माद्रोदिति। प्रात प्रभाते डिम्भस्य निजबालकस्य विचेष्टि चलनादिक्रियारहित तुण्ड मुख तस्य कलनात्। कवलनादिक्रियारहित तुण्ड मुख तस्य मृतोऽयमिति संभावनात् रोदनं करोति। दीपकालंकार॥५६॥

अह्नोऽर्धेऽपि तरङ्गवारि करिणो गृह्णन्ति रोध स्थिता
जिह्वाग्राद्गलनालमेति न पय सिंहे सतृष्णेऽपि च।

एणानामधरान्तराललुलितास्तिष्ठन्ति पाथ कणा
पूर्वोत्खातविशुष्कपल्वलगत पोत्री च मुस्ताशन॥५७॥

किं च।

शून्यां पदैकररुहा रमणीकपोला
कान्ताधरा न दशनक्षतकान्तिभाज।
स्वच्छन्दकेलिषु रता वनिता न यत्र
काले पर जनितकुङ्कुमपङ्करागे॥५८॥

यत्र च।

लीलाविलासविरलैर्नयनासिताब्जै
स्पर्शासुखाधरदलैर्वदनारविन्दै।


** अह्नोऽवेत्यादि।** [यत्र नीहारकालागमे अतिशिशिरभरात्] करिणो गजा अह्नोऽधऽपि मध्याह्नेऽपि मध्याह्नसमयेऽपि रोध स्थितास्तटे स्थितास्तरङ्गवारि कल्लोलजल गृह्णन्ति पिबन्ति। [यत्र नीहारकालागमे] सतृष्णेऽपि च तृषितेऽपि च सिंहे हर्यक्षे पय पानीय जिह्वाग्रात् रसनाग्रात् गलनाल गलच्छिद्र प्रति नैति न गच्छति। जिह्वाग्रे एव तिष्ठतीत्यर्थ। [यत्र नीहारकालागमे] एणानां मृगाणा अघरान्तराललुलिता ओष्ठमध्यस्थिता पाथ कणा जलकणा तिष्ठन्ति। क्ण्ठाधो न गच्छन्तीत्यर्थ। [पुनर्यत्र नीहारकालागमे] पोत्री च अरण्यशूकरश्च पूर्वोत्खातविशुष्कपल्वलगत सन् मुस्ताशनो भवति। मुस्ताश्चर्वयतीत्यर्थ॥५७॥

किं च। अस्ति विशेष। शून्या इत्यादि। यत्र काले शिशिरकाले रमणीकपोला स्त्रीणां गण्डस्थलानि कररुहां नखानां पदैर्नखक्षतै शून्या वर्तन्ते। यत्र काले कान्ताधरा स्त्रीणां दन्तच्छदा दशनक्षतकान्तिभाजो न वर्तन्ते। दशनक्षताना दन्तक्षताना दन्तखण्डितानां कान्तिभाजो रक्ततायुक्ता न वर्तन्ते। यत्र काले वनिता अत्युत्पादितरागा स्त्रिय स्वच्छन्दकेलिषु यथेष्टक्रीडासु रता रमणपरा न वर्तन्ते। कथभूते काले। परं केवल जनितकुङ्कुमपङ्करागे जनित उत्पादित कुङ्कुमपङ्के काश्मीरजन्मकेसरकर्दमे राग प्रीतिर्येन स तथा तस्मिन्। कुङ्कुमपङ्क उष्णस्वभावो भवति यस्मात्॥ हेत्वलंकार॥५८॥

यत्र चेत्यादि। यत्र नीहारकाले सुकृतिन पुण्यवन्त पुरुषा स्त्रीभि कमनीयकामिनीभि सुरते संभोगक्रीडायां सखेदा सुखमध्ये दुःखिता कृता। कै। नयना-

रोमाञ्चकण्टकितटै कुचकुड्भलैश्च
स्त्रीभि कृता सुकृतिन सुरते सखेदा॥५९॥

तत्रानवरतमन्त प्रवर्धमानध्यानधैर्यधनजयावधूतहिमसमयप्रत्यूहव्यूहम्यातिनिवातसौधमध्यसमध्यासिन इव स्थण्डिलशायिनो हेमन्ते विहितविरहिजनदुर्लभविभातसमागमा सुखेन विभान्ति विभावर्य।

यस्य च दावदाहद्विगुणितप्रतापातपैस्तपनोपलशैलशिलाशिखोच्छलद-


सिताब्जै नेत्रनीलोत्पलै। कथभूतैर्नयनासिताब्जै। लीलाविलासविरलै लीलाविलास उत्फुल्लोचनत्व तेन विरलै। पेलवै। तुच्छैरित्यर्थ। अपर कैकृत्वा सखेदा कृता। वदनारविन्दै मुखकमलै। कथभूतै। स्पर्शासुखाधरदलै स्पशन असुखानि कर्कशत्वात् अधरदलानि रदवासासि येषां मुखारविदानां तानि तथा तै। अपरं कै। कुचकुड्भलै स्तनकलिकाभि। कथभूतै कुचकुड्भलै। रोमाञ्चकण्टकितटै रोमाञ्चेन रोमहषणेन कण्टकीनि कण्टकसहितानि तटानि प्रस्थप्रदेशा येषां तानि तथा तै। हेतुरयमलंकार॥५९॥

तत्रेत्यादि। तत्र तस्मिन् हेमन्ते शिशिरकाले यस्य भगवत विभावर्योरात्रय सुखेन अनायासेन विभान्ति अतिक्रामन्ति। यस्य कथभूतस्य। स्थण्डिलशायिन चतुष्पथस्थितस्य। (अभ्रावकाशे29 उद्भवस्य आकाशस्येव)। अतिनिवातसौधमध्यसमघ्यासिन इव। अतिनिवात शीतरहितो योऽसौ सौधमध्यो राजसदनमध्यस्त सम्यक् अध्यास्ते तस्मिन् तिष्ठतीत्येवशील स तथा तस्य। अपरं कथभूतस्य। अनवरत निरन्तरं अन्त प्रवर्धमानध्यानधैर्यधनजयावधूतहिमसमयप्रत्यूहव्यूहस्य। अन्तश्चेतसि प्रवर्धमान वृद्धिं गच्छत् यध्द्यान धर्मध्यान तत्र यद्धैर्य अकातरत्व निश्चलत्व तदेव धनंजयोऽग्नि। पापकर्मणा दाहकारकत्वात्। तेन अवधूत स्फोटित हिमसमयस्य शीतकालस्य प्रत्यूहव्यूहो विघ्नसमूहो येन स तथा तस्य। कथभूता विभावर्य। विहितबिरहिजनदुर्लभविभातसमागमा। विहितो निर्मापितो विरहिजनानां विप्रलब्धमानुषाणां दुर्लभ असुखप्रायो विभातसमागम प्रभातस्यागमन यासु तास्तथा॥

यस्येत्यादि। यस्य च भगवत श्रीसुदत्ताचार्यस्य तेषु सर्वलोकप्रसिद्धेषु नपतपन केतुषु ग्रीष्मकालदिवसेषु। तप इति अकारा त शब्दो ग्रीष्मकालवाची। तस्य तपस्य ग्रीष्मकालस्य तपन श्रीसूर्यस्तस्य केतव तपतपनकेतव। दिवसा इत्यर्थ। तेषु तपतपनकेतुषु। ग्रीष्मकालदिवसेष्वित्यर्थ। परमानन्दस्यन्दसुधापयोधिना।

परमानन्दो निजशुद्धबुद्धैकस्वभावात्मध्यानसमुत्पन्नसौख्य परमानन्द उच्यते, तस्य नस्यन्द क्षरण प्रवाह स एव सुवापयोधिरमृतसमुद्र। जरामरणनिवारकत्वात्। परमानन्दस्यदसुधापयोधिना आत्मध्यानसमुत्पन्नसुसामृतसमुद्रेण कर्तृभूतेन परिप्लाविताप वनस्य परिप्लावित स्नापितोऽपघन शरीर यस्य स परिप्लावितापघनस्तस्य परिप्लावितापघनस्य मध्याहसमया यान्ति गच्छन्ति [इति क्रियाकारकसबन्ध ]। तस्य कथभूतस्य। विर्क्तनकरमूलविलग्नशिखशिखरिशिर श्रितस्य। विकर्तन श्रीभास्करस्तस्य करा किरणास्तेषा मूल उत्पित्तिस्थानम्। श्रीसूर्यबिम्बमित्यर्थं। तत्र विलग्ना समीपवतिनी शिखा शिखर यस्येति विकर्तनमूलविलग्नशिख स चासौ शिखरी पर्वतस्तस्य शिरश्चूलिका तत्र श्रित आश्रितो विकर्तनकरमूलविलग्नशिखशिखरिशिर श्रितस्तस्य तथोक्तस्य। पर कथभूतस्य भगवत। प्रलम्बितभुजलतायुगलस्य। प्रलम्बित दीर्घमुक्त भुजयोर्बाह्वोल तायुगल वल्लीयुग्म येन स प्रलम्बितभुजलतायुगलस्तस्य तथोक्तस्य। अपरं कथभूतस्य यस्य भगवत। खरमयूखखेदिखेदितमुखमण्डलस्य। खरमयूख श्रीसूर्यस्त खेदयति निजप्रतापेन दुःखमुत्पादयति इति खरमयूखखेदि तादृश खेदित सूर्यसमुख प्रेरित मुखमण्डल मुखबिम्ब येन स तथा तस्य। अपर कथभूतस्य यस्य भगवत। मनोगोचराति चारितपश्चर्याश्चयितखचरलोकस्य। मनोगोचरात् चित्तसबन्वात् अतिचारिणी अति क्रमणशीला। मनसो गम्यताया अतिक्रान्ता कस्यचिन्मनसि न समातीत्यर्थ। ईदृ ग्विधा या तपश्चर्या तपश्चरण तया आश्चयित अत्यद्भुत प्रापित खचरलोको देवविद्या खरसमूहो येन स तथा तस्य। कथभूतेन परमानन्दस्यन्दसुधापयोधिना। परिपूर्णसमाविचन्द्रोदय विजृम्भितेन। परिपूर्ण पूर्णिमाचन्द्रवत् सपूर्ण स चासौ समाधिश्चेतोनिरो वनम्। धर्मशुक्लध्यानद्वयमित्यर्थ। स एव चन्द्र समुद्रनवनीतम्। ससारसतापनिवारक्त्वात्। तस्य उदये प्रादुर्भावे सति विजृम्भित उद्वेल सजात स तथा तेन। परमान-न्दस्यन्दसुधापयोधिना किं कुर्वता। घनधर्मजलच्छलेन बहिरुद्वहता। निविडप्रस्वेदजलमिषेण बहिर्बाह्ये शरीराद्वाह्ये उद्वहता निर्गच्छता। केन। उत्प्रेक्षते—पुनरन्तरपर्याप्तावकाशेनेव। पुनर्विजृम्भणादनन्तरं अन्तश्चेतसि अपर्याप्तावकाशेनेव न पर्याप्त न प्राप्त अवकाश स्थान येन परमानन्दसुधास्यन्दपयोधिना स अन्तरपर्याप्तावकाशस्तेन। यस्य भगवत कथभूतस्य। यन्त्रधारागृह उपागतस्येव। मेघवर्षामन्दिरं उपागतस्येव। कस्मिन् सति मध्याह्नसमया यान्तीति प्रश्ने ‘कालभावयो सप्तमी’ इति वचनात् ‘यद्भावो भाव’ इति वचनात् अत्र भावे सप्तम्यन्तानि विशेषणानि ज्ञातव्यानि। भगवति संपूर्णैश्वर्यसंयुक्ते गर्भस्तिमालिनि श्रीभास्करे करैकिरणै कृत्वा सकलानपि रसान्, पृथ्वीरसान् ग्रसितु अवसिते उद्यते सति। कथभूते गभस्तिमालिनि। चिरविसर्ग समयसंधुक्षितजठरजातवेदसीव। जठर स चासौ जातवेदा अग्निस्तस्मिन्निव। कथभूतै करै। दावदाहद्विगुणितप्रतापातपै। दावदाहेन दावानलप्रज्वलनेन द्विगुणितौ पुनरुक्तीकृतौ प्रतापातपौ उष्णताप्रकाशौ येषां ते तथा

विरलस्फुलिङ्गसङ्गसंतापितस्थलजलजराजिभिस्तरुमूलबिलार्धविनिर्गताशीविषविषधरवदनोद्गीर्णगाढगरलानलज्वालाकरालप्रकाशप्रसरैविरहदहनदह्यमानमहिलाश्वासानिलपुनरुक्तोष्णबन्धैरुपार्जितजगज्जातज्योति सारैरिव कार्शानवकणगर्भनिर्भरैरिव च करैश्चिरविसर्गसमयसधुक्षितजठरजातवेदसीव सकलानपि रसान्ग्रसितुमवसिते भगवति गभस्तिमालिनि, परागप्रसरधुसरितसमस्तदिगन्तरालाभिर्वातूलवृत्तिभिर्जगतो जनिताङ्गहारे परिसर्पति समन्तान्नट इव सर्वंकषे मरुति, भुवि दिवि दिशि विदिशि च वैश्वानर-


तै। पुन कथभूतै। तपनोपलशैलशिलाशिखोच्छलद‌विरलस्फुलिङ्गसङ्गसतापितस्थल जलजराजिभि। तपनोपला सूयकान्तमणयस्तेषा शैला पर्वतास्तेपा शिला प्रस्तरास्तासा शिखाग्रेभ्य उच्छलन्त उत्पतन्त अविरला अविच्छिन्ना ये स्फुलिङ्गा अग्निकणास्तेषा सङ्गेन सतापिता उपतापिता स्थलजलजाना स्थलकमलानां राजय श्रेणयो यैस्ते तथा तै। पुन कथभूतै करै। तरुमूलबिलाधविनिर्गताशीविषविषधरवदनोद्गीर्णगाढगरलानलज्वालाकरालप्रकाशप्रसरै। तरूणा वृक्षाणा मूलेषु यानि बिलानि बिलच्छिद्राणि तेभ्य अर्धविनिर्गता सामिप्रादुर्भूता ये आशीविषविषधराश्चक्षुर्विषभुजङ्गास्तेषा वदनैमुसैरुद्गीणा उद्वान्ता या गाढगरलानलज्वालास्तीव्रविषवैश्वानरकीलास्ताभि कराला अतिरौद्रा प्रकाशप्रसरा प्रद्योतप्रवृत्तयो योनयो येषा ते तथा तै। अपरं कथभूतै। विरहदहनदह्यमानमहिलाश्वासानिलपुनरुक्तोष्णबन्धै। विरहदहनेन विप्रलम्भाग्निना दह्यमाना भस्मीक्रियमाणा या महिला कमनीयकामिन्यस्तासा श्वासानिलैनिश्वासवातै पुनरुक्तो द्विगुणीकृत उष्णबधो मन्त्रबन्धो येषा ते तथा तै। पुन कथभूतै। उपार्जितजगञ्जातज्योति सारैरिव। उपार्जित स्वीकृत जगज्जातस्य त्रिभु वनसमूहस्य ज्योति सारं तेजस्तत्त्व यैस्ते यथा तैरिव यथार्थै। उपमालंकार। पुन कथभूतै करै। कार्शानवफणगर्भनिर्भरैरिव च। कृशानोवैश्वानरस्येमे कार्शानवास्ते च ते कणा लेशास्तेषा गर्भेण आधानेन निर्भरा अतितीव्रास्ते तथा तैरिव यथार्थै। उपमालंकार। पुनश्च कस्मिन् सति यान्ति मध्याह्नसमया। परागप्रसरधूसरितसमस्तदिगन्तरालाभिवातूलवृत्तिभिजगतो जनिताङ्गहारे परिसर्पति समन्तान्नट इव सर्वंकषे मरुति। समन्तात्सर्वत्र मरुति वाते परिसर्पति प्रसरति सति। कथभूते मरुति। वातूलवृत्तिभि वातमण्डलीभि प्रवृत्तिभि कृत्वा जगतो लोकस्य जनिताङ्गहारे उत्पादितशरीरविक्षेपे शरीरशोषे वा। कथभूताभिर्वातूलवृत्तिभि। परागप्रसरधूसरितसमस्तदिगन्तरालाभि परागस्य धूलै प्रसरैण प्रवर्तनेन धूसरितानि ईषत्पाण्डुरीकृतानि समस्तामि समग्राणि दिगन्तरालानि दिव्यण्डलानि यामिस्तास्तथा ताभिः। मरुति कथंभूते। नट इव नटाचार्योयथा। नट अङ्गहरं अङ्गविक्षेपं जनयति। पुनरपि कथं-

सृष्टय इव दृष्टिपथमवतरति विष्वद्रीचिलोके, विनिर्मितमुर्मुरोपहारास्विव दुःस्पर्शप्रचारासु सर्वत शर्करिलाखिलासु विरोचनचूर्णकीर्णेष्विव नखपचपासून्माथितातिथिषु पथिषु, वितप्यमानमूषाशुषिरेष्विव तन्निवासिविलासिलोकपरितापकरेषु सौधविवरेषु, प्रलयकालपावकपातभीतास्विव पातालमूलनिलीयमानतनुलतासु लेलिहानवनितासु, समाचरितपञ्चाग्निसाधन-


भूते मरुति। सर्वकषे पापाणानपि तापयति सर्वकष तस्मिन्। अपर कस्मिन्सति यान्ति मध्याह्नसमया। भुवि दिवि दिशि विदिशि च वैश्वानरसृष्टय इव दृष्टिपथमव तरति विष्वद्रीचिलोके। विष्वद्रीचि सर्वस्मिन् लोके जगति दृष्टिपथ लोचनमागमवतरत्यागच्छति सति। कथभूते विप्वद्रीचिलोके। भुवि पृथिव्याम्, दिवि आकाशे, दिशि पूर्वस्या दक्षिणस्या पश्चिमाया उत्तरस्या च विदिशि च प्रतिदिशि अग्निकोण नैऋत्य कोण वायुकोण ईशानकोणलक्षणाया प्रतिदिशि, वैश्वानरसृष्टय इव अग्निरचिता इव। पुनश्च कासु सतीषु। विनिर्मितमुमुरोपहारास्विव दुःस्पर्शप्रचारासु सर्वत शर्करिला स्विलासु। शर्करिलासु शकरोपलसहितासु इलासु भूमिषु सर्वत सवत्र दुः स्पर्श महता कष्टेन स्प्रष्टुमशक्य प्रचार पादारोपण यासु ता दुःस्पर्शप्रचारास्तासु। [अपर] कथभूतासु इलासु। विनिमितमुमुरोपहारास्विव विनिर्भित उत्पादित सजनित मुर्मुराणा अमाराणा उष्णानीना वा उपहारा पूजा यासा तास्तथा तासु। अपर केषु सत्सु। विरोचनचूर्णकीर्णेष्विव नखपचपासून्माथितातिथिषु पथिषु। पथिषु मागषु सत्सु। कथभूतेषु पथिषु। नखपचपासून्माथितातिथिषु नखान् पचन्तीति नखपचा। ‘मितनखपरिणामेषु पच’ इति साधु। ईदृग्विधाभि पाचुभिर्धूलीभिरुन्माथिता मृत्युमानीता अतिथयो अध्वगा येषु ते तथा तेषु। अपरं कथभूतेषु पथिषु। विरोचनचूर्णकीर्णेष्विव विरोचनचूर्णेन अग्निसमिधेन कीर्णेष्विव। पुनश्च केषु सत्सु। वितप्यमानमूषाशुषिरेष्विव तन्निवासिविलासिलोकपरितापकरेषु सौधविवरेषु। तेषु सौधेषु निवसन्तीति तन्निवासिनो विलासिनो भोगिनो लोकास्तेषां परिताप संताप कुर्वन्तीति तन्निवासिबिलासिलोकपरितापकरास्तेषु। कथभूतेषु सौधविवरेषु। वितप्यमानानि यानि मूषाशुषिराणि सुवर्णउत्कालनभाजनमध्यानि तानि तेष्विव। पुनश्च कासु सतीषु। प्रलयकालपावकपातभीतास्विव पातालमूलनिलीयमानतनुलतासु लेलिहानबनितासु। लेलिहानवनितासु (कुण्डलिनी) कुण्डलिनीषु कथभूतासु। पातालमूलनिलीयमानतनुलताच पातालमूलेषु रसा तलाधोभागेषु निलीयमाना निवेशमाना प्रवेश कुर्वाणास्तनुलता शरीरवल्लर्योयासांतास्तथा तासु। अपरं कथभूतासु लेलिहानवनितासु। प्रलयकालपावकपातभीतास्विव प्रलयकाल क्षयकालस्तस्य संबन्धी पावको वज्राग्निस्तस्य पातात् वर्षणात् भीता भय प्राप्तास्तास्तथा तासु तथा। अपरं केषु सत्सु। समाचरितपञ्चाग्निसाधनमानसानामिव

मानसानामिव महीधरतापसाना प्रवृद्धमूर्धनिर्ध्यामधूमध्यामलेषु गगनतलेषु, द्रुतदुर्वर्णरसरेखारुचिभिरिव मरुमरीचिवीचिभिर्वञ्च्यमानमनोव्याकुलेषु कमलकुलेषु, घोरघृणिघनधर्माङ्गारासारसृष्टभूगोलस्पर्शप्रकुपितेनोर्ध्यचलितदृशा दन्दशूकेश्वरेणापाङ्गनिष्ठयूतै कोपकृशानुभिरिव क्वथ्यमानासु जलदेवतानामावसथसरसीषु, निजनिवासकाननद‌वोद्रिक्तपित्तास्विव दुःसहविदाहदेहसदोहासु वनदेवीषु, विदूरितवसन्तसमागमाखिव विरहिणी-


महीधरतापसाना प्रवृद्धमूर्धनिर्ध्यामधूमध्यामलेषु गगनतलेषु। गगनतलेप्वाकाशमण्डलेषु कथभूतेषु सत्सु। महीधरा पवतास्त एव तापसा जडस्वभावत्वात् तेषा महावरतापसाना प्रवृद्धो वृद्धि गतो मूर्धसु मस्तकेषु योऽसौ निर्ध्यामधूमो बाष्पधूमस्तेन ध्यामलानि मलिनानि प्रवृद्धमूर्धनिर्ध्यामधूमध्यामलानि तेषु। कथभूताना महीधरताप सानाम्। उत्प्रेक्षते—समाचरितपञ्चाग्निसाधनमानसानामिव समाचरित पञ्चाग्निसाधने मानस चित्त यैस्ते तथा तेषाम्। अपरं कथभूतेषु सत्सु। द्रुतदुवर्णरसरेखारुचिभिरिव मरुमरीचिवीचिभिर्वञ्च्यमानमनोव्याकुलेषु कमलकुलेषु। कमलकुलेषु मृगयूथेषु। कथभूतेषु सत्सु। मरुमरीचिवीचिभि मृगतृष्णालहरीभिवञ्च्यमानानि यानि मनांसि चित्तानि तैर्व्याकुलानि किंकतव्यतामूढानि मरुमरीचिवीचिभिवञ्च्यमानमनोव्याकुलानि तेषु। कथभूताभिमरुमरीचिवीचिभि द्रुतमुत्कालित यत् दुर्वर्ण रूप्य तस्य रसं तस्य रेखावत् रुचि शोभा यासा तास्तथा ताभिर्यथा। कथभूतासु सतीषु। घोरघृणिघनघर्माङ्गा रासारभ्रष्टभूगोलस्पर्शप्रकुपितेनोर्ध्वचलितदृशा दन्दशूकेश्वरेणापाङ्गनिष्ठ्यूतै कोपकृशाङ्गु भिरिव कथ्यमानासु जलदेवतानामावसथसरसीषु। जलदेवताना जलदेवीना आपसथसरसीषु गृहसरोवरेषु। कथभूतासु। द दशूकेश्वरेण नागराजेन अपाङ्गनिष्ठ्यतै कटा क्षोद्वान्तै कोपकृशानुभि क्रोधाग्निभि कथ्यमानास्विव तप्यमानास्विव। कथभूतेन दन्दशूकेश्वरेण। घोरघृणे श्रीभास्करस्य घनस्तीव्रतरो योऽसौ धर्म आतप स एव अन्तारासार अङ्गारवषण तेन दृष्ट सतापितो योऽसौ भूगोलो भूमिपिण्डस्तस्य स्पर्शत् फणाग्रप्रज्वालानलात् प्रकर्षेण कुपितस्तेन तथोक्तेन। अपरं कथभूतेन दन्दशूकेश्वरेण। ऊर्ध्वचलितदृशा ऊर्ध्वमुपरिभागे चलिता सचलिता दृशो द्विसहस्रलोचनानि यस्य स (तेन) ऊर्ध्वचलितदृशा। अपर कासु सतीषु। निजनिवासकाननदवोद्रिक्तपितास्विव दुःसहविदाहदेहसदोहासु वनदेवीषु। वनदेवीषु कथभूतासु। दुःसहविदाहा असहनीयसतापा देहसदोहाना शरीरसमूहाना यासा तास्तथा तासु। [अपर] कथभूतासु। निजनिवासकाननदवेन आत्मीयग्गृहवनदावानलेन उद्रिक्त अधिकम्पित पित्तमायुर्यासां तास्तथा तासु। इव यथार्थ। अपरं कासु सतीषु। विदूरितवसन्तसमागमास्विव विरहिणीकपोलमर्मरच्छदासु लतावनपङ्क्तिषु। लतावनपङ्क्तिषु वल्लीवनश्रेणिषु कथभूतासु। विरहिणीकपोलमर्मरच्छदासु विरहि

कपोलमर्मरच्छदासु लतावनपङ्क्तिषु, कृतकृष्णवर्त्मकर्मस्विव पत्रपाण्डुषु पादपेषु, स्वकीयकोशकोटरप्रसूताना कलहस्रकुटुम्बिनीना चिन्ताज्वरकरेषु क्षयामयमन्देष्विव परिम्लायत्सु दैर्घिकेयकान्तारेषु, करेणुकरोत्तम्भितकमलिनीदलातपत्रोपचर्यमाणवारणेषु वनसर सु, दृढदष्ट्रोत्पाटितपुटकिनीदरकुहरविहरद्वराहासु कासारवसुधरासु, कठोराष्ठीलपृष्ठकमठनिर्लोठलुठत्पाठीन-


णीना पतिवियुक्ताना स्त्रीणा कपोलवन् गण्डस्थलवन् मर्मरा शुष्काश्छदा पत्राणि यासा तास्तथा तासु। पुनरपि कथभूतासु। विदूरितो विप्रकृष्ट गतो वसन्तसमागमो वसन्तर्तुसमागम आगमन यासा तास्तथा तासु। इव यथार्थे। अपर कथभूतेषु सत्सु।कृतकृष्णवर्त्मकर्मस्विव पत्रपाण्डुषु पादपेषु। पादपेषु वृक्षेषु कथभूतेषु। पत्रपाण्डुषु पत्रेषु पाण्डव शुक्लास्ते तथा तेषु। पुन कथभूतेषु। कृत विहित कृष्णवर्त्यकर्म अग्नि प्रवेशो यैस्ते तथा तेषु। इव यथार्थ। अग्निप्रवेश कृत्वा निर्गतेग्विल्यर्थ। अपर केषु सत्सु। स्वकीयकोशकोटरप्रसूताना कलहसकुटुम्बिनीना चिन्ताज्वरकरेषु क्षयामयमन्देष्विव परिम्लायत्सु देघिकेयकान्तारेषु। दैर्घिकेयकान्तारेषु कमलवनेषु किं कुवत्सु सत्सु। परिम्लायत्सु परि समन्तात् म्लायत्सु शुन्यत्सु सत्सु। अपरं कथभूतेषु। उत्प्रेक्षते—क्षयामयमन्देष्विव क्षयामयेन राजरोगेण मन्देष्विव रोगेष्विव। अपरं कथभूतेषु। कलहसकुटुम्बिनीना राजहंसीना चिन्ताज्वरकरेषु चिताज्वरविधायिषु। कथभूताना कलहसकुटुम्बिनीनाम्। स्वकीयकोशकोटरप्रसूतानाम् स्वकीयेषु कोशकोटरेषु कमलमध्यकोटरेषु प्रसूताना जातापत्यानाम्। अपरं केषु सत्सु। क रेणुक्रोत्तम्भितकमलिनीदलातपत्रोपचर्यमाणवारणेषु वनसर सु। वनसर सु उद्यानसरोवरेषु अटवीतडागेषु। कथभूतेषु सत्यु। करेणुभिर्हस्तिनीभि करै शुण्डादण्डैस्त्तम्भितानि उच्चलितानि यानि कमलिनीदलातपत्राणि पद्मिनीपत्रच्छत्राणि तैरुपचयमाणाश्छाया प्राप्यमाणा वारणा हस्तिनो येषु तानि तथा तेषु। अपरं कासु सतीषु। दृढदष्ट्रोत्पाटितपुटकिनीदरकुहरविहरद्वराहासु कासारवसुधारसु। कासारवसुधारसु सरोभूमिषु। कथभूतासु सतीषु। दृढदष्ट्राभिर्बलवतीभिर्दाढाभिरुत्पादिता उन्मूलिता या पुटकिन्य कमलिन्यस्तासां दरकुहरेषु छिद्रविवरेषु विहरन्त पर्यटन्तो विलोकन्तो वराहा अरण्यशूकरा यासु तास्तथा तासु। अपरं केषु सत्सु। कठोराष्ठीलपृष्ठकमठनिर्लोठलुठत्पाठीनक्षोभकलुषवारिषु विरेयेषु। बिरेयेषु हृदयेषु (हृदेषु) कथभूतेषु सत्सु। कठोरं वज्रप्राय अष्ठील गर्भो मध्यप्रदेशो यस्य पृष्ठस्य तेनोपलक्षिता ये कमठा कूर्मराजास्तेषां निर्लोठनेन प्रेरणेन लुठन्तो यत्र तन्न पच (त) तो ये पाठीना सहस्रदष्ट्रिणो मत्स्यास्तेषां क्षोभेण सचलनेन कलुषाणि अनच्छानि वारीणि जलानि येषा विरेयाणा ते

क्षोभकलुषवारिषु विरेयेषु30, महानोकहगहनावगाहदोहदेषु नखायुधेषु, जरति सौरभेयेषु दर्पे, खर्वति गर्वरेपु गर्वे, गलन्तीषु पुष्पधयेषु वृतिषु, नाडिंधमेषु नगौकसा गलनालेषु, कथाशेषासुयोषिता कामकेलिषु, ज्वलदार्द्रदारुदारुणासु दीर्घाहनिदाघनिर्गलज्जलासु जन्मिना शरीरयष्टिषु, मरुस्थलेष्विव देवखातेषु, प्रधावधरणिष्विव स्रोतस्विनीषु, धान्वनधरारन्धेष्विव प्रधिषु, चुलुकोञ्चुलुम्पनोचितेष्विव जलधिषु, सहारसमयदिवसेप्बिव प्रशान्तजन्तुसचारेषु वर्त्मसु च,


तथा तेषु। पुनश्च केषु सत्सु। महानोक्हगहनावगाहदोहदेषु नखायुधेषु। नखायुधेषु सिंहव्याघ्रादिजीवेषु। कथभूतेषु। महान्तो गुरवो अनोकहा वृक्षास्तेषा गहनानि वनानि तेषामवगाहे प्रवेशे दोहदानि मनोरथानि येषा ते तथा तेषु। अपरं कस्मिन् सति। जरति सौरभेयेषु दर्पे। सौरभेयेषु वृषभेषु दर्पे मदे जरति शतखण्डीभवति सति। अपरं कस्मिन् सति किं भवति सति। खर्वति गवरेषु गर्ने। गवरेषु महिषेषु गर्वेमदे खर्वति ह्रस्वीभवति सति। अपरं कस्मिन्सति किं भवति सति। गलन्तीषु पुष्पवयेषु धृतिषु। पुष्पवयेषु भ्रमरेषु धृतिषु सतोषेषु गलन्तीषु नश्यन्तीषु स तीषु। अपरं। नाडिंधमेषु नगौकसा गलनालेषु। नगौकसा पक्षिणा गलनालेषु नाडिंधमेषु उच्छ्वासान् कुर्वत्सु सत्सु। अपरं। कथाशेषासु योषितां कामकेलिषु। योषितां कमनीयकामिनीना कामकेलिषु रतिक्रीडासु कथाशेषासु निवृत्तव्यापारासु। पुन कथभूतासु। ज्वलदार्द्रदारुदारुणासु दीर्घाहनिदाघनिर्गलज्जलासु जन्मिना शरीरयष्टिषु। जन्मिना प्राणिना शरीरयष्टिषु कायकाष्ठीषु। कथभूतासु। दीर्घाहनिदाघनिगलज्जलासु दीर्घाणि आयतानि अहानि दिवसानि यस्येति दीर्घाह। ‘राजन् अहन् सखि’ इति अप्रत्ययान्तो निपात। दीर्घाहश्चासौ निदाघश्च उष्णकालस्तेन निर्गलन्ति निश्योतति। जलानि यासा याभ्यो वा। कथभूतासु शरीरयष्टिषु। ज्वलदार्द्रदारुदारुणासु ज्वलन्ति आर्द्राणि सरसानि सजलानि यानि दारूणि काष्ठानि तद्वत् दारुणा अशक्यस्पर्शास्तास्तथा तासु। मरुस्थलेष्विव देवखातेषु। देवखातेषु अगाधसरोवरेषु कथभूतेषु। [मरु] स्थलेषु इव वनभूमिष्विव। शुष्केष्वित्यर्थ। प्रधावधरणिष्विव स्रोतस्विनीषु। स्रोतस्विनीषु नदीषु कथभूतासु। प्रधावधरणिष्विव वाह्यालीप्रदेशेष्विव। यन्त्र गजाश्वा शीघ्रगतिं कार्यन्ते सा प्रधावधरणिरुच्यते। वा वनधरारन्ध्रेष्विव प्रधिषु। प्रधिषु कूपेषु कथभूतेषु। धान्वनधरार ध्रेष्विव धन्वन इय धान्वनी सा चासौ धरा धान्वनधरा तस्या रन्ध्राणि तेषु धान्वनधरारन्ध्रेषु मरुस्थलभूमिच्छिद्रेष्विव। उदकरहितेष्विति भाव। चुलुकोञ्चुलुम्पनोचितेष्विव जलधिषु। जलधिषु समुद्रेषु कथभूतेषु। चुलुकोञ्चुलुम्पनोचितेष्विव

येषु च—

‘मार्तण्डश्चण्डतापस्तपति मरुभुवामग्निसात्त्व दधान
काम व्योमान्तराणि स्थगयति किमपि द्योति धावत्पुरस्तात्।

ऊर्ध्वं निर्ध्यामवीचीचयमिव विसृजत्येतदाशान्तराल
मग्नाङ्गान्निम्नगाना पयसि च करिण क्वाथयन्वाति वात॥६०॥


चुलुकै करपुटैरुञ्चुलुम्पन उञ्चुण्टन तस्मिन् उचितेषु योग्येषु। अल्पजलेष्वित्यर्थ। सहारसमयदिवसेष्विव प्रशान्तजन्तुसचारेषु वर्त्मसु। वर्त्मसु मार्गेषु। कथभूतेषु। प्रशान्तजन्तुसचारेषु प्रशान्तो निवृत्तो जन्तूना प्राणिना सचार प्रवेशो येषु तानि प्रशान्तजन्तुसचाराणि तेषु। पुन कथभूतेषु। सहारसमयदिवसेष्विव प्रलयकालावसरदिनेष्विव। सहारसमये प्राणिना सचारो न भवति॥

येषु च तपतपनकेतुषु विलासिभि कामुकै पुरुषै भूरुहवनभूमयो वृक्षवनधरणय समध्यास्यन्ते सम्यगाश्रीयन्ते। कथभूता भूरुहवनभूमय। विलासिनीना मनोहरस्त्रीणा चिकुरलोचनावलोकनामृतहरिणमनोहरा। चिकुराणि कुटिलानि यानि लोचनानि नेत्राणि तेषा अवलोकननिरीक्षण तदेवामृत सुधा। शरीरसतापनिवारकत्वात्। तस्य हरिणवत् सारिणीवत् नीकवत् कृत्रिमनदीवत् मनोहराश्चित्तानुरञ्जिका। अपरं कथभूता भूरुहवनभूमय। कुचच्चुकप्रभाशष्पश्यामलितपर्यन्तवृत्तय। कुचचूचुकाना स्तनाग्राणाम्। ‘चूचुक तु स्तनाग्रस्यात्’ इति वचनात्। तेषा प्रभास्तेजासि ता एव शष्पाणि कोमलतृणानि तै श्यामलिता श्यामवर्णीकृता पर्यन्तवृत्तयोऽभि समन्तात् प्रदेशा यासां तास्तथा। कथभूतै विलासिभि। इति अमुना प्रकारेण। मागधबुधप्रतिबोधितमध्याह्नसध्यै। मागधबुधैनटाचार्यपण्डितै प्रतिबोधिता मध्याह्नसध्या येषा विलासिनां ते तथा तै। अपरं कथभूतैर्विलासिभि। सुष्कृतावन्ध्यै। सुकृतेन पूर्वभवपुण्येन अवन्ध्यै सफलै। इतीति किम्। मार्तण्ड इत्यादि पञ्चवृत्तानि व्याख्येयानि। तथाहि—मार्तण्डश्चण्डतापस्तपति मरुभुवामग्निसात्त्व दधान। मार्तण्ड श्रीसूर्य तपति ताप करोति। कथभूतो मार्तण्ड। चण्डताप अतितीव्रधर्म। मार्तण्ड किं कुर्वाण। मरुभुवा धन्वभूमीनां अग्निसात्त्व अभिमयत्व दधान कुवाण। काम व्योमान्तराणि स्थगयति किमपि द्योति धावत्पुरस्तात्। काममतिशयेन किमपि अनिर्वचनीय थोति वस्तु सतेजस्कन्धवस्तु कर्तृभूत व्योमान्तराणि गगनमण्डलानि स्थगयति झम्पति। किं कुर्यद् द्योतिवस्तु। पुरस्तात् अग्रतो धावत् शीघ्रगतिं कुर्वत्। ऊर्ध्व नियम वीचीन्चयमिव विसृजत्येतदाशान्तरालम्। एतत्प्रत्यक्षीभूत आशान्तराल दिङ्मण्डल कतृभूत ऊर्ध्वमाकाशोपरि निर्ध्यामवीचीचय बाष्पलहरीसमूह विसृजतीव प्रेषयतीव। मग्नाङ्गान्निन्नगानां पयसि च करिण क्वाथयन्वाति वात। वात वायु वाति प्रवर्तते। किं कु-

मध्याह्नेऽह्नाय वाहाश्चटुलतरखुरास्तोयमार्गं त्यजन्ति
स्थानायानेतुमीशा पयसि कृतरतीन्हस्तिनो नैव मिण्ठा।

शोषोत्तुण्ड शिखण्डी विसृशति शिशिरान्कन्दरद्रोणिदेशा-
न्स्वेच्छ कच्छेषु चेमा कमलदलतल वारला सश्रयन्ति॥६१॥

आसीनप्रचलायितै करिपति क्षोणीध्ररन्ध्रद्रुम-
स्कन्धालम्बितकन्धर किमपि च ध्यायन्मुहुस्तिष्ठति।

निद्रामुद्रितलोचनो हरिरपि ग्रीष्मेषु माध्यदिनी-
मद्रिद्रोणिदरादरार्पितवपुर्वेलामतिक्रामति॥६२॥


वन्। निम्नगाना पयसि नदीना जलमध्ये मग्नाङ्गान् ब्रुडितकायान् करिणो गजान् क्वाथयन् क्वथयन्। अष्टावशेषजलवदुत्कालयन्नित्यर्थ॥समुञ्चयालंकार॥

** मध्याह्नेत्यादि।** मध्याह्ने दिवसस्य मध्यवेलाया वाहा अश्वा अहाय वेगेन तोयमाग जलमार्गं त्यजन्ति मुञ्चन्ति। कथभूता वाहा। चटुलतरखुरा चटुलतरा अत्युत्ताला खुरा शफा येषा ते तथोक्ता। मिण्ठा पोतारा पयसि जलमध्ये कृतरतीन् विहितरागान् हस्तिनो गजान् स्थानाय हस्तिनीशालायै आनेतु प्रापयितु नैव ईशा समर्था भवन्ति। शिखण्डी मयूर शिशिरान् शीतलान् कन्दरद्रोणिदेशान् क्न्दस्य गुहाया द्रोणिदेशा पर्वतसधिप्रदेशास्तान् विमृशति विचारयति। अन्वेषत इत्यर्थ। कथभूत शिखण्डी। शोषोत्तुण्ड शोषेण शरीरपरितापेन उत्तुण्ड ऊर्ध्वमुख। वारला हरावयूटिका इमा प्रत्यक्षीभूता कमलदलतल पुटकिनीपत्राधोभाग सश्रयन्ति आश्रयन्ति। केषु। कच्छेषु नद्येकदेशेषु। कथमाश्रयन्ति। स्वेच्छ यथेष्टम। निजेच्छानुसारेणेत्यर्थ॥ अयमपि समुच्चय॥

** आसीनप्रचलायितैरित्यादि।** करिपति आसीनप्रचलायितै कृत्वा आसीन एव उद्भिन्नोऽपि सन् प्रचलायितैर्घूणितै कृत्वा किमपि अनिर्वचनीय मुहुर्ध्यायन् पुन पुनश्चिन्तयन् तिष्ठति। कथभूत सन् तिष्ठतीत्याह—क्षोणीध्ररन्ध्रष्ठमस्कन्धालम्बित कन्धर। क्षोणीध्रस्य पर्वतस्य रन्ध्रेविवरे योऽसौ द्रुमो वृक्षस्तस्य स्कन्ध प्रकाण्ड शाखावधि काष्ठ तत्र आलम्बिता आरोपिता कन्धरा ग्रीवा येन स तथोक्त। हरिरपि पञ्चाननोऽपि। अपिशब्दात् व्याघ्रादिकोऽपि। निद्रामुद्रितलोचन निद्रया मुद्रिते शम्पिते लोचने यस्य स तथा सन्। ग्रीष्मेषु घर्मेषु माध्यदिनीं मध्याहसंबन्धिनीं बेलां कालम् अतिक्रामति। कथभूतो हरि। अद्रे पर्वतस्य द्रोणि संधिप्रदेशस्तत्र दरं ईषत् यथा भवस्येवं आदरेण तत्परतया अर्पित आरोपितं बपु शरीरं येन स॥अयमपि समुच्चयालंकारः॥

किं च।

गण्डस्थलीषु सलिल न जलाशयाना-
मम्भ स्रुति कुचनगेषु न वाहिनीनाम्।

नाभीदरेषु वनितासु जल न वार्धौ
नीवीलतोल्लसति शुष्यति यत्र लोक॥६३॥

सुदुर्लभरसोऽप्येष सरसाधरपल्लव।
तत्करोति च तद्द्वेष्टि चित्र धर्मसमागम॥६४॥

इति मागधबुधप्रतिबोधितमध्याह्नसध्यै सुकृतावन्ध्यैर्विलासिभिर्विलासिनीना चिकुरलोचनावलोकनामृतहरिणमनोहरा कुचचूचुकप्रभाशष्पश्यामलितपर्यन्तवृत्तय समध्यास्य ते भूरुहवनभूमय, तेषु तपतपनकेतुषु विकर्तनकरमूलविलग्नशिखशिखरिशिर श्रितस्य प्रलम्बितभुजलतायुगलस्य खरमयूखखेदिखेदितमुखमण्डलस्यमनोगोचरातिचारितपश्चर्याश्चर्थितखचरलोकस्य परिपूर्णसमाधिचन्द्रोदयविजृम्भितेन परमानन्दस्यन्दसुधापयोधिना पुनरनन्तरमन्तरपर्याप्तावकाशेनेव घनघर्मजलच्छलेन बहिरुद्वहता परिप्लावितापघनस्य यन्त्रधारागृहमुपागतस्येव यान्ति मध्याह्नसमया॥

येन च पयोधरोन्नतिजनितजगद्वलयनीलनिचलेषु, निचलसनाथनृप-


किं च विशेष वर्णयति—गण्डस्थलीष्वित्यादि। गण्डस्थलीषु कपोलमरु धूल्युश्चयेषु सलिल जलं वर्तते, न जलाशयाना तडागानां जलमस्ति। अम्भस्रुतिर्जलस्रवण कुचनगेषु स्तनपर्वतेषु वर्तते, न वाहिनीना नदीनामम्भ स्तुतिरस्ति। वनितासु कमनीयकामिनीषु नाभीदरेषु सुन्दिकाछिद्रेषु जल वर्तते, न वार्धौसमुद्रे जलमस्ति। नीवीलता बनितानामित्येव स्त्रीकव्यग्रवस्त्रबन्धनवल्ली उल्लसति श्वासोच्छ्वास करोति। वर्धते इत्यर्थ। यत्र येषु तपतपनकेतुषु लोक शुष्यति आवानो भवति॥अतिशयालंकार॥

** सुदुर्लभरस इत्यादि।** धर्मसमागम उष्णकालागम तद्वस्तु करोतीति तच्च कार्य द्वेष्टि न करोति चित्र आश्चर्यमेतत्। कथभूतो धर्मसमागम। सुदुर्लभरसोऽपि सन् सर साधरपल्लव सजलौष्ठप्रवाल॥अयमप्यतिशय॥

येनेत्यादि। येन च श्रीयुदत्ताचार्येण तत्र तेषु वारिवाहवासरेषु वारिवाहस्य मेघस्य बासरा दिवसा वाहवासरास्तेषु मेघदिवसेषु तरुमूलनिवासिना सता शर्वर्योरा-

तिचापसपादिषु, सपादितखरदण्डखण्डाडम्बरखण्डनेषु, खण्डितविलासिनीमनोरथपरिपन्थिषु, परिपन्थिपरिषदुत्साहद्रुहेषु, द्रुहिणवाहनस्थितिप्रभेदिषु, प्रभिन्नगजगर्जनोर्जितपर्जन्याविच्छिन्नस्वनदु सहेषु, दुःसहविरहशि-

——————

त्रयो नीयन्ते निर्गमयन्ते। इति क्रियाकारकसबन्ध। अथवासरशब्द ‘क्लीये दिवसवासरौ’ इति वचनात् यद्यपि नपुसकलिङ्गे वर्तते, तथाप्यन पुंलिङ्गे विवक्षित इति ज्ञातव्यम्। वासरशब्दस्य विशेषणानि पुंलिङ्गेसूचितत्वात्। येन कथभूतेन। निर न्तरयोगोपयोगनिमग्नमनस्कारेण। निरन्तरमविच्छिन्न योगोपयोगे ध्यानचिन्ताया निमग्नो ब्रुडितो मनस्कारश्चित्ताभोगो यस्य स तथा तेन। अपर कथभूतेन येन। विहितवनदेवतारक्षाधिकारेणेव। विहित आचरितो वनदेवताना कान्तारदेवताना रक्षाया प्रतिपालनस्य अधिकारो नियोगो यस्य स तथा तेन। इव यथार्थ। कथभूता शर्वय। निखिलस्य समस्तस्य जगत पृथ्वीमण्डलस्य तमस्काण्डखण्डितनिजशरीरदशनवृत्तय तमस्काण्डेन अन्धकारसमूहेन खण्डिता विलोपिता निजशरीरस्य आत्मकायस्य दशनवृत्तिरवलोकनवृत्तिर्याभि शर्वरीभिस्तास्तथोक्ता। अपर कथभूता शर्वर्य। अभि सारिकाजनमनोऽपत्यपोषणगर्वर्यअभिसारिकाजनाना कान्तार्थिनीसकेतका कामुकस्त्रीसमूहाना मनास्येव अपत्यानि बालका अज्ञानमनस्कत्वात् तेषा पोषणे प्रतिपालने समर्थीकरणे गर्वर्य महिषीसमाना। कथभूतेषु वारिवाहवासरेषु। पयोधरोन्नतिजनितजगद्वलयनीलनिचलेषु। पयोधराणा मेघाना उन्नत्या आडम्बरेण जनित उत्पादितो जगद्वलयस्य पृथ्वीमण्डलस्य नीलनिचल कृष्णवर्णनिचोलक कञ्चुको यैस्तेतथा तेषु। पुन कथभूतेषु वारिवाहवासरेषु। निचलसनाथनृपतिचापसपादिषु। निचलसनाथानि प्रावरणवस्त्रसहितानि नृपतीना नरेन्द्राणा चापानि धनूंषि सपादयन्ती त्येवशीलास्तथा तेषु। पुन कथभूतेषु। सपादितखरदण्डखण्डाडम्बरखण्डनेषु। संपादितमुत्पादित सजनित खरदण्डखण्डाना कमलवनाना आडम्बरस्य शोभाया आटोपस्य वा खण्डन विध्वसन यैस्ते तथा तेषु। पुन कथभूतेषु। खण्डितविलासिनीमनोरथपरिपन्थिषु। खण्डिताना पत्या मानभङ्ग प्रापिताना विलासिनीना स्त्रीणा मनोरथाना दोहदानां परिपन्थिन शत्रवस्ते तथा तेषु। उक्त च— ‘निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखव्रणविचूर्णितसर्वगात्र। यस्या कुतोऽपि गृहमेति पति प्रभाते सा खण्डितेति कथिता कविभि पुराणे॥’ अपरं कथभूतेषु। परिपन्थिपरिषदुत्साहद्रुहेषु। परिपन्थिनां शत्रूणां परिषत् समूहस्तस्य उत्साहमुद्यम द्रुत्यन्ति विनाशयन्तीति ते तथा तेषु। पुनः कथभूतेषु। दुहिन (द्रुहिण) वाहनस्थितिप्रभेदिषु। दुहिन (द्रुहिण) बाहनानां हसानां स्थितिं मानससरोवरनिवासं प्रभिदन्ति विघटयन्तीत्येवशीलास्ते तथा तेषु। पुन कथंभूतेषु। प्रभिन्नगजगर्जनोर्जितपर्जन्याविच्छिन्नखनदुःसहेष्रुप्रभिन्ना मद प्राप्ता। ‘ग्रभिन्नोगर्जितो

प्लावितदन्तिपोतेषु, पोतसभावनाकुलकुरङ्गीजीविताशाविनाशपिशुनतडिद्दण्डसघट्टेषु31, सघट्ट‌मु31खरवारिवाहवपु32र्मण्डनाखण्डलकोदण्डविलोकनाध्यन्यत्वरासज्जिषु, सज्जिताजकावकामकर्कशदशेपु, दिवमवनिमाशा पातालानि च जलसाज्जनयत्सु,

यत्र च—

मेघोद्गीर्णपतत्कठोरकरकासारत्रसत्सिन्धुरे
पूरप्लावितकूलपादपकुलक्षुभ्वत्सरित्पायसि।

–––––––––––––––

तथा तेषु। पुन कथभूतेषु। दिगन्तरधरदरोद्गीर्णजलप्लावितदत्तिपोतेषु। दिगन्तरेषु दिङ्मण्डलेषु ये धरा पवतास्तेषा दरा कन्दरास्तेरुङ्गीर्णानि उद्वातानि यानि जलानि उदकानि तै [तेषु] प्लाविता निमज्जिता दन्तिना हस्तिना पोता शिश वश्चिक्षा येषु ते तथा तेषु। पुन कथभूतेषु। पोतसभावनाकुलकुरङ्गीजीविताशाविनाशपिशुनतडिद्दण्डसघट्टेषु31। पोताना मृगशिशूना सभावना बारण रक्षण तत्र आकुला विह्वलीभूता या कुरङ्गयो मृग्यस्तासा जीवितस्य प्राणधारणस्य आशा इच्छा तस्या विनाशेऽपलापे पिशुनानि यानि तडिद्दण्डानि विद्युतां यष्टयस्तेषा सघट्टो31 भटभटेको येषु वारिवाहवासरेषु ते तथा तेषु। पुन कथभूतेषु। सघट्टमुख31रवारिवाहवपुर्मण्डनाखण्डलकोदण्डविलोकनाध्वन्यत्वरासज्जिषु। सघट्टेन31 परस्परनिष्ठु रप्रहारेण मुखरा वाचाला ये वारिवाहा मेघास्तेषा वपुर्मण्डन कायशृङ्गार यदाखण्डल कोदण्ड इन्द्रधनुस्तस्य विलोकने अध्वन्याना पथिकाना त्वरा वेगवत्त्व सज्जयन्ति कारयन्तीत्येवशीलास्ते तथा तेषु। पुन कथभूतेषु। सज्जिताजनावकामकर्कशदशेषु। सज्जित प्रत्यञ्च यत् आजकाव धनुस्तेन कामस्य कर्न्दपस्य कर्कशा उत्कटा दशा अवस्था येषु वारिवाहवासरेषु। कि कुर्वत्सु। दिव आकाश अवनि भूमिं आशा अष्टौ दिश पातालानि च धरामूलानि जलसात् जलमयानि सपन्नजलानि वा जनयत्सु कुर्वत्सु ॥

** यत्र चेत्यादि।** यत्र च वारिवाहकाले डिम्भवती कुरङ्गी बालवती शिशुमती मृगी क देश कमपि प्रदेश आश्रयतु आश्रय करोतु। कोऽपि प्रदेशो जलरहितो नास्ति यत्र कुरङ्गी तिष्ठती (ष्ठेदि) त्यर्थ। वारिवाहस्य काले क्थभूते। मेघोङ्गीर्णपतत्कठोरकरकासारत्रसत्सिन्धुरे। मेघेन मेधैवा वारिदैरुद्गीणा उद्वान्ता पतन्तोऽध पतन्तो भूमौ विलुण्ठन्त कठोरा कर्कशा दृषत्प्राया ये करका वर्षोपला तेषामासारेण वेगवद्वषणेन त्रस्यन्तो भय कुर्वन्त सिन्धुरा गजेन्द्रा यस्मिन् स तथा तस्मिन्। पुन रपि कथभूते काले। पूरप्लावितकूलपादपकुलक्षुभ्यत्सरित्पायसि। पूरेण जलोल्लासेन प्ला-

अम्भश्चण्डसमीरणाश्रयशिवाफेत्कारताम्यन्मृगे
काले सूचिमुखाग्रभेद्यतिमिरप्राय क्षपासङ्गिनि॥६५॥

भूय पय प्लवनिपातितशैलशृङ्गे
पर्जन्यगर्जितवितर्जितासिहपोते।
सौदामनीद्युतिकरालितसर्वदिक्के
क देशमाश्रयतु डिम्भवती कुरङ्गी॥६६॥

किं च—

स्त्रीणा कुचोष्मपटलैरजडावतार
सधुक्षित पुनरय नयनानलेन।
यत्राधरामृतघृताहुतिचण्डितार्चि
सकल्पजन्मविटपी परमुत्प्रकाश॥६७॥

–––––––––––––––

वितानि मज्जितानि यानि फूलपादपकुलानि तटवृक्षसमूद्यस्तै क्षुभ्यन्ति उत्पतन्ति सरिता नदीना पायासि जलानि यस्मिन् काले स पूरप्लावितकूल्पादपकुलक्षभ्यत्सरि त्पायास्तस्मिन् तथा। भूयोऽपि कथभूते काले। अम्भश्चण्डसमीरणाश्रयशियाफेत्कार ताम्यन्मृगे। अम्भोभि पानीयैश्चण्डा प्रचण्डास्तरूत्पाटनसमथा ये समीरणा वातास्तेषां आश्रयेण वातताडनेन ये शिवाना शृगालाना शृगालीना वा फेत्कारा शब्दविशेषास्तै स्ताम्यन्तो निर्जलप्रदेशमाकाङ्क्ष तो मृगा हरिणा यस्मिन् काले स तथा तस्मिन्। अपर कथभूते काले। सूचिमुखाग्रभेद्यतिमिरप्राय क्षपासङ्गिनि। सूचीना पटमेदिनीना मुखाग्रैरग्रभागैर्भेद्य विदारणीयमतिसघनत्वात् यत्तिमिरमन्धकारं तत्प्रायस्तेन सयुक्त क्षपानारात्रीणा सङ्ग संगतिर्विद्यते यस्य स तथा तस्मिन्। अपरं कथभूते काले। भूय पय प्रवनिपातितशैलशृङ्गे। भूयसा प्रचुराणा पयसा जलानां प्लवैरुत्पतनैर्निपातितानि निलोंठि तानि शैलाना पर्वताना शृङ्गाणि शिखराणि यस्मिन् काले स तथा तस्मिन्। अपरं कथभूते काले। पजयगजितवितर्जितसिंहपोते। पर्जन्यानां मेघाना गर्जितै शब्द‌विशेषै वितार्जिता निर्भत्सिता सिहाना हर्यक्षाणां पोता शिशवो यस्मिन् काले स तथा तस्मिन्। पुनरपि किंविशिष्टे काले। सौदामनीद्युतिकरालितसर्वदिक्के। सौदामनीनां शतह्रदाना द्युतिभिस्तेजोभि करालिता रौद्रीकृता सर्वां समस्ता दिशो हरितो यस्मिन् काले स तथा तस्मिन्। ‘नदीरुदन्ताच्छेषाद्वा’ बहुव्रीहौ क। उक्तलक्षण आक्षेपालंकार। युग्मम्॥

किं च अस्ति कश्चिद्विशेष। स्त्रीणामित्यादि। यत्र यस्मिन् वारिवाहस्य काले संकल्पजन्मविटपी कन्दर्पवृक्ष परं केवल उत्प्रकाश उत्कृष्टतेजा वर्धते। कथंभूत संकल्पजन्मविटपी। स्त्रीणां मनोहरवनितानां कुचानां स्तनाना ऊष्मपटलैरुष्णतासमूहै

अपि च—

धाराशरासारभरेण मेघ कोदण्डचण्ड सह मन्मथेन।
बालाबला सेति च सिन्धुरुद्धश्चिन्ताकुलस्तिष्ठति यत्र पान्थ॥६८॥

तत्र वारिवाहवासरेषु तरुमूलनिवासिना निरन्तरयोगोपयोगनिमग्नमन स्कारेण विहितवनदेवतारक्षाधिकारेणेव नीयन्ते निखिलस्य जगतस्तमस्काण्डखण्डित निजशरीरदर्शनवृत्तयोऽभिसारिकाजनमनोऽपत्यपोषणगर्वर्यशर्वर्य॥

यस्य च भगवतस्तत्क्षणक्षरत्क्षीरडिण्डीरपिण्डपाण्डुरैरपर्याप्तव्याप्तिभिर्य-

———————

अजडावतारो जलागमनरहित। पुनर्भूयोऽपि अय सकत्पजमविटपो नयनानलेन स्त्रीणा लोचनाग्निना सधुक्षित उद्दीपित। पुन कथभूत सकल्पजन्मविटपी। अधरामृतघृताहुतिचण्डिताचि। स्त्रीणा अधरा दन्तच्छदा एवामृत कामुकानां जीवितप्रदानहेतुत्वात् तदेव घृताहुति आज्याहुतिराज्यहवन तया चण्डिता प्रचण्डीकृता अर्चिषो ज्वाला यस्येति स अधरामृतघृताहुतिचण्डितार्चि। घृतस्य तेजउद्दीपनहेतुत्वात् ‘तेजो वै घृतम्’ इत्यश्वमेधवचनात्। हेत्वलंकारगभितदीपकालंकार॥

अपि च अस्ति कश्चिद्विशेष। धारेत्यादि। यत्र यस्मिन् वारिवाहस्य काले इति अमुना प्रकारेण पान्थ पथिक चिन्ताकुल चिन्तयापि स्मृत्या आकुल किंकर्तव्यतामूढ स्तिष्ठति अवतिष्ठति। इति किम्। मेघस्तावत् कोदण्डचण्डो वर्तते। कोदण्डेन देवेन्द्रधनुषाचण्ड प्रचण्डो बद्धाटोप कोदण्डचण्ड। केन कृत्वा। धाराशरासारभरेण। धारा जनच्छटास्ता एव शरा बाणा पथिकाना मर्मविदारणहेतुत्वात् तेषामासारा वेगवद्वषास्तेषा भरो अतिशयस्तेन तथोक्तेन। मेघकथभूत। सह33 सार्धम्। केन सह। मन्मथेन मकरकेतुना। सा विवक्षिता बाला नवयौवना मम भार्या अबला बलहीना वर्तते। कथभूत पान्थ। सिन्धुरुद्ध नर्मदाद्यनदीरुद्ध34। सहोक्तिरलंकार॥

यस्य चेत्यादि। यस्य च भगवतस्तत्क्षणक्षरत्क्षीरडिण्डीरपिण्डपाण्डुरैरपर्याप्तव्याप्तिभि यशोभि समृतमिदमशेष भुवन असुलभमस्मदीय सित सर्गदर्शन भविष्यतीति कृताशङ्क इव प्रजापति पुरैव प्रदीपकलिकानिकरपेशलानि शेषफणासु प्रभावन्ति रत्नानि। प्रजापतिर्ब्रह्मा पुरैव पूर्वमेव शेषफणासु धरणेन्द्रमुखदर्वीषु सहस्रफणानामुपरितनभागेषु। प्रभावन्ति तेजस्वन्ति रत्नानि माणिक्यानि व्यधाच्चकारेति क्रियापद गद्यप्रान्तै वर्तते। प्रजापति कथभूत इति उत्प्रेक्षते—इति अमुना प्रकारेण कृताशङ्क इव विहितभीतिरिव। कस्यकृताशङ्क। इतीति किम्। यस्य श्रीसुदत्ताचार्यस्य भगवतो ज्ञानाति-

शोभि सभृतमिदमशेष भुवनमसुलभमस्मदीय सित सर्गदर्शन भविष्यतीति कृताशङ्क इव प्रजापति पुरैव प्रदीपकलिकानिकरपेशलानि शेषफणासु प्रभावन्ति रत्नानि, निरन्तरज्वलज्ज्वालाजालप्रकाशपिष्टातकनिकीर्णककुप्सीमन्तिनीसीम तपर्यन्तानि क्षीरोदधिमध्येषु वडवानलमण्डलानि, मधुमत्तविलासिनीविलोचनाडम्बरविडम्बीनि हेरम्बगुरुशिरसि जटावल्कलानि, कपर्दिनितम्बिनीस्तनाडम्बरितमृगमदपत्त्रभङ्गसुभगानि गोमिनीपतिश्यालव-

————————

शयवत यशोभि पुण्यगुणकीर्तनलक्षणै शुक्लैर्यशोभि इद प्रत्यक्षीभूत अशेष समग्र भुवन त्रैलोक्य सभृत व्याप्त अस्मदीयमस्माक सित शुक्ल सर्गदर्शन असुलभ दुष्प्राप भविष्यति वर्त्स्यतीति कारणात्। कथभूतैर्यशोभि। तत्क्षणक्षरत्क्षीरडिण्डीरपिण्डपाण्डुरै। तत्क्षण तत्काल क्षरत् अध पतत् यत्क्षीर दुग्ध तस्य त (य) त् डिण्डीरपिण्ड फेनपिण्डस्तद्वत् पाण्डुरै शुक्लवर्णै। अपर कथभूतैयशोभि। अपर्याप्तव्याप्तिभि न पर्याप्ता न समाप्ति गता व्याप्ति प्रसारो येषा यशसा तानि अपयाप्तव्याप्तीनि तैस्तयोक्तै। कथभूतानि रत्नानि। प्रदीपकलिकानिकरपेशलानि। प्रदीपाना कलिका शिखास्तासा निकर समूह तद्वत्पेशलानि मनोहराणि। पुनश्च प्रजापति किं चकार। क्षीरोदधिमध्येषु क्षीरसागरगर्भेषु वडवानलमण्डलानि व्यधादिति क्रियापदम्। इत्येवमौ वानलसमूहाश्चकारेत्यर्थ। कथभूतानि वाडवानलानि। निरन्तरज्वलज्ज्वालाजालप्रकाश पिष्टातकनिकीर्णककुप्सीमन्तिनीसीम तपयन्तानि। निरन्तरमहर्निश ज्वलन्ति प्रज्वलन्ति यानि ज्वालाजालानि कीलासमूहास्तेषा प्रकाश उद्योत स एव पिष्टातक सिन्दूरादिचूर्णं तेन निकीर्णा व्याप्ता ककुप्सीमन्तिनीना दिग्वनिताना सीमन्तपयन्ता केशमार्गपर्यन्तवसनानि यैर्वडवानलमण्डलैस्तानि। मधुमत्तविलासिनीविलोचनाडम्बरविडम्बीनि हेरम्बगुरुशिरसि जटावल्कलानि। प्रजापति पुन किं व्यधात्। हेरम्बस्य लम्बोदरस्य गुरु पिता श्रीमहादेवस्तस्य शिरसि मस्तके जटावल्कलानि व्यधात् जटा सलग्नकेशास्त एव वल्कलानि वृक्षत्वच बलवत्तरत्वात्। कथभूतानि जटावल्कलानि इत्याह—मधु मद्य तेन मत्ता विह्वलीभूता या विलासिन्य कमनीयकामिन्यस्तासा विलोचनानि नेत्राणि तानि विडम्बयन्ति तिरस्कुर्वन्ति उपमा धरन्तीति तानि। जटाना शोणत्वात्। अभिज्ञानमेतत्। कपदिनितम्बिनीस्तनाडम्बरितमृगमदपत्रभङ्गसुभगानि गोमिनीपतिश्यालवपुषि कुरङ्गाकृतिलाञ्छनमहासि। प्रजापति पुनश्च किं व्यधात्। गोमिनी लक्ष्मीस्तस्या पतिर्भर्ता श्रीनारायणस्तस्य श्यालो मैथुनश्चन्द्रस्तस्य वपुषि (कुरङ्गाकृति35 शरीरे चन्द्रमण्डले) कुरङ्गाकृतिलाञ्छनमहासि व्यधात् कुरङ्गाकृति मृगाकारं

पुषि कुरङ्गाकृतिलाञ्छनमहासि, सततसुररमणीक36रविकीर्यमाणसिन्दूरपरागपिञ्जराणि सुनासीरकरिकुमुदपुण्डरीकेषु शिर पिण्डकुम्भस्थलानि, प्रकामपीतपीडितमुक्तसहचरकरपल्लवपवनविनिवाप्यमानविद्याधरीबिम्बाधराकृतीनि शिशिरशिखरभृति धातुशृङ्गाणि, कुबेरपुरकामिनीकुचचूचुकपटलश्यामलानि ललितापति शैलमेखलासु तमालतरुवनानि, निजनाथावसथपथप्रस्थानपरिणतरतिचरणशिञ्जानहिञ्जीरमणितमनोहराणि हसपरिपत्सु

——————

यल्लाञ्छन चिह्न तस्य महासि तेजासि व्यधात्। कथभूतानि कुरङ्गाकृतिलाञ्छनमहासि इत्याह—कपर्दी श्रीमहादेवस्तस्य नितम्बिनी भाया पावती तस्या स्तनौ वक्षोजौ तयोराडम्बरितो विस्तारितो मृगमदपत्रभङ्गकस्तृरिकातिलकरचा तद्वत्सुभगानि मनोहराणि। सततसुरतरुणीकरविकीर्यमाणसिन्दूरपरागपिञ्जराणि सुनासीरकरिकुमुदपुण्डरीकेषु शिर पिण्डकुम्भस्थलानि। प्रजापति पुनश्च किं व्यधात्। सुनासीरो देवेन्द्रस्तस्य करी ऐरावत स कुमुदश्च नैर्ऋत्यदिग्गज स च पुण्डरीकश्च अग्निदिग्गजश्च37 [तेषु] सुनासी रकरिकुमुदपुण्डरीकेषु शिर पिण्डकुम्भस्थलानि व्यधात् मस्तकपिण्डेषु कुम्भस्थलानिव्यधात्। कथभूतानि शिर पिण्डकुम्भस्थलानि इत्याह—सतत निरन्तरं सुरतरुणीना देवकन्याना करा हस्तास्तैर्विकीर्यमाणो निक्षिप्यमाणो योऽसौ सिन्दूरपरागो नागगर्भधूलिका तेन पिञ्जराणि गोरोचनवर्णानि। प्रकामपीतपीडितमुक्तसहचरकरपल्लवपवनविनि वाप्यमानविद्याधरीबिम्बाधराकृतीनि शिशिरशिखरभृति धातुशृङ्गाणि। प्रजापति पुनश्च कि व्यधात्। शिशिरशिखरभृति हिमाचलपर्वते धातुशृङ्गाणि गैरिकशिखराणिव्यधात्। कथभूतानि धातुराङ्गाणि इत्याह—प्रकाममतिशयेन पूर्व पीता पश्चात्पीडिता स्तदनन्तर मुता सहचराणा भर्तृृणा करपल्लवपवनै पाणिप्रवालवायुभिःअतिवाप्य माना आप्यायमाना ये विद्याधरीणा वियद्गामिनीना स्त्रीणा बिम्बाधरा पक्वबिम्बसमानोष्ठास्तेषामाकृतय आकारा येषा तानि तथा। कुबेरपुरकामितीकुवचुचुकपटलदयामलानि ललितापतिशैलमेखला [सु38 तमालतरुवनानि। प्रजापति पुनश्च किं व्यधात्। ललितापतिशैलमेखलासु ललितापतिशैल कैला] सपर्वतस्तस्य मेखलासु कटिनीषु तमालतरूणा कालस्कन्धवृक्षाणा वनानि विपिनानि व्यधात्। कथभूतानि तमालतरुवनानि। कुबेरस्य धनदस्य पुर नगरमलकानामक तस्य कामिन्यो नवयौवना स्त्रीयस्तासां कुचानां चूचुकानि स्तनाग्राणि तेषा पटलवत् प्रत (स) रवत् श्यामलानि कृष्णवर्णानि तानि तथा। निजनाथावसथपथप्रस्थानपरिणतरतिचरणशिञ्जानहिञ्जीरमणितमनोहराणि हसप-

शब्दितानि, कलिन्दकन्याकल्लोलजलश्यामायमानोर्मीणि मन्दाकिनीस्रोतसि पयासि, द्विरदरदफलकमषीलिखितलिपिस्पर्धीनि सरस्वतीनिटिलतटेषु कुन्तलजालानि, रजनिरसरक्ततन्तुसतानापहासीनि सितसरसिजकोशेषु केसराणि, कम्बुकुलमान्ये च पाञ्चजन्ये कृष्णकरपरिग्रहनिरवधीनि व्यधादहानि॥

यस्य च सुजन्मन प्रगुणतरुणिमोन्मेषमनोहारिणी यथादेशनिवेशित परिणयप्रवणगुणप्रोतमणिविभूषणा निसर्गात्प्रागल्भ्यवती स्वयवरवरणार्थ-

———————

रिषत्सु शब्दितानि। प्रजापति पुनश्च किं व्यधात्। हसपरिषत्सु हससमूहेषु शब्दितानि शब्दानि (न्) व्यधात्। कथभूतानि शब्दितानि। निजनाथस्य कदर्पस्य योऽसावाव सथो गृह तस्य पन्था मार्गस्तस्मिन्प्रस्थान गमन तस्मिन् परिणता व्यावृत्ता यासौ रति कदपभार्या तस्याश्चरणौ पादौ तयोविषये शिञ्जना शब्दायमाना ये हिञ्जीरा नृपुरास्तेषामणितानि कामक्रीडावसरे कूजितानि तद्वन्मनोहराणि चित्तानुरञ्जकाणि तानि तथा। फलिन्दकन्याकल्लोलनलश्यामायमानोमाणि मन्दाकिनीस्रोतसि पयासि। प्रनापति पुन कि चकार। मन्दाकिनीस्त्रोतसि गङ्गाप्रवाहे पयासि जलानि व्यधात्। गङ्गाजलानि क्वभूतानि। कलिन्दकन्याया यमुनाया कल्लोलजलानि लहर्युदकानि तै श्यामायमाना श्यामीक्रियमाणा ऊर्मयो लहर्या येषा तानि तथा। द्विरदरदफलकमषीलिखितलिपिस्पर्धीनि सरस्वतीनिटिलतटेषु कुन्तलजालानि। प्रजापति पुनश्च कि चकार। सरस्वतीनिटिलतटेषु भारतीमस्तकतटेषु कुन्तलजालानि [केशसमूहान् चकार। कथभूतानि कुन्तलजालानि।] द्विरदस्य हस्तिनो रदफलके दन्तपट के मध्या लिखिता वर्तिता या लिपिरक्षरविन्यासस्ता स्पर्धन्तेतिरस्कुर्वन्ति इत्येवशीलानि तानि तथा। रजनिरसरक्ततन्तुसताना पहासीनि सितसरसि जकोशेषु केसराणि। प्रजापति पुनश्च किं व्यधात्। सितसरसिजकोशेषु श्वेतकमलमध्येषु केसराणि किञ्जत्कान् व्यधात्। केसराणि कथभूतानि। रजनिर्हरिद्रा। विलासिनीहरिद्रेति यावत्। तस्या रसो निर्यासस्तेन रक्तो रञ्जितो योऽसौ तन्तुसंतान सूत्रसमूहस्तमपहसन्ति तिरस्कुर्वन्ति इत्येवशीलानि तानि तथा। कम्बु कुलमान्ये च पाञ्चजन्ये कृष्णकर परिग्रहनिरवधीनि व्यधादहानि। प्रजापतिश्चपुन किं चकार। पाञ्चजन्ये पञ्चजन समुद्रस्तस्मिन् भव पाञ्चजन्य दक्षिणावर्तशङ्खस्तस्मिन् अहानि दिनानि व्यधाचकार। कथभूते पाञ्चजन्ये। कम्बुकुलमान्ये क्म्बूनां शङ्खानां कुलमन्ववायस्तस्मिन् मान्ये पूजनीये। अहानि कथभूतानि। कृष्णस्य श्रीनारायणस्य करपरिग्रहो हस्तस्त्री कारस्तस्मिन् निरवधीनि निर्मर्यादानि कृष्णकरपरिग्रहनिरवधीनि। अन्तर्दीपकालंकार॥

यस्य चसुजन्मन प्रगुणतरुणिमोन्मेषमनोहारिणी यथादेशनिवेशितपरिणयप्रवणगुण प्रोतमणिविभूषणा निसर्गात्प्रागत्भ्यवती ख्यवरवरणार्थमाविष्टेव कीर्तिपर्तिवरा भुवनान्त

मादिष्टेव कीतिपतिवरा भुवनान्तराणि विहरन्ती ‘जरठ जराजनितजवस्खलन कमलासन, न खलु समर्थस्त्व मे निखिलनगनगरसागरविहारकु-

——————

राणि विहरन्ती ‘जरठ जराजनितजवस्खलन कमलासन, न खलु समर्थस्त्व मे निखिलनगनगरसागरविहारकुतूहलिन्या सहचरकर्माणि कर्तुम्’ इति पितामहम्। यस्य च श्री सुदत्ताचायस्य सुज मन पुण्यावतारस्य कीतिपतिंवरा कीर्तिकन्या भुवना तराणि सर्वाणि जगन्ति विहरन्ती पर्यटन्ती अद्यापि क्वचित् स्थितिं स्थान न बध्नाति कस्मिश्चिदपि स्थाने स्थिति न करोति। किंतुसर्वेषु भुवनेषु पर्यटत्येव इति क्रियाकारकसबन्ध। कथ भूता कीर्तिपतिवरा। प्रगुणतरुणिमोन्मेषमनोहारिणी प्रगुणो अजिह्मो अमद स चासो तरुणिमा तारुण्य तस्य उन्मेष प्रादुर्भाव तस्य मनोहारिणी (चित्तानुरञ्जिका39। अत्र गुणाश्चतुरशीतिलक्षलक्षणा ते व्यङ्गया मनोहारिणी) विषयकषायमनोव्यापाररहितेति व्यङ्ग्यम्। अपर कथभूता कीर्तिपतिवरा। यथादेशनिवेशितपरिणयप्रवणगुणप्रोतमणि विभूषणा। यथादेश शरीरावयवान् अनतिक्रम्य निवेशितानि परिणयप्रवणानि विवाहानुकूलानि विवाहयोग्यानि गुणैदवरकै प्रोता ये मणयो रत्नानि तैरुपलक्षितानि विभूषणानि सुवर्णाभरणानि यस्या सा तथा। अत्र व्यङ्ग्यम्। यथादेश आदेशातिक्रमेण उपन्यासस्य परिपाट्या निवेशिता आरोपिता उपन्यस्ता परि समन्तात् ये नया विकला देशा’ (१) न् न (य) ति सकलादेश प्रमाण विकलादेशो नय (१)’ इति वचनात् तेषु प्रवणा अनुकूला ये गुणा अविवक्षितपदार्था। ‘विवक्षितो मुख्य इतीष्यतेऽन्यो गुणोऽविवक्ष्यो न निरात्मकस्ते’ इति वचनात्। न मे [त ए] व मणयो रत्नानि विभूषणानि शोभाजनकानि आभरणानि यस्या कीते सा तथा। पुनश्च कथभूता कीर्तिपर्तिवरा। निसर्गात् स्वभावेन, नतु शिक्षिततया। प्रागल्भ्यवती परचित्तप्रसादनकुशलतावती इद विशेषण तु उभयत्र समानम्। कथभूता कीर्तिपतिंवरा। स्वययरवरणार्थमादित्रेव स्वय आत्मभावस्य पत्यु वरणार्थ आदिष्टेव प्रेरितेव। अत्र व्यङ्ग्यम्। शोभनो अय शुभावहो बिधि स्वय तद्यथाभवत्येव क्रियाविशेषणत्वात् द्वितीयैकवचन नपुसकत्व च वरस्य अवगादेर्वरणार्थ स्वीकरणार्थ कीर्तिरादिष्टा। ‘कीर्तिमान् पूज्यते लोके परत्रेह च मानव’ इति वचनात्। कीर्तिपतिंवरा किं कुर्वती। इति अमुना प्रकारेण पितामह ब्रह्माण न वरयामीत्यनेन चलिता। इतीति किम्। अरे जरठ जरठ अतिवृद्ध न वरयामीत्यग्रेचलिता। इतीति किम्। अरे जरठ अतिवृद्ध, अरे जराजनितजवस्खलन जरया विस्रसया जनित मुत्पादित जबस्य वेगस्य स्खलन वेगभङ्गो यस्य स जराजनितजवस्खलन तस्य संबोधन क्रियते हे जराजनितजवस्खलन। हे कमलासन, खलु निश्चयेन त्व समर्थो न भवसि मे मम सहचरकर्माणि कर्तुं सहैव पर्यटितु समर्थन भवसि अतिवृद्धत्वात्। कथभूतामा मे। निखिलनगनगरसागर विहारकुतूहलिन्या। नगाश्च पर्वता नगराणि पत्तनानि सागराश्च

तूहलिन्या सहचरकर्माणि कर्तुम्’ इति पितामहम्, ‘अहल्यापतिपरिग्रहस्खलितजातयुवतिमुद्राचरानेकवीक्षण क्षतकरण पौलोमीरमण, नार्हसि प्रणयकलहकुपिताया करजराजिपाटनप्रदानदण्डेनानुनयनानि विधातुम्’ इति वृद्धावस्यन्दिनम्, ‘उड्डमरपाण्डुरोगवश हुताश, नावकाश स्वरुचि-

——————

क्षीरादयो नगनगरसागरा, निखिलाश्च ते नगनगरसागरा समुद्रगिरिपुरसमुद्रास्तेषा विहारे पर्यटनाय कुतूहल कौतुक विद्यते यस्या सा तथा तस्या। अत्र व्यङ्ग्यम्। अतिवृद्धत्वे विहाराभावे च कमलाया लक्ष्म्या आसने स्वीकरणे कीतिर्न भवतीति। पुन कथभूता कीर्तिपतिंवरा। अहल्यापतिपरिग्रहस्खलितजातयुवतिमुद्राचरानेकवीक्षण क्षतकरण पौलोमीरमण, नार्हसि प्रणयक्लहकुपिताया करजराजिपाटनप्रदानदण्डेनानुनयनानि विधातुमिति वृद्धावस्यन्दिनम्। वृद्धावस्यन्दिनमिति अमुना प्रकारेण अनभिनन्दन्ती अश्लाघमाना तिरस्कुर्वतीत्यर्थ। हे अहल्यापतिपरिग्रहस्खलितजातयुवतिमुद्राचर अहल्यायास्तापस्या पतिभर्ता गौतमऋषिस्तस्य परिग्रहो अहल्या तस्मात् स्खलितात् ब्रह्मचर्यसभञ्जनदोषात् जाता उत्पन्ना युवतिमुद्रा [ सहस्र ] भगलक्षणा पूर्व यस्य सोहल्यापति परिग्रहस्खलितजातयुवतिमुद्राचरस्तत्सवुद्धो तथोक्त हे गोतमशापेन सहस्रभगशरीर। हे अनेक्वीक्षण गौतमशापेन सजातसहस्रलोचन। हे क्षतकरण सवाङ्गयोनित्वात् रहितलिङ्गाकार। हे पोलोमीरमण हे पुलोमपुत्रीभत पितृसमानश्वशुरघातक। त्वमिति पूर्वोक्तमेव ग्राह्य तेनायमर्थ। हे पौलोमीरमण देवेन्द्र, त्वमे मम अनुनयनानि माननानि प्रसन्नीकरणानि विधातु कर्तु न अर्हसि न योग्यो भवसि। केन कृत्वा। करजराजिपाटन प्रदानदण्डेन कृत्वा करजा मम नखास्तेषा राजि श्रेणिस्तया पाटनेन नखैचूर्णप्रदानेनदण्डेन शेफेन कृत्वाअनुनयनानि कर्तुं न शक्नोषि। दण्डरहितत्वात् सर्वाङ्गभगाकारत्वात्। कथभूताया मे। प्रणयकलहकुपिताया स्नेहयुद्धकोप प्राप्ताया। अत्र व्यङ्गयम्। यः परस्त्रीलम्पटो भवति युवत्याकारं धृत्या परस्त्रिय गच्छति, मुक्ति विना अनेकस्त्रीविलोकने क्षतकरण अङ्गविकलो भवति, श्वशुरमारकश्च स्यात्, प्रकृष्टाना नयानां स्यादस्ती त्यादीनां सप्तभङ्गानां कलहे युद्धे विवादे सति कोप करोति, युक्त्या मिथ्यावादिन न चारयति। कलहवचनश्रेणिभिर्निग्रहस्थान न करोति, अनुगतानि नयनानि परस्परापेक्षत्वात् नयात् (नि) न विद्वाति, वृद्धावस्यन्दी सप्तमधातुद्रावको भवति तस्य कीर्तिर्न भवति इति भाव। उङ्कमरपाण्डुरोगवश हुताश, नावकाश स्वरुचिविरचितकान्तस्वीकाराया परिणयनस्नज इति जातवेदसम्। कीर्तिपतिंवरा पुनश्च कि कुर्वती। जातवेदसं अग्निइति अमुना प्रकारेण अनभिनन्दन्ती अश्लाघमाना निभत्सयन्तीत्यर्थ। इतीति किम्। हे उड्डमरपाण्डुरोगवश उत्कटपाण्डुरोगपराधीन। हे हुताश हुतमश्नातीति हुताशस्तस्य संबोधन हे अग्ने, त्व मेपरिणयनस्रज स्वयंवरमालाया अवकाश स्थान न भवसि। कथंभूताया मे। स्वरुचिविरचितकान्तस्वीकाराया स्वरुच्या निजश्रद्धया

विरचितकान्तस्वीकाराया परिणयनस्रज’ इति जातवेदसम्, ‘अनपराधजनग्रसनलालसमानस वातापिरिपुदिगन्तवास, न स्थानमनङ्गरसनिर्भरभरितहृदयाया’ केलिकलहानाम्’ इति दशलोचनम्, ‘उल्बणशल्यशिराशेषशरीरपरिकर निशाचर, न पदमिन्दीवरमृणालकोमलभुजलताया सरभसा-

————————

विरचित कृत कान्तस्य भर्तु स्वीकारो अङ्गीकारो यया सा तयातस्या। अत्रापि व्यङ्ग्यमस्ति। य पुमान् पाण्डुरोगी भवति तस्य दीक्षाया अभावात् कीर्तिन भवति। अपि तशरीरत्वात्। अनु च यद्दीयते पाणिपुटे पिण्डो मुच्यते तत्सवमप्नाति कस्यचिद्व्रह्मणो व्रत न करोति तस्य यते कीर्तिन भवति। तथा स्वस्मिन् आत्मस्वरूपे रुच्यासम्यग्दर्शनेन कान्तस्य परमब्रह्मण स्वीकार न करोति तस्य अनेकान्तनयेषु अविनीतस्य यते कीतिर्न भवतीति भाव। अनपरावजनग्रसनलालसमानस वातापिरिपुदिगन्तवास न स्थानमनङ्गरसनिर्भरभरितहृदयाया केलिकलहानामिति दशलोचनम्। वीतिपतिवरा पुनश्च कि कुर्वती। इति अमुना प्रकारेण दशलोचन यम अनभिन दन्ती अन्गघमाना निर्भत्सयन्ती। इतीति किम्। अरे अनपरा वजनग्रसनलालसमानस अनपरा त्रस्य निर्दोषस्य जनस्य लोक्स्य ग्रसने कवली करणे लालस अत्याकाङ्क्षमानस चित्त यस्य स तस्य सबोधन हे तथा। अरे वातापिरिपुदिगन्तवास वातापिन इल्वलभ्रातुर्दैत्यविशेषस्य रिपु शत्रुरगस्त्य इत्यथस्तस्य दिग् दक्षिणाशा तस्या अन्ते अवसाने वासो निवासो यस्य स तस्य संबोधन हे वातापिरिपुदिगन्तवास। मे केलिकलहाना कामक्रीडाया कलहाना युद्धाना त्व अवकाश स्थानमेव न भवसि। कथभूताया मे। अनजरसनिभरभरितहदग्रागा अनङ्गरसेन कामरागेण निर्भर गाढ भरित परिपूर्ण हृदय मनो यस्या सा तथा तस्या। अत्रापि व्यञ्जनीय वर्तते। य पुमान् अपरावरहित मनुष्य कवलयति ग्रनित गिलितु मिच्छति स पुमान् सापराव कथ मुञ्चति, य पुमान् दक्षिणस्या दिशि देत्यभक्षकसमीपे निवास करोति स साधुन् क्यमुञ्चति, यश्च अनदाना सिद्धानामुपरि रागवान् तस्य कीतिर्न भवति इति भाव। उल्बणशल्यशिराशेपशरीरपरिकर निशाचर, न पदमि दीवरमृणालकोमलभुजलताया सरभसालिदनानामिति कैकसेयम्। कीर्तिपतिंवरा कि कुवती। इति अमुना प्रकारेण कैक्सेय केकस्या अपत्य नेऋत राक्षस अनभिनन्दन्तीति। इतीति किम्। हे उत्वणशल्यशिराशेपशरीरपरिकर उल्बणानि उत्कठानि यानि शल्यानि अस्थीनि शिराश्च नहारवस्ताभिरुपलक्षितो अशेष समग्र शरीरस्य कायस्य परिकर परिच्छदो यस्य तस्य सबुद्धि हे तथा। अरे निशाचर विशाया रात्रौचरति पर्यटति स निशाचरस्तस्य सबुद्धि। मे मम सरभसालिङ्गनानां वेगेनोपगूहनाना पद स्थान त्व न भवसि। कथभूताया मे। इदीवरगृणालकोमलभुजलताया इन्दीवर नीलोत्पल तस्य मृणालो नालस्तद्वत् कोमले सुकुमारे भुजलते बाहुबल्लधौ यस्या सा तथा तस्या। अत्रापि व्यक्ङ्ग्य वर्तते। य पुमान् मायामिथ्यानिदानशल्यत्र

लिङ्गनानाम्’ इति कैकसेयम्, ‘उदीर्णोदकोदरगद्गलितसुरतव्यवसाय सागरालय, न क्षमश्चिरपरिचितकामसूत्राया काकिलादिकरणोदाहरणानाम्’ इति प्रचेतसम्, अतिविदितचापलकुलप्रसूत वात, न दयित स्थिरनायक-

––––––––––

यमण्डितकायो भवति, अनु च निशाचरो रात्रिभोजी भवति, तस्य कीतिर्न भवति। उदीणादकोदरगदगलितसुरतव्यवसाय सागरालय न क्षमश्चिरपरिचितकामसूत्राया का किलादिकरणोदाहरणानामिति प्रचेतसम्। कीतिपातवरा किं कुर्वती। प्रचेतस वरुण अनभिनन्दन्ती अश्लाघमाना। इतीति किम्। हे उदीणादकोदरगदगलितसुरतव्यवसाय उदीण उत्कट उद्रिक्तो योऽसौ उदकोदरगदो जलोदरव्याधिस्तेन गलितो विनष्ट सुरतस्य मथुनस्य व्यवसायो व्यापारो यस्य स तथा सबुद्धि। अरे सागरालय सागर समुद्र आलयो गृह यस्य स तस्य संबोधने। काकिलादिकरणोदाहरणाना मम त्व क्षम समर्था न भवसि परावतितदेहयोदम्पत्योरपि (भि) प्रयोग काकिलमुच्यते, तदादियपा चुम्ब नभूषणआवर्तननिवर्तनप्रवेशादीना तानि काकिलादिकरणानि च, तानि उदाहरणानि दृष्टान्तवचनानि तेषाकाकिलादिकरणोदाहरणाना त्व क्षम समयो न भवसि। कथ भूताया मे। चिरपरिचितकामसूत्रायााचर दीर्घकाल परिचित परिचयोऽभ्यास कामसूत्रे कुक्कोकादिशास्त्रे यस्या सा तथा तस्या। अत्र व्यङ्ग्यम्। यस्योदकोदरव्याधिना पुन पुनजल (नग) रोगेण व्याख्याने क्रियमाणेऽपि उदकपान न भवति, तथा च शोभनरत निजात्मानुरागो यस्य न भवति, अनु च सागरस्य लक्ष्मीविषयस्य आलयो भवति निग्रन्थो न स्यात्, काम अतिशयेन जिनसूत्रे परिचयो न भवति, प्रगतिप्रणष्टचेताश्च विषयव्याप्तचित्तश्च भवति, तस्य कीतिर्न भवति इति भाव। अतिविदि तचापलकुलप्रसूत बात, न दयित स्थिरनायकसमागमार्थिन्या प्रीतिविलसितानामिति नभस्वन्तम्। कीर्तिपतिंवरा पुनश्च किं कुर्वती। इत्यमुना प्रकारेण नभस्वत वायु अनभिनन्दन्ती अश्लाघमाना। इतीति किम्। हे अतिविदितचापलकुलप्रसूत अतिशयेन विदित विख्यात चापल चपलत्व यस्य कुलस्य तत् अतिविदितचापलकुल तस्मिन् प्रसूत सजात तस्य संबोधन हे अतिविदितचापलकुलप्रसूत। हे वात वायो, त्व मे प्रीतिविलसिताना प्रेमप्रवृत्तीना दयित त्रियो न भवसि वल्लभो न भवसि। कथभूताया मे। स्थिरनायकसमागमायिन्या स्थिरस्य निश्चलस्य नायकस्य भतु समागम प्राप्तिस्तस्याथिन्या प्रयोजनवत्या। उक्त च—‘अज्जु40 जि आया कल्लिगयाणिह गुह डकिसडणेह’। बन्धिणरहि जिज्ञू पडड जिणसासन कडणेह॥’ अत्र व्यङ्गयम्। य पतिश्चापलकुलप्रसूतो भवति नटविटपा (टा) दि कुलजन्मा भवति, अनु च स्थिरो न भवति, समस्य समतापरिणामस्य आगम सिद्धान्तोअध्यात्मशास्त्रस्य अर्था न भवति, तस्य कीर्तिन

समागमार्थिन्या प्रीतिविलसितानाम्’ इति नभस्वन्तम्, अनवरतमधुपानपरिच्युतमतिप्रकाश वित्तेश, न गोचरश्चतुरोक्तिसुधारसास्वादविस्फुरितश्रवणाञ्जलिपुटाया सहालापगोष्ठीनाम्, इति नलकूबरपितरम्, ‘अनुचितचितोपकण्ठपीठ शितिकण्ठ, न भाजनममलिनचरित्राया पृथुजघनसिहासनारोहणानाम्’ इति कृत्तिवाससम्, ‘अनिष्टकुष्ठद्रवद्रुतचरणनख चण्डमयूख, न प्रभु प्रसभपुण्यप्रभावलभ्यसभोगाया करसवाहनसुखानाम्’ इति

————————

भवति इति भाव। अनवरतमधुपानपरिच्युतमतिप्रकाश वित्तेश, न गोचरश्चतुरोक्तिसुधारसास्वादविस्फुरितश्रवणाञ्जलिपुटाया सहालापगोष्ठीनामिति नलकूबरपितरम्। कीर्तिपतिंवरा पुनश्च कि कुवती। इत्यमुना प्रकारेण नलकूबरपितर धनद अनभिनन्दती अश्लाघमाना। इतीति किम्। अरे अनवरतमधुपानपरिच्युतमतिप्रकाश अनवरत निरन्तर मधुपान मद्यास्वादन तेन परिच्युत परिभ्रष्टो मतिप्रकाशो बुद्धिचमत्कारो यस्य स तथा तस्य सबोधन हे अनवरतमधुपानपरिच्युतमतिप्रकाश। हे वित्तेश गुह्यकेश्वर, त्व मे सहालापगोष्ठीना गोचरो विषयो गम्यो न भवसि मया सह सार्धआलापो मिथोभाषण तस्य गोष्ठ्यो नानोक्तिस्थानानि सहालापगोष्ठ्यस्तासा सहालापगोष्ठीनाम्। कथभूताया मे चतुरोक्तिसुधारसास्वादविस्फुरितश्रवणाञ्जलिपुटाया चतुरोक्तयश्चतुरालापा। वक्रोक्तय इत्यर्थ। ता एव सुवारस पीयूषप्रवाह तदास्वादने तदनुभवने विस्फुरितौ श्रवणाञ्जलिपुटौ कणाञ्जलिपुटौ यस्या सा तस्या। अत्रापि व्यञ्जनी यम्। यो यतिर तत्रिकमतदीक्षितवन्मद्यपायी भवति तस्य बुद्धिप्रकाशो न भवति, चतुराणा विदुषा उक्तिरसास्वादाय विस्फुरितो ना श्रवणेषु दिगम्बरेषु अञ्जलिपुट न बध्नाति तस्य कीतिर्न भवति। अनुचितचितोपकण्ठपीठ शितिकण्ठ, न भाजनममलिनचरित्राया पृथुजघनासहासनारोहणानामिति कृत्तिवाससम्। कीतिपतिबरा पुनश्चकिं कुर्वती। इत्यमुना प्रकारेण कृत्तिवासस श्रीमहादेव अनभिनन्दन्ती अश्लाघयन्ती। इतीति किम्। अरे अनुचितचितोपकण्ठपीठ अनुचिता अयोग्या या चिता मृतकाग्निस्तस्या उपकण्ठे समीपे पीठमासन यस्य स तस्य सबोधनम्। हे शितिकण्ठ नीलमीय, श्व मे पृथुजधनसिंहासनारोहणाना भाजन पात्र न भवसि पृथु विस्तीर्णं यत् जघन स्त्रीकट्यग्रभागस्तदेव सिंहासन हरिविष्टर तस्यारोहणानाम्। कथभूताया मे। अमलिनचरित्राया निर्मलाचाराया। अत्रापि व्यङ्ग्यम्। योऽनुचिताद्यपवित्रस्थाने उपतिष्ठन् स्वाध्यायादिक करोति कण्ठे कक्षश्व भवति, यस्य च चारित्रेअतीचारो लालगीति, यश्चपृथुजघनाना सिंहानामासनेषु पर्वतादिस्थानेषु आरोहण निवासं न करोति वनवासी न भवति, तस्य कीर्तिन भवति। अनिष्टकुष्ठद्रवष्ठतचरणनख चण्डमयूख, न प्रभु प्रसभपुण्यप्रभवलभ्यसभोगाया करसंवाहनसुखानामिति हरितवाहवाहनम्। कीर्तिप-

हरितंवाह्वाह्नम्, ‘अक्षयक्षयामयसशयितजीवित बुधतात, न शरणमगणितसुखसौभाग्यभाषितजन्मलग्नाया प्रबन्धनिधुवनविधीनाम्’ इति निशादर्शम्, ‘अवतानकालायसतलिकाकृतिखलतिमस्तकदेश हृषीकेश, न समीपमदयकचग्रहग्रहिलविग्रहाया कुटिलकुन्तलाविलविलोचनचुम्बनानाम्’

————————

तिंवरा पुनश्च किं कुर्वती। इत्यमुना प्रकारेण हरितवाह्वाहन हरिता शुक्पक्षसमान वर्णा वाहा अश्वा वाहन युग्य यस्य स त श्रीसूर्य अनभिनन्दन्ती अश्लाघयन्ती। इतीति किम्। अरे अनिष्टकुष्ठद्रवद्द्रुतचरणनख अनिष्टमनभिलषित यत् कुष्ठ पापरोग तस्य द्रवेण पूयादिना द्रुता नष्टा चरणनखा पादपुनर्भवा यस्य स तस्य संबोधन हे अनिष्टकुष्ठद्रुतचरणनख। चण्डास्तीव्रतरा मयूखा किरणा यस्येति स चण्डमयूखस्तस्य संबोधन हे चण्डमयूख। त्व मे मम करसवाहनसुखाना हस्ताभ्या पादमदनशाताना प्रभु स्वामी न भवति। कथभूताया मे। प्रसभपुण्यप्रभावलभ्यसभोगाया प्रसभस्य विशिष्टस्य पुण्यस्य शुभकमण प्रभावेण माहात्म्येन लभ्य प्राप्य सभोगो निधुवनसुख यस्या सा तथा तस्या। अत्रव्यङ्गयम्। य कुष्ठी भवति तस्य चरण चारित्र नखमात्रमपि न भवति, मधुरवाक्यैर्लोकाना मुखन ददाति तस्य कीर्तिर्न भवति। अक्षयक्ष यामयसशयितजीवित बुधतात, न शरणमगणितसुससौभाग्यभाषितजन्मलग्नाया प्रवन्धनिधुवनविधीनामिति निशादर्शम्। कीर्तिपतिंवरा पुनश्च किं कुर्वती। इति अमुना प्रकारेण निशादर्श चन्द्र अनभिनन्दन्ती अश्लाघमाना। इतीति किम्। अरे अक्षयक्षयामयसंशयितजीवित अक्षयोऽविनश्वरो योऽसौ क्षयामय क्षयरोगस्तेन संशयित सदेह प्रापित जीवितमायुयस्य स तस्य संबोधन हे अक्षयक्षयामयसशयितजीवित। हे युधतात बुधस्य रौहिणेयस्य तात तस्य सबोधन हे बुधतात। त्वंमे प्रवधनिधुवनविधीनां शरण न भवसि प्रबन्धेन वीर्यस्तम्भेन निधुवन मैथुन तस्य विधय कारणानि प्रबन्धनिधुवनविधयस्तेषा शरण गृह न भवसि। कथभूताया मे। अगणितसुखसौभाग्यभाषितजन्मलग्नमाया अगणित अमर्यादाभूत यत्सुख सौभाग्य भाषित आदिष्ट जन्मलग्ने उत्पत्तिमुहूर्त यस्या सा तस्या। अत्रव्यङ्ग्यम्। यो मुनि क्षयवान् रोगवान् भवति, यश्च संशयितजीवित आहारप्राप्तौ यस्य संदेहो भवति, परस्त्रिया पुत्रचोत्पादयति, प्रबन्धाना महापुराणादिशास्त्राणा निधुवनविथीन् वाच्चनादिविधीन् न जानाति, निशायां रात्रौ दोषवाश्च दृश्यते, तस्य कीर्तिर्नभवति। कीर्तावसत्यां सुख सौभाग्य न प्राप्नोति। अवतानकालायसतलिका कृतिरालतिमस्तकदेश हृषीकेश, न समीपमदयकचग्रहग्रहिलविग्रहाया कुटिलकुन्तलाविलविलोचनचुम्बनानामिति मुकुन्दम्। कीर्तिपतिंवरा पुनश्च किं कुर्वती। इति अमुना प्रकारेण मुकुन्द श्रीनारायणं अनभिनन्दन्ती अश्लाघयन्ती। इतीति किम्। अरे अवतानकालायसत-

इति मुकुन्दम्, ‘अविरलगरलोल्लसल्लपनजाल भुजङ्गमलोकपाल, न सगमा-गमनमनल्पकल्पसकल्पितप्राणितायास्तुण्डीराधरामृतानाम्’ इति कुम्भीनसप्रभु चानभिनन्दन्ती, मरुमरीचिवीचिनिचयवञ्च्यमाना मृगाङ्गनेव,

———————

लिकाकृतिखलतिमस्तकदेश अवताना अधोमुखा या कालायसस्य लोहस्य तलिकाकटाहिका तदाकृत्या तदाकारेण खलत्यालुप्तकेशिक्टाठ्याउपलक्षितो मस्तकदेश शिर प्रदेशो यस्य पुराणपुरुषत्वात स तथा तस्य सबोधन हे अवतानकालायसतलि काकृतिखलतिमस्तकदेश हे हृषीकेश हे नारायण। त्व मे कुटिलकुन्तलाविलविलोचनचुम्बनाना समीप निकटवर्ती न भवसि कुटिला पृदाकुसपवत् वक्रीभूता मे कुन्तला केशास्तैराविले मिलिते विलोचने नयने तयोश्चुम्बनानि वक्रसयोगा तेषा तथोक्तानाम्। कथभूताया मे। अदयकचग्रहग्रहिलविग्रहाया अदय दयारहित यथा भवति तथा कचग्रहे हस्तद्वयेन कुन्तलग्राहे ग्रहिलो अतिनिबन्धो विग्रह शरीर यस्या सा तथा तस्या। अत्र व्यङ्ग्यम्। यो मुनिर्वार्धक्ये खत्वाटमस्तक सन् दीक्षावान् न भवति, तारुण्येन तपो न गृह्णाति, हृषीकैरिन्द्रियै प्रभूतो योजितो भवति, केशोत्पाटने लोचकरणे रङ्गवद्भ्रुवौ पातयति, विशिष्टलोचलुञ्चने अङ्गुष्ठतर्जनीग्रहणे समथा न भवति तस्यापि कीर्तिर्न भवति। अविरलगरलोल्लसल्लल्पनजाल भुजङ्गमलोकपाल, न सगमागमनम नल्पकल्पसकल्पितप्राणितायास्तुण्डीरा धरामृतानामिति कुम्भीनसप्रभुम्। कीर्तिपर्तिवरा पुनश्च कि कुर्वती। इत्यमुना प्रकारेण कुम्भीनसप्रभु वरणेन्द्र नागराज अनभिनन्दन्ती अश्लाघयन्ती। इतीति किम्। अरे अविरलगरलोल्लसल्लपनजाल अविरलेन अविच्छिन्न गरलेन विषेण उल्लसत् उन्नमत् लपनजाल सहस्रफणगण [न] मुरासमूहो यस्य स तथा तस्य सबोधन विधीयते। हे अविरलगरलोल्लसल्पनजाल। हे भुजङ्गमलोकपाल हे शेष नाग। त्व मे तुण्डीराधरामृताना तुण्डीर पक्वबिम्बफलतथाकारौ यावधरौ दत्तवाससी तयोरमृतानि पीयूषापानकानि तेषातुण्डीराधरामृताना सगमागमन सगम प्राप्तिर्न भवति। कथभूताया मे। अनत्पकत्पसकत्पितप्राणिताया अनल्पकल्पेषु असख्येयप्रलयकालपर्यन्तेषु सकल्पित नैमित्तिकैरादिष्ट प्राणित जीवित यस्या सा तथा तस्या। अत्र व्यङ्गयम्। यो मुनिर्मधुरभाषी न भवति, मुखात् विषवत्कटुकानि वचनानि वपति, अनु च भुजङ्गमलोकान् कामुकान् पालयति, तस्यापि कीर्तिर्न भवति। कीर्तिपतिंवरा केव अद्यापि स्थिति न बध्नाति। मृगाङ्गनेव मृगभार्येव। कथभूता मृगाङ्गना। मरुमरीचिवीचिनिचयवञ्चयमाना मरुमरीचिर्मृगतृष्णा तस्या वीचय काल्लोलास्तासां निचय समूहस्तेन वञ्चयमाना प्रतार्यमाणा। पुनश्च कीर्तिपतिंवरा केव स्थिति न बध्नाति। [वसुमतीपतेर्मतिरिव41 वसुमती पृथ्वी तस्या पते राज्ञो मतियुद्धिरिव।]

पदप्रत्यवसितस्य वसुमतीपतेर्मतिरिव, निखिलमलविलयोन्मीलितान्तरालोकलोचनस्य मुनेर्मनीषेव, च न क्वचिदद्यापि बध्नाति स्थितिम् ॥

यस्य च सुकृतिनम्तपस्तपनकरकाश्मीरकेसरारुणितस्तुतिमुखरपुरयौषिदलकवलयादा विदितादुदयाचलदरीसदोहादचलदरीसदोह्वदमृतापगाप्रवाहापहसितयश फेनपटलपाण्डुरोप-लान्तरालदेशादा सेतुबन्धमेखलाकुलकुहरान्मेखलाकुलकुहरनिलीनकिन्नरीगणगीयमानद्याद-मनियमनामशुचिपञ्च-

———————

कथभूतस्य वसुमतीपते। पदप्रत्यवसितस्य राज्यभ्रष्टस्य। पुनश्चकीर्तिपतिंवरा केव स्थितिं न बध्नाति। मुनेमनीषेव योगिनो बुद्धिरिव। केवलज्ञानमिवेत्यर्थ। कथभूतस्य मुने। निखिलमलविलयोन्मीलितान्तरालोक्लोचनस्य निखिलाश्च ते मलास्त्रिषष्टिप्रकृत यस्तेषा विलये विनाशे उन्मीलिता तरात्प्रादुभूत अन्तरालोक्लोचन केवलज्ञान यस्य स तथा तस्य। उपमालंकारान्तर्दीपकालंकार॥

यस्य च पीसुदत्ताचायस्य सुकृतिनो विशिष्टपुण्यवतो विशिष्टविदुषो वा गुणविजृम्भितानि गुणप्रसरान् जनपदगोप्यअनेकदेशस्थितगोपाङ्गना गायन्ति गान कुर्वन्ति। कथंगायन्ति। आ मर्यादीकृत्य अभिव्याप्य वा। ‘आट् मयादाभिवि यो’ पयपाट्‌योगे पञ्चमी भवति इति ज्ञातव्यम। कस्मात्। उदयाचलदरीसदोहात् पूर्वदिक्स्थितो दयाचलगिरि गुहासमूहात्। कथभूतात् उदयाचलदरीसदोहात्। तपस्तपनकरकाश्मीर केसरारुणितस्तुतिमुखरसुरयोषिदलकबलयात् तपो द्वादशवित्र तदेव तपन गरीसूर्य स्त्रिभुवनद्योतकारकत्वात् तस्य करा किरणास्त एव काश्मीरकेसराणि बाहीकदेशकुङ्कुमानि तैररुणितानि रक्षितानि रङ्गितानि स्तुतिमुखराणा स्तवनवाचालाना सुरयोषिता देववल्लभाना अलकवलयानि मस्तकाग्रयितचूर्णकुन्तलमण्डलानि यस्मिन्नुदयाचलदीसदोहे स तथा तस्मात्। [पुन कथभुतात्] उदयाचलदरीसदोहात्। विदितात् त्रिभुवनविग्यातात्। पुनश्च जनपदगोप्यो गुणविजृम्भितानि कथ गायन्ति। आ मयादीकृत्य अभिव्याप्य वा। कस्मात्। आ सेतुबन्धमेखलाकुलकुहरात् सेतुबन्धो नाम दक्षिणदिपर्वतस्तस्य मेखला कटिन्यस्तासा कुल समूहस्तस्य कुहर विवर गुहेत्यर्थस्तस्मात्। कथभूतात् सेतुबन्धमेखलाकुलकुहरात्। अचलदरीसदोहदमृतापगाप्रवाहापहसितयश फेनपटलपाण्डुरोपलान्तरालदेशात् अचल सेतुबन्धनाम पर्वतस्तस्य दर्यो गुहास्तासा सदोहवत् अमृतापगाप्रवाहा गगनलग्नपूरास्ता पहरान्ति तिरस्कुर्वन्ति इत्येवशीलानि यानि यशासि पुण्यगुणकीर्तनानि तेषा (?) फेनपटलानि डिण्डीरमण्डलानि तद्वत् पाण्डुरा शुक्लवर्णा उपलान्तरालदेशा शिलानामभ्यन्तरप्रदेशा यस्मिन् सेतुबन्धमेखलाकुलकुहरे तत्तयोक्त तस्मात्। पुनश्च जनपदगोप्यो गुणविजृम्भितानि

मादिगीतवाचाटकन्दरादामन्दरधराधरनितम्बाद्धराधरनितम्बाडम्यरस्थपुटपथप्रस्थानमन्थरितगतिकीर्तिमन्दाकिनीतरङ्गद तुरदरवदनाच्चा तुहिनशैलचूलिकाचक्रवालात्तुहिनशैलचूलिकाचक्रवालविलासीनि गायन्ति गुणविजृम्भितानि जनपदगोप्य॥

स भगवान्पुण्यपानीयवर्षी कोऽप्यपूर्व पर्जन्य इव विनतविनेयजनसस्यप्रसरा पुरस्थानीयद्रोणमुखका- र्वटिकसग्रहनिगमग्रामविश्वभरा समभिन

————————

कथं गायन्ति आ अभिव्याप्य आ मर्यादीकृत्य। कस्मात् मन्दरधराधरनितम्बात् अस्ताचलपर्वततटात्। कथभूतात् मन्दरवरावरनितम्बात्। मेखलाकुलकुहरनि लीनकिन्नरीगणगीयमानदयादमनियमनामशुचिपञ्चमादिगीतवाचाटकन्दरात् मेखलाना कटिनीना कुलानि समूहा तेषा कुहराणि विवराणि तेषु निलीना उपविष्टाया किन्नर्या देवाङ्गनाविशेषास्तासा गणै समूहै गीयमानानि गान प्रत्यानीयमानानि दया कारुण्य दमो जितेन्द्रियत्व नियमाश्च पञ्च महाव्रतानि रात्रिभोजनवजनपष्ठानि नाम च श्रीसु दत्ताचार्य इति तै शुचीनि पवित्राणि यानि पञ्चमान्त (दि) रागगीतानि तैर्वाचाटा वाचाला कन्दरा गुहा यस्य मन्दरधराधरनितम्बस्य स तथा तस्मात्। पुनश्च जनपदगोप्यो गुणविजृम्भितानि कथ गायन्ति। आ मयादीकृत्य अभिव्याप्य वा। कस्मात्। आ तुहिनशैलचूलिकाचक्रवालात् तुहिनशैलो हिमाचलपर्वतस्तस्य चूलिकाचक्रवाल शिखराणां मण्डल तस्मात् तुहिनशैलचूलिकाचक्रवालात्। कथभूतात् तुहिनशैलचृलिकाचक्रवालात्। धराधरनितम्बाडम्बरस्थपुटपथप्रस्थानमथरितगतिकीर्तिमन्दाकिनीतरङ्गदन्तुरदरवदनात् धराधरस्य हिमाचलपर्वतस्य ये नितम्बास्तटानि तेषामाडम्वर आटोपस्तस्मिन् स्थपुट उच्चनीचो योऽसौ पन्थामार्गस्तस्य प्रस्थानेन प्रयाणेन मन्थरिता मन्दगमना गतिगमन यस्या सा चासौ कीर्ति पुण्यगुणवर्णन सेव मन्दाकिनी गङ्गानदी त्रेलोक्यमागत्रयगामित्वात् तस्यास्तरङ्गा कल्लोला स्यादस्तीत्यादिलक्षणास्तैर्द तुराणि उन्नतदन्तानि दरवदनानि गुहामुखानि यस्य तुहिनशैलचूलिकाचक्रवालस्य तथा तस्मात्। कथभूनानि गुणविजृम्भितानि। तुहिनशैलचूलिकाचक्रवालविलासीनि तुहिनशैलो हिमाचलपर्वतस्तस्य चूलिका शिखराणि तासा चक्रवालेषु मण्डलेषु विलसति उल्लसन्तीत्येवशीलानि तानि तथोक्तानि चकार। उक्तसमुच्चयार्थालंकार॥

स जगत्प्रसिद्धो भगवान् इन्द्रादीनामाराध्यो ज्ञानातिशयत्वात् उद्यान राजपुरनगरसबन्धि उद्यान [नन्दन] वनमपश्यत् ददर्श इति क्रियाकारकसबन्ध। स भगवान् किं कुर्वाण सन् वनमपश्यत्। विहरमाण पर्यटन कुर्वाण। किं कुर्वन् विहरमाणः। पुरस्थानीयद्रोणमुखकार्वटिकसंग्रहनिगमग्रामविश्वभरा समभिनन्दयन् पुरं परिस्वावप्रप्रतोलिकाप्राकारादिसमन्वित्त राजाधिष्ठित च स्थानीय च अष्ट [शत] ग्रामप्रतिबद्धं नगर-

न्दयन्विहरमाण, प्रणतसकलदिक्पालमौलिमण्डनीभवच्चरणनखरत्नोत्कर, कैश्चिच्चरणकरणनयनिरूपणगुणहारविहितहृदयभूषणै कैश्चित्समस्तश्रुतधरोद्धरणधृतादिपुरुषधिषणै कैश्चित्पुराणपुरुषचरितविचारचातुरीयशुचिवचनसुमनोविनिर्मितावतसभूषितभव्यश्रोत्रै कैश्चिदात्मेतरतर्ककर्कशोदर्कवितर्का-

———————

विशेष, द्रोणमुख च चतु शतग्रामप्रतिवद्धम्, कावटिक च द्विशतग्रामप्रतिबद्धम्, सग्र हश्च दशग्रामप्रतिवद्ध, निगमग्रामाश्च भक्तग्रामा कथ्य ते तेषा सवधिन्यो विश्वभरा भूमयस्ता क्मतापन्ना समभिनन्दयन् आनन्द प्रापयन्। कथभूता विश्वभरा। विनतविनेयजनसस्यप्रसरा विनता नम्रीभूता ये विनेयजना भव्यप्राणिनस्त एव सस्यानि धान्यानि तेषा प्रसरो व्याप्तियासु पुरादिविश्वभरासु तास्तथा। स भगवान् कथभूत। पुण्यपानीयवर्षी पुण्यमेव पानीय जल अमृत जगता जीवन त्वात् तद्वर्षति क्षरतीत्येवशील पुण्यपानीयवर्षी। कोऽपि अनिवचनीयोऽपूर्वोऽभिनव पजन्य इव मेघ सदृश। स भगवान् अपर कथभूत। प्रणतसकलदिक्पालमौलिमण्डनीभवच्चरणनरा रत्नोत्कर प्रणत। नम्रीभूता सकला समग्रा ये दिक्पाला राजानस्तेपा मौलय किरीटानि ‘चूगकिरीटकेशाश्च सयता मौलयस्त्रय’ इति वचनात् तेषा मण्डलीभवन् चरणनसरत्नोत्करोयस्य चरणयोर्पोखा एव रत्नानि तेषामुत्कर समूह स तथोक्त। स भगवानपर कथभूत। भूरिभि प्रचुरै पारासरिभिस्तपस्विनीभिरषरेण अनूचानेन साङ्गे प्रवचने अधीतिना श्रमणसघेन ऋषिमुनियत्यनगारलक्षणेन उपास्यमानपादमूल से व्यमानपादमूलाधोभाग। कथभूतै पारासरिभि। कैश्चिद्विवक्षितै चरणकरणनयनि रूपणगुणहारविहितहृदयभूषणै चरणकरण च सम्यक्चारिनानुष्ठान नयनिरूपण च नयचक्रशास्त्रविवरण गुणाश्च ज्ञानव्यानादयस्त एव हारा मुक्तावत्यस्तैविहितानि अनुष्ठितानि हृदयभूषणानि वक्षस्थलमण्डलागि येपा पारासरिणा ते तथा तै। पुनश्च कैश्चिद्विवक्षितै। समस्तश्रुतधरोद्धरणधृतादिपुरुषधिषणै समस्त समम यच्छुत शास्त्र द्वादशाङ्गलक्षण तदेव धरा भूमिर्धर पर्वतो वा तदुद्धरणे तदुच्चालने धृता आत्मन्यारोपिता आदिपुरुषस्य श्रीनारायणस्य वृषभजिनस्य वा धिषणा बुद्धियै पारासरिभिस्ते तथा तै। अपर कैश्चिद्विवक्षितै पुराणपुरुषचरितविचारचातुरीयशुचिवचनसुमनोविनिमितावतसभूपितभव्यश्रोत्रै पुराणपुरुषास्तीर्थकृञ्चक्रवतिवलयवासुदेवास्त्रिषष्टिलक्षणास्तेषाचरितानि ऐतिह्यानि पुराणानि तेषा विचारो विवरण तस्य या चातुरीया चतुरता तयोपलक्षितानि शुचिवचनानि पूवापरविरोधरहितानि वचनानि तान्येव सुमनस पुष्पाणि तैर्विनिर्मितानि रचितानि अवतसानि कर्णाभरणानि तैर्भूषितानि शृङ्गारितानि भव्यानां रत्नत्रययोग्याना पुरुषाणा श्रोत्राणि शब्दग्रहा यैस्ते तथा तैः। अपरं कैश्चिद्विवक्षितै। आत्मेतरतर्ककर्कशोदर्कवितर्काकविकास्यमानभुवनाशयशत्रपत्रै आ-

र्कविकास्यमानभुवनाशयशतपत्रै कैश्चिन्नव्यानव्यकाव्योपदेशकच्छस्वच्छन्दोञ्छनागच्छदतुच्छच्छेकच्छात्रच्छन्नव्याख्यानमण्डपानीकै केश्चिदेन्द्रजैनेन्द्रचान्द्रापिस (श) लपाणिनीयाद्यनेकव्याकरणोपदिश्यमानशब्दार्थसबन्धवैदग्धीसरित्क्षा-लितशिष्यशेमुषीपदविन्यासावनीकैरपरैश्च तत्तद्विद्यानवद्यमतिमन्दाकिनीप्रवाहावगाहगौरितान्तेवासिमानसवास प्रसरै सितसिचयैरिव परिमुषितकषायकालुष्यैश्चित्रार्पितद्विपैरिव मदरहितै कोकनदकाननैरिव प्र-

———————

त्मन आहतमतस्य इतरेषाजैमिनिकपिलकणचरचार्वाकशाक्याना [च] ये तकाप्रमाणशास्त्राणि तेषा ककशोदर्क विषमतरोत्तरविचारस्तस्य वितर्को विवरण स एवाकश्रीसूर्य प्रमेयक्मलानन्दकारित्वात् तेन विकास्यमानानि स्फुटीक्रियमाणानि भुवनस्य त्रैलोक्यस्य आशयशतपत्राणि हृदयक्मलानि यै पारासरिभिस्ते तथा तै। अपर कैश्चिद्विवक्षितै। नव्यानव्यकाव्योपदेशकच्छखच्छन्दोञ्छनागच्छदतुच्छच्छेक्च्छात्रच्छन्नव्याप्यानमण्डपानीके नव्यानि च आधुतिकानि च अनव्यानि च चिरतनानि याति काव्यानि साहित्यानि तेषामुपदेशो व्याख्यान रा एव कच्छ पुष्पवाटिका तस्य खन्छ न्दोञ्छन ययेष्टावचयस्तदर्थमागच्छ तो ढौरुमाना अतुच्छा बहुला छेका दक्षतरा ये छाना अन्तेवासिनस्तै छनानि व्याप्तानि व्यारयानमण्डपानीकानि व्याप्यानस्थान समूहा येषा पारासरिणा ते तथा ते। पुनश्च केचिद्विवक्षिते। ऐन्द्रजेने द्रचान्द्रा पिस (श) लपाणिनीयाद्यनेकव्याप्रणोपदिश्यमानशब्दार्थसबन् नवेदावीसरित्क्षारितशिष्य शेमुषी पदविन्यासावनी के ऐन्द्र इन्द्रेण कविना कृतम्, चन्द्रेण कविना कृत चान्द्रम् आपिशलिकविना कृतमापिशलम्, पाणिनीय च पणिपुनकविरचितम्, ताति आदिर्यपा शाकटायनामरकाशकृत्स्नादीना तानि च अनेकान्यष्टसरयानि बहुरात्यानि वा यानि व्याकरणानि तेरुपदिश्यमानो विगीयमानो योऽसो शब्दाययो सबन्धस्तस्य वैदग्धाचातुर्यता सैव सरित् गङ्गानदी तया क्षालिता निमलीकृता शिष्याणा विद्यार्थिना शेमुग्या बुद्धे पद‌विन्यासभूमिर्य पारासरिभिस्ते तथा ते। अपरेश्च पारारारिभि उपास्यमान पादमूल। कथभूतेरपरे पारासरिभि। तत्तद्विद्यानवद्यमतिम दाकिनीप्रवाहावग। हगौरितान्तेवासिमानसवास प्रसरै ताभिस्ताभिजगत्प्रसिद्धाभिज्यातिर्मन्त्रायुर्धदत्रीपुरुष रत्नपरीक्षागजागमशालिहोत्रादिभि विद्याभि शास्त्रैरनवद्या अकरमला स्फुरद्रूपाया मतिबुद्धि सैव मन्दाकिनी गङ्गानदी त्रैलोक्यमलप्रक्षालनसमर्थत्वात् तस्या प्रवाहा पूरास्तेपामवगाहेन विलोडनेन गौरिता उज्ज्वलीकृता अन्तेवासिना शिष्याणा मानसवास प्रसरा मनोवस्त्रविस्तारा यै पारासरिभिस्ते तथा ते। अपरं कथभूतै पारासरिभि। परिमुषितकषायकालुष्यै परिमुषित दूरमुज्झित कषायकालुष्य क्रोधमानमाय-

तिपन्नमित्रभावै विश्वभरेश्वरैरिव प्रणीतविग्रहदण्डैरमराङ्गैरिव परित्यक्तदोषै कामिनीजनैरिव प्रकटितपरलोकागमकामैनीतिशास्त्रैरिव प्रकाशितशमयोगतीर्थोद्योगैरनङ्गभोगैरिव42 निरुपलेपैर्धनसमयदिवसैरिव विदूरितरजोभिरखि-

———————

लोभपाप यैस्ते तथा तै। अपर43 कथभूते। सितसिचयेरिव शुक्लवस्त्रेरिव। यथा सित सिचया हरीतक्विभीतकादिक्पायरहिता भवन्ति। अपर कथभूत पारासरिभि। मदरहितै ज्ञानपूजाकुलजातिबलस्वापतेयरूपतयोपलक्षणाष्टाविवगवरहिते। अपर कथ भूतै। चित्रापितद्विपैरिव यथाचित्रलिखितद्विपा मदरहिता पानरहिता भवन्ति। अपर कथभूतै। प्रतिपत्रमित्रभावै प्रतिपत्रोऽङ्गीकृतो मित्रभावो विश्वप्राणिमेत्र्य येस्ते तथा तै। कैरिव। कोकनदकाननैरिव रक्तकमलवनैरिव। यथा कोकनदकाननानि अङ्गीकृतसूयभावानि भवन्ति। अपर कथभूतै। प्रणीतविग्रहदण्डै प्रणीत सम्यगनुष्ठितो विग्रहदण्ड कायक्लशो यैस्ते तथा तै। भूयश्च43 कथभूतै। विश्वभरेश्वरैरिव यथा विश्वभरेश्वरे चक्रवतिभि विग्रह युद्ध दण्डश्च सेन्यचालन प्रणयन्ति कुवन्ति न सुस यादिक विदधति। भूय कथभूते। परित्यक्तदोषे परित्यक्ता परिहृता दोषा व्रतातीचारा येस्ते तथा तै। कथभूतै43। जमराङ्गेरिव। यथा अमराणा देवानामदानि शरीराणि परित्यक्तदोषाणि वातपित्तश्लेष्मरहितानि भवन्ति। भूयश्च किविशिष्टे। प्रकटि तपरलोकागमकामे प्रकटित स्फुटीकृत परलोकागमे दशा यायलक्षणमोक्षशास्त्रे काम प्रीतिर्यस्ते तथा तै। भूयश्च कथभूते। कामिनीजनेरिव यथा कामिनीना वेश्याना जना समूहा परलोकागमे कामुकजनागमे काम कन्दर्प प्रकटयन्ति। अपर कथभूत।प्रकाशितशमयोगतीर्योद्योग प्रकाशित प्रकटीकृत शमे कर्मक्षये योगे च यान शास्त्रे तीर्थेच ऊजयन्ता (उज्जयन्त्या) दौ उद्योगो उद्यमो येस्ते तथा ते। अपरं कथभूते। नीतिशास्त्रैरिव यथा नीतिशास्त्राणि राजराद्धान्ता शमे क्षेमहेतौ योगे च अलब्धलाभे तीर्येषु च सेनापत्याद्यष्टादशतीर्थषु उद्योगमुद्यम प्रकाशयन्ति। उक्त च—‘सेनापतिर्गणको राजश्रेष्ठी दण्डाधिपो मन्त्री महत्तरो बलवत्तरश्चत्वारो वणाश्चतु रङ्गबल पुरोहितोऽमात्यो महामात्यश्चेत्यष्टादश राज्ञा तीर्था भवन्ति’। अपर कथभूते। निरुपलेपैर्निष्पापै निष्परिग्रहैवा। कथभूतै43। अनङ्गभोगैरिव यथा अनङ्गभोग आकाशवि स्तारे कर्दमाद्युपलेपो न लगते। अपर कथभूतै। विदूरितरजोभि विदृरिते निराकृते रजसी ज्ञानदर्शनावरणर्मणी चपलता वा यैस्ते तथा ते। कैरिव। घनसमयदिनसेरिव यथा घनसमयदिवसा मेघवालदिनानि रजोरहिता धूलिविवजिता भवन्ति। अपर कथ-

लद्वीपदीपैरिव तमोपहचरितैर्महावाहिनीप्रवाहैरिव वीतस्पृहाप्रवृत्तिभि स्रक्कुसुमैरिव निसर्गगुणप्रणयिभि कुमारश्रमणमनोभिरिवासजातमदनफलसङ्गैर्निखिलभुवनभद्रान्तरायनेमिमिर्मूलोत्तरगुणोदाहरणभूमिभिर्धर्मामृतवर्षजनितजगदानन्दै सब्रह्मचारितालताकन्दैश्चित्रशिखण्डिमण्डलीस्तूयमानपुण्याचरणैरन्वाचयीकृतकुसृतिसर्गावतरणैर्भूरिभि पारासरिभिरपरेण चा-

———————

भूतै। तमोपहचरितै अज्ञानविनाशकाचारै। कैरिव। अखिलद्वीपदीपैरिव यथा अखिल द्वीपदीपा श्रीसूर्यास्तमोपहचरिता ध्वान्तविध्वसका भवन्ति। अपर कथभूतै। वीतस्पृहाप्रवृत्तिभि वीता विनष्टा स्पृहाया विषयाभिलाषस्य प्रवृत्ति प्रवर्तन येषा ते तथा तै। कैरिव। महावाहिनीप्रवाहैरिव यथा महावाहिनीप्रवाहा वीतस्पृहाश्चैतन्यरहिता भव न्ति। पुन कथभूतै। निसगगुणप्रणयिभि निसर्गेण स्वभावेन गुणेषु शास्त्रेषु प्रणय प्रीतिर्विद्यते येषा ते तथा तै। कैरिव। स्रक्कुसुमैरिव यथा स्रना पुष्पमालानाकुसुमाना पुष्पाणा गुणेषु तन्तुषु निसर्गेण प्रणयो रचना भवति। पुन कथभूतै। असजातमदनफलसङ्गै असजातोऽनुत्पन्नो मदनफलस्य अपत्यलक्षणस्य सङ्ग सगतिर्येषा ते तथा तै। बालब्रह्मव्रतैरित्यर्थ। कैरिव। कुमारश्रमणमनोभिरिव यथा कुमारश्रमणानां कुमारदीक्षिताना मनासि हृदयानि मदनफलसङ्गरहितानि रागफलसङ्गरहितानि भवन्ति। करे विवाहकरुणबन्धाभावात्। पुन कथभूतै। निखिलभुवनभद्रान्तरायनेमिभि निखिलस्य समस्तस्य भुवनस्य पृथ्वीमण्डलस्य भद्रस्य युगपद्धनवलधर्मसुखसमूहस्य अन्तरायस्य विघ्नस्य खण्डने नेमिभिश्वक्रवारासदृशै। पुन कथभूतै। मूलोत्तरगुणोदाहरणभूमिभि। मूलगुणा—पञ्चमहाव्रतानि पञ्चसमितय पश्चेन्द्रियनिरोवा लोचश्च पडावश्यकानि च निरम्बरत्व च अस्नान भूमिशयन दन्तप्रक्षालनाभाव स्थितभोजन एकभक्त च। उत्तरगुण—उत्तमक्षमादयो दशशीलसहस्राणि द्वाविंशतिपरीसहजयश्च। तेषा उदाहरणस्य दृष्टान्तवचनस्य भूमय पृथ्वीमण्डलानि। तत्पुरुषोऽत्र समास। स्थानभूतैरित्यर्थ। अपरं कथभूते। धर्मामृतवषजनितजगदानन्दै वर्मो धर्मोपदेश स एव अमृतवर्ष पीयूपषर्षण तेन जनित उत्पादितो जगता जगति स्थितभव्यजीवाना आनन्द परममुख यैस्ते तथा तै। पुन कथभूतै। सब्रह्मचारितालताक दै सब्रह्मचारिता समानधर्मता सैव लता वल्लीस्वर्गमोक्षफलदायि (य) कत्वात् तस्या कन्दैर्मूलसदृशै। पुन कथभूतै। चित्रशिखण्डिमण्डलीस्तूयमानपुण्याचरणै चित्रशिखण्डिन ‘मरीचिरङ्गिरा अत्रि पुलस्त्य पुलह क्रतु। वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिन॥’ इतिश्लोककथितास्तेषां मण्डली श्रेणिस्तया स्तूयमानानि श्लाघ्यमानानि पुण्याचरणानि पवित्राचारा येषां ते तथा तैः। अपरं कथभूतै। अन्वाचयीकृतकुसृतिसर्गावतरणै अन्वाचयीकृतं अप्रधानीकृतं कुसृतिसर्गस्य मिथ्यामार्गस्य अवतरणमुत्पत्तिर्यैस्ते तथा तै। तत्रैव दिवसे तस्मिन्नेव

नूचानेन श्रमणसघेनोपास्यमानपादमूल, तत्रैव दिवसे तदेव पुरमनुसिसीर्षु, घनघोरानकखनाकर्णनादुपयुक्तमन प्रणिधान, सतीष्वपि नगरे महतीषु वसतिषु पौराणामतीव प्राणिवधे सरब्धा बुद्धिरित्यवधिना बोधेनावबुद्ध्यावधीरितपुरप्रवेश, पूर्वस्या च दिशि निवेशितचक्षु प्रकाश, सुरसुरभिलपनलूनाग्रभागमिव समशिखरदेशाभोगम्, मृतसिक्तोदयमिव स्निग्धदलवलयम्, इन्द्रनीलकुत्कीलमिव लोचनोल्लासिलीलम्, अन्योन्यविभवसभावनोद्भटाशयमिव

———————

आगमनदिवसे चेत्रमहानवमीदिवसे तदेव पुर नगरं अनुसिसीर्षुरनुसर्तुमिच्छु। पुन कथभूतो भगवान्। घनघोरानकस्वनाकर्णनात् घना प्रचुरा घोरा भयानका आनकानां पटहाना स्वना शब्दास्तेषामाकर्णनात् श्रवणात् उपयुक्तमन प्रणिधान उपयुक्त प्रेरित मनसश्चित्तस्य प्रणिधान चिन्तन विचारण येन स तथोक्त। अपरं कथभूत। सतीष्वपि विद्यमानास्वपि नगरे नगरम ये महतीषु बृहतीषु वसतिषु चेत्यालयेषु अवधीरितपुरप्रवेश अवधीरितो अनाहत पुरस्य नगरस्य प्रवेशो येन स तथोक्त। कि कृत्वा। पूर्व अवधिना बोधेन अवधिज्ञानेन इति अमुना प्रकारेण अवबुद्ध्य ज्ञात्वा। इतीति किम्। पौराणा नगरोकसा बुद्धिर्मति प्राणिवघे जीववधे अतीवातिशयेन सरब्धा प्रारब्धा वतते। अपरं कथभूत। पूर्वस्या दिशि च ऐन्द्र्याककुभि निवेशितचक्षु प्रकाश आरोपितलोचनतेजस्क। समुच्चयालंकार॥ स भगवानिति।स भगवान् पूर्वस्या दिशि उद्यान (नन्दन) वन अपश्यदवलोकते स्म। इति क्रियाकारकसबन्ध। कथभूतमुद्यानम्। समशिखरदेशाभोगम् समो भिन्नत्वरहित शिखरदेशस्य चूलिकाप्रदेशस्य आभोगो विस्तारो यस्य उद्यानस्य तत् समशि खरदेशाभोगम्। पुनश्च कथभूत उद्यानम्। उत्प्रेक्षते—सुरसुरभिलपनलूनाप्रभाग मिव सुराणा देवानां सुरभयो गाव सुरभय कामधेनवस्तासा लपनैर्मुखैर्लूनश्छेदयित्वा चर्वितोऽग्रभाग शिखरभागो यस्य तत्तथोक्तम्। अपरं कथभूतम्। स्निग्धदलवलयम् स्निग्धानि चिक्कणानि दलाना प्रर्णाना बलयानि मण्डनानि यस्य तत्तथोक्तम्। अपरं कथभूतमुद्यानम्। उत्प्रेक्षते—अमृतसिक्तोदयमिव अमृतेन सुधया सिप्त उक्षित उदय उत्पत्तिर्यस्य तत्तयोक्तम्। पुन कथभूतम्। लोचनोल्लासिलीलम् लोचनाना नेत्राणामुल्लासिनी आनन्दजननी लीला शोभा यस्य तत्तथोक्तम्। पुन कथभूतम्। उत्प्रेक्षते—इन्द्रनीलक्कुत्कीलमिव इन्द्रनीलो नाम मणिर्मघवर्णो भवति तस्य कुत्कील पवतस्तद्वत्। पुन कथभूतम्। परस्परव्यतिकरितकिशलयम् परस्परमन्योन्य व्यतिकरितानि समी लितानि किशलवामि पल्लवा यस्य ततथोक्तम्। पुन कथभूतम्। उत्प्रेक्षते—अन्योन्यविभवसंभावनोद्भटाशयमिव अन्योन्यस्व परस्परस्य विभवस्य धनस्य संभावनया दर्शनेन उद्भट उत्कट आशयोऽभिप्रायो मस्य तत्तथोक्तम्। पुन

परस्परव्यतिकरितकिशलयम्, अखिलविष्टपोत्पत्तिस्थानमिव गर्भितप्रसूतप्रवर्धमानमहीरुहार्भकावस्थानम्, अनङ्गमुनिमण्डलीविहितसह्सवासानुरोधमिव निर्दलितनिखिलाबाधम्, इतरेतरश्रीमत्सरितमिव सकलर्तुशोभासरम्भोचितम्, अम्बरचरवसनवासकृतकुतूहलमिव गगनतलोच्छलत्फुल्लपरिमलम्, असमशरोद्यावदिवसमिव प्रसवपरागपिष्टातकितदिग्देवतासीमन्तसतानम्,

———————

कथभूतम्। गर्भितप्रसूतप्रवर्धमानमहीरुहार्भकावस्थानम् गर्भिता अङ्कुरिता प्रसूता उत्पन्ना प्रवर्धमाना वृद्धिं गच्छन्तो महीरुहाणा वृक्षाणा ये अर्भका बालका लघुवृक्षास्तेषामवस्थान स्थितिर्यत्र तत्तथोक्तम्। पुन कथभूतम्। उत्प्रेक्षते—अखिलविष्टपोत्पत्तिस्थानमिव यथा अखिलस्य समस्तस्य विष्टपस्य पृथ्वीमण्डलस्य उत्पत्तिस्थान गभितप्रसूतप्रवर्तमान भवति। पुन कयभूतम्। निदलितनिसिलाबा धम् निर्दलिता दूरीकृता निखिलस्य लोकस्य आबाधा दुख येन तत्तथोक्तम्। पुन कथभूतम्। उत्प्रेक्षते—अनङ्ग मुनिमण्डलीविहितसहसवासानुरोधमिव अनास्य आकाश स्य सबन्धिनो ये मुनय सप्तर्षय आकाशचारणा वा मुनयस्तेषा मण्डली श्रेणिस्तया सह विहित कृत सहसवास सगतिस्तस्य अनुरोध आग्रहो यस्य तत्तयोक्तम्। मुनयो यथा परेषा बाधा निराकुवन्ति, तथेद वनमपि। पुन कथभूतम्। सकलर्तुशोभासरम्भो चित सकला समग्रा ये ऋतवो वसन्तादिषड्ऋतवस्तेषा शोभा पुष्पफलाक्नुरादिप्रक्टता तस्या सरम्भ आरम्भस्तस्योचित योग्यम्। पुन क्यभूतम्। उत्प्रेक्षते—इतरेतरत्सरितमिव इतरेतरस्य परस्परस्य या श्री शोभा तस्या मत्सरित सु (शु) मद्वेपसहितमिव। पुन कथभूतम्। गगनतलोच्छलत्फुल्लपरिमलम् गगनतले आकाशमण्ठले उत्छलन् उत्पतन् फुल्लाना प्रसूनाना परिमलो गन्धो यस्य तत्तथोक्तम्। पुन कथभूतम्। उत्प्रेक्षते—अम्बर चरवसनवासकृतकुतूहलमिव अम्बरचराणा देवाना वसनाना वस्त्राणा वासेषु परिमलेषु कृत विहित कुतूहल विनोदो येन तत्तथोक्तम्। पुन कयभूतम्। प्रसवपरागपिष्टातकितदिग्देवतासीमन्तसतानम् प्रसृनाना परागो रजस्तेन पिशतकित पटवासचूर्णसहितकृतो दिग्देवताना हरिदेववधूना सीमन्तसतान कशमागसमूहो येन तत्त थोक्तम्। पुन कथभूतम्। उत्प्रेक्षते—असमशरोद्यावदिवसमिव असमशरस्य कन्दपस्य उद्यावदिवसमिव महोत्सवदिनमिव। अपरं कथभूतमुद्यानम्। प्रसूनमञ्जरीभि पुष्पवल्लरीभिरुपचितो जटित उपरितनविस्तारो यस्य तत्तथोक्तम्। कथभूताभि प्रसूनमञ्जरीभि। पल्लवपुटान्तरालविनिर्गताभि पल्लवाना किशलयाना पुटा पल्लवपुटा प्रवालपोटनानि तेषामन्तरालेभ्यो मध्येभ्यो विनिगता प्रादुर्भूतास्तथा ताभि। उत्प्रेक्षते—अनिमिषयोषितां सुरपुरन्ध्रीणा अलिकतटकुङ्मलितहस्तनखशुक्तिभिरिव अलिकतटेषु ललाटपरेषु कुम्मलिता पोटलिता ये हस्ता पाणयस्तेषां नखशुक्तिभिरिव पुनर्भवमुक्फास्फोटैरिव। कथभूतानांं

अशिशिरकरप्रणामप्रणयिनीनामगमविटपान्तरितवपुषामनिमिषयोषितामलिकतटकुड्भलितहस्तनखशुक्तिभिरिव पल्लवपुटान्तरालविनिर्गताभि प्रसूनमञ्जरीभिरुपचितोपरितनविस्तारम्। आसन्नतरामरापगाभिषेकसगमाद्गलद्भि कल्मषलवैरिव मधुकरकुलैरुत्कलुषितबहि प्रकारम्, उज्जृम्भजपापुष्पसपादितबलिमीशानमौलिमिव परिणतनागरङ्गसगतशिखम्, अभिनयागमप्रस्तारमिव तालबहुलव्यवहारम्, घनायतनमिव मन्दारायतनम्, जीमूतवाहनच-

——————

अनिमिषयोषिताम्। अशिशिरकरप्रणामप्रणयिनीनाम् अशिशिरकरस्य श्रीसूयस्य प्रणामेषु नमस्कारेषु प्रणयिन्य स्नेहिन्यस्तासा तथोक्तानाम्। अपर कथभूताना अनिमिषयोषिताम्। अगमविटपान्तरितवपुषाम् अगमाना वृक्षाणा विटपेषु कटप्रदे शेषु अन्तरितानि गुप्तानि वपूषि शरीराणि यासा तास्तथा तासाम्। पुनरपि कथभूत उद्यानम्। आसन्नतरामरापगाभिषेकसगमाद्गलद्भि कल्मषलवैरिव मधुकरकुलैरुत्कलुषित बहि प्रकारम्। मधुकरकुलेभ्रमरसमूहेरुत्कलुषित कृष्णवर्णीकृतो बहि प्रकारो बाह्यप्रदेशो यस्य तत्तथोक्तम्। कथभूते मधुकरकुलै। गलद्भि कल्मपलवेरिव पापफणेरिव नश्यद्भि पापलेशैरिव। कस्मात् गलद्भि। आसनतरामरापगाभिषेकसगमादिव आसनतरा निकटवतिनी या अमरापगा आकाशगङ्गा तस्या अभिषेकसगमात् इव स्नानसगमात् इव। इवोत्प्रेक्षायाम्। पुन कथभूतम्। ईशानमौलिमिव महेश्वरमुकुटमिव। कथभूतम्। उज्जृम्भजपापुष्पसपादितबलिम् उज्जृम्भाणि विकसितानि यानि जपापुष्पाणि ओड्रपुष्पाणि (यासु वनकुसुमानि) तै सपादित उत्पादितो बलि पूजा यस्य इशानमोले तत्तथोक्तम्। आदिष्टलिङ्गत्वादत्र पुस्त्वम्। परिणतनागरङ्गसगतशिखम् परिणतानि पक्वानि नागरङ्गाणि मुखप्रियफलानि तै सगता सयुक्ता शिखा अग्र यस्य तत्तथोक्तम्। अपरं कथभूतम्। तालबहुलव्यवहारम् तालाना ताडवृक्षाणा बहुल प्रचुरो व्यवहार प्रवर्तन यत्र यस्य वा तत्तथोक्तम्। पुन उत्प्रेक्षते—अभिनयागमप्रस्तारमिव यथा अभिनयागमस्य भरतशास्त्रस्य प्रस्तारस्तारबहुलव्यवहारो भवति द्रुतविलम्बितप्रवर्तनो भवति। पुन कथभूतम्। मन्दारायतनम् मन्दाराणा पारिजातवृक्षाणा आयतन स्थान तत्। पुन उत्प्रेक्षते—धनायतनमिव घनस्य मेघस्य आयतन आकाशमिव। यथा घनायतन मन्दस्य शनैश्चरस्य आरस्य मङ्गलस्य च आयतन स्थान भवति। पुन कथभूतम्। नागवल्लीविभवसुन्दरम् नागवल्लीना ताम्बूललताना विभवेन घनेन सुन्दर मनोहरम्। पुन उत्प्रेक्षते—जीमूतवाहनचरितावतारमिव यथा जीमूतवाहनस्य विद्याधरविशेषस्य चरितस्य चरित्रस्य अवतार कथासबन्धो नागवल्लीना सर्पश्रेणीना विभवेन सुन्दरो भवति। जीमूतवाहनेन किल दयालुतया गरुडस्य निजशरीरं भक्षितु दत्तम्, नागास्तु रक्षिता, एषा लौकिकी कथा वतते, सा जीमूतवाहनचरित्रात् ज्ञातव्या। पुन कथभूतम्।

रितावतारमिव नागवल्लीविभवसुन्दरम्, मदनायुधसदनमिव सनह्यमानवा णासनम्, मकरध्वजाराधनप्रसाधितगात्रैर्मयूरबर्हातपत्रैरिव पूगतरुभि श्यामलितदिक्पालनिलयम्, अपि च क्वचिदक्षोलजालनिर्जितखर्जूरफलपचेलिमतारुणितदिविजविमानचन्द्रशालम्, क्वचिल्लपलीटलोड्डमरडम्बर- चुम्वितजम्बीरासरालम्, क्वचिदश्वत्थोत्थानकदर्थितकपित्थस्कन्धम्, क्वचिन्नमेरुविराजितराजादनासीनसुरसुन्दरीगणगीयमानमनसिजविजयप्रबन्धम्, क्वचित्ये-

———————

सनह्यमानबाणासनम् सनह्यमान परस्पर मिलन्ते वाणा बीजवृक्षा असनवृक्षाश्च रालवृक्षा यत्र तत्तथोक्तम्। पुन उत्प्रेक्षते—मदनायुधसदनमिव मदनस्य कन्दर्पस्य आयुधसदन मिव आयुधशालामिव। यथा मदनायुधसदन आरोप्यमाणचाप भवति। पुन पूगतरुभिर्गुवाकवृक्षै श्यामलितदिक्पालनिलयम् श्यामलिता कृष्णवर्णीकृता दिक्पालानां नरेन्द्राणा निलया मन्दिराणि यत्र तत्तथोक्तम्। कथभूतै पूगतरुभि। मग्ररबहा तपत्रैरिव मयूरबर्हाणा मयूरपिच्छाना आतपत्रैरिव। मयूरपिच्छश्रीकारिभिरिवेत्यर्थ। कथभूतै मयूरबर्हातपत्रै। मकरध्वजाराधनप्रसाधितगात्रै मकरध्वजस्य कन्दपस्य आराधनाय पूजनविधये प्रसाधितानि रचितानि गात्राणि शरीराणि येषामातपत्राणां तानि मदनाराधनप्रसावितगात्राणि तैस्तयोक्तै। अपि च सन्ति केचिद्विशेषा। तानेवाह—क्वचिदक्षोलजालनिजितखजूरफलपचेलिमतारुणितदिविजविमानचन्द्रशालम् क्वचित् कस्मिंश्चित्प्रदेशे। कथभूतमुद्यानम्। अक्षोलाना क्परालाना कन्दरालानामक्षोटानाम्। गर्वभाण्डानामिव (ति) यावत् जालै समूहैर्निजितास्तिरस्कृता ये खजूरा पिण्डराजूर वृक्षा तेषा फलाना पचेलिमता स्वयमेव पच्यमानता। ‘पचे केलिमर कर्मकतरि’ इति वचनात्। तया अरुणिता अव्यक्तरागसयुक्ता कृता दिविजाना देवाना विमानाना व्योमयानाना चन्द्रशाला शिरोगृहाणि यत्र तत्तथोक्तम्। पुन क्वचिल्लवलीदलोड्डमरडम्बरचुम्बितजम्बीरासरालम् क्वचित् कस्मिश्चित्प्रदेशे लवलीदलाना चन्दनलतापत्राणा उरुमर उत्कटो योऽसौ डम्बर आटोपस्तेन चुम्बिता स्पृष्टा ये जम्बीरा दन्तश ठवृक्षास्तैरसरालमपर्यन्तम्। पुन क्वचिदश्वत्योत्थानकदर्थितकपित्थस्कन्धम् अश्वत्थाना पिप्पलाना उत्थानेन वृक्षोपरि वृक्षोत्पादनेन कदर्थिता विडम्बिता कपित्थाना मन्मथतरूणा स्कन्धा प्रकाण्डा शाखावधिस्थानानि यत्र तत्तथोक्तम। पुन क्वचिन्नमेरुविराजितराजादनासीनसुरसुन्दरीगणगीयमानमनसिजविजयप्रबन्धम् क्वचित्कस्मिंश्चित्प्रदेशे नमेरुणा पारिजातवृक्षेण विराजित शोभितो योऽसौ राजादन क्षीरिवृक्ष। क्षीरिवृक्षोपरि नमेरुरुत्पन्न इत्यर्थ। तन्मूले आसीना उपविष्टा या सुरसुन्दर्यो देवाङ्गनास्तासा गणेन पेटकेन गीयमान सशब्दायमानो मनसिजस्य कन्दर्पस्य विजयप्रबन्धो जगज्जयनप्रथटक्को यत्र तत्तथोक्तम्। पुन क्वचित्खेचरावतरणपतत्स-

चरावतरणपतत्सतानकुम्पलसवलितपारिजातलतान्तम्, क्वचित्परमतपश्चरणोपार्जितै सुकृतैरिव महाफलप्रदायिभि पनसपाद‌पैरुपधृतपर्यन्तम्, क्वचिद्वनलक्ष्मीस्तनमिवात्मीयकान्तिजनितनीलहरिद्वदनमुद्यानमपश्यत्॥

कि च—

यद्वृन्तगलितै पुष्पैरुपहारमुपाहरत्।
तारोद्भासिनभ शोभा बिभर्त्यावालभूमिषु॥६९॥

यत्प्रान्तपल्लवोल्लासिप्रसूनच्छन्नसचयम्।
दधातीन्दुमणिद्योतिपद्मरागाचलश्रियम्॥७०॥

————————

तानकुम्पलसवलितपारिजातलतान्तम् क्वचित्कस्मिश्चित् प्रदेशे खेचराणा विद्या धराणा अवतरणेन आगमनेन पतन्ति त्रुटन्ति सतानकुम्पलानि वृक्षविशेषपल्लवास्तै सवलितानि मिश्रितानि पारिजातानां नमेरुवृक्षाणा लता तानि पुष्पाणि यत्र तत्तयो क्तम्। पुन क्वचित्कस्मिश्चित्प्रदेशे पनसपादपैरुप वृतपयन्तम् पनसपादपे कण्टकिफलनक्षैरुपपृतपय तम् उपधृतो व्याप्त पयन्त पुरस्ताद्भूमियस्य तत्तयोक्तम्। कथभूते पनसपादपै। महाफलप्रदायिभि महान्ति वृहन्ति फलानि प्रददति प्रयच्छन्ती त्येवशीला महाफलप्रदायिनस्तै। पुन कथभूते पनसपादपै। सुकृतेरिव तीर्थकरनामोपार्जनदक्षै विशिष्टपुण्यरिव। यथा सुकृतानि महाफलप्रदायीनि भवन्ति। कथभूतै सुकृतै। परमतपश्चरणोपाजिते परमतपश्चरण इच्छानिरोधलक्षण तेनोपार्जितै स्वीकृतै। पुन कथभूतै। क्वचित्कस्मिश्चित्प्रदेशे आत्मीयकान्तिजनितनीलहरिद्वदनम् आत्मी यकान्त्या निजकायतेजसा जनितमुत्पादित नील कृष्णवर्ण हरिद्वदन दिह्मण्डल येन तत्तथोक्तम्। अपर कथभूतम्। वनलक्ष्मीस्तनमिव वनश्रीकुचमिव वनलक्ष्मीस्तन आत्मीयकान्त्या उत्पादितश्यामलितदिग्वदन भवति। उत्प्रेक्षादिसकरालंकार॥

किच अस्ति विशेष। यद्वृन्तगलितेरित्यादि। यदुद्यान वृन्तानि प्रसवबन्धनानि तेभ्यो गलितानि अध पतितानि तैवृन्तगलितै पुष्पै प्रसूनै उपहारं पूजा श्रीसुदत्ता चार्यमुद्दिश्य उपाहरत् कुर्वद्वर्तते। यद्वन आलवालभूमिषु वृक्षसेचनस्थानभूमिषु तारोद्भासिनभ शोभा ताराभिश्चान्द्रायणीभिरुद्भासि उद्भासनशील यन्नभ आकाश तस्य शोभा उपमा बिभर्ति धरति। यदुद्यान इन्दुमणिद्योतिपद्मरागाचलश्रिय दधाति इन्दुमणयचन्द्रकान्तमणयस्तैर्द्यातते शोभते इत्येवशील इन्दुमणिद्योति स चासौ पद्मरागमणिपवत तस्य श्रिय शोभा दधाति। तत्कारणगभित विशेषणमाह—यदुद्यान कथभूतम्। प्रातपल्लवोल्लासिप्रसूनच्छन्नसचयम् प्रान्तपल्लवेषु अग्रप्रवालेषु उल्लसन्तीत्येवशीलानि प्रान्तपल्लवोल्लासीनि तानि च तानि प्रसूनानि पुष्पाणि तैश्छन्न

यत्र च मधुकरकुटुम्बिनीनिकुरम्बाडम्बरचुम्ब्यमानमकरन्दकदम्बस्तम्बविलम्बितनिजनित-म्बिनीबिम्बाधरपानपरवशविलासिनि, सुरतसुखोन्मुसमुखरपरिखेलत्सखीसखानेकखगप्रेङ्ख-न्नखमुसावलिख्यमानफलितशिखरे समीपशाखिभि स्खलितप्रसख्यानमखसमुखीनवैखान-समानसे, कितवसहचरोपरचितकरवाद्यलयलास्यमानमवुमत्तसीमन्तिनीसमालोकनकुतूहल मिल-

————————

सवृत सचय समूहोऽपचयो वा यस्य उद्यानस्य तत्तथोक्तम्। उपमालंकार॥

यत्र च यस्मिन् उद्याने सुन्दरीजनेन सह स्त्रीजनेन सह कामिनो विलासिन पुरुषा रमन्ते क्रीडा कुवन्ति इति। क्रियाकारकसबन्ध। कथभूते यत्र यस्मिनुद्याने। मधुकरकुटुम्बिनीनिकुरम्बाडम्बरचुम्ब्यमानमकर दकदम्बस्तम्बविलम्बितनिजविर्ताम्बनी बिम्बाधरपानपरवशविलासिनि मधुकरा भ्रमरास्तेषाकुटुम्बिन्यो भ्रमर्यस्तासा निकुर म्बेण आडम्बरेण आटोपतया शब्दगजितया वा चुम्ब्यमान आखाद्यमानो योऽसा मकरन्दकदम्बस्तम्ब मकरन्दस्य पुष्परसस्य कदम्ब समूहस्तस्य स्तम्बो गुत्म स विलम्बित अनुकृत उपमानमानीयमानो निजनितम्बिनीना स्वकीयकमनीयका मि नीना बिम्बाधर पक्कतिन्दुकेरीफलसमानोष्ठ तस्य पाने आस्वादने परवशा नाथवन्त पराधीना विलासिन कामिनो यत्र तत्तथोक्त तस्मिन्। पुन कथभूते उद्याने। सुरतसुखोन्मुखमुखरपरिखेलत्सखीससानेकखगप्रेङ्खन्नसमुखावलिप्यमान फलितशिखरै सभी पशाखिभि स्खलितप्रसर यानमखसमुखीनवैखानसमानसे समीपशाखिभिनिकटव र्तिभिर्वृक्षै स्खलितप्रसख्यान विघटितध्यान मखसमुसीनवैखानसाना तापसाना मानस मखे यज्ञे समुखीना तत्परा ये वैखानसास्तपखिनो वानप्रस्थास्तेषा मानस चित्त मखसमुखीनवैखानसमानस यत्र तत्तथोक्त तस्मिन्। कथभूतै समीपशासिभि। सुरतसुखे रतिक्रीडासौरये उन्मुखा बद्धोत्कण्ठा मुखरा वाचाला परि समन्तात्खेलन्तो रममाणा सखीसया निजपक्षिणीभि सयुक्ता अनेका नानाप्रकारा ये विशेषपदकोपल44 क्षिता खगा पक्षिणस्तेषा प्रेङ्खति प्रचलन्ति यानि नखमुखानि तै अवलिख्यमानानि चुष्यमानानि फलितशिखराणि फलवदग्राणि येषा समीपशाखिना से तथोक्तास्तै। पुनश्चकथभूते यस्मिन्नुद्याने। कितवसहचरोपरचितकरवाद्यलयलास्यमानमधुमत्तसीमन्तिनीसमालोकनकुतूहलमिलद्वनदेवताभराभुनककुभविटपिनि कितवसहचरैधूर्तभ र्तृभिरुपरचित निर्मित यत्करवाद्य इस्ततालस्तस्य लयेन क्रियासाम्येन लास्यमाना नर्त्यमाना या म [धुम] त्तसीमन्तिन्यो मदे (द्ये) न मत्ता कामिन्यस्तासा समालोकनकुतूहलेन निरीक्षणविनोदेन मिलन्त्य एकत्रीभवन्त्यो या वनदेवता व्यतर्यस्तासां भरेण भुग्ना

द्वनदेवताभरामुग्नककुभविटपिनि, वटविटपविटङ्कसकटकोटरोपविष्टवाचा टशुकपेटकपठ्यमानेन विटविकटरताटोपचादुपाटवेन विघटमानमुनिमन कपाटपुटसधिपन्धे, विकिरकुल-कलहवशविशीर्यमाणकुरबकतरुमुकुरमुक्ताफलितवितर्दिकाबलिकर्मणि, चपलकपिसपात-लुप्तमानमराभिर्निर्भरविभ्रमारम्भसभ्रमाभिर्भामिनीभि परिरभ्यमाणनिभृतसरसापराधवल्लभे, भुजमूलपुलकवितरणरतकान्तकैतवान्तरायितयुवतिपुष्पापचितिनि, सरलद्रुमस्त-

——————

त्रोटिता ककुभविटपिन अजुनवृक्षा यत्र तत्तथोक्त तस्मिन्। अपर कथभूते उद्याने। वटविटपविटङ्कसकटकोटरोपविष्टवाचाटशुकपेटकपठ्यमानेन विटविकटरताटोपचाटुपा टवेन विघटमानमुनिमन कपाटपुटसधिबन्धे विटाना कामुकाना विकट प्रव्यक्त प्रस्फुटो योऽसौ रताटोप कामक्रीडाडम्बरस्तस्मिन् चाटुपाटव मिथ्यास्तुतिपटुत्व तेन विघटमान उद्धट्टमानो मुनीना ग्रामर्षीणा मन कपाटपुटस्य चित्ताररयुगलस्य सधिवन्ध लेपो यत्र तत्तयोक्त तस्मिन्। कथभूतेन विटविकटरताटोपचाटुपाटवेन। वटस्य न्यग्रो धवृक्षस्य विटप शाखा कटप्रस्तस्य विटक पल्लवोन्नताग्रभागस्तस्य सकट सको चसहितो योऽसौ कोटर शाखास्थितगर्भस्थान तत्रउपविष्ट स्थित वाचाटाना बहुगर्हावाचा शुकाना रक्ततुण्डाना यत्पेटक समूह तेन पठ्यमान उच्चेरुद्गीयमान यत् विटविकटरताटोपचाटुपाटव तत्तथोक्त तेन। अपर कथभूते उद्याने। विकिरकु लकलहवशविशीर्यमाणकुरबकतरुमुकुरमुक्ताफलितवितर्दिकाबलिकमणि विकिराणा पक्षिणा यत्कुल समूहस्तस्य कलहो युद्ध तस्य वशेन हेतुना विशीयमाणानि त्रुष्यन्ति यानि कुरबकतरो शोणाम्लानवृक्षस्य मुकुराणि बालकुड्यलानि तेमुक्ताफलित मुक्ताफलसयुक्त वितर्दिकाबलिकर्म वेदिकापूजाविधान यन्त्र तत्तथोक्त तस्मिन्। अपरं कथभूते उद्याने। चपल कपिसपातलुप्तमानभराभिर्निर्भरविभ्रमारम्भसभ्रमाभिर्भामिनीभि परिरम्यमाणनिभृतसरसापराधवल्लभे भामिनीभि कोपनकलत्रै परिरभ्य माण आलिङ्गयमानो निभृतो मौनवान् विनीतश्चसरसापराधस्तत्कालकृतवल्लभादोष एव विशेषणचतुष्टयविशिष्टो वल्लभो यत्र तत्तथोक्त तस्मिन्। कथभूताभिर्भामि नीभि। चपलस्य कपेवानरस्य सपातेन आगमनेन लुप्तो विनाशितो मानभरश्चित्तस मुत्पन्ननेत्यतिशयो यासा भामिनीना तास्तथोक्तास्ताभि। अपर कथभूताभिर्भामि नीभि। निभरं गाढ यथा भवत्येव योऽसौ विभ्रमारम्भो मकटभ्रक्षेपप्रारम्भस्तस्मात् संभ्रमो भय यासा तास्तथोक्तास्ताभि। अपर कथभूते उद्याने। भुजमूलपुलकवित रणरतकान्तकैतवान्तरायितयुवतिपुष्पावचितिनि भुजमूले बाहुमूले यत्पुलकवितरण सशब्दपञ्चनखसयोगस्तस्मिन् रतस्तत्परो योऽसौ कान्तो भर्ता तस्य कैतवेन कपटेन अन्त रायिता अन्तराय प्रापिता युवतीना अतिमनोहरस्त्रीणा पुष्पावचिति कुसुमचुण्टन यत्र

म्भसभूतलताशोकततिविनिर्मितासु पीनस्तनलिखितपत्रलाञ्छितोर स्थलरमणरसरभसोच्छलदुत्तालचलनासु लीलान्दोलासु विलसन्तीना विलासिनीना मुखरमणिमेखलाजालवाचालिमबहलपञ्चमालप्तिपल्लवितविरह्वीरुधि, जम्बूकुजकुञ्जगुञ्जत्पारापतपतङ्गसदीपितमदनमददरिद्रितसु दरीसभोगहुतवहे, कदलीदलातपत्रोत्तम्भनभारभरितभर्तृभुजाभोगसभावनविकटकुचकुम्भ-

——————

तत्तथोक्त तस्मिन्। अपर कथभूते उद्याने। सरलद्रुमस्तम्भसमृतलताशोक्तति विनिमितासु पीनस्तनलिखितपत्रलाञ्छितोर स्थलरमणरसरभसोच्च्छलदुत्तालचलनामु लीलान्दोलासु विलसन्तीना विलासिनीना मुखरमणिमेखलाजाल्वाचालिमवहलपञ्चमा लप्तिपल्लवितविरहवीरधि लीलान्दोलामु क्रीडाप्रेङ्खासु विलसन्तोना रममाणाना उत्पतननिपतनानि कुर्वाणाना विलासिनीना नवयोवनस्त्रीणा मुखराणि वाचालानि मणिभि रुपलक्षितानि मेखलाजालानि रसनासमूहास्तेषा वाचालिमा वाचालत्व शब्दबहुलत्वतेन बहला द्विगुणीकृता या पञ्चमालप्ति पश्चमनाम ग्रामरागविशेष सप्तम स्वर इति यावत् तया पल्लविता विरहवीरुत् विषलम्भलता यस्मिन् तत्तयोक्त तस्मिन्। कथभूतासुलीलान्दोलासु। सरलद्रुमा देवदारुतरवस्त एव स्तम्भास्तेषु सभूता बद्धा या लता वल्लयो अशोकततयश्च मनुलतरुत्रेणयस्तासु विनिर्मिता रचितास्तास्तथा तासु। अपरं कथभूतासु लीला दोलासु पीनस्तनेषु लिखितानि यानि पत्राणि पत्रवल्यस्तैर्लाञ्छितानि शोभितानि यानि उर स्थलानि वक्षोमण्डलानि तेषु विषये योऽसो रमणरस सभोगक्रीडारागस्तस्य रभस औत्सुक्य तेन उच्छल त उत्पतन्त उत्ताला शीघ्रतरा चलना पादा यासु लीलान्दोलासु तास्तथा तासु। उक्त—च षड्ज मयूर कथते गावस्तू (स्त्वृ) षभभाषिण। अजादिक तु गान्धार कोञ्चक्वणति मध्यमम्॥ पुम्पसा धारणे काले पिक कूजति पञ्चमम्। धैवत ह्रेषते वाजी निपाद बृहते गज॥’ पुनश्चकथ भूते उद्याने। जम्बूकुजकुञ्जगुञ्जत्पारापतपतन्नसदीपित्तमदनम ददरिद्वितसुन्दरीसभोग हुतवहे जम्बूकुजा जम्बूतरवस्तेषा कुनानि लतापिहितोदराणि तेषु गुञ्जत शब्दान् कुवतो ये पारापतपतना कलखनपक्षिणस्ते सदीपित सयुक्षितो योऽसी मदनमद कामोद्रेकस्तेन दरिद्रितस्तिरस्कृत सुन्दरीणा वनिताना सभोगहुत्तवा रति क्रीडावैश्वानरो यत्र तत्तथा तस्मिन्। अपर कथभूते उद्याने। कलीदलातपत्रोत्त म्भनभारभरितभर्तृभुजाभोगसभावनविकटकुचकुम्भमण्डलानामितस्ततो विहरन्तीना रम्भोरूणामनवरतझणझणायमानमणिमञ्जीरशिञ्जीताकुलितजल केलिदीर्घिका कलहराससदि रम्भावत् कदलीस्तम्भवत् ऊरव पिचण्डानि यासा ता रम्भोरव कमनीयकामिन्यस्तासा रम्भोरूणा अनवरत निरन्तर झणझणायमाना शब्दायमाना ये मणिमञ्जीरा पञ्चविधमाणिक्यजटितकनकनूपुराणि तेषां शिञ्जितैरव्यक्तशब्दैराकुलिता किंकर्तव्य-

मण्डलानामितस्ततो विहरन्तीना रम्भोरुणामनवरतझणझणायमानमणिमञ्जीरशिञ्जिताकुलितजलकेलिदीर्घिकाकलहसससदि, रमणरतनिरतवनि तारतिरसोत्सेकविचलद्विकचविचकिलप्रालम्बामोदसुरभितसुभगभुजङ्गनाभीवलभिगर्भे, तमालदलनिर्यासरसपूरितकरकिशलयपुटेन यमितनखलेखनीधारिणा खचरनिचयेन रच्यमानसहचरीकपोलफलकतलतिलकविचित्रपन्त्रभङ्गिनि, खलरताभियुक्तकुटहारिकातालुतलोत्तरलतररुतोत्प्लावितनिच्च (चु)

—————

ताया मूढीकृता जलकेलिदीर्घिकाणा उदकक्रीडावापिकाना कलहसससत् राजहसश्रेणि यत्र तत्तथा तस्मिन्। कथभूताना रम्भोरूणाम्। केन वायुना दल्यते विदीर्यते कदली वारणबुसा। अशुमत्फलेति यावत्। तस्या दल पर्ण तदेव आतपत्र छत्र तस्य उत्तम्भन उद्धरणमुच्चलन तस्य भारेण गुरुतया भरितो निचितो योऽसो भतृभुजाभोग कान्तस्य बाहुमण्डल तस्य सभावनेन विनयकरणेन विकट स्फुटीभूत कुचकुम्भमण्डल स्तन कलशाभोगो यासा तास्तथा तासाम्। जपर कथभूताना रम्भोरुणाम्। इतस्ततो विह रन्तीनाम् यत्र तत्र पयटन्तीनाम्। अपर कथभूते उद्याने। रमणरतनिरतवनितार तिरसो त्सेकविचलद्विक्चविचकिलप्रालम्बामोदसुरभितसुभगभुजङ्गनाभीनलभिगर्भे रमण रतम्। उपरि स्त्री अधपुमान् रमणरतमुच्यते। तत्र निरता व्यावृत्तव्यापारवती या वनिता अत्यन्तोत्पादितरागा स्त्री तस्या रतिरसोत्सेक भोगकीडारागाधिक्य तेन विचलति त्रुट्यन् योऽसौ विकचाना विकसिताना विचकिलाना मोगरपुष्पाणा प्रालम्ब आजावालम्बपुष्पमाला तस्य आमोदेन अतिनिर्हारिणा परिमलेन सुरभित सुगन्धिकृत सुभगभुजङ्गस्य सौभाग्यवत्कामुकपुरुषस्य नाभीवलभिगर्भा यत्र नाभ्येव वलभि। पटलाधारो वशपञ्जरो वलभिरुच्यते। तस्या गर्भा मध्यप्रदेशो यत्र तत्तथोक्त तस्मिन्। अपरं कथभूते उद्याने। तमालदलनियासरसपूरितकरकिशलयपुटेन यमितनखलेखत्रीधारिणा खचरनिचयेन रच्यमानसहचरीकपोलफल कतलतिलकविचित्रपत्रभदिनि ग्वचरनिचयेन विद्याधरसमूहेन रच्यमान समर्ष्यमाण सहचरीणा विद्याघ रीणा कपोलफलकतलेषु गण्डस्थलपट्टिकोपरि यत्तिलक तेन विचित्रा चमत्कारकारिणी पत्रसबन्धिनी भङ्गीपत्रावलीरचना यत्र तत्तस्मिन्। कथभूतेन सचरनिचयेन।तमा लस्य कालस्कन्धवृक्षस्य दलानि सुगन्धपर्णानि तेषा निर्यासरसेन रसद्रवेण पूरितो भ रित करकिशलयपुटो हस्तपल्लनपुटो येन स तथा तेन। अपर कयभूतेन सचरनिच येन। यमिता घटिता नखलुना समारिता या नखल्सेनी पुनर्लिपिकारिणीव ता धरतीत्येवशीलो विद्याधरनिचयो यमितनसलेसिनीधारी तेन तथा। अपरं कथंभूते उद्याने। खलरताभियुक्तकुटहा रिकातालुतलोत्तरलतररुतोत्प्लावितनिच्च (चु)लमूलबिलनिलीनोलूकबालकालोकनाकुलकाकोलकुलकोलाहलकाहले खलस्य दुर्जनस्य रते सभोग

लमूलबिलनिलीनोलूकबालकालोकनाकुलकाकोलकुलकोलाहलकाहले, बहलकोकिलप्रलापगलितलज्जस्य निसर्गादुत्तालतरसुरतसरम्भिण पण्याङ्गनाजनस्य कलगलोल्लसल्लोहलोल्लपितानुलपनपरसारिकाशाव-सकुलकुलायकरलोपकण्ठजरठिताभिनवाङ्गनारतिचेतसि, माकन्दमञ्जरीमकरन्दबिन्दुस्यन्तदुर्दिनेन मुचकुन्दमुकुलपरिमलोल्लासिना प्रचलाकिकुलकलापसीमन्तोचितेन वातचातकेनाचम्यमानसुरतश्रमखिन्नखेचरीपयोधरमुखलुलितघनधर्मजलमञ्ज-


क्रीडाया अभियुक्ता नियोगिनी अधिकारिणी या कुटहारिका जलघटवाहिका दासी तस्यास्तालुतले काकुदम ये यत् उत्तरलतर उत्सुक तर यद्रुत शब्दस्तेन उत्प्रावित उड्डायितो निच्च (चु) लस्य वृक्षस्य मूले अधोमार्गेण यद्विल छिद्र तस्मिन् निलीनोगुप्तस्थितो योऽसौ उलूकबालकस्तस्यालोक्नेन दर्शनेन आकुलानि विह्वलीभूतानि यानि काकोलकुलानि बलिभुक्समूहास्तेषां कोलाहलेन कलकलशब्देन काहल अस्फुटशब्दो [यत्र] तत्तथोक्तं तस्मिन्। अपरं कथभूते उद्याने। बहलकोकिलप्रलापगलितलज्जस्य निसर्गादुत्तालतरसुरतसरम्भिण पण्याङ्गनाजनस्य कलगलोल्लसल्लोहलोल्लपितानु-लपनपरमारिकाशावसकुलकुलायकरलोपकण्ठजरठिताभिनवाङ्गनारतिचेतसिप-ण्याङ्गनाजनस्य वेश्याजनस्य कल मधुर गले कण्ठे उल्लसन् उच्छलन् सन् लोहलोल्लपित अव्यक्तशब्दित तस्य अनुलपन पुनर्जल्पन तत्र परास्तत्परा ये शारिकाशावा पीतपादबालकास्ते सकुलो व्याप्तो योऽसौ कुलायो मालकस्तेनोपलक्षितो योऽसौ करलो वृक्षस्तस्य उपकण्ठे समीपे जरठित प्रौढित अभिनवाङ्गनाया बालवनिताया रतिचेत सभोगचित्त यत्रउद्याने तस्मिन्। कथभूतस्य पण्याङ्गनाजनस्य। बहल प्रचुरो योऽसौ कोकिलप्रलाप कोकिलानर्थशब्दस्तेन गलिता पलायिता लज्जा अपत्रपा यस्य तस्य। अपर क्यभूतस्य पण्याङ्गनाजनस्य। निसर्गात्स्वभावेन उत्तालतरं अत्युत्सुक यत् सुरत मैथुनं तत् सरभते इत्येवशील स तस्य। अपर कथभूते उद्याने। माकन्दमञ्जरीमकरंदबिन्दुस्यन्ददुर्दिनेन मुचकुन्दमुकुलपरिमलोल्लासिना प्रचलाकिकुलकलापसीमन्तोचितेन वातचातकेनाचम्यमानसुरतश्रमखिन्न खेचरीपयोधरमुखलुलितघन धर्मजलमञ्जरीजाले सुरतस्य नियुवनस्य श्रम खेदस्तेन खिन्ना दैन्य प्राप्ता या खेचर्या विद्याधर्यस्तासा पयोधरा वक्षोजास्तेषां मुखेषु अग्रेषु लुलितानि लुठितानि धनानि प्रचुराणि यानि धर्मजलानि प्रस्वेदोदकानि तेषां मञ्जरीजालानि वल्लरीसमूहा वातचातकेन मरुद्दपहेन आचम्यमानानि आस्वाद्यमानानि उपस्पृश्यमानानि सुरतश्रमखिन्नखेचरी पयोधरमुखाठुलितघनधर्मजलमञ्जरीजालानि यत्रोद्याने तत्तस्मिन्। कथभूतेन वातचातकेन। माकन्द अतिमुरभिसहकारवृक्षस्तेषा मञ्जर्य पुष्पवल्लयस्तासा मकरन्द पुष्परसस्तस्य बिन्दुस्यन्दानि विप्रुदक्षरणानितैर्दुर्दिनो धूसरित स तथा तेन। अपरं कथभूतेन वातचातकेन। मुच-

रीजाले, निधुवनविधिविधुरपुरन्धिकाधरदलदयितदीयमानाननचषकचारितदर्दरीकबीजसीधुनि, पुण्ड्रेक्षुकाण्डमण्डप-सपातिनीभि षिङ्गपरिषद्भिश्चण्डतरमुड्डमरितडिण्डिमारवाकाण्डताण्डवितशिखण्डिमण्डले, मृद्वीकाफलगलनचटु-लकामिनीकरवलयमणिमरीचिमेचकिताकिकिरातराजिनि, नालिकेरफलसलिलविलुप्यमानमिथुनमन्मथक-लहावसा-नपय पानातुच्छवाञ्छे, कन्दु-


कुन्दाना म यपुष्पविशेषाणा मुकुलानि कोरकाणि कलिकास्तेषा परिमलेन विमदात्यगन्धेन उल्लसति उच्छलयेवशील स तथा तेन। पुन कथभूतेन वातचात केन। प्रचलाकिना मयूराणा कुलानि समूहास्तेषा कलापाना पक्षसमूहाना सीमन्तै केशमार्गेरुचिता (तो) योग्य स तथा तेन। अत्र प्रथमविशेषणेन वातस्य शीतत्व सूचितम्। द्वितीयेन तु विशेषणेन सुगन्धिता प्रकटिता। तृतीयेन विशेषणेन मन्दत्व प्रदर्शित भवतीति ज्ञातव्यम्। अपर कथभूते उद्याने। निधुवन विधिविधुरपुरन्ध्रिका वरदलदयितदीयमानाननचपकचारितददरीकबीजसीधुनि निधुवनस्य सुरतस्य क्रीडाया योऽसो विधिकामशास्त्रोक्त विधान तेन विधुराणि पीडितानि पुरन्ध्रिकाणा नवयौवनस्त्रीणा यानि अधरदलानि दन्तच्छदपलवानि तेषु दयितेन भर्त्रा दीयमान आरोप्यमाण आननचषकेन मुखपानपात्रेण चारित सयोजित दर्दरीकबीजसीधु दाडिमबीजमद्य यत्र तत्तयोक्त तस्मिन्। अपरं कथभूते उद्याने। पुण्ड्रेक्षुकाण्डमण्ड पसपातिनीभि षिङ्गपरिपद्भिश्चण्ड तर मुड्डमरितडिण्डिमारवाकाण्डताण्डवितशिखण्डि मण्डले षिङ्गपरिषद्भि कामुकसमूहे चण्डतर यथा भवत्येव उड्डमरिता उत्कर्षिता डिण्डिमारवा पटहशब्दास्तेरकाण्डे अकाले ताण्डवित शिखण्डिना मयूराणा मण्डल समूहो यत्रतत्तथोक्त तस्मिन्। कथभूताभि षिङ्गपरिषद्भि। पुण्ड्रा पाण्डुवर्णास्ते च त इक्षवो रसालास्तेषा काण्डमण्डपे प्रकाण्डशालाया सपतन्त्यागच्छन्तीत्येवशीला स्तास्तथा ताभि। अपरं कथभूते उद्याने। मृद्वीकाफलगलनचटुलकामिनीकरवलयमणिमरीचिमेचकित किरातराजिनि मृद्वीकाना द्राक्षाणा यानि फलानि तेषा गलने अदने भक्षणार्थ चटुला चपलतरा ये कामिनीना करा पाणय तेषा वलयानि तेषा मणयो रत्नानि तेषामरीचय किरणास्तैर्मचकिता [नि] कर्बुरीकृता [नि] किंकिरातराजी कुरण्टक्तरुस्रणी यत्रतत्तथोक्त तस्मिन्। अपर कथभूते उद्याने। नारिकेरफलसलिलविल्लुप्यमानमिथुन मन्मथकलहावसानपय पानातुच्छवाञ्छे नालिकेराणा लाङ्गलितरूणा यानि फलानि सस्यानि तेषांसलिलानि पानीयानि तेविलुप्यमाना उच्छिद्यमाना मिथुनाना स्त्रीपुरुषाणा मन्मथकलहावसाने कन्दर्पयुद्धपर्यन्त पय पानस्य जलपानस्य अतुच्छा प्रचुरतरा वाञ्छा यत्र तत्तथा तस्मिन्। अपरं कथभूते उद्याने। कन्दु-

कविनोदव्याजविस्तारितविभ्रमेण तरुणजनसनिधानविवृद्ध शृङ्गारमत्सरेण भ्रमिविभ्रमोद्धान्तभासत् परिमलमिलन्मिलिन्दसुन्दरीसदोहमण्डितापाङ्गपातेन विव्वोकिनीसमाजेन यावकारुणचरणपाटलितबकुलालवालभूमिनि, रजनिरसपिञ्जरितकुचकलश मण्डलाभिर्महीरुहनिवहमहिलाभिरिव परिपाकपेशलफलविनतमध्याभिर्बीजपूरवल्लरीभिरपराभिश्च वृक्षौषधिवनस्पतिलताभिरतिर-


कविनोदव्याज विस्तारितविभ्रमेण तरुणजनसनिधान विवृद्धशृङ्गारमत्सरेण भ्रमिविभ्रमोद्भ्रान्तभा-सत्परिमलमिलन्मिलिन्दसुन्दरीसदोहमण्डितापाङ्गपातेन विव्वोकिनीसमाजेन यावकारुणचरणपाटलितबकुलालवालभूमिनि विव्वोको विलासो विद्यते यासा ता विव्वोकिन्य। उक्त च हलायुधेन कविना—‘हेलाविलास विव्वोकली लाललित विभ्रमा। स्त्रीणा शृङ्गारचेष्टा स्युर्हावपयायवाचका॥’ विव्वोकिनीना समाज समूहो विव्वोकिनीसमाजस्तेन यावकेन अलक्तकेन लाक्षारसेन अरुणा अव्यक्तरागा ये चरणा पादास्तै पाटलिता श्वेतरक्तीकृता बकुलालवालाना केसरतवावालाना मदगन्धिवृक्षस्थानकाना भूमिर्यत्र तत्तथोक्त तस्मिन्। कथभूतेन विव्वोकि समाजेन। कन्दुकविनोदव्याजेन गिन्दरिकक्रीडामिषेण विस्तारित प्रकटीकृतो विभ्रमोभ्रुक्षेपो येन स तथा तेन। अपर कथभूतेन विव्वोकिनीसमाजेन। तरणजनाना नवयौवनपुरषाणा सनिधानेन उपकण्ठतया विवृद्धो विशेषेण वृद्धिं गत श्रुङ्गारस्य शरीर मण्डनस्य मत्सर परशुभद्वेषो यस्य स तथा तेन। अपर कथभूतेन विव्वोकिनीसमाजेन। भ्रमिविभ्रमेण कम्पितभ्रूक्षेपेण उद्भ्रात उल्लसित यद्भासत् भास्वर मुखम्। ‘भसद्भास्वरमासयो ’ इति वचनात् (?)। तस्य परिमलेन सोरभेण मिलन्त्य एकधिभवन्त्यो या मिलिन्दाना भ्रमराणा सुन्दर्यो भ्रमर्थस्तासा सदोहेन समूहेन मण्डित शोभित अपाङ्गपात कटाक्षविक्षेपो यस्य स तथा तेन। अपर कथभूते उद्याने। रजनिरसपिञ्जरि तकुचकलशमण्डलाभिर्महीरुहनिवह महिलाभिरिव परिपाकपेशलफलविनतमध्याभिर्बीजपूरवल्लरीभिरपराभिश्चवृक्षौषधिवनस्पतिलताभिरतिरमणीये बीजपूरवल्लरीभि मातुलि जवल्लीभिरतिरमणीये अतिशयेन मनोहरे। कथभूताभिर्बीजपूरवल्लरीभि। परिपाकेन परिपचनतया पेशलानि मनोहराणि यानि फलानि तेविनतो विशेषेण नम्रीभूतो मध्योऽन्तराल यासा ता परिपाकपेशलफलविनतमध्यास्ताभि। अपरं कथभूताभिवीजपूरवल्लरीभि। महीरुहाणा वृक्षाणा निवहस्य समूहस्य महिलाभिरिव भायाभिरिव। तत्कारणगर्भित विशेषणमा—कथभूताभिर्महिलाभि। रजानिरसेन हरिद्राद्रवेण पिञ्जरितानिपीतरक्तानि कुचकलशमण्डलानि यासा तास्तथोक्ताभि। न केवल बीजपूर वल्लरीभिरतिरमणीयम् अपि तु अपराभिश्चअन्याभिश्चवृक्षौषधिवनस्पतिलताभिरतिरमणीये वृक्षाश्चपुष्पफलसहिता आम्रादितरव औषधयश्च फलपाकान्ताः कदलीवृक्षादयः,

मणीये, नरखचरामराणा मिथ सभोगलक्ष्मीमिव दर्शयति निखिलभुवनवनाना श्रियमिवादाय जातजन्मनि, रोध्रपरागवैध्र्यनीरन्ध्रित केतकीरजःपटलनिर्मलित कपोलदर्पणेन विविध कुसुमदलविनिर्मितललामकर्मणा कुटजकुड्भल्बणमल्लिकानुगत कुन्तलकलापेन तापिच्छगुलुञ्छ विच्छुरितशतपत्रीसक्सनद्धचिकुरभङ्गिना मरुबकोद्भेदविदर्भितदमनकाण्डशिखण्डितकेशपाशेन प्रियालमञ्जरीकणकलितकर्णिकारकेसरविराजितसीमन्त-सततिना


वनस्पतयश्च फलिनो वृक्षा, लताश्चवल्लर्यस्तास्तथोक्ताभि। उक्त च फली वनस्पतिज्ञेया वृक्षा पुष्पफलोपगा। ओषध्य फलपाकान्ता वल्लयो गुल्माश्च वीरुध॥’ उद्याने किं कुर्वति सति। नरखचरामराणा मिथ सभोगलक्ष्मी सुरतक्रीडाश्रिय दर्शयतीव दर्शन कारयतीव। कथभूते उद्याने। निखिलभुवनवनाना श्रियमिवादाय जात जन्मनि निखिलभुवनवनाना समस्तत्रैलोक्योद्यानाना श्रिय आदाय शोभा गृहीत्वा जात जन्मनीवोत्पन्नजन्मनि यथा। कथभूतेन सुन्दरीजनेन। रोध्रपरागवैध्र्यनीरन्ध्रितकेत कीरज पटल निर्मलित कपोलदर्पणेन रोधस्य अजुनतरो। ’ गालव शाबरो रोध्र्यस्ति रीटस्तिल्वमार्जुनो’ इत्यभिधानात्। रोध्र्यपरागस्य गालवतरुरजसो यद्वेध्र्य शुक्लता तेन नीरन्ध्रितो निश्छिद्रीकृत। सवत्र व्याप्त इत्यर्थ। स च केतकीरज पटलनिर्मलित केतकीरजस पटलेन समूहेन निर्मलित उद्वतित कपोलदर्पणो गण्डस्थलादर्शो यस्य स तथा तेन। अपरं कथभूतेन सुन्दरीजनेन। विविधकुसुमदलविनिर्मितललामकर्मणा विविधानि अनेकप्रकाराणि यानि कुसुमानि पुष्पाणि तेषा दलै पत्रैर्विनिर्मित विशेषेण कृत ललामकर्म तिलकरचना येन स तथा तेन। अपरं क्थभूतेन सुन्दरीजनेन। कुटजकुड्मलोल्बणमल्लिकानुगत कुन्तलकलापेन कुटजस्य इद्रयवृक्षस्य कुकालानि मुकुलानि तैरुत्वणा उद्रिका या मल्लिका शीतभीरुपुष्पविशेषा ‘नलिकवेल’ इत्यादेशात्मल्लिकापुष्पैरनुगत सयुक्त कुन्तलकलाप केशपाशो यस्य स तथा तेन। अपरं कथभूतेन सुन्दरीजनेन। तापिच्छगुलुच्छ विच्छुरितशतपत्री नक्सनद्धचिकुरभङ्गिना तापिच्छस्य तमालवृक्षय ये गुलुन्छा पुष्पस्तबकास्तैर्विच्छुरिता शोभिता शतपत्री सेवन्ती पुष्पाणि तस्या सकू माला तया संनद्धा बद्धा चिकुरभङ्गी केशरचना यस्य स तथा तेन। अपरं कथभूतेन सुन्दरीजनेन। मरुबकोद्भेद विदर्भितदमनकाण्डशिखण्डित केशपाशेन मरुवकोभेदैसुगन्धपत्रमञ्जरीभिर्विदर्भिता गुम्फिता ये दमनकाण्डा सुगन्धपत्रस्तम्बास्तै शिखण्डितो मुकुटित केशपाश कुन्तलकलापो यस्य स तथा तेन। पुन कथभूतेन। प्रियालमञ्जरीकणकलित कर्णिकारकेसर विराजितसीमन्तसंतविना प्रियालस्य क्षीरिकायास्तरोर्या मञ्जर्यो वल्लयेस्तासा कणै पुष्पकणै कलिता संयुक्ता ये कर्णिकारकेसरा द्रुमोत्पन्न किंजल्कास्तैर्विराजिता विशेषेण शोभिता सीमन्तसंततिः

चम्पकचितविकचकच (काञ्च) नारविरचितावतसेन माधवीप्रसूनगर्भगुम्फिपुन्नागमालाविलासिना रक्तोत्पलनालान्तरालमृणालवलयाकुलशकोटेन(?)सौगन्धिकानुबद्धकमलकेयूरपर्यायिणा सिन्दुवारसरसुन्दरकदली-प्रवालमेखलेनशिरीषवशबाणकृतजङ्घालकारचारुणा मधुकानुविद्धबन्धूकधृतनूपुरभूषणेन अन्यासु च तासु तासु कामदेवकिलकिञ्चितोचितासु क्रीडासु बद्धानन्देन सुन्दरीजनेन सह रमन्ते कामिन॥


केशमार्गश्रेणिर्यस्य स तथा तेन। अपर कथभूतेन सुन्दरीजनेन। चम्पकचितविकच काञ्चनारविरचितावतसेन। चम्पकैर्हेमपुष्पकैश्चिता सयुक्ता ये विकचकाञ्चनारा विकसितयमलपत्रकपुष्पाणि। उक्त च धन्वन्तरिणा— ‘कोविदारे काञ्चनार कुद्दाल कुण्डली हली। ताम्रपुष्पश्चमरिको महायमलपत्रक॥’ ते विरचित कल्पितोऽवतसो मुकुटकर्णपूरो येन स तथा तेन। पुन कथभूतेन सुन्दरीजनेन। माधवी प्रसूनगर्भगुम्फित पुन्नागमालाविलासिना माधवी वासन्ती तस्या प्रसूनानि पुष्पाणि तेषा गर्भषुमध्येषु गुम्फितानि ग्रथितानि। ‘पुन्नाग पुरुषस्तुङ्ग केसरो देववल्लभ’ इत्यभिधानात्। तेषां मालाया विलास शोभा विद्यते यस्य स तथा तेन। पुन कथभूतेन सुन्दरीजनेन। रक्तोत्पलनालान्तरालमृणालवल्या कुलशकटेन रक्तोत्पलस्य नालतस्य अन्तराले मध्ये मृणालवलय पद्मिनीकन्दकङ्कण तेनाकुल सयुक्त शकोटो (?) बाहुर्यस्य स तथा तेन। पुन कथभूतेन सुन्दरीजनेन। सौगन्धिकानुबद्धकमलकेयूरपर्यायिणा सौगन्धिकेषु कहारेषु रक्तकमलेषु अनुबद्धानि गुम्फितानि यानि कमलानि श्वेतकमलानि तेषाकेयूरस्य बाहुभूषणरक्षस्य पर्याय सगतिर्विद्यते यस्य स तथा तेन। पुन कथभूतेन सुन्दरीजनेन। सिन्दुवारसरसुन्दरकदलीप्रवालमेखलेन सिन्दुवार इन्द्रसुरस तस्य सरो हार तेन सुन्दराणि मनोहराणि यानि कदलीप्रवालानि लताना बालपल्लवानि तेषा मेखला कटिमेखलायस्य स तथा तेन। पुन कथभूतेन सुन्दरीजनेन। शिरीषवशयाणकृतजङ्घालकारचारुणा शिरीषाणा वशानि शिरीषपुष्पमध्येषु गुम्फितानि यानि बाणानि झिण्टीपुष्पाणि तैकृतो विहितो योऽसौ जङ्घालकार प्रस्ताभरण तेन चारुर्मनोहरस्तेन तथोक्तेन। अपरं कथभूतेन सुन्दरीजनेन। मधुकानुविद्धबन्धूकघृतनूपुरभूषणेन मधुकेषु गुडपुष्पेषु मध्ये अनुविद्धानि प्रोतानि यानि बन्धूकानि बन्धुजीवकपुष्पाणि तैधृतकृत नूपुरभूषण हिजीरा भरण येन संघातेन। अपरं कथभूतेन सुन्दरीजनेन। अन्यासु च अपरासुचतासु तासु जगत्प्रसिद्धासु कीडासु बद्धानन्देन आनन्दसहितेन। कथभूतासु क्रीडासु। कामदेवकिलकिञ्चितोचितासु कामदेवस्य कन्दर्पस्य यत्किलकिञ्चित हर्षादुदितगीतादिव्यामिश्र किलकिञ्चित तस्मिनुचिता योग्यास्तास्तथा तासु। समुच्चयालंकार॥

तदेवमनेकलोकोत्पादितप्रत्ययाया पुरदेव्या सिद्धायिकाया सर्वसत्त्वाभयप्रदावासरस स्मरसौमनस नामोद्यानमवलोक्य,

ब्रह्मस्तम्ब नितम्बिनीरतिकथाप्रारम्भचन्द्रोदया
काम कामरसावतारविषयव्यापारपुष्पाकरा।
प्राय प्राप्तसमाधिशुद्ध मनसोऽप्येते प्रदेशा क्षणा-
त्स्वान्तध्वान्तकृतो भवन्ति तदिह स्थातु न युक्त यते॥ ७१ ॥

इति च वितर्क्य, मनागन्त स्तिमितमानस प्रसरदनेक वितर्करस स-


पुनश्च भगवान् किं कृतवान्। [स्मरसौमनस45] श्मशानारण्य व्यलोकत ददर्श। इति क्रियाकारकसबन्ध। किं कृत्वापूर्वम्। तत्पूर्वोक्तम् एव अमुना प्रकारेण सिद्धायिकाया सिद्धायिकानौम्न्या46 पुरदेव्या राजपुरनगरदेवताया स्मरसौमनस नाम उद्यान वन अवलोक्य। कथभूताया पुरदेवताया। अनेकलोको त्पादितप्रत्ययाया अनेकेषा लोकाना उत्पादितो जनित प्रत्ययो विश्वासो यया सा तथा तस्या। कथभूतमुद्यानम्। सर्वसत्त्वाभयप्रदावासरसम् सर्वेषा सत्त्वाना प्राणिना अभयप्रदो अभयदानदायक आवासरसोऽनुरागो यत्र तत्तथोक्त यथोक्तविशेषणविशिष्टम्। पुनश्च किं कृत्वा पूर्वं श्मशानारण्य व्यलोकत। इति वितर्क्यं इति ईदृश पूर्वोक्तप्रकार वितर्क्यपर्यालोच्य सकल्पविकल्प कृत्वा। इतीति किम्।

** ब्रह्मेत्यादि।** एते प्रदेशा। पूर्वोक्तोद्यानस्थानानि यते सयतलोकस्य क्षणात् मुहूर्तात्स्वान्ते ध्वान्तकृतो भवन्ति चित्तमध्ये रागोत्पादका भवन्ति सजायन्ते। कथभूतस्य यते। प्राप्तसमाधिशुद्धमनसोऽपि प्राप्त स्वाधीन कृतोऽसौ समाधि शुद्धोपयोगस्तेन शुद्ध निर्मल मनश्चित्त यस्य स तथा तस्य। कथ स्वान्तध्वान्तकृतो भवन्ति। प्रायो बाहुल्येन। कस्यापि यते स्वान्तध्वान्तकृतो न भवन्तीत्यर्थं। तत्तस्मात्कारणात् इह अस्मिन् सरागोद्द्योतने यते स्थातु स्थितिं कर्तु युक्त योग्यं न भवति। कथभूता एते प्रदेशा। ब्रह्मस्तम्ब नितम्बिनीरतिकथाप्रारम्भचन्द्रोदया ब्रह्म स्तम्बस्य त्रैलोक्यस्य या नितम्बिन्य कामिन्यस्तासा रते संभोगस्य कथाप्रारम्भो वाक्यप्रबन्धप्रारम्भस्तस्य [चन्द्रोदया चन्द्रोदयसदृशा।] चन्द्रोदये सति रतिकथाप्रारम्भो भवति। अपरं कथभूता एते प्रदेशा। काम कामरसावतारविषयव्यापारपुष्पाकरा काम यथेष्ट कामरसस्य कन्दर्परागस्य अवतारो यत्र विषयव्यापारे स कामरसा बतार स चासौ विषयव्यापार सुरताभिनियोगस्तदर्थ पुष्पाकरा वसन्तर्तुसदृशा। कथभूतो भगवान्। मनाक् इषत् अन्त स्तिमितमानस। अभ्यन्तरे निश्चलचित्त। अपरं कथभूत। प्रसरदनेकवितर्करस प्रसरन्तो विजृम्भमाणा अनेके वितर्करसा

कलजगदाघातघटनाघस्मर स्मर खलु श्मशानवासिनमप्यानयत्यात्मनो निदेशभूमिम्, किं पुनर्न गोचरपतितम्, मनो हि केवलमपि स्वभावतो विषयाटवीमवगाहते, किं पुनर्न लब्धानङ्गशृङ्गारप्रदेशम्, कथापि खलु कामिनीना चेतो विभ्रमयति, किं पुनर्न नयनपथमुपगतस्तासा सभोगसभव केलिप्रबन्ध करणानि तु नियमनियन्त्रितान्यपि स्वच्छन्द विजृम्भन्ते, किं पुनर्न प्राप्तस्वविषयवृत्तीनि, बोधाधिपतिराकाशेऽपि सकल्पराज्यमारचयति किं पुनर्न पर्यवसितबहि प्रकृति, वयोऽपि न यमस्येव मनसिजव्यापारस्य किंचि


विचारानुरागा यस्य स तथा। केन प्रसरदनेकवितकरस। तानेवाह— सकलजगदाघातघटनाघस्मर स्मर खलु श्मशानवासिनमप्यानयत्यात्मनो निदेशभूमि कि पुनर्न गोचरपतितम्। मनो हि केवलमपि स्वभावतो विषयाटवीमवगाहते कि पुनन लब्धानङ्गशृङ्गारप्रदेशम् (चूर्णिगद्यमेतत्।47) स्मर कन्दर्प खलु निश्चयेन श्मशानवासिनमपि प्ररेतवनस्थितमपि मनुष्य आत्मन स्वस्य निदेशभूमिं आदेशस्थान आनयति प्रापयति, लब्धानङ्गशृङ्गारप्रदेश लब्ध प्राप्त अनङ्गशृङ्गारस्य कामसबन्धिशृङ्गारस्य प्रदेशस्थान येन स तथा त पुरुष किं पुन आत्मनो निदेशभूमिं नानयति। अपि त्वानयत्येव। काकुवक्रोक्तिरियम्। कथभूत स्मरो यथोक्तविशेषणविशिष्ट। सकल च तज्जगत्रैलोक्य तस्य आघातो निष्ठुरप्रहारस्तस्य घटना रचना तस्या घस्मर सर्वभक्षक। पुनश्चकिंविशिष्ट वितर्क्यश्मशानारण्य व्यलोकत। कथापि खलुकामिनीनां चेतो विभ्रमयति, किं पुनर्न नयनपथमुपगतस्तासा सभोगसंभव केलिप्रबन्ध कामिनीना स्त्रीणा कथापि वार्तापि खलु निश्चयेन चेतो मणविभ्रमयति विशेषेण चालयति, तासां केलिप्रवन्ध क्रीडाप्रघट्टक नयनपथमुपगतो विलोकित किं पुनर्न विभ्रमयति। अपि तु विभ्रमयत्येव। कथभूत केलिप्रबन्ध। सभोगसंभव सुरतोत्पन्न। पुनश्च किं वितर्क्य। करणानि तु नियम नियन्त्रितान्यपि स्वच्छन्द विजृम्भन्ते, किं पुनन प्राप्तस्वविषयवृत्तीनि करणानि तु नेत्रादीन्द्रियाणि तु नियम नियन्त्रितान्यपि व्रतबन्धनैबद्धान्यपि स्वच्छन्द निरवग्रह यथा भवत्येव विजृम्भन्ते प्रसरन्ति। प्राप्तस्वविषयवृत्तीनि लब्धनिजविषयवतैनानि किं पुनर्न विजृम्भन्ते, अपि तु विजृम्भन्त एव। पुनश्चकिं वितर्क्य। बोधाधि। पतिराकाशेऽपि संकल्प राज्यमारचयति किं पुनर्न पर्यवसितबहिप्रकृति बोधाधिपतिरयंआत्मा आकाशेऽपि शून्यस्थानेऽपि सकल्पराज्य मारचयति स्थापयति, पर्यवसितबहि प्रकृति परिप्राप्तख्यादिलक्षणा (अ)मात्यादि, किं पुनर्न संकल्प राज्यमारत्रयति, अपि तु रचयत्येव। वयोऽपि न यमस्येव मनसिजव्यापारस्य किंचित्परिहर्तव्यमस्ति प्रत्युतावानेष्विन्धनेषु वह्निरिव नितान्त ज्वलति वृद्धेषु मकरध्वज मनसिज व्यापारस्य

त्परिहर्तव्यमस्ति प्रत्युतावानेष्विन्धनेषु वह्निरिव नितान्तं ज्वलति वृद्धेषु मकरध्वज, तच्च मनो महामुनीनामपि दुर्लभ यत्र कुलिशे घुणकीट इव प्रभवितु न शक्नोति विषयवर्ग, श्रूयते हि किलालक्ष्यजन्मनो दक्षसुताना जलकेलिविलोकनात्तप प्रत्यवाय, पितामहस्य तिलोत्तमासगीतकात्, कैवर्तीसगमात्पाराशरस्य, रथनेमेश्च नटीनर्तनदर्शनात्।

अपि च—

क्षीणस्तपोभि क्षपित प्रवासैर्विध्यापित साधु समाधितोयै।
तथापि चित्र ज्वलति स्मराग्निकान्ताजनापाङ्गविलोकनेन॥ ७२ ॥


किंचिदपि वय काचिदप्यवस्था बालकुमारतरणवृद्वलक्षणावस्थापि परिहतव्य नास्ति। कस्येव। यमस्येव कृतान्तस्येव। यथा यमस्य किंचिदपि बालकुमारतारुण्यवाधक्यलक्षण वयो न परिहतव्य वर्तते। प्रत्युत विशेषेण वृद्धेषु जराजीर्णेषु मकरध्वज कन्दर्प नितान्तमतिशयेन ज्वलति प्रज्वलति। क इव। आवानेषु शुष्केषु इन्धनेषु काष्ठेषु वह्निरिव अग्निरिव। यथाशुष्केषु इन्धनेषु अग्निनितान्त प्रज्वलति। तच्च मनो महामु नीनामपि दुर्लभ दुष्प्राप यत्रमनसि विषयवर्ग स्पर्शादिगोचरसमूह प्रभवितु पराभव कर्तुं न शक्नोति न समर्थो भवति। कस्मिन् क इव। कुलिशे घुणकीट इव। यथा कुलिशे वज्रेघुणकीट क्षुद्रजन्तु प्रभवितु न शक्नोति। श्रूयते हि किला लक्ष्यजन्मनो दक्षसुताना जलकेलिविलोकनात्तप प्रत्यवाय। किलेति लोकोक्तौ शास्त्रोक्तौ अरुचौ वा। अलक्ष्यजन्मन श्रीमहादेवस्य दक्षसुताना दक्षप्रजापतिपुत्रीणा जलकेलिविलोकनात् जलक्रीडानिरीक्षणात् तप प्रत्यवाय तपसि दोष श्रूयते आकर्ण्यते। कथम्। हि स्फुटमिति शेष। पितामहस्य तिलोत्तमासगीतकात् पितामहस्य ब्रह्मणस्तिलोत्तमाया स्वर्गलोक वेश्याया संगीतकात्, गीतकात् गीतनृत्यवादित्रसमुदायात् तप प्रत्यवायश्रूयते। कैवर्तीसङ्गमात्पाराशरस्य मत्स्यवेधपुत्रीसंयोगात्, पाराशरस्य वेदव्यासजनकस्य तप प्रत्यवाय श्रूयते। रथनेमेश्च नटीनर्तनदर्शनात् तप प्रत्यवाय श्रूयते। रथनेमि किल दिगम्बराचार्य नटीनर्तनदर्शनात् नटपुत्रींपरिणीतवान् पश्चात् कुम्भकारपुत्र परिणीतवान् तदनन्तरं राजपुत्रीं परिणीतवान् पुन पुनश्च दीक्षा गृहीतवान् पश्चात्रिभि पुत्रै सह कुम्भकाराणां पाकोपसर्गस्योद्वा (?) मुक्ति जगामेति कथाकोशे कथा प्रसिद्धा वर्तते॥

अपि च अस्ति कश्चिद्विशेष। क्षीण इत्यादि। चित्रमाश्चर्यमेतत्। स्मराग्निकन्दर्पवैश्वानर कान्ताजनापाङ्गविलोकनेन स्त्रीजनकटाक्षदर्शनेन तथापि ज्वलति मृ-

तावत्तपो वपुषि चेतसि तत्त्वचिन्ता
काम हृषीकविषय परम शमश्च।
यावन्न पश्यति मुख मृगलोचनाना
शृङ्गारवृत्तिभिरुदाहृत कामसूत्रम्॥ ७३॥

श्रोत्र श्रुतो हरति वीक्षणमीक्ष्यमाण-
श्चित्त स्मृत कृतसमागतिरङ्गकानि।
प्राणान्पुन प्रणयवावियुतो रतिं च
लोके तथापि वनिताजन एव यत्न॥ ७४॥

तपो मृगायते पुसा सम धीधैर्यलज्जितै।
स्त्रीणा भ्रूचापविश्रान्तनेत्रापाङ्गशराहते॥ ७५॥


तोऽपि जीवति। यद्यपि तपोभिरुपवासादिभि क्षीणोऽतिदुबल सजात, प्रवासै धर्मक्षेत्रादिविहारकर्मभि क्षपित क्षय नीत, समाधितोयैर्यमध्यानादिजले साधु यथा भवत्येव विध्यापित शीतलता नीत। रूपकातिशयालंकार॥

तावदित्यादि। वपुषि शरीरे तावत्काल तपो दीक्षा वर्तते। चेतसि मनसि तावत्काल तत्त्वचि ता आत्मभावना वर्तते। हृषीकविषये इन्द्रियाणा स्पर्शादिगोचरे परम उत्कृष्ट शम उपशमश्च वर्तते। कथम्। काम अतिशयेन। यावत्काल मृगलाच नाना स्त्रीणा पुमान् मुख न पश्यति। कथभूत मुखम्। शृङ्गारवृत्तिभि शृङ्गारक्रीडाभि उदाहृत कामसूत्रम् उदाहरित निदर्शनसंयुक्त कृत कामस्य कन्दर्पस्य सूत्रब्याकरणसूत्रम्। उपमालंकार॥

श्रोत्रमित्यादि। लोके लोकमध्ये तथापि तदपि वनिताजन एवं स्त्रीजन एव लोकस्य यत्नस्तात्पर्य वतते। तथापि कथम्। वनिताजन श्रुत अकणित सन् श्रोत्र कर्ण हरति चोरयति। इक्ष्यमाणो दृश्यमान रानू वीक्षण लोचन हरति। स्मृतश्चिन्तित सन् चित्त मनो हरति। कृतसमागति आलिङ्गित सन् अङ्गकानि कोमलधातून् हरति। पुन पश्चात् प्रणयवान् स्नेहवान् सन् प्राणान् हरति। मारयतीत्यर्थं। बियुक्तो विप्रलब्ध सन् रति अनादिरुचि हरति। इत्येव महान्चौरोऽय स्त्रीजन इति सूचितं भवति। दीपकालंकार॥

तपो मृगायत इत्यादि। पुंसा पुरुषाणा तपो दीक्षा व्रतग्रहण मृगायते नश्यति। कथम्। सम सार्धम्48। कै समम्। धीधैर्यलज्जितै धीर्बुद्धि, धैर्यंनिश्चलता, लज्जितं अपत्रपा,तैतपकृतामृगायते पलायते। स्त्रीणां वनितानां भ्रूचापविश्रान्तनेत्रापा

संयम, बहिरुत्थावस्थित पारदरस इव द्वन्द्वपरिगत पुमान्क्षणमपि नास्ते प्रसख्यानक्रियासु, वृन्दमपीद वनादानीत करियूथमिवाद्यापि न सभवति प्रायेण क्षान्तिनिष्ठितम्, सर्वदोषदुष्ट व्यालशुण्डालमिवामीषामपरिपक्वशि-क्षोपदेशमिन्द्रियग्राममतियत्नेनापि सरक्षितु न तरति पुरश्चारीलोक।

किं च—

तावद्गुरवो गण्यास्तावत्स्वाध्यायधीरत चेत।
यावन्न मनसि वनितादृष्टिविष विशति पुरुषाणाम्॥ ७६॥


अधीरधीषु कातरेषु चलचित्तस्य त्राणाय न जायते। क्थभूत तनुच्छद। देहदाह करागम शरीरोष्मकरागम शरीरोष्मकारक। बहिरत्यावस्थित पारदरस इव द्वन्द्रपरिगत पुमान्क्षणमपि नास्ते प्रसख्यान क्रियासु। पुमानात्मा द्वन्द्वपरिगत एकान्ते प्राप्त प्रसरयानक्रियासु धर्मध्यानादिकर्मसु क्षणमपि मुहूर्तमेकमपि नास्ते न तिष्ठति। क इव। पारदरस इव पारदद्रव इव। यथा पारदरस सूतो बहिरुत्थावस्थित सन् अम्युपरि स्थापितो द्वन्द्वपरिगत औषधे वेष्टितोऽपि क्षणमपि नास्ते। उड्डीय गच्छती त्यर्थ। वृदमपीद वनादानीत करियूथमिवाद्यापि न सभवति प्रायेण क्षान्तिनिष्ठितम्। इह प्रत्यक्षीभूत वृन्द मुनिसघोऽपि अद्यापि सयमसाधनकालेऽपि प्रायेण बाहुल्येन क्षान्तिनिष्ठित विषयसुखपराङ्मुख न सभवति न संगच्छते। किमिव। वनादानीत करियूथमिव। यथा वनादानीत अरण्यादाहृत करियूथ गजवृन्द प्रायेण क्षान्तिनिष्ठित अद्यापि संभवति बन्धनकालेऽपि क्षमावन्न भवति। सर्वदोषदुष्ट व्यालशुण्डालमिवामीषामपरिपक्वशिक्षोपदेशमिन्द्रियग्राममतियत्नेनापि सरक्षितु न तरति पुरश्वारीलोक। अमीषा मुनीना इन्द्रियग्राम सरक्षितु प्रतिपालयितु विषयेभ्यो निषेद्ध पुरश्वारीलोक मुनिजनाना मुख्य सूरिलोक, अन्यन्त्र हस्तिपक, अतियनेनापि अतिसावधानतयापि न तरति न शक्नोति। कथभूत इन्द्रियग्रामम्। अपरिपक्वशिक्षोपदेशम् न परिपक्को न परिणतो न मनसि प्रविष्ट शिक्षाया अनुप्रेक्षोपलक्षणाया उपदेशो यस्य इन्द्रियग्रामस्य स तथा तम्। अपरं कथभूत इन्द्रियग्रामम्। सर्वदोषदुष्टम् सर्वे रागद्वेषमोहादिभिर्दोषैरादीनवैर्दुष्ट दूषितम्। कमिव। व्यालशुण्डालमिव यथा शुण्डाल दुष्ट गज सर्वदोषपुष्ट अगृहीतशिक्षोपदेश सरक्षितु पुरश्चारी लोको न तरति न शक्नोति। उपमालंकार॥

किंचेति। अस्ति कश्चिद्विशेष। तावदित्यादि। तावत्कालं गुरव आचार्या गण्या माननीया भवन्ति। तावत्काल चेतो मन स्वाध्यायभीरत भवति स्वाध्यायस्य वाचनाप्रच्छनानुप्रेक्षाम्नाय धर्मोपदेशलक्षण पञ्चप्रकारस्य धीरभिप्रायोऽनुशीलनमुद्धिस्तत्र

तावत्प्रवचनविषयस्तावत्परलोकचिन्तनोपाय।
यावत्तरुणीविभ्रमहृतहृदयो न प्रजायेत॥७७॥

गुरुवचनस्य हि वृत्तिस्तत्र न यत्रास्ति सगम स्त्रीभि।
अबलाला पजलप्लवबधिरितकर्णे कुतोऽवसर॥७८॥

ससर्गेण गुणा अपि भवन्ति दोषास्तदद्भुत नैव
स्थितमधरे रमणीनाममृत चेतासि कलुषयति॥७९॥

लटहैर्युवतिकटाक्षैर्गाढमगुरुता जन स्वय नीत।
चित्रमिद ननु यत्ता पश्यति गुरुबन्धुमित्रेषु॥८०॥


रत तत्परम्। तावत्काल यावत्काल पुरुषाणा मुनीना वनितादृष्टिविष अवलोकनहाला हल मनसि चित्ते न विशति न प्रवेश करोति। रूपकालंकार॥

तावत्प्रवचनेत्यादि। तावत्काल प्रवचनस्य तत्त्वार्थश्लोकवार्तिकालकारादिशानस्य विषयो गोचरो भवति। तावत्काल परलोकस्य मोक्षस्य चिन्तनोपाय साधनो पायो भवति। तावत्कियत्। यावत्काल तरुणीविभ्रमहृतहृदयो न प्रजायेत तरुणीना नवयौवनाना स्त्रीणा विभ्रमै भ्रूक्षेपैर्हृत चारित हृदय मनो यस्य पुरुषस्य तरुणीविभ्रमहृतहृदय पुमान् न सजायेत न प्रभवेत्। जात्यालंकार॥

** गुरुवचनस्येत्यादि।** गुरुवचनस्य भट्टारकादेशस्य वृत्ति प्रवृत्तिस्तत्रतस्मिन् पुरुषे नास्ति न भवति। तत्र कुत्र। यत्र यस्मिन् पुरुषे स्त्रीभि सह सगमोऽस्ति भवति। अबलालापजलप्लवबधिरितकर्णे कुतोऽवसर अबलाना स्त्रीणा आलापा परस्परभाषणानि त एव जलानि पानीयानि तेषा प्लव पूरस्तेन बधिरितौ अश्रुतीकृतौ कर्णौ शब्दग्रहौयस्य स तस्मिन्। अवसर कुतो भवति अपि तु न कुतोऽपि अवसर। रूपकाक्षेपालंकार॥

ससर्गेणेत्यादि। संसर्गेण सङ्गत्वात् गुणा अपि ज्ञानविज्ञानादयोऽपि यत्त दोषा भवन्ति तदद्भुतमाचर्य नैव वर्तते। रमणीनां स्त्रीणामधरे अधस्तनदन्तवाससि स्थितं रहित अमृत पीयूष चेतासि हृदयानि कलुषयति विषमानवदचेतनानि करोति। दृष्टान्तालंकार। उक्त च ‘सुधा चन्द्रे न पाताले न कान्ताधरपल्लवे। सुधा यशोधराधीश तवारिकरपल्लवे॥

लटहैरिति। लटहैर्मनोहरैर्युवतिकटाक्षे स्त्रीणा लोचनापाङ्गदर्शनै कर्तृभूतैर्जनो लोक कर्मतापन्न गाढमतिशयेन अगुरुतानीतो लघुत्व प्रापित। कथम्। स्वयं आस्मनैव। ननु अहो इद प्रत्यक्षीभूत चित्रआश्चर्यम्। इद किम्। यत् यस्मात् कारणात् तां युवतिं गुरुबन्धुमित्रेषु दीक्षादातृसहाध्यायिअभीष्टवर्गेषु स्थितोऽपि सन् पश्यति विलोकते। जात्यालंकार॥

तस्मात्—

द्वयमेव तप सिद्धौ बुधा कारणमूचिरे।
यदनालोकन स्त्रीणा यच्च सग्लापन तनो॥ ८१॥

इति च विचिन्त्य, ‘तदलमत्र बहुप्रत्यूहव्यूहासाद्यया निषद्यया’ इति च निश्चित्य, परिक्रम्य च स्तोकमन्तरम्, सप्तजिह्वाजिह्मज्वालाजालाहुतीकृताकाशलावण्य श्मशानारण्य व्यलोकत॥

(स्वगतम्।) अहह, पश्यत सकलानामप्यमङ्गलानामसमसमीहाभवन पितृवनम्।

यत—

कालव्यालरदाडुरोद्भटभरै शल्योत्करे’ पूरित
कालग्राहविगीर्णफेनविकलैःकीर्ण शिरोमण्डलैः।


तस्मात् कारणात्। द्वयमिति। तप सिद्धौ तप प्रात्यर्थ द्वयमेव कारण बुधा विद्वास ऊचिरे प्रतिपादितवन्त। किं तत् हेतुद्वयम्। एक तावत् कारण यत् स्त्रीणामनालोकनमनिरीक्षणम्, द्वितीय यच्च तनो शरीरस्य संग्लापन तपोभि कुशीकरणम्। समुच्चयालंकार॥ इति विचिन्त्य श्मशानारण्य व्यलोकत। तथा च इति विनिश्चित्य श्मशानारण्य व्यलोकत। इतीति किम्। तत्तस्मात् कारणात् अत्र निषद्यया स्थानेनाल पूर्णम्। कथभूतया निषद्यया। बहुप्रत्यूहव्यूहा विघ्नसमूहा आसाद्या यत्र निषद्याया सा तथा तथा। पुनश्च किं कृत्वा। पूर्व स्तोकमल्प अन्तरं मार्ग परिक्रम्य गत्वा श्मशानारण्य व्यलोकत। कथभूत श्मशानारण्यम्। सप्तजिह्वा जिह्मज्वालाजालाहुतीकृताकाशलावण्यम् सप्तजिह्वस्य अग्नेरजिह्मा अकुटिला। उग्रतरा इत्यर्थ। या ज्वाला अर्चिषस्तासा जालानि समूहास्तेषु आहुतीकृत वषट्कृतम्। धूसरीकृतमित्यर्थ। आकाशस्य व्योम्नो लावण्य कान्तिर्यन तत्तथोक्तम्। स्वगत आत्मगत विचारयत्यार्य। अहह, पश्यत सकलानामप्य मङ्गलानामसमसमीहाभवन पितृवनम्। अहह इति खेदे, आश्चर्ये वा। पश्यत भो लोका, विलोकयत यूय पितृवन श्मशान सकलानामपि समग्राणामपि अमङ्गलानामश्रेयसामशुभानामसमसमीहाभवन विषमचेष्टागृहम्।

यतो यस्मात्कारणात्। कालव्यालेत्यादि। कथभूत पितृवनम्। शल्योत्करै पूरित शल्योत्करैरस्थिराशिभि पूरित भूतम्। कथभूतै शल्योत्करै। कालव्यालरदाङ्गुरोद्भटभरै कालो यम स एव व्यालो दुष्टगज। सर्वेषां संहारकारकत्वात्। तस्य रदादन्तास्तेषामङ्करा बालप्ररोहस्तेषा उद्घटो भयानको भरोऽतिशयो येषां शल्मोत्कराणां

कालव्याधविनोदपाशविवशै केशैश्चित सर्वत
कालोत्पात सकृत्प्रसूछदचयैश्छन्न च भस्मोच्चयै॥८२॥

इतश्च यत्र—

अर्धदग्धशवलेशलाल सैर्भण्डनोद्भटरटद्गलान्तरे।
कालकेलिकरकौतुकोद्यतैर्विश्वकद्रुभिरुपद्रुतान्तरम्॥८३॥

यत्र च—

श्येनकुल घूककुल द्रोणकुल श्वकुलभण्डनाद्भीतम्।
शवपिशितप्राशवशाद्दिवि भुवि च समाकुल पुरत॥८४॥


ते तथातै। अपर कथभूत पितृवनम्। शिरोमण्डले शुष्कमस्तकसमूहै। कपालवृन्दैरित्यर्थ। कीर्ण व्याप्तम्। कथभूते शिरोमण्डलै। कालग्राहविगीर्णफेनविकले कालो यम स एव ग्राहो मकर। सर्वेषा भक्षकत्वात्। तेन विगीणा उद्गीणा उद्द्घालिता ये फेना अस्थिकफास्तेविकलानि सदृशानि ते। यमेन पूर्व मृतकानि भक्षितानि, पश्चादुद्गाल कृत इत्यर्थं। अपर कथभूत पितृवनम्। केशै कुन्तलै सवत सवत्रचित जटित व्याप्तम्। कथभूतै केशै। कालव्याधविनोदपाशविवशे कालो यम स एव व्याधो लुब्धको नग (?) मृगमारकत्वात्। तस्य विनोदपाशा क्रीडापाशास्तैविवशा सदृशास्ते तथा तै। पुन कथभूत पितृवनम्। भस्मोचयैश्छन्न भसितराशिभिर्व्याप्तम्। चकार उक्तसमुच्चयार्थ। भस्मोच्चयै कथभूतै। कालोत्पात सकृत्प्रसूछदन्चयै कालो यम स एव उत्पातसकृत्प्रसू अशुभनिमित्तशुक्लकाकस्तस्य छदा पक्षास्तेषा चया समूहा राशयस्तत्सदृशै। रूपकालंकार॥

इतश्च एकस्मिन् पार्श्वे। यत्र श्मशानारण्ये। अर्धदग्धेत्यादि। विश्वकद्रुभिर्मृगयाकुशले कुकुरैरुपद्रुतान्तरं उपद्रव प्रापितमध्य वर्तते। कथभूतैविश्वकद्रुभि। अर्धदग्धशवलेशलालसे अर्धदग्धाना सामिभस्मीभूताना शवाना मृतकानां लेशेषु खण्डेषु लालसा अत्याकाङ्ख्यायेषां तै। पुन कथभूतैर्विश्वकद्रुभि। भण्डनोद्भटरटगलान्तरै भण्डने युद्धे उद्भटानि बद्धाटोपानि रटन्ति कुत्सित शब्द कुर्वन्ति गलान्तराणि कण्ठमध्यानि येषां ते तथा तै। पुनश्च कथभूतैर्विश्वकद्रुभि। कालकेलिकर कौतुकोद्यतै कालस्य यमस्य केलिकराणि क्रीडाविधायकानि यानि कौतुकानि विनोदास्तेषु उद्यता उद्यम प्राप्तास्ते तथा तै। जात्यालंकार॥

यत्र च श्मशानारण्ये। श्येनकुलमित्यादि। पुरत एकस्मिन् पार्श्वे दिवि आकाशे भुवि चभूमण्डले श्येनकुल शशादनसमूह, घूककुल काकारिवृन्दम्, द्रोणकुल काकसंवातसमाकुल किंकर्तव्यतामूढ वर्तते। कस्मात्। शवपिशितप्राशवशात्

इतश्च—

गृध्राघ्रातसमासकी कसरसस्रावोत्पथा पादपा,
प्रेतोपान्तपतत्पतत्रिपरुषप्राया प्रदेशा दिश।
एते च प्रबलानिलाश्रयवशाच्छीर्यच्छिखा सर्वत
ससर्पन्ति जरत्कपोतरुचयो धूमाश्चिताचक्रजा॥ ८५॥

इतश्च यत्र—

कालाग्निरुद्रनिटिलेक्षणदुर्निरीक्षा
कीनाशहोमहुतवाह विरुक्षवीक्षा।
दाद्रवच्छववपु स्फुटदस्थिमध्य-
प्रारब्धशब्दकठिना दहनाश्चितानाम्॥ ८६॥


मृतकमासभक्षणपराधीनत्वात्। कथभूत श्येनकुल घूककुल द्रोणकुल च। श्वकुलभण्ड नाद्भीतम् शुना कुर्कुराणां कुलस्य समूहस्य भण्डन परस्परं युद्ध तस्मात् श्वकुलभण्डनात् भीत भय प्राप्तम्। यथासख्यालंकार॥

इतश्च एकस्मिन् पार्श्वे। गृभ्राघ्रातेत्यादि। पादपा रक्षा कथभूता वर्तन्ते। गृध्राघ्रातसमास कीकसरसस्रावोत्पथा गृध्रैश्यामलिकाभिराघ्रातानि गृहीतानि समसानि मासस हितानि यानि कीकसानि अस्थीनि तेषा रसस्रावेण रसवर्षणेन उत्पाद्दाअमार्ग। तेषु पादपेषु सचरितु न शक्या इत्यर्थ। तथा दिश प्रदेशा दिङ्मण्डलस्थानानि कथभूता। प्रेतोपान्तपतत्पतन्त्रिपरुपप्राया प्रेताना मृतकाना उपान्तेषु समीपेषु पतन्त आगच्छतो ये पतत्रिण पक्षिणस्तै परुपप्राया कठिनप्राया।पुन कथभूता वृक्षा। प्रबलानिलाश्रयवशाच्छीर्यच्छिखा प्रबलश्चासावनिलस्तस्य आश्रयवशात् शीर्यच्छिखास्त्र्युठ्यच्छिखा। (इतश्च एकस्मिन् पार्श्व) एते प्रत्यक्षीभूताचिताचक्रजा मृताग्निसमूहसमुत्पना धूमा आयानामान सर्वत सर्वत्र संसर्पन्ति सम्यक्सरन्ति। कथभूता धृमा। जरत्कपोतरुचय जरता अतिवृद्धाना कपोतानां पारापताना रुचि शोभा येषा ते तथोक्ता। समुच्चयालंकार॥

इतश्चएकस्मिन् पार्श्वे यत्रश्मशानारण्ये। कालेत्यादि। चिताना मृतकाग्नीनां दहना वैश्वानराः। कथभूता कालाभिरुद्रनिटिलेक्षणदुनिरीक्षा कालाग्ने प्रलयकालस्य सबन्धी योऽसौ रूद्र श्रीमहादेवस्तस्य निटिलस्य ललाटपट्टस्य यदीक्षण लोचन तद्वत् दुर्निरीक्षा अवलोकितुमशक्या। अपरं कथभूताश्चिताग्नदहना। कीनाशस्य यमस्म संबन्धी योऽसौ होम आहुतिदान तस्य संबन्धी योऽसौ हुतवाहो वैश्वानरस्तद्वद्विशेषेण दक्षा निर्दया वीक्षा अवलोकनं येषां दहनानां तेतथोक्ता। भूयश्चकथंभूताश्चितानां।

इतश्च—

सर्वदेहभृतभस्मनिकाय प्रेतचीवरकरालितकाय।
कन्दलोल्बणवपु पवमान कीडति प्रमथनाथसमान॥८७॥

किं च—

भ्रश्यच्छरीरशवशीर्णशिरोजसार
कुथ्य कलेवरकरङ्कहतप्रचार।
दग्धार्धदेहमृतकाग्निमयप्रबन्धो
वात करोति ककुभोऽशुभगन्धबन्धा॥८८॥


दहना। दाहद्रवच्छववपु स्फुटदस्थिमध्यप्रारब्धशब्दकठिना दाहेन भस्मीकरणेन द्रवन्ति श्चोतन्ति यानि शवानां मृतकाना वपुषि शरीराणि तेषांस्फुटन्ति भेद प्राप्नुवन्ति यानि अस्थीनि हड्डानि तेषामध्ये अन्तरालेषु प्रारब्धा राभस्य प्राप्ता ये शब्दा कट करवास्तै कठिना कर्णस्फोटनप्राया। उपमालंकार। वसन्ततिलकाछन्द॥

इतश्च एकस्मिन् पार्श्व। यत्रश्मशानारण्ये। सर्वदेहेत्यादि। पवमानो वायु कीडति विहरति। कथभूत पवमान। यथोक्तविशेषणविशिष्ट प्रमथनाथसमान श्रीमहादेवसदृश। कथभूत पवमान प्रमथनाथश्च। सवदेहभृतभस्मनिकाय सवस्मिन् देहे विश्वस्मिन् शरीरे भूत आरोपितो भस्मनिकायो भसितसमूहो येन स तथोक्त। अपर कथभूत पवमान प्रमथनाथश्च। प्रेतचीवरकरालिनकाय। प्रेतानां मृतकानां। चीत्ररैकर्पेटै करालितो रौद्रीकृत काय देहो यस्य स तथा। पुनश्च कथभूत पवमान श्रीमहादेवश्च। कन्दलोत्बणवपु कन्दलेरुत्बणमुद्रिक्त वपु शरीर यस्य स तथोक्त। ‘स्वागतेति रनभाद्गुरुयुग्मम्’। उपमालंकार॥

कि च अस्ति कश्चिद्विशेष। भ्रश्यच्छरीरेत्यादि। यत्र श्मशानारण्ये वातो वायु कतृभूत ककुभो दिश कमतापन्ना अशुभगन्धबन्धा दुर्गन्धसहिता करोति विदधाति। कथभूतो वात। भ्रश्यच्छरीरशवशीर्णशिरोजसार भ्रश्यन्ति घटित्वाध पतन्ति शरीराणि येषां शवानां तानि भ्रश्यच्छरीराणि तानि च तानि शवानि मृतकानि तेषांशीणां शटित्वा पतिता ये शिरोजा केशास्त एव सारो धन यस्य वातस्य स तथोक्त। पुन कथभूतो वात। कुथ्यस्कलेवरकरङ्कहतप्रचार कुथ्यन्ति दुर्गन्ध प्राप्नुवन्ति यानि कलेवराणि तेषां करङ्कैशुष्कशरीरैरस्थित्वग्भूतदेहेर्हतो विनाशित प्रचारो गतिर्यस्य स तथोक्त। अपरं कथभूतो वात। दग्वार्धदेह मृतकाग्निमयप्रबन्ध दग्धा भस्मीभूता अधदेहा शरीराणि येषां तानि दग्धार्धदेहानि तानि च तानि मृतकानि चैषां संबन्धी योऽसौ अभिस्तेन निर्वृत्तोनिष्पन्नो दग्धार्धदेहमृतकाग्निमय प्रबन्धो यस्य वातस्य स तथोक्त। मधुमाधवीछन्द। रूपकालंकार ॥

इतश्च यत्र—

यान्युत्सवेषु कृतिना कृतमङ्गलानि
वाद्यानि मोदिजनगेयनिरर्गलानि।
तान्येव शोकवशबन्धुरवोद्धुराणि
नर्दन्ति सस्थितवता विरसखराणि॥ ८९॥

अपि च—

यमभुक्तिसमयपिशुन क्रव्यादसमाजसह्वयव्यसन।
जगदस्थैर्योद्घोष परासुतूरस्वर परुष॥ ९०॥

किं च—

अचिरेण तत्कुरुध्व यतो भवेन्नाजवञ्जवक्लेश।
नो चेदिय दशा वो भवितेति ध्वनति शवतूरम्॥ ९१॥


इतश्च यत्र एकस्मिन् पार्श्वे यत्र श्मशानारण्ये। यान्युत्सवेष्वित्यादि। यानि वाद्यानि उत्सवेषु पुत्रजन्मविवाहादिषु कृतिना पुण्यवता कृतमङ्गलानि सजातानि। श्रेय स्कराणि सजातानि इति शेष। कथभूतानि वाद्यानि। मोदिजन गेयनिरर्गलानि मोदिनो हषवन्तो ये जना लोकास्तेषा गेयानि गीतानि निरर्गलानि अनिवारितानि येषु वाद्येषु तानि तान्येव वाद्यानि सस्थितवता सस्थिताना मृतकानां सबन्धीनि विरसस्वराणि निरसशब्दानि नर्दन्ति कुत्सितान् शब्दान् कुर्वन्ति। कथभूतानि वाद्यानि। शोकवश बन्धुरवोद्धुराणि शोकस्य शोचनस्य वशा नाथवन्तो ये बन्धव कुटुम्बवगास्तेषा रवेरटनै शब्दैरुद्धुराणि उत्कटानि। मधुमाधवीछन्द। जात्यलंकार॥

अपि च तथैव च। यमभुक्तीत्यादि। परासुतूरस्वरो मृतकवादित्रशब्द परुष कर्णस्फोटनप्रायत्वात् कठिनतर। कथभूत परासूतूरस्वर। यमभुक्तिसमयपिशुन यमस्य धर्मराजस्य भुक्तिसमयो भोजनकालस्तस्य पिशुन सूचक। अपरं कथभूत। क्रव्यादसमाजसह्वयव्यसन क्रव्यादाना राक्षसाना समाज समूह तस्य सहये आह्वाने व्यसन आसक्तिर्यत्र परासुतूरस्वरे यस्य स तथा। भूयश्च कथभूत। जगदस्थैर्याद्घोष जगत संसारस्य अस्थैर्य अध्रुवत्व तस्य उद्घोष वुम्बा (?) पात स तथा। भार्या। रूपकालंकार।

कि चअस्ति कश्चिद्विशेष। अचिरेणेत्यादि। शवतूरं मृतकवादित्रमितीदृश ध्वनति सूचयति—अचिरेण शीघ्रतया। तत्किमपि समीचीन कर्म हे भव्या यूयंकु-

इतश्च यत्र—

अस्तोकशोकवशिकाशयशीर्णशङ्कै-
र्लोकैश्चिताचरितबान्धवसनिवेशै॥
मुक्ता न कस्य हृदय परिखेदयन्ति
बाष्पोद्गतिस्खलित वेगवशा विलापा॥९२॥

इतश्च यत्र—

कलिकालकायकाला शोकादिव दहनबान्धवक्षयजात्।
अङ्गारा शल्यधरा क्षयक्षपातारकाकारा॥९३॥


रुध्व कुर्वन्तु भवन्त। तत्किम्। यतो यस्माच्छुभकर्मण सकाशात् आजवञ्जवक्लेश ससारदु स न भवेत् न जायेत। नो चेत् यदि शुभ कर्म न करिष्यन्ति भवन्तस्तहि इय प्रत्यक्षीभूता मृतकस्य दशा अवस्था वो युष्माक भविता भविष्यति। उपमेव॥

इतश्च यत्र।अस्तोकेत्यादि। लोकैजनै मुक्ता उच्चे शब्दिता विलापा रोदनध्वनय क्स्य पुरुषस्य हृदय मनो न परिखेदयन्ति न दुःखजनयन्ति। अपि तु सर्वस्यापि हृदय दुःखयन्ति। कथभूतैर्लोके।अस्तोकशोकवशिकाशयशीर्णशङ्कैअस्तोक प्रचुरतरो योऽसौ शोक पश्चात्तापस्तेन वशिक शून्यो योऽसावाशयश्चित्त तेन शीर्णां शतखण्डीभूता शङ्का गुवादिभवो विचारो येषां लोकानां ते तथोक्ते। अपरं कथभूतैर्लोकै। चिताचरितबा धवसनिवेशै चिताया मृतकाग्नौआचरितो रचितो बान्धवस्य बन्धुवर्गस्य सनिवेश समारोपण यैस्ते तथोक्तै। कथभूता विलापा। बाष्पोद्गतिस्खलित वेगवशा बाष्पाणामश्रुजलानामुद्धतिरुत्पत्तिस्तया स्खलितो अवष्टब्धो योऽसौ वेगो रयस्तस्य वशा नाथव तस्ते तथोक्ता। वसन्ततिलका। आक्षेपालंकार।

इतश्च यत्र श्मशानारण्ये। **कलिकालेत्यादि।**अङ्गारा मुर्मुरा शल्यधरा अस्थिधरा वर्तन्ते। कथभूता अङ्गारा। कलिकालकायकाला कलिकालो दुःखसम [य] कालस्तस्य काय स्वरूप तद्वत् काला कृष्णवर्णा।कस्मात् काला अङ्गारा सजाता। उत्प्रेक्षते— दहनबान्धवक्षयजात् शोकादिव दहनो वैश्वानर स च बान्धव कुटुम्बवर्गस्तस्य क्षये विनाशे जायते उत्पद्यते दहनबान्धवक्षयजस्तस्मात्। ‘सप्तमी पञ्चम्यन्ते जनेर्ड’(?)। पश्चात्तापादिव। कथभूता अपारा क्षयक्षपातारकाकारा क्षयस्य प्रलयस्य क्षपा रात्रिस्तस्या संबन्धिन्यो यास्तारकाश्चान्द्रायण्यस्तासामाकारा येषां अङ्गाराणां ते तथोक्ता।अर्थानुत्प्रेक्षालंकार॥

इतश्च यत्र—

दन्तोत्कीलित शुष्ककीकसकलाकीलोद्दलत्तालुका
कण्ठान्त प्रविलग्नशल्यशकलोद्गालस्खलत्कुक्षय।
प्रेतप्रान्तपुराणपादपपतत्पत्र प्रदुष्यद्दृश
प्रभ्राम्यन्त्यविशङ्कफेरकृति कृतिक्षीबा शिवा सोद्भवा॥ ९४॥

इतश्च—

कथ नामेयमनङ्गग्रहग्रहिललोकलोचनानन्दचन्द्रिका चेतोभवानुचरमानवमनोमर्कटक्रीडावनविहारवसति-र्युवतिरुड्डीनान्तरात्महसा गण्डमण्डलावासवायसपक्षप्रान्तापादितावतसा इदमवस्थान्तरमवातरत्॥


इतश्च यत्र दन्तोत्कीलितेत्यादि। शिवा शृगाल्य प्रभ्राम्यति पर्यटन्ति। कथभूता शिवा। दन्तोकीलित शुष्क की कसकला कीलोद्दलत्तालुका दन्तेषु दशनेषु उत्कीलिता क्षुब्धाया शुष्ककीकसस्य कला निर्मासहड्डस्य खण्डा सैव कील शङ्कुस्तेन उद्दलद्विदार्यमाण तालु काकुद यासा तास्तथोक्ता। अपरं कथभूता शिवा। कण्ठान्त प्रविलग्नशल्यशकलोद्गालस्खलत्कुक्षय कण्ठस्य गलस्य अन्तर्मध्ये प्रविलग्न क्षुब्ध शल्यस्य अस्थनशकल खण्ड तस्य उद्गालेन उद्वमनेन स्खलन् चलन् कुक्षिरुदरं यासां शिवानां तास्तथा। अपर कथभूता शिवा। प्रेतप्रान्तपुराणपादपपतत्पत्रप्रदुष्यद्दृश प्रेताना मृतकाना प्रान्तेषु पुराणा जीर्णा ये पादपा वृक्षास्तेभ्य पतन्ति क्षरन्ति यानि पत्राणि छन्दास्तै प्रदुष्यन्त्यो विकृतिं प्रामुव त्यो दृशो लोचनानि यासा ता। अपरं कथभूता शिवा। यथोक्तविशेषणविशिष्टा। अविशङ्कफेतत्कृतिकृतिक्षीबा अविशङ्क निर्भय यथा भवत्येव या फेत्कृतिकृति फेत्कारकरण तथा तस्या वा क्षीवा मत्ता। पुनश्च कथभूता। सोद्धवा सगर्वा। शार्दूलविक्रीडितम्। जात्यलंकार॥

इतश्च एकस्मिन् पार्श्वे ‘मृता स्त्रिय श्मशाने पतिता दृष्ट्वाभगवानिति विचारयति’ (इति49 सोपस्कारवचन संबन्धनीयम्)। इतीति किम्। कथ केन प्रकारेण। नामेति संभावनायाम्। युवतिर्नवयौवना स्त्री इद प्रत्यक्षीभूत अवस्थान्तरं जीवैदितरां दशां अवातरत् प्राप्ता। कथभूता युवति। अनङ्गप्रहप्रहिल लोकलोचनानन्दचन्द्रिका अनङ्गकन्दर्प स एव ग्रह पिशाच। लोकानां प्राथिल्यजनक्वत्वात् चित्तविभ्रमकारित्वा च। तेन महिला विकलमूर्तयो ये लोका पञ्चजनास्तेषां लोचनानां नेत्राणां आनन्दाय आह्लादनोत्पादनार्थ चन्द्रिका चन्द्रज्योत्स्ना। अपरं कथभूता युवति। चेतोभवानुचरमानवमनोमर्कटक्रीडा वनविहारवसति चेतोभव कन्दर्पस्तस्य अनुचरा दासा एव

तथा हि—

या पूर्वं स्मरकेलिचामररुचि कर्णावतसोत्पल-
श्लिष्टेन्दिन्दिरसुन्दरद्युतिरभूद्गण्डस्थली मण्डनम्।
सेय कु तलवल्लरी पितृवने वातेरिता साप्रत
धूलीधूसरिता दधाति विसरत्समार्जनीचेष्टितम्॥ ९५॥

ये पूर्व कामकोदण्डकोटिप्रकटविभ्रमे।
ते सप्रति भ्रुवौ जाते शुष्कवल्लूरकल्मषे॥ ९६॥


ये मानवा मनुष्यास्तेषा मनश्चित्त तदेव मर्कटो वानर। चपलस्वभावत्वात्। तस्य क्रीडावनविहाराय विनोदारण्यपर्यटनाय वसति स्थानम्। अपर कथभूता युवति। उड्डीनान्तरात्महसा उड्डीन पलायितोऽन्तरात्मा जीव एव हसो मानसौका यस्या सा उड्डीमान्तरात्महसा। अपर कथभूता युवति। गण्डमण्डलावासवाय सपक्षप्रान्तापा दितावतसा गण्डमण्डल कपोलस्थल आवासो मालक यस्य स गण्डमण्डलावास स चासौ वायस काक्स्तस्य पक्षप्रान्तेन पत्त्राग्रण आपादित रचित अवतस कर्णपूरो यस्या सा तथा। किमिव अवस्थान्तर अवातरत् इत्युक्ते— तथा हि तदेवावस्थान्तरं निरूपयति। रूपकालंकार॥

या पूर्वमित्यादि। या कुन्तलवल्लरी केशवल्ली पूर्वं जीवदवस्थाया गण्डस्थलीमण्डन अभूत् कपोलस्थलभूषण सजाता। कथभूता कुन्तलवल्लरी। स्मरकेलिचामररुचि स्मरकैलिषु कामक्रीडासु चामररुचि प्रकीर्णकवच्छोभिता। कन्दर्पस्य चामरं कृष्णमेव भवति यत। अपरं कथभूता कुन्तलवल्लरी। कर्णावतसोत्पलश्लिष्टेन्दिन्दिरसुन्दरद्युति कर्णावतस कर्णपूरीकृत यदुत्पल कुवलय तत्र श्लिष्टा आलिङ्गन प्राप्ता ये इन्दिन्दिरा भ्रमरास्तद्वत् सुन्दरा अतिमनोहरा द्युति शोभा यस्या सा तथा। सा पूर्वाक्तलक्षणा। इय प्रत्यक्षीभूता कुन्तलवल्लरी पितृवने श्मशानारण्ये वातेरिता वातप्रेरिता सती वूलीधूसरिता च सती वूलीभिरीपत्पाण्डुरा च सती साप्रतमिदानीं विसरत् संमार्जनीचेष्टित दधाति विसरन्ती प्रसर ती त्रुट्यन्ती वा या समार्जनी बहुकरी तस्माचेष्टित आचारं दधाति धरति। शार्दूलविक्रीडितम्। उपमालंकार॥

ये पूर्वमित्यादि। ये भ्रुवौ चिल्लयोपूर्व जीवदवस्थायाकामकोदण्डकोटिप्रकटविभ्रमे कामस्य कन्दर्पस्य कोदण्ड धनु तस्य कोटीअग्रेतयोरिव प्रकट स्फुट विभ्रम उपमा यथोस्ते तथोक्ते जाते वभूवतु। ते भ्रुवौ सप्रति इदानीं शुष्कवल्लूरकल्मषे जाते शुष्कमांसवर्तिके इव जाते। वस्तु (?) छन्द। उपमालंकार॥

ये नीलरतरत्नान्तचन्द्रकान्तदशे दृशौ।
ते जीर्णोदञ्चनच्छिद्रद्रवबुद्बुदसनिमे॥९७॥

ये कलाकेलिदोलाभे मुखलक्ष्मीलतोपमे।
ते श्रुती विचटन्नद्धनाध्रीरन्ध्राधमस्थिती॥९८॥

कस्तूरिकातिलकपत्रविचित्रितश्री-
र्योऽभून्मृगाङ्क समकान्तिरय कपोल।
सोऽद्य च्छविं वहति वायसबालभुक्त
कोथप्रदीर्णतनुतुम्बफलोपमेयाम्॥९९॥


ये नीलेति। ये दृशो ये लोचने [पूर्व] नीलरक्तरत्नातचन्द्रकान्तदशे नीले कृष्णवर्णे रक्ते कोकनदच्छविनी ते च ते रत्ने माणिक्ये तयोर ते प्रान्ते ये चन्द्रकान्ते रत्ने तयोर्दशा अवस्था ययोस्ते नीलरतरत्नान्तच द्रकान्तदशे जज्ञाते। त दशौते लोचने कथभूते सजाते। जीर्णोदञ्चनच्छिद्रद्रवबुद्वुदसानेभे जीर्ण शटिते उदश्चलेनालिकेरफले [ये छिद्रे] रोके तयोरिछद्रयोर्विपये योऽसौ द्रवो दुर्गन्धनियासस्तस्मिन् यौ बुदौ जलस्फोटौ ताम्या सनिभे सदृशे। उपमालंकार॥

ये कलेति। ये श्रुती पूर्व कथभूते जाते। कलाकेलिदोलाभे कलाना सि (लि)खितपठितादीना केलिदाले क्रीडाप्रेङ्खेतयोराभा शोभा ययो श्रुत्योस्ते तथोक्त। अपरं कथभूते श्रुती। मुखलक्ष्मीलतोपमे मुखस्य वक्रस्य लक्ष्मी शोभा तस्या लते वल्ल्यौतयोरुपमा सादृश्य यथोस्ते तथोक्ते। ते श्रुती इदानी मृतावस्थाया कथभूते सजाते। विचटन्नद्धवाधीरन्ध्राधमस्थिती विचटन्ती स्फुटन्ती नद्वाबन्धन प्राप्ता या वाध्रीचमरज्जुस्तस्या रन्ध्र छिद्र तद्वदवमा निकृष्टा स्थितिव्यवस्था ययो श्रुत्योस्ते तथोक्ते। उपमेव वा॥

कस्तूरिकातिलकेत्यादि। य कपोल अय प्रत्यक्षीभूत मृगाङ्कसमकान्ति मृगाङ्कस्य च द्रस्य समा कान्ति शोभा यस्येति स तथा। कथभूत कपोल। कस्तूरि कातिलकपत्रविचित्रितश्रीकस्तूरिकाया मृगमदस्य या तिलक पत्त्रावलिका तेन विचित्रिता श्री शोभा यस्येति स तथोक्त। इत्यनेन चन्द्रस्य लावण्य सूचितम्। स जगत्प्रसिद्धोऽय प्रत्यक्षीभूत कपोल वायसबालभुक्त काकशावकभक्षितः सन् अद्य इदानी छविं शोभां वहति इति। कथभूता छविशाभां विदधति धरति। कथभूतां छविम्। कोयप्रदीर्णतनुतुम्बफलोपमेयाम् कोथेन कुष्ठेन प्रदीर्णा छिद्रिता कोरिता तनु शरीरं यस्य तस्य तच ततुम्बफल दौग्धिकसस्य तेन उपमेया उपमा प्रापणीया उपमातुमारब्धा या छवि सा तथा ताम्। उपमालंकार॥

या कामकेली शुकतुण्डकान्ता पातु मुखामोदमिवायताभूत्।
सा गन्धवाहा विवरावशेषनिवेशनिर्गच्छदतुच्छपूया॥ १००॥

यत्राधरेऽमृतधिया नवपल्लवाभे
काम कृतार्थहृदय समपादि लोक।
सोऽजस्रविस्रविवशस्रुतपूयपूर-
पर्यन्तवृत्तिरधरत्वमगण्यमागात्॥ १०१॥

या चन्द्ररत्नाङ्कुरसनिवेशा मूले श्रिता शोणमणिद्रवेण।
सा दन्तपङ्क्ति करपत्रवक्रश्यावच्छवि क न दुनोति लोकम्॥१०२॥


या कामकेलीत्यादि। या गन्धवाहा या नासिका आयता अभूत् दीर्घा सनाता। कि कुवती आयता अभूत्। उत्प्रेक्षते— मुखामोद मुखकमलपरिमल पातुमिवगन्धोपादान कर्तुमिव। कथभूता गन्धवाहा। कामकेलीशुकतुण्डकान्ता कामस्य कन्दर्पस्य केलीशुक क्रीडाकीरस्तस्य तुण्डवन्मुखवत् कान्ता मनोहरा। सा गन्धवाहा कथभूता सजाता। विवरावशषनिवेशनिर्गच्छदतुच्छपूया विवरस्य छिद्रस्य अवशेष उद्धारो योऽसौ निवेश स्थान तस्मान्निगच्छत् निर्गलत् अतुच्छ प्रचुर पूय नष्टरुधिर यस्या यस्या वा सा तथोक्ता। उत्प्रेक्षोपमालंकार॥

यत्रा धरेत्यादि। यत्र यस्मिन् अधरे दन्तच्छदे अमृतधिया अमृतपानबुद्ध्या काम यथेष्ट लोक कामुकजन कृतार्थहृदय कृतकृत्यमना समपादि जात। कथभूते अधरे। नवपल्लवाभे प्रत्यप्रवालसदृशे। स अधर अगण्यमपर्यन्त अधरत्व निकृष्टत्व आगात् सप्राप्त। कथभूतोऽघर। अजस्रविस्रविवशतपूयपूरपर्यन्तवृत्ति अजस्र निरन्तर विस्रमपक्वविड्गन्ध विवशेन परवशेन स्रुत निर्गलित यत्पूय नष्टरुधिर तस्यापूर प्रवाह पर्यन्तवृत्तौ प्रान्तस्थाने यस्याधरस्य तथोक्त। उपंमालकार॥

** या चन्द्रेत्यादि।** या दन्तपङ्क्तिर्देशनावलि चन्द्ररत्नानि चन्द्रकान्तमणयस्तेग्रामङ्कुरा अभिनवोद्भिदस्तद्वत्सनिवेशो रचना यस्या दन्तपते सा तथोक्ता। अपर कथभूता दन्तपङ्क्ति। शोणमणिद्रवेण पद्मरागरत्न रसेन मूले अधस्तनभागे श्रिता आश्रिता सजाता सा दन्तपङ्क्ति क लोक न दुनोति। अपि सवलोक सतापयतीत्यर्थ। कथभूता दन्तपङ्क्ति। लोकानामुद्वेगकारण गर्भित विशेषणमाह – करपत्रवक्रश्यावच्छवि करपत्त्रस्य क्रकचस्य यद्वक्तमुख तद्वत् श्यावा कदमाभा छवि शोभायस्या सा तथोक्ता। आक्षेपोपमालंकार॥

य कण्ठः कम्बुसकाश कलकोकिलनिखन।
स विशीर्णशिरासधिर्जरत्पञ्जरता गत॥ १०३॥

यौ हार निर्झरलसन्नवपत्त्रकान्तौ
क्रीडाचलाविव मनोजगजस्य पूर्वम्।
तौ पूतिपुष्पफलदुष्टदशाविदानीं
वक्षोरुहौ बलिभुजा बलिपिण्डकल्पौ॥ १०४॥

लावण्याम्बुधिवीचिकोचितरुचौ हस्तौ मृणालोपमौ
कामारामलताप्रतानसुभगौ प्रान्तोल्लसत्पल्लवौ।
यौ पुष्पास्त्र पिशाचबन्धविधुरौ लीलाविलासालसौ
तौ जातौ गतजङ्गलौप्रविजरत्कोदण्डदण्डद्युती॥ १०५॥


** य कण्ठ इत्यादि।** य कण्ठो गलकन्दली पूर्व कम्बुसकाशो नारायणकरशङ्क सदृश सजात। पुनश्च कथभूत कण्ठ। कलकोकिलनिस्वन। कलो मधुर कोकिल स्व निस्वन शब्दो यस्य कण्ठस्य स तथोक्त। स कण्ठ विशीर्णशिरासधि विशीणा शटिता शिराणा नहारूणां सधि यस्य स विशीर्णशिरासधिर्विघटितस्रसासंधान सन् जरत्पञ्जरतां जीर्णपक्षिग्रहोपमान गत प्राप्त। उपमालंकार॥

यौ हारेत्यादि। यौ वक्षोरुहौस्तनौ पूर्व जीवदवस्थाया मनोजगजस्य कन्दर्पयूथनाथस्य क्रीडाचलाविव केलिपर्वतसदृशौ सजातौ। कथभूतौ वक्षोरुहौ। अचलधमगर्भित विशेषणमाह—हारनिर्झरलसन्नवपत्त्रकान्तौ हारो मुक्ताफलमाला स एव निर्झरो जलपूरनिर्गमो लसच्छोभमान नवपत्र प्रत्यग्रपत्त्रावली हारनिर्झरश्च लमन्नवपत्रे ताभ्यां कृत्वा कान्तौ मनोहरौ। तौ वक्षोरुहौ इदानीं अधुना [ पूति] पुष्पफलदुष्टदशौ सन्तौ [ पूति यत् ] पुष्पफल कपित्थफल तद्वद् दुष्टा दशा अवस्था ययोस्तौ। कथभूतौ। बलिभुजां काकानां बलिपिण्डकल्पौ काकाय बलिदानाय यो पिण्डौ भक्तप्रासौ ताभ्यां कल्पौ सदृशौ। उपमालंकार॥

लावण्येत्यादि। यौ हस्तौ पूर्व कथभूतौ जातौ। लावण्याम्बुधिवीचिकश्चितरुचौ लावण्य कान्तिर्लावण्यमेवाम्बुधि समुद्रस्तस्य व्रीचिका लहरी तद्वत् उचिता योग्या रुक्शोभा यथोस्तौ। अपरं कथभूतौ हस्तौ। मृणालोपमौ मृणालस्य पद्मि नीकन्दस्य उपसा यथोस्तौ। अपरं कथभूतौ कामारामलताप्रतानसुभगौ कामा कन्दस्य आराम उपवन तस्य संबन्धी योऽसौ वल्लीविस्तारस्तद्वत् सुभगो प्रीत्युत्पादकौ। अपरं कथभूतौ हस्तौ। प्रान्तोल्लसत्पल्लवौ प्रान्तयो पर्यन्तयोरुल्लसन्तौ पल्लवौप्रवालौयथोस्तौ। अपरं कथभूतौ। पुष्पास्त्रपिश्मचबन्धविधुरौ पुष्पास्त्र, कन्दर्प स एव

य कृशोऽभूत्पुरा मध्यो वलित्रयविराजित।
सोऽद्य द्रवसो धत्ते चर्मकारदृतिद्युतिम्॥ १०६॥

केलिवापीव कामस्य नाभी गम्भीरमण्डला।
यासीत्सा निर्गतान्त्रान्ता खपत्सर्पबिलाविला॥ १०७॥

या कामशरपुङ्खाग्रसमग्राभोगनिर्गमा।
सार्धदग्धाजिन प्रान्तविवर्णा तनुजावली॥ १०८॥

स्मरद्विपविहाराय यज्जात जघनान्तरम्।
तद्गलत्क्लेदविक्लिन्न जघन्यत्वमगात्परम्॥ १०९॥


पिशाचो ग्रहो ग्राथिल्यकारित्वात् तस्य बन्धविधुरौ बन्धनसदृशौ। अपरं कथभूतौ हस्तौ लीलाविलासालसौ लीलाविलासे कामक्रीडाविस्तारे अलस आलस्य ययोस्तौ तथोक्तौ। तौ हस्तौ इदानी कथभूतो जातौ। गतजङ्गलो मासरहितौ सन्तौ। प्रविजरत्कोदण्डदण्डद्युतीप्रकर्षेण विशेषेण च जरत् जीर्ण भवत् यत्कोदण्ड धनुस्तस्य दण्डो यष्टिस्तद्वत् द्युति शोभा ययोस्तौ। उपमालंकार॥

य कृश इत्यादि। यो मध्यो मध्यप्रदेश पुरा पूर्व कृशौ मुष्टिमध्य समेयोऽभूत् बभूव। कथभूतो मध्य। वलित्रयविराजित वलित्रयेण रेखात्रयेण विशेषेणराजित शोभित। स मध्य अद्य इदानीं द्रवदस प्रवहत्प्रथमधातु सन् चर्मकारदृतिद्युति धत्ते चर्मकारस्य पादुकृतो या दृतिश्चर्मप्रसेविका तस्या द्युतिंशोभां धत्ते धरति। उपमालंकार।

केलिवापीत्यादि। या नाभी तुन्दिका गम्भीरमण्डला अगमन (अगाध) मध्या आसीद्बभूव। कथभूता नाभी। कामस्य कन्दर्पस्य केलिवापीव क्रीडादीर्घिकेव। सा नाभी निगतान्त्रान्ता सती बहिर्निर्गतपुरीतत् प्रान्ता सति स्वपत्सर्पमिलाविला स्वपन्तो निद्रा कुर्वन्तो ये सर्पा दीर्घपृष्ठास्तेषा बिल छिद्र तद्वत् आविला अतुच्छा जाता। उपमालंकार॥

** या कामशरेत्यादि।** या तनुजावली रोमराजी कामशरपुङ्खाग्रसमग्राभोगनिर्गमा पूर्वे जाता काम कादपस्तस्य शरो बाणस्तस्य पुङ्ख काण्डमूल तस्य अग्र प्रातस्तद्वत् समग्रपरिपूर्ण आभोगनिगम परिपूर्णताप्रादुर्भावो यस्यास्तनुजावल्या सा तथोक्ता। सा तनुजावलि इदानीं कथभूता जाता। अर्धदग्धा जिनप्रान्तविवर्णा अर्ध सामिदग्ध भस्मीभूत अजिन चर्म तस्य प्रान्तवत् पर्य तवत् विरूपको वर्णोरूप यस्या सा तथोक्ता जाता। उपमालंकार॥

स्मरद्विपेत्यादि। यज्जघनान्तरं कठ्यग्रमण्डल स्मरद्विपविहाराय जातम्। स्मर कन्दर्पः स एव द्विपो गज सर्वेषां घातकत्वात् तस्य विहार पर्यटनं स्मरद्विपविहाराय

या कामकलभालानस्तम्भिकेवोरुवल्लरी।
सा श्वनिर्लूनलावण्या वानवेणुपरप्रभा॥ ११०॥

ये पूर्व स्मरशरधी श्लक्ष्णच्छविवर्तिते सुवृत्ते च।
कोलिकनलकाकारे ते जङ्घेसाप्रत जाते॥ १११॥

यत्रालक्तकमण्डन विरचित यत्रालितौ नूपुरौ
यत्रासीन्नवमौक्तिकावलिकलाकान्ता नखाना तति।
यत्राशोकदलोच्चयश्च समभूत्क्रीडाविहारोचित-
स्तावेरण्डजरण्डकाण्डपटलप्रस्पष्टचेष्टौ क्रमौ॥ ११२॥


क्लिन्नम् गलता निगलता क्लेदेन पूयादिना आर्द्रभावेन विक्लिन्न विरूप भिन्न सत् पर उत्कृष्ट जघन्यत्व निकृष्टत्व अगात् जगाम। उपमालंकार॥

या कामकलभेत्यादि। या ऊरुवल्लरी सविथलता कामक्लभालानस्तम्भिकाइव संजाता। कामकन्दर्प स एव कलभो गजबालको लोकाना मारणहेतुत्वात् तस्य आलानस्तम्भिका बन्धनलघुस्तम्भस्तद्वत्सजाता। सा ऊरुवल्लरी इदानीं कथभूता स जाता। श्वनिलूनलावण्या सती श्वभि सरमासुतै निर्लुन समूलोत्काषित लावण्यं कान्तिर्यस्या ऊरुवल्लर्या सा तथा श्वनिर्लूनलावण्या सती। कीदृशी जाता। वानवेणुवत्जीर्णवशवत् परा अनन्याद्दशी प्रभा यस्या सा वानवेणुपरप्रभा। उपमालंकार॥

** ये पूर्वमित्यादि।** ये जङ्घे पूर्वं चैतन्यकाले स्मरशरधी कामेषुधिसमाने जाते। कथभूते जङ्घे। श्लक्ष्णच्छविवर्तिते श्लक्ष्णया मनोहरया छव्या कान्त्या वतिते लिप्ते। पुनश्च कथभूते। सुवृत्ते गोपुच्छवद्वर्तुलाकारे। ले जङ्घे ते प्रसते सांप्रतमिदानीं अचैतन्यकाले कोलिकस्य तन्तुवायस्य कुविन्दस्य यन्नलक तन्तुमोचनोपकरण सापिकेति देश्याम् तस्य आकारो मूर्तिययोर्जङ्घयोस्त्रे तथोक्ते। उपमालंकार॥

यत्रालक्तेत्यादि। यत्र ययो क्रमयो आलक्तकमण्डन लाक्षारसभूषण विरचित निष्पादितम्। यत्र ययो क्रमयोर्नूपुरौ मञ्जीरौआलितौ शब्दितौ। ययो क्रमयो नखानां तति पुनर्भवाना श्रेणि कामाङ्कुशानामावलिर्नवमौक्तिकावलिकलाकान्ता संजाता नवानि प्रत्यग्राणि यानि मौक्तिकानि मुक्ताफलानि तेषामावलि श्रेणिस्तस्य कला शोभा तद्वत्कान्ता मनोहरा। यत्र ययो क्रमयो अशोकदलोन्त्य अशोक पल्लवप्रकर क्रीडाविहारोचितो लीलापर्यटनयोग्य समभूत्संजात। तौ क्रमौ एरण्डजरण्डकाण्डपटलप्रस्पष्टचेष्टौ एरण्डो वातारिवृक्षस्तस्य जरण्डकाण्डपटल। जीर्णस्कन्धप्रतरं प्रस्पष्टा प्रत्यक्षीभूता चेष्टा अवस्था ययोस्तौ तथोक्तौ[जातौ]। उपमानसमुच्चयालंकार॥

किं च—

या कौमुदीव सरसीव मृणालिनीव
लक्ष्मीरिव प्रियसखीव विलासिनीव।
तैस्तैर्गुणैरजनि सा सुतनु प्रजाता
प्रेतावनीवनवशा विवशा वराकी॥ ११३॥

यस्या केलिकलै कल कररुहै सीमन्तिता कुन्तला
यस्याश्चन्दनवन्दन प्रणयिभिर्भालान्तरे निर्मितम्।
यस्याश्चैणमदेन कामिभिरय चित्र कपोल कृत
सा खट्वाङ्गकरङ्कवक्त्रविकृतिं तत्रैव धत्तेऽद्भुतम्॥ ११४॥

या मानसकलहसी नेत्रोत्पलचन्द्रिका च या जगत।
सा कालमहाव्रतिना खट्वाङ्गकरङ्कता नीता॥ ११५॥


किं च अस्ति कश्चिद्विशेष। या कौमुदीत्यादि। या सुतनु शोभनशरीरा स्त्री तेस्तैर्जगत्प्रसिद्धै गुणै कान्त्यादिभिरजनि सजाता। कीदृशी अजनि। कौमुदीव चन्द्रज्योत्स्नेव। अपरं कथभूता अजनि। सरसीव लावण्यरसभूतत्वात् सरसीव अगाधसरोवरसदृशी। अपरं कथभूता। मृणालिनीव उत्फुल्ललोचनमुखत्वात् पद्मिनीव। अपरं कथभूता। सजाता लक्ष्मीरिव त्यागगुणोपेतत्वात्नारायणपत्नीव। अपरं कथभूता। प्रियसखीव प्रतिपन्नतायुक्तत्वात् वल्लभजनस्येव (?)। अपरं कथभूता। विलासिनीव चतुरालापोपेतत्वात् भामिनीव। सा सुतनु प्रेतावनी वनवशा सती श्मशानारण्य परवशा सती विवशा एकाकिनी वराकी चपेटिका प्रजाता। उपमालंकार॥

यस्या इत्यादि। यस्या स्त्रिया कुन्तला केशा कल मनोहर यथा भवत्येवं केलिकलैर्विटपुरुष कररुहै नखै कृत्वासीमां प्रापिता। यस्या स्त्रिया प्रणयिभि पुरुष स्नेहवद्भि पुरुषैर्भालान्तरे ललाटमध्ये चन्दनवन्दन चन्दनेन परमोत्तम चन्दनेन वन्दन तिलक निर्मित कृतम्। यस्या स्त्रिया कामिभि पुरुषैरय प्रत्यक्षीभूत कपोलो गण्डस्थल एणमदेन कस्तूरिकारङ्गेण चित्रोमनोहर कृत। सा स्त्री तत्रेव कुन्तलभालान्तरकपोलेषु खट्वाङ्गकरङ्कवक्त्रविकृतिं धत्ते खट्वाङ्गस्य ईषादे करङ्कस्य, वक्रस्य मुखस्य, विकृर्ति विकार धरति। अद्भुतमाश्चर्यमेतम्। उपमालंकार॥

या मानसेत्यादि। या स्त्री मानसे चित्ते सरोवरे कलहसी राजहसी जाता। या स्त्री नेत्रोत्पलाना लोचनकुवलयाना चन्द्रिका चन्द्रज्योत्स्ना विकासकारिणी जाता।

यदभ्यस्यति यो खोक स भवेत्तन्मय स्फुटम्‌।
प्रकामाभ्यस्तखट्वाङ्गेयुक्ता खट्वाङ्गता तत॥११६॥

लतिकेव प्रणयतरोर्यावनदेवीव केलिवनभूमे।
सा यमनृपतिविमुक्ता फेलेव प्राश्यते पतगै॥११७॥

जीवन्त्येषा यथैवासीत्सर्वस्यहृदयगमा।
मृताप्यभूत्तथैवेय दुस्त्यजा प्रकृतिर्यत॥११८॥

हसायित वदनपङ्करुहे स्मरार्ते—
र्यस्या गजायितमभूत्कुचकुम्भमध्ये।
एणायित च जघनस्थलमेखलाया
तस्या कलेवरममी निकपन्ति कङ्का॥११९॥

                    —————————————  

कस्य। जगत जगतिस्थितकामुकजनस्य। सा स्त्रीकालमहाव्रतिना यमचावाक्गुरुणा खट्वाङ्गकरङ्कतांनीता प्रापिता समुच्चयोपमालकार॥

यदभ्यस्यतीत्यादि। यो लोको यो जनो यद्वस्तु अभ्यस्यति अनुशीलयति स लोक स्फुट निश्चयेन तन्मयस्तद्वस्तुमयो भवति सजायते। तत्तस्मात्कारणात्‌ प्रकामाभ्यस्तखट्वाङ्गे जने खट्वाङ्गता युक्ता घटत एव। रूपकालकार। अथान्तरन्यासो वा॥

लतिकेवेत्यादि। या स्त्रीप्रणयतरो स्नेहवृक्षस्य लतिकेव वल्लीव सजाता। या स्त्रीकेलिवनभूमे50दनभूमे’इति सटीकपुस्तकपाठ .") क्रीडास्थानभूमिकाया वनदेवीव वनदेवतासदृशीसमाता। सा स्त्रीपतगै काकादिभि शकुन्तैप्राश्यते भक्ष्यते। कीदृशी। यमनृपतिविमुक्ताफेलेवयमराजभोजनोद्गारिता फेलेव भुक्तोषित(च्छिष्ट)मिव सजाता। उपमालकार।

जीवन्तीत्यादि। एषा स्त्रीयथव येनेव प्रकारेण जीव ती सती सवस्यलोकस्यहृदयगमा मनोवल्लभाआसीद्बभूव। तथव तनेव प्रकारेण इय स्त्रीमृतापि सती तथैव हृदयगभैव अभूद्बभूव। यतो यस्मात्कारणात्‌ प्रकृति स्वभावोदुस्त्यजा दुस्त्याज्या भवति। हृदयगम। मनस उद्वेगजननीत्यथ। अयान्तरयासालकार॥

**हसायितमित्यादि।**यस्या स्त्रिया। स्मरात पुरुषै कामपीडितैपुरुषैवदनपङ्करुहेमुखकमले हसायित हसेरिवाचरितम्‌। यस्या स्त्रिया कुचकुम्भमध्येस्तनकलशान्तरे गजायित गजैरिवाचरितमभूद्बभूव। यस्याजघनस्थलमेखलायां कव्यप्रभागकटिन्यां एणायित मृगैरिवाचरितमभूत्। तस्या स्त्रिया कलेवरंशरीरं अमीप्रत्यक्षीभूता कङ्काबका निकषन्तित्रोटयन्ति। समुच्चयोपमालकार॥

पाय पाय मधु मधुरदृक्पूर्वमुद्गर्वभावा—
त्स्मार स्मार वदति च कलया मुदा कुञ्चितभ्रू।
साद्यैतस्मिन्नपगतमनोमर्कटत्वादनीहा
प्रेतावासे निवसति गता भोज्यभाव शिवानाम्‌॥१२०॥

यामन्तरेण जगतो विफला प्रयासा
यामन्तरेण भवनानि वनोपमानि।
यामन्तरेण हतसगति जीवित च
तस्या प्रपश्यत जना क्षणमेकमङ्गम्‌॥१२१॥

आश्लिष्ट परिचुम्बित परमित यद्रागरोमाञ्चितै—
स्तत्ससारसुखास्पद वपुरभूदेव दशागोचरम्‌।
शीर्यच्चर्मचय पतत्पलभर भ्रश्यच्छिरापञ्जर
व्यस्यत्सधिबल गलन्नलकुलकुथ्यत्स्नसाजालकम्‌॥१२२॥

** ** ————————————————————————————

पायं पायमित्यादि। या मधुरदृक्मनोहरलोचना स्त्रीमधु मद्य पाय पाय पीत्वापीत्वापूर्वमुद्गर्वभावात्‌। स्मारं स्मार स्मृत्वा कलमधुर वदति च ब्रूते च। कया। मुदा हर्षण। सा कथभूता।कुश्चितभ्रूकुटिलभ्रूभागा। सा स्त्रीअद्य इदानीं एतस्मिन्‌ प्रत्यक्षीभूते प्रेतावासे श्मशाने निवसति तिष्ठति। कथभूता। अनीहा निश्चेष्टा। कस्मात्‌। अपगतमनोमर्कटत्वात्‌ नष्टचित्तवानरत्वात्‌। पुन कथभूता तिष्ठति। शिवाना शृगालीनां भोज्यभाव भोजनत्व प्राप्ता। उपमालकार॥

यामन्तरेणेत्यादि। या स्त्रीमन्तरेण विना जगतो जगति स्थितलोकस्यप्रयासा कष्टा विफला निष्फछा भवन्ति। या स्त्रीमन्तरेण विना भवनानि गृहाणि वनोपमानि अटवीसदृशानि भवन्ति। या स्त्रीमन्तरेण विनाजीवित प्राणित हतसंगति भवति मृतसदृश्च भवति। हे जनास्तस्यास्त्रिय अङ्गशरीर क्षणमेक मुहूर्तमेकं यावत्‌ तावत्प्रपश्यत अवलोकयत यूयम्। उपमालकार॥

आश्लिष्टमित्यादि। यद्वपुर्यच्छरीर क्षणमेक रागरोमाश्चितै पुरुषैरागेण कण्ट कितशरीरै पुरुषैराश्लिष्टबाहुभ्या गाढभालिङ्गितम्‌। यद्वपुपरिचुम्बित वक्रसयोगमानीतम्‌। यद्वपुपरमित स्मरमन्दिरकामलतासयोगमानीतम्‌। कथभूत यद्वपु। ससारसुखास्पदम्‌। आजव जवसातस्थानम्‌। तद्वपु तच्छरीरं एव दशागोचर इदृशीव्यवस्थाविषयोऽभूत्‌ बभूव। एव कथमिति चेत्‌। शीयच्चर्मचय शतखण्डीभवदजिनपटलम्‌। पतत्पलभरं गलन्माससारम्‌। भ्रश्यच्छिरापञ्जरम्‌ अध पतत्‌ नहारुबन्धनम्‌।

आ, कष्टादपि कष्टतरमहो सरविलसितम्‌।
इत्थमन्तर्दुरन्ताङ्गीबहिर्मधुरविभ्रमा।
विषवल्लीव मोहाय यदेषा जगतोऽजनि॥१२३॥

अपि च—

मायासाम्राज्यवर्याकविजनवचनस्पर्धिमाधुर्यधुर्या
स्वप्नाप्तैश्चर्यशोभा कुहकनयमयारामरम्योत्तरामा।
पर्जन्यागारसारास्त्रिदिवपतिधनुर्बन्धुराश्च स्वभावा—
दायुर्लावण्यलक्ष्म्यस्तदपि जगदिद चित्रमत्रैव सक्तम्‌॥१२४॥

——————————————————————————————————

व्यवस्यत्‌ सविबलनश्यत्‌ सश्लेषसारम्‌। गलनलकुल स्रवदस्थिसमूहम्‌। कुथ्यत्स्नसाजालकशटत्‌ सिराकुत्सितसमूहम्‌। रूपकालकार॥

आ कष्टादपि कष्टतरमहोस्मरविलसितम्। आ इति कोऽर्थ। श्रीसुदत्ताचायश्चिन्तयति। अहो लोका, अहो आश्चर्यवा, स्मरविलसित कन्दर्पचरित्रकष्टादपि कष्टतरं निन्द्यादप्यतिशयेन नि द्यम्‌॥

**इत्थमिति।**यत्‌यस्मात्‌ कारणात्‌ जगति स्थितलोकस्यएषा स्त्रीमोहाय अचैतन्योत्पादनाय अजनि सजाता। कथभूता एषा स्त्री। इत्थपूर्वोक्तप्रकारेण अन्तमध्ये दुरन्ताङ्गी दुष्टखभावशरीरा बहिर्बाह्ये मधुरविभ्रमा मनोहरत्वभ्रान्त्युत्पादिका। कथभूता। विपवल्लीसदृशा। यथा विषवल्लीअन्तर्मध्ये दुष्टस्वभावा भवति, बाह्येतु सुखादुभ

वति अचतन्य चोत्पादयति। उपमालकार॥

अपि च तथा च। मायासाम्राज्येत्यादि। आयुर्लावण्यलक्ष्म्य आयुश्च जीवितकाल, लावण्य च शरीरकान्ति‚लक्ष्मीश्चखापतेयम्‌, आयुरावण्यलक्ष्म्य। कथभूता। मायासाम्राज्यवर्याविद्याधरादिमायया कृत यत्साम्राज्य चक्रवर्तित्व तद्वत्वर्यामुख्या। मनोहरा इत्यर्थ। अपरं कथभूता आयुलावण्यलक्ष्म्य। कविजनवचनस्पविमावुर्यधुगाकविजनाना विद्वज्जनाना ये जना समूहास्तेषांवचनानि शृङ्गारादिरसबहुलानितैसहस्पर्धते उपमा धरति यन्माधुर्यमधुरत्व मिष्टत्वतस्मिन्‌ धुर्यामुख्यास्तास्तथोक्ता। पुन कथभूता। स्वप्नाप्तैश्वर्यशोभा स्वप्नेनिद्रायांआप्त प्राप्त मनसा लालित यदैश्वर्य राज्य तद्वत्शोभा यासामायुर्लावण्यलक्ष्मीणां तास्तथोक्ता। अपरं कथभूता। कुहकनयमयारामरम्योत्तराभा कुहकनय इन्द्रजालं तेन निर्वृत्तकुहकनयमयो योऽसावायम उद्यान वन तद्वत्रम्या अतिमनोहरा उत्तरा उत्कृष्टतरा आभा प्रतिभासा यासा तास्तथोक्ता। अपरं कथभूता। पर्जन्यागारसारा पर्जन्यस्यमेघपटलस्ययदागारं प्रासादस्तद्वत्सारोमनोहरत्वयासां तास्तथोक्ता। अपरंकथभूता। त्रिदिवपतिधनुर्बन्धुरा त्रिदिव स्वर्गस्तस्य पति स्वामी देवेन्द्रस्तस्व

हहो हृदय, स्वर दूरमन्वसर। तदलमवस्तुनि व्यासङ्गेन। इदमिह ननुप्रस्तुतमवधार्यम्‌—

‘नैवात्र सन्ति यमिनामुचितावकाशा
स्वाध्यायबन्धुरधरावसरा प्रदेशा।
वृदमहत्तपन एषतपत्युदार
वाताश्च वान्ति परित परुषप्रचारा॥१२५॥

किंच—

यन्‍मृतानामवस्थान तत्कथ जीवता भवेत्‌।
अन्यत्र शवशीलेभ्यको नामेहाग्रहस्तत॥१२६॥

————————————————————————————————————

धनुर्मेघपटलछस्थितचाप तद्वत्बन्धुरा मनोहरा। कस्मात्‌। स्वभावात्‌ प्रकृत्यैव अस्थिरत्वात्‌। तदपि तथापि इदप्रत्यक्षीभूत जगत्‌ पृथ्वीमण्डलस्थितलोकसमूह अत्रैव आयुर्लावण्यलक्ष्मीषु सक्तमनुबन्धपरं वर्तते। चित्रमाश्चयमेतदिति शेष। उपमालकार॥

हहो हृदय, स्वरं दूरमन्वसर। तदलमवस्तुनि व्यासङ्गेन। इदमिह ननुप्रस्तुत मवधार्यम्‌। हहोअहो हृदय आत्मन्‌, खरमतिशयेन दूरं विप्रकृष्ट अन्वसर (आजग्मियत्वम्‌।) किमित्येतावान्विचारस्त्वया कृत इत्यर्थ। तत्तस्मात्‌ कारणात्‌ अवस्तुनि आत्मातिरिक्तपदार्थे व्यासङ्गेन प्रसङ्गत्याअल पूर्णम्‌। ननु अहो हृदय, इहअस्मिन्‌ प्रस्तावे इद प्रत्यक्षीभूत प्रस्तुत प्रस्तावागत सुभापितमवधार्यज्ञातव्यम्‌। इद किमिति चेत्—नेवात्रेत्यादि। हहोहदय, अत्रश्मशानारण्ये यमिनां मुनीना उचितावकाशा योग्यावकाशा प्रदेशा स्थानानि नैव सन्ति नैव वर्तन्ते। ते केथभूता प्रदेशा। स्वाध्यायबन्धुरधरावसरा (निवर्तन्ते) स्वाध्याय वाचना प्रच्छनानुप्रेक्षाम्नायधर्मोपदेशलक्षण पञ्चविध तदर्थबन्धुरधरा क्षेत्रशुद्धिसयुक्तभूमि स्तस्या अवसर प्रस्तावो येषु प्रदेशेषु ते तथोक्ता। वृन्द सङ्घोगणो महत्‌ प्रचुरतरं वर्तते। एष प्रयक्षीभूतस्तपसाश्रीभास्कर उदारमुत्कृष्ट तपति संताप करोति। ललाट तपो वर्तते इत्यर्थ। वाताश्च वायव परित समन्तात्‌ परुषप्रचारा अतिकठिनवतिनो वान्ति समागच्छति। तेनात्रस्थातु न योग्यमिति भाव। समुच्चयालकार॥

किंच अस्तिकश्चिद्विशेष। यन्मृतानामित्यादि। यत्‌ अवस्थान मृतानां प्रेतानांवर्तते तदवस्थान जीवतां पुरुषाणां कथ केन प्रकारेण भवेत्सजायते। न कथमपि चेदित्यर्थ। कथम्‌। अन्यत्रविना। केभ्यो विना। शवशीलेभ्य शाकिनी— डाकिनीराक्षसान्‌ वर्जयित्वा इत्यर्थ। त एवात्रराक्षसादयस्तिष्ठन्ति इत्यर्थ। तत्त

पुनर्यावदय दिगन्तरालेषु लोचने प्रचारयति तावदुत्तरस्या हरिति राजपुरस्याविदूरवर्तिन मुनिमनोहरमेखलनाम खर्वतर पर्वतमपश्यत्‌। यखलुधम्मिल्लविन्यास इव नागनगरदेवताया, किरीटोच्छ्रय इवाटवीलक्ष्म्या, स्तनाभोग इव महीमहिलाया, क्रीडाकन्दुक इववनदेवताया, मातृमोदक इव दिग्बालकलोकस्य, ककुदोद्गम इव भूगोलगवेन्द्रस्य, द्वारपिधानस्तूप इव भुजङ्गभुवनस्य, यष्टयधिष्ठानबन्ध इव विहायोविदङ्गमस्य, त्रिविष्टपकुटनिर्माणमृत्पिण्ड इव प्रजापतिजनस्य, केलिप्रासाद इवककुप्पालककन्यकानिकरस्य, गतिस्खलनकोष्ट इवं कलिकालस्य, मान-

——————————————————————————————

स्मात्‌ कारणात्‌ इहअस्मिन्‌ स्थाने को नाम आग्रह को नाम निबन्ध। नकश्चिन्निर्बन्ध इत्यर्थ। आक्षेपालकार॥

पुन पुनरपि श्मशानावलोकनादनन्तरं यावत्कालअय भगवान्‌ दिगन्तरालेषु दिङ्मण्डलेषु लोचने द्वे नयने प्रचारयति, तावत्कालउत्तरस्यां हरिति कौबेर्योककुभि पर्वतमपश्यत्‌। कथभूत पर्वतम्‌। राजपुरस्यनगरस्यअविदूरवर्तिनं निकटतरम्‌। पुनश्च कथभूत पर्वतम्‌। मुनिमनोहरमेखलनामधेयम्‌। पुनश्च कथभूत पर्वतम्‌। खर्वतर ह्रस्वतरम्‌। य खलुधम्मिल्लविन्यास इव नागनगरदेवताया य पर्वतोनागनगरदेवताया भोगवतीपुरदेवताया खलुनिश्चयेन धम्मिल्लविन्यास इवकेशजूटइव। किरीटोच्छ्रय इवाटवीलक्ष्म्या अरण्यश्रिय किरीटोच्छ्रय इव मुकुटोच्चय इव। स्तनाभोग इवमहीमहिलाया पृथ्वीस्त्रिय स्तनाभोग इव कुचाटोप इव। क्रीडाकन्दुक इव वनदेवताया लीलागिरिक इव। मातृमोदक इव दिग्बालकलोकस्य दिग्बालकलोकस्यहरिड्डिम्भसमूहस्यमातृमोदक इव मातृभिर्दत्तोमोदक इव। ककुदोद्गम इवभूगोलगवेद्रस्य भूगोलगवेन्द्रस्य पृथ्वीपीठवृषभस्यककुदोद्गम इवस्कन्धोन्नतप्रदेशइव। द्वारपिधानस्तूप इव भुजङ्गभुवनस्य भुजङ्गभुवनस्य पाताललोकस्य द्वारपिधानस्तूप आवरणोच्चयइव। यष्टयधिष्ठानबन्ध इव विहायोविहङ्गमस्यविहायोविहङ्गमस्य आकाशपक्षिणयष्टयधिष्ठानबन्ध इवकाष्ठारोपणायस्थण्डिलमिव। त्रिविष्टपकुटनिर्माणमृत्पिण्डइवप्रजापतिजनस्यप्रजापतिजनस्यविधातृलोकस्य त्रिविष्टप त्रैलोक्य तदेव कुटो घटोजीवनाधारत्वात्तस्यनिर्माणे निष्पादने मृत्पिण्ड इव मृत्तिकाया पिण्डइव। केलिप्रासाद इव ककुप्पालककन्यकानिकरस्यककुप्पालककन्यकानिकरस्यदिक्पालकस्यासमूहस्यकेलिप्रासाद इव क्रीडासदनमिव। गतिस्खलनलोष्ट इध कलिकालस्यकलिकालस्य दु खभयकालस्य गतिस्खलने गमनस्खलने मृत्पिण्ड इव। मानस्तम्भ इवैकशिलाघटितारम्भः

स्तम्भ इवैकशिलाघटितारम्भ, शिवशातकुम्भप्रदेश इवविदूरितदयितासमावेश, अलोकाकाशइव विगतजन्तुजातावकाश‚तपश्चरणागम इव समुत्सारितवर्षधरसमागम, क्षप[ण]कश्रेणिरिव तप प्रत्यवायरहितक्षोणि, महावृत्तप्रस्तार इव विस्तीर्णपादविस्तार, समीरकुमारैर्विरचितविशुद्धिरिव स्वाध्यायोचित, कान्तारदेवताभिसमार्जित इव कमनीयकन्दर, पर्यन्तपादपैसपादितकुसुमोपहार प्रद॒त्तरङ्गावलिरिव गुहापरिसरेषु, क्षुपावृतोपान्तोपत्यक पुलकित इव महामुनिसमागमात्‌, स्रवन्निकुञ्जनिर्झरजल

————————————————————————————

एकया अखण्डया शिलया दृषदा घटित कल्पित आरम्भो रचना यस्य स ऐकशिलाघटितारम्भोमानस्तम्भ इव समवसरणसबन्धी स्तम्भ इव। शिवशातकुम्भप्रदेश इव विदूरितदयितासमावेश विदूरितो दूरीकृतो निषिद्धो दयिताना स्त्रीणा समावेश प्रवेशो यत्रसतथोक्त शिव मोक्षस्तदेव शातकुम्भ सुवर्णतस्य प्रदेश इव। (खमिव) अलोकाकाशइव विगतजन्तुजातावकाश विगतो नष्टो जन्तुजातानापिपीलिकादिजीवसमूहानामवकाश प्रवेशोयस्मिन्‌ स तथा। अलोकाकाश प्राणिप्रवेशरहितो भवति। तपश्चरणागम इव समुत्सारितवषधरसमागम समुत्सारितो दूरीकृतो वर्षधराणा नपुसकाना समागम आगमन यत्र तथा तपश्चरणागम इव दीक्षाग्रहणसिद्धान्त इव। यथा तपश्चरणागमो नपुसकप्रवेशनिषिद्ध। क्षप[ण]कश्रेणिरिव तप प्रत्यवायरहितक्षोणि तप प्रत्यवायेनतपोदोषेण रहितभूमि क्षप[ण]\।कश्रेणिरिव यथा क्षप[ण]कश्रेणि अपूर्वकरणगुणस्थानादारभ्यद्वादशगुणस्थानपर्यन्त गुणस्थानचतुष्टयदोषरहितभूमिक भवति। पुनर्महावृत्त प्रस्तार विस्तीर्णपादाना प्रत्यन्तपर्वतानां विस्तारो यस्यस तथा। महावृत्तषड्विंशति वर्णपाद श्लोकस्तस्य प्रस्तार इव। यथा महावृत्तप्रस्तारोमयरसतजभनलघुगुरुप्रस्ताराणां महाविस्तारवान्‌ भवति। समीरकुमारैर्विरचितविशुद्धिरिव स्वाध्यायोचित पुन स्वाध्यायोचित स्वाध्याययोग्य समीरकुमारैविरचिताविशुद्धि निर्मलता यस्यस तथोक्त। तीर्थकरविहारभूमिरिव। कान्तारदेवताभिसमार्जित इवकमनीयकन्दरपुन कमनीया मनोहारा कन्दरागुहा यस्यस तथा कान्तारदेवताभि वनदेवताभि समार्जित इवशोधित इव। बहुवा(क)रित इव। पर्यन्तपादपैसपादितकुसमोपहार प्रदत्तरङ्गावलिरिव गुहापरिसरेषु गुहापरिसरेषु गुहाना प्राङ्गणेषु पर्यन्तपादपैपुरस्ता द्वक्षैसंपादितकुसुमोपहार निष्पादितपुष्पप्रकर। उत्प्रेक्ष्यते—प्रदत्तरङ्गावलिरिवविहितचतुष्कार्चन इव। क्षुपावृतोपान्तोपत्यकपुलकित इव महामुनिसमागमात्‌।पुनरपि कथंभूतः। क्षुपैर्ह्रस्वशाखैर्वृता वेष्टिता उपान्ते समीपे उपत्यका पर्वतासन्नभूमिर्यस्य स

प्रकटितानन्दलोचनबाष्प इवसयमिसभावनाराधनात्, लयनशिलाश्लाघ्यमेखल परिकल्पितोशीर इव द्वयातिगानाम्‌, एवमन्येरपि तेस्तेरघमर्पणगुणेस्त्रिविधस्यापि कर्मन्दिवृन्दस्योत्पादितमिति॥

तमुपसद्यनिपद्य च निर्वर्तितमार्गमव्याह्नकिय स्वय तद्दिवसोपात्तोपवास [स] समाफलय्य च परिणतकालमहर्दलमखिलश्रमणसङ्घमात्मदेशीयेनान्तेवासिनाधिष्ठित लोचनगोचरारामेषु ग्रामेषुविष्वाणार्थमादिदेश॥

—————————————————————————————

तथोक्त। उक्त च—‘उपत्यकाद्रेरासना भूमिरूपमवित्यका’। महामुनीना समागमात्दिगम्बरगुस्समागमात्‌ पुलकित इव रोमाञ्चकमुक्तिइव। सत्रीिकुञ्जनिझरजलप्रकटिता नन्दलोचनवाष्प इव सयमिसभावनारावनात्‌। पुन कथभूत पश्यत। खवमितनगिपरजलस्रवन्ति निझरन्तिनिकुञ्जेषुलतादिपिहितोदरेषु स्थानेषु निझराणा जलान्युद कानि यस्यस तथोक्त। सयमिना सभवानाराधनात्‌ प्रकटिता आनन्दस्य सबन्धिनो लोचनबाष्पानेत्रजलानि येन स तथा। लयनशिलाश्लाघ्यमेखलपरिकत्पितोशीर इव द्वयातिगानाम्‌। पुन कथभूत पवत। लयनैशिलोत्कीर्णगृह शिलाभिश्च बृहत्पाषाणैश्लाघ्याप्रशसनीया मेखला कटिनी यस्यस तथोक्त। द्वयातिगाना रागद्वेषरहितानापरिकल्पितोशीर इव। उत्प्रेक्षते—सपादितशयनासन इव। उक्त च— ‘औशीरंचामरे दण्डेऽप्योशीर शयनासने’। एवमन्यैरपि विस्तीर्णत्वप्रासुकत्वादिभिर्गुस्तैस्तैर्मुनिजनप्रसिद्धैरघमर्षणै पापोपशमकैर्गुणैत्रिविधस्यापि आचार्योपाध्यायसर्वसाधुलक्षणयिप्रकारस्यापि कमन्दिवृन्दस्य कर्मन्दिना तपस्विना वृदस्य सङ्घस्यउत्पादितप्रीति सजनितराग॥

स भगवान्‌ अखिल समस्त श्रमणसङ्घऋषिमुनियत्यनगारलक्षण चतुर्विध गण लोचनगोचरारामेषु ग्रामेषु लोचनाना नेत्राणा गोचरा गम्या आरामा उपवनानि येषा ते लोचनगोचरारामास्तेषु इदृग्विधेषुग्रामेषुआवसथेषु विष्वाणार्थभोजननिमित्त आदिदेश आदेश दत्तवान्‌। कथभूत श्रमणसङ्घम्। आत्मदेशीयेन निजात्मन सकाशात्‌ मनाक्‌ न्यूनेन अ तेवासिना बृहता शिष्येण अधिष्ठित रक्षितम्‌। किंकृत्वा। पूर्वत पूर्वोक्तखवतरं उपसद्यगत्वात केवलनिषद्यतस्मिन्‌ वने उपविष्टस्यैव। कथभूतो भगवान्‌। निवर्तितमागमध्याह्नक्रिय निवर्तिता निष्पादिता मागस्य मध्याह्नस्यच क्रिया येन तथोक्त। मार्गातिचारशोधनार्थप्रतिक्रमण कृत्वादववदनां चविधायेत्यर्थ। अपरं कथभूत। तद्दिवसोपात्तोपवास तद्दिवसे महानवमीदिवसे उपात्त गृहीत उपवासंउपवसन येन स तथोक्त। अष्टमीदिने उपोषितवानपि हिंसादिवसत्वात्, नवमीदिनेऽपि उपोषितवानित्यर्थ। पुनश्च किं कृत्वा। पूर्वे अहर्दलंमध्याह्नसमयपरिणतकालसंजातवेलसमाकूलय्यपरिज्ञाय॥

तत्र च नन्दिनीनरेन्द्रम्य यशोधरमहाराजात्मजस्य यशोमतिकुमारस्याग्रमहिष्या चण्डमहासेनसूनुतासरित्सवधितस्य मारिदत्तमहीश्वरमहीरुहस्यानुजन्मतालताकन्दल्या कुसुमावल्या सह सभूत पूर्वभवस्मरणात्ससारसुखान्यागामिजन्मदु- खाङ्कुरप्रसूतिक्षेत्राणीव मन्यमानमङ्गस्याद्यापि जिनरूपग्रहणायोग्यत्वाच्चरमाचारवशामुपासकदशामा-श्रितवदलमुनिकुमारक—
———————————————————————————————————————

तत्रच श्रमणसङ्घमध्ये मुनिकुमारकयुगलअभयरुच्यभयमतिनामधेय देशव्रतियु गलम्‌। तत्रेव पुरे तस्मिनेव राजपुरनामधेये नगरे तदर्थविष्वाणाथमादिष्टवान्‌ नि योग दत्तवानित्यर्थ। इति क्रियाकारकसबन्ध। किं कृत्वा। पूर्व अवधिबोधप्रदीपेन अवविज्ञानमण्डलप्रदीपेन इति अमुना प्रकारेण प्रत्यवमृश्यसम्यग्विचार्य। कथभूतेन अवधिबोधप्रदीपेन। अन्त सकत्पकृशानुकृतप्रबोधेन अन्तसकल्पो मनोव्यापार स एव कृशानुर्वैश्वानर उद्योतकारकत्वात्‌ तेन कृतो विहित प्रबोध प्रज्वलन यस्यस तथोक्ततेन। इतीति किम्‌। अस्मात्‌ मुनिकुमारकयुगलात्‌ खलुनिश्चयेन अद्यइदानीं अस्मिनेव दिने पौरपुरेश्वरदेवताना उपशम सम्यक्त्वभविष्यति जनिष्यते। क्स्मात्सम्यक्त्वभविष्यति। धर्मकमावेशात्‌ धमस्यप्राणिरक्षणलक्षणस्ययत्कम प्रतिपालन तस्यआवेशोऽभिप्राय धमकर्मावेशस्तस्मात्‌। कथभूत मुनिकुमारकयुगलम्‌। कुसुमावल्या कुसुमावलीनामधेयाया सह सभूत यमतया सजातम्‌। कथभूताया कुसुमावल्याम्‌। यशोमतिकुमारस यशोमतिकुमारनामधेयस्यमहाराजस्य अग्रमहिष्या पट्टमहादेव्याम्‌। कथभूतस्य यशोमतिकुमारस्य। नन्दिनीनरे द्रस्यउज्जयिनीनगरपरमेश्वरस्य। अपरंकथभूतस्ययशोमतिकुमारस्य। यशोधरमहाराजपुत्रस्य। पुनरपि कथभूताया कुसुमावल्याम्‌। भारिदत्तमहीश्वरमहीरुहस्यानुजन्मतालताकन्दल्याम्‌ मारिदत्तनामा योऽसौमहीश्वर पृथ्वीपति स एव महीरुहो वृक्षअर्थिजनवाञ्छितफलप्रदायकत्वात्, प्रजानांछायाकारित्वात्‌ मारिदत्तमहीश्वरमहीरुहस्तस्यतथोक्तस्यअनुजन्मता लघुभगि नीत्वसैव लताकन्दली वल्ल्यग्रभाग अनुजन्मतालताकदली तस्या तथोक्तायाम्‌। कथभूतस्य मारिदत्तमहीश्वरमहीरुहस्य। चण्डमहासेनसुनूतासरित्सवर्धितस्यचण्डमहासेननामा यादवनरेन्द्रस्तस्यसूनुता पुत्रत्वसैवसरित्‌ नदी शीलजलसमृतत्वात्तया सवर्धित सम्यग्‌ वृद्धिंप्रापित तस्यतथोक्तस्य। कथभूत मुनिकुमारकयुगलम्‌। पूवभव— स्मरणात्‌ पूर्वजन्मपरिज्ञानातससारसुखानि इष्टस्रग्वनिताचन्दनादीनि आगामिजन्मदु खाङ्कुरप्रसूतिक्षेत्राणीव मन्यमानम्‌ आगामिजन्म भविष्यद्भवान्तरं तस्य सबन्धीनि दु खानि शारीरमानसागन्तुलक्षणानि तान्येव अङ्कुरा अभिनवोद्भिद पुनरसातहेतुत्वात्‌ तेषां प्रसूतौ उत्पत्तौ क्षेत्राणीव सस्याधिकरणसमानानि मन्यमानसम्यग्जानन्तम्‌। अपरंकथभूत मुनिकुमारकयुगलम्‌। उपासकदशाक्षुल्लकावस्था अलमतिशयेन

युगलम्‌ ‘अस्मात्खप्खल्वद्यपौरपुरेश्वरदेवताना धर्मकर्मावेशादुपशमोभविष्यति’इत्यन्त सकल्पकृशानुकृतप्रबोधेनावधिबोधप्रदीपेन प्रत्यवमृश्य तत्रैव पुरे तदर्थमादिक्षत्‌॥

तदपि त भगवन्तमुपसगृह्य मनुष्यरूपेण परिणत धर्मद्वयमिव, मर्त्यलोकावतीर्णैस्वर्गापवर्गमार्गयुगलमिव, नयनविषयता गत नययमलमिव, प्रदर्शितात्मरूपं प्रमाणद्वितयमिव, बहि प्रकटव्यापार शुभध्यानयुग्ममिव तपश्चिकीर्षया प्रतिपन्नसोदरभाव रतिस्मरमिथुनमिव, पुरो युगान्तरावलो—

——————————————————————————————————————

आश्रितवत्‌ आश्रितम्‌। कथभूता उपासकदशाम्‌। चरमाचारवशा चरमाचार एकादशी प्रतिमा एकादश स्थान तस्यवशाआयत्ता तथोक्ताम्‌। तर्हिलघुदीक्षा किमित्याश्रितवत्‌, महाव्रतदीक्षा किमिति नाग्रहीदित्याह—अङ्गस्य शरीरस्यअद्यापि सजाततप परिज्ञानेऽपि जिनरूपस्थ निर्ग्रन्थमुद्राया ग्रहणे अयोग्यत्वात्‌। अनुचितत्वादिति शेष। अतिकोमलत्वात्‌ उपमालकार॥

तदपि मुनिकुमारकयुगलमपि कर्मतापन्न तैर्जगत्प्रसिद्धैर्नागरिकानुचरगणैदुर्गपालकिंकरसमूहैकर्तृभूतै। नगररक्षाया नियुक्तो नागरिक कोट्टपालस्तस्यअनुचरा किंक रास्तेषा गणा समूहास्तैस्तथोक्तै। महाभैरव नाम तज्जगत्प्रसिद्ध देवतायतनं चण्डमारीभवन अनुक्तकर्मतापन्न आनिन्ये आनीतमिति क्रियाकारकसम्बन्धो ज्ञातव्य। कथभूत तन्मुनिकुमारकयुगलम्‌। उत्प्रेक्षते—मनुष्यरूपेण मानवाकारेण परिणत पर्यायान्तरमागतधर्मद्वयमिवअनगारागारधर्मयुगलमिव। किंकृत्वा। मनुष्यरूपेण परिणत त जगत्प्रसिद्ध भगवन्त श्रीसुदत्ताचार्य उपसगृह्य वन्दित्वा धर्मद्वयेन भगवन्त वन्दित्वा मनुष्यरूप गृहीतमित्यर्थ। अपरं कथभूत मुनिकुमारकयुगलम्। उत्प्रेक्षते—स्वर्गापवर्गमार्गयुगलमिव स्वर्गश्च त्रिदशावासअपवर्गश्च मोक्षस्तयोर्मार्गयुगलपन्थयुग्मम्‌। कथभूत स्वर्गापवर्गमार्गयुगलम्‌। मर्त्यलोकावतीर्णमनुष्यलोकमागतम्‌।अपरं कथभूत मुनिकुमारकयुगलम्। उत्प्रेक्षते—नययमलमिव द्रव्यार्थिकपर्यायार्थिकनयद्वयमिव। कथभूत नययमलम्‌। नयनविषयता गत लोचनगोचरता प्राप्तम्‌। अपरंकथभूत मुनिकुमारकयुगलम्‌। उत्प्रेक्षते—प्रमाणद्वितयमिव प्रत्यक्षपरोक्षलक्षण प्रमाणद्वयमिव। कथभूत प्रमाणद्वितयम्‌। प्रदर्शितात्मरूप प्रकटितनिजशरीरं सकलवस्तुग्राहक प्रमाणम्‌। विकलस्त्वेकदेशग्राहकत्वात्‌। विकलदेशो नय। पुन कथभूत मुनिकुमारकयुगलमू। शुभध्यानयुग्ममिव धर्मध्यानशुक्लध्यानयुगलमिव। कथभूत शुभध्यानयुग्मम्‌। बहिप्रकटव्यापार मनसो निर्गत्यबाह्यस्फुटीभूतम्‌। अपरं। कथभूत मुनिकुमरकयुगलम्‌। उत्प्रेक्षते—रतिस्मरमिथुनमिव रतिकन्दर्पद्वन्द्वमिव। कथभूत रतिस्मरमिथुनम्। तपश्चिकीर्षया तपश्चरणकरणेच्छया प्रतिपन्नसोदरभाव अङ्गीकृतभगिनीभ्रातृत्वम्। मुनि—

कप्रणिधानाधारैर्दयार्द्रनयनव्यापारैरभयदानामृतमिव प्राणिषु प्रवर्षत्‌, समन्तादुन्मुखालेखार्हैश्चरणनखमयूखप्ररोहबर्हैर्वर्त्मनि कृतसत्त्वानुकम्पन सयमोपकरणमिव पुनरुक्तवत्‌, परिगृहीतमहातपश्चरणभारमिव मन्दमन्दमध्वनि विहितविहारम्‌, अभिमानव्ययभयाद्बिभ्यदिव पुरवीथिषु निभृतजिह्वारथम्‌, अतिबालिशदशमपि श्लाघनीयशीलैस्तप पयोधिकल्लोलैर्वरीयसामपि शसितव्रतचेतसामाचरिताश्चर्यचित्तचमत्कारम्‌,

——————————————————————————————

कुमारकयुगलकि कुर्वत्‌। प्राणिषुजीववर्गेषु दयार्द्रनयनव्यापारैरभयदानामृत प्रवर्षदिव दयया करुणया आर्द्रासरसा नयनाना ये व्यापारा प्रवृत्तयस्तैकरणभूतै अभयदानामृत अभयदानमेव अमृत जीवाना जीवनहेतुत्वात्‌ कर्मतापन्न प्रवर्षदिव प्रक्षरदिव। कथभूतै—र्दयार्द्रनयनव्यापारै। पुरो युगान्तरावलोकप्रणिधानाधारैपुरोऽग्रे युगान्तरेण हस्तचतुष्टयेन योऽसाववलोकोऽवलोकन तस्मिन्‌ प्रणिधान सावधानता तस्य आधारैरधिकरणभूतै। मुनिकुमारकयुगलपुनश्च कि कुर्वत्। वर्त्मनि मार्गे चरणनखमयूखप्ररोहाकिरणाङ्कुरास्त एव बर्हाणि मयूरपिच्छानि तैस्तथोक्तै कृत्वासयमोपकरण दयाप्रतिपालन मयूरपिच्छ पुनरुक्तवदिव द्विगुणीकुर्वदिव। कथभूतैश्चरणनखमयूखप्ररोहबर्है। समन्तासर्वत्र उन्मुखा आलेखा अग्राणि तै अर्हाणि योग्यानि तैसमन्तादुन्मुखालेखार्है। कथभूत सयमोपकरणम्‌। कृतसत्त्वानुकम्पन कृत विहित सत्त्वानाप्राणिनां अनुकम्पन कारुण्य येन सयमोपकरणेन तत्तथोक्तम्‌। मयूरपिच्छेन प्रतिलेखिता किलप्राणिन शिबिकारूढा एव सुखिनो भवन्ति। मयूरपिच्छानि नेत्रप्रविष्टान्यपि वेदनां न कुर्वन्ति। अन्यानि प्रतिलेखनानि नेत्रप्रविष्टानि अय सूचिका इव क्षुभ्नन्ति महावेदनां कुर्वन्ति। तथा चोक्तम्‌—‘रजसेदाणमगहण मद्दवसुकुमालदालहुत्त च। जत्थेदे पञ्चगुणा त पडिलेह परूविन्ति॥’इत्यनेन चमरीबालादीनां अधिकरोम्णा प्रतिलेखनप्रत्युक्त न भवतीति भावार्थ। कथभूत मुनिकुमारकयुगलम्‌। अध्वनि मार्गेमन्दमन्द शनै शनैर्विहितविहारं कृतगमनम्‌। उत्प्रेक्षते—परिगृहीतमहातपश्चरणभारमिव परिगृहीत स्वीकृतो मस्तकोपरि धृतो महातपश्चरणस्यउत्कृष्टचारित्रस्यभारो येन तत्तथोक्तम्‌। पुन कथभूत मुनिकुमारकयुगलम्‌। पुरवीथिषुनगरमार्गेषुनिभृतजिह्वारथ निभृतो निश्चलोजिह्वारथो वदनव्यापारोयस्यतत्तथोक्तम्‌। मुनिकुमारकयुगलकिं कुर्वत्‌। उत्प्रेक्षते—अभिमानव्ययभयाद्बिभ्यदिव। वचनव्यापारे सति खलुअभिमानविनाशो भवति तेन मौनेन गच्छदित्यर्थ। पुन कथभूत मुनिकुमारकयुगलम्‌। अति बालिशदशमपि अतीव बालावस्थायुक्तमपि श्लाघनीयशीलैश्लाघनीय प्रशसनीय शीमाचारोयेषु ते श्लाघनीयशीलास्तै। ईदृग्विधैस्तप पयोधिकल्लोलैस्तपश्चरणसमुद्रलहरितरङ्गैकृत्वावरीयसामपि, अतिवृद्धवयसामपि शसितव्रतचेतसा शसितानि

‘न दैन्यात्प्राणाना न च हृदयहरिणस्यरतये
न दर्पादङ्गाना न च करणकरिणोऽस्यमदनात्‌।
विधावृत्ति किंतु क्षतमदनचरितश्रुतविधे
परे हेतौ मुक्तेरिह मुनिषु न खलुस्थितिरियम्‌॥१२७॥

श्रुताय येषा न शरीरवृद्धि श्रुत चरित्राय च येषुनैव
तेषा बलित्व ननु पूर्वकर्मव्यापारभारोद्वहनाय मन्ये॥१२८॥

ससारवार्धेस्तरणैकहेतुमसारमप्येनमुशन्तियस्मात्‌।
तस्मान्निरीहैरपि रक्षणीय काय पर मुक्तिलताप्रसूत्यै’॥१२९॥

————————————————————————————————————————

श्लाघनीयानि व्रतानि येषा वरीयसां ते शसितव्रतास्तेषांचेतसा मनसां आचरिताश्चर्यचित्तवमत्कारं आचरितकृतआश्चर्येण अत्यद्भुतेन चित्तय हृदयस्य चमत्कारो येन तत्तथोक्तम्‌। मुनिकुमारकयुगलकि कुर्वत्‌। इति अमुना प्रकारेण विचिन्तयत्‌ पर्यालोचयत्‌ विचारयत्‌।मीमासमानमित्यर्थ। इतीति किम्‌।

न दैन्यादित्यादि। इहअस्मिन्‌। ससारे मुनिषु मुनिवरेषुप्राणानां उच्छ्वासादीना दशप्राणाना दैन्यात्‌ रक्षणात्‌ विधावृत्ति आहारप्रवृत्ति न वर्तते। यथा हृदयहरिणस्यमनोमृगस्यरतयैरत्यर्थेसपोषणार्थमपि विधावृत्तिनच नैव वर्तते। यथा अङ्गानां अष्टसख्याना दर्पात्‌ दर्पहेतोबलवत्करणार्थविधावृत्तिर्नवर्तते। तथा अस्यप्रत्यक्षीभूतस्य करणकरिण लिङ्गगजस्यमदनात्‌विधावृत्तिर्नवर्तते। किंतु एकस्मिन्‌ कारणे विधावृत्तिर्वर्तते। किंतत्‌ कारण यस्मिन्‌विधावृत्ति वर्तते इत्याह—मुक्तेर्मोक्षस्यपरे उत्कृष्टेहेतौकारणेविधावृत्तिर्वर्तते। कथभूताया युक्ते। क्षतमदनचरितश्रुतविधे क्षत विध्वस्त मदनस्य कन्दर्पस्य चरित आचरण येन स क्षतमदनचरित सर्वज्ञवीत रागस्तस्य श्रुत दयारसप्रधान शास्त्रतस्य विधिरनुक्रमो यस्या मुक्तौसा तथा तस्या। इहअस्मिन्‌ ससारे मुनिषु यतिवरेषु इय प्रत्यक्षीभूता स्थितिर्विधालक्षणाचार खलुनिश्चयेन वर्तते। मध्यदीपकालकार॥

श्रुतायेत्यादि। येषा पुरुषाणा मुनीनां वा शरीरवृद्धिकायवर्धन श्रुतायशास्त्रानुशीलनायनभवति। येषु च पुरुषेषुश्रुत शास्त्रचरित्राय चारित्रप्रतिपादनार्थनैव भवति। तेषां पुरषाणाबलित्व दृढत्वननु निश्चयेन पूर्वकर्मव्यापारभारोद्वहनाय पूर्वाणि पुरा कृतानि यानि कर्माणि पापानि तेपा व्यापाराणा योगस्तस्यभारे भारौघतस्य उद्वहनाय अहमन्ये जानामि। उत्प्रेक्षालकार॥

ससारवार्धेरित्यादि। यस्मात्‌ कारणात्एन प्रत्यक्षीभूत असारमपि कार्यससारवार्धससारवारिधे संसारसमुद्रस्यतरणे, पारप्रेषणे एकमद्वितीय हेतुंकारण

इति विचिन्तयत्‌, तस्मान्महामुनिसमानन्दितवनदेवतामुखमण्डलाद्गण्डशैलात्त्रिचतुराणि निवर्तनान्यतिकान्तम्‌, आपातदु सहैर्महापरीषहैरिव तप परीक्षितुमुपात्तासुराकारविधिभिरधर्मप्रणिधिभिरिव-प्रतिपक्षभावनाप्रकोपप्रपूर्तैकर्मभिरिव धर्मध्वसप्रबलैकलिकालबैरिव च तैस्तदानयनाय तेन महीक्षिता प्रेषितैर्नागरिकानुचरगणैपरिगृह्यपरस्पराचरितवक्रवीक्षणै‘आ, कष्टा खलुशरीरिणा सेवया जीवनचेष्टा पुरुषेषु। यस्मात्‌

————————————————————————————————————————

उशन्ति कथयन्ति। तीर्थकरा परे देवा इति शेष। तस्मात्‌ कारणात्‌ निरीहैरपि निर म्बरैरपि काय शरीर रक्षणीय प्रतिपालनीय। परं निश्चयेन मुक्तिलताप्रसूत्यैमुक्ति वल्लयाउत्पादनायेत्यर्थ। उपमालकार॥

कथभूत मुनिकुमारकयुगलम्‌। तस्मात्‌ पूर्वोक्तात्‌ मुनिमनोहरमेखलानामकात्गण्डशै लात क्षुद्रपर्वतात्‌ त्रिचतुराणि’ त्रीणि वा चत्वारि वा निवतनानि क्षेत्रमयमानानि अ तिकान्त चलितम्‌। कथभूतात्‌ गण्डशैलात्‌। महामुनिसमार्ना दतवनदेवतामुखमण्डलात्‌ महामुनिभिर्निरम्बराचार्यैसमानन्दित परमानन्द प्रापित वनदेवताना मुखमण्डल मुखकमल यत्र गण्डशैले स तथा तस्मात्‌। कथभूतैर्नागरिकानुचरगणैआपातदु सहैर्महाप रीपहैरिव आपातमात्रेण आगमनमात्रेण दु खेन महता कष्टेन सोढुमशक्या आपातदु सहास्तैरिव। पुनरपि कथभूतते महापरीषदेरिव। यथा महापरीषहा क्षुधादयोद्वाविशतिसख्याआपातदु सहा भवन्ति। पुनरपि कथभूतैनगरिकानुचरगणै। उपात्तासुराकारविधिभिउपात्तो गृहीतो असुराणा नारकयोधाना आकारविधिर्वेष विधान यैस्तेतथोक्तै। अपर कथभूतै। तप॒ परीक्षितुनिरतिचारचारित्रप्रतिपालन निकषितु धर्मप्रणिधिभिर्धर्मस्यचारित्रस्यहेरकैरिव। यथा धर्मप्रणधयश्चारित्रचरा गृहीतासुराकारविधाना भवन्ति। अपरं कथभूतैर्नागरिकानुचरणै। प्रतिपक्षभावनाप्रकोपप्रपूर्तैप्रतिपक्षाणा शत्रूणा भावनया सभावनेन प्रकोपप्रपूर्तैप्रकृष्टक्रोधपरिपूर्णै। अपर कथभूतैर्नागरिकानुचरगणै। कर्मभिरिव यथा ज्ञानावरणादीनि अष्टकर्माणि प्रतिपक्षस्यआत्मनो भावनाया प्रकृष्टकोप कुर्वन्ति।पुन कथभूतैर्नागरिकानुचरगणै। धर्मस्यध्वसे प्रबलैर्बलवत्तरैकलिकालबलैरिव। यथा कलिकालस्य दु ख(ष)मकालस्यबलासामर्थ्यानि धर्मध्वसप्रबलाभवन्ति। पुन कथभूतैर्नागरिकानुचरगणै। तेन जगत्प्रसिद्धेन महीक्षिता मारिदत्तेन राज्ञातदानयनाय मनुष्यमिथुनस्यआनयनाय आनयनार्थेप्रेषितैप्रहितै। पुनश्च कथभूतै। परस्पराचरितवक्रवीक्षणैपरस्परस्यअन्योन्यस्य आचरितमनुष्ठित वक्रस्यमुखस्यवीक्षणमवलोकम यैस्तेतथोक्तै। किंकृत्वा। पूर्वेपरिगृह्यमुनिकुमारयुगलगृहीत्वा। अपरं कथभूतैर्नागरिकानुचरगणै। इति अमुना प्रकारेण अनल्पकल्पकल्लोलोल्लोलस्वान्तसिन्धुभिअनल्पा बहवो ये कल्पा

सत्य दूरेविहरति सम साधुभावेन पुसा
धर्मश्चित्तात्सह करुणया याति देशान्तराणि।
पाप शापादिव च तनुते नीचवृत्तेन सार्ध
सेवावृत्ते परमिह पर पातकनास्तिकिंचित्‌॥ १३०॥

सोजन्यमैत्त्रीकरुणामणीना व्यय न चेद्भृत्यजन करोति।
फलमहीशादपि नैव तस्य यतोऽर्थमेवार्थनिमित्तमाहु’॥१३१॥

————————————————————————————————————————

सकल्पविकल्पास्त एव कल्लोलास्तरङ्गाउत्पन्नप्रध्वसित्वभावात्‌ तेस्त्कषण लोलश्चपल खान्तसिन्धुर्मन समुद्रोयेषा ते तथोक्तास्तै। इतीति किम्‌। आ कोपे पीडाया वा। शरीरिणा जीवाना पुरुषेषु मानुषेषु सेवया शुनकवृत्या जीवनचेष्टाआजीवनक्रिया खलुनिश्चयेन कष्टा निन्दनीया वर्तते। किमिति कष्टेति चेत्—यस्मात्कारणात्‌।

सत्यमित्यादि। सत्य सत्यवचन दूरे विप्रकृष्टेति विहरति गच्छति। केषाम्‌। पुसाम्‌। सेवावृत्या जीविना पुरुषाणा सत्यकिमेकाक्येव गच्छति। नहि।एकाकी गच्छत्सत्य मार्गेबिभेति। [तर्हि] कथम्‌। सम सार्धगच्छति। केन समम्‌। साधुभावेन। दक्ष कुशलोहितश्च साधुरुच्यते। साधोर्भाव साधुभावस्तेन साधुभावेन सह। सत्यगच्छतीत्यर्थः। तथा धर्म प्राणिरक्षण चित्तात्‌ हृदयात्‌देशान्तराणि याति परदेशान्‌गच्छति। धर्मकिमेकाक्येव गच्छति। नहि। एकाकी गच्छन्‌ धर्मो मार्गे बिभेति। तेन कारणेन सह सार्धगच्छति। कया। करुणया दयया सहित। य सेवा करोति तस्यधर्म करुणा च नास्तीति भाव। तथा पुसा पुरुषाणा पाप पातक तनुते विस्तरति। कस्मात्। शापादिव। यथा महामुनिदत्त शाप शतधा सहस्रधा कोटिवाच विस्तरति। पाप किमेकाक्येव वर्धते। नहि। सार्धसह। केन साधम्‌। नीचवृत्तेनचाण्डालादिकर्मणा सह। अयुमेवार्थअर्थान्तरन्यासेन द्रढयति —सेवावृत्तेसेवयोदरपूरणात्परमन्यत्इहअस्मिन्ससारे परमुत्कृष्टकिचित्‌ किमपि पातक नास्तिपाप नवर्तते। सहोक्त्यलकार। मन्दाक्रान्ताछ द॥

सौजन्यमैत्त्रीत्यादि। सुजनस्यसत्पुरुषस्य भाव सौजन्यम्‌, मित्रस्यभावो मैत्त्री, परेषां पीडाया अकरुण करुणा प्राणिरक्षा, ता एव मणयो रत्नानि येषां तेषां सौजन्यमैत्त्रीकरुणामणीना चेद्यदि भृत्यजन सेवकसमूहो व्यय वित्तस्य समुत्सर्ग नकरोति न विदधाति, तर्हिमहीशात्‌ नृपात्‌ तस्यभृत्यजनस्यफलमपि नैव नहि वर्तते। यतयस्मात्‌ कारणात्‌ अर्थमेव धनमेवचअर्थनिमित्तधननिमित्त आहुर्ब्रुवन्तिविद्वास। इति शेष। परिवृत्यलकार। उपजातिच्छन्दः॥

इत्यनल्पकल्पकल्लोलोल्लोलस्वान्तसिन्धुभि, ‘भवतु नामैवम्‌। तथाप्यस्मिन्भर्तुरादेशकर्मणि न प्रयेणाश्रेयासि। यस्मादस्माकमप्याजन्माधर्मकर्मोपजीविनां निसर्गत आय शूलिकाशयवशाभिनिवेशासेविनामेतद्दर्शनरभसा— त्करुणारस स्वभावकाठिन्यनिष्ठुरोदय हृदय मृदूकरोति किंपुनर्नतस्यमहीपतेर्विवेकबृहस्पते प्रकृत्यैव च विधुरबान्धवस्थिते। तदत्र यथा स्वामिशासनमन्यथावृत्तिंन भजेत, यथा चेद प्राणप्रयाणभयान्नोद्विजते, तथानुतिष्ठाम’ इत्यभिप्रायप्रणयपरायणैरदुष्टान्त करणै, अहो निखिलभुवनैकमङ्गलोचितकीर्तिमन्दाकिनीपवित्रितमूर्तिनिधान अशिश्चिदान धर्मक—

——————————————————————————————

पुन कथभूतैर्नागरिकानुचरगणै। इति अमुना प्रकारेण अभिप्राये आशये हदये योऽसौ प्रणय स्नेहस्तस्मिन्‌ परायणैस्तत्परै। इतीति किम्‌। भवतु नामैवम्‌। सेवावृत्ति एवउत्कृष्ट पातक भवतु। नामेति सभावनायाम्‌। तथापि तदपि अस्मिन्‌ प्रयक्षीभूते भर्तुर्मारिदत्त महाराजस्यआदेशकर्मणि आज्ञाविधाने प्रायेण बाहुल्येन अश्रेयासि अकल्याणानि न भविष्यन्ति। अस्माकमिति शेष। किमिति अश्रेयासि न भविष्यन्ति इत्याह—यस्मात्‌ कारणात्‌ अस्माकमपि एतद्दर्शनरभसात्‌ मुनिकुमारकयुगलविलोकनवेगात्‌ करुणारस कारुण्यपरिणामो हदय चित्त मृदूकरोति कोमल विदवाति। कथभूताना अस्माकम्‌। आजन्मावमकर्मोपजीविन आजन्म जन्मपर्यन्त अधर्मकम पापकर्मतेन उपजीवन्तीति आजन्माधर्मकर्मोपजीविनस्तेषा तथोक्तानाम्‌। अनम्त नपुसको वेति वचनात्‌ आजन्ममिति अदन्तो निपात। अपर कथभूतानामस्माकम्‌। निसर्गत स्वभावेन आय शूलिकाशयवशाभिनिवेशासेविना आय शूलिकस्तीक्ष्णकर्मकृत्‌ इदृशो योऽसावाशयश्चित्त तस्य वशेयोऽसौ अभिनिवेशोऽभिप्रायस्तमासेवन्त इत्येवशीलास्ते तथा तेषाम्‌। कथभूत अस्माक हदयम्‌। स्वभावकाठिन्यनिष्ठुरोदय स्वभावेन प्रकृत्यैव यत्काठिन्य निर्दयत्व तेन निष्ठुरो निस्त्रिशउदयो यस्यहृदयस्यतत्तथोक्तम्। यद्यपि हृदय एतद्दर्शनात्करुणरसो मृदूकरोति तर्हितस्य जगत्प्रसिद्धस्य महीपतेर्मारिदत्तमहाराजस्यहृदय कि पुनर्न मृदूकरिष्यति। कथभूतस्य तस्य महीपते विवेकबृहस्पते विवेकेन बृहस्पति सुराचा र्योविवेकबृहस्पतिस्तस्यतथोक्तस्य। अपर कथभूतस्य। प्रकृत्यैव स्वभावेनैव विधुर बान्धवस्थिते विधुरे दु खे सति बान्धवस्येव भ्रातुरिव स्थिति स्वभावो यस्यस तथोक्तस्य \। तत्तस्मात्‌ कारणात्‌। अत्रअस्मिन्‌ आदेशकमणि यथा येन प्रकारेण स्वामिशा सन प्रभुशासन अन्यथावृत्ति उलङ्घन न भजेत नाश्रयति। यथा च येन प्रकारेण इदमुनिकुमारकयुगलप्राणप्रयाणभयात्‌ नोद्विजते नोद्वेग करोति तथा तेनैव प्रकारेण अनु तिष्ठामो वय कुर्म। पुन कथभूतैर्नागरिकानुचरगणै। अदुष्टान्त करणैन दुष्ट अन्त करण मनो येषा ते तथा तै। पुन कथभूतेर्नागरिकानुचरगणै। इति अमुना प्रकारेण भाषिते वचने योऽसौ भूमि परवञ्चनहेतुराडम्बरस्तेन निर्भरैपरिपूर्णै।

थासनाथगलमुनिकुमारकयुगल, एतस्मिन्नुपान्तवर्तिनि वने भवानीभवनगतश्चातुराश्रमगुरुर्भवद्भतमन्त्रमाहात्म्याकृष्ट-सकलर्तुसभूतप्रसूनफलपल्लवालकृतकरशाखाजालाद्वनपालत्तत्रभवतोस्वयमेव स्वयभुवा भुवनानन्दसपादितदेहसौन्दर्यवतोरागमनमाकर्ण्ययुष्मद्दर्शनकुतूहलीद्वावपि भवन्तौ व्याहरति। तदित इत आगम्यताम्‌’ इति भाषितभूमिनिर्भरै, अमीषा च सर्वकषमनुष्याणामिव त भीषण वेषमीषदुन्मेषेण चक्षुषानिरीक्ष्य

—————————————————————————————————————

इतीति किम्‌। अहोनिखिलभुवनैकमङ्गलोचितकीतिमन्दाकिनीपवित्रितमूर्तिनिधान निखिल समग्र यद्भुवन त्रैलोक्य तस्यअद्वितीय यन्मङ्गलपापगालनसुखदान च तस्मिन्‌उचिता योग्या या कीतिमन्दाकिनी गङ्गानदी तया पवित्रिता पावनीकृता या मूति शरीरं तस्यनिधान अक्षयनिधिस्तथोक्ततस्यसबोधन क्रियते—अहो निखिलभुवनैकमङ्गलोचितकीर्तिमन्दाकिनीपवित्रितमूर्तिनिधान। अहोअशिश्विदान अहो अमलितचरित्र। अहो धर्मकथासनाथगलधर्मक्याभिमहापु राणादिशास्त्रैसनाथ सयुक्तो गल कण्ठो यस्यतत्तथा तथोक्त हेमुनिकुमारक युगल एतस्मिन्‌ प्रत्यक्षीभूते उपान्तवर्तिनि समीपतरे वने उद्याने भवानीभवनगतश्चण्ड मारीदेवताप्रासादमध्ये सस्थित चातुराश्रमगुरुब्रह्मचारिगृहस्थवानप्रस्थभिक्षूणांस्वामी चातुराश्रमगुरुवनपालात्ऋषिनिवेदकात्‌ तत्रभवतो पूज्ययोरागमन माकर्ण्ययुष्मद्दर्शनकुतूहली युवयोरवलीकनकौतुकी भवन्तौ युवा द्वावपि व्याहरति आमन्त्रयति। कथभूताद्वनपालात्भवह्रतमन्त्रमाहात्म्याकृष्टसफलतुसभूतप्रसूनफल पल्लवालकृतकरशाखाजालात्‌ भवतोर्युवयोव्रतश्चारित्र सएवमन्त्रोबीजाक्षरन्या सस्तस्य माहात्म्येन प्रभावेण आकृष्टाआकर्षणमानीता ये सकलर्तवोहिमशिशि रवस तग्रीष्मवर्षाशरल्लक्षणास्तेषु सभूतानि उत्पन्नानि प्रसूनानि पुष्पाणि फलानि सस्यानि पल्लवानि प्रसूनफलपल्लवानि तैरलकृत शोभित करशाखाजाल अङ्गुलिसमूहो यस्यसतथोक्तस्तस्मात्‌। कथभूतयोस्तत्रभवतो। स्वयमेव आत्मनैव स्वयभुवा प्रजापतिना भुवनानन्दसपादितदेहसौन्दयवन्तो भुवनस्यत्रैलोक्यस्यआनन्दार्थेप्रहर्षनिमित्त सपादित निष्पादित देहेषुकायप्रतीकेषु यत्सौन्दर्यंमनोहरत्वतद्विद्यते ययोस्तौ भुवनानन्दसपादितदेहसौन्दर्यवन्तौ तयोस्तथोक्तयो। तत्तस्मात्कारणात्‌ इत एतस्मात्‌ स्थानात्‌ इत एतस्मिन्‌ स्थाने आगम्यता भवद्भ्याआगमन कियताम्‌। मुनिकुमारकयुगलकिंकुर्वत्‌। इति अमुना प्रकारेण ध्यायत्‌सचिन्तयत्‌। किं कृत्वा। पूर्वअमीषा नागरिकानुचरगणानां त जगत्प्रसिद्ध भीषण भयानक वेषमाकल्प आकारंचक्षुषा लोचनेन निरीक्ष्य दृष्ट्वा। कथभूतानां अमीषाम्‌। सर्वकषमनुष्याणामिवयमकिक रसमानानाम्‌। कथभूतेन चक्षुषा। ईषदुन्मेषेण समागुद्धाटनेन॥

‘सोढस्त्वप्रणयादनेन मनसा तद्दु स्वदावरानलः
ससाराब्धिनिमज्जनादपि कृत किंचित्त्वदानन्दनम्।
त्वत्क्रीडागमकारणोचितमतेस्त्यक्त श्रिय सगमो
यद्यद्यापि विधे न तुष्यसि तदा तत्रापि सज्जावयम्‌॥१३२॥

अय महानेष निरस्तदोष कृती कथ ग्रासपथे मम स्यात्‌।
इति व्यपेक्षास्तिन जातु दैवे तस्मादल दैन्यपरिग्रहेण’॥१३३॥

इति ध्यायत्‌, अनायतनसेवन च तदाराधनधृतधिषणानामसशय तद्दर्शन तिमिरयतीति चानुस्मरणस्मेरान्त करणम्‌, शरीरेण प्रतिपन्नतन्मनुष्यमार्गानुसरणम्‌, तत्र कानने कैश्चित्कृतान्तदष्ट्राकोटिकुटिलकरवालार्घोल्लासत्रस—

————————————————————————————

मुनिकुमारकयुगलकि ध्यायत्‌। **सोढ इत्यादि—**हे विधे विधिशब्दवाच्यपूर्वोपार्जितकर्म, त्वत्प्रणयात्‌ तव स्नेहात्‌ अनेन प्रत्यक्षीभूतेन मनसा आत्मना तद्दुखदावानलोऽपि विषादिमरणदु खदावाग्निसोढ क्षान्त। तथा ससाराब्धिनिमज्जनात्‌ अपि मयूरशुनकादिभवसमुद्रमध्यपचनादपि किचित्‌ मनाक्‌ त्वदानन्दन त्वदाह्लादन कृत विहितम्‌। तथा श्रियो राज्यलक्ष्म्या सगमोऽपि त्यक्त परिहृत। कथभूताया श्रिय। त्वत्क्रीडागमकारणोचितमते तव क्रीडाया आगमस्यकारणार्थहेत्वर्थ उचिता योग्या मतिरभिप्रायो यस्या श्रिय सा तथोक्ता तस्या। यदि चेत्‌ हे विधे, अद्यापि इदानीमपि न तुष्यसि अपरमपि दु ख दातुमिच्छसितदा तर्हितत्रापि अपूवदु खदानेऽपि वय सज्जाबद्धगात्रिका वर्तामहे। रूपकालकार॥

**अय महानेषेत्यादि—**दैवे कर्मणि। यमराजे इत्यर्थ। इति ईदृशी व्यपेक्षा विचारणा इच्छा जातु कदाचित्‌ न अस्ति न वर्तते। इतीति किम्‌। अय प्रत्यक्षीभूत तथा एष पुमान्‌ कृती पुण्यवान्‌ वर्ततेसमम ग्रासपथे मम कवलमार्गेकथ केन प्रकारेण स्याद्भवेत्‌। तस्मात्‌ कारणात्‌ दैन्यपरिग्रहेण दीनत्वाश्रयेण अल पूर्णम्‌। आक्षेपालकार॥

कथभूत मुनिकुमारकयुगलम्‌। इति अमुना प्रकारेण च अनुस्मरणस्मेरान्त करण अनुस्मरणेन विचारणेन स्मेर ईषद्विकसित अन्त करण मनोयस्यतत्तथोक्तम्‌। इतीति किम्‌। अनायतनसेवन च कुत्सितदेवतागृहगमन तदाराधनधृतधिषणाना सम्यग्दर्शनाराधनेन आरोपितमतीना पुरूषाणा असशय नि सदेह तत्अनायतन सेवन दर्शन संयुक्तरत्नतिमिरयति मलिन करोति। अपर कथभूत तन्मुनिकुमारकयुगलम्‌। शरीरेण कायेन न न तु मनसा प्रतिपन्नतन्मनुष्यमार्गानुसरण प्रतिपन्नमङ्गीकृत तन्मनुष्याणा नागरिककिकराणा मार्गानुसरण मागस्यअनुगमन येन तत्तथोक्तम्‌।

न्मानसमेषमहिषमयमातङ्गमितद्रूपद्रुतपाणिभि कैश्चित्कीनाशरसनातरलतरवारिधाराजलरुधिरावलेहलालसपला-शावेशभयभ्रश्यत्कुम्भीरमकरसालृरकुलीरकमठपाठीनकठोरकरप्रयत्नैकैश्चिन्मृत्युमुखावर्तनिभोद्भ्रान्तभ्रमिलभ्रमिभी-षितभेरुण्डक्रौञ्चकोककुर्कुटकुररकलहसग्रहण51विह्वलितबाहुभिकैश्चित्परेतपतिपुरमार्गानुकारिकाण्डचण्डितचमर-चमूरु(र)हरिहरिणवृकवराहवा—

——————————————————————————————————————

कथभूत महाभैरव नाम देवतायतनम्‌। तत्रकानने तस्मिन्नुद्याने वने पञ्चजनैर्मनुष्ये परिवृत वेष्टितम्‌। कथभूतेपञ्चजनै। कैश्चित्‌ विवक्षितै कथभूते परिवृतम्‌। कृतान्त दष्ट्राकोटिकुटिलकरवालाधाल्लासत्रसन्मानसमेषमहिषमयमातजमितद्रूपद्रुतपाणिभि कृता न्तस्ययमस्यदष्ट्रादाढा तस्या कोटि अग्रतद्वत्‌ कुटिलो वक्रतरो योऽसौ करवालखङ्गस्तस्यअर्धोल्लासेन अर्धनिष्कासनेन त्रसन्ति बिभ्यति वा मानसानि हृदयानि येषा ते कृतान्तदष्ट्राकोटिकुटिलकरवालार्धोल्लसत्रसन्मानसास्ते च ते मेषाश्च अवयो महिपा रजस्वला रक्ताक्षा। लुलाया इति यावत्‌। मयाश्च क्रमेलका। उष्ट्राइति यावत्‌। मातङ्गाश्च हस्तिनो मितद्रवश्च अश्वास्तैरूपद्रुता सहिता पाणय करा येषा पञ्चजनाना ते तथोक्ता तै। पुन कथभूतै पञ्चजनै। कैश्चिदगृहीतनामभि कीनाशरसनातरलतरवारिधा राजलरुधिरावलेहलालसपलाशावेशभयभ्रश्यत्कुम्भीरमकरसालूरकुलीरकमठपाठीनक ठोरकरप्रयत्नैकीनाशो यमस्तस्यरसना जिह्वा तद्वत्‌ तरलश्चपलतरोयोऽसौ तरवारि एक[धार] खङ्गस्तस्यधाराजलेअग्रपानीये यत्‌ वतते रुधिर असृक्तस्यअवलेहेसमतादाखादने लालसा अत्याकाङ्क्षाये पलाशा राक्षसास्तेषामावेशस्तरवारिप्रवेशस्तस्मा द्भयात्‌ भ्रश्यन्तोऽध पतन्त कुम्भीराश्च नका मकराश्च जलहस्तिन सालराश्च ददुरा। मण्डूका इति यावत्‌। कुलीराश्चकर्कटा। कुरचला इति यावत्‌। कमठाश्चकच्छपा पाठीनाश्चसहस्त्रदष्ट्रिणस्तेषा ग्रहणेन कठोर कर्कश। निर्दय इति यावत्‌। कराणा हस्ताना प्रयत्नसावधानता येषा पञ्चजनाना ते तथा ते। पुन कथभूतै पञ्चजनै। कैश्चिदगृहीतनामभि मृत्युमुखावतनिभोभ्द्रातभ्रमिलभ्रमिभीषितभेरुण्डक्रौञ्चकोककुकुटकुररकलहसग्रहणविह्वलितबाहुभिमृत्युयमराज तस्यमुखवक्र तदेवआवर्तो भ्रमणम्‌। लोकाना निमज्जनकारित्वात्‌। तेन निभ सदृशमुद्भ्रान्त ऊर्ध्वचलितयद्भ्रमिल चक्र तस्य भ्रमिणा चलनेन भीषिता भय प्रापिता ये मेरूण्डाश्च महापक्षिण क्रौञ्चाश्चउत्क्रोशा कोकाश्चक्रवाका कुर्कुटाश्चताम्रचूडा कुरराश्च जलकाका कलहसाश्च राजहसा। रक्तवर्णलोचनमुखपादा कलहसा कथ्यन्ते। तेषाग्रहणेन विह्वलिता बाहवो भुजदण्डायेषा पञ्चजनानां ते तथा तै। अपरं कथभूतैपञ्चजनै। कैश्चिदनुपात्ताभिधेयै परेतपति पुरमार्गानुकारिकाण्डचण्डितचमरचमूरू(र)-हरिहरिणवृकवराहवानरगौरखुराकुलितहस्तैः

नरगौरखुराकुलितहस्तैरपरैश्चयमावासप्रवेशपरप्रासपट्टिसदुस्फोटभुषुण्डिभिण्डिमा(न्दिपा)लमुद्गराद्यनेकायुधाबाध-निरोधितस्थलजलबिलान्तरालजातजन्तुजनितभुजप्रयासैरद्यापि काश्यपीश्वरेण स्वयमालम्भनारम्भासभवाद विहितहिंसाव्यवसायैर्नगनगग्रामारण्यजन्मसमवायैपञ्चजनैसमस्तजगत्सजिहीर्षुभि पिनाकपाणिपरिजनैरिव परिवृत महाभैरव नाम तद्देवतायतनमानिन्ये॥

————————————————————————————

परेतपतिर्यमस्तस्य पुर नगर तस्य मार्गानुकारिणो मार्गसदृशाये काण्डा इषवस्तैश्चण्डिता कुपितभीता ये चमराश्चमरमृगाश्चमूराश्च व्याघ्रा हरयश्च सिंहा हरिणाश्चमृगा वृकाश्च तरक्षवो वराहाश्च शूकरा वानरश्च मर्कटा गौरखुराश्च गर्दभाकारा पञ्चेन्द्रियसम्मूर्छकजी वास्तैराकुलिता विह्वलीभूता हस्ता करा येषा पञ्चजनाना ते तथोक्तै। न केवलमेतैरेव पञ्चजनैपरिवृत देवतायतनम्‌, कितु अपरैश्च पुस्पै परिवृतम्‌। अपरैकथभूतै। यमावासप्रवेशपरप्रासपट्टिसदु स्फोटभुषुण्डिभिण्डिमा(न्दिपा)लमुद्गराद्यनेकायुवाबावनिरोवितस्थलजलबिलान्तरालजातजन्तुजनितभुजप्रयासैयमकृतान्तस्तस्य -आवासो मन्दिर तस्यप्रवेशपरा सचारसदृशा ये प्रासा कुन्ता पट्टिसाश्चपट्टका दु स्फोटाश्च मुस लानि भुषुण्डयश्चगर्जका भिण्डिमा(न्दिपा)लाश्चगोफणा मुद्गराश्च लोहघनास्तेआदिर्येषा यष्टिशक्तिछुरिकाकट्टारकयमदष्ट्रादीना तानि च तानि अनेकानि अगणितानि आयुधानि शस्त्राणि तैरबाध अनिवारित निरोधिता रूद्धा ये स्थलजाता मृगादयोजलजाताश्च मत्स्यादयो बिलजाताश्च गोधा गोधात्मजसर्पसरीस्पादयो अन्तरालजाताश्च श्येनगृध्रश्यामलिकाचटकपारापतादयस्तेच ते जन्तवो जीवास्तैर्जनितो निष्पादितो भुजेषु बाहुदण्डेषु प्रयासो दु ख येषा पञ्चजनाना ते तथा तै। पुनरपि कथभूतैपञ्चजनै। अद्यापि सर्वजीवानामेकत्रीकरणकालेऽपि काश्यपीश्वरेण पृथिवीनाथेन मारि दत्तेन राज्ञा स्वयमात्मना आलम्भनारम्भासभवात्‌ आलम्भनस्यमारणस्ययोऽसावारम्भ प्रथमहिंसा तस्यअसभवात्‌ अभावात्‌ अविहितहिंसाव्यवसायैअविहितो न कृतो हिंसाया जीवघातस्य व्यवसाय कर्म यैपञ्चजनैस्तेतथा तै। अपर कथभूतै पञ्चजनै। पुनरपि नगनगरग्रामारण्यजन्मसमवायैनगाश्च पर्वता नगराणि च चतुर्गोपुराणि दुर्गखातादिसहितानि ग्रामाश्च कण्टकवृतिवेष्टिता अरण्यानि च वृक्षजालानि विपि नानि तेषुजन्मोत्पत्तिर्येषा तेषा समवाया मेलापका येषु पञ्चजनेषु ते तथा तै। पुनरपि कथभूतै। समस्त समग्र जगत्पृथ्वीमण्डल सजिहीर्षुभि सहार कर्तुमिच्छुभि। पुनकथभूतै। पिनाकपाणिपरिजनैरिव पिनाकपाणे श्रीमहादेवस्यपरिजनैरिव कुटुम्ब वर्गसदृशै। उपमालकार। समुच्चयश्च कथ्यते॥

तत्र च ताभ्या ‘क्वचावयोर्जन्म, क्वचेद वय, क्वचाय चरमदशाश्लाघनीयतपश्चरणप्रक्रम,क्वचेय धमान्तरायपरम्पराया दैवस्य महती निघ्नता, क्वचायमसदृशप्रदेशप्रवेश52’इति मनागनुशयस्तिमितगतिभ्यामखिलदिग्वलयाबलोकिभिरवलोकितै-रुपहारायोपनीतानामङ्गिनामाजन्मजीवनजुष कमलकुवलयकुसुमाशिपइव स्पर्शयद्भ्यामुत्सर्पिभि-स्त्रैलोक्यपावनालेखैपादनखमयूखैस्तथाविधेषु देहिषु वधानुबन्धिवयासि मनस्तमासीव सादयद्भ्याम्‌

———————————————————————————————————

त्रच भवान्या भवने महाभैरवनाम्निमन्दिरे मुनिबालकाभ्या मुनिकुमारयुगलेन कर्तुभूतेन भूप श्रीमारिदत्तमहाराज कर्मतापन्नो व्यलोकि दृश्यते स्म। विलोकित इत्यर्थ। कथभूत भूप। उत्खातखङ्गउद्धाटितमण्डलाग्र। पुनरपि कथभूतो भूप॥ आपगाया नद्यामध्ये तटीधर पवत इव। कथभूतस्तटीधर। नित्तम्बबिम्बोत्फणभोगिभीम। नितम्बबिम्बेकटनीमण्डले उत्फण ऊर्ध्वीकृतभोग स चासौभोगी काल सर्पस्तेन भीमो भयानक स तथोक्त। कथभूताभ्या मुनिबालकाभ्याम्। इति अमुना प्रकारेण मनाक्ईषत्‌ अनुशयस्तिमितगतिभ्या अनुशयेन पश्चात्तापेन स्तिमिता मन्दा गतिर्गमन ययोस्तौ ताभ्याम्‌।इतीति किम्‌। क्वच क्वेव आवयोर्द्वयोर्जन्म वर्तते। क्वच इद प्रत्यक्षीभूत वयो अवस्था बालत्ववतते। क्वच क्वेव अय प्रत्यक्षीभूतश्चरमदशाश्लाघनीयतपश्चरणप्रक्रम चरमदशाया चतुर्थेवयसि श्लाघनीय प्रत्यसनीय तपश्चरणस्य दीक्षाया प्रक्रम प्रारम्भो वतते। क्व चक्व वा इय प्रत्यक्षीभूता धर्मान्तरायपरम्पराया धर्मस्यअन्तरायस्यविध्न[स्य] परम्पराया श्रेणौदैवस्य कर्मणो महती गुरुतरानिघ्नता तत्परता वर्तते। क्वच क्ववा अय प्रत्यक्षीभूत असदृशप्रदेशप्रवेश असदृशस्य अयोग्यस्य प्रदेशस्य स्थानस्य प्रवेशो गमन वर्तते।विषमालकार। पुनरपि कथभूताभ्या मुनि बालकाभ्याम्‌। अखिलदिग्बलयाधलोकिभिरवलोकितैरूपहारायोपनीतानामङ्गिनामा-जन्मजीवनजुषकमलकुवलयकुसुमाशिप इव स्पशयभ्द्याभ्‌ अखिल समस्तदिग्बलय दिङ्मण्डलअवलोकते विलोकयन्तीत्येवशीलानि अखिलदिग्वलयावलोकीनि तैरखिलदिग्वलयावलोकिभिरीदृग्विधैरवलोकितैरवरोकनै कृत्वाउपहाराय मारयित्वा पूजनायउपनीतानाआनीताना अङ्गिना प्राणिना आजन्मजीवन जुषन्तेप्रत्यासेवन्ते यास्ताआजन्मजीवनजुषकमलकुवलयकुसुमाशिष कमले च बिसप्रसूने कुवलये च उत्पलेते च ते कुसुमे प्रसूनैर्याआशिषो मस्तके पुष्पनिक्षेपान्कर्मतापन्नान्स्पशद्भ्यामिव। कम लसदृशे यशस्तिलकलोचने, कुवलयसदृशे मदनमतिचक्षुषी। यथासंख्योपमालकार। अपरं कथभूताभ्यांमुनिकुमारकाभ्याम्‌। उत्सर्पिभिस्त्रैलोक्यपावनालेखैपादनखमयूस्त्रै

स्तथाविधेषुदेहिषु वधानुवन्धिवयांसि मनस्त्मांसीव सादयद्भ्याम्उत्सर्पिमिप्रसरण—

उत्खातखङ्गोमुनिबालकाभ्या व्यलोकि भूपो भवने भवान्या।
नितम्बबिम्बोत्फणभोगिभीमस्तटीधरो मध्य इवापगाया॥१३४॥

अपि च हिसाध्यवसायाशयस्खलनप्रवृद्धक्रोधानुबन्धाद्बद्धक्रमोत्साह सिंह इव व्यालोललोचन, सहाराविष्टशिपिविष्ट इव भ्रकुटिभीम, समालोकितारातिघटसुभटइव स्फुरिताधर, सपत्नलोहितविहितस्नानकाम परशुराम इव शोणशरीर, प्रकटिततडिद्दण्डडम्बर प्रलयकाला—

———————————————————————————————————

शीलेस्त्रैलोक्यपावनालेखैत्रिभुवनपवित्रीकरणाग्रभागैईदृग्विधैपादनखमयूखैश्चरणनखकिरणैतथाविधेषु पूर्वोक्तलक्षणेषु देहिषु जीवेषु वधानुवन्विवयासि मारणसबन्ध्यवस्थानि ईदृग्विधानि मनस्तमासि हृदयदैन्यानि सादयभ्द्यामिव। उपमालकार॥

भूप कथभूत। अपि च विशेषार्थ53तया वर्णनीयो वर्तते। कथभूतो भूप। हिसाध्य वसायाशयस्खलनप्रवृद्वक्रोवानुबन्धाद्बद्धकमोत्साह हिसाया जीवघातस्यअ यवसायो व्यापारस्तस्य आशयो अभिप्रायस्तस्यस्खलनक्रियानिपतन तेन प्रवृद्वो वृद्धिगतो योऽसौ क्रोधस्तीवक्रोपस्तस्य अनुबन्धसतत यो(या) प्रवृत्ति (वृत्ति) हिसाध्यवसायाशयस्खलनप्रवृद्धक्रोधानुबन्धस्तस्मात्‌ तथोक्तात्‌ बद्धक्रमोत्साहो बद्ध कमयो पादयोरुत्साहोउद्यमो यस्यस तथोक्त। अपर कथभूतो भूप। व्यालोललोचन विशेषेण चपलचक्षु। पुन [कथभूत]।सिंह इव पञ्चानन इव। यथा सिंहो हिंसास्खलने बद्धक्रमोत्साहउच्चलिताग्रपादद्वयोभवति चपललोचन स्यात्‌। उपमालकार। पुन कथभूतो भूप। भ्रुकुटिभीम भ्रुकुट्याभ्रूभङ्गेन भीमो भयानक। अपरं54 कथभूत। शिपिविष्ट इवशिपिप(?) चर्मणि विष्ट दोषो यस्यशिपिविष्ट श्रीमहादेव दुश्चर्मत्वात्‌। कर्कशशरीरत्वादित्यर्थ। कथभूत शिपिविष्ट। सहाराविष्ट पृथिवीप्रलयकर णाभिप्राय। अपर कथभूतो भूप। स्फुरिताधर चलिताधस्तनदन्तच्छद। अपर कथभूत। सुभट इवसरस्त्रभटलक्षभटकोटीभटसदृश। कथभूत सुभट। समालोकि तारातिघट सम्यगालोकिता दृष्टाअरातीनां शत्रूणा घटा रचना येन स तथोक्त। अपरंकथभूतो भूप। सपत्नलोहितविहितस्नानकाम परशुराम इव शोणशरीर शोण रक्त शरीरंयस्यस तथा।[अपर कथभूत।] परशुराम इव जमदग्निपुत्रइव कथ भूत परशुराम। सपत्नाना क्षत्रियाणालोहितेन रुधिरेण विहित कृत स्नानस्य भज्जनस्यकामोऽभिलाषौ येन स तथोक्त [पुन कथभूतो भूप।] प्रफटिततडिद्दण्डडम्बर

म्भोधर इव निस्त्रिंशदुर्दर्श, प्रत्यूहितस्वान्त कृतान्त इव भीषणाकार, क्रौर्यानलस्फुलिङ्गवर्षोचितैर्वीक्षितैपर्यन्तेषु दावदाहव्याप्तिमिव परिम्फारयन्‌

किंच।

ज्वलन्निवान्तर्ज्वलितेन तेजसा दहन्निवोग्रेण विलोकितेन।
आशीर्विष सर्प इवातिरौद्रश्चण्डेन खादन्निव चेष्टितेन॥१३५॥

सा देवता च।

दृष्ट्राकोटिनिविष्टदृष्टिकुटिलव्यालोकविस्फारितभ्रूभङ्गोद्भटभावभीषणमुखत्रस्यत्त्रिलोकीपति।

———————————————————————————————

प्रलयकालाम्भोधर इव निस्त्रिशदुर्दश। पुन कथ भूतो भूप55। निस्त्रिंशेन खड्गेन कृत्वा दुखेन महता कष्टेन द्रष्टुमशक्य स तथा। [क इव।] प्रलयकालाम्भोधर इव कत्पान्तकालमेघ इव। कथभूत प्रलयकालाम्भोधर। प्रकटित स्फुटीकृतस्तडिद्दण्डस्य विद्युद्दण्डस्य डम्बर आटोपो येन स तथोक्त। कथभूतोभूप। भीषणाकार भयानकमूर्ति। पुन कथ भूत56। कृतात इव यमसमान। कथभूत कृतान्त। प्रत्यूहितखान्त प्रत्यूहितस्खलित विघ्नासायित(?)खात मनो यस्यतथोक्त। भूप किं कुर्वन्‌। वीक्षितैरवलोकनै कृत्वापर्यन्तेषु पुरस्तात्‌ दावदाहव्याप्तिंदावानलप्रज्वलनप्रसार परिस्फारयन्निव प्रचुरीकुर्वन्निव। कथभूतैर्वीक्षिते। कौर्यानलस्फुलिङ्गा अग्निकणास्तेषा वर्षोचितैवषणसदृशै। किंच अस्तिकश्चिद्विशेष। ज्वलन्निवेत्यादि। अन्तर्ज्वलितेन अभ्यतरप्रदीप्तेन तेजसा प्रतापेन ज्वलन्निव। पुनश्च कि कुर्वन्‌ भूप। उग्रेण तीव्रण असह्येन विलोकिते अवलोकनेन दहन्निव जगत्‌ भस्मीकुवन्निव। पुनश्च कि कुर्वन्‌ भूप। चण्डेन प्रचण्डेन चेष्टितेन व्यापारेण खादन्निवभक्षयन्निव। कथभूतो भूप। अतिरौद्रअतिशयेन क्रूरस्वभाव। पुन आशीविष सर्पइव आशीर्विष दष्टायाविपहलाहल यस्यस आशीविष सर्पइव दन्दशूको यथा। उपमालकार॥

सा देवता च व्यलोकीति पूर्वाक्तमेव क्रियापद ग्राह्यम्‌। दष्ट्राकोटीत्यादि। यस्यादेवताया प्रचण्ड अतीवोद्भट वपु शरीरं विजयते अप्रतिहतव्यापारंवर्तते।कथभूतवपु। दष्ट्राकोटिनिविष्टदृष्टिकुटिलव्यालोकविस्फारित-भ्रृभङ्गोद्भटभावभीषणमुखत्रस्यत्त्रिलोकीपति दष्ट्रादाढा तस्याकोटिरग्रतत्रनिविष्टाउपविष्टालग्नायासौ दृष्टिलोचनयस्या कुटिलव्यालोकेन वक्रवीक्षितेन विस्फारित प्रचुरीकृतो योऽसौभ्रूभङ्गो भ्रूविक्षे पस्तस्यउद्भट आडम्बरसहितो योऽसौ भावोऽभिप्राय सर्वप्राणिभक्षणलक्षणस्तेन भीषणं

अपि च तस्या शरीरे मनसि च किमिव नैर्घृण्य वर्ण्यते। यस्याकपालमालाशिखण्डमण्डनानि, शवशिशव श्रवणावतसा, प्रमितप्रकोष्ठा कर्णकुण्डलानि, परेतकीकसमणय कण्ठभूषणानि, परासुनलरसा शरीरवर्णकानि, गतजीवितकरङ्का. करक्रीडाकमलानि, सीधुसिन्धव सध्याचमनकुल्या, पितृवनानि विहारभूमय, चिताभसितानि चन्द्रकवला,चण्डातकमार्द्रचर्माणि, सारसन मृतकान्त्रच्छेदा, प्रनर्तनप्रदेश सस्थितोरस्थलानि, कन्दुकविनोद स्तभोत्तमाङ्गै, जलकेलय शोणितदीर्धिकाभि, निशावलिप्रदीपा श्मशानकृशानुकीलाभि, प्रत्यवसानोपकरणानि नरशिर करोटिभि, महान्ति दोहदानि च सर्वसत्त्वोपहारेण।

—————————————————————————————————

अपि च अनु च तस्याश्चण्डमार्याशरीरे काये मनसि च हृदये किमिव कीदृशनैघृण्य निर्दयत्ववर्ण्यते। अनीदृशनैघृण्यमित्यर्थ। यस्याश्चण्डमाया कपालमालामनुष्यमुण्डश्रेणय शिखण्डमण्डनानि शिरोरत्नानि वर्तन्ते॥ शवशिशवोमृतकमनुष्यबालका श्रवणावतसा कर्णपूरा वतन्ते।प्रमितप्रकोष्ठामृतकविस्तृतकराकर्णकुण्ड लानि श्रवणवेष्टनानि वतन्ते। परेतकीकसमणय मृतकाना अस्थिघटितमणयकण्ठभूषणानि ग्रीवालकाराणि वतन्ते। परासुनलरसा परासूना मृतकाना नलाना पादास्थ

रसा निर्यासा द्रव्याणि शरीरवर्णकानि कायविलेपनानि वतन्ते। गतजीवितकरङ्कामृत कशुष्कशरीराणि करक्रीडाकमलानि केल्यम्बुजानि वतन्ते। सीधुसिधव मद्यसमुद्रा सध्याचमनकुल्या सध्याना आचमनाना उपस्पर्शाना कुल्यासरिण्यो वर्तन्ते। पितृवनानि श्मशानानि विहारभूमय क्रीडावनानि वतन्ते। चिताभसितानि मृतका ग्निभस्मानि चन्द्रकवला सुखमण्डनभूषणानि वतन्ते। चण्डातक चण्डभग्नम्‌। अतिचण्डातक अवारुक वस्त्रचलनकमिति यावत्‌। आद्रचर्माणि प्रत्यग्राजिनानिवतन्ते।सार सन कटिमेखलामृतकान्त्त्रच्छेदा पुरीतत्खण्डानि वतन्ते। प्रनर्तनप्रदेशोनृत्यभूमिस्स्थितोर स्थलानि सस्थिताना मृतकानाउरस्थलानि हृदयभूमय। कन्दुकविनोद कन्दुककेलिस्तभोत्तमाङ्गै

श्57छगल57मस्तकै कृत्वा। जलकेलयोजलक्रीडा शोणितदीर्थिकाभिशोणितवापिकाभि। निशावलिप्रदीपा सध्यापूजनदीपा श्मशानकृशानुकीलाभिशमशानवैश्वानरज्वालाभि। प्रत्यवसानोपकरणानि भोजनभाजनानि नरशिरकरोटिभिनराणा मनुष्याणा शिर करोटिभिर्मस्तकास्थिभि। महान्ति बहन्ति दोहदानि मनोरथाः सवसत्त्वोपहारेण सवजीवमारणपूजनेन। चकारात्‌ अत्यपकृष्टवस्तु। समुच्चयालकार.॥

या च लघीयसीभगिनीव यमस्य, जननीवमहाकालस्य, दूतिकेव कृतान्तस्य, सहचरीव कालाग्निरुद्रस्य, महानसिकीव मातृमण्डलस्य, धात्रीव यातुधाचलोकस्य, श्राद्धभूमिरिव पितृपतिपक्षस्य, क्षयरात्रिरिव समस्तजन्तूनाम्‚

न केवलमसौ नाम्नाचण्डमारीति पप्रथे।
अप्यङ्गचित्तचारित्रैश्चण्डमारीति विश्रुता॥१३८॥

तत्र सकलकुवलयामृतरुचिरभयरुचिमुनिकुमारस्तादृग्विध जनसबाधमवनिधातार देवताकार चावलोक्य

‘विशुद्धबोध तप एव रक्षा ग्रामेष्वरण्येषु च सयतानाम्‌।
अत कृतान्तेऽपि समीपवृत्तौमातर्मनो मा स्मकृथा निरीशम्‌॥१२९॥

————————————————————————————————————

या च देवता यमस्यकृतान्तस्य लघीयसीभगिनीव कनीयसी स्वसेव महाकाल[स्य] रुद्रस्यजननीव मातेव वर्तते। कृतान्तस्य यमस्यदूतिकेव सचारिकेव। कालाग्निरुद्रस्यप्रलयकालसबन्धिरुद्रस्यसहचरीव सखीव वतते। मातृमण्डलस्य सप्तमातृसमूहस्यमहानसिकीव रसवती पाचिकेव। साप्तमातृणा श्लोको यथा—‘ब्रह्माणी च तथेन्द्राणी वाराही भैरवी तथा।चामुण्डा कर्णमोटी च चर्चास्यु सप्त मातर॥’यातुधानलोकस्यराक्षसलोकस्यधात्रीव उपमातेव। पितृपतिपक्षख यमकर्णागतस्यश्राद्धभूमिरिव पितृपीन(प्रीणन)स्थानमिव। समस्तजन्तूना सर्वजीवाना क्षयरात्रिरिव संहारशर्वरीव॥

नेति58 असौ देवता केवलनाम्नाकृत्वाचण्डमारी इति न पप्रथे न प्रसिद्धा जाता। किंतु अङ्गचित्तचारित्रैरपि शरीरमन क्रियाभिरपि चण्डमारी इति विश्रुता विख्याता वतते। मालोपमालकार॥

तत्र देवताप्रासादमध्ये अभयरुचिमुनिकुमार अभयमते स्वसुर्भगिन्या मुखमवालोकिष्टविलोकितवान्‌। कथभूतो अभयरूचिमुनिकुमार। सकलकुवलयामृतरूचि सक लस्यकुवलयस्यपृथिवीमण्डलस्यअमृतरूचिराह्लादकारकश्चद्रइव। कथ स्वसुर्मुखम वालोकिष्ट। सकरूण दयासहित यथा भवत्येवम्‌। किंकृत्वा। पूर्वतादृग्विध पूर्वोक्तलक्षण जनसबाधलोकसघट्टअवनिधातारंराजान देवताकारं च चण्डमारीमूर्तिचअवलोक्य दृष्ट्वा। अभयरूचि कि कुर्वन्‌ मुखमवालोकिष्ट। इति ईदृशभाव निवेदयन्निव निजभगिन्या ज्ञापयन्निव। इतीति किम्‌।

**विशुद्धबोधमित्यादि।**हेमात हे भगिनि, अत एतस्मात्कारणात्‌

जीवस्यसद्दर्शनरत्नभाजश्चारित्रयुक्तस्यसमाहितस्य।
आशसितो मृत्युरुपप्रयात पर प्रमोदस्यसमागमाय॥१४०॥

सा मृतिर्यत्र जन्तूना पुरो दुखपरम्परा।
देहस्यास्य पुनर्मोक्षात्पुण्यभाजा महोत्सव॥१४१॥

इति निवेदयन्निव यतो मा कदाचिदस्यास्त्त्रैणो भावश्चिरान्मनोरथशतैरासादितमिद मनुष्यजन्म विफलता नैषीदिति कृतानुकम्पन सकरूणमभयमते स्वसुर्मुखमवालोकिष्ट।

यद्देवैरपि

पर्याप्त विरसावसानकटुकैरूच्चावचैर्नाकिना
सौख्यैर्मानसदु खदावदहनव्यापारदग्धात्मभि।

——————————————————————————————

कृतान्तेऽपि यमेऽपि समीपवृत्तौ निकटवर्तिनि सत्यपि मनश्चित्त निरीश निनाय मा म्म कृथा मा कार्षी। मा जानीहीत्यर्थ। अत कुत कारणात्‌। सयताना विशुद्धबोधसम्यग्ज्ञानमहित तप एवइच्छानिरोधलक्षण तपश्चरणमेव [न] अन्यत्किमपि। ग्रामेषुनगरादिषु अरण्येषु च अटव्यादिषु रक्षा वर्तते। समुच्चयालकार॥

जीवस्येत्यादि। हेमात। जीवस्यआत्मनो मृत्युर्मरण उपप्रयात आयात आ शसित सश्लाघितो भवति। न केवलमाशसित पर निश्चयेन प्रमोदस्य परमानन्दस्यसमागमाय आगमनाय भवति। कथभूतस्यजीवस्य। सद्दर्शनरत्नभाज सद्दर्शन सम्य क्त्वतदेव रत्न चिन्तामणि। त्रैलोक्योद्द्योतकारकत्वात्‌ शोभाया कारकत्वात्‌ च। स सद्दर्शनरत्नभाक्तस्यतथोक्तस्य। पुन कथभूतस्यजीवस्य। चारित्रयुक्तस्यव्रतोपपन्नस्य। भूयोऽपि कथभूतस्य जीवस्य। समाहितस्य आतिरौद्रध्यानद्वयरहितस्य। यथासभवधर्मध्यानेन शुक्लध्यानेन च सहितस्य। रूपकालकार॥

सा मृतिरित्यादि। हे मात, जन्तूनाप्राणिना सा जगत्प्रसिद्धामृतिमरण वर्तते। सा का। यत्रयस्या पुर आगामिनि भवे दु खपरम्परा दुखश्रेणिभवति। पुण्यभाजा पुण्यवता पुरुपाणा अस्यप्रत्यक्षीभूतस्यदेहस्य शरीरस्यमोक्षात्परित्यागात्‌ पुन विशेषेण महोत्सवो महत्पर्वंभवति। तथाचोक्तम्—‘मृत्युकत्पद्रुम प्राप्ययेनात्मार्था न साधित। निमग्नोजन्मजम्बाले स पश्चात्किंकरिष्यति॥’

अभयरूचि कथभूत। इति एतस्मात्‌ कारणात्‌ कृतानुकम्पन विहितकारूण्य। इतीतिकिम्‌। यतयस्मात्‌ कारणात्‌ चिरात्‌ दीर्घकालात्‌ मनोरथशतैबहुभिर्दोहदैरासादित प्राप्त इद प्रत्यक्षीभूत मानुष्य(मनुष्यजन्म) मानवावतार अस्या अभयमते स्त्रैणो भाव स्त्रीत्वपर्याय कदाचित्‌ कस्मिंश्चित्‌ प्रघट्टकेविफलता निष्फलता मा नैषीत्‌ मा स्मप्रापयत्॥

यदिति। पर्याप्तमिति। यत्यस्मात्‌ कारणात्देवैरपि आसतां तावन्नारकति—

इत्थ स्वर्गसुखावधीरणपरैराशास्यते तद्दिन
यत्रोत्पद्य मनुष्यजन्मनि मनोमोक्षाय धास्यामहे॥१४२॥

यस्तु लब्ध्वापि जन्मेद न धर्माय समीहते।
तस्यात्मकर्मभूमीषु विजृम्भन्ताभवाङ्कुरा॥१४३॥

स्थिरप्रकृतिरभयमतिरपि

तेनैव पर्याप्तमुदारबुद्धे स्नेहेन मे पूर्वकृतेन वत्स।
तस्मात्स्वदेहे मयिच क्षताश पर पदेतत्र मनो निधेहि॥१४४॥

——————————————————————————————————

र्यड्मनुष्या, कि तु देवैरपि चतुर्विधैरपि तद्दिन जगत्प्रसिद्ध दिवस आशास्यते अभि लष्यते। तत्किम्‌। यत्र यस्मिन्‌दिने मनुष्यजन्मनि उत्पद्यमानवभवे सभूय मोक्षाय सर्वकर्मक्षयलक्षणाय परमनिर्वाणाय मनश्चित्त धास्यामहे धरिष्यामो वयम्‌। कथभूतैदेवै। इत्यममुना प्रकारेण स्वर्गसुखावधीरणपरैस्वर्गलोकसौरयावहेलनतत्परैत्यज नतत्परै। इत्थ कथमिति चेत्‌ इत्याह—नाकिना देवताना सौरयैसुखैपर्याप्त अस्माक परिपूर्णजातम्‌। कथभूतै नाकिना सौरयै। विरसावसानकटुकैविरसानि नीरसानि यानि अवसाने कटुकानि अन्ते हालाहलविषसमानि विरसावसानकटुकानि तै। अपर कथभूतै सौख्यै। उच्चावचैउच्चानि उच्कृष्टानि क्वचित्‌ इन्द्रादिषु अवचानि निकृष्टानि क्वचित्किल्बिषान्ते उच्चावचानि तै। अपर कथभूतै सौख्यै। मानसदु खदावदहनव्यापारदग्धात्मभि मनसि भव मानसम्‌। शैषिकेण अण्प्रत्ययेन सिद्ध रूपमिदम्‌। मानस च तद्दुख च मानसदुख तदेव दावदहन दावानल। सर्वेषा देवाना दाहसतापकारकत्वात्। तस्यव्यापार प्रज्वलन तेन दग्धा भस्मीकृता आत्मान स्वरूपाणि येषा सौख्याना तानि मानसदु खदावदहनव्यापारदग्धात्मानि तैस्तथोक्तै। रूपकालकार॥

यस्तु लब्ध्वेत्यादि। य पुमान्‌ इदप्रत्यक्षीभूत जन्ममनुष्यभव लब्ध्वापि सप्राप्यापि धर्माय प्राणिदयालक्षणाय न समीहते न सम्यक्‌ चेष्टते तस्य पुरुषस्यआत्मकर्मभूमीषु जीवकर्मणो प्रदेशेषु भवाङ्कुरा जन्मान्तरनवोद्धिदो विजृम्भन्ता प्रसर्पन्तु प्रसर तु उत्पद्यन्ताम्‌। रूपकालकार॥

स्थिरेति। अभयमतिरपि मदनमतिरपि प्रसादवद्भिप्रसनतरैरपाङ्गपातेर्निशितविलोकितैकृत्वातदानन अभयरूचिमुखकमलमपश्यत्‌ ददर्श। कथभूता अभयमति। स्थिरप्रकृति चारित्रप्रतिपालने निश्चलस्वभावा।अपरं कथभूता अभयमति। इति अमुना प्रकारेण विदितपरमार्थतया विज्ञाततत्त्वज्ञानतया अवधीरितमरणभया निवारितमृत्युभीति। इतीति किम्‌। तेनैवेत्यादि। हे वत्स। वत्सेति कोमलालापे। हे उदारबुद्धे हे उन्नतमते। तेनैव पूर्वकृतेन चन्द्रमतिभवान्तरोत्पन्नेन स्नेहेन सौहार्देन मे

त्व मोक्षलक्ष्मीक्षमदीक्षदेह स्त्रीत्वान्न तन्मान्यमिद वपुर्मे।
अतो मदीयाङ्गहतान्तरायो मुक्तयङ्गनासगमने यतस्व॥१४५॥

इति विदितपरमार्थतयावधीरितमरणभया प्रसादवद्भिरपाङ्गपातै सहजन्मनश्चेतसि शोचनचिन्तामिवापचिन्वती तदाननमपश्यत्।
किं च।

देहायते कर्मण्यय नर स्त्रीजनोऽयमिति भवति।
चित्तायत्तेकर्मण्यधिका नारी तु मध्यम पुरुष॥१४६॥

अचलापतिरपि स मारि(र)दत्त प्रतीहारनिवेदितागमनवृत्तस्य मुनिकुमारकयुगलस्य विलोकनात्कुम्भोद्भवोदयात्तोयाशय इव नितरा प्रससाद


मम पर्याप्त परिपूर्णता जाता। तस्मात् कारणात् स्वदेहे तव शरीरे मयि च मयि विषये क्षताशो निराश सन् परं निश्चयेन तत्र पदे निर्वाणस्थाने मनस्तव चित्त निधेहि आरोपय। जात्यलकार॥

त्वमित्यादि। उदारबुद्धे, स त्वं भवान् मोक्षलक्ष्मीक्षमदीक्षदेह मोक्षलक्ष्म्या मोक्षश्रियां क्षमा समथा दीक्षा व्रत यस्य स मोक्षलक्ष्मीक्षमदीक्ष एवविधो देह शरीर यस्य स मोक्षलक्ष्मीक्षमदीक्षदेह मे मम इद प्रत्यक्षीभूत वपु शरीरं तन्मान्य मोक्षदीक्षाया माननीय न भवति। कस्मात्। स्त्रीत्वात्। स्त्रीपर्याये मोक्षो न भवतीत्यर्थ। अत कारणात् मदीयाङ्गहतान्तराय सन् मदीये अङ्गेहत अन्तरायश्चिन्ता चक्र येन स मदीयाङ्गहतान्तराय मुक्त्यङ्गनासगमने मुक्तिस्त्रीसगमे यतस्वयत्र कुरुष्व। रूपकालकार॥

अभयमति कि कुर्वती। सहजन्मनो निजभ्रातुश्चेतसि मनसि शोचनचिन्ता शोकार्ति अपचिन्वतीवनिराकुवतीव। उत्प्रेक्षालकार॥

कि च अस्ति कविद्विशेष। देहायत्तेइत्यादि। देहायते कर्मणि शरीराधी नाया कियाया अय नर एष पुरुषोऽयमेष स्त्रीजन इति एव भवति संजायते। चित्तायते कर्मणि हदयाधीनाया कियाया नारी तु अधिका पूज्यतरा इव भवति सीता दिवत्। पुरुषस्तु पुमान् मध्यमो निकृष्टतरो भवति दशग्रीवादिवत्। जात्यलकार॥

अचलापतिरपि स मारि(र)दत्त प्रतीहारनिवेदितागमनपृत्तस्य मुनिकुमारकयुगलस्य विलोकनात्कुम्भोद्भवोदयात्तोयाशय इव नितरा प्रससाद चेतसि। सजगत्प्रसिद्धो मारदत्तो बाहुबलिदेव एन देयात् मारदस। ‘किच्कौ च सज्ञायामाशिषि’ इति वचनात् त्त्कलक्षणकृत्प्रत्ययः। ‘दोदद्धो ’ इति वचनात् दाधातोर्ददावेश। स मारदतोऽपि अचलापति राजापि मुनिकुमारकयुगलस्य बिलोकनात्यशस्तिलकमदनमतिकुमारक्रयु-

चेतसि, विश्वद्युतिदशेनान्नभइव मुमोच कलुषता छोचनयो, जिनैतिह्यावगमान्महाभाग इव करुणरसमवाप करणेषु, प्रणिधानविशेषान्मुमुक्षुरिव तमस्तिरश्चकारान्तरात्मदिशि। पुन कोपप्रसादयोरपरनरपाललक्ष्मीलाघवेतरव्यवहारपरिच्छेद्विडम्बिततुलादण्डविभ्रमेण भ्रूलतोल्लासनस-


ग्मस्य दर्शनात्‌ चेतसि मनसि नितरामतिशयेन प्रससाद प्रसन्नो बभूव। कस्मात्‌ क इव। कुम्भोद्भवोदयात्‌ अगस्त्योदयात्‌ तोयाशय इव जलाशय इव। कथभूतस्य तस्य मुनिकुमारयुगलस्य। प्रतीहारनिवेदितागमनवृत्तस्य प्रतीहारेण द्वारपालेन निवेदित विज्ञापित आगमनस्य पृत्त वार्ता यस्य तत्तथोक्त तस्य। विश्वद्युतिदर्शनान्नभ इव मुमोच कलुषता लोचनयो। सअचलापति लोचनयोनेत्रर्योकलुषता कालुष्यमालिन्य सुमोच तत्याज। कस्मात्किमिव। विश्वद्युतिदशेनात्‌ श्रीसूर्योदयावलोकनात्‌ नभ इव आकाशमिव। यथा सूर्यदर्शनात्‌ नभो मालिन्य मुञ्चति। जिनैतिह्यावगमान्महाभाग इवकरुणरसमवाप करणेषु। अचलापति करणेषु इन्द्रियेषु करुणरस करुणामृत अवाप प्राप। कस्मात्क इव। जिनैतिह्यावगमाव्‌ महाभाग इव। यथा महाभाग पुण्यवान्‌ पुरुषो जिनागमपरिज्ञानात्‌ करुणारसमवाप्रोति। प्रणिवान विशेषान्मुमुक्षुरिव तमस्तिरश्चकारातरात्मदिशि।अचलापति अन्तरात्मदिशिमनसि तमोऽज्ञान तिरश्चकार दूरीचकार। कस्मात्क इव। प्रणिधानविशेषान्मुमुक्ष मोक्तुमिच्छुर्मुनि प्रणिधानविशेषात् ध्यानभेदात्‌ तमस्तिरस्करोति। पुनरिति। पुन प्रसन्नीभवनानन्तरं स अचलापतिस्तन्युनिकुमारकयुगल59उत्तरीयासने उपरितनवस्त्रोपरिपुरस्तादपग्रत उपावींविशत्‌ उपवेशयामास। कथभूते उत्तरीयासने। प्रदेशिनीनिदेकादिष्टनिकटलालटिकपरिकल्पने प्रदेशिन्यास्तर्जन्यड्गुल्यानिदेशेन आदिष्ट आज्ञापितो योऽसौ निकटलालटिक समीपवर्तिसेवकस्तेन परिकत्पन रचना यस्य उत्तरीयासनस तत्त थेाक्त तस्मिन्‌। किंकृत्वा। पूर्व भ्रूलतोल्लासनसभ्रमेण भ्रूरेव लता वल्ली। नामोन्नाम करणशीलत्वात्‌। तस्या उल्लासनमुत्क्षेपस्तस्स सभ्रमेण आद्रेण सभाभ्यन्तराध्वनि सभामध्यमार्गजनसबाध सेवकसघट्टन अपवार्य उत्सार्य। कथभूतेन भ्रूलतोल्लासनस भ्रमेण। कोपप्रमादयो कोपे प्रसादे च अपरनरपालाना लक्ष्म्या लाघवेतरो [लघुत्वा] लघुत्वलक्षणो योऽसौ व्यवहारस्तौलन तस्य परिच्छेदे परिज्ञाने विडम्बितस्तिरकृत तुलादण्डस्ययोतवद्ण्डस्यविभ्रम शोभा येन तथोक्तस्तेन भ्रूलतोल्लासनसभ्रमेण। कोपे सति अपरनरपालाना लक्ष्मी साधव प्राप्रोति, प्रसादेनातिगुरुत्व गच्छतीति। यथासख्यालकार॥

भ्रमेणापवार्य सभाभ्यन्तराध्वनि जनसबाधम्, अतीव च मनसि विस्मयमान प्रहर्षोत्कर्षवर्षाभिस्यन्दबिन्दुञ्जरीजटिलपक्ष्मपल्लव’कथनामैतद्दर्शनादाचान्तामृतमिवनृशसाशयबहलकाप्/मपि मुहु प्रशान्त मे चेत, चक्षु पुन कुलिशकीलितमिव कथ न विषयान्तरमवगाहते, चिरप्रवसितप्रणयिजनावलोकनादिव कथमयमात्मा परमतर्मोदते, चित्तमपि चेद चिरायाचरितपरिचयमिव कथमतीनानन्दथुमन्थरम्, कि नु खलु तदेतन्न स्या न्मम भागिनेययमलम्, आचकर्ण चापरेद्युरेव रेवतकनामप्रसिद्धात्कुलवृद्धादेतस्य बालकाल एवाश्चर्याय तपश्चर्यापर्यायम्, भवन्ति हीमानीन्द्रियाण्यदृष्टपूर्वेष्वपि प्रियजनेषु प्रायेण प्रातस्तपनतेजासीव रागोल्बणवयासि।

——————————————————————————————

कथभूत स अचलापति। अतीव च अतिशयेन मनसि चित्ते विस्मयमान आश्चर्य कुर्वाण। पुनश्च किविशिष्टो राजा। प्रहर्षोत्कर्षवर्षाभिस्यन्दबिन्दुमञ्जरीजटिलपक्ष्मपल्लव प्रहर्षेण आनन्देन प्रहर्षस्य आनन्दस्य वा योऽसावुत्कर्षवर्ष अतिशयवदश्रुपातस्तम्य अभिस्यन्दबिदूना स्रवणविप्रुषा मञ्जरीभिर्वल्लरीभि जटिला कर्बुरा पक्ष्मपल्लवा लोचनरोमाप्राणि यस्य राज्ञ स तथोक्त। राजा स्वगतमेव चिन्तयति। एवकथमिति चेत् — एतद्दर्शनात् एतयो विलोकनात् कथ केन प्रकारेण। नामेति सभावनायाम्। मे मम चेतो मनो मुहुर्वारवार प्रशान्त अकरता प्राप्तम्। कथभूत चेत। नृशसाशयबहलकाउष्यमपि नृशसो हिसको योऽसावाशय परिणामस्तेन बहल प्रचुरतरं कालुष्य खलता कलुषता यस्मिन् चेतसि तत्तथोक्तम्। कीदृश प्रशान्त जात मे चेत। आचातामृतमिव आचान्तम् आस्वादित अमृत पीयूष येन तयोक्तम्। इव यथा मम चक्षुर्लाचन युगल पुन कथकेन प्रकारेण विषयान्तर अपर प्रदेश नावगाहते न प्रविशति। किमिव। कुलिशकीलितमिव वज्रेण विद्धमिव। अय आत्मा अय जीव कथ केन प्रकारेण परमुत्कपर्णे अन्तर्मनसि मोदते हर्ष करोति आनन्द भजते। कस्मादिव। चिरप्रवसितप्रणयिजनावलोक्नादिव चिरं दीघकाल प्रवसित परदेश गत प्रणयिजन स्त्रेहवान्मनु व्यस्तस्य अवलोकनात् निरीक्षणादिव।चित्तमपि च हृदय इद प्रत्यक्षीभूत कथ केन प्रकारेण अतीवातिशयेन आनन्दजुनाआनन्देन म यर मन्दगामि वर्तते। किमिव। चिरायाचरितपरिचयमिवचिराय चिरंतनाय। दीघकालमिति यावत्। आचरित। कृत परिचय संगतिर्येन तत्तथोक्तम्। नु इति वितर्क। किमथवा। खलुनिश्चयेन। तज्जगत्प्रसिद्ध एतत् प्रत्यक्षीभूत मम मे भागिनेययमल स्वस्त्रीययुगल न स्यात् न भवेत्। अपरेद्युरेव अपरस्मिन्नहनि एव। किंनामप्रसिद्धात्। रेवतक इति नाम अभिधेय प्रसिद्ध प्रकट यस्य स रेवतकनामप्रसिद्धस्तस्मात् कूलवृद्धात् अस्मत्कुले वर्षीयस एतस्य मम

यत।

आनन्दबाष्पजरपूरितनेत्रपात्रै
प्रत्यङ्गजातपुरुकप्रसवार्पितार्धै।
चित्तैप्रमोदमधुपर्ककृतातिथेयै-
राख्यायते प्रियजनो ननु पूर्वमेव॥१8७॥

तदलमत्र सौ(शौ)द्धोदनेरिव बाह्यग्राह्यविकलेन विकल्पजालेन। सफलयामि तावदेतदालापनदोहदादेव हृदयालवालपरिसरे विहितावरोहमौत्सुक्यानोकहम्60।’

————————————————————————

भागिनेयस्य बालकालएवशिशुकालएवतपश्चर्यापर्याय तपश्चरणानुक्रम आचकर्ण आकर्णितवानहम्‌। ‘श्री(श्री)द्रुशु(श्रु)कमिकारिफान्तेभ्यश्चण्‌ कर्तरि’ इति सूत्रेणचणि प्रत्ययेऽद्यतन्या अपि च सति द्विर्वचने जाते ‘आचकर्णम्‌’इति जायते। कथभूत तपश्चर्यापर्यायम्‌। आश्चर्यायम्‌ आश्चर्यस्यविस्मयस्यआय उत्पादो यस्यतपश्चयापर्यायस्यस आश्चयोयस्त आश्वयायम्‌। हि यस्मात्‌ इमानि भूतानि इन्दियाणि चक्षुरादीनि अदृष्टपूर्वेष्वपि अविलेाकितेष्वपि प्रियजनेषु बन्धुवर्गेषु प्रायेण बाहुल्येन रागोल्बणवयासि रागेण उत्बणवयासि उत्क्टतारण्यानि भवन्ति सजायन्ते। कानीव। प्रातस्तपनतेजासीव प्रातस्तपन उद्य दभास्करस्तस्य तेजासीव। यथा उद्यप्राप्तसूर्यस्यतेजासि उद्द्यो तानि रागोत्बणानि भवन्ति रक्तसयुक्तानि भवन्ति।

यत्‌ यस्मात्‌ कारणात्‌। आनन्दबाष्पेत्यादि। ननुअहो प्रियजन प्रियमानुष कर्मतापन्न चित्तैर्मनोभिकर्तृभूतैपूर्वमेव सभाषणमन्तरेणापि आख्यायते सूचयति। कथभूतैश्चित्तै। आनन्दबाष्पजलपूरितनेत्रपात्रै आनन्दसबन्धि यद्वाष्पजलअशरुदकतेन पूरित भरिते नेत्रपानलाेचनामन्र यैश्चित्तैसानि तथोत्त्कानि तै। अपरं कथभूतै श्चित्तै। प्रत्यड़ग्जातपुलकप्रसवार्पितार्घैअड़ग्मड़ग्प्रति प्रत्यड़ग्म्। सर्वाङ्गेष्वित्यर्थ। जाता उत्पन्ना ये पुलकारोमहर्षणानि त एव प्रसवापुष्पाणि मनोविकासहेतुत्वात्‌ तैरर्पितो दत्तो अर्घपूजा येश्चित्तैस्तानि तै। भूयोऽपि कथभूतैश्चित्तै। प्रमोदमधुपकेकृतातिथेयै प्रमोदआह्लाद स एव मधुपर्को दधिघृतमधुपादार्पण तेन कृत आतिथेय प्राघुणिक क्रिया येधित्तैस्तानि तथोक्तानि तै। रूपकालकार।

तत्तस्मात्‌ कारणात्‌ अत्र अस्मिन्नर्थेविकल्पजालेन सकल्पसमूहेन अलपूर्णम्‌। कंथभूतेन विकल्पजालेन। बाह्मग्राह्मविकलेन बाह्य वस्तु ग्राह्य ग्रहणीय ज्ञापनीय तेन विकलशून्य तेन। कस्येव। शैद्धोदनेरिव शुद्धोदनेरिव शुद्धाेदनेरिव शुद्धाेदनस्यापत्यपुमान्‌शौद्धो

अत्रावसरे स्वामिन प्रसन्नरस मानसमवसायावसरविलासनामकेन वैतालिकेनेढवृत्तद्वयमागीयते स्म—

‘नासन्ना रिपवो न चापि भवत कश्चिन्निदेशावश
श्रीरेषा तव देव या प्रणयिनी तस्यैन कोऽपीर्प्यति।
गाढ मुष्टिनिपीडनश्रमभरप्रोद्वान्तधाराजला
मुञ्चत्वाहवकेलिदो सहचरी तत्खड्गयष्टिंभवान्‌॥१४८॥

दयार्द्रचित्तैर्मुनिभिसमागमान्निसर्गहिस्रोऽपि जन प्रशाम्यति।
आहार्यहिसामतय शमोदय भजन्ति यद्देव तदद्भुत कुत॥१४९॥’

————————————————————————————

दनिस्तस्यशोद्धोदनेर्बोद्धस्यविकल्पजाल ज्ञानस्वरूप बाह्यग्राह्यविकल भवति। तथामम विकत्पेन अलम्‌। सफलयामि फलसयुत्त्ककरोमीति यावत्‌, तावत्‌अनुक्रमेण एतदा लापनदोहदादेव एतयोरालापनस्यआभाषणस्यदोहदात्मनोरथात्‌ औत्मुक्यानोकह उत्कण्ठतावृक्षम्। कथभूतमौत्सुक्यानोकहम्। हृदयालवालपरिसरे हृदयमेत्वआलवाल जलसेचनस्थानक तस्यपरिसर उपाम्तभाग तस्मिन्विहितावरोह कृताङ्कुरम्‌॥

अत्रावसरे नृपते स्वगतचित्तेन प्रस्तावे स्वामिनो नरेद्रस्य प्रसन्नरसंनिर्मलरस निर्मलराग मानस चित्त अवसाय ज्ञात्वाअवसरविलासनामकेन वैतालिकेन भट्टन इद वक्ष्यमाणलक्षणोपलक्षित वृत्तद्वयश्लेाकद्वयआगीयते स्मप ठितमिति। किंतद्रुत्तद्वयमि त्याह—नासन्ना रिपव इत्यादि। हे देव हे राजाधिराज, भवतस्तव रिपव शत्रव आसन्ना निकटतरा न वर्तन्ते। न चापि नैव कश्चित्पुमान्‌ भवतस्तव

विदेशावश आदेशपराङ्मुखो वर्तते। एषा प्रत्यक्षीभूता या तव श्री लक्ष्मी प्रणयिनी स्नहयती

वर्तते, तस्यैश्रियैकोऽपि पुमान्‌ न इर्ष्यति न कुप्यति। ‘यस्मैकुप्यति’इत्यनेन चतुर्थीविधानम्‌। तत्तस्मात्‌ कारणात्‌ भवान् त्वखङ्गयष्टिं मण्डलाग्रमुञ्चतु परित्यजतु। कथभूतां सङ्गयष्टिम्। गाढ मुष्टिनिपीडनश्रमभरप्राेद्वान्तधाराजलाम्‌ गाढ दृढयथा भवत्येव यन्मुष्टिनिपीडन मुष्टया दृढ ग्रहण तस्यश्रमभरेण आायासभारेण प्राेद्वान्त ऊर्द्वमुच्छलित धाराजलयस्यासा तथोत्त्काताम्‌। पुन कथभूतां खड्गयष्टिम्। आहव केलिदो सहचरीम्‌ आहवकेलौसग्रामक्रीडाया दोण्योबाहुदण्डस्यसहचरी सखीसदृशीताम्‌। रूपकालकार॥

दयार्द्रचित्तैरित्यादि। हे देव है राजाधिराज, दयाद्रचित्तैकरूणारससरममानसैमुनिभिर्यतिवरैसमागमात्‌ आगमनात्‌ निसगहिस्त्रोऽपि स्वभावेनशरारूरपि जन पुमान्‌ प्रशाम्यत्युपशमंभजते। आहार्यहिंसामतय संसर्गण हिंमासयुत्त्कमनस पुमांसो यत्‌ शमोदय उपशमप्रादुर्भाव भजन्ति सेवन्ते, तत्अद्भुतमाश्चर्यम्। कुत।न कुतोऽपीति। आक्षेपालकार॥

पुनरप्यसौ वैतालिकश्चिरमशिखामणिभूषणमपि कचमरीचिमेचकितमस्तकम्, अनवतसमपि लोचनरुचिकुवलयितकर्णम्, अनलकारमपि कपोलकान्तिकुण्डलितमुखमण्डलम्, अनावरणमपि वपु प्रभापटलदुकुलोत्तरीयम्, अरण्यप्रेम्णा वदनव्याजेन कमलसर इव भुजच्छद्मना लताराममिवोरुमिषेण कदलीकाण्डकाननमिव चलनलक्षेणाशोकवनमिव च सहानयमानम्, इन्दुमृगेक्षणद्युतिसपादितमिव कुन्तलेपु, सुरतरुफलकप्रसाधितमिवालिकयो, कामकोदण्डकोटिघटितमिव भ्रूषु, रत्नकरण्डकोत्कीर्णमिव नेत्रेषु, स्मरशरपुड़्खोल्लिखित-

——————————————————

पुनरपि वृत्तद्वयाध्ययनानन्तर असौ प्रत्यक्षीभूतो वैतालिक अवसरविलासनामको भट्टश्चिर दीर्घकाल तमुनिकुमारकयुगल विलोक्य दृष्ट्वा इद वक्ष्यमाणलक्षणोपलक्षित वृत्त श्लेाकमेक अपाठीत् पठितवानिति क्रियाकारकसबन्ध। कथभूत मुनिकुमारकयुगलम्। अशियामणिभूषणमपि शिरोरत्नाभरणरहितमपि कचमरीचिमेचक्रितमस्तक क्चाना कुन्तलाना मरीचिभि किरणैर्मेचकितो शिरोरत्न्नाभरणसहितो मस्तको यस्य मुनिकुमारकयुगलस्य तत्तयोक्तम्। अनवतसमपि कर्णपूररहितमपि लोचनरुचिकुवलयितकर्णम् लोचनाना रुचिभि प्रभाभि कुवलयिता कर्णा शब्दग्रहा यस्य मुनिकुमारकयुगलस्य तत्त योक्तम्। अनलकारमपि कणवेष्टनरहितमपि कपोलकान्तिकुण्डलितमुखमण्डलम् कपोलाना गण्डस्थलाना कान्तिभी रुचिभि कुण्डलिते कनककुण्डलसयुक्ते कृते मुखमण्डले मुखे यस्य तत्तथोक्तम्। अनावरणमपि सवानवस्त्ररहितमपि वपु प्रभापटलदुकूलोत्तरी यम् वपुष प्रभापटलो रुचिसमूहो एव दुकुलोत्तरीये पट्टदुकूलसवनयुपरितनवस्ने यस्य तत्तथोक्तम्। मुनिकुमारकयुगल किंकुर्वाणम्। अरण्यप्रेम्णा वनस्नेहेन वदनव्याजेन मुखमिपेण कमलसर कमलवन सह सार्थ आनयमानमिव आनयदिव। भुजछद्मना वाहुमिपेण लताराम वल्लीवन सहानयनमानमिव। ऊरुमिषेण सक्क्षोऽपदेशेन कदली काण्डकानन अशुमत्फलस्तम्भवन सहानयमानमिव। चलनलक्षेण पादाना मिषेण अशोकवन ककेलिफानन सहानयमानमिव। उत्प्रेक्षालकार। कथभूत मुनिकुमारकयुगलम्। कुन्तरेषु केशेषु इन्दुमृगेक्षणद्युतिसपादितमिव इन्दोश्चद्रमसो योऽसौ मृगो हरिणस्तस्यईक्षणे लोचने तयोद्युत्या दीप्त्या कान्त्या सपादितमिव रचितमिव। पुन कथभूत मुनि कुमारकयुगलम्। अलिकयोर्ललाटयोविषये सुरतरुफलकप्रसाधितमिव कल्पतरुपट्टकानिर्मापितमिव। पुन कयभूत मुनिकुमारकयुगलम्।भ्रूषु चक्ररोमिकासु कामकोदण्डकोटिघटितमिव कामस्य कन्दर्पस्य यत् कोदण्ड घनुस्तस्य कोटिरग्र तया घटित निष्पादितमिव। पुन कथभूत मुनिकुमारकयुगलम्। नेत्रेषु लोचनेषु रत्नकरण्डकोत्कीर्णमिव रत्नानां करण्डको रत्नकरण्डक रक्तशुक्लकृष्णसमुदायस्तेन उत्कीणमिव घटितमिव। पुन कथभूत मुनिकुमारकयुगलम्। पक्ष्मसु नेत्राणा रोमसु स्मरशरपुञ्जोल्लिखितमिव स्मरस्य कन्दर्पस्य ये शरा बाणास्तेषा पुड़्खैप्रापत्रै उल्लिखितमिव निर्मितमिव। पुन कथ-

‬‎मिव पक्ष्मसु, रतिक्रीडाकीरास्यलावण्यविहितमिव नासयो, लक्ष्मीविभ्रमादर्शविनिर्मितमिव कपोलेपु, कीर्तिसरस्वतीविलासदोलाकृतमिव श्रोत्रेषु, सध्यारुणामृतकरखण्डनिर्वर्तितमिवाधरयोस्तन्मुनिकुमार-कयुगल विलोकयोद्वृत्तमपाठीत्—

‘बालद्रुम स्वसृलतोद्गतिकान्तमूर्ति-
र्जात कथ पयि करालकृशानुवृत्ते।
आ पाप पुष्पशर सप्रति कस्तवान्य
केलीकृते यढनयोस्त्वमुपेक्षितोऽसि॥१५०॥’

एतच्चासावुपनिशम्य प्रवेष्टहाटककटकप्रदानपुर सरमेतदाननाम्बुरुहमवलोक्य पुनश्च य समभ्यर्णोत्कीर्णतयावतीर्णस्याकर्णविदीर्णवदनस्य वे–

——————————————————

भूत मुनिकुमारकयुगलम्। नासयोनासिकयोर्विषये रतिक्रीडाकीरास्यलावण्यविहितमिवरते कामभार्याया क्रीडाकीरा लीलाशुकास्तेषामास्य मुख तस्य लावण्येन कान्त्या विहितमिव रचितमिव। पुन कथभूत मुनिकुमारकयुगलम्। कपोलेषु गण्डस्थलेषु लक्ष्मीविभ्रमादर्शविनिर्मितमिव लक्ष्म्या महापुण्डरीकवासिन्या विभ्रमादश क्रीडादर्पणस्तेन विनिमितमिव सृष्टमिव। पुन क्यभूत मुनिकुमारकयुगलम्। श्रोत्रेषु कर्णेषु कीर्तिसरस्वतीविलास दोलाकृतमिव कीतिश्चसरस्वती च जैनभारती तयोर्विलासदोला कीडाप्रेङ्खास्ताभि कृतमिव। पुन कथभूत सुनिकुमारकयुगलम्। अधरयोर्दन्तच्छदयोविषये सध्यारुणामृतकरखण्डनिर्वतितमिव सध्याया सबन्धी योऽसावरुणामृतकर अव्यक्त रागश्चन्द्रस्तस्य खण्डाभ्या नेमाभ्या निवर्तितमिव अनुष्ठितमिव॥

अवसरविलासनामको भट्ट किमपाठीदित्याह**— बालद्रुम इत्यादि।** बालद्रुम अभयरचिनामा शिशुवृक्ष कथ केन प्रकारेण करालकृशानुरतेरौद्रवैश्वानरानुवतनस्य पथि मार्ग जात समुत्पन्न। कथभूतो बालद्रुम। स्वसृलतोद्गतिकातमूर्ति भगिनी लताप्रादुभावेण मनोहरमूर्ति। आ इति कोपे पीडाया बा। ‘आस्तु स्यात् कोपपीडयेा’ इति वचनात्। रे पापमूत रे पुप्पशर रे कन्दप संप्रति इदानीं वर्तमानकाले तव भवत केलीकृते कीडानिमित्त अन्य पुमान् को वतते। यत् यस्मात् कारणात् अनयोमुनिकुमारयोर्विषये त्व भवान् उपेक्षितोऽसि अनादरवान् असि वतसे॥

एतश्चेति। एतश्चउक्तलक्षण वृत्तम्। चकारात् पूर्वोक्तलक्षण द्वय च। असौराजा उप निशम्य श्रुत्वा प्रवेष्टहाटककटकप्रदानपुर सरं प्रवेष्टयो भुजयोर्हाटक्कटकयो क्नकककणयो प्रदानपुर सरं विश्राणनपूर्व यथा भवत्येवमपि। एतदाननाम्युरुह अवसरविलासनामभट्टमुखकमल अवलोक्य दृष्ट्वापुनश्चपुनरपित पूर्वाक्तकरवाल खड्गरुद्राणीपादपी-

तालचक्रस्य प्रतिक्रान्तविकटदष्ट्राचक्रवाल स्वधाराजलनिमग्नसपत्नकीकसकराल इव, प्रतिबिम्बिताधरा-वलिहजिह्वाप्रतान पराक्रमाकृष्टद्विष्टश्रीविरहविनोदपरिकल्पितकमलकानन इव, प्रतिमासमागताङ्गार-निभनेत्रनिकर प्रदर्शितशत्रुक्षत्रक्षयकालोल्काजालावतर इव, पुरुदसोदर्शनप्रकाशकेशप्रतिशरीरदुर्दर्शिककल प्रचलिताखिलरिपुलोकग्रसनसमर्थजाठरानल इव, प्रतियातनागताङ्गसड़ग्ताभोगतनु समाक्षिप्तविपक्ष-क्षयदक्षराक्षसक्षेत्र इव,

——————————————————

ठोपकण्ठे करादुत्सृज्य हस्ताद्विमुच्य मुनिकुमारकयुगल उपावीविशदिति सबन्ध। क करवालम्। य करवाल समभ्यर्णोत्कीर्णतया निकटतरपाषाणादिभिर्घटिततया अवतीर्णस्य प्रतिबिम्बितस्य आकर्णविदीर्णवदनस्य आकर्ण कर्णपर्यन्त विदीर्णानि स्फुरितानि वदनानि मुखानि यस्य तदाकर्णविदीर्णवदन तस्य आकर्णविदीर्णवदनस्य एव भूतस्य वेतालचक्रस्य भूताविष्टमृतकशरीरसमूहस्य प्रतिक्रान्तविकटदष्ट्राचक्रवाल प्रतिकान्त प्रतिबिम्बित विकटानां वक्रतराणा दष्ट्राणा दाढाना चक्रवाल मण्डल यस्मिन् करवाले स प्रतिकान्तविकटदष्ट्राचक्रबाल। अपरं61 कथभूत करवाल। उत्प्रेक्ष्यते — खधाराजलनिमग्नसपत्नकीकसकराल इव स्वस्य आत्मनो यद्धाराजल62 नेमिस्थितोदक तत्र निमग्नाब्रुडिता पाताल गता ये सपत्नाशत्रवस्तेषा कीकसानि हड्डानि तै कराल रौद्रमूर्तिरिव। पुनरपि कथभूत करवाल। प्रतिबिम्बिताधरावलिहजिह्वाप्रतान प्रतिबिम्बित प्रतिफलित प्रतिच्छन्दमागत अधरावलिहाना जिह्वाना प्रतान समूहो यस्मिन् करवाले स तथोक्त। पुनरपि61 कथभूत करवाल। उत्प्रेक्ष्यते — पराक्रमाकृष्टद्विष्टश्रीविरहविनोदपरिकल्पितकमलकानन इव पराक्रमेण बलात्कारेण आकृष्टा केशेषु धृत्वासमानीता या द्विष्टश्री शत्रुलक्ष्मीस्तस्या विरहविनोदाय विप्रलम्भस्फेटनाय परिकल्पित रचित कमलकानन क्मलवन यस्मिन् करवाले स तथोक्त। पुनरपि कथभूत करवाल। प्रतिमासमागताङ्गारनिभनेत्रनिकर प्रतिमा प्रतिच्छाया प्रतिबिम्ब समागता ये अङ्गा रनिभनेत्रा अङ्गारसमानलोचना राक्षसविशेषास्तेषा निकर समूहो यस्मिन् करवाले स तथोक्त।अपरं61 कथभूत करवाल। उत्प्रेक्ष्यते— प्रदर्शितशत्रुक्षनक्षयकालोल्काजालावतर इव प्रदशित प्रकटित शत्रुक्षत्राणा सपत्ननृपाणा क्षयकालार्थ मृत्युसूचनार्थ उल्का जालावत्तर स्तारापतनसमूहस्यावतारो यस्मिन् करवाले स तथोक्त। भूयोऽपि कथभूत करवाल। पुरुदसोदर्शनप्रकाशकेशप्रतिशरीरदुर्दर्शिकाल पुरुदससा मार्जा राणा यानि दर्शनानि लोचनानि तद्वत्प्रकाशो द्युतिर्येषा ते पुरुदसोदर्शनप्रकाशा अग्नि ज्वालासदृशा केशा कु तला येषा राक्षसाना तेषा प्रतिशरीरै प्रतिबिम्बैर्दुर्दर्शिका दुरवलोफा कला मूर्तिर्यस्य करवालस्य स तथोक्त। पुन उत्प्रेक्ष्यते — प्रचलिताखिलरिपु

अपि च य स्वस्य स्वामिनो नृपयज्ञावसरेषु निजभुजप्रतापार्जनजनितसाचिव्य इव, सर्वभुवनप्रचारकुतूहलितकीर्तिकुलदेवतासहचरपराक्रमप्रसूतिप्रथमप्रजापतिरिव, दुर्वारवैरिवक्ष स्थलोद्दलन-गलद्धारारुधिरोपहारदुर्ललितवीरलक्ष्मीसमाकर्षणमन्त्र इव, सकलजगद्रक्षणक्षमशौर्यसिद्धौपधसाव्य वसुधावशीकरणोपदेश इव, समुत्सर्पदर्पोद्दामद्विपधरव्याजृम्भस्तम्भावि-


लोकग्रसनसमर्थजाठरानल इव प्रचलित उद्दीपित सधुक्षितो जाज्वलित प्रज्वालितो अखिलाना समग्राणा रिपुलोकाना शत्रुसमूहाना ग्रसने भक्षणे भस्माकरणे समर्थ प्रचण्डतर जाठरानल उदराग्निर्यस्य करवालस्य स तथा। पुन कथभूत करवाल। प्रतियातनागताड़ग्सड़ग्ताभोगतनु प्रतियातना प्रतिच्छाया प्रतिविम्ब आगत प्रतिफलित अङ्गस्य कृष्णशरीरस्य अ(स)ङ्गत सबन्धी आभोगो विस्तारस्तनौ शरीरे यस्य करवालस्य स तथोक्त। भूयोऽपि कथभूत। उत्प्रेक्ष्यते — समाक्षिप्तविपक्षक्षयदक्षराक्षसक्षेत्र इन समाक्षिप्त सग्रामार्थ गृहीत विपक्षाणा शत्रूणा क्षयाय मारणाय दक्ष समर्थ राक्षगाना क्षेत्र भूमिर्येन करवालेन स तथोक्त। अपि च अस्ति कश्चिद्विशेष। य करवाल स्वस्य आत्मन खामिनो नरे द्रस्य नृपयज्ञावसरेषु सग्रामस्थानेषु निजभुजप्रतापाजनजनित साचिव्य इव निजभुजयो स्वकीयदोर्दण्डयो प्रतापोपार्जने। ‘यस्य वातापि श्रुता भयाय भवति स प्रताप’। जनितमुत्पादित साचिव्य साहाग्य येन स तथोक्त। कथभूत करवाल। सवभुवनप्रचार कुतूहलितकीतिकुलदेवतासहचर पराक्रम प्रसूतिप्रथमप्रजापतिरिव सर्वेषाभुवनाना प्रचारे पर्यटने कुतूहलिता दोहदवती विनोदवती या कीर्ति पुण्यगुणकीर्तन सैव कुलदेवता अन्वयस्य अधिष्ठायिका तस्या सहचर सखा स चासो पराक्रम पौरुष तस्य प्रसूतौ उत्पादने प्रथमप्रजापतिरिव ब्रह्मसदृश।अपर कथभूत करवाल। दुर्वारवैरिवक्ष स्थलोद्दलनगलद्धारा रधिरोपहारदुर्ललितवीरलक्ष्मीसमाक्पणमन्त्र इव दुखेन वारयितुमशक्या63 दुबारा ये वेरिण शनवस्तेषावक्ष स्थलस्य उद्दलन विदारण तस्मिन् सति गलत् प्रवहत् यद्धारारुधिर प्रवाहलोहित तस्य उपहारे पूजाया बुललिता आसक्ता या वीरलक्ष्मी योधलक्ष्मीस्तस्या समाकषणस्य दृठादानीतस्य मन्त्र इव थी जाक्षरन्याससदृश। अपर कथभूत करवाल। सकलजगद्रक्षणक्षमशौयसिद्धौषधसाध्याबसुधावशीकरणोपदेश इव सकलस्य जगत त्रिभुवनस्य रक्षणे प्रतिपालने क्षम समर्थ यच्छौर्य सौभव्य तदेव सिद्धौषध रसायन जगन्मरणनिपारकत्वात् तेन साध्या वशीकर्तव्या या वसुधा भूमिस्तस्या वशीकरणे स्वायत्तताविधाने उपदेश इव मन्त्रसदृश। अपर क्थभूत करवाल। समुत्सर्पद्दपर्णोद्दामद्विषद्विषधरव्याजृम्भम्तम्भाविभव महासाहस इव समुत्सर्पन् प्रसरन् दर्प औत्कव्य येषा ते समुत्सर्प‌द्दपास्ते च ते उद्दामा बलवत्तरा

र्भवन्महासाहस इव, प्रतिकूलावनिपालविलासिनीविभ्रमभ्रमरोच्चाटनघूपधू माडम्बर इव, समाहृयरसभरितारातिमतिमधुकरीमोहनमहौषधिप्रारम्भ इव, सभूयोत्साहदु सहद्विष्टद्विपघटाविघटनविद्वेषभेषजागम इव, कालेयकलङ्कपड्किलाचारपरस्परासुताचरितचरमाभिचार इव, तमनेकमहासमानीकसतोषितरणदेवताविहितबलिविधान वीरश्रीविभ्रमदर्पणनामानमपहसित-कृतान्तर-सनालील करवाल प्रतापद्विपालानस्थानाल्लक्ष्मीलताश्रयशिखरिण

————————————————————

द्विषन्त शत्रवस्त एव विषधरा सर्पा कुटिलसविषमुख64त्वद्विजिह्वत्लादिवर्मधारि त्वात् तेषा व्याजृम्भ प्रसरस्तस्य स्तम्भे कीलने आविर्भवन् प्रक्टीभवन् महासाहस इव कीलनमन्त्रसदृश। अपरं कथभूत करवाल।प्रतिकूलावनिपालविलासिनीविभ्रमभ्रमरोच्चाटनधूपधूमाडम्बर इव प्रतिकूला शत्रुभूता ये अवनिपाला पृथिवीपतयस्तेपा विलासिन्य कमनीयकामिन्य तासा विभ्रमा भ्रनर्तनानि त एव भ्रमरा मधुकराअनवस्थितस्वरूपत्वात् तेषामुच्चाटने विघटने उड्डापने वूप वूमाडम्बर इव वूप वूमस्याटोप इव। अपर कयभूत करवाल। समाहृयरसभरितारातिमतिमधुकरी मोहनमहोष बीप्रारम्भ इव समाह्वय सग्रामस्तस्य रसोऽनुरागस्तेन भरिता परिपूर्णा ये अरातय शत्रवस्तेषा मतयो बुद्धयस्ता एव मधुकयो भ्रमर्यश्चपलस्वरूपत्वात् तासा मोहने विचेतीकरणे महौषवीप्रारम्भ इव मूलिकाविशेपप्रादुर्भाव इव। पुन क्थभूत करवाल। सभूयोत्साहदु सहद्विष्टद्विपघट। विघटनविद्वेषभेषजागम इव सभूयोत्साहे सग्रामे दु सहा दु खेन महता कष्टेन सोढुमशक्या ये द्विष्टा शत्रवस्तेषा द्विपा घटा ‘बहूना घटना घटा’ इति वचनात् गजश्रेणयस्तासा विघटने यत्र तत्र पलायने विद्वेषभेषजागम इव विद्वेपो अप्रीतिजनन तस्य भेषजमौषव तस्य आगम इव मन्त्रशास्त्रसदृश। पुन कथभूत करवाल। कालेयकलङ्कपहिलाचार परस्परासुताचरितचरमाभिचार इव कलिकाले भव कालेय स चासौ कलङ्को लोकाप वादस्तेन पड्किल सपाप स चासावाचारस्तस्मिन् परास्तत्परा पापिष्ठा शत्रव अथ पड्किलाचाराश्च ते परे शत्रवस्तेषा परासुताचरिते मृत्युकरणे चरमाभिचार इव उत्कृष्ट मारणमन्त्रसदृश। कथभूत त करवालम्। अनेक्महासमानीकसतोषितरणदेवताविहित यलिविधानम् अनेके बहवस्ते च ते महासमानीकमहासग्रामास्तेषु सतोषिता आनन्द प्रापिता या रणदेवता सग्रामदेवतास्ताभिर्विहितमनुष्ठित बलिविधान पूजाविधिर्यस्य करवालस्य स तथा तम्। पुन कथभूत करवालम्। वीरश्रीविभ्रमदर्पणनामान वीरप्रिय वीरलक्ष्म्या विभ्रमा ब्रूक्षेपास्तेषा विलोकने दर्पण आदर्श वीरश्रीविभ्रमदर्पण इति नाम अभिधान यस्य करवालस्य स वीरश्रीविभ्रमदर्पणामा त तथोक्तम्। भूयोऽपि कथ भूत करवालम्। अपहसितकृतान्तरसनालीलम् अपहसिता तिरस्कृता कृतान्तस्य यमस्य

कलिकालघुणजरज्जगत्प्रासादोत्तम्भनस्तम्भादर्थिजनत्रिदिवतरोद्विपदचलदारणाशनिदण्डाल्लीलाकमलमिव कुवलय कलयत करादुत्सृज्य रुद्राणीपादपीठोपकण्ठे दोलायमानमणिकुण्डलकिरणजालपल्लवितगगनारामसुभगमुत्तर-लतरोदस्तहस्तास्तमितसस्तयात्रायातजनकोलाहल प्रदेशिनीनिदेशादिष्ट निकटलालाटिकपरिकल्पने पुरस्तादु-त्तरीयासने तन्मुनिकुमारकयुगलमुपावीविशत्।

तदपि तत्पार्थिवार्थनया सपरिकर तत्रोपविश्य ‘नावयोससारसुखवि-

——————————————————————————————————————————————————

रसनाया जिह्वाया लीला शोभा येन करवालेन स तथोक्तम्। कथभुतात् करात्। प्रतापद्विपालानस्थानात् यस्य वातापि श्रुता भयकारिणी भवति सप्रताप, प्रताप एन द्विपो हस्ती सैन्यस्य उत्तमाङ्गत्वात् तस्य आलानस्थानात् बन्धनस्तम्भसदृशान्। अपरं कथभूतात् करात्। लक्ष्मीलताश्रयशिखरिण लक्ष्मीरेव लता वल्ली सौग्यफलदामित्वात् तस्या आश्रयस्य आलम्बनस्य आलिङ्गनस्य शिखरिणो वृक्षस्य सदृशात्। पुनश्च कथ भूतात् करात्। कलिकालघुणजरज्जगत्प्रासादोत्तम्भनस्तम्भात् कलिकालघुणै दुख(ष) मकालक्षुद्रकीटकै जरन् शतखण्डीभवन् योऽसौ जगत्प्रासादो भूमण्डलदेवतामन्दिर तस्य उत्तम्भने जीर्णोद्धारकरणे स्तम्भात् महास्तम्भसदृशात्। पुनश्च कथभूतात् करात्। अर्थिजनत्रिदिवतरो याचक्जनमनोभीष्टदानकल्पवृक्षसदृशात्। पुनश्च क्थभूतात् करात्।द्विषदचलदारणाशनिदण्डात् द्विषन्त शनवस्त एव अचला पर्वता अतिरुठिनहृदयत्वात् तेषा दारणे शतखण्डीकरणे अशनिदण्डात् विद्युत्पातसदृशात्। कि कुवत परातू। कुवलय पृथिवीमण्डल लीलाकमलमिव कीडाकमलमिव कलयतो धारयत। तन्मुनि कुमारकयुगल कथमुपावीविशत्। दोलायमानमणिकुण्डलकिरणजाल पलवितगगाराममन् भगम् दोलायमाने प्रेड्खती ये मणिकुण्डले पञ्चविधमाणिक्य

मणिसुवर्णकणकेष्टने तयो किरणजालैरुस्रसमूहै पल्लवितो योऽसौ गगनारामो वियद्वन तेन गुभग सुन्दरंयथा भवत्येवम। कथभूतो राजा। उत्तरलतरोदस्त, राास्तभितसमस्तयानागातजनकोलाहल उत्तरलतरेण प्रचलनपरेण उदसेन ऊर्ध्वक्षिप्तेन हस्तेन पाणि ॥ असमिती निरावृत समस्ताना विश्वेषा यात्रायाताना लोकाना जनाना कोलाहल कलकलशब्दो येनाचलापतिना स तथोक्त। सकरालकार॥

केन65गम्यते। तदपि पूर्वाक्त मुनिकुमारकयुगल तत्तापसार्भक्युग तस्य जगत्प्रसिद्धस्य तापसस्य श्रीसुदत्ताचार्यस्य भगवत अर्भकयुग शिष्ययुगल पुत्रयुगल बालकद्वय कर्तृभूत नृप श्रीमारदत्तमहाराज एव वक्ष्यमाणलक्षणोपलक्षित स्तुतिवचन आशीर्वचन

मुखभावयोरमीषु प्राणेष्वपरेषु केषुचिन्मनीषितेषु कुतश्चित्काचिदपेक्षास्ति, परमन्यत्रैकस्मात्ततो नि श्रेयसात् कि त्वात्मनि पुरोभागिन्यपि जने प्रायेण श्व श्रेयसमेव चिन्तयन्ति तच्चरितचेतस। भवन्ति च तथाविधेऽपि तस्मिस्ते निसर्गादिहामुत्र चाविरुद्धे वर्त्मनि जनिततत्त्वोपदेशा।

————————————————————————————————————

प्रथितै सुप्रसिद्धैर्वचोभि वचनै कृत्वा ऊचे उवाच उक्तवान्। इति क्रियाकारकस बध। कि कृत्वा पूर्व ऊचे। हस्तयुगल करकमलद्वय उद्धृत्य ऊर्ध्वीकृत्य। कथमूचे। सौष्ठवसज्ज सुष्ट एतस्य भाव सौष्ठव तत् सज्ज गुद्रण(सभृत)यस्मिन् वचनकर्मणि तत् सौष्ठवसज्ज यथा भवत्येव ऊचे। न केवल सौष्ठवसज्जम् ऊचे, सलज्ज च लज्जासहित च यथा भवत्येव ऊचे। कथभूत हस्तयुगलम्। **स्वर्गेत्यादि।**स्वर्गापवर्गतरुपल्लवसनिकाश स्वर्गश्च सौधर्मादिषोडशसख्याक नवग्रैवेयकनवानुदिशपञ्चानुत्तरलक्षणश्च स्वर्ग उच्यते, अपवर्गध मोक्ष, स्वर्गश्चअपवर्गश्चस्वर्गापवर्गोतावेव तरू वृक्षौ परमानन्दसौख्यफल दायित्वात् तयो पल्लवौ प्रवालौ ताभ्या सनिकाश सदृश तत्तथोक्तम्। पुन कथभूत हस्तयुगलम्। धर्मद्वयावनिविहारपथप्रकाशम् धर्मयोर्यतिश्राव कलक्षणयोर्द्वय धर्मद्वय तस्य अवनि भूमिस्तस्या विहारपयो विहारमार्गे तयो प्रकाश सदृशम्। रूपकालकार॥

कि कृत्वा। पूर्व इति पूर्वोक्तमर्थ अनुस्मृत्य चितयित्वा। न केवल इति अनुस्मृत्य कि तु तथा तेनव प्रकारेण इति सुभापित च अनुस्मृत्य। न केवल इति अनुस्मृत्य, कि तु तत्पार्थिवार्थनया तस्य श्रीमारदत्तस्य पाथिवस्य राजाधिराजस्य अर्थनया अभ्यर्थनया प्रार्थनेन तन तस्मिन् उत्तरीयासने समुपविश्य स्थित्वा। कथमुपविश्य। सपरिकर सपर्यङ्कासन यथा भवत्येवम्। इति किमनुस्मृत्य इति चेदुच्यते— आवयो अय च तव मम च यावत्तयोरावयो अमीषु प्रत्यक्षीभूतेषु प्राणेषु इद्रियबलायुरुच्छ्वासलक्षणेषु दशसु प्राणेषु अपरेषु वा स्पर्शादिविषयेषु वा केषु विवक्षितेषु मनीषितेषु वाञ्छितेषु वस्तुपु कुतश्चित् कस्मा च्चित् कारणात् काचित् कापि अपेक्षा नास्ति न वर्तते।कयभूतयोरावयो। ससारसुखविमुसभावयो ससारसुखेषु इष्टविषयस्रग्वनिताच दनादिषु विमुख पराङ्ग्

मुखो भावोऽभिप्रायश्चित्त योगो मनस्कारो ययोस्तौ ससारसुखविमुसभावौ तयो। पर केवल एक स्मात् निष्केबलात् ततो मुनिजनप्रसिद्धात् नि श्रेयसात् मोक्षात् ‘\नि श्रेयस’ इति वच नात् [न66 (१) प्रत्यय] अन्यस्मिन् अर्थ अपेक्षा नास्ति कि तु नि श्रेयस वर्जयित्वा कस्मिंश्चित् पदार्थे अपेक्षा न वर्तते नि श्रेयसे तु अपेक्षा वर्तत एवेत्यथ। किं तु आत्मनि। पुरोभागिनि अपि शत्रावपि, जने लोके प्रायेण बहुलतया श्व श्रेयसमेव चिन्तयन्ति वाञ्छयन्ति (कि67 चिन्तयन्ति किम्)। तथाविधे पुरोभागिनि अपि तस्मिन् जने

अज्ञानभावादशुभाशयाद्वा कुर्वीत चेत्कोऽपि जनखलत्वम्।
तथापि सद्भि प्रियमेव चिन्त्य न मध्यमानेऽप्यमृते विष हि॥१५१॥

सदाचारोचितमतिर्भूपतिरप्ययमतीवानवहेलविहितविष्टरप्रदान कृतबहुमान सभाषणोत्सुकधिषण प्रसन्नान्त करण इवोपलक्ष्यते, व्यापारयति च प्रकटितप्रणययोरिवावयोरानन्दवाप्पोल्बणे मुहुर्मुहुर्वीक्षणे, तत्पर्याप्तमत्रोपेक्षणीयलोकसमतया वाचयमतया
[तथा हि—]

पुर प्रणयभूमीषुफल यदि समीहसे।
जगदानन्दनिष्यन्दि वर्ष सूक्तिसुधारसम्॥१५२॥

—————————————————————————————————————————————————

ते तच्चरितचेतस पुरुषा निसगात् म्वभावेन इह अस्मिन् भवे अमुत्रच आगामिनि जन्मनि अविरुद्धे वर्त्मनि अपापमार्ग जनिततत्त्वोपदेशा उत्पादितधमापदेशाभवन्ति च सजायन्ते च॥

**अज्ञानेति॥**हि यस्मात् कारणात् अज्ञानभावात् मूखत्वात् विविधैक्यात्अशुभाशयाद्वा द्वेषपरिणामाद्वा चेद्यदि कोऽपि कश्चित् जनो लोक खलत्व दुजनत्व दुर्वात कुर्यात् तथापि तदपि सद्भि सत्पुरुपै प्रियमेव चिन्त्य हितमेव कर्तव्यम्। अमुमेवार्थ अर्थान्तरन्यासेन द्रढयति—अमृते पीयूपे मध्यमानेऽपि विलोड्यमानेऽपि विष हालाहल न भवति न जायते। अथान्तरन्यासालकार॥

**सदाचारेति॥**अय प्रत्यक्षीभूतो भूपतिरपि श्रीमारदत्तराजोऽपि अतीवातिशयेन प्रसन्नान्त करण इव प्रसादपरमना इव उपलक्ष्यते दृश्यते। कथभूतो भूपति। सदाचारोचितमति सदाचारेषु आसनप्रदानविनयादिकरणेषु उचिता गोग्या मतियम्य स सदाचारोचितमति। अपर क्थभूतो भूपति। अनवहेलविहित विष्टर प्रदान जगहे लेन आदरेण विहितमनुष्ठित विष्टरस्यासनस्य प्रदान विश्राणन येमतोक्त। भूयोऽपि कथभूतो भूपति। कृतबहुमान कृतो विहितो बहु नपुगे भाव।समान उत्तरीय प्रस्तारणादिलक्षणो येन स तथोक्त। भूयोऽपि कथभूत। सभाषणात्मुर धिषण सभाषणे आलापने उत्सुका बंगवत्तरा विषणा वुद्धियस्यति ससभाषणोत्सुकधिषण। तथा वीक्षणे लोचने सुमुः वारंवार

आस्योरुपरि व्यापारयति च प्रेरयति च। कथभूतयोरावयो। प्रकटितप्रणययारिव प्रकटित प्रादुभावित प्रणय स्नेहो ययोस्तौ प्रकटितप्रणयौतयो प्रकटितप्रणययो। कथभूते वीक्षण। द्वेआन दबाध्धोल्बणे आन दाश्रुजले [न] उत्बणे उद्रिक्ते। तत्तस्मात् कारणात् अत्र अस्मिन् भूपती वाचयमतया मौनित्वेन पर्याप्त अलम्। कथभूतया वाचयमतया। उपेक्षणीयलोकसंमतया उपेक्षणीयलोके अनादरणीयलोके समता अभीष्टा उपेक्षणीयलोकसमता तया॥

किं तत्सुभाषित यदनुस्मृतम्—पुर इत्यादि। प्रणयभूमीषु मेहवत्पुरुषेषु यदि

इति च सुभाषितमनुस्मृत्य सौष्ठवसज्ज सलज्ज च

स्वर्गापवर्गतरुपल्लवसनिकाश
धर्मद्वयावनिविहारपथप्रकाशम्।
उद्धृत्य हस्तयुगल नृपमेवमूचे
तत्तापसार्भकयुग प्रथितैर्वचोभि॥१५३॥

तत्र मुनिकुमार—

वर्णाश्रमाणा प्रतिपालयित्रे जगत्र्यत्रायिपराक्रमाय।
ददातु देव स जिन सदा ते राजन्नशेषाणि मनीषितानि॥१५8॥

अपि च—

असाविन्द्र स्वर्गे भवति सुकृती यस्य चरिता-
न्महीभारोद्धारादहिपतिरय तिष्ठति सुखम्।
जगज्जात चैतद्विजयसमयान्नन्दति पर
चिर क्षात्र्तेजस्तदिह जयताद‌द्भुतविधि॥१५५॥

——————————————————————————————————————————

चेत् पुरोऽग्रेभविष्यत्काले फल लाभ समीहसे वाञ्छसि तहि सूक्तिसुधारस सुवचना मृतपानीय वर्ष हे जीव, त्वक्षर। कथभूत सूक्तिसुधारसम्। जगदानन्दनिष्यन्दि जगत पृथ्वीमण्डलस्य आनन्द हर्षेनिष्यन्दते वर्षति इत्येवशील जगदानन्दनिष्यन्दि॥

तत्रेति। तत्र तयोरभयरुचिरभयमत्योर्मध्ये तावत् मुनिकुमार श्रीमदभयरुचि ब्रह्मचारिक्षुल्लक प्रियतमो ब्रूते। तथाहि**— वर्णाश्रमाणामित्यादि।** हे राजन् श्रीमारदत्तमहाराज, स जगत्प्रसिद्धो जिन श्रीमद्भगवदर्हत्सर्वज्ञो देव परमाराभ्य सदा सर्वकाल ते तुभ्य अशेषाणि मनीषितानि वाञ्छितानि ददातु प्रयच्छतु। कथभूताय ते। वर्णाश्रमाणा प्रतिपालयित्रे वर्णाश्व ब्राह्मणक्षत्रियवैश्यशूद्रा, आश्रमाश्चब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चेति चत्वार, तेषां वर्णाश्रमाणा प्रतिपालयित्रेप्रतिपालकाय। पुन कथभूताय। जगत्रयत्रायिपराक्रमाय जगत्रयत्रायी एवविध पराक्रम सामर्थ्य यस्य स जगत्रयत्रायिपराक्रमस्तस्मै। अतिशयालकार॥

अपि च तथा च। असावित्यादि। तज्जगत्प्रसिद्ध क्षात्र क्षतात् त्रायते क्षत्र क्षत्रस्येद क्षात्र तेज प्रताप इह अस्मिन् ससारे चिरं दीर्घकाल जयतात् सर्वोत्कर्षेण प्रवर्तताम्। तस्मै अस्माक नमस्कार इत्यर्थ। कथभूत क्षात्र तेज। अद्भुतविधि अद्भुतो आश्चयभूतो विधिश्चरित यस्येति तथोक्तम्। तत्किम्। तद्यदोर्नित्यसबन्धात् यस्य क्षात्रस्य तेजस चरितात् असौ प्रत्यक्षीभूत इन्द्र सौधर्माद्यच्युतश्च स्वर्गे स्वर्गलोके सुष्ठुपुण्येन

कर्पूरद्रुमगर्भधूलिधवल यत्केतकाना त्विष
श्वेतिम्ना परिभूय चन्द्रमहसा सार्धेप्रतिस्पर्धते।
तत्पाकोन्मुखनालिकेरसलिलच्छायावदात यश
प्रालेयाचलचूलिकासु भवतो गायन्ति सिद्धाङ्गना॥१५६॥
मातर्गौरि फणीशकामिनि सति त्व देवि हे रोहिणि
श्रीमत्यभ्रमु वारले च सुतनो मा मुञ्चतात्मप्रियान्।

———————————————————————————————————————————————————

कर्मणा अर्ज्यते स्वर्ग तस्मिन् स्वर्गे सुकृती पुण्यवान कृताथश्च भवति सजायते। यस्य क्षात्रस्य तेजसश्चरितात् अय प्रत्यक्षीभूतभूतो अहिपति शेषनाग सुख निबाध यथा भवत्येव तिष्ठति जागर्ति। कस्मात् सुखतिष्ठति जागर्ति। महीभारोद्धारात् मर्त्यापृथिव्या भारो महीभारस्तस्य उद्धार उच्चलन महीभारोद्धारस्तस्मात्। महीभारस्तावत् क्षात्रेण तेजसा ध्रियते। धरणेन्द्रस्तु पातालस्वर्गलोके सुखेन राज्य करोतीत्यर्थ। च पुन अन्यत् एतत् प्रत्यक्षीभूत जगज्जात पृथिवीमण्डलस्थितो लोकसमूहो विजयसमयान् दिग्विजयकालात् नन्दति वर्धते। कथम्। परम्। निश्चयेनेति शेष। समुच्चयातिशया लकार। शिखरिणीछद॥

कर्पूरेत्यादि। हे राजन्निति पूर्वोक्तमेव सबोधनपद प्रात्यम्। हे राजन्, तत् जगत्प्रसिद्ध भवत तव यश पुण्यगुणकीतन सिद्धाङ्गना देवविशेषाणा कमनीयका मिन्य प्रालेयाचलचूलिकासु गायति वीणावशखरमण्डलादिष्ववतारयन्ति। मिद्धाड़ग्ना उज्ज्वलवर्णा, प्रालेयाचलचूलिका अपि शुक्लवर्णा, भवतो यशश्च अतीव शुक्तमिति भाव। तत्किम्। यद्भवतो यश कर्पूरद्रुमगर्भधूलिधवल कर्पूरद्रुमाणा घनसारवृक्षाणा गर्भषु मध्येषु या धूलय कर्पूरास्तद्वद्भवलमुज्ज्वलम्। पुनश्च तत्किम्। यद्भवतो यश श्रेतिम्नाउज्ज्वल कृत्वा चन्द्रमहसा सार्धपरिपूर्ण चन्द्रतेजसा सह प्रतिस्पधते। चन्द्रतेजस्तिरस्क रोतीत्यर्थ। कि कृत्वा। पूर्व केतकाना केतकीपुष्पाणा त्विषो दीप्ती परिभूय श्रेतिम्रा पराभव प्राप्य। कथभूत भवतो यश। पाकोन्मुखनालिकेरसलिलच्छायावदात पाकोन्मुख सद्यपाकमायात यत् नालिकेर कूचकेसरफल तस्य सलिल पानीय तस्य छाया दीप्तिस्तद्वत् अवदातमुज्ज्वलम्। उपमातिशयाल कार॥

मातरित्यादि। कथ यशो गायन्ति सिद्धाड्गना इत्याह— हे मातजननी गौरि पार्वति, हे फणीशकामिनि हे पद्मावति, हे देवि सति साध्वि, हे रोहिणि देवि, चतुर्थतारे हे श्रीमति लक्ष्मीवति, अभ्रमु एरावतभार्ये, हे बारले हे हसि, सुतनो हे शोभनशरीरे, त्वत्व त्वम्। यूयमित्यर्थ। आत्मप्रियान् निजवल्लभान् श्रीमहादेव शेषनागचन्द्रैरावतहसान् मा मुञ्चत मा परित्यजत यूयम्। नो चेत् यदि यूयम् मोक्ष्यध्वे तर्हि अस्य प्रत्यक्षी भूतस्प

नो चेदस्य नृपस्य कीर्तिविसराद्दुर्लक्षशुद्धे जने
युष्माक पतयोऽद्य दुर्लभतरा मन्ये भविष्यन्त्यमी॥१५७॥

कुवलयदलनील कुन्तलाना कलापो
न भवति यदि गौर्या शकरे प्ताश्च पिङ्गा।

क्षितिप तब यशोभि सभृताया त्रिलोक्या
सरभसरतिकेलि कि तयो स्यादिदानीम्॥१५८॥

इन्दुधवलापि कीर्तिर्धवलितभुवनत्रयापि तव नृपते।
मलिनयति रिपुवधूना मुखानि यन्नाथ तच्चित्रम्॥१५९॥

भुजगसमखङ्गजनित सपत्नकुलकालता प्रयातोऽपि।
शुभ्रयति भुवनमखिल पराक्रमस्ते तदाश्चर्यम्॥१६०॥

—————————————————————————————————————————————————

नृपस्य श्रीमारदत्तमहाराजस्य कीर्तिविसरात् उज्ज्वलकीतिप्रसरात् जने लोके अद्य इ दानी युष्माक भवतीना अमी प्रत्यक्षीभूता पतयो भर्तार दुलभतरा भविष्यन्तीत्ये वमह’ मन्ये। कथभूते जने। दुलक्षशुद्धे दु खेन महता कष्टेन लक्षयितुमशक्यो दुर्लक्ष। ‘इषद्दुसुषु कृच्छाकृच्छ्राथेषु खल्’ इति साधु। दुर्लक्ष शुद्ध शुक्लपदार्थोयस्मिन्निति दुलक्षशुद्धस्तस्मिन्। उत्प्रेक्षालकार॥

पुनश्च सिद्धाङ्गना कि गायन्ति इत्याह**— कुवलयेत्यादि।** हे क्षितिप हे श्रीमा रदत्तमहाराज, यदि चेत् गौर्या पार्वत्या कुन्तलाना कलाप केशपाश कुवलय दलनील उत्पलपत्रवत् नील कृष्णवर्णो न भवति। शकरे श्रीमहादेवे प्ताश्च जटाश्च पिङ्गा गोरोचनवर्णा न भवन्ति। अर्थवशाद्विभक्तिपरिणामेनात्र बहुवचनम्। तव भवतो यशोभि कृत्वा सभृताया परिपूर्णाया त्रिलोक्या त्रिजगत्या तयो गौरीश करयो सरभसरतिकेलि वेगवत्सभोगक्रीडा इदानीमस्मिन् काले कि स्यात् किं भवेत्। अपि तु न भवेदित्यर्थ। आक्षेपालकार॥

पुनश्च सिद्धाङ्गना किमुपश्लोकयन्ति**— इन्दुधवलेत्यादि।** हे नृपते श्रीमारदत्त महाराज, हे नाथ पृथिवीपते, तव भवत कीति पुण्यगुणश्लोक इन्दुधवलापि परिपूर्ण चन्द्रवदवदातापि धवलितभुवनत्रयापि धवलितमुज्ज्वलीकृत भुवनत्रय त्रैलोक्य यया सा धवलितभुवनत्रया। रिपुवधूना शत्रुस्त्रीणा मुखानि वक्राणि यत् मलिनयति मसीवर्णानि करोति तत् चित्र आश्चर्यम्। उपमालकार॥

पुनश्च सिद्धाङ्गना किं गायन्ति**— भुजगेत्यादि।** हे नृपते इति सबोधनपद पूर्वाक्तमेव ग्राह्यम्। ते तव पराक्रम सामर्थ्य अखिल समग्र भुवन भूमण्डल शुभ्रयति शुभ्रकरोति तदाश्चर्य अद्भुतमिदम्। कथभूत पराक्रम। भुजगसमखङ्ग जनित भुजगेन कालसर्पेण सम सदृश कृष्णवर्णोयोऽसौ खङ्गस्तेन जनित उत्पादितो

त्व चन्द्रस्त्वमसि रवि कुवलयकमलानुरञ्जनात्सत्यम्।
कि तु यदातिसद्मसु तमासि विदधासि तच्चित्रम्॥१६१॥
कृष्णयतिवैरिवर्ग रञ्जयति सता मनासि तव देव।
दुर्वर्णयति खलानपि तथापि शुभ्र यशश्वरितम्॥१६२॥

भूप त्वमेव महता धुरि वर्णनीय
सिन्धुर्महानपि भवेल्लघुवृत्तिरेव।
यत्त श्रिता य इह ते विनिमग्रवशा
क्षोणीभृतस्त्वदनुगास्तु समृद्धवशा॥१६३॥

उत्सर्पद्दर्पवैरिव्रज भुजगकुलाभोगसकोचमन्त्र
प्रहृक्षोणीशकल्पद्रुमधरणिसुवासारवर्षाम्बुवाह।

——————————————————————————————————————————

भुजगसमखङ्ग जनित। विरुद्धमेतत् परिह्नियते— भुजे बाहौ गच्छति तिष्ठतीति भुजग सम अवक्र खङ्गो मण्डलाग्रस्तेन जनित इति स्वच्छम्। सपत्नकुलकालता प्रयातोऽपि सपत्नाना शत्रूणां कुलेषु अन्वयेषु कालता कृष्णत्व प्रयातोऽपि प्राप्तोऽपि भुवन शुभ्रयति इत्यपि विरुद्ध परिह्नियते— कालता मृत्युता प्राप्त इति स्वच्छम्। विरोधालकार॥

त्वमित्यादि। हे नृपते, त्व चन्द्र सवजगदाहादक। हे नृपते, त्व भवान् रवि श्रीभास्करोऽसि भवसि। कस्मात्। कुवलयकमलानुरञ्जनात् कुवलयानि उत्पलानि कमलानि पद्मानि तेषामनुरञ्जनात् सत्यमेतत् सत्यमेवेतत्। पक्षे— कुवलय पृथ्वीमण्डलम्, कमला लक्ष्मी, तयो अनुरञ्जनात् आनन्दकरणात्। कि तु तच्चित्रमाश्चर्य यत् त्व अरातिसद्मसु अमित्रमन्दिरेषु तमासि अन्धकाराणि विदधासि करोषितदद्भुत आश्चर्यमेतत्। यथासख्यालकार। श्लेषोपमा च॥

कृष्णयतीत्यादि। हे देव हे राजाधिराज, तव यशश्वरुपतव यश स्वरूप वैरिवर्ग शत्रुसमूह कृष्णयति कृष्णवर्ण करोति, सता सत्पुरुपाणा मनासि वित्तानि रञ्जयति रक्तानि करोति, खलान दुर्जनान् दुर्वर्णयति मलिनान् करोति। तथापि तदपि शुभ्रमुज्ज्वल वर्तते। समुश्चयातिशयालकार॥

भूप त्वमित्यादि। हे भूप मारदत्तमहाराज, महता महानुभावानां धुरि वर्णनीयो अग्रेसरतया मुख्यतया त्वमेव भवानेव वर्णनीय। तर्हि समुद्र किं महान् भवति। न भवत्येव। सिन्धुर्महानपि लघुवृत्तिरेव अत्पस्वरूपो भवेत् सजायते। यत् यस्मात् कारणात् त सिन्धु श्रिता आश्रिता ये क्षोणीभृत पर्वता इह समुद्र वर्तन्ते ते क्षोणीभृतो विनिमग्नवशा विशेषेण पाताल गता वेणुयक्षा स्वदनुगास्तु भवत्सेयकास्तु क्षोणीभृतो राजान समृद्धवशा वृद्धि प्राप्तान्वया वर्तन्ते। श्लेषालकार॥

उत्सर्पदित्यादि। एष प्रत्यक्षीभूत श्रीमारदत्तमहाराज काममतिशयेन सुचिरं

आसन्नोदन्वद‌द्रिद्रवदमरसखीगीतकीर्तिप्रवाह
काम कल्पायुरेष प्रतपतु सुचिर धर्मधामावलोक॥१६४॥

पुष्पश्रीर्यस्य तारा फलममृतरुचि पत्रलक्ष्मीर्द्युनद्या
कल्लोला स्कन्धबन्धो हरगिरिरमराम्भोधिरप्यालवाल।

कन्द शेषश्चशाखा पुनरखिलदिगाभोग एवैष स स्ता-
त्रैलोक्यप्रीतिहेतु क्षितिप तव यश पादपोऽनल्पकल्पम्॥१६५॥

———————————————————————————————————————————————————

दीर्घकाल कल्पायु आकल्पकालजीवी सन् प्रतपतु ऐश्वर्यवान् भवतु। एष कथभूत। उत्सर्पद्दर्पवैरिव्रजभुजगकुलाभोगसकोचमन्त्र उत्सर्पन् उद्गच्छन् दर्प उत्कटत्वयेषा ते उत्सर्पद्दर्पास्ते च ते वैरिव्रजा शत्रुवर्गास्त एव भुजगा सर्पा अन्तर्दुष्टहृदयत्वात् दुर्वचनविषसमृतमुखत्वात् कुटिलगतित्वात् द्विजिह्वत्वात् तेषा कुलानि समूहास्तेषामाभोगो विस्तार परिपूर्णता तस्य सकोचमन्त्र कीलनबीजाक्षरसमूह। अपर कथभूत एष राजा। प्रह्वक्षोणीशकल्पद्रुम वरणिसुधासारवषाम्बुवाह प्रह्वा पादयोर्नम्रीभूता ये लोणीशा महासामन्तास्त एव कल्पद्रुमा कत्पवृक्षा अथिजनाशापूरकत्वात् तेषा धरणयो भूमयस्तासा सुधाया अमृतस्य आसारवर्षोवेगवद्वर्षस्तस्य अम्बुवाहो मेघ स तथोक्त। अपर कथभूत एष राजा। आसन्नोदन्वदद्रिद्रवदमरसस्वीगीतकीर्तिप्रवाह आसन्न अतिनिकटतरंआसमुद्रान्तपृथ्वीपालकत्वात् योऽसावुदन्वान् समुद्रस्तत्सबन्धिनो ये अद्रयपवतास्तत्र द्रवन्तीभिर्गच्छन्तीभिरमरसखीभिर्देवाङ्गनाभिर्गीता वीणावशखरमण्ड लादिष्ववतारित कीतिप्रवाह पुण्यगुणकीतनसततिर्यस्य स तथोक्त। अपरं कथभूत एष नृपति। धर्मधामावलोक धर्मस्य जीवदयालक्षणस्य [धामस्य गृहस्य] अवलोक अवलोकन रक्षण प्रतिपालन यस्य स तथोक्त। रूपकालकार॥

** पुष्पश्रीरित्यादि**। हे क्षितिप श्रीमारदत्तमहाराज, स जगत्प्रचिद्ध एष प्रत्यक्षीभूत्तस्तव भवतो यश पादपो यश एव पादपो वृक्ष। स्वर्गमोक्षफलप्रदायकत्वात्। अनन्तकत्प अनन्तकाल यावत् त्रैलोक्यप्रीतिहेतु त्रिभुवनानन्दकारणत्वात् भवतु। स क। यस्य यश पादपस्य तारा दाक्षायण्य पुष्पश्री पुष्पशोभा वर्तते। यस्य यश पादपस्य अमृतरुचिश्चन्द्र फलम्। यस्य यश पादपस्य द्युनद्याआकाशगङ्गाया कल्लोला महान्तस्तरङ्गा पत्रलक्ष्मी छदशोभा वतते। यस्य यश पादपस्य हरगिरि कलासपर्वत स्कन्धबन्ध शाखावधिप्रकाण्डो वतते। यस्य यश पादपस्य आलवाल सेचनस्थान अमराम्भोधि क्षीरसागरो वतते। यस्य यश पादपस्य शेषश्व धरणेन्द्र कन्दो मूली वर्तते। यस्य यश पादपस्य अखिलदिगाभोग एव समस्तदिग्विस्तार एव शाखा लता वर्तन्ते। अपिशब्द पुन शब्दश्चसमुश्चयार्थ वतते। तेन समुश्चयरूपकाल कार॥

मुनिकुमारिका—

अन्यायतिमिरनाशन विधुरितजनशरण सज्जनानन्द।
नृपवर लक्ष्मीवल्लभ भवतु चिर धर्मवृद्धिस्ते॥१६६॥

सुरगिरिरमरसिन्धुरम्भोनिधिरवनिरनूरुसारथि
फणिपतिरमृतरोचिरमराश्च दिशो दश यावदम्बरम्।

तावदशेषभुवनचिन्तामणिचरित पर महोत्सवै-
रुत्सवचरितचन्द्र जय जीव विराज चिराय नन्द च॥१६७॥

उपभुज्य यद्दिशस्ते नपुंसक वृद्धमपि यश सर्वा।
द्यामुपभोक्तु यात तरलिततारा तदाश्चर्यम्॥१६८॥

—————————————————————————————————————————————————

मुनिकुमारिका अभयमतिभगिनी ब्रूते**— अन्यायेत्यादि।** हे अयायतिमिरनाशा अन्याय अनीति स एव तिमिरमन्धकारं सन्मार्गदर्शनविलोपकत्वात् तन्नाशयतीत्येव शील, इत्येर्थ(ब) साधु, इत्येव धर्म, अन्यायतिमिरनाशनस्तस्य सबोधन क्रियते— हे अन्यायतिमिरनाशन। हे विधुरितजनशरण हे दुःखितलोकार्ति मथनसमर्थ, हे सज्जनानांविद्वज्जनानांआनन्ददायक, हे नृपवर नृपाणा नरेद्राणा मध्ये वर श्रेष्ठ, हे लक्ष्मीवल्लभ लक्ष्म्या वल्लभो अभीष्ट ते तव चिर दीर्घकाल धर्मवृद्धिर्भवतु। रूपकमिदम्॥

** सुरगिरिरित्यादि**। हे अशेषभुवनचिन्तामणिचरित अशेषस्य समग्रस्य भुवनस्य भूमण्डलस्य चिन्तामणिरिव चरित चेष्टित यस्य तस्य संबोधन हे तथोक्त। हे उत्सवचरितचन्द्र उत्सवचरितेन आनन्दाचरितेन आह्वादकरणेन चन्द्र शशाङ्क स तस्य सबोधन हे तथोक्त। पर निश्चयेन महोत्सवैपञ्चकल्याणैकृत्वा तापत्काल त्वजय सर्वोत्कषण वर्तस्व। त्व जीव दीर्घायुभव। त्व विराज त्व शोभयम्ध। चिराय दीर्घकाल त्व नन्द समृद्धो भव। तावत्कियत्कालम्। यावत्काल सुरगिरिर्भरुपवतो बर्तते, यावत्काल अमरसि घुमहानदी गड्गानदी बर्तते, यावत्काल अम्भोनिधि समुद्रो बर्तते, यावत्काल अवनि पृथ्वी वतते, यावत्काल अनूरुसारथि श्रीसूर्या वतते, यावत्काल फणि पति शेषनागो वतते, यावत्काल अमृतरोचिश्चद्रमा वतते, यावत्काल अमराश्चदेवा वर्तन्तेयावत्काल दश दिशो वर्तन्ते, यावत्काल अम्बरमाकाश वर्तते। अत्युत्क्यममुच्चयालकार॥

** उपभुज्येत्यादि**। यत् यस्मात्कारणात् ते तव यश पुण्यगुणकीर्तन कर्तृभूत थां स्वर्गश्रिय उपभोत्त्कुगत तत् आश्चर्येअद्भुत वतते। कथभूतां थाम्। तरलिततारां चपलितकनीनिकाम्। पक्षे तारकाम्। किं कृत्वा। पूर्व सवा दिश समग्नाककुभ उपभुज्य भुक्त्वा सेवित्वा। कथभूत यश। नपुसकम् न स्त्रीन पुमान् नपुसकम्। अपरंकथभूत यश। युद्धमपि वृद्धि प्राप्तमपि, पक्षे जराजीर्णेच। श्लेषालकार॥

रिपुकुलतिमिरनिकरदावानल जगति तनोषि मङ्गल
दिवि भुवि विदिशि दिशि च विबुधार्चित धाम दधासि सततम्।
भुवनाम्भोजसरसि महता मत दिशसि विबोधनश्रिय
धर्मविनोद भूप तव भानुमतश्च न किंचिदन्तरम्॥१६९॥

श्रीरमणीरतिचन्द्र कीर्तिवधूकेलिकौमुदीचन्द्र।
जीयात्क्षितिपतिचन्द्रश्चिराय वसुधाङ्गनाशरच्चन्द्रः॥१७०॥

शत्रुक्षत्रकलत्र नेत्रनलिनप्रालेय कालागम
क्षोणीरक्षणदक्ष दक्षिणनृपक्रीडावतारक्षम।

—————————————————————————————————————————

रिपुकुलेत्यादि। रिपुकुलतिमिरनिकरदावानल रिपुकुलानि शत्रुवृन्दानि तान्येव तिमिराणि अन्धकाराणि सन्मागदर्शन विलोपकत्वात् तेषा निकरा समूहास्तद्विनाशने दावानलो वनवहिस्तस्य सबोधन हे तथोक्त। जगति समारे मङ्गल कल्याण तनोषि विस्तारयसि। हे विबुधार्चित हे विदुषा पूज्यतम, दिवि आकाशे, भुवि पृथिव्याम्, विदिशि अग्निकोणादौ, दिशि च पूर्वदिगादौ, सतत निरन्तर धामोद्दयाेत दवासि धार यसि। हे महता मत हे महानुभावानामभीष्ट, भुवनाम्भोजसरति जगतिस्थितसाधुलोक कमलवने विवोधनश्रिय सबोधनलक्ष्मीं दिशसि करोषि। हे धर्मविनोद धर्मे जीवदयालक्षणे विनोद कुतूहल यस्य स धर्मविनोदस्तस्य संबोधन हे धर्मविनोद। हे भूप श्रीमारद त्तमहाराज, तव भवत भानुमतश्च श्रीसूर्यस्य किचित् किमपि अन्तर भेदो न वर्तते। यतो भानुमान् अन्धकार निवारयति, मङ्गल च करोति, सर्वोद्दयाेतक करोति, कमलवन विकाश दिशति, तेन कारणेन भवान् भानुमाश्च समान एव। समुच्चयोपमालकार॥

श्रीरमणीत्यादि। क्षितिपतिचन्द्र क्षितिपतीना नरेन्द्राणा चन्द्र कर्पूरो राज्ञा सुगन्धकारकत्वात् चिराय दीर्घकाल जीयात् दीर्घायुर्भवतु सर्वोत्कर्षण प्रवर्तताम्। कथभूत क्षितिपतिचद्र। श्रीरमणीरतिचन्द्र श्रीश्चलक्ष्मी, रमणी च स्त्री, तयो रतौ संभोगाथ चद्र काम्य अभिलषणीय। पुन कथभूत। कीर्तिवधूकेलिकौमुदीचन्द्र कीर्तिरेव वधूर्मनोमोहनसमथा स्त्री सर्वजनवल्लभत्वात् तस्या केलौ क्रीडा करणे कौमुदीचन्द्र कार्तिकीपूर्णिमाज्योतत्नाशशाङ्क। पुनरपि कथभूत। वसुधाङ्गनाशरच्चन्द्र वसुधा पृथ्वी सैव अङ्गना स्त्री सभोगसुखदायकत्वात् तस्या शरच्चन्द्रो वर्षात्ययकनकप्राय शरत्काले चन्द्र कनक सुवर्ण अतिशोभा करोति यस्मात्। उक्त च— ‘मयूरपिच्छे कम्पिल्ले कर्पूरे विधुकाम्ययो। सुवर्णभस्म (१) विद्वद्भिश्चन्द्रसज्ञाभिधीयते॥’ रूपकालकार॥

शत्रुक्षत्रेत्यादि। हे क्षीरक्षणदक्ष पृथिवीपालनसमर्थ, हे राजन्, हे धर्म

राजन्धर्मविलासवास भवत कीर्त्यङ्गनासंगम
काम भाति जगत्रये सुरवधूदत्तार्धपात्रक्रम॥१७१॥

कमलानन्दनचतुरे चतुरम्भोधिप्रतापगुणविदिते।
धर्मसखे विजयश्रीर्वसतु करे तव नृपद्यमणे॥१७२॥

वीरश्रीनलिनीप्रबोधनकरस्त्व धर्मरलाकर-
स्त्व लक्ष्मीकुचकुम्भमण्डनकरस्त्व त्यागपुष्पाकर।

भूदेवीवनिताविनोदनकरस्त्व लोकरक्षाकर-
स्त्व सत्य जगदेकरामनृपते विद्याविलासाकर॥१७३॥


विलासवास धर्मस्य कीडामन्दिर, भवतस्तव कीर्त्यजनासगम कीर्तिस्त्रीसभोग काममतिशयेन जगत्रये त्रैलोक्ये भाति शोभते। कथभूत कीर्त्यङ्गनासगम। शनुक्षनस्कन नेत्रनलिनप्रालेयकालागम शत्रुक्षत्रा वैरिणो राजानस्तेषा कलत्राणि स्त्रियस्तेषां नेत्राणि लोचनानि तान्येव नलिनानि कमलानि दृग्भ्रमरपातहेतुत्वात तेषा सकोचने दाहकरणे प्रालेयकालागम। अपरं कथभूत कीर्त्यङ्गनासगम। दक्षिणनृपक्रीडावतारक्षम दक्षिणा सानुकूला ये नृपा राजानस्तेषा क्रीडावतारे सभोगागमे क्षम समर्थ। अपरं कथभूत। सुरवधूतार्धपात्रक्रम सुरवधूभिर्देवाङ्गनाभिर्दत्त अधपात्र पूजाभाजन क्रमयोश्चरणयोर्यस्य स तथोक्त। अयमपि रूपकालकार॥

कमलानन्दनेत्यादि। हे नृपयुमणे राजभास्कर, तब करे तब हस्ते विजयश्रीनसतु दिग्विजयलक्ष्मीस्तिष्ठतु। कथभूते तव करे। कमलानन्दनचतुरे कमलाया लक्ष्म्या आनन्दनमाहादस्तत्र चतुरे विचक्षणे। अथवा कमलानन्दनवत् कन्दपवत् बतुर स भोगक्रीडाया विचक्षणस्तस्मिन्। पुनरपि कथभूते करे। चतुरम्भोधिप्रतापगुणावदित चतुषु अम्भोधिषु समुद्रेषु प्रतापगुणेन विदितो विप्यातस्तस्मिन्। पुन कथभूते करे। धर्मसखे धर्म सखा मित्र यस्य स धर्मसखस्तस्मिन्।68 रूपकालकार॥

वीरश्रीनलिनीत्यादि। हे जगदेकरामनृपते जगति संसारे एक अद्वितीयो रामनृपति सीतावल्लभो नरेद्रो जगदेकरामनृपतिस्तस्य सबोधनम्। स राम (किं) लक्ष्मणेन सयुक्तो बभूव। त्व तु असहायराम इत्यर्थ। त्वभवान् वीरश्रीनलिनी प्रबोधनकर वीरश्री वीरलक्ष्मी सैव नलिनी लक्ष्मीनिवासहेतुत्वात् तस्या प्रबोध। करो विकासविधायक। श्रीसूर्य इत्यथ। त्व भवान् धर्मरत्नाकर धम एारण त्रैलोक्योद्द‌द्योतकारकत्त्वात् तस्याकर समुद्र। त्वभवान् लक्ष्मी कुनकुम्भम० नवर लक्ष्म्या कुचकुम्भौ स्तनकलशौ तयो मण्डनकर चित्रकर। त्व भरा त्यागपुत्पा-

चञ्चत्कुन्तलचामर कलरणत्काञ्चीलयाडम्बर
भ्रूभङ्गार्पितभावमुरुचरणन्यासासनानन्दितम्

खेलत्पाणिपताकमीक्षणपथानीताङ्गहारोत्सव
नृत्य च प्रमदारत च नृपतिस्थान च ते स्तान्मुदे ॥१७४॥


करो वसन्तसमय। त्वभवान् भूदेवीवनिताविनोदनकर भूदेव्येव वनिता मनोहरस्त्री। ‘वनिताजनितात्यर्थानुरागाया च योषिति’ इति वचनात्। तस्या विनोदन सभोग क्रीडा करोति च दधातीति भूदेवीवनिताविनोदनकर। त्व भवान् लोकरक्षाकर लोकाना रक्षा प्रतिपालन करोतीति लोकरक्षाकर। सत्यमुक्तमेतत् त्व भवान् विद्या विलासाकर विद्याविलासस्य आकर उत्पत्तिस्थानम्। व्यतिरेकरूपकमिदम् ॥

** चञ्चत्कुन्तलेत्यादि।** हे राजन्, नृत्य च नर्तनम्, प्रमदारत च स्त्रीसभोग, नृप तिस्थान च सभामण्डपस्ते तव मुदे हषाय स्तात् भवतु। कथभूत नृत्यम्। चञ्चत्कुन्तलचामर चञ्चन्त शोभमाना कुन्तला एव चामराणि प्रकीर्णकानि यस्मिन् नृत्ये प्रम दारते च तच्चञ्चत्कुन्तलचामरम्। कथभूत नृपतिस्थानम्। चञ्चत्कुन्तलचामर चञ्चन्ति शोभमानानि कुन्तलाना कुन्तहस्तपुरुषाणा कुन्ताल्लान्ति गृह्णन्ति ते कुन्तला कुन्तहस्तपुरुषाणा कुन्तसबन्धीनि चामराणि यत्र तथोक्तम्। पुन कथभूत तत्रयम्। कलरणत्काचीलयाडम्बरं कल मधुर यथा भवत्येव रणन्ती शब्दायमाना या काञ्ची कटिमेखला तस्या लय क्रीडासाम्य तस्य आडम्बर आटोपो यस्मिन् नृत्ये प्रमदारते नृपतिस्थाने च तत्तयोक्तम्। अपर कथभूत तत्रयम्। भ्रभङ्गार्पितभावम् भ्रूभड्गेन भ्रूक्षेपेण अर्पितो भाव एकोनपञ्चाशल्लक्षण सभोगदानाभिप्राय कार्यनिवेदा च यथासरय यस्मिन् नृत्ये प्रमदारते नृपतिस्थाने च तत्तथोक्तम्। अपर कथभूत तत्रयम्। ऊरुचरणन्यासासनानन्दितम् ऊरो सकथ्नश्चरणस्य पादस्य न्यास आरोपण अष्टाधिकशतप्रमाण तस्य चरणस्य आसन क्षेपण तेन आनन्दो यस्मिन् नृत्ये तत्तथोक्तम्। कथभूत प्रमदारतम्। ऊर्वो पुरुषसकथ्नश्चरणयो स्त्रीपाद‌योन्यासस्य पोटनस्य यदासन आसनविशेषस्तेन आनन्दित आनन्दो यस्मिन् प्रमदारते तत्तथोक्तम्। कथभूत नृपतिस्थानम्। ऊरूणा सकथ्नाचरणाना पादाना न्यासासनेन गवासनेन आनन्दितमानन्दो यस्मिन् नृपति स्थाने तत्तथोक्तम्। पुनरपि कथभूत तत्रयम्। खेलत्पाणिपताक्म् खेलन्तौ यत्र तत्र पतन्तौ या पाणी करौ तावेव पताके ध्वजेायस्मिन् नृत्ये तत्तथोक्तम्। कथभूत प्रम दारतम्। खेलन्त्यौनतन कुवन्यौ पाणिपताके करपालिध्वजौ यस्मिन् प्रमदारते तत्तयोतम्। कथभूत नृपतिस्थानम्।खेलन्त्य प्रेङ्खन्त्य पाणिषु हस्तेषु पताका महाध्वजा यस्मिन् नृपतिस्थाने तत्तथोक्तम्। अपर कथभूत तत्रयम्। इक्षणपथानीताङ्गहारोत्सवम् इक्षणपथे लोचनाना मार्ग आनीत अवतारित अड्गहारोत्सव अड्गविक्षेपानन्दो यस्मिन् नृत्ये तत्तथोक्तम्। ईक्षणयो पन्था इक्षणपथस्तस्मिन्नानीत अड्गेन स्मरमन्दिरेण हारेण

मुनिकुमार— ‘अनर्थिन खलु जनस्यामृतमपि निषिच्यमान प्रायेण परिकल्पते सतापाय, जायते चोपदेष्टु पिशाचकिन इवाकृतार्थव्यास कथाप्रयास, पार्थिवश्चायमद्याप्यासेचनकावलोकनयोरावयो सूत्त्कसुधारसेषु न तृप्यति, रजस्तमोबहुलेपु च प्राणिषु प्रथमतरमेव धर्मोपदेश करोति महती शिर शूलव्यथाम्, भवति चावधीरणाय वक्तु, तदेनमभ्यस्तरसप्रसरैरेव वचोभिरुल्लासयामि, नयवेदिनो हि वनगज इव खादुकफलप्रलोभनमविदिततत्त्वे पुसि छन्दानुवर्तनमपि भवत्यायत्यामभिमतावाप्तये’ इत्यवगत्य पुनरपि तमनन्तापतिमुपश्लोकयितुमुपचक्रमे—


च मुक्ताफलमालया उत्सव आनन्दो यस्मिन् प्रमदारते तत्तथोक्तम्। इक्षणपथेषु लोचनमार्गेषु आनीतोऽवतारितोऽङ्गाना इस्त्यश्वरथपदातीना हाराभि समूहरुत्सव प्रहर्षो यस्मिन् नृपतिस्थाने तत्तयोक्तम्। यथासख्यालकार॥

मुनिकुमार इदानीं अभयरूचिर्विचारयति मुनिकुमारस्त मारदत्त अनतापनि पृथ्वीपति पुनरपि भूयोऽपि उपश्लोकैरुपस्तोतु उपचक्रमे आरब्धवान्। कि कृत्वा। पून इति इहशमर्थ अवगत्य ज्ञात्वा। इतीति किम्। अनर्थिन अप्रयोजनस्य पुरुषस्य अमृतमपि पीयूषमपि निपिच्यमान दीयमान प्रायेण बहुलतया सतापाय परिकत्पते [कि] सतापाय भवति कथम्। सलु निश्चयेन खलु वाक्यालकारे वा। न केवल सता पाय परिकल्पते कि [तु] उपदेष्टुरुपदेशक्स्य पुरुषस्य कथाप्रयास कथनकष्ट अमृतार्थ व्यास निष्फलविस्तारो जायते च उत्पद्यते च। कस्येव पिशाचकिन इव महिलस्येव। अय पार्थिव मारदत्तमहाराज आवयोरिय च अह च आवा तयोरावयो। ‘युगपदो पर पुरुषाणाम्’ इति वचनादुत्तमस्य द्विवचनम्। सूक्तमुधारसेषु सुवचनामृतधाराग अद्यापि बहुलस्तुत्याकर्णनकालेषु न तृप्यति न तृप्तिं याति न प्रीयते। स्वभूतयो रावयो। आसेचनकावलोकनयो आसेचनक अतृप्तिजनक अवलोकन दरान ययोस। आसेचनकावलोक्नौ तयो। ‘तदासेचनक तृप्तेनास्त्यन्तो यस्य दर्शनात्’ इति वचनात। रजस्तमोबहुलेषु राज्यमद अज्ञानप्रचुरेषु प्राणिषु जीवेषु प्रथमतरमेव पूनमेव यरि धर्मोपदेश क्रियते तदा महती शिर शूलव्यथा मस्तकशूलपीडा करोति विदधाति॥ केवल शिर शूलव्यथाम्। च अन्यत् वक्तुरुपदेशकस्य पुरुषस्य अवधीरणाय अवहेलनाथअनादराय भवति सजायते। तत्तस्मात् कारणात् एन पाथिव अन्यस्तरसप्रसरैअगुनी लितश्टङ्गाररसवीररसादिप्रसरै विस्तररेव वचोभिवचनेरुल्लासयामि पल्लवयामि। हि यस्मात् कारणात् नयवेदिनो गीतिशास्त्रज्ञा एव बदन्ति। एव कथमिति चर, अविदिततत्त्वे अविज्ञातधर्मस्वरूपे पुसि पुरुषे छन्दानुवतनमपि तदिच्छानुसारेण वतनमपिआयत्यामुत्तरकाले अभिमतावाप्तये वाञछितफलप्राप्तये भवति। कस्मिन् किमिव।

‘दलितरिपुदैत्यदर्प प्रतापभरचकितखचरलोकेन्द्रः।
कलिकालजलधिसेतुर्जयतु नृप समरशौण्डीर॥१७५॥

वर्ण॥

सकलमङ्गलधाम जयकाम कमलालय निखिलनय शौर्यनिगद कदनैकदोहद।
आनिगममसमानबल वैरिकाल जय जीव कामद॥१७६॥

मात्रा॥


वनगजे विन्ध्यवनानीतहस्तिनि स्वादुकफलप्रलोभन मिष्टफललोभदर्शनमिव। अथवा नयवेदिन पुरुषस्येति षष्ठ्यन्त पद व्याख्येयम्। उपमालकार॥

किमुपचक्रमे इत्याह**— दलितेत्यादि।** नृप श्रीमारदत्तो जयतु सर्वोत्कर्षेण प्रव र्तताम्। कथभूत। दलितरिपुदैत्यदर्प दलितश्चूर्णीकृतो रिपुदैत्याना शत्रुसुरारीणा दर्पोऽवलेपो येन स तथोक्त। पुन कथभूतो नृप। प्रतापभरचकितखचरलोकेन्द्र प्रतापभरेण प्रतापातिशयेन चकिता कम्पिता भय प्राप्ता खचरलोकेन्द्रा विद्याधरलोकस्वामिनो यस्य स तथोक्त। पुन कथभूतो नृप। कलिकालजलधिसेतु कलि कालो दुख (ष) मकाल स एव जलधि समुद्रो जडलोक्सभृतत्वात् तस्य सेतुस्तरणो पाय स तथोक्त। अपर कथभूत। समरशौण्डीर समरे सग्रामे शौण्डीरस्त्यागवि क्रमाभ्या विश्रुत। रूपकालकार। आर्याछन्द। इदृशी स्तुतिर्वर्ण69 उच्यते॥

** सकलेत्यादि।** हे सकलमङ्गलवाम सकलाना समग्राणा मड्गलाना कल्याणाना धाम मन्दिर सकलमङ्गलधाम। [अत्र70 पुलिङ्गम्, तेन नकारस्य लोप एव। ‘सज्ञापूर्वको विधिर नित्य’ इति वचनात्, अथवा त्वमित्यस्य विशेषणत्वात्।] ‘वा नपुसके’ इत्यनेन नका रलोप। हे जयकाम सर्वजगद्विजयाभिलाष। हे कमलालय लक्ष्मीनिधान। हे निखिलनय निखिला समग्रा नया नीतयो यत्र स तस्य सबोधनम्। हे शौर्यनिगद हे सौभव्यनि बन्धन। हे कदनेकदोहद कदनस्य सग्रामस्य एक अद्वितीयो दोहदो मनोरथो यस्य स तस्य सबोधनम्। हे आनिगममसमानबल आनिगम ऐतिह्यपर्यन्त सिद्धान्ते सूचित असमान अनुपम बल सामर्थ्य यस्य स तस्य सबोधनम्। हे वैरिकाल हे शत्रुकृतान्त। हे कामद हे वाञछितप्रदायक, त्व जय जीव दीघायुर्भव। एतच्छन्दो मात्राभिर्गण्यते। उक्त च—’॥

इति महति भवति किंचिद्वदामि नि शेषतस्तु नो पारयामि।
वक्तुत्वदीयगुणगरिमधाम सर्वज्ञवचनविषय हि नाम॥१७७॥

चतुष्पदी॥

जय कमलकलशकुलिशाङ्कचरण सकलोपमानरुचिरचितकरण।
यमवरुणधनदशक्रावतार कल्याणविजय ससारसार॥१७८॥

एकातपत्रवसुधोचिताङ्ग सग्रामकेलिदयिताभुजङ्ग।
विद्याविनोदसहजानुराग कीर्तिप्रबन्धभृतभुवनभाग॥१७९॥

सत्पुरुषरत्नसग्रहणनिघ्नगुरुदेवमहामुनिशमितविघ्न।
निखिलाश्रितजनकल्पद्रुमाभ धरणिप्रतिपालनपद्मनाभ॥१८०॥


इतीति। इति पूर्वोक्तप्रकारेण महति महानुभावे वर्णाश्रमगुरौ वा भवति त्वयि किंचिदल्पमात्र वदामि स्तुतिं करोमि। नि शेषतस्तु तव सर्वगुणस्तवने नैव पारयामि शक्नोमि। त्वदीयगुणगरिमधाम वक्तु भवदीयगुणगुरुत्वतेजो वक्तु वणयितु सवज्ञवचनविषय तीर्थकरपरमदेववचनगोचरं वर्तते नामेति संभावनायाम्। चतुष्पदी नाम छन्द। अतिशयालकार॥

जयेत्यादि। जय कमलकलशकुलिशाङ्कचरण कमल व पद्मम्, कलशश्चघट, कुलिश च वज्रम्, ते अड्कालक्षणानि चरणयो पादयोर्यस्य स तथा तस्य संबोधन हे तथोक्त, त्व जय सर्वोत्कर्षेण प्रवर्तख। हे सकलोपमानाना रुचिरचितकरण सकलाना समग्राणा उपमानाना रुचिभिस्तेजोभी रचितानि निष्पादितानि करणानि मुयाद्यवयवानि यस्य स तथा तस्य सबोधन हे तथोक्त। हे यमवरुणधनदशक्रावतार यमश्च दण्डकरणे कृतान्तावतार, अगम्यतया वरुणावतार, अर्थिजनानामाशापूरणे धनदावतार, ऐश्वर्येण शक्रावतार, तस्य सबोधन हे तथोक्त। हे क्ल्याणविजय कल्याण सर्वमङ्गलभूतो विजयो दिग्विजयो यस्य तस्य सबोधन हे तथोक्त। हे संसारसाग ससारे सार सारभूत स तस्य सबोधनम्॥

हे एकातपत्रवसुधोचिताङ्ग एकातपत्रा या वसुधा पृथ्वी तस्या उचित योग्य अङ्ग शरीरं यस्य तस्य सबोधन हे तथोक्त। हे संग्रामकेलिद‌यिताभुजङ्ग संग्रामकेलि स मरक्रीडा सैव दयिता वल्लभन्त्री सुरतसुरादायित्वात् तस्या भोगे भुजङ्ग कामी तस्य संबोधनम्। हे विद्याविनोदसहजानुराग विद्याविनोदे शास्त्रकुतुहले सहज स्वाभाविक अनुराग आत्मा (अ) कृनिमत्नेहो यस्य तस्य संबोधनम्। हे कीर्तिप्रबन्धभूतभुवनभाग कीर्तिप्रबन्धेन कीर्तिसमूहेन मृत पूर्णा भुवनभाग पृथ्वीमण्डल येन स्त्रतस्य सबोधन हे तथोक्त॥

हे सत्पुरुषरत्नसंग्रहणनिघ्नसत्पुरुषास्त एव रत्नानि माणिक्यानि अनर्थत्वात तेषां

रणवीरवैरिकरिकृतविनोद शौण्डीरशिखामणिवन्द्यपाद।
गुणघोषमुखरकोदण्डचण्डशरखण्डितरिपुगलनालखण्ड॥१८१॥

दोर्दण्डदलितपरबलगजेन्द्र निर्व्याजशौर्यतोषितसुरेन्द्र।
कृतशत्रुकबन्धानर्ततर्ष जय समरमुक्तसुरकुसुमवर्ष॥१८२॥

निजभुजबलसाधितजगदसाध्य लक्ष्मीकुचनिबिडितबाहुमध्य।
दुर्गाकरपीडनविषमनेत्र सर्वावनीनशेखरचरित्र॥१८३॥

—————————————————–

सग्रहणे स्वीकरणे निघ्नस्तत्पर तस्य सबोधनम्। हे गुरुदेवमहामुनिशमितविघ्नगुरूणा मातृपितृउपाध्यायादीना महामुनीना दिगम्बराणा शमितो निवारितो विघ्नअन्तरायो येन तस्य सबोधनम्। हे निखिलाश्रितजनकत्पद्रुमाभ निखिलाना समस्ताना आश्रि तजनाना सेवकाना कल्पद्रुमाभ कल्पवृक्षसदृशस्तस्य सबोधनम्। हे धरणिप्रतिपालनपद्मनाभ धरणे पृथिव्या प्रतिपालने रक्षणे पद्मनाभ श्रीनारायण तस्य सबोधनम्॥

हे रणवीरवैरिकरिकृतविनोद रणवीरा सग्रामशूरा ये वैरिण शत्रवस्तेषा करिणा हस्तिना कृतो विनोदो विनाशो येन तस्य सबोधनम्। हे शौण्डीरशिखामणिवन्द्यपाद शौण्डीराणां त्यागविक्रमाभ्या विश्रुताना नरेन्द्राणा शिखामणिभि शिरोरन्तैबन्द्यौनमस्करणीयौ पादौ चरणौ यस्य तस्य सबोधनम्। गुणघोषमुखरकोदण्डचण्डशरखण्डित रिपुगलनालखण्ड गुणस्य प्रत्यञ्चाया घोषेणटङ्कारेण मुखर वाचाल को दण्ड धनुस्तस्य सबन्धिनश्चण्डशरा प्रचण्डबाणास्तै खण्डितानि छेदितानि रिपूणा शत्रूणा गलनालखण्डानि कण्ठनालवनानि येन तस्य सबोधनम्॥

दोर्दण्डदलितपरबलगजेन्द्र दोर्दण्डेन बाहुदण्डेन दलिताश्चूर्णीकृता परेषा शत्रूणा बलगजेन्द्रा सैन्यहस्तिनाथा येन तस्य सबोधनम्। निर्व्याजशौर्यतोषितसुरेन्द्र निर्व्याजेन निश्छद्मना शौर्येण सौभव्येन तोषिता आनन्द प्रापिता सुरेन्द्रा सौधर्मन्द्रादय अच्युतेन्द्रपर्य ता शका येन तस्य सबोधनम्। कृतशत्रुकबन्धानर्ततर्ष कृतो विहित शत्रूणा अभियातीना कबन्धानां शिरोरहितकायाना आनर्तेनतने तर्षस्तृष्णा अभिलाषो येन तस्य सबोधनम्। जय समरमुक्तसुरकुसुमवर्ष समरे सग्रामे मुक्त सुरैर्देवै कुसुमवर्ष पुष्पवृष्टि यस्मिन् तस्य सबोधनम् हे राजन्, त्व जय॥

निजभुजबलसाधितजगदसाध्य निजभुजबलेन आत्मबाहुसामर्थ्येन साधित निज हस्ते कृत जगति ससारे असाध्य दु साध्य च सुख येन तस्य सवोधनम्। लक्ष्मीकुचनिबिडितबाहुमध्य लक्ष्मीकुचाभ्या लक्ष्मीस्तनाभ्या निबिडित गाढपीडित बाहुमध्य वक्ष स्थल यस्य स तत्सबोधनम्। दुर्गाकरपीडितविषमनेन दुर्गाणा जलवनपर्व तादीनाम्, आकराणा रत्नाद्यत्पत्तिस्थानानाम्, पीडने विषमे वक्रे नेत्रे लोचने यस्य तस्य सबोधनम्। पक्षे— दुगाया पार्वत्या करपीडने विवाहे विषमनेत्र त्रिलोचन

चतुरुदधितटीवनगीतवर्ण वर्णस्थितिपालन दानकर्ण।
कर्णप्रदेशविश्रान्तनयन नयनम्रनृपतिसद्भावसदन॥१८४॥

सदनश्रितविषमधरोपकण्ठ कण्ठप्रशस्त हतनीतिकुण्ठ।
लाटीमुखाब्जसभोगहस कर्णाटयुवतिसुरतावतस॥१८५॥

अन्ध्रीकुचकुड्मलकृतविलास चोलीनयनोत्पलवनविकास।
यवनीनितम्बनखपद‌विदग्ध मलयस्त्रीरतिभर के लिमुग्ध।


श्रीमहादेवो भवति। सर्वावनीनशेखरचरित्रसर्वावनीनाना सवभूमिपतीना शेखर मुकुटप्राय चरित्रमाधारो यस्य तस्य सबोधनम्॥

चतुरुदधितटीवनगीतवर्ण चतुर्णा उदधीना समुद्राणा तटीना वनेषु उद्यानेषु गीतो वर्णितो वर्णोयशो यस्य तस्य सबोधनम्। हे वर्णस्थितिपालन वणाना ब्राह्मणादीनां स्थितिपालन यस्मिन्। स्थितये पालनमिति यावत्। हे दानकर्णदानेन कनरुवपणेन कर्ण पूर्वकौन्तेयो यस्य स तस्य सबोधनम्। हे कर्णप्रदेशविश्रान्तनयन कणप्रदेशयाेशब्दग्रहसमीपयोर्विश्रान्ते विश्राम प्राप्ते नयने लोचने यस्य तस्म सबोधनम्। हे दीर्घ लोचन इत्यर्थ। नयनम्रनृपतिसद्भावसदन नयेन न्यायमार्गण नम्रा पादयाेपतिता ये नृपतयो राजानस्तेषा सद्भावस्य आकुलताया सदन गृह तस्य सबोधनम्॥

सदनश्रितविषमधरोपकण्ठ सदन गृह श्रितानि आनीतानि विषमाणा असाध्याना धराणा पृथ्वीना उपकण्ठानि समीपानि येन तस्य सबोधनम्। अथवा सदने त्रिता निजगृहे स्थिता ये विषमा असाध्या शत्रवस्तेषा धराणा पर्वताना उपरुण्ठे समीपे यस्य तस्य सबोधनम्। हे कण्ठप्रशस्त कण्ठे गले प्रशस्तो मनोहरस्तस्य सबोवनम्। हे हतनीतिकुण्ठ हता मारिता नीतिकुण्ठा न्यायक्रियासु मन्दा परधनपर कलत्रलम्पटा राजानो येन तस्य सबोवनम्। लाटीमुखाब्जसभोगइस लाटीना भृगकच्छदेशोद्भवाना स्त्रीणा मुखाब्जाना मुखकमलाना सभोगे क्रीडायां हस चक्राङ्गस्तस्य सबोधनम्। कर्णाटयुवतिसुरतावतस कर्णाटयुवतीना दक्षिणापयत्रीणा सुरते सभोगे क्रीडायां अवतस कर्णपूर तस्य सबोधनम्॥

अन्ध्रीकुचकुड्यलकृतविलास अ ध्रीणा तिलङ्गदेशस्त्रीणा कुचकुड्यलैस्तनमुकुलैकृतो विहितो विलास क्रीडा येन तस्य सबोधाम्। चोलीनयनोत्पलवनविकास चोलीनां समङ्गदेशस्त्रीणा नयनोत्पलवनाना नेत्रकुवलयोद्यानाना विकासो विकचता यस्मात् तस्य सबोधनम्। यवनीतितम्बनरापदविदग्ध यवनीना गुरासानस्त्रीणा नितम्बेषु कटिपश्चाद्भागेषु नखपदेषु पुनभवस्थानेषु विदग्धविचक्षण तस्य संबो धनम् मलयस्त्रीरतिभरकेलिमुग्ध मलयस्त्रीणां चन्दनाचलकामिनीना रतिभरे संभोगा तिशये या केलि क्रीडा तत्र मुग्ध कोमल। तदभिप्रायपालनपर इत्यर्थ। तस्य

वनवासियाेषिद्धरामृतार्हसिंहलमहिलाननतिलकबई॥१८६॥

पद्धतिका॥

इति बुधजनकाम क्रीडितराम सकलभुवनपतिपूजित।
कृतबुधजनकाम क्षितिपतिरामस्त्वमिह चिर जय विश्रुत’॥१८७॥

घत्ता॥

तथा मुनिकुनिकापि—

‘लक्ष्मीरामानङ्ग सपत्नकुलकालविक्रमोत्तुङ्ग।
कीर्तिविलासतमङ्ग प्रतापरङ्गश्चिर जयतु॥१८८॥’

————————————————————————————————————

सबोधनम्। वनवासियोषिदधरामृतार्ह वनवासियोषिता गिरिसोपानरत(?)स्त्रीणा71 सह्या मचस्त्रीणा(?) अबरामृते अधरपीयूषपाने अर्हेा योग्यस्तस्य सबोधनम्। सिहलम हिला [नन]तिलकबह सिंहलमहिलाना लङ्काद्वीपस्त्रीणा [आनने] तिलकबर्ह तिलकपत्र तस्य सबोधनम्॥ पद्धतिका पोडशमानाछन्द। सकरालमार॥

इतीति। हे सकलभुवनपतिपूजित पृथ्वीमण्डलस्थितनरेन्द्राणा गृहीतदण्ड। हे विश्रुत त्रिभुवनविख्यात। त्व भवान् इह अस्मिन् ससारे चिर दीर्घकाल जय सवोत्कषण प्रवतख। दीघायुर्भव। चिर जीया इत्यर्थ। कथभूतस्त्वम्। इति पूर्वोक्तप्रकारेण बुधजनकाम बुधजनाना विद्वज्जनाना काम अभीष्ट यस्मादिति बुधजनकाम इत्यङ्का72 नाम(?)। अपर कथभूतस्त्वम्। क्रीडितराम क्रीडिता सयु(भु)क्ता रामा पूर्वोक्तलक्षणा स्त्रियो येन स क्रीडितराम। पुन कथभूतस्त्वम्। कृतबुधजनकाम कृतो विहितो बुधजनाना विद्वज्जनगुणाना कामो (रोगो73 दारिद्यलक्षणो) येन स तथोक्त। अथवा कृतश्छेदितो बुधजनकाना विद्वज्जनगुणाना अमो रोगो दारिद्यलक्षणो येन तथोक्त। ‘कृञहिंसायाम्’ इति वातो प्रयोगात्। अपरं कथभूतस्त्वम्। क्षितिपतिराम क्षिति पतीना मध्ये राम श्रीमत्काकुत्स्थसमान। घत्ता छन्द। रूपकमिदम्॥

तथा मुनिकुमारिकापि अभयमतिरपि स्तौति— प्रतापरड्गइत्यङ्कनाम। प्रतापप्रवर्त नभूमिप्राय श्रीमारदत्तश्चिरं दीर्घकाल जयतु जीयात्। कयभूत। लक्ष्मीरामानड्गलक्ष्मीरेव रामा मनोहरकामिनी तदनुभवने अनङ्ग कामदेव। अपरं कथभूत। सपत्नकुल कालविक्रमोत्तुङ्ग सपत्नाना शत्रूणा कुल समूहस्तस्य कालस्य मृत्यो सबन्धी योऽसौ विक्रम सामर्थ्य तेन उत्तुङ्ग उन्नत। पुन कथभूत। कीर्तिविलासतमङ्ग कीर्तिविलासस्य सभोगस्य तमड्गप्रसाद। आर्या। रूपकमिदम्॥

उत्सारितारिसर्प शरणागतनृपतिचित्तसतर्प।
लक्ष्मीललामकूर्पस्तपतु चिर नृपतिकन्दर्प॥१८९॥

भुवनाब्जसरस्तरणिर्धर्मामृतहरणिरुदयतरुधरणि।
श्रीरमणीर तिसरणिर्मण्डलिकशिखामणिर्जीयात्॥१९०॥

वर्ण.॥

कुवलयोत्सवचन्द्र नृपतीन्द्र लक्ष्मीवर74 कीर्तिसरदमृतवृष्टिपल्लवितबुधवन75
आभुवनमभिमानधन धैर्यसदन जय विहितसदवन॥१९१॥

मात्रा॥

——————————————————————————————

अपर कथभूत। उत्सारितारिसर्प उत्सारिता पलायन कारिता अरिसपा रात्र दीर्घपृष्टा येन स तथोक्त। पुन शरणागतनृपतिचित्तसतप शरण गृहमागता

मेनृपतयस्तेषा चित्तसतर्फे मन प्रीणन यस्मादिति स तथोक्त। पुन लक्ष्मीललामकूप लक्ष्म्या ललामस्य मस्तकस्य कूर्प। भ्रुवोर तरालकेश कूर्प उच्यते। मध्यप्रदेशस्तिलकइत्यर्थ। तपतु ऐश्वर्यवान् भवतु चिर दीर्घकाल नृपति कन्दर्प भूपतिषु कामदेव॥

भुवनेति। पुन कथभूत। भुवनाब्जसरस्तरणि भुपन पृथ्वीमण्डल तदेव अब्जसर कमलवन तद्विकासने तरणि श्रीसूर्य। पुन कथभूत। धमामृतहरणि धर्म एवा मृत जरामरणनिवारकत्वात् तद्वहने हणिनाक। पुन कथभूत। उदयनस

परणि उदयस्त्रि प्रकारकश्चयोपचयापचयलक्षण स एव तरु वृक्षो वाञ्छित फलप्रदायकत्वात् तस्य धरणि भूमि। पुन कथभूत। श्रीरमणीरतिसरणि श्रीरेव लक्ष्मीरेव रमणी उत्तमनायिका तस्या रते सभोगस्य सरणिर्मार्ग। पुन कथभूत। मण्डलिक शिखामणि मण्डलिकाना नरेन्द्राणा शिखामणि शिरोरत्नजीयात् चिरं जीयात्। रूपकम्। वर्ण॥

हे कुवलयोत्सवचद्रपृथ्वीवलयोत्पलविकासनशशाङ्क। हे नृपतीन्द्र राजाधिराज। हे लक्ष्मीवर श्रीनारायणावतार। हे कीर्तिसरदमृतवृष्टिपल्लवितबुधजन कीर्ति पुण्य गुणकीर्तन सैव सरन्ती प्रसरन्ती अमृतपृष्टिस्तया पल्लविता उल्लासंप्रापिता बुधजना76 विद्वासो यस्य तथोक्त। हे आभुवनमभिमानधन त्रैलोक्यपर्यन्त अभिमानो धन वित्तं यस्य तस्य सबोधनम्। हे धैर्यसदन धीरत्वमन्दिर, त्व जय सर्वात्कर्षेण प्रवर्तख। हे विहितसदवन विहित कृत सता विद्वञ्जनानां अवन रक्षण येन स तस्य संबोधनम्। मात्राछन्द इदम्॥

नृप महति भवति किंचिद्गिरामि वक्तु गुणमखिल नोत्तरामि।
दीप्तिर्द्युमणेरवनीश यत्र का शक्ति काचमणेर्हि तत्र॥१९२॥

चतुष्पदी॥

जय लक्ष्मीकरकमलातपत्र सारस्वतरसनिष्यन्दपात्र।
धर्मार्थकामसमवृत्तचित्त तीर्थार्थिमनोरथवर्तिवित्त॥१९३॥

शत्रुस्त्रीनेत्रविधूपलान्तनिश्चयोतचन्द्र रणकेलिकान्त।
रिपुयुनतिहृदयसूर्या श्मशैलविरहानलजन्मधुमणिलील॥१९8॥

विनतक्षितीशवक्षोब्जकोश विहितश्रीरामासनिवेश। शरणागतनृपतिमनोभिलषितचिन्तामणिनिपुणगुणप्रतीत॥१९५॥

————————————————————————

नृपेति। हे नृप राजाधिराज, महति गहानुभावे गरीयसि भवति त्वयि विषये किंचिदल्पमात्रअह गिरामि वर्णयामि। अखिल समग्र गुण वक्तु अह नोत्तरामि न पारं गच्छामि। हि यस्मात् हे अवनीश पृथ्वीपते, यत्र यस्मिन् स्थाने द्युमणे श्री सूर्यस्य दीप्तिर्वर्तते तन काचमणे का शक्ति। न कापि शक्तिरित्यर्थ। चतुष्पदी नाम छन्द॥

जयेति। जय लक्ष्मीकरकमलातपत्रलक्ष्म्या करकमलवत् क्रीडाकमलबत् आत पन छत्र यस्य तस्य सबोधनम् हे मारदत्त, त्व जय। सारखतरसनिष्यन्दपात्र सर खत्या अय सारखत स चासौ रसस्तस्य निष्यन्दस्य क्षरणस्य पात्र आधारभूत तस्य सबोधनम् हे मारदत्त। धर्मार्थ कामसमवृत्तचित्त धर्मश्चअर्थश्च कामश्च तेषु समवृत्त समानाचार चित्त यस्य तस्य सबोधनम्। एक विराध्य अन्य भुड्लेइत्यर्थ। तीर्थार्थिमनोरथवर्तिचित्त तीर्थ धर्मपान अर्थिनो याचकास्तेषा मनोरथपूरण वित्त धन यस्य तस्य सबोधनम्॥

शत्रुस्त्रीति। शत्रुस्त्रीनेत्रविधूपलान्तनिश्चयाेतचन्द्र शत्रूणा स्त्रियस्तासा नेत्राणि तान्येव विधूपलाश्चन्द्रकान्तमणयस्तेषां अन्ताना कर्णप्रदेशपार्श्वे नेत्रप्रान्तानां निश्चयेाते अश्रुजलमोचने चन्द्रो मृगलाञ्छनस्तस्य सबोधनम्। हे रणकेलिका त रणकेलय सग्रामक्रीडास्ता कान्ता प्रिया यस्त तस्य सबोधनम्। रिपुयुवतिहृदयसूर्याश्मशैलविरहान लजन्मधुमणिलील रिपूणा शत्रूणा युवतय स्त्रियस्तासां हृदयानि जीवस्थानानि तान्येव सूर्याश्मशैला सूर्यका तमणिपर्वतास्तेषा विरहानलजन्मनि विरहवेश्वानरोत्पादने द्युमणे श्रीसूर्यस्य लीला शोभा यस्य स तस्य सबोधनम्॥

विनतेति। विनतक्षितीशवक्षोब्जकोशविहितश्रीरामासनिवेश विनता पादयो पतिता ये क्षितीशा राजानस्तेषा वक्षोब्जकोशेषु हृदयकमलकर्णिकासु विहित कृतः

भुवनत्रयधवलनसौधकुम्भ कीर्तिप्रबन्धभास्वद्विजृम्भ।
सग्रामरङ्गनर्तितकवन्ध वीरश्रीगीतयश प्रबन्ध॥१९६॥

य कोऽपि भवति खलतामुपैति यमवक्रयन्त्रवशता स याति।
शौण्डीर्याश्चर्यितखचरेन्द्र दोर्दण्डद‌लितरिपुकुलकरीन्द्र॥१९७॥

यस्तव सेवासु विकारमेति तस्मात्प्रागेव श्रीरपैति।
यस्त्वा हतवृत्तिर्दैव नृपतिरायोधनबद्धमति प्रयाति॥१९८॥

————————————————————————————————————————

श्रीरामाया लक्ष्मीस्त्रिय सनिवेश प्रवेशो येन तस्य सबोधनम। शरणागतनृपतिमनो भिलषितचिन्तामणिनिपुणगुणप्रतीत शरणार्थ आर्तिनिवारणार्थआगता आयाता ये नृपतयस्तेषा मनोभिलषिते वाञ्छितप्रदाने चिन्तामणिवत् निपुणगुण प्रवीणगुणस्तेन प्रतीतो विप्यात तस्य सबोधनम्॥

** भुवनेति।** भुवनत्रयधवलनसौधकुम्भ भुवनत्रयस्य त्रैलोक्यस्य धवलने उज्ज्वलकरणे सौधकुम्भ श्वेतद्रव्यद्रवघटस्तस्य सबोधनम्। कीर्तिप्रबन्धभास्वद्विजृम्भ काति प्रबन्धो विद्वज्जनरचितकीर्तिशास्त्र स एव भास्वान् श्रीसूर्यस्तस्य विजृम्भ प्रवृत्तिर्यस्य रा तस्य सबोधनम्। सग्रामरङ्गनतितकबन्ध सग्रामरड्गेसग्रामाङ्गणे नर्तितानि नृत्य कारि तानि कब वानि मस्तकरहितशरीराणि येन स तस्य सबोधनम्। वीरश्रीगीतयश प्रयत्नवीरश्रिया वीरलक्ष्म्या गीतो वर्णितो यशस प्रबन्ध सुकविरचितशास्त्र येन स यम्यस तस्य सबोवनम्॥

** य इति।** य कोऽपि भवति खलतामुपैति य कश्चित्पुमान् भवति त्वयि विषये खलता दुर्जनता शत्रुता उपेति गच्छति। यमवक्रयन्त्रवशता स याति यमस्य कृतान्तस्य वक मुखतदेव यन्त्र तेलपीडनाधिकरण तस्य वशता तदायत्तत्व स पुमान् याति गच्छति। म्रियत इत्यर्थ। शोण्डीर्याश्चयितखचरेन्द्र शौण्डीर्यण त्यागविक्रमविश्रुततया आश्चयिता विस्मय प्रापिता खचरेद्रा विद्याधरनरेन्द्रा येन तस्य सबोधनम्। दोर्द ण्डदलित रिपुकुलकरी द्र दोर्दण्डाभ्या बाहुदण्डाभ्या दलिता भूमौ आस्फाल्य चृणा कृता रिपुकुलाना शत्रुसमूहाना करीन्द्रा गजपतयो येन स तस्य संबोधनम्॥

** य इति।** यस्तव सेवासु विकारमेति यो नृपतिस्तव भवत सेवासु श्राशिषु विकारं विकृतिंएति गच्छति। तस्मात्प्रागेव श्रीरपैति तस्मात् नृणा पत्यु प्रागेव पूर्व मेव श्रीलक्ष्मीरपैति। यस्त्वा हतवृत्तिर्देव नृपतिरायोधनबद्धमति प्रयाति हे देव परमाराध्य, यो नृपतिर्नरेद्र आयोधनबद्धमति आयोधने सग्रामे बद्धा निश्चितीकृता नियन्त्रिता मतिबुद्धिर्यस्य स आयोधनबद्धमति त्वा भवन्त प्रति प्रयाति गच्छति अभिषेणयति। स कथभूत। इतवृत्ति हता विनष्टा वृत्ति जीवनोपायो मस्य स॥

स करेणाङ्गाराकर्षणानि विषधरफणमणिभिर्भूषणानि।
हरिकण्ठसटाभिर्वीजितानि दिक्करटिविषाणै क्रीडितानि।
फालेनाकाशमितानि नाम ननु कर्तु वाञ्छति धैर्यधाम॥१९९॥

लक्ष्मीरतिलोल प्रणयिगङ्ग परकीर्तिवधूग्रहणाभिषङ्ग।
यस्तव परनारीरतिनिवृत्तिमाख्याति यथार्थमसौ न वेत्ति॥२००॥

तव नासीरोद्धतरेणुरागमज्जत्किरणो रविरसितभाग।
आभाति त्रपुदर्पणसमानबिम्ब क्षितिरमणीरतिनिधान॥२०१॥

————————————————————————————————————

स हतवृत्ति कि करोति। हे धैर्यधाम, करेण हस्तेन ननु अहो अङ्गाराकर्षणानि अ ग्निखण्डानामाताननानि कर्तु वाञ्छति। स नृपति विषधरफणमणिभिर्भूषणानि विषव रस्य शेषनागस्य फणाना दर्वाणा सबन्धिभिमणिभि रत्नै कृत्वा भूषणानि आभरणानि कर्तु वाञ्छति। हरिकण्ठसटाभिवाजितानि हरे सिंहस्य कण्ठस्य ग्रीवाया सटाभि केसरै कृत्वा वीजितानि चामरकर्माणि कर्तु वाच्छति। दिक्करटिविषाणै क्रीडितानि दिक्क रटिना आशागजाना विषाणैर्द तमुसले क्रीडितानि रमणानि कर्तु वाञ्छति। नामेति सभावनायाम्॥

हे लक्ष्मीरतिलोल लक्ष्म्या रतौ भोगे लोलो लम्पटस्तस्य सबोधनम्। हे प्रणयि गङ्ग प्रणयिनी अग्रमहिषी गङ्गानान्नी यस्य तस्य सबोधनम्। परकीर्तिवधूग्रहणाभिवड्गपरकीर्तिवध्वा शत्रुकीर्तिकामिन्या ग्रहणे स्वीकरणे अभिषङ्ग तस्य सबोधनम्। यस्तव परनारीरतिनिवृत्तिमाख्याति यथार्थमसौ न वेत्ति यो विद्वान् तव भवत परनारीरतिनिवृत्तिं परनारीसोदरत्व आख्याति कथयति असौ विद्वान् यथार्थ सम्यगर्न न वेत्ति न जानाति। यतो लक्ष्मीर्नारायणकलनम्, गङ्गा शान्तनो कलत्र श्रीमहादेवेन अववृता च, परकीर्तिवधू सापि शब्दच्छलेन परस्त्री वर्तते। कथ भवान्। परनारीसोदर। निन्दास्तुतिरलकार॥

[तव77 नासीरोद्धतरेणुरागमज्जत्किरणो रविरसितभाग। आभाति त्रपुदर्पणसमान बिम्ब क्षितिरमणीरतिनिधान] हे क्षितिरमणीरतिनिधान पृथ्वीस्त्रीसभोगमन्दिर, तव भवतो नासीरस्य सेनाया उद्धत उद्गत उच्छलितो योऽसौ रेणुर्भूलिस्तस्य रागेण मज्ज तो ब्रुडन्त किरणा रश्मयो यस्य तथा एवगुणविशिष्टाेरवि श्रीसूर्य असित भागो मलिनबिम्ब सन् आभाति विदुषा चेत सु चमत्करोति। कीदृशश्चमत्करोति। त्रपुदर्पणसभानबिम्ब त्रपुण पिच्चटस्य योऽसौ दपण आदर्शस्तस्य समान सदृश बिम्ब मण्डल यस्य रवे स तथा॥

तव सेनाजनसेविततटासु परिशुष्यद्वारिषु निम्न्नगासु।
करिधावधरणिसमतोचितानि नून भवन्ति नृप विस्तृतानि॥२०२॥

त्वत्कुञ्जरहयरथभटभरेण चूर्णीकृतदुर्गपरम्परेण।
रिपुविषयेष्वहितारण्यदाव दुर्गत्वमुमाप्रतिमास्थमेव॥२०३॥

भवतोऽम्बुधिरोध काननेषु दिग्विजयव्याजप्रस्थितेषु।
सैन्येषु द्विषता दर्शनानि समुखमायान्ति न गर्जितानि॥२०8॥

————————————————————————————————————————

[तव78 सेनाजनसेविततटासु परिशुष्यद्वारिषु निम्नगासु। करिधावधरणिसमतोचि तानि नून भवन्ति नृप, विस्तृतानि] हे नृप, तव भवत सेनाजने कटकलोक सेवि तानि उषितानि निवासीकृतानि तटानि कूलानि रोधासि यासा तास्तथा तामु। परिशुष्यद्वारिषु परि समन्तात् शुष्यन्ति विलय यान्ति वारीणि जलानि यासा ता परिशुष्यद्वारयस्तासु एवगुणविशिष्टासु निम्नगासु गङ्गा यमुना सरयू वामिला रेवा कावेया दिषु विस्तृतानि विस्तारा नून निश्चयेन भवन्ति सजायन्ते। कीदृशानि भवन्ति। करिर्धा वधरणिसमतोचितानि करिधावधरणीना गजदमनभूमीना समता साम्य तस्या उचितानि योग्यानि भवन्ति॥

[त्व78 त्कुञ्जरहरथभटभरेण चूर्णीकृतदुर्गपरम्परेण। रिपुविषयेष्वहितारण्यदाव दुगत्व मुमाप्रतिमास्थमेव] हे अहितारण्यदाव हे शत्रुवनदावानल, रिपुविषयेषु शत्रुदेशेषु दुर्गत्व उमाप्रतिमास्थ वतते, नान्यत्र दुर्गमस्ति। केन कृत्वा। तद्धेतुगर्भित कारणमाहतव भवत कुञ्जराश्चहस्तिन, हयाश्च वीतय, रथाश्च स्यन्दना, भटाश्च राहस्रभट लक्षभटकोटीभटा पत्तयस्तेषा भरेण समूहेन। कथभूतेन। चूर्णाकृता शतखण्डीकृता दुर्गाणा प्राकाराणा परम्परा श्रेणिर्यन स तथा तेन। हेतुपरिसरगालकार॥

[भवतोऽम्बुविरोव77 काननेषु दिग्विजयव्याजप्रस्थितेषु। राज्येषु द्विषतां दर्शनानि समुसमायान्ति न गजितानि] हे अहितारण्यदाव, भवतस्तव

सेन्येषु कटकेषुअम्बु धिरोध काननेषु समुद्रतटवनेषु विषयेषु दिग्विजयव्याजप्रस्थितेषु दिग्विजयव्याजेन मिषेण प्रस्थितेषु प्रयाण प्राप्तेषु सत्सु द्विपता शत्रूणा दर्शनानीप्राभृतानि काेऽर्थ रत्नपट्टदुकूलाश्वगजस्त्रीरत्नानि सारवस्तूनि समुख अभिमुखयाति, न गर्जितानि म गलवलितानि समुखमायान्ति। दीपकालकार॥

केरलमहिलामुखकमलहस वङ्गीवनिताश्रवणावतस।
चोलस्त्रीकुचकुड्मलविनोद पल्लवरमणीकृतविरहखेद॥२१०॥

कुन्तलकान्तालकभङ्गनिरत मलयाङ्गनाङ्गनखदाननिरत।
वनवासियोषिदीक्षणविमुग्ध कर्णाटयुवतिकैतवविदग्ध।
कुरुजाङ्गलललनाकुचतनुत्र कम्बोजपुरन्ध्रीतिलकपत्र॥२११॥

**
पद्धतिका॥**

————————————————————————————————————

अपि तु न वतते। स क। यो राजा ते तव सेवाविविषु चरणसेवनविधानेषु ते न चकास्ति न जागर्ति, अपि तु सवाऽपि नृपवगस्तव सेवा करोतीत्यर्थ। एव कथमिति चेत् हे भोजावनीश धरापते, त्व गजि गजन गलवल्गन सग्रामसुभटत्व जहीहि जहाहि मुञ्च। हे चेदीश कुण्डिनपुरपते, अश्मवश प्रदेश पर्वतसबन्धिनी भूमि विश प्रपेणकुरु। हे अश्मन्तक सपादलक्षपर्वतनिवासिन्, त्व वेश्म गृह विहाय त्यक्त्वा याहि गन्छ। हे पल्लव पश्चद्रामिल, केलीरस क्रीडास्वाद लघु शीघ्र अपैहि परित्यज। हे चोलेश। चोलदेशो दक्षिणापथे वर्तते। सङ्गापुरपते79, जलधिं पूर्वसमुद्र उल्लङ्घय पर तीरं गत्वा तिष्ठ आस्व। हे पाण्ड्य सूक्ष्मवस्त्रोत्पत्तिनगराधीश।

दक्षिणापथाथित80 पाण्ज्यो प्रशो वर्तते। पाण्ड्यो देशो द्विविध— पाण्ड्य, अन्तरपाण्ड्यश्च। त्व स्मय गर्व उज्झ परित्यज। क्थभूत है पाण्ड्य। हतप्रतिष्ठ हता शतखण्डीकृता प्रतिष्ठा शोभा यस्येति तस्य तिरस्कार क्रियते हे हतप्रतिष्ठ। हे वेरम दक्षिणापथपते, त्व मलयोपकण्ठ चन्दनाच लसभीप पर्यट पर्यटन कुरु। एते सर्वेऽपि यूथ चेत् यद्येव न कुरुत तहि आशु शीघ्र ईशस्य श्रीमारदत्तमहाराजस्य पादपीठ सिहासन सेवितुमाराधितु सदसि सभाया आगच्छ। आयात। काकाक्षिगोलकन्यायेन सद‌सिशब्दस्य उभयत्रग्रहणम्। आक्षेपालकार॥

केरलमहिलामुखकमलहस, अयोध्यानगरात् दक्षिणापथे फेरलदेशो वतन। म्य सबन्धिन्यो या महिला स्त्रियस्तासा मुखरुमलाना विकासने इस त्रीसूगस्तस्य सवाेधनम्। अथवा तासा मुखकमलेषु विकासहस श्वेतगरुत्पक्षी। बड्गीवनिता श्रवणावतस वङ्गीवनिताना विनीताया अयोध्याया पूवदिक्त्रीणा रत्नपुरस्त्रीणा श्रवणेषु कर्णषु भव तस कर्णपूरस्तस्य सबोधनम्। चोलस्त्रीकुचकुड्मलविनोद चोल्स्त्रीणा विनीताया दक्षि णदिक्स्त्रीणा कुचकुड्मलेषु विनोद क्रीडायस्येति तस्य सबोधनम्। पल्वरमणीकृतवि रहखेद पल्वरमणीना पश्चद्रामिलस्त्रीणा कृतो विहितो विरहस्य विप्रलम्भस्य वियोगस्य खेदो दुःख येन तस्य सबोधनम्॥

कुन्तलकान्तालकभड्गनिरत कुन्तलकान्ताना पुनदेशस्त्रीणा अलकभड्गेषु केशाना वि रलीकरणेषु निरतस्तत्परस्तस्य सबोधनम्। मलयाङ्गनाङ्गनखदाननिरत मलयाङ्गनाड्गेनखदाने पुनर्भवभेदकरणे निरतस्तत्परस्तस्य सबोधनम्। वनवासियोषिदीक्षणविमुग्ध

नृपनृपतीश्वर भूरमणीश्वर यदिदमखिलगुणसश्रय।
उक्त किंचित्त्वत्स्तुतिक्कृतिचित्तच्चित्र न महोदय॥२१२॥

घत्ता॥

यैरिन्दिरामन्दिर सुन्दरेन्द्र स्त्रीराजकन्दर्प नतैर्नरेन्द्रै।
दृष्टोऽसि दृष्टा क्षितिप क्षितीशा कामैर्नकैरुत्सवकारिभिस्ते॥२१३॥

हस्तागतैस्त्रिदिवलोकगतैस्तटीध्र-
रन्ध्रान्तरालनिरतैश्च सपत्नजातै।
शौर्ये जगत्रयपुरीप्रथिते तवेत्थ
को नाम विक्रमपराक्रमवानिहास्तु॥२१8॥

————————————————————————————————————

वनवासियोषिता गिरिसोपानगरादिस्त्रीणा इक्षणे अवलोक्ने विमुग्ध विशेषेण मोहयान् तस्य सबोधनम्। कर्णाटयुवतिकैतवविदग्व कर्णाटयुवतीना विदरादिस्त्रीणा केतवे कण्टेनालिङ्गने विदग्वश्चतुरस्तस्य सबोधनम्। कुरुजाङ्गलललनाकुचतनुत्र कुरुजाङ्गललल नाना हस्तिनापुरस्त्रीणा कुचयोस्तनुत्रकञ्चुकस्तस्य सबोधनम्। क्म्बोजपुरन्तीतिलकपत्रकम्बोजपुरन्ध्रीणा काश्मीरादिदेशस्त्रीणा बृहन्मुण्डाना तिलकाभरणस्तस्य सबोधनम्॥ पद्धतिका। पोडशमात्राउन्द। रूपकम्॥

हे नृपनृपतीश्वर राजाधिराज। हे भूरमणीश्वर हे पृथ्वीस्त्रीपते। हे अखिलगुण सश्रय हे निखिलगुणनिवास। हे महोदय हे जद्भुतोदय। यत्किचित् इद पूर्वाक्तल क्षण त्वयि किंचिदुक्त प्रतिपादितम्। कथभूत उक्तम्। त्वत्स्तुतिकृतिचित् तव स्तुति कृतौ भवत स्तुतिकरणे चित् चेतन आत्मस्वरूप यत्रउक्ते तत् त्वत्स्तुति कृतिचित् तत् उक्त स्तुतिवचन चित्र आश्चयभूत न भवति प्रत्युत तव गुणा एतस्मादपि जविका वतन्ते। घत्ता। इद घत्ताछन्द। घत्तालक्षण यथा— षष्टिमात्राभिघत्ता भवति। क्वचिदद्विपष्टिमात्राभिर्भवति। सप्तविशतिभेदा घत्ता भवति॥

यैरिन्द्रिारामन्द्रेिरेत्यादि। हे इन्दिरामन्दिर लक्ष्मीनिवास। हे सुन्दरेद्र हे मनोहरशक्र। हे स्त्रीराजकन्दर्पहे स्त्रीणा उत्तमकामदेव। हे क्षितिप हे पृथ्वीपते। येर्नते नम्रीभूतैनरेन्द्रेर्नुपैस्त्व दृष्टोऽसि अवलोकितोऽसि ते क्षितीशास्ते राजान उत्सवकारिंभिरानन्दकारिभि कामैर्भोगैन दृष्टा नावलोकिता, अपि तु सवरपि कामेस्ते नरेन्द्रा दृष्टा। आक्षेपालकार॥

हस्तागतेरित्यादि। हे राजन्, इत्थ अमुना प्रकारेण तव भवत सपत्नजातैशत्रुसमूहैशौर्य सुभटत्वे जगत्रयपुरीप्रथिते सति त्रैलोक्यनगरीविरयाते सति कपुमान्। नामेति सभावनायाम्। इह अस्मिन् ससारे विक्रमपराक्रमवान् सामर्थ्याद्यमवान् अस्तु भवतु। अपि तु न कश्चिद्विक्रमवान् पराक्रमवान् भवेत्। कथभूतैसपत्नजातै। हस्ताग

सोऽपि राजा तयोरेवमभिनन्दतोर्वाचि वपुषि चानन्यजनसाधारणीं मधुरता निर्वर्ण्य ‘क्वेद करतलस्पर्शेनापि हार्यसौकुमार्येवपु, क्वचाय वय परिणामकठोरकरणैरपि महासत्त्वाधिकरणैर्निर्वोढुमशक्यारम्भस्तप प्रारम्भ, क्वेमानि सकलचक्रवर्तिपदनिवेदनपिशुनानि कङ्केल्लिपल्लवच्छविषु करचरण-

————————————————————————————————————————

तैर्बन्धनबद्धे। बन्दीगृहे क्षिप्तैरित्यर्थ। पुन कथभूतै शत्रुजातै। त्रिदिवलोकगतै स्वर्गलोक प्राप्तै। मृतैरित्यर्थ। अपर कथभूतै शत्रुजातै। तटीव्ररन्ध्रान्तरालनिरतैश्च तटीध्राणा पर्वताना रध्राणि प्रच्छनापादुकानि तेषा अन्तरालेषु म येषु प्रदेशेषु निरतै स्थितै। दीक्षा गृहीत्वा पर्वतगुहादिषु तपश्चरणप्राप्तैरित्यर्थ। समुच्चयाक्षेपालकार॥

स राजा पृथ्वीपालको भूपोऽपि अमुना प्रकारेण प्रविचिन्त्य सम्यग्विचार्य सप्रश्रय विनयसहित यथा भवत्येव तन्मिथुन प्रति मुनिकुमारकयुगल प्रति बभाषे उक्तवान्। किमुक्तवान्। भवतोर्युवयो प्रसूत्यै जन्मने। नामेति सभावनायाम्। को देशो बतते, भवतो प्रयुत्यै उत्पत्तये कि वा कुलमन्वयो वर्तते, यत्र कुले भवतोर्युवयो जम आत्मलाभो बभूव सजातम्। अज्ञातससारसुख ससारसुखास्वादरहित भवत श्चेतो मन प्रव्रजनाय दीक्षाग्रहणाय कुत कस्मात् कारणात् बाल्ये शिशुत्वे जातमु त्पन्नम्। एतत्पूर्वोक्तस्य प्रश्नत्रयस्य मम प्राथनतो मम याचनया उत्तर अभिधेय कथनीयम्। ईदृशो नृपो मुनिकुमारकयुगले प्रार्थन कृतवानिति तमेवार्थ अर्थान्तरन्यासेन द्रढयति— सन्त सत्पुस्पा साधुषु रत्नत्रयाराधकेषु मुनिषु अनुकूलवाचो हितवचना को मलालापा भवन्ति। कथम्। हि। स्फुटमिति शेष। अर्थान्तरन्यासालकार॥

इतीति कि प्रविचिन्त्य। चकारात् पुनश्च कि कृत्वा बभाषे। तयोरभयरच्यभयमत्योरेव पूर्वोक्तप्रकारेणाभिनन्दतो स्तुतिं कुर्वतो वाचि भारत्या वपुषि च शरीरे अनन्यजन साधारणा अनुपमा मधुरता मिष्टता निर्वण्य अवलोक्य चिन्तयेति (न्तितम्) राज्ञा— क्व इद प्रत्यक्षीभूत वपु शरीर वर्तते। कथभूत वपु। करतलस्पर्शेनापि हार्य सौकुमार्य कोमलत्व यस्य वपुषस्तत् करतलस्पर्शेनापि हार्यसौकुमार्यम्। क्वच अय प्रत्यक्षीभूत तप प्रारम्भो वतते। कथभूतस्तप प्रारम्भ। वय परिणामकठोरकरणैरपि वयसो यौव नस्य परिणामेन परिपक्वतया कठोराणि कर्कशानि करणानि इन्द्रियाणि येषा ते वय परिणामक्ठाेरकरणास्तै महासत्त्वाधिकरणै महासत्त्वस्य महासाहसस्य अधिकरणानि आ धारभूता येषु पुरुषास्ते महासत्त्वाधिकरणास्तैर्महासत्त्वाधिकरणै निर्वाेढुनिर्वाह कर्तु अश क्यारम्भो अशक्य कर्तुमिद न शक्य आरम्भो राभस्य यस्य तप प्रारम्भस्य स तथोक्त। क्वइमानि प्रत्यक्षीभूतानि करचरणतलेषु पाणिपादतलेषु लक्षणानि वर्तते। कथभूतेषु करचरणतलेषु कड्केल्लिपल्लवच्छविषु अशोकतरुपल्लवस शेषु। कथभूतानि लक्षणानि। सकलचक्रवर्तिपदनिवेदन पिशुनानि षट्‌खण्डपृथ्वीपतिः राज्यकथनसूचकानि। क्वचाय

तलेषु लक्षणानि, क्वचायमादित एवाजन्मभिक्षाकसमक्रम प्रक्रम। अहो आश्चर्यम्। कथमाभ्यामसत्यता नीतोऽय प्रत्यङ्गफलनिर्देश।

किं च नीलमणिसस्यानि कुन्तलेषु, शिशिरकरपरार्धता भालयो, तरङ्गरेखाश्चिल्लीषु, रत्नसमुच्चय लोचनयुगलयो, कौस्तुभोत्पत्तिं कपोलेषु, अमृतधाराप्रवाह81 नासयो, गम्भीरत्वमालापेषु, प्रवालपल्लवोल्लास रदनच्छदयो, सुधारसप्रभा स्मितिषु, प्रचेत पाशाञश्रवणविषये, कम्बुकान्ति कण्ठयो, वी-

————————————————————————————————————

प्रत्यक्षीभूत प्रक्रम प्रारम्भ। कथभूत प्रक्रम। आदित एव प्रथमत एव आजन्मभि क्षाकसमक्रम आजन्मतो जन्मत आरभ्य भिक्षा आकन्ति आस्वादयन्ति एते आज न्मभिक्षाकास्तै समक्रमोऽनुपरिपाटी यस्य प्रक्रमस्य स तथोक्त। अहो आश्चर्यम् अद्भुतमेतत्। कथ केन प्रकारेण द्वाभ्या आभ्या अय प्रत्यक्षीभूत प्रत्यङ्गफलनिर्देश फलकथन सामुद्रशास्त्र असत्यता नीतो व्यर्थता प्रापित। विषमालकार॥

कि च अस्ति कश्चिद्विशेष। नून निश्चयेन अनेन प्रत्यक्षीभूतेन प्रजापतिना ब्रह्मणा सप रिवार समुद्रस्य परिवारसहित पारावारसहित पारावार एव समुद्र एव न अन्य कश्चि त्परमुत्कृष्ट निष्केवल वा दारिद्र्य दुर्गतत्व दुर्विधत्व आनिन्ये आनीत। प्रजापतिना कि कुर्वता82

उक्त च विद्यानन्देन— ‘सृजति क्रोति प्रणयति घटयति निर्माति निमिमीते च। अनु तिष्ठति विदधाति च रचयति कल्पयति चेति करणार्ये॥’ [प्रजापतिना पुन कि कुर्वता।]

प्रजापतिना83 पुन कि कुर्वता। अस्यमिथुनस्य चिल्लीषु भ्रूषु तरङ्गरेखा कल्लोलरेखा लहरीरेया सृचता। प्रजापतिना पुन किं कुर्वता। अस्य मिथुनस्य लोचनयुगलयो नेत्रद्वन्द्वयो रत्नसमुच्चय श्वेतकृष्णरक्तमाणिक्यसमूह सृजता। प्रजापतिना पुन कि कुर्वता। अस्य मिथुनस्य कपोलेषु गण्डस्थलेषु कौस्तुभोत्पत्तिंकौस्तुभरत्नोत्पत्तिंसृजता। प्रजापतिना पुन किं कुर्वता। अस्य मिथुनस्य आलापेषु स्वरेषु अमृतधाराप्रवाह सूजता82

नाम (स)यो गम्भीरत्वमतलस्पर्शत्व सृजता। प्रजापतिना पुन अस्य रदनच्छदयो रधरयोविषये प्रबालपल्लवोल्लास विद्रुमकुम्पलप्रादुर्भाव सृजता। प्रजापतिना पुन अस्य स्मितिषु ईषद्धासेसु सुधारसप्रभा अमृतरसतेजासि सृजता। प्रजापतिना पुन अस्य श्रवणविषये शब्दग्रहेषु प्रचेत पाशान् वरुणदिक्पालायुधानि सृजता। प्रजापतिना पुन अस्य कण्ठयोग्रीवयो कम्बुकान्तिंदक्षिणावर्तशोभा सृजता। प्रजापतिना पुन

चिविलसितानि वाहासु, लक्ष्मीचिह्नानि करतलेषु, रमावेश्मशोभामुर स्थलयो, वेत्रवेल्लितानि वलिषु, आवर्तविभ्रम नाभिदेशयो, पृथुत्व नितम्बदेशे84, वृत्तिगुणनिर्माणमुरुषु, मुक्ताफलप्रसूतिं चरणनखेषु, लावण्यरसनिर्भरत्व चास्य मिथुनस्य तनौ, अनेन सृजता प्रजापतिना नून सपरिवार पारावार एव पर दारिद्यमानिन्ये।

अपि च।

यत्रामृतेन समजन्म विभाति विश्व
यत्रेन्दुना सह रतिं भजतेऽम्बुजश्री।
लावण्यमेव मधुरत्वमुपैति यत्र
तद्वर्ण्यते किमिव रूपमय जनोऽस्य॥२१५॥

————————————————————————————————————————————————

अस्य वाहासु भुजेषु वीचिविलसितानि लहरीशोभितानि सृजता। प्रजापतिना पुन अस्य करतलेषु हस्ततलेषु लक्ष्मीचिह्नानि लक्ष्मीलक्षणानि सृजता। प्रजापतिना पुन अस्य उर स्थलयोर्हृदयस्थलयो रमावेश्मशोभा लक्ष्मीमन्दिशोभा सृजता। प्रजापतिना पुन अस्य वलिषु उदररेखासु विषये वेत्रवेल्लितानि सृजता। प्रजापतिना पुन अस्य नाभिदेशयो आवर्तविभ्रम सृजता। प्रजापतिना पुन अस्य नितम्बदिशि कटिपश्वाद्भागप्रदेशे पृथुत्व विस्तीर्णस्व सृजता। प्रजापतिना पुन अस्य उरुषु सक्थिषु वृत्तिगुणनि र्माण सृजता वर्तुलगुणरचना कुर्वता। प्रजापतिना पुन चरणनखेषु पादपुनर्भवेषु मुक्ताफलप्रसूतिं मौक्तिकोत्पत्ति सृजता। प्रजापतिना पुनरस्य तनौ सर्वस्मिनड्गेलाव ण्यरसनिर्भरत्व कातिरसगाढत्व कुर्वता। उत्प्रेक्षालकार॥

अपि च तथा च विशेषमाह**—यत्रामृतेनेत्यादि।** अस्य मुनिकुमारकयुगलस्य तत् रूप स्वरूप अय प्रत्यक्षीभूतो जनो लोक किमिव वर्ण्यते कीदृशमिव कथयेत्। तत्किं यत्रयस्मिन् रूपे विश्व शरीर आपादमस्तकपर्यन्त शरीर अमृतेन पीयूषेण समजन्म सहोत्पत्ति विभाति शोभते। यत्र यस्मिन् रूपे अम्बुजश्री कमललक्ष्मी इन्दुना चन्द्रेण सह रतिं भजते सतोष कुरुते। अम्बुजस्थानीये नेत्रयुगले चन्द्रस्थानीये द्वे मुखे इत्यर्थ। यत्र यस्मिन् रूपे लावण्यमेव लवणिमेव मधुरत्व मिष्टत्व उपैति गच्छति। लवण क्षारगुण मधुरत्व अमृतवत् मिष्टगुण एतत्सर्व विपरीत कविजन कथ वर्णयति। अपि तु न शक्नोतीत्यर्थ। आक्षेपोपमा॥

इति क्षण च प्रविचिन्त्य भूप सप्रश्रय तमिथुन बभाषे85
को नाम देशो भवतो प्रसूत्यै किं वा कुल यत्र बभूव जन्म॥२१६॥

अज्ञातससारसुख च बाल्ये जात कुत प्रव्रजनाय चेत।
एतन्मम प्रार्थनतोऽभिधेय सन्तो हि साधुष्वनुकूलवाच॥२१७॥

सुनिकुमारः—

नान्यत्र दीक्षाग्रहणान्मुनीना सकीर्तन तत्रितयस्य युक्तम्।
तथापि तत्कर्तुमह यतिष्ये भवन्ति भव्येषु हि पक्षपाता॥२१८॥

ध्यानज्योतिरपास्ततामसचय स्फारस्फुरत्केवल-
ज्ञानाम्भोधितटैकदेशविलसत्रैलोक्यवेलाचल।

आनम्रेन्द्रशिखण्डमण्डनभवत्पादद्वयाम्भोरुह

श्रीनाथ प्रथितान्वयस्य भवतो भूयाज्जिन श्रेयसे॥२१९॥

————————————————————————————————————————

मुनिकुमार अभयरुचिब्रूते**— नान्यत्रेत्यादि।** मुनीना यतीना तत्रितयस्य देशकुलदीक्षाग्रहणत्रयस्य सकीतन कथन युक्त न भवति। कथम्। अन्यत्र वर्जयित्वा। कस्मादन्यत्र। दीक्षाग्रहणात्। ‘दिगितरर्तेऽन्यैश्च’ इति सूत्रेण पञ्चमीविवानम्। देशकुलयो सकीर्तनेनैवोत्पत्तिसद्भावो यस्मात्। यद्यप्येव तथापि तत्कर्तु तन्त्रितयस्य सकीर्तन विधातुमह यशस्तिलकनामा यति यतिष्ये यत्न करिष्यामि। भव्येषु मुक्तियोग्येषु पुरुषेषु रत्नत्रयोचितेषु पुरुषेषु पक्षपाता पक्षपरिग्रहा भवन्ति सजायन्ते। कथ हि स्फुटमिति शेष। अर्थान्तरन्यासालकार॥

** ध्यानज्योतिरित्यादि।** हे श्रीनाथ हे लक्ष्मीपते, भवतस्तव जिन श्रीमद्भगवदर्हत्सर्वज्ञो वीतरागदेव श्रेयसे कल्याणाय भूयाद्भवतु। कथभूतस्य भवत। प्रथितान्वय स्य विख्यातहरिवशसमुत्पन्नस्य। कथभूतो जिन। ध्यानज्योतिरपास्ततामसचय ध्यान ज्योतिषा शुक्लध्यानतेजसा अपास्तो विध्वस्त समूलकाष कषितस्तामसचयस्त्रिषष्टि प्रकृतिसमूहान्धकारो येन स तथोक्त। पुन कथभूतो जिन। स्फारस्फुरत्केवलज्ञाना म्भोवितटैकदेश विलसत्रैलोक्यवेलाचल स्फार प्रचुरतर लोकालोकव्यापक स्फुरत् योगिना चेत सु चमत्कुवत् यत्केवलज्ञान पञ्चम ज्ञान तदेव अम्भोधि समुद्रोऽतिगम्भीरत्वात् अपर्यन्तत्वात् च तस्य तट पारस्तस्यैकदेशे एकस्मिन् पाश्वे विलसन् शोभमान त्रैलोक्यवेलाचलस्त्रिभुवनवेलापर्वतो यस्य स तथोक्त। पुन कथभूतो जिन। आन भ्रेन्द्रशिखण्डमण्डनभवत्पादद्वयाम्भोरुह आनम्रा समन्तात् चरणयो पतिता ये इन्द्रा सौधर्मेन्द्राद्यच्युतपर्यन्ता शकास्तेषा शिखण्डाना मस्तकाना मण्डन भूषण भवत्सजाय मान पादद्वयाम्भोरुह चरणयुगलकमल यस्य स तथोक्त। रूपकातिशयालकार॥

सोऽयमाशार्पितयशा महेन्द्रामरमान्यधी।
देयात्ते सततानन्द वस्त्वभीष्ट जिनाधिप॥२२०॥

इति सकलतार्किकलोकचूडामणे श्रीमन्नेमिदेवभगवत शिष्येण सद्योऽनवद्यगद्यपद्य विद्याधरचक्रवर्तिशिखण्डमण्डनीभवश्चरणकमलेन श्रीसोमदेवसूरिणा विरचिते यशोधरमहाराजचरिते यशस्तिलकापरनाम्नि महाकाव्ये कथावतारो नाम प्रथम आश्वास॥

————————————————————————————————————————————————

अथेदाना निजनामाङ्क ददाना सूरय श्लोकमाहु**— सोऽयमित्यादि।** स जग त्प्रसिद्धोऽय प्रत्यक्षीभूतो जिनाधिपो जिनराजस्ते तुभ्य अभीष्ट वस्तु वाञछित वस्तु देयात् ददातु। कथभूत वस्तु। सततानद सतत निरन्तर आनन्दोऽनन्तसौख्य यस्मिन् वस्तुनि तत् सततानन्दम्। परमनिर्वाणमित्यर्थ। कथभूतो जिनाधिप। आशार्पितयशा आशासु दिक्षु अपितमारोपित यश पुण्यगुणकीर्तन यस्य येन वा स आशार्पितयशा। अपर कथभूतो जिनाविप। महे द्रामरमान्यधी महेन्द्रै सर्वनरे द्रैरमरै सर्वदेवैमान्या यूजनीया धी बुद्धिर्यस्य स तथोक्त। अस्य श्लोकस्य चतुर्षु चरणेषु पूर्वो वर्णेागृह्यते, तेन ‘सोमदेव’ इति नाम भवति। अतिशयालकार॥

इति [सकलताकिकचूडामणे श्रीमन्नेमिदेवभगवत शिष्येण सद्योऽनवद्यगद्यपद्य विद्याधरचक्रवर्तिशिखण्डमण्डनीभवच्चरणकमलेन श्रीसोमदेवसूरिणा विरचिते] यशोधरमहाराजचरिते (यशस्तिलकापरनाम्नि) महाकाव्ये कथावतारो नाम प्रथम आश्वास] परिच्छेद‌विशेष। समाप्त इत्यर्थ। कथभूते यशोवरमहाराजचरिते। श्रीसोमदेव सूरिणा विरचिते वर्णिते। पुन कथभूते। यशस्तिलकापरनाम्नियशस्तिलकमिति अपर द्वितीय नामाभिवान यस्य तत् तस्मिन् तथोक्ते। कथभूतेन श्रीसोमदेवसूरिणा। श्रीमन्नेमिदेवभगवत शिष्येण श्रीमाश्चासौ नेमिदेवो भगवानाचार्य श्रीमन्नेमिदेवभगवान् तस्य तथोक्तस्य शिष्येण अन्तेवासिना। कथभूतस्य नेमिदेवभगवत। सकल तार्किकलोक्चूडामणे सकलासमग्राश्च ते तार्किकलोका षट्तर्कचक्रवर्तिनस्तेषा चूडामणि शिरोरत्नतस्य तथोक्तस्य। कथभूतेन श्रीसोमदेवसूरिणा सद्यस्तत्काल अनवद्यगद्यपद्यविद्या वरास्तेषा चक्रवर्तिन सार्वभौमास्तेषा शिखण्डाना मस्तकाना मण्डनी भवत् भूषण सजायमान चरणकमल पादबिसप्रसून यस्य स तथा तेन॥

इति श्रीविद्यानन्दभट्टारकप्रियशिष्येण भट्टारकश्रीमल्लिभूषणगुरुपरमाभीष्टगुरुभ्रात्रा श्रीलक्ष्मीच द्रभट्टारकाभिमतेन श्रीसिंहनन्दगुरुप्रार्थनया सिद्धान्तसागरचक्रनयाख्याकृतिनिमित्त भट्टारकश्रीनीलकण्ठ विद्वद्ब्रह्मराक्षसझोटिङ्ग भट्टझञ्झामरुद्भट्टादिनवनवतिमहावादिलब्धविजयेन तर्कव्याकरणछन्दोलकार सिद्धान्तसाहित्यादिशास्त्रनिपुणमतिना प्राकृत व्याकरणाद्यनेकशास्त्ररचनाचुञ्चुना सूरिश्रीश्रुतसागरेण विरचिताया यशस्तिलकचन्द्रिका भिधानाया यशोधरमहाराजचरितचम्पूमहाकाव्यटीकाया कथावतारप्रथमाश्वासचन्द्रिका परिसमाप्ता॥

ग्रन्थाग्रन्थसख्या पञ्चचत्वारिंशच्छती॥

द्वितीय आश्वास।

श्रीकान्ताकुचकुम्भविभ्रमवरव्यापारकल्पद्रुमा
स्वर्गस्त्रीजनलोचनोत्पलवनक्रीडाकृतार्थागमा
जन्मापूर्वविभूतिवीक्षणपथप्रस्थानसिद्धाशिष
पुष्यासुर्मनसो मतानि जगत स्याद्वादिवादत्विष॥ १॥


अथेदानी द्वितीयस्याश्वासस्य पट्टबन्वनाम्नष्टीका क्रियते। तस्मिनाश्वासे आदिमङ्गलाय जिनवाक्स्तवनपुर सर श्रीसोमदेवाचार्य नान्दीसूत्रमिदमाह—श्रीकान्तेत्यादि। स्याद्वादिवादत्विष। स्यादस्ति, स्यान्नास्ति, स्यादस्तिनास्ति, स्यादवाच्यम्,

स्यादस्ति86 वा वक्तव्यम्, स्यानास्ति वा वक्तव्यम्, स्यादस्ति नास्ति वा वक्तव्यम्, इत्येव स्याच्छब्दपूर्वकप्रतिवस्तु सप्तभङ्गान् वदतीत्येवशील स्याद्वादी श्रीमद्भगवदईत्सवज्ञवीतरागस्तस्य वादो द्वादशाङ्गशास्त्र तस्य लिपो वाण्यो वचनानि जगतस्त्रैलोक्यस्य तत्रस्थितभव्यजनसमूहस्य मनसश्चित्तस्य मतान्यभीष्टानि पुष्यासु पोषयन्तु। कथभूता स्याद्वादिवादत्विष। श्रियोऽभ्युदयलक्षणलक्ष्म्यस्ता एव कान्ता स्त्रियस्तासा कुवा स्तनास्त एव कुम्भा क्लशा सुसामृताधारभूतत्वात्तेषा विभ्रम शोभा ता वरन्तीति श्रीकान्ताकुचकुम्भविश्रमवराक्ल्पद्रुमा कल्पनृक्षा। आविष्टलिङ्गत्वादत्र स्रीलिङ्गस्य विशे षण पुस्त्वम्। पुन क्थभूता। स्याद्वादिवादत्विष स्वर्गस्त्रीजन लोचनोत्पलवनक्रीडाकृतार्था गमा स्वर्गस्य सबन्धिनो ये स्त्रीजना देवाननासमूहास्तेपा लोचनानि नेत्राणि तान्येव उत्पलवनानि कुवलयकाननानि। सुसशीतलोत्पादहेतुत्वात्। तेषा तेषु वा या क्रीडा तया कृतार्थ कृतकृत्य आगम आगमन यासा तास्तथोक्ता। अपर कथभूत स्याद्वादिवाद त्विष। जन्मापूवविभूति वीक्षणपथप्रस्थानसिद्धाशिष जन्मन आरभ्य आससारमारभ्य आगम आगमन यासा या अपूर्वा विभूति परममुक्तिलक्ष्मीत्यर्थस्तस्या वीक्षणपथे अवलोकनमार्गे यत्प्रस्थान प्रथमनप्रारम्भस्तस्मिन् सिद्धाशिष श्रीसिद्धचक्रस्य पुष्पाक्षताशिष। प्ररयान सिद्धिहेतुत्वादित्यर्थ। उक्त च—

'

सर्वथाभिनयत्यागी यथा दृष्टमपे क्षक। स्याद्वादस्तावके न्यायेनान्येषु नात्मविद्विषाम्॥’ तथा चोक्तम्— ‘भारत्या व्यव सायेन जिगीषाया रुचौ तथा। शोभाया पश्चसु प्राहु विड्द्ध्वनि पूर्वसूरय॥’ रूपका लकार,। अन प्रथमचरणे नरेन्द्रलक्ष्मीप्राप्तिवर्णिता, द्वितीयचरणे देवे द्रलक्ष्मीसमागमो व्याख्यात, तृतीयचरणे मुक्तिफल दर्शितम्, एतत्रयदर्शनेन सप्त परमस्थानानि कथितानि भवन्ति। तानि कानीत्याह— ‘सज्जाति सद्गृहस्थत्व पारिव्राज्य सुरेन्द्रता। साम्राज्य परमाईत्य निर्वाण चेति सप्तधा॥’ एतत्सर्व जैनभारतीभक्त्या भवतीति भावार्थ॥

या नाकलोकपतिमानसराजहसी
विद्याधरेश्वरविचारविहारदेवी।
मर्त्याधिपश्रवणभूषणरत्नवल्ली
सा व श्रियवितरताज्जिनवाक्प्रसूति॥२॥

अहो जगत्रयप्रासादप्रकाशनकीर्तिकुलदेवतामह महानुभावतोपलासारसृष्टिसूदितकलिकालव्याल धर्मावलोकमहीपाल परिप्राप्तसमस्तशास्त्रोदीर्णार्णवनिर्णय, समाकर्णय — अस्ति खल्विहैव षट्खण्डमण्डलीविभागविचित्रे भरतक्षेत्रे प्रहसितवसुवसतिकान्तयोऽवन्तयो निखिललोकाभिलाष-विलासिवस्तुसपत्तिनिरस्तसुरपादपमदो जनपद।


पुनश्च भारतीश्रुतिविशेषणमाह —या नाकलोकेत्यादि। सा जगत्प्रसिद्धा जिनवाक्प्रसूति जैनभारती वो युष्मभ्य श्रिय अभ्युदय निःश्रेयसलक्षणोपलक्षिता लक्ष्मी वितरताद्ददातु। सा का।या जिनवाक्प्रसूति नाकलोकपतिमानसराजहसी नाक्लोकपतेर्देवेन्द्रस्य मानसस्य चित्तसरोवरस्य [कीडने क्रीडाकरणे] राजहसी राजहसभार्या वर्तते। पुन कथभूता। विद्याधरेश्वरविचारविहारदेवी विद्यावरेश्वरा गणवरदेवा विद्याधरचक्रवर्तिनस्तेषाविचारेषु पर्यालोचनेषु विहारदेवी गृहदेवता वर्तते।पुन कथ भूता। मर्त्याधिपश्रवणभूषणरत्नवल्ली मर्त्याधिपा भरतादिश्रेणिकपर्यन्ता राजानस्तेषाश्रवणाना कर्णाना भूषणे मण्डने रत्नवल्ली रत्नजटितकर्ण कुण्डलमित्यर्थ। अत्र वृत्ते खगलोक विद्याधरलोकभूमिगोचरनृपराज्यलक्ष्मीना दायिका भारता भवतीति भाव। रूपकमिदम्॥

अहो इत्यादि। अहो श्रीमारदत्तमहाराज, जगत्रयप्रासादप्रकाशनकीर्तिकुलदेवता मह जगत्रय त्रैलोक्य तदेव प्रासाद ऊध्वगतिहेतुत्वात्तस्य प्रकाशने उद्योतकरणे या कीर्ति पुण्यगुणकीर्तन सैव कुलदेवता पूर्वपुरुषसततिसमागमत्वात् तया मह्यते लोकै पूज्यते स तथा तस्य सबोधन हे तथोक्त।

अहो महानुभावतोपलासारसृष्टिसूदितकलिकालव्याल महानुभावता महाप्रभाव सैव उपलासारसृष्टि पाषाणवेगवदृष्टिसर्ग तया सूदितो निपातित कलिकाल एव व्यालो दुष्टगज। अथवा सूदितो निमूलकाष कषित कलिकाल एव व्याल कृष्णसर्पो येन स तथा तस्य सबोधनम्। अहो वर्मावलोकमहीपाल धर्मंस्यावलोको रक्षण तेनोपलक्षितो महीपालो राजा तस्य सबोधनम्। अहो परिप्राप्तसमस्तशास्त्रोदीर्णार्णवनिर्णय परिप्राप्तो विज्ञप्त समस्तशास्त्रोदीर्णार्णवस्य सकलशास्त्रमहासमुद्रस्य निर्णयो निश्चयो येन स तथा तस्य सबोधनम्। समाकर्णय समुखीभूय देशकुलदीक्षास्वरूप सम्यक् वशृणु। अस्तीत्यादि। खलु वाक्यालकारे।

श्रिया गृहाणि श्रीर्दानैर्दानान्यभ्युपपत्तिभि।
यत्र नैसर्गिकी प्रीतिं भजन्ति सुकृतात्मनाम्॥३॥

राजन्ते यत्र गेहानि खेत्तर्णकमण्डलै।
वेलाचलकुलानीव कल्लोलै क्षीरवारिधे॥४॥

यत्र स्खलद्गतैर्बालैकान्ता कुट्टिमभूमय।
हसै पद्मसरासीव मृदुगद्गदभाषिभ॥५॥


इहैव भरतक्षेत्रेऽस्मिन्नेव जम्बूद्वीपसबन्धिनि भरतक्षेत्रे अवन्तयो नाम जनपदो देशोऽस्ति विद्यते। कथभूते भरतक्षत्रे। षट्खण्डमण्डली विभागविचित्रे षट्खण्डाना मण्डली - विभागै देशविभागै विचिने आश्चर्यकारिणि। कथभूता अवन्तय। प्रहसितवसुवस- तिकान्तय प्रहसिता तिरस्कृता वसुवसते स्वर्गलोकस्य कान्ति शोभा याभिस्तास्त- थोक्ता। कथभूतो जनपद। निखिललोकाभिलाषविलासि वस्तुसपत्ति निरस्तसुरपादपमद निखिलाना समस्ताना लोकाना पञ्चजनाना अभिलाषेषु वाञ्छासु विलसन्ति प्रवर्तन्ते इत्येवशीलानि यानि तानि निखिललोकाभिलाषविलासीनि तानि च तानि वस्तूनि आभरणभोजनादीनि तेषा सपत्तिभि प्राप्तिभि निरस्तस्तिरस्कृत सुरपादपानां कल्प- वृक्षाणा मदोऽहकारो येन जनपदेन स तथोक्त \। उपमैव॥

श्रियेत्यादि। यत्र यस्मिनवन्तिजनपदे गृहाणि मन्दिराणि पस्त्यानि श्रिया सह लक्ष्म्या सार्धं नैसर्गिकी स्वाभाविकीं प्रीतिं स्नेह भजन्ति प्राप्नुवन्ति। केषा गृहाणि। सुकृतात्मना पुण्यवत्पुरुषाणाम्। यत्र यस्मिन् देशे श्रीलक्ष्मीदानै सह पात्रदानै सह प्रीतिं भजन्ति। यत्र यस्मिन् देशे दानानि अभ्युपपत्तिभिरादरै सह प्रीतिं भजन्ति। दीपकमिदम्॥। राजन्त इत्यादि। यत्र यस्मिन्नवन्तिजनपदे खेलत्तर्णकमण्डलै रममाणबाल वत्सकसमूहै कृत्वा गेहानि गृहानि राजन्ते शोभन्ते। कै कानीव राजन्ते। क्षीरवा- रिधे क्षीरसमुद्रस्य कल्लोलै कृत्वा वेलाचलकुलानीव समुद्रतटस्थितपर्वतवृन्दानीव। उपमैव॥

** यत्रेत्यादि।** यत्र यस्मिन्नवन्तिजनपदे स्सलद्गतैर्गतिस्खलद्गमनै बालै शिशुभि कृत्वा कुट्टिमभूमयो बद्धधरण्य कान्ता मनोहरा वर्तन्ते। कुट्टिमभूमय कानीव। पद्मसरासीव कमलसरोवराणीव। यथा पद्मसरासि श्वेतच्छदै पक्षिभि इसैकृत्वा कातानि मनोहराणि भवन्ति। कथभूतैर्वालैर्हयैश्च। मृदुगद्गदभाषिभि मृदूनि कोमलानि गद्गदान्यस्फुटानि वचनानि भाषन्ते ब्रुवन्तीत्येवशीला मृदुगद्गदभाषिणस्तैस्तथोक्तै। उपमैव॥

प्रजा प्रकाम्यसस्याढ्या सर्वदा यत्र भूमय।
मुष्णन्तीवामरावासकल्पद्रुमवनश्रियम्॥६॥

नित्य कृतातिथेयेन धेनुकेन सुधारसै।
यत्राक्रियन्त देवानामपार्था कामधेनव॥७॥

विभ्रमोल्लासिभिर्यत्र बल्लवीना विलोकितै।
हृता न बहु मन्यन्ते द्युसदोऽनिमिषाङ्गना॥८॥

जीवित कीर्तये यत्र दानाय द्रविणग्रह।
वपु परोपकाराय धर्माय गृहपालनम्॥९॥

बाल्य विद्यागमैर्यत्र यौवन गुरुसेवया।
सर्वसङ्गपरित्यागै सगत चरम वय॥१०॥


** प्रजेत्यादि।** यत्र यस्मिन्नवन्तिजनपदे भूमय क्षेत्राणि सर्वदा सर्वकाल प्रजाना लोकाना प्रकाम्यैरभिलषणीयै सस्यैर्धान्यविशेषैराढ्या परिपूर्णा वर्तन्ते। भूमय किं कुर्वन्ति। अमरावासकल्पद्रुमवनश्रिय मुष्णन्तीव अमरावास स्वर्गलोकस्तस्य कल्पद्रुमवनाना सुरवृक्षोद्यानाना श्रिय लक्ष्मीं मुष्णन्ति चोरयन्तीव। हेवलकार॥

** नित्यमित्यादि।** यत्र यस्मिन्नवन्तिजनपदे धेनुकेन सद्य प्रसूतगोसमूहेन देवाना स्वार्गिकाणा कामधेनव सुरसुरभयो अपार्था निरर्था अक्रियन्त चक्रिरे। कृता इत्यर्थ। कथभूतेन धेनुकेन। कामधेनुनिरर्थकरणहेतुगभित विशेषणमाह—सुवारसैरमृतरसै कृत्वा नित्य सर्वकाल कृत आतिथेय प्राघुणिकक्रिया येन धेनुकेन। काशेषे कृतानि येयन्ते (?)। हेतूपमालकार॥

** विभ्रमेत्यादि।** यत्रयस्मिन्नवन्तिजनपदे द्युसदो देवा अनिमिषाङ्गना अप्सरसो बहु न मन्यन्ते अधिकता न जानन्ति। तत्कारणगर्भित विशेषणमाह—कथभूता द्युसद। बलवीना गोपाङ्गनाना विलोकितैरवलोकनैर्हता अनुरञ्जिता। कथभूतैर्विलोकितै। विभ्रमोक्लासिभि विभ्रमैर्भूक्षेपैरुल्लसन्ति उन्नृत्यन्ति क्रीडन्तीत्येवशीलानि विभ्रमोलासीनितै। हेतूपमालकार॥

** जीवितमित्यादि।** यत्र यस्मिनवन्तिजनपदे जीवित काल कीतये यशसे वर्तते। यत्र यस्मिन् द्रव्यग्रहो लक्ष्मीसग्रहो दानाय पात्रदानाय वर्तते। यत्र यस्मिन् वपु शरीर परोपकाराय परेषामवग्रहाय वर्तते। यत्र यस्मिन् गृहपालन गृहस्थत्व धर्माय पूजादानादिनिमित्त वर्तते। दीपकालकार॥

** बाल्यमित्यादि।** यत्र यस्मिन्नवन्तिजनपदे बाल्य कुमारत्व विद्यागमै शास्त्रस्वीकारै सगत सयुक्त वर्तते। लोकानामिति शेष। यत्र यस्मिन् लोकानां यौवन

द्वावेव च जनौ यत्र वसतो वसतिं प्रति।
अर्थिन्यवाङ्मुखो यो न युद्धे यो न पराङ्मुख॥११॥

यत्र च बहिरेव मार्गभूमिषु निसर्गादशेषमनुष्यमनीषितसमसपन्नविभवैसकललोकोपसेव्यमानसपद्धि पाणिपल्लवार्पितस्थविस्तबकैस्त्रिदिवतापसानामपि सपादितसत्रमैत्रीमनोभिरपहसितसुरकाननानो कहैर्वनदेवीदान-मण्डपचारुभिस्तरुभि, अनेकनीरचर विकिरकलापचापलप्रबलानिलान्दोलितपालिन्दी-


तारुण्य गुरुसेवया दिगम्बराणामारावनेन सगत वर्तते। यत्र यस्मिन् चरम वयो वार्धक्य सर्वसङ्गपरित्यागै जिनदीक्षाग्रहणै सगत वर्तते। दीपकालकार॥

** द्वावेवेत्यादि।** यत्र यस्मिन्नवत्तिजनपदे वसतिप्रति गृहगृहप्रति द्वावेव जनौ द्विप्रकारकावेव मानुषौ वसतस्तिष्ठत। कौ तौ द्वौ। य पुमान् अर्थिनि याचके अवाङ्मुखोऽधोमुखो न वतते। यस्तु जन युद्धे सग्रामे पराङ्मुख पृष्ठदाता न वतते। अतिशयालकार॥

** यत्र चेत्यादि।** यत्रयस्मिनवन्निजनपदे प्रजाना लोकाना वृद्धा अपि श्रियो वृद्धि प्राप्ता अपि लक्ष्म्य पर केवलमाज मसु स्वस्थानेषु विस्तारयामासु वृद्धि गता। कथभूता श्रिय। मागभूमिपु अध्वस्थानेषु बहिरेव नगराद्वाह्यप्रदेशेष्वेव तरुभि र्वृक्षै सर प्रदेशैसरोवरस्थानै लताप्रतानै वल्लिविस्तारैरन्यैश्च वनराजिशाखिभिर्वनश्रे णिर्वृक्षै कृतकृतार्यातिथय कृता विहिता कृतार्था परिपूर्णमनोरथा अतिथय प्राघूर्णिका याभिस्ता कृतकृतायातिथय। काइप आज मसु विस्तारयामासु। कन्यका इव यथा कन्यका पतिंवरा कुमार्य असजातवरसमागमा अप्राप्तनवीनवरप्राप्तय। कथभूतै तरुभि। निसर्गात्खभावेन अशेषमनुष्यमनीपितसमसपत्रविभवै अशेषाणा विश्वेषा मनुष्याणा मानवाना मनीषितसम अभिलाषकल्प सपन्नो निष्पन्नो विभव पत्रपल्लवपुष्पफलादिलक्षणा लक्ष्मीयेषा तरूणा ते तथोक्तास्तै।अपर कथभूतैस्तरुभि। सकललोकोपसेव्यमानसपद्भि सकलैविश्वैलाके ब्राह्मणादिचाण्डालपर्यन्तैर्जनैरपसेव्य माना आस्वाद्यमाना सपत् पत्रपल्लवपुष्पफलच्छायादिलक्ष्मीर्येषा ते तथाेक्ते। पुन कथभूतै। पाणिपल्लवापितस्थविस्तबकै पाणिपल्लवेषु हस्तकमलेषु अर्पिता स्थविस्त चका फलगुच्छा यैस्तरुभिस्ते तथा ते। फलभारनम्रत्वादित्यर्थ। पुन कयभूतैस्त रुभि। त्रिदिवतापसानामपि स्वर्गलोकमुनीनामपि सपादितसत्र मैत्रीमनोभि सपादिता उत्पादिता सत्रमेत्रीदानमण्डपत्रीतिर्मन सु चित्तेषु यैस्ते तथा तै। पुन कथभूतै। अपहसितसुरकाननानोकहे अपहसितास्तिरस्कृता सुरकाननाना स्वर्गलोकवनाना अनोकहा कल्पद्रुमा यैस्तरुभिस्ते तथा तै। पुन कथभूतैस्तरुभि। वनदेवीदानमण्ड पचादभि वनदेवीना वनदेवताना दानमण्डपवत सत्रशालावत् चारुभिर्मनोहरै।

सततिभिरविरलविकासोल्लसत्कुवलयकह्लारकैरवारविन्दमकरन्दबिन्दुस्पन्दसदोहामोदसदर्भिताम्रपुष्पैरुतालनाली-किनीदलह-स्तोद्धारहृदयहारिभिर्विफलितामृतप्रसूतिदिवसैर्दिविजदेवार्चनोपयोगभागिभिर्जलदेवताप्रपानिवेशैसर-प्रदेश, मधुपमधुपानवशकोश-कोशकात्रवत्किञ्जल्कासवासरालपरिमलोल्लासिभिर्लेखमुख्यवैखानसकुसुमावचयो-चितैराखण्डलशिखण्डमण्डनकाण्डप्र-


तथा कथभूतै सर प्रदेशै। अनेकनीरचरविकिरकलापचापलप्रबलानिलान्दोलितपालि न्दीसततिभि अनेके बहवो ये नीरचरविकिरा जलचरपक्षिणो हससारसचक्रवाकज लकाकादयस्तेषा कलापा समूहास्तेषा चापलेन चपलत्वेन प्रबल प्रचण्डो योऽसौ अनिलो वायुस्तेनान्दोलिता कम्पिता पालिन्दीसततयो लहरीसमूहा यै सर प्रदेशैस्ते तथोकास्तै। पुन कथभूतै सर प्रदेश। अविरल विकासोल्लसत्कुवलयकहारकैरवारविन्दमकरन्दबिन्दुस्पन्दसदोहामोदसदर्भिताम्रपुष्पै अविरल प्रचुरतरो योऽसौ विकासो विकोचख तेन उल्लसन्ति उच्छलन्ति यानि कुवलयानि उत्पलानि कहाराणि च रक्त कमलानि कैरवाणि च कुमुदानि श्वेतोत्पलानि अरविन्दानि च श्वेतकमलानि च तेषा मकरन्दो रसस्तस्य बिन्दवो विप्रुषस्तेषा स्पदा क्षरणानि तेषा सदोह समूहस्तस्य आमोद परिमल तेन सदर्भितानि मिश्रितानि अभ्रपुष्पाणि जलानि येषा जलप्रदेशाना ते तथा तै। पुन कथभूतै सर प्रदेशै। उत्ताननालीकिनीदलहस्तोद्धारहृदयहारिभि उत्तानानि चपलानि यानि नालीकिनीदलानि पद्मिनीपत्राणि तान्येव हस्ता पाणयस्तेषा उद्धारेण उच्चलनेन छायाकरणेन हृदयहारिभिरतिमनोहरै। पुन कथभूतै प्रदेशै। विफलितामृतप्रसूतिदिवसै विफलिता निष्फलीकृतास्तिरस्कृता अमृतप्रसूतिदिवसा वर्षा दिनानि यैस्ते तथा तै। अपर क्थभूतै सर प्रदेशै। दिविजदेवार्चनोपयोगभागिभि दिविजाना स्वर्गिकाणामिन्द्राणा देवार्चन अर्हत्पूजन तस्य उपयोग कार्य भजन्ते आश्र यन्तीत्येवशीलास्ते तथोक्तास्ते क्षीरसागरजलवदीषत् पाण्डुरत्वात्। पुन कथभूतै सर प्रदेशै। जलदेवताप्रपानिवेशै जलदेवताना जलदेवीना प्रपानिवेशै पानीयशाला सह शै। तथा कथभूतैर्लताप्रतानै वल्लीमण्डपै। मधुपमधुपानवश कोशकोशका स्त्रवत्किञ्जल्कासवासरालपरिमलोल्लासिभि मधुपाना भ्रमराणा यन्मधुपान मकरन्दपान मद्यपान च तस्य वशा आधीना ये कोशा कमलपुष्पमध्यास्त एव कोशकानि सुरापानाणि तेभ्य आस्रवन्त क्षरन्तो ये किञ्जल्का केसराणि तेषा आसवो मद्य तस्यासरालोऽपर्यन्तो योऽसौ परिमलो विमर्दोत्थगन्धस्तेन उल्लसन्तीत्येवशीला ये लताप्रतानास्ते तथोक्तास्तै। पुन कथभूतैर्लताप्रतानै। लेखमुख्य वैसानसकुसुमावचयोचितै लेखेषु देवेषु ये मुख्य वैखानसा प्रधानमुनयस्तेषा कुसुमावचयाय पुष्पचुण्टनाय प्रसूनलवनाय उचिता यो ग्यास्ते तथा तै। पुन कथभूतैर्लताप्रतानै। आखण्डल शिखण्डमण्ड नकाण्डप्रसून विडम्बि

सूनविडम्बितखाण्डवप्रसवोत्पत्तिभिर्विलुप्तकल्पवल्लीसृष्टिसमयै करकिसलयाचलम्बितप्रसूनमञ्जरीस्रग्भिर्वसन्त-विलासवसतिसतानैर्लताप्रतानै, अन्यैश्चनिखिलभुवनजनजनितमनोरथावाप्तिभि परिभूतभोगभूमिभूरुहप्रभावै फलप्रदानोन्मुखपुण्यालेखिभि वनराजिशाखिभि कृतकृतार्थातिथय प्रजाना वृद्धा अपि श्रिय कन्यका इवासजातवरसमागमा परमाजन्मसु विस्तारयामासु।

र्गोपान्तवनद्रुमावलिदलच्छा
यापनीतातपा पूर्णाभ्यर्णसरोवतीर्णपवनव्याधूतदेहश्रमा।

पुष्पैर्मन्दमुद फलैर्भृतधियस्तोयै कृतक्रीडना
पान्था यत्र वहन्ति केलिकमलव्यालोलहारश्रिय॥१२॥


तखाण्डवप्रसवोत्पत्तिभिर्विलुप्तकल्पवल्लीसृष्टिसमयै आखण्डल इन्द्रस्तस्य शिखण्डस्य मस्तकाप्रस्य मण्डनकाण्डानिविभूषणप्रशस्तानि यानि प्रसूनानि पुष्पाणि तैर्विडम्बिता व्यर्थीकृता खाण्डवस्य प्रसवाना पुष्पाणामुत्पत्तय उत्पादितानि ताभि (तिरस्कृताभि) कृत्वा विलुप्त तिरस्कृत कल्पवल्लीना स्वगवीरुधा सृष्टे सगस्य समयोऽवसरो यैर्लताप्रतानैस्ते तथोत्त्कास्तै। पुन कथभूतैर्लताप्रतानै। करकिसलयावलम्बितप्रसूनमञ्जरीस्रग्भि करवत हस्तवत् यानि किसलयानि पल्लवानि तेषु अवलम्बिता धृता प्रसूनमञ्जरीस्रज पुष्पवल्लरीमाला यै लताप्रतानैस्तैस्तथोत्त्कै। अपर कथभूतैर्लताप्रतानै। वसन्तविलासवसतिस तानै वसन्तस्य वसन्तराजस्य विलासवसतिसतानैक्रीडागृहसदृशै। तथा कथभूतैर्वनराजिशाखिभि। निखिलभुवनजनजनितमनोरथावाप्तिभि निखिलभुवनजनाना विश्वलोकमानवाना जनिता उत्पादिता मनोरथाना दोहदाना अवाप्ति प्राप्तिर्यैस्ते तथा तै। पुन कथभूतैर्वनराजिशाखिभि। परिभूतभोगभूमिरुहप्रभावै परिभूतो मानभङ्गप्रापितो भोगभूमिभूरुहाणा कुर्वादिकल्पतरूणा प्रभावो महिमा माहात्म्य यैस्ते तथा तै।पुन कथभूतैर्वनराजिशाखिभि। फलप्रदानोन्मुखपुण्यालेखिभि फलप्रदानाय उन्मुखो बद्धोत्कण्ठ पुण्यालेखी पवित्राकारा येषां वनराजिशाखिना ते तथा तै। उपमैव॥

** मार्गोपान्तेत्यादि।** यत्र अवन्तिषु जनपदे पान्थापथिका केलिकमलव्यालोलहारश्रियो वहति केलिकमलाना व्यालोलाश्चपला हारश्रियो मालालक्ष्मीवहन्ति धारयन्ति। कथभूता पान्था। मार्गोपान्तवनद्रुमावलिदच्छायापनीतातपा मार्गोपान्तयोरध्वसमीपयो सबन्धिनो ये वनद्रुमा उद्यानवृक्षास्तेषामावलि पङ्किस्तस्या दलानि पर्णानि तेषा छाया अनातपस्तया अपनीत स्फोटित आतपो घर्मो येषा पान्थानां ते तथोत्त्का। पुन कथभूता पान्था। पूर्णाभ्यर्णसरोवतीर्णप्रवमव्याधूतदेहश्रमा पूर्णानि

अपि च यत्र पलव्यवहार सुवर्णदक्षिणासु, मधुसमागम समासवर्तेषु, परदारोदन्त कामागमेषु, क्षणिकस्थितिर्दशबलशासनेषु, चापलविलास पृषदश्वेषु, भावसकर ससर्गविद्यासु, परद्रव्याभिलाष प्रासादकृतिषु, अक्रमगति काद्रवेयेषु, करकठिनताकर्णन पुरुषपरीक्षासु, शस्त्रसंपात पत्रच्छेदेषु, बन्धविधिस्तुरङ्गक्रीडासु, लिङ्गभेद प्राकृतेषु, उपसर्गयोगो धातुषु, निपा-


जनभृतानि अभ्यर्णानि निकटतराणि यानि सरासि जलाशयनि तडागानि सरोवराणि तेभ्योऽवतीर्ण समागतो योऽसौ पवनो वायुस्तेन व्याधूत स्फेटितो देहाना शरीराणा श्रम खेदो येषा पान्थाना ते तथोत्त्का। पुम कथभूता। पुष्पै कृत्वा मन्दमुद प्रचु रहर्षा निबिडपरमानन्दा पुन कथभूता। फलै कृत्वा भृतधियो भोजनाकाङ्क्षारहिता। पुन कथभूता। तोयै जलै कृत्वा कृतक्रीडना विहितकेलय। तूयन्तेआदीयन्ते गृह्यन्ते तृषार्तैरिति तोयानि। ‘स्वराद्य’। ‘तु वृत्तिपूरणहिंसादानेषु’ इति धातो प्रयोगात्। उपमालकार॥

अपि चेत्यादि। यत्र यस्मिन् अवन्तिषु जनपदे पलव्यवहारो गद्याणकदशकेन पलमुच्यते पञ्चदश टङ्कानीत्यर्थस्तस्य व्यवहारो दानमादान च सुवर्णदक्षिणासु कनकदानेषु। न तु मासव्यवहारस्तत्र देशेऽस्ति। मधुसमागम वसन्तागमन समासवर्तेषु वर्षप्रवर्तनेषु। न तु मद्यसमागम। परदारोदन्त परा उत्कृष्टा दारा स्त्रियस्तेषामुदन्तो वार्ता कामागमेषु कामशास्त्रेषु। न तु परस्त्रीगमन परेषा विदारण वा परदारा उच्यते। क्षणिकस्थितिर्दशबलशासनेषु क्षणिकस्थिति पक्षो बौद्धागमेषु वर्तते। न तु निजवाक्चल नम्। चापलविलास पृषदश्वेषु चापलविलास चपलत्व पृषदश्वेषु मारुतेषु वर्तते। न तु परदारेषु हस्तादिक्षेप। न च वृथा (धनुर्ग्रहण) चाप लातीति भाव। भावसकर ससर्गविद्यासु ससर्गविद्यासु भरतशास्त्रेषु भावसकरो वर्तते एकोनपञ्चाशद्भावाना मिश्रता वर्तते। न तु भावस्य क्रियाया सकरो व्यामिश्रता वर्तते। प्रासादकृतिषु देवगृहनिर्मा पणेषु परद्रव्याभिलाष परस्योत्कृष्टस्य न्यायोपार्जनस्य द्रव्यस्य धनस्य अभिलाषो वर्तते। न तु87 क्रमलङ्घनम्। करकठिनताकर्णन पुरुषपरी क्षासु पुरुषपरीक्षासु सामुद्रिकशास्त्रेषु करकठिनताकर्णन हस्तकर्कशताश्रवण वर्तते। न तु करस्य सिद्धोदयस्य कठिनता। आधिक्य वर्तते। उत्त्कच— ‘अकर्मकठिनौ हस्तौ पादौ वा ध्वनिकोमलौ। यस्य पाणी च पादौ च तस्य राज्य विनिर्दिशेत्॥‘पत्रच्छे देषु पुस्तकदलसचरणेषु नागवल्लीदलच्छेदनेषु वा शस्त्रसपात छुरिकादिव्यापारो वर्तते। न तु लिङ्गच्छेदादौ शस्त्रपातोऽस्ति। तुरङ्गक्रीडासु अश्वकेलिषु बन्धविधि

तश्रुतिशब्दशास्त्रेषु, दोषचिन्ता भिषग्वचनेषु, भङ्गनिशमन यमकवाक्येषु, सीताहरणश्रवणमितिहासेषु, बन्धुकलहाख्यान भारतकथासु, कुरङ्गवृत्ति केलिस्थानेषु, धर्मगुणच्छेद सग्रामेषु, कुटिलता च कामकोदण्डकोटिषु।

किं च।

धर्मे यत्र मनोरथा प्रणयिता यत्रातिथिप्रेक्षणे
त्यागे यत्र मनीषितानि मतयो यत्रोल्बणा कीर्तिषु।
सत्ये यत्र मनासि विक्रमविधौ यत्रोत्सवो देहिना
यत्रान्येऽपि निसर्गसङ्गनिपुणास्ते ते च सन्तो गुणा ॥१३॥


स्तरुमूलपीडन वर्तते। न तु शृङ्खलादिबन्धनविधि। प्राकृतेषु शास्त्रेषु लिङ्गभेद स्त्रीपुनपुसकलिङ्गव्यभिचारो वर्तते। न तु शेफच्छेदनम्। उपसर्गयोगो धातुषु ‘भू सत्तायाम्’ इत्यादिनवगणेषु उपसर्गयोग प्राद्युपसर्गससर्गोवर्तते। न तु उपसर्ग उत्पात अजन्य मुनीना ध्यानादौ वर्तते। शब्दशास्त्रेषु व्याकरणेषु निपातश्रुति ‘पुरदरवाचयमसर्वसह द्विषतपाश्च’ इत्यादीना शब्दाना श्रुति श्रवण वतते न तु अश्वमेघराजसूयगोसवादिजीवादिजीवघातावाश्रुतिर्वेदा वर्तन्ते। भिषग्वचनेषु वैद्यकशास्त्रेषु दोषचिन्ता वातपि त्तश्लेष्मविचारण वर्तते। न तु परनिन्दाकरणम्। यमकवाक्येषु शब्दालकारविशेषशास्त्रेषु भङ्गनिशमन पदच्छेदश्रवण वर्तते। न तु भङ्गस्य जीवविनाशस्य व्रतखण्डनायाश्चभङ्ग श्रवण वर्तते। इतिहासेषु रामायणादिषु सीताहरणश्रवण सीताया जनकपुत्र्या हरण श्रवण हरणाकर्णनम्। न तु सीताया लक्ष्म्या उद्दालन वर्तते। भारतक्थासु पाण्डवपुराणेषु बन्धुकलहारयान युधिष्ठिरदुर्योवनादियुद्धकथन वर्तते। न तु भ्रातॄणा परस्पर कलहोऽस्ति। केलिस्थानेषु क्रीडाभूमिषु कुरङ्गवृत्ति कुरङ्गवन्मृगवद्वृत्तिरुच्छलन वर्तते। न तु धनाद्यर्थे परस्पर भीतिभङ्गोऽस्ति। सग्रामेषु युद्धेषु धर्मगुणच्छेद धर्मस्य धनुषो गुणस्य प्रत्यञ्चायाश्छेद खण्डन वर्तते। न तु धर्मस्य दानपूजादिलक्षणस्य गुणस्य ब्रह्मचर्यादेश्छेदो वर्तते। कुटिलता च कामकोदण्डकोटिषु कन्दर्पचापाटनीषु कुटिलता वक्रता वर्तते। परिसख्यालकार। उत्त्कच—‘यत्र साधारण किंचिदेकत्र प्रतिपाद्यते। अन्यत्र तन्निवृत्त्यै सा परिसख्योच्यते यथा ॥’ इति

किं चास्ति कश्चिद्विशेष ।धर्म इत्यादि। यत्रयस्मिन्नवन्तिषु जनपदे धर्मे पूजादानादिलक्षणे देहिना प्राणिना मनोरथा दोहदानि वन्तते। यत्र यस्मिन् प्रणयिता स्त्रेहित्व अतिथिप्रेक्षणे यतिदानाय द्वारावलोकने वतते। यत्र यस्मिन् मनीषितानि इच्छा त्यागे दाने वर्तते। यत्र देशे कीर्तिषु यश प्रसिद्धिषु उल्बणा उद्रित्त्कामतयो वर्तन्ते। यत्र देशे मनासि चित्तानि सत्ये सत्यवचनभाषणे वर्तन्ते। यत्र यस्मिन्नवन्तिजनपदे विक्रमविधौ पराक्रमविधाने उत्सव उत्साहो वर्तते। यत्र देशे ते ते जगत्प्रसिद्धा

तत्रावन्तिषु विख्याता पृथुवशोद्भवात्मनाम्‌।
अस्ति विश्वभरेशाना राज्यायोज्जयिनी पुरी॥१४॥
सोधनद्धध्वजाप्रान्तमणिदर्पणलोचना।
या स्वय त्रिदशावासलक्ष्मी द्रष्टुमिवोत्थिता॥१५॥
शोभन्ते यत्र सद्मानि सितकेतुसमुच्छ्रयै।
हराद्रिशिखराणीव नवनिर्मोकनिर्गमै॥१६॥
नवपल्लवमालाङ्कायत्र तोरणपङ्कय।
भान्तीव मेखलानन्दिनितम्बा सदनश्रिय॥१७॥


सन्‍त समीचीना गुणा औदार्यशौण्डीर्यगाम्भीर्यधैर्यवीर्यादयोऽन्येऽपि च अपरेऽपि वर्तन्ते। कथभूता गुणा। निसर्गसङ्गनिपुणा निसर्गेण स्वभावेन परस्पर प्रीत्या कृत्वा निपुणा प्रवीणा निसर्गनिपुणा। दीपकसमुच्चयालकार॥

** तत्रावन्तिष्वित्यादि।** तत्र तस्मिन्नवन्तिषु जनपदेषु उज्जयिनी नाम पुरी नगरी विख्याता त्रैलोक्यप्रसिद्धा अस्तिविद्यते। किमर्थपुरी वर्तते। विश्वभरेशाना पृ थिवीपतीना राज्याय राज्यनिमित्तम्‌। कथभूताना विश्वभरेशानाम्‌। पृथुवशोभ्दवात्मना पृथुवशेइक्ष्वाक्कादिक्षत्रियकुलेषु उभ्दव उत्पत्तिरात्मना जीवाना येषा ते पृथुवशोभ्दवात्मान तेषाम्। जात्यलकार॥

** सौधनद्धेत्यादि।** या उज्जयिनी पुरी त्रिदशावासलक्ष्मीं स्वर्गश्रिय द्रष्टुमव लोकयितु स्वयमात्मनैवोच्छ्रितेवोभ्देद वर्तते। कथभूता उज्जयिनी। सौधनद्धध्वजाप्रान्तमणिदर्पणलोचना सौवेषु राजसदनेषु नद्धा आरोपिता ये ध्वजा स्तेषा प्रान्तेष्वग्रेषु ये मणिदर्पणा रत्नादर्शास्तएव लोचनानि नेत्राणि यस्या सा तथोत्त्का। उत्प्रेक्षालकार॥

** शोभन्तइत्यादि।** यत्र यस्यानगर्यासद्मानि गृहाणि सितकेतुसमुच्छ्रयै शुक्लध्वजस्य सम्यगुत्थितिभिशोभन्ते विभान्ति। कै कानीव। नवनिर्मोकनिर्गमै प्रत्यग्रसर्पकञ्चुलिकानिर्याण कृत्वा हराद्रिशिखराणीव कैलासपर्वतमस्तकानीव। उपमालकार॥

** नवपल्लवेत्यादि।** यत्रयस्यापुर्या तोरणपङ्कयो बन्दनमालाश्रेणयो भान्ति शोभन्ते। कथभूतास्तोरणपदङ्कय। नवपल्लवमालाङ्काप्रत्यग्रप्रवालस्रजोऽङ्कश्चिह यासा तोरणपङ्कीना तास्तथा \। सदनश्रिय गृहलक्ष्म्यामेखलानन्दिनितम्बा इव मेखलाभी रसनाभिरानन्दित आनन्दवन्तो नितम्बा इव कटिपश्चाभ्दागा इव। उत्त्कच—‘स्रीकठ्या मेखला काञ्ची सप्तकी रसनास्रिय’। उपमालकार॥

क्रीडत्कलापिरम्याणि यत्र हर्म्याणि कुर्वते।
शरणश्रीसपर्यासु विफलाश्चामरक्रिया॥ १८॥

सर्वर्तुश्रीश्रितच्छाया निष्कुटोद्यानपादपा।
पौरकामदुहोयत्र मोगभूमिद्रुमा इव॥ १९॥

नक्त सिप्रानिलैर्यत्र जालमार्गानुगैकृता।
वृथा रतिषु पौराणा यन्त्रव्यजनपुत्रिका॥ २०॥

चन्द्रोपलप्रणालाग्रैर्निशि चन्द्रातपस्रुतै।
हरन्ति यत्र हर्म्याणि यन्त्रधारागृहश्रियम्‌॥ २१॥

यत्र सौधाग्रकुम्भेषु लब्धविश्रमणा क्षणम्‌।
व्योमाध्वनि सुख यान्ति रविस्यन्दनवाजिन॥ २२॥

———————

क्रीडदित्यादि। यत्र यस्या पुर्या हर्म्याणि अन्त पुरगृहाणि शरणश्रीसपर्यासु गृहलक्ष्मीपूजासु चामरक्रिया प्रकीर्णकोपचारान्‌ विफला निरर्थका कुवते विदधति। कथभूतानि हर्म्याणि। क्रीडत्कलापिरम्याणि क्रीडन्तो रममाणा ये कलापिनो मयूरास्तैरम्याणि मनोहराणि। हेतूपमालकार॥

सर्वेत्यादि। यत्रयस्यामुज्जयिन्या पुर्या निष्कुटोद्यानपादपा गृहारामबृक्षा पौरकामदुहो नागरिकाणावाच्छितफलप्रदायिका वतन्ते। कथमूता निष्कुटोद्यानपादपा। सर्वर्तुश्रीश्रितच्छाया सर्वे च ते ऋतवो हिमशिशिरवसन्तग्रीष्मवर्षाशरदस्तेषा श्रीभिर्लक्ष्मीभिश्रिता आश्रिता छाया शोभा येषा ते तथा। पुन कथभूता। भोगभूमिद्रुमा इव कुरुभूमिवृक्षा इव। उपमालंकार॥

नक्तमिद्यादि। यत्रयस्यामुज्जयिन्या पुर्या नक्त रात्रौसिप्रानिलैसिप्रासरिन्मारुतैपौराणा नगरौकसा रतिषु सभोगक्रीडासु यन्त्रव्यञ्जनपुत्रिका यन्त्रेणकृत्वाव्यञ्जनपुत्रिका तालवृन्तपुत्तलिका वृथा कृता निरर्थका विहिता। कथभूतै सिप्रानिलै। जालमार्गानुगैजालमार्गेषु वातायनमार्गेष्वनुगच्छन्ति पृष्ठत समागच्छन्ति ये अनिलास्ते तथा तै। जात्यलंकार॥

चन्द्रोपलेत्यादि। यत्र यस्यां पुर्यानिशिरत्रौ हम्याणि गृहाणि कतृभूतानि चन्द्रोपलप्रणालाग्रैकृत्वा चद्रकान्तमणिप्रणालप्रान्तैकृत्वा यन्त्रधारागृहश्रिय मेघमन्दिरशोभा हरन्ति तिरस्कुर्वन्ति। कथभूतैश्चन्द्रोपलप्रणालाग्रै। चन्द्रातपस्रुतैचन्द्रातपेन शशाङ्कप्रभया स्रुतै क्षरितै। उपमालंकार॥

यत्रेत्यादि। यत्र उज्जयिन्या पुर्यारविस्यन्दनवाजिन श्रीसूर्यरथस्य वाहासुखमनायासयथा भवत्येव व्योमाध्वनि आकाशमार्ग यान्तिगच्छन्ति। कथभूता रविस्यन्दनवाजिन। सौधाग्रकुम्भेषु राजमन्दिरप्रान्तफलकेषु क्षण मुहूर्तमेक लब्धविश्रमणा प्राप्तविश्रामा। प्रतिवस्तूपमालंकार॥

पस्त्यभित्तिमणिद्योतैर्दीप्ता यत्र निशाखपि।
वियोगाय न कोकाना भवन्ति गृहदीर्घिका॥ २३॥

त्यागाय यत्र वित्तानि चित्त धर्माय देहिनाम्‌।
गृहाण्यागन्तुभोगाय विनयाय गुणागम॥ २४॥

सत्त्रवर्त्मनि पान्थाना बहुदातृपरिग्रहात्‌।
मूढीभवन्ति चेतासि यत्राभ्युपगमोक्तिषु॥ २५॥

सर्वरत्नानि वार्धीना सर्ववस्तूनि भूभृताम्‌।
द्वीपाना सर्वसाराणि यत्र सजग्मिरे मिथ॥ २६॥

वयस्या भोगभूमीना सध्रीची सुरसपदाम्‌।
आली च भोगभूतीना या बभूव निजश्रिया॥ २७॥

————————

पस्त्यभित्तीत्यादि। यत्र यस्यानगर्या निशास्वपि रात्रिष्वपि गृहदीर्घिकागृहवापिका कोकाना चक्रवाकाना वियोगाय विप्रलम्भाय न भवन्ति न जायन्ते। कथभूता गृहदीर्घिका। पस्यभित्तिमणिद्योतैर्दीप्ता पस्त्याना गृहाणा भित्तीनाकुड्याना मणीना रत्नाना द्योतैस्तेजोभिदीप्तिं प्राप्ता। भ्रान्तिमानलंकार॥

त्यागायेत्यादि। यत्र यस्यानगर्यादेहिना प्राणिना वित्तानि धनानि त्यागाय दानाय वर्तन्ते। चित्त मनो धर्माय दयालक्षणाय वर्तते। यत्र देहिना गृहाणि आगन्तु भोगाय प्राघूर्णकनिर्देशाय वर्त॑ते। यत्रनगर्यागुणागमो गुणोपार्जन शास्त्राभ्यासो विनयाय वर्तते। दीपकालंकार॥

सत्त्रवर्त्मनीत्यादि। यत्र यस्या नगर्यासत्त्रवर्त्मनि दानशालामार्गे पान्थाना पथिकाना चेतासि मनासि अभ्युपगमोक्तिषु अभ्युत्थानवचनेषु मूढीभवन्ति किकर्तव्यतामूढानि भवन्ति। कस्मात्‌। बहुदातृपरिग्रहात्‌ बहूना प्रचुराणा दातॄणा दायकाना परिग्रहात्‌ स्वीकारात्। अयमतिशयालंकार॥

सर्वरत्नानीत्यादि। यत्र यस्यामुज्जयिन्या वार्धीना सप्तसमुद्राणा सर्वरत्नानि श्वेतपीतहरितारुणकृष्णरत्नानि माणिक्यानि मिथ परस्परं सजग्मिरे समिलितानि जातानि। भूभृता पर्वताना सर्ववस्तूनि सर्वे पदार्था कर्पूरचन्दनराजार्हग्रन्थिपर्णजाटामासीधार्मपत्तनादय मिथ सजग्मिरे। द्वीपाना सर्वसाराणि लङ्कादिअन्तर्द्वीपद्वीपाना समुद्रमध्यस्थितस्थानाना सर्वसाराणि सर्वधनानि मिथ सजग्मिरे। दीपकालंकार॥

वयस्येत्यादि। या उज्जयिनी पुरी निजस्रिया निजलक्ष्म्या कृत्वा भोगभूमीना वयस्या सखी बभूव। सुरसपदाममरलक्ष्मीणा सध्रीची सखीबभूव। भोगभूतीना कर्पूरकस्तूरिकाचन्दनादिसपदां आलीसखी बभूव। दीपकालंकार॥

भ्रूचापविभ्रमोद्भ्रान्तनेत्रापाङ्गशिलीमुखा।
मुधा कुर्वन्ति कामिन्यो यत्र कामास्त्रगर्जितम्‌॥ २८॥

अलककदलीकान्ताभोगा पताकितलोचना
पृथुतरकुचक्रीडत्कुम्भामदालसविभ्रमा।
स्मरकरिघटा कामोद्दामा इवाहवकल्पिता-
स्त्रिभुवनजनानीतक्षोभा विभान्ति यदङ्गना॥ २९॥

यत्र च कामिनीना चिकुरेषु निसर्गकृष्णता न जनाना चरित्रेषु, सीमन्तेषु द्विधाभावो न स्वामिसेवासु, केकरालोकितेषु कुटिकत्व न विन-

———————

भ्रूचापेत्यादि। यत्र यस्या पुर्या कामिन्य भ्रूचापविभ्रमोद्भ्रान्तनेत्रापाङ्गशिलीमुखा भ्रुवएवचापानि धनूषि वक्रसभावत्वात्तेषा विभ्रमा नामोन्नामास्तत्र उद्भ्रान्तानि चपलत्व प्राप्तानि यानि नेत्राणि लोचनानि तेषामपाङ्गाप्रान्तास्त एव शिलीमुखा बाणा मर्मवेधित्वात्88 यासा कामिनीना तास्तथा। उपमालंकार॥

अलककदलीत्यादि। यस्या उज्जयिन्या पुर्यासबन्धित्वेन अङ्गना कमनीयकामिन्यो विभान्ति विशेषेण शोभन्ते। कथभूता यदङ्गना। कामोद्दामा कामेन कन्दर्पेणोद्दामा उत्कटा। अपरं कथभूता। आहवकल्पिता संग्रामसज्जीकृता स्मरकरि घटा इव कन्दर्पगजघटाइव। कथभूता यदङ्गना स्मरकरिघटाश्च। अलककदलीकान्ताभोगा अलकाश्चूर्णकुन्तलास्तएव कदल्योवैजयन्त्यो वृहद्ध्वजास्ताभि कान्तो मनोहर आभोग आटोपो यासा तास्तथोक्ता। पुनरपि कथभूता यदङ्गना। पताकितलोचना पताकितानि पालिध्वजीकृतानि रोचनानि नेत्राणि यास्याता। पुन कथभूता यदङ्गना। पृथुतरकुचक्रीडत्कुम्भा पृथुतरा पीनोन्नता ये कुचा स्तनास्त एवं क्रीडन्त उल्लसन्त कुम्भा कलशा यासा ता। पुन कथभूता यदङ्गना। मदालसविभ्रमा मदेन यौवनमदेन अलसो मन्दोद्यमो विभ्रमो भ्रूक्षेपो यासा ता। पुन कथभूता यदङ्गना। त्रिभुवनजनानीतक्षोभा त्रिभुवनजनाना त्रैलोक्यलोकाना आनीतोऽवतारित क्षोभश्चित्तचलनयाभिस्तास्तथोक्ता। इत्यनेन गजघटाना बृहद्ध्वजलघुध्वजशिर सपिण्डमदत्रिभुवनक्षोभ्यधर्मोगजघटानाभवतारित। रूपकोपमालकार॥

यत्र यस्यामुज्जयिन्या पुर्यांकामिनीना नवयौवनस्त्रीणा चिकुरेषु केशेषु निसर्गकृष्णता स्वभावेन मेचकत्व भ्रमरवर्णत्वइन्द्रनीलरत्नतेजस्विता, न जनाना सम्यग्दृष्टिलोकाना चरित्रेषु आचरणेषु कृष्णता मलिनत्व नैव वर्तते। सीमन्तेषु केशमार्गेषु द्विधाभावउभयतोभाव, स्वामिसेवासु न द्विधाभावो न द्विमनस्कता। केकरालोकितेषु कटाक्षवि लोकितेषु कुटिलत्व वर्तते वक्रत्ववर्तते, न विनयोपदेशेषु विनयकरणेषु कुटिलत्व

योपदेशेषु, भ्रूलतासु भङ्गसगमो न परस्परमैत्रीषु, लोचनेषु वर्णसकरो न कुलाचारेषु, पयोधरेषु विवेकविकलता न परपरिभाषणेषु, मध्यदेशेषु दरिद्रता न मनीषितेषु, नितम्बेषु जडता न विद्याव्यतिकरेषु, चरणनखेषु वृद्धिविकोपदरर्शन न विभवमहोत्सवेषु, पादतलेषु पासुलता न वृत्तेषु।

या देवायतनैर्महद्भिरमरक्रीडावतारैर्वनै
सत्रैप्रीणितपान्थसार्थहृदयैर्लक्ष्मीनिवासैर्गृहै।
वापीभिर्जलदेवतावसतिभिर्देवोपमानैजनै
स्वर्गावासपुरीव भाति विभवैरन्यैश्च तैस्तैरपि॥ ३०॥

———————

मायित्व न वर्तते। भ्रूलतासु भङ्गसगमो भ्रूवल्लीषु भङ्ग सगम उत्क्षेपसगति , न परस्परमैत्रीषु अन्योन्यप्रीतिषु विनाश। लोचनेषु नेत्रेषु वर्णसकर शुक्लकृष्णताम्रवर्णमिश्रता वर्तते, न कुलाचारेषु विवाहादिषु वर्णसंकरो वर्तते। पयोधरेषु विवेकविकलता पयोधरेषु स्तनेषु विवेकविकलता परस्परसलग्नता वर्तते, न परेषा परिभाषणेषु आलापेषु विवेकविकलता वर्तते चातुर्यरहितता न वर्तते। मध्यदेशेषु उदरप्रदेशेषु दरिद्रता क्षामता वर्तते, न मनीषितेषु वाञ्छितवस्तुषु दारिद्र्यं नास्ति। नितम्बेषु स्त्रीकटिपश्चाद्भागेषु जडता गुरुत्व वर्तते, न विद्याव्यतिकरेषु शास्त्राभ्यासप्रघट्टकेषुजडता मूर्खत्व नास्ति। चरणनखेषु पादनखरेषु वृद्धि विलोपदर्शन नखलुना लवननिरीक्षण वर्तते, न विभवमहोत्सवेषुन लक्ष्मीणा महोद्यमेषु वृद्धेर्वर्धनस्यकालान्तरदानस्य वा विलोप दर्शन न वर्तते। पादतलेषुचरणाधोभागेषु पासुलता धूलिधूसरत्वम्‌ , न वृत्तेषु चारित्रेषुपासुलता पुश्चलत्व न वर्तते। श्लेषपरिसंख्यालंकार॥

या देवायतनैरित्यादि। या पुरी देवायतनैर्देवप्रासादै कृत्वा स्वर्गावासपुरीव स्वर्गलोकनगरीव भाति शोभते। कथभूतैदेवायतनै। महद्भिर्महामानैया पुरी विभाति कि तु वनैरुद्यानैश्चस्वर्गावासपुरीव शोभते कथभूतैर्वनै। अमरक्रीडावतारै अमराणादेवाना कीडाया कुर्दनस्यावतार प्रवेशो येषु वनेषु तानि अमरक्रीडावताराणि तै। तथा सत्रैर्दानशालाभिस्वर्गावासपुरीव शोभते। कथमूतै सत्रै। प्रीणितपान्थसार्थहृदयै प्रीणितानि तर्पितानि पान्थसार्थाना पथिकसमूहाना हृदयानि चित्तानि यैसत्रैस्तानि तै। तथा गृहैर्मन्दिरे स्वर्गावासपुरीव शोभते। कथभूतै गृहै। लक्ष्मीना निवास स्थितिर्येषु गृहेषु तानि लक्ष्मीनिवासानि तैतथा वापीभिर्दीर्धिकाभिस्वर्गावासपुरीवशोभते। कथभूताभिर्वापीभि। जलदेवताना वसतिभिर्निवासभूमिभि तथा जनैर्मनुष्य स्वर्गावासपुरीव शोभते। कथभूतैर्जनै। देवानामुपमान येषा ते देवोपमानास्तै। तथा अन्यैश्च अपरैरपि तैस्तैर्जगत्प्रसिद्धैर्विभवै सपद्भिकृत्वा स्वर्गावासपुरीव भाति। उपमासमुच्चयालंकार॥

तस्या पराक्रमकुठारखण्डितसमस्तारातिसतानतरु, सकलवर्णाश्रमाचारपरिपालनगुरु, गुरुरिव राज्यलक्ष्मीविनयोपदेशस्य; प्रथमयुगावतार इव सच्चरित्रस्य, धर्ममूर्तिरिव सत्यव्रतस्य, ब्रह्मालयइव परलोकाश्रयणस्य, त्रिदशावासइव मनोभिलषितस्य, पुष्पाकर इवोत्सवपरम्परागमनस्य; भूसर्गइव सर्वपार्थिवगुणाना समवाय, प्रजापतिरिव लब्धवर्णना धुरि वर्णनीय, तारेश्वर इव चतुरूदधिमध्यवर्तिन कुवलयस्य प्रसाधयिता; शरत्समय इवप्रतापवर्धितमित्रमण्डल, हेमन्त इव पल्लविताश्रितकुन्दक-

———————

अहोसौजन्यरत्नपरायण सौजन्यमेव सत्पुरुषतैव रत्न अनर्घ्यमाणिक्यम्‌। त्रिभुवनोद्योतकारकत्वात्। तस्मिन्‌ परायणस्तत्परस्तस्य सबोधन हे सौजन्यरत्नपरायण। हे आमुष्यायण हे प्रसिद्धात्पत्युरुत्पन्न। राजन्‌ मारदत्त। तस्या उज्जयिन्या पुर्यायशोर्घनामा यशोर्घाभिधान क्षितिपति पृथिवीपतिर्बभूव सजात। कथभूतो यरोर्धनामा क्षितिपति। पराक्रमकुठारखण्डितसमस्तारातिसतानतरू पराक्रम शक्ति। प्राण इति यावत्‌। स एवकुठार परशुस्तीक्ष्णधारत्वात्कुठान्‌ वृक्षान्‌ इयति गच्छतीति कुठार कर्मत्वात्‌ इति व्युत्पत्तेस्तेन खण्डिता द्विधाकृता समस्तानामरातीना सतानतरव कुलवृक्षा येन स तथा। पुन कथभूतो यशोर्धनामा क्षितिपति। सकलवर्णश्रमाणा ब्रह्मचारिगृहस्थवानप्रस्थभिक्षाचाराणा परिपालने गुरु पितृसदृश।राज्यलक्ष्मीविनयोपदेशस्यराज्यलक्ष्मी विशिष्टाना नयाना नीतीना उपदेशस्य विचारस्य गुरुरिव बृहस्पतिरिव। सच्चरित्रस्यसदाचारस्य प्रथमयुगावतार इव कृतयुगप्रवृत्तिरिव। सत्यव्रतस्य अनृतविरतिव्रतप्रतिपालय धर्ममूर्तिरिव घर्माकर इव। परलोकाश्रयणस्यपरलोकप्राप्तेर्ब्रह्मालय इवमोक्ष इव। मनोभिलषितस्यमनोवाञ्छितप्राप्ते त्रिदशावास इव स्वर्गालोकइव। उत्सवपरम्परागमनस्य महोत्सवश्रेणीनामागमनस्यपुष्पाकर इव। सर्वपार्थिवगुणाना समवाय सर्वेषा पार्थिवाना नरेन्द्राणा गुणाना त्यागादीना समवायो मिलापक भूसर्गइव भूमे सृष्टिरिव। यथा भूसर्गेभूमे सृष्टौसर्वे पार्थिवगुणा भवन्ति भारक्षमादयसमुद्रभूभृदुद्धरणादयश्च भवन्ति। लब्धवर्णाना पण्डिताना यशस्विना धुरि आदौवर्णनीय श्लाघनीय। क इव। प्रजापतिरिव आदिनाथ इव। “प्रजापतिर्यप्रथम जिजीविषु इति वचनात्‌"। चतुरुदधिमध्यवर्तिनश्चतु सागरान्तर्वर्तिन कुवलयस्यपृथ्वीमण्डलस्थ प्रसाधयिता साधक। क इव। तारेश्वर इव च द्रमा इव। यथा तारेश्वर कुबलयस्य उत्पलसमूहस्य प्रसाधयिता अलंकर्ताभवति। प्रतापवर्धितमित्रमण्डल प्रतापेन वर्धितानि मित्राणा एकदेशान्तरितनृपाणा मण्डलानि देशा येन स तथा। क इव। शरत्समय इव आश्विनकार्तिककालइव। यथा शरत्समय प्रकर्षेण तापेन वर्धितो मित्रमण्डलो वृद्धिंनीत सूयंमण्डलोभवति। पल्लविताश्रितकुन्दकन्दलपल्लवितानि

न्दल, शिशिर इव दूषितद्विषदङ्गनापाङ्गपङ्कज, वसन्त इव समानन्दितद्विजाति, ग्रीष्म इव शोषितपरवाहिनीप्रसर, पयोदागम इव सतर्पितवनीपकपादपो बभूव यशोर्घनामा महाभाग सकलविद्याविशारदमति क्षितिपति।

अहो सौजन्यरत्नपरायणामुष्यायण, ममानेन मनुष्यजन्मना प्रपितामह पूर्वेण तु पिता।

त्रिवेदीवेदिभिर्मान्यस्त्रिविक्रमपराक्रम।
त्रिदिवावतरत्कीर्तिस्त्रिलोकीपतिभिसम॥ ३१॥

——————

वृद्धिं प्रापितानि आश्रिताना सेवकाना कुन्दकन्दलानि अवमृथसमूहा यज्ञान्तस्नानानि येन स तथा। ‘अवभृथायत्रतत्र कुन्दौ व्रजति जन्मेजय’ इति श्रुति। क इव। हे मत मार्गशीर्षपौषमासद्वयमिव। यथा हेमन्तो हेमन्तर्तुकुन्दकन्दलानाभट्टहासपुष्प लतानापल्लवको भवति। दूषितद्विषदङ्गनापाङ्गपङ्कज दूषितानि म्लानीकृतानि द्विषदङ्गनाना शात्रुस्त्रीणामपाङ्गपङ्कजानि नेत्रप्रान्तकमलानि येन स तथा। क इव। शिशिर इव माघफाल्गुनमास इव। यथा शिशिरर्तुपङ्कजानि कमलानि दूषयति। समानन्दित द्विजाति समानन्दिता सम्यगानन्द प्रापिता द्विजातयो मुनयो जैनब्राह्मणा वा येन स तथा। के इव। वसन्त इव चैत्रवेशाखमासद्वयमिव। यथा वसन्तर्तुद्विजातीना। कोकिलाना आनन्दयिता भवति। शोषितपरवाहिनीप्रसर शोषितोऽल्‍पीकृत परेषा शत्रुणा वाहिनीना सेनाना प्रसरोव्याप्तिर्येन तथा। क इव। ग्रीष्म इव यथा ग्रीष्मो ज्येष्ठाषाढमास परवाहिनीनामुत्कृष्टनदीना प्रसरस्यशोषको भवति। सतर्पितवनीपकपादप सतर्पिता वनीपका याचका एव पादपा येन स तथा तेन। कइव। पयोदा गम इव यथा पयोदागम श्रावणभाद्रपदमासे अव समन्तात्‌ नीपकपादपाना धारा कदम्बवृक्षाणामन्येषा च तरूणां सतपको भवति। अपर कथभूत। महाभाग महापुण्यवान्‌। पुन कथभूत। सकलविद्याविशारदमति सकलासु विद्यासु धर्मार्थकाम मोक्षशास्त्रेषु विशारदा विचक्षणा मति बुद्धिर्यस्यसतथा। अपरं कथभूत। मम अनेन मनुष्यजन्मना एतन्मनुष्यभवपेक्षया प्रपितामह। पितु पितामह इत्यर्थ। पूर्वेण तु जन्मना यशोधरभवापेक्षया पिता जनको वर्तते श्लेषोपमालकार ॥

अपर कथभूत। त्रिवेदीवेदीत्यादि। त्रिवेदीवेदिभि तर्कव्याकरणपुराणसिद्धान्तज्ञापकैऋग्वेदयजुर्वेदसामवेदज्ञापकैर्विद्वद्भिर्मान्य। पुनकथभूत। त्रिविक्रमपराक्रम त्रिविक्रमस्येव नारायणस्येव पराक्रमो बलयस्यस तथा। पुन कथभूत। त्रिदि वावतरत्कीर्ति त्रिदिवे स्वर्गलोके इन्द्रसभायामवतरन्ती प्रवेश कुर्वती कीर्तिर्यस्यस

चतुर्वर्गसमारम्भश्चतुर्विद्यागमाग्रणी।
चतु समयसारज्ञश्चतुरम्भोधिविश्रुत॥ ३२॥

धर्मश्चित्ते करे त्याग सत्य वक्त्रे श्रुत श्रुतौ।
यस्यानन्यजनाधेयमेतद्भूषणता गतम्‌॥३३॥

येनार्थिजनतोऽत्यर्थं काम पूरयता कृता।
सकामधेनवो व्यर्थाश्चिन्तामणिसुरद्रुमा॥ ३४॥

धर्मत्यागाज्जयीबाणो धनुर्युद्धे पराङ्मुखम्‌।
ततो यस्याभवद्वैरिविजयाय भुजद्वयम्‌॥ ३५॥

———————

तथा। पुन कथभूत।त्रिलोकीपतिभि सम इन्द्रवरणेन्द्रचक्रवर्तिसमान। उपमातिशयालंकार॥

चतुर्वर्गेत्यादि। कथभूतो यशोर्घचतुर्वर्गसमारम्भचतुर्वर्गणा धर्मार्थकाममोक्षाणा समारम्भ प्रवृत्तिर्यस्यस तथा। चतुर्विद्यागमाग्रणी चतसृणा विद्याना आन्वीक्षिकीत्रयीवार्तादण्डनीतीना आगम परिज्ञान येषा ते चतुर्विद्यागमास्तेषु अग्रणीर्मुख्य। पुन चतु समयसारज्ञचतुर्णां समयाना अहितशैववैदिकबौद्धराद्धान्ताना सार गोप्यतत्व जानातीति चतु समयसारज्ञश्चेति कप्प्रत्ययेन सिद्धत्वात्‌। पुन चतुरम्भोधिविश्रुत चतुर्षु अम्भोधिषुसमुद्रेषु विश्रुतो विख्यातकीर्ति। अति शयालंकार॥

धर्मइत्यादि। यस्ययशोर्घमहाराजस्य एतत्‌ वस्तुभूषणता आभरणत्व गत प्राप्तम्‌। कथभूत एतत्‌ वस्तु। अनन्यजनाधेय न अन्यैर्जनैराधीयते अनन्यजनाधेयम्‌। असाधारणत्वमित्यर्थं। एतत्किम्‌। चित्ते हृदये धर्म सर्वप्राणिदयालक्षणो भूषणता गत। करे हस्ते त्यागो दान भूषणता गतम्‌। वक्त्रे मुखे सत्य सत्यवचन भूषणता गतम्‌। श्रुतौ कर्णयुगले श्रुत शास्त्रभूषणता गतम्‌। दीपकोपमासमुच्चयालंकार॥

येनेत्यादि। येन यशोर्घेण राज्ञा चिन्तामणिसुरद्रुमा चितारत्नकल्पवृक्षाव्यर्थाकृता व्यर्थीकृता। कथभूताश्चिन्तामणिसुरद्रुमा। सकामधेनव कामधेनुसहिता। येन किं कुर्वता। अर्थिजनस्यअर्थिजनलोकस्यअत्यर्थमतिश्येन काम वाञ्छित पूरयता ददता। उपमालंकार॥

धर्मत्यागादित्यादि। यस्ययशोर्घस्यराज्ञतत्तस्मात्कारणात्‌ वैरिविजयाय शत्रुपराजयार्थभुजद्वयबाहुयुगल अभवद्बभूव। तत्तस्मात्‌ कारणात्‌ बाण खलुसमो धर्मत्यागात्‌ धनुर्मोक्षात्‌ जयी जयवान्‌ यो धर्मं प्राणिदयालक्षण त्यजति न गृह्णाति। युद्धे सग्रामे पराङ्मुखो न भवति यो युद्धेषु समुखो न भवति कातरतया पृष्ठ ददाति तन्न गृह्णाति। श्लेषालंकार॥

धिक्त खङ्गरणे यस्यप्रीति शत्रुगलग्रहे।
दोर्दण्ड एव यस्यासीदतो विद्विष्टदण्डन॥ ३६॥

येनात्राश्चर्यशौण्डीर्ययशोरूपैकुशेशयै।
प्रत्यादिश्यन्त दिक्पालकर्णभूषणविभ्रमा॥ ३७॥

अभवत्कोऽपि नाभागो यस्य लक्ष्मीषु भूभुज।
नाभाग इति तेनासौ पप्रथे जगता मत॥ ३८॥

निष्कण्टकमहीभागो निर्विपक्षमहोदय।
निर्व्याबाधप्रज प्राप य पर नाहवोत्सवम्‌॥ ३९॥

—————

धिक्तमित्यादि। त खङ्ग करवाल धिक्‌। निन्दितोऽयमित्यर्थ। क तम्‌। यस्यखड्गस्य रणे संग्रामे शत्रुगलग्रहे शत्रुकण्ठखण्डने प्रीतिरनुरागो न वर्तते अत एव कारणात्‌ वक्त्रच्छलेन प्रत्युपकाररहितदोषकारणाव्‌ विद्विष्टदण्डन शत्रुक्षयकरो दोर्दण्ड एव बाहुदण्ड एव आसीद्बभूव। रूपश्लेषालंकार॥ तथा च वक्ष्यति—’कृतकार्येषुमृत्येषु नोपकुर्वन्ति ये नृपा। जन्मान्तरेऽधिकर्धीना ते भवेद्गृहकिंकरा89

येनेत्यादि। येन यशोर्घेण राज्ञा अत्र अस्मिन्‌ संसारे दिक्पालकर्णभूषणविभ्रमा दिक्पालनरेन्द्राणा इन्द्रादीना वा कर्णाना भूषणविभ्रमा अवतसशोभा कर्मतापन्ना प्रत्यादिश्यन्त निषेध प्रापिता। निराकृता इत्यर्थ। कैकृत्वा। आश्चर्यशौण्डीर्ययशोरूपैअद्भूतत्यागविक्रमपुण्यगुणानुकीर्तनस्वरूपैकृत्वा कुशेशयैकमलैकृत्वा। उपमालंकार॥

अभवदित्यादि। यस्यभूभुजो यशोर्घस्यराज्ञो लक्ष्मीषुधनेषु कोऽपि पुमान्‌ अभागो अलब्धाशो नाभवन्न बभूव तेन कारणेन असौराजा नाभाग इति प्रथित पप्रथे प्रसिद्धिं गत। नाभाग इति द्वितीय नाम प्राप्तवानित्यर्थ कथभूत। जगता मत जगति स्थितलोकैर्नाभाग इति कथित इत्यर्थ। अनुबन्धमति। “बुद्धिपूजार्थेभ्य क्त"इति वचनात्‌ कर्तरि क्तप्रत्यय। ‘कर्तृकर्मणो कृति नित्यम्‌’इति वचनात्‌ कर्तरि षष्ठी। ‘श्लेषोपमालंकार॥

** निष्कण्टकेत्यादि**। यो नाभागो यशोर्घमहाराज आहवोत्सव पर केवल निश्चयेन वा प्राप। सर्वान्‌ प्राप पर सग्रामोत्सव न प्राप्तवानित्यर्थ। कस्मादाहवोत्सव न प्राप। तद्धेतुगर्भित विशेषणमाह—कथभूतो राजा। निष्कण्टकमहीभाग निष्कण्टकक्षुद्रशत्रुरहितो महीभागो देयो यस्यसतथा। अपरं कथभूत। निर्विपक्षमहोद्य निर्विपक्षवैरिशत्रुरहितोमहानुदयश्च य उपचयचयोपचयलक्षणस्त्रिबिध उदयो यस्यसतथा। पुन कथभूत। निर्व्याबघप्रज निर्व्याबाधा उपद्रवरहिता प्रजा लोको यस्यस तथा। हेत्वलंकार॥

भूपतेर्यस्य माकन्दमञ्जरीहृदयगमा।
बभूवुर्भुवनेशाना कर्णपूराय कीर्तय॥ ४०॥

गुणरत्नाम्बुधेर्यस्य ब्रह्मस्तम्बनिकेतने।
सदा धवलनारम्भसुधाकुम्भायते यश॥ ४१॥

यश्चक्षु सर्वलोकाना यो दक्ष क्षितिरक्षणे।
यस्वयभूर्जगद्गृद्धेर्यश्रिया पुरुषोत्तम॥ ४२॥

प्रागद्रिमन्दरहिमाचलसेतुबन्ध-
मर्यादमल्पकमिद भुवन विलोक्य।
स्वीय यशपृथुतर व्यभजत्क्षितीन्द्र
श्चन्द्रच्छलादुपरि शेषमिषादधस्तात्‌॥ ४३॥

———————

भूपतेरित्यादि। यस्यभूपतेयशोर्घमहाराजस्यकीर्तय पुण्यगुणकीर्तनानि भुव नेशानामिन्द्रधरणेन्द्रचकवर्त्यादीना कर्णपूराय कर्णावतसनिमित्त वभूव भवति स्म।कथभूता कीर्तय। माकन्दमञ्जरीहृदयगमा माकन्दस्य आम्रवृक्षस्य मञ्जया वल्लर्यस्तद्वत्हृदयगमा मनोहरास्तास्तथा। उपमालंकार॥

गुणरत्नेत्यादि। यस्ययशोर्घमहाराजस्य यशपुण्यगुणव्यावर्णन ब्रह्मस्तम्भनि केतने ब्रह्माण्डमन्दिरे सदा सर्वकालसुधाकुम्भायते पूर्णरसघट इवाचरति। कथभूत यश। धवलनारम्भ उज्ज्वलीकरणव्यापारम्‌। यस्यकथभूतस्य। गुणरत्नाम्बुधेर्गुणमाणिक्यसमुद्रस्य रूपकोपमालंकार॥

यश्चक्षुरित्यादि। यो यशोर्घमहाराज स सर्वलोकाना निखिलजनाना चक्षु लोचन वर्तते। कस्मात्‌। सन्मार्गदर्शकत्वात्‌। यो यशोर्घमहाराज क्षितिरक्षणे पृथ्वीपालने दक्षो विचक्षणो वर्तते। यो यशोर्घमहाराज जगद्वृद्धे प्रजावर्धनस्यस्वयभूर्ब्रह्मावर्तते। यो यशोर्घमहाराजश्रिया लक्ष्म्या कृत्वा पुरुषोत्तमो नारायणो वर्तते। चक्षुशब्देन चक्षुष्मान्‌ कुलकर दक्षशब्देन प्रजापति स्वयभूशब्देन वृषभनाथ पुरुषोत्तमशब्देन श्रीकृष्ण इति केचित्‌। रूपकालंकार॥

प्रागित्यादि। क्षितीन्द्र श्रीयशोर्घमहाराज स्वीय स्वकीय यशचन्द्रच्छलात्‌ शशाङ्कमिषेण उपरि आकाशे व्यभजत्‌ विभागीचकार। शेषमिषात्‌ शेषनागपदेन अधस्तात्पातारुभूमौ व्यभजत्‌ विभागीचकार। कि कृत्वा। पूर्व इद प्रत्यक्षीभूत भुवन मर्त्यलोक अल्पक अल्यल्प विलोक्य दृष्ट्वा। पुनश्च कि कृत्वा। स्वीय यश पृथुतर विलोक्य प्रचुरतर निरीक्ष्य। कथभूतमिदभुवनम्‌। प्रागद्रिमन्दरहिमाचलसेतुबन्धम-

य प्रतापकम्पितसुरासुरलोकपरिवृढमनवरतोदितोदितविजयानकखनसूचितसकलदिक्पालसेवा समयराढमुपायनीकृताङ्कुशमर्यादमदमदिरामोदास्वादोन्मदमधुकरकुलकोलाहलरवपुनरुक्तडिण्डिमाम्ब-रकरिघटा समर्पितकशावशेषकदनकन्दुकविनोदविनीताजानेयजुहूराणनिवहा समुपानीतकु-

———————

र्याद प्रागद्रिश्चोदयाचलो मन्दरश्चास्तपर्वत हिमाचलश्च हिमालयपर्वत सेतुबधश्चार्वाक्पर्वतस्ते मर्यादा अवधिर्यस्य तथोक्तम्। उपमालकार॥

यमित्यादि। षड्विभक्ती सूचयति। प्रथमा नु पूर्व असूचीत। जैनेन्द्रव्याकरणे प्रथमा वा, द्वितीया ईप् तृतीया भा, चतुर्थी अप्, पञ्चमी का, षष्ठी ता, सप्तमी ईप् ता एव सूचयति**—**

य यशोर्घमहाराज धरणिपतय सर्वेऽपि राजान सिषेविरे सेवितवन्त। य कथभूतम्। प्रतापकम्पितसुरासुरलोकपरिवृढम् सुरलोकाश्च कल्पवासिन, असुरलोकाश्च भवनव्यन्तरज्योतिरमरा, तेषा परिवृढा प्रभव स्वामिन प्रतापेन [दुःसह ] तेजसा कम्पिता सुरासुरलोकपरिवृढा येन स तथा तम्। अपर कथभूतम्। अनवरतोदितोदित विजयान कस्वनसूचितसकलदिक्पालसेवासमयराढम् अनवरत निरन्तर उदितादप्युदित अत्युत्कृष्टो योऽसौ विजयो दिग्विजयस्तस्य सबन्धिनो ये आनका पटहा पटु हन्यते पटहा इति तेषा स्वनै शब्दै सूचितो ज्ञापित सकलाना समस्ताना दिक्पालाना राज्ञा तेषा सेवासमय उत्सवलग्नकालस्तस्य राढा शोभा यस्य स तथा तम्। कथभूता धरणि पतय। उपायनीकृताङ्कुशमर्यादमदमदिरामोदास्वादोन्मदमधुकर कुलकोलाहलरवपु नरुक्तडिण्डिमाडम्बरकरिघटा अङ्कुश सृणिर्मर्यादा अवविर्यासा करिघटाना ता अङ्कुशमर्यादा। मद एव दानमेव मदिरा मद्य तस्या आमोद परिमलस्तस्यास्वादेन आघ्राणेन उन्मदो हर्षवन्तो मत्ता वा ये मधुकरा भ्रमरास्तेपा कुलानि समूहास्तेषा कोलाहलरवैर्झङ्कारशब्दै पुनरुक्ता द्विगुणीकृता डिण्डिमाडम्बरा वादित्राटोपा यासा करिघटाना ता मदमदिरामोदस्वादोन्मदमधुकर कुलकोलाहलरव पुनरुक्तडिण्डिमाडम्बरा उपायनीकृता प्राभृतीकृता उपढौकिता अङ्कुशमर्यादा सारिपर्यन्ता मदमदिरामोदस्वादोन्मदमधुकरकुलकोलाहलरवपुनरुक्तडिण्डिमाडम्बरा विशेषणत्रयविशिष्टा करि घटा गजाना घटना यैर्धरणिपतिभिस्ते तथोक्ता। पुनरपि कथभूता धरणिपतय। समर्पितकशावशेषकदनक दुकविनोदविनीताजानेयजुहूराणनिवहा कशा चर्मयष्टि। सर्जनकमिति यावत्। कशा अवशेषा मर्यादा येषा जुहूराणाना ते कशावशेषा। कदनमेव संग्राम एव कन्दुकविनोदो गेन्दुकक्रीडा येषा ते कदनकन्दुक विनोदा विनीताश्च साधु शिक्षिता अश्वा आजानेयाश्च कुलीनाश्च। समर्पिता प्राभृतीकृता उपढोकिता कशावशेषकदन कन्दुकविनोदविनीताजानेयाना जुहूराणानामश्वाना निवहा समूहा यैस्ते। पुन कथभूता धरणिपतय। समुपानीतकुलधनावधिविविधरत्नखचितकवचकाञ्चनसिचयनिचया विविधैर्नानाप्रकारे रत्नैर्माणिक्यै खचितानि जटितानि यानि कवचानि

लधनावधिविविधरत्नखचितकवचकाञ्चनसिचयनिचया, प्रदर्शितनिजान्वयपरम्परायातापहसित-सुरसुन्दरीविभ्रमरम्भोरुसदर्भा सिषेविरे धरणिपतय।

शौण्डीर्यधैर्यविजयार्जनसकथासु
य वर्णयन्ति गुणिनो गुणरत्नराशिम्।
औदार्यनिर्जितसुरद्रुमकामधेनु
य च स्तुवन्ति जगता पतयोऽधुनापि॥ ४४ ॥

येन नि शेषविष्टपनिविष्टद्विष्टकण्टकोत्पाटनार्पितकरकृपाणेन निजभुजविजयार्जनजनितजगत्कल्याणपरम्परेण च नितान्तखातपर्य स्तपुरपर्यन्तधर-

———————

वारवाणानि विविधरत्नखचितकवचकाञ्चनसिचयनिचया समुपानीता प्राभृतीकृता कुलधनावधय पूर्वपुरुषसचितधनमर्यादा विविधरत्नखचितकवचकाश्चनसिचयनिचया यैस्ते तथोक्ता। पुन कथभूता धरणिपतय। प्रदर्शितनिजान्वयपरम्पराया तापहसितसुरसुन्दरीविभ्रमरम्भोरुसदर्भा निजा वयस्य निजकुलस्य परम्पराया श्रेणौ आयाता उत्पन्ना अपहसितास्तिरस्कृता सुरसुन्दरीणा देवाङ्गनाना विभ्रमा विलासा या भिस्ता अपहसितसुरसुन्दरीविभ्रमा एवगुणविशिष्टा या रम्भोरव उत्तमकन्यास्तासा स दर्भा रम्भोरुसदर्भा समूहा प्रदर्शिता उपायनीकृता निजान्वयपरम्परायाताना अपहसितसुरसुन्दरीविभ्रमाणा रम्भोरुणा सदर्भा समूहा यैस्ते तथोक्ता। अतिशयोपमालंकार॥

शौण्डीर्येत्यादि। जगता पतय इन्द्रधरणेन्द्रनरेन्द्रा अधुनापि इदानीमपि य यशोर्घ शौण्डीर्यधैर्यविजयार्जनसकथासु वर्णयन्ति। शौण्डीर्य च त्यागविक्रमाभ्या विश्रु तत्त्वम्, धैर्य च निष्प्रकम्पित्वम्, विजयार्जन च दिग्विजय, शौण्डीर्यधैर्यविजयार्जनानि तेषा सकथासु वार्तासु वर्णयन्ति स्तुवन्ति। कथभूता जगता पतय। गुणिन। कथभूतयम्। औदार्यनिर्जितसुरद्रुमकामधेनुम्। औदार्येण दातृत्वेन कृत्वा निर्जितास्तिरस्कृता सुरद्रुमा कल्पवृक्षा कामधेनव सुरभयो येन स तथा तम्। उपमालंकार॥

येनेत्यादि। येन यशोर्घमहाराजेन भूमिभुजो राजान कर्मतापन्ना येन यशोघण कतृभूतेन स्वस्यात्मनो रोषतोषयो रोषे सति तोषे च सति समता सादृश्यमानिन्यिरे आनीता। कथभूतेन येन राज्ञा। निः शेषविष्टपनिविष्टद्विष्टकण्टकोत्पाटनापितकरकृपाणेन निःशेषे सर्वस्मिन् विष्टपे भूमण्डले निविष्टा स्थिता ये द्विष्टा शत्रुभूमिपास्त एव कण्टका सूक्ष्मतीक्ष्णाग्रमुखा। दुष्टाशया इत्यर्थ। तेषामुत्पाटनाय मूलादुन्मूलनाथम पितो धृत करे हस्ते कृपाण खङ्गो येन स तथा तेन। पुन कथभूतेन राज्ञा। निजभुजविजयार्जनजनितजगत् कल्याणपरम्परेण च निजभुजेन स्व

बाहुना यद्विजयाजन तेन जनिता उत्पादिता जगत पृथ्वीमण्डलस्य कल्याणाना श्रेयसा परम्परा श्रेणिर्यन स तथोक्तस्तेन। रोषे सति कथभूता भूमिभुज। [ कृता ] नितान्तखातपर्यस्तपुरपर्य -

णय समदमातङ्गसगतगेहगोचरा प्रहृष्टहरिविहाराकुलितनिकेतनवीथय सचरत्खङ्गिप्रकाण्डसकटदुर्गद्वारदेशा प्रशान्तसमस्तकृत्यव्याप्तय प्रथिततीर्थोपासना-विर्भवदाश्चर्यैश्वर्या सविभ्रमभ्रान्तमहिषीप्रचारभरितभवनभूमयपरपदाराधनप्रकटमहामन्त्रप्रभावा सकलजगद्व्यतिरिक्तोद्योगयोगोपायप्र-

————————

न्तधरणय नितान्तमतिशयेन खाता विदारिता पर्यस्ता भग्ना पुराणा नगराणा पर्यन्तधरणयो नगरबहिर्भागभूमयो येषा ते तथोक्ता। तोषे सति कथभूता भूमिभुज कृता। नितान्तखातपर्यस्तपुरपर्यन्तधरणय नितान्तमतिशयेन खाताभि खातिकाभि पर्यस्ता वेष्टिता पुराणा पर्यन्तधरणयो येषा ते तथोक्ता। रोषे सति कथभूता कृता। समदमातङ्गसगतगेहगोचरा समदै साहकारैर्मातङ्गैश्चाण्डालै सगता संयुक्ता। समदमातङ्गैर्मदोन्मत्तहस्तिभि सगता सहिता गेहगोचरा गृहसचरभूमयो येषा ते तथोक्ता। अपर रोषे सति कथभूता। प्रहृष्टहरिविहाराकुलित निकेतवीथय प्रहृष्टाना हर्षमिताना हरीणा वानराणा विहारेण पर्यटनेन आकुलिता विह्वलीकृता व्याप्ता निकेतनाना गृहाणा वीथयो मार्गा येषा ते तथोक्ता। हर्षे सति कथभूता। प्रहृष्टैर्हर्षमितैर्हरिभिर्घोटकैर्विहारैर्विशिष्टमौक्तिकमालाभिराकुलिता शोभिता निकेतनाना सौधाना वीथय प्र तोल्यो येषा ते तथोक्ता। पुना रोषे सति कथभूता। सचरत्खङ्गिप्रकाण्डसकट दुर्गद्वारदेशा सचरता प्रवेश कुर्वता खड्गिना वाघ्रीणसाना गण्डकाना प्रकाण्डे सकटा व्याप्ता दुर्गा मनुष्यै प्रवेष्टुमशक्या द्वारदेशा प्राकारद्वारप्रदेशा उद्वशत्वात् गृहप्रवेशा येषा ते तथा। तोषे सति सचरद्भि खड्गिप्रकाण्डै करवालकरप्रशस्तपुरुषै सकटा दु सचारा दुर्गद्वारदेशा प्राकारद्वारप्रवेशा येषा ते तथा। पुना रोषे सति कथभूता। प्रशान्तसमस्तकृत्यव्याप्तय प्रशान्ता उपशम गता समस्ताना समग्राणा कृत्याना राजकार्याणा व्याप्तय प्रवृत्तयो येषा ते तथा। तोषे सति प्रशान्ता समस्ता कृत्यव्याप्तयो भेद्यव्याप्तयो येषा ते तथा। रोषे सति कथभूता। प्रथिततीर्थोपासनाविभवदाश्चर्यैश्वया प्रथितानि यानि तीर्थानि प्रयागगङ्गाद्वारषण्मासद्वारावती प्रयाणवाणारसीप्रवेशास्तेषामुपासनेन समीपनिवासेन तपश्चरणकरणेन आविर्भवन्ति प्रकटीभवन्ति आश्चर्याणि आश्चर्यभूतानि ऐश्वर्याण्यणिमाद्यष्टसिद्धयो येषा ते तथा। तोषे सति प्रथिता विख्याता ये तीर्था मन्त्रिपुरोहित सेनापति प्रभृत्यष्टादश प्रकृतयस्तेषामुपासनेन सेवया आविर्भवन्ति प्रकटीभवति प्रादुर्भवन्ति आश्चर्यभूतानि ऐश्वर्याणि नापत्यानि येषा ते तथा। राज्ञामष्टादशतीर्थानि यथा—सेनापतिर्गणको राजश्रेष्ठी दण्डाधिपो मन्त्री महत्तरो बलवत्तरश्चत्वारो वर्णाश्चतुरङ्गबल पुरोहितोऽमात्यो महामात्यश्चेति। विदेहेषु ब्राह्मणवर्णो नास्तीति सप्तदशतीर्थानि। रोषे सति कथभूता। सविभ्रमभ्रान्तमहिषीप्रचारभरितभवनभूमय वीना पक्षिणा भ्रम पर्यटन विभ्रम सविभ्रमेण काकादिपातसहितेन भ्राता पर्यटिता या महिष्यो रक्ताक्ष्यस्तासा
प्रचारेण षड्भक्षणेन भरिता व्याप्ता भवनभूमयो येषा ते तथा। तोषे सति सविभ्रमासभ्रूक्षेपा भ्राता पर्यटन्त्यो या महिष्य पट्टमहादेव्यस्तासा प्रचारेण गमनागमनेन भरिता व्याप्ता भवनभूमयो येषा ते तथा। रोषे सति परपदाराधनप्रकटमहामन्त्रप्रभावा

साधितप्रकृष्टात्मीयप्रवृत्तय श्रीफलोपयोगातिशयविशेषवशीकृतविश्वविश्वभराभृत्कटका प्रसीददनवद्यविद्यामन्दाकिनीप्रवाहविनिर्मूलितनिखिलसुखान्तरायतरव स्वस्य रोषतोषयो समतामानिन्यिरे भूमिभुज।

—————

परपदस्य मोक्षस्य आराधनेन प्रकट स्फुटीभूतो महामन्त्रस्य पञ्चनमस्कारादे ‘ॐ नम शिवाय’ इत्यादिश्च प्रभावो माहात्म्य येषा ते तथा। तोषे सति परै शत्रुभि पदाराध नेन चरणसेवया प्रकट स्फुटीभूतो महामन्त्रस्य पञ्चाङ्गमन्त्रस्य प्रभावो माहात्म्य येषा ते तथोक्ता। तथा चोक्तम् — ‘सहायसा वनोपायो देशकोशबलाबलम्। विपत्तेश्च प्रतीकार पञ्चाङ्गो मन्त्र इष्यते॥’ अथवा प्रकारान्तरेण पञ्चाङ्गो मन्त्र— कर्मणामारम्भोपाय पुर षद्रव्यसपत् देशकालप्रविभागो विनिपात प्रतीकार कार्यश्चेति। रोषे सति कथभूता। सकलजगद्व्यतिरिक्तोद्योगयोगोपायप्रसाधितप्रकृष्टात्मीयप्रवृत्तय सकलात् समग्रात् जगत ससारलोकात् व्यतिरिक्तोऽधिक्तरो योऽसावुद्योग उद्यमस्तेनोपलक्षितो योऽसौ योग समाविस्तस्योपायो वैराग्यादिसामग्री तेन प्रसाधिता प्राप्ता प्रकृष्टा उत्कृष्टा आत्मीया आत्महिता प्रवृत्तिरालम्भनादिलक्षणा यैस्ते तथोक्ता। उक्त च—‘साम्य स्वास्थ्य समाविश्च योगश्चतोनिरोधनम्। शुद्धोपयोग इत्येते भवन्त्येनार्थवाचका॥ ‘तोषे सति सकलजगद्व्यतिरिक्त सर्वलोकाधिको योऽसावुद्योग अभिषेणन शत्रुसमुखग मन स्यात् योऽसौ योग अलब्धलाभस्तस्योपाय सामदानदण्डभेदलक्षणस्तेन प्रसाविता स्वीकृता प्रकृष्टा अनन्यनृपसाधारणीया आत्मीया आत्महिता प्रवृत्तिव्यापारो यैस्ते तयो का। रोषे सति श्रीफलोपयोगातिशयविशेषवशीकृत विश्वविश्वभराभृत्कटका श्रीफलाना बिल्वफलपत्रादीना उपयोग आस्वादन तदतिशयेन विशेषेण वशीकृतानि स्वीकृतानि विश्वेषा सर्वेषा विश्वभराभृता पर्वताना कटकानि तटानि यैस्ते तथा। तोषे सति श्रीणा लक्ष्मीणा फलानि सर्वेन्द्रियसुखानि तेषा उपयोगाय आस्वादनाय अतिशयेन विशेषेण वशीकृता विश्वेषा सर्वेषा विश्वभराभृता सामन्ताना कटका सैन्यानि यैस्ते तथा। रोषे सति प्रसीददनवद्यविद्यामन्दाकिनी प्रवाह विनिर्मूलित निखिलसुखान्तरायतरव प्रसीदन्ती प्रसन्न भवन्ती यानवद्यविद्या कममलकलङ्करहिता घातिसघातघातलक्षणा विद्याया केवलज्ञान सैव मन्दाकिनी नदी स्वर्गमृत्युपाताललोकमार्गत्रयगामित्यात्तस्या प्रवाहेण पूरेण विनिर्मूलिता समूलकाष कपिता निखिलाना समप्राणा सुखाना परमानन्दलक्षणाना अन्तरायतरवो विघ्नवृक्षा यैस्ते तथा। तोषे सति प्रसीदन्ती प्रसन्नीभवन्ती या अनवद्यविद्या आन्वीक्षिकीदण्डनीतित्रयीवार्तालक्षणा राजविद्याचतुष्टयी सैवमन्दाकिनी स्वर्णदी तस्या प्रवाहेण सततप्रवतनेन विनिमूलिता मूलादुन्मूलिता निखिलसुखान्तरायतरव सर्वेन्द्रियसौरयविघ्नवृक्षा यैस्ते तथा। श्लेषोपमालंकार॥

येन व्यधायि द्वयमेव राज्ञा सुदुर्लभ प्रार्थितकामदेन।
त्यागार्थिना यावदय जनोऽर्थी शौण्डीरशब्द क्षितिपान्तरेषु॥ ४५ ॥

यस्मै सच्चरित्र पवित्रकीर्तिकौमुदीसमासादितप्रीतिप्रसर सर्वस्वमिव स्थैर्य मन्दर, सरित्पतिर्गाम्भीर्यम्, अनङ्गसौभाग्यम्, अमरगुरुरैतिह्यरहस्यम्, सुरतरु सेव्यत्वम्, अवनि क्षान्तिम्, अनङ्गश्रीमहत्वम्, सरस्वती सिद्धि वाचि, लक्ष्मीर्निदेशकर्मणि, चिन्तामणिर्मनसि, कुलदेवी वपुषि, वैवस्वत सकलजनवश्यतायाम्, एवमन्येऽपि वरुणवैश्रवणप्रभृतय कुलधनानीव स्वभागधेयानि स्पर्शयामासु।

—————

** येन व्यधायीत्यादि**। येन राज्ञा यशोर्घमहाराजेन प्रातिकामदेन याचिताभीष्टदायिना द्वयमेव न अधिक सुदुर्लभ अतिशयेन दुर्लभ व्यधायि कृतम्। कि तदभीष्टद्वयम्। क्षितिपा तरेषु त्यागार्थिना दानिना तावत् अनुक्रमेण अय जन अर्थी लोक अर्थी याचको वर्तते सुदुर्लभ कृत। कोऽप्यर्थी न वर्तते यस्मै दान दीयते। शौण्डीरशब्दस्त्यागविक्रमाभ्या विश्रुत कृत। कोऽपि नास्तीति भाव। निन्दास्तुत्यलंकार॥

यस्मै इत्यादि। यस्मै यशोर्घाय राज्ञे मन्दरो मेरुगिरि स्थैर्य स्थिरत्व स्पर्शयामास दत्तवान्। कथभूत स्थैर्यम्। सर्वस्वमिव धनमिव। कथभूतो मन्दर। सच्चरित्र पवित्र कीर्तिकौमुदीसमासादितप्रीतिप्रसर सत्समीचीन चरित्र परनारीसोदरत्व कीर्तिधर्मोचितदानित्व परोपकारित्व परदोषग्रहिलत्व परद्रव्यसतोषित्व परदुःखसहकारित्व निज गुणभाषणे मूकत्व न्यायमार्गप्रवर्तित्व अप्रियवचनेऽपि प्रियकारित्वम्। तथा चोक्तम्— ‘न ब्रूते परदूषण परगुण वक्तत्यल्पमप्यन्वह सतोष वहते परर्द्धिषु पर वार्तासु वत्ते शुचम्। खल्पाघ न करोति नोज्झति नय नौचित्यमुल्लङ्घयत्युक्तोऽप्यप्रियमप्रिय न रचयत्येतच्चरित्र सताम्॥’ इत्युक्तलक्षणस्य चरित्रस्य या पवित्रासर्वजनपापनाशिनी कीर्तिर्यश प्रसिद्धि सैव कौमुदी चन्द्रज्योत्स्ना तया समासादित प्राप्तो य प्रीतेरनु रागस्य प्रसरो व्याप्तिर्येन मन्दरेण स तथोक्त। यस्मै यशोर्घाय सरित्पति समुद्र गाम्भीर्य गम्भीरत्वमतलस्पर्शत्व स्पर्शयामास। अनङ्ग कन्दर्प सौभाग्य सुभगत्व यस्य वार्तापि श्रुता प्रीतिमुत्पादयति तत्सौभाग्य आदेयमूर्तित्व स्पर्शयामास। अमरगुरुबृहस्पतिरैतिह्यरहस्य नीतिशास्त्रहृदय अनादिवार्ता मर्म स्पर्शयामास। सुरतरु कल्पवृक्ष सेव्यत्व आश्रयणीयत्व स्पर्शयामास। अवनिर्भूमिदेवता क्षान्ति उत्तमक्षमा स्पर्शयामास। अनङ्गश्रीराकाशलक्ष्मी महत्त्व अनल्पत्वं स्पर्शयामास। सरस्वती जैनभारती वाचि वाचाया सिद्धिं वचनसिद्धि स्पर्शयामास। लक्ष्मीश्चन्द्रबहद्भगिनी निदेशकर्मणि सिद्धिं स्पर्शयामास। चिन्तामणिर्मनसि सिद्धिं स्पर्शयामास। कुलदेवी वपुषि। वैवस्वतो यमदेवता सकलजन वश्यता सर्वलोकवशीकरण सिद्धिं स्पर्शयामास। एवममुना प्रकारेण अन्येऽपि वरुणवे-

यस्मै प्रजापालनवर्णभाजे ददु सुरा स्वाशममी नृपाय।
ऐश्वर्यमिन्द्रस्तपन प्रताप कला कलावाश्च बल बलाल॥ ४६॥

यस्मादभूदय लोकश्चतुर्वर्गफलोदय।
अन्यायभुजगाभोगगारुत्मतमणेर्नृपात्॥ ४७॥

नभोभूभोगिलोकार्है स्रोतोभिर्भुवनत्रये।
ततान भूभृतो यस्मात्कीर्तित्रिपथगापगा॥ ४८॥

यस्मात्पूर्वे परे भूपा न गुणैरतिशिश्यिरे।
मध्यमोऽपि स्मृतस्तेषामुत्तम प्रथमश्च स॥ ४९॥

———————

श्रवणप्रभृतय पाशिकुबेरप्रमुख्याअगम्यत्वाक्षयनिधानवत्त्वप्रभृतिगुणवन्त स्वभागधेयानि निजगुणदानानि स्पर्शयामासुर्दत्तवन्त। कथभूतानि स्वभागधेयानि। कुलवनानीव पूर्वपुरुषसचितवित्तानीव। दीपकालंकार॥

यस्मै इत्यादि। यस्मै यशोर्घाय नृपाय राज्ञे अमी एते प्रत्यक्षीभूता सुरा देवास्वाश निजभागवेय ददुर्विश्राणयामासु। कथभूताय यस्मै। प्रजापालनवर्णभाजे प्रजापालनस्य लोकाना रक्षणस्य वर्ण यशो भजते प्रजापालनवर्णभाक् तस्मै प्रजापालनवर्णभाजे। अमी के। इन्द्र ऐश्वर्य इश्वरत्व ददौ। तपन श्रीभास्कर प्रताप ददौ। कलावाश्चन्द्र कला ददौ। बलालो वासुर्बल सामर्थ्य ददौ। समुच्चयालकार॥ अब्विभक्ती समाप्ता॥

अथेदानी पञ्चभिर्वृत्तै काविभक्तिं निरूपयन्त्याचार्या—यस्मादित्यादि। यस्मानृपात् नरेद्राद्यशोर्घात् अय प्रत्यक्षीभूतो लोक मनुष्यलोकश्चतुर्वर्गफलोदयो धर्माथकाममोक्षफलवान् अभूद्बभूव। कथभूताद्यस्मात्। अन्यायभुजगाभोगगारुत्मतमणे अन्याय अनीति स एव भुजग सर्प पापविषसभृतमुखत्वात् कुटिलगत्याच तस्य आसमन्ताद्भोग फणामण्डल तस्य संकोचने गारुत्मतमणे विषापहारत्वात्। रूपकालंकार॥

नभोभू इत्यादि। यस्मात् भूभृतो नरेन्द्रात् पक्षे हिमाचलात् कीर्तित्रिपथगापगा कीतिगङ्गानदी स्रोतोभि प्रवाहैर्भुवनत्रये त्रैलोक्ये ततान विश्रुता। कथभूते स्रोतोभि। नभोभूभोगिलोकार्है नभोलोक ऊर्ध्वलोको भूलोको मध्यलोक भोगिलोक पाताल तत्र स्थितलोकैरर्हाणि पूज्यानि नभोभूभोगिलोकार्हाणि तै। स्वर्गमृत्युपाताललोककण परपराभि कीर्तिस्ततानेत्यर्थ। रूपकश्लेषालंकार॥

यस्मादित्यादि। यस्मान्नरेन्द्रात् पूर्वे अतीता भूपा नरेन्द्रा परे भविष्यन्तोभूपा गुणै कृत्वान अतिशिश्यिरे न अतिशयवन्तो बभूवु। तेषा नरेन्द्राणा मध्ये मध्यमोऽपि मध्यवर्त्यपि स नरेन्द्र उत्तम स्मृत प्रथमश्च स्मृत। उपमालंकार॥

अन्य एवाचल कश्चिदेष नून महीपति।
प्रबभूव पर यस्मालक्ष्म्या सह सरस्वती॥ ५०॥

यस्मादशेषगुणरत्ननिधेर्महीशा-
देते गुणा जगति पप्रथिरे महान्त।
शौर्यं हरावमरधेनुषु कामदत्व
गाम्भीर्यमम्बुधिषु भास्वति च प्रताप॥ ५१॥

यस्य शराभ्यासावसरेषु बद्धमुष्टिता न वसुविश्राणनेषु, पत्त्रभङ्गेषु भुजगता न हृषीकविलसितेषु, भूषणेषु विकृतिदर्शन न मनोविजृम्भितेषु, मदगजेषु परप्रणेयता न कार्यानुष्ठानेषु, विलासिनीगतिषु स्खलितता न प्रतापेषु, करिकर्णेषु चपलता न कर्मारम्भेषु।

——————

अन्य इत्यादि। एष महीपतिर्यशोधमहाराज नून निश्चयेन अन्य एव अपूर्व कश्चिदनिर्वचनीय अचल पर्वतो वर्तते। यस्मादचलात् पर निश्चयेन लक्ष्म्या सह सरस्वती प्रबभूव प्रसूता। यस्मादचलात् सरस्वतीनाम नदी प्रभवति तस्माल्लक्ष्मीर्न प्रभवतीति व्यतिरेकालंकार। रूपक च॥

यस्मादित्यादि। यस्मा महीशात्पृथ्वीपतेरेते प्रत्यक्षीभूता महान्तो गुरुतरा गुणा शौयादयो जगति ससारे पप्रथिरे विश्रु (स्तृ ) ता। कथभूताद्यस्मात्। अशेषगुणरत्ननिधे अशेषा समग्रा ये गुणास्त एव रत्नानि त्रिभुवनद्योतकारत्वात् तेषा निधिशेवधिरक्षयनिधान तस्मात् तथोक्तात्। एते के। हरौ श्रीनारायणे शौर्य सुभटत्व पप्रथे। अमरधेनुषु कामधेनुषु कामदत्व अभीष्टफलदायित्व पप्रथे। अम्बुधिषु समुद्रेषु गाम्भीर्यमतलस्पर्शत्वमवरताधस्त्वमगाधत्व पप्रथ। भास्वति श्रीसूर्ये प्रताप पप्रये। चकारोऽनुक्तसमुच्चयार्थ। तेनात्युत्कृष्टसमुच्चयालंकार॥

ताविभक्ति दर्शयति**—**

यस्येत्यादि। यस्य यशोर्घमहाराजस्य शराभ्यासावसरेषु बाणगुणिनिकाप्रस्तावेषु बद्धमुष्टिता वर्तते, न वसुविश्राणनेषु बद्धमुष्टिता कृपणता वर्तते। पत्रभङ्गेषु कर्पूर कस्तूरीचन्दनादिविलेपनेषु भुजगता बाहुविलेपन भुजयोर्गच्छतीति भुजग पत्रभङ्गस्तस्य भावो भुजगता पत्रावलीषु वर्तते, न हृषीकविलसितेषु इन्द्रियचेष्टितेषु भुजगता विटत्व वर्तते। भूषणेषु विकृतिदर्शन विविधाकृतिविधान तस्या दर्शन आलोकन वर्तते, न मनोविजृम्भितेषु चित्तप्रसरेषु विकृतिदर्शन असच्चैष्टित वर्तते। मदगजेषु मत्तकुञ्जरेषु परप्रणेयता प्रान्तारकर्तव्यता वतते, न कार्यानुष्ठानेषु परप्रणेयता परायत्तता वर्तते। विलासिनीगतिषु कमनीयकामिनीगमनेषु स्खलितता शुक्रमोचनता वर्तते न प्रतापेषु स्खलितता खण्डन वर्तते। करिकणेषु

पातालवेलावनवारिवासविश्वभराभृद्भ्रमणाच्चिराय।
खिन्नेव कीर्ति क्षितिपस्य यस्य विश्राम्यति स्म त्रिदिवालयेषु॥ ५२॥

यस्मिन्दिग्जैत्रयात्राकृतकुतूहले च बभूवुर्महावाहिन्य सध्याचमनकुल्या इव, वेलावनानि पुष्पावचयभूमय इव, पयोधयो जलकेलिदीर्घिका इव, द्वीपान्तराणि प्रतिवेशनिवेशा इव, कुलशिखरिण क्रीडाचला इव, दिक्पालभवनान्युपकार्या इव, ककुप्कुम्भिस्तम्भा प्रशस्तिशिला इव।

यस्मिन्मही शासति भूमिनाथे बभूवुरल्पे किल कल्पलोका।
मनीषितावाप्तमनोरथाना स्वर्गाय यस्मान्न मन प्रजानाम्॥ ५३॥

————

चपलता गजश्रवणेषु चापल्य वर्तते, न कर्मारम्भेषु कार्यप्रारम्भेषु चपलता गृहीतमुक्तता वर्तते। उक्त च —

’ नारभ्यते किमपि विघ्नभयेन नीचै सजातविघ्नमधमाश्च परित्यजन्ति। सछिद्यमानतनवोऽपि समाप्तविघ्ना नारब्धमुत्तमजनास्तु परित्यजन्ति॥’ परिसख्या श्लेषालकार॥

पातालेत्यादि। यस्य क्षितिपस्य यशोघग्य राज्ञ कीति पुण्यगुणानुकीतन चिराय दीर्घकाल त्रिदिवालयेषु स्वर्गविमानेषु देवेषु वा विश्राम्यति स्म तिष्ठति स्म तस्थौ। कथभूता कीति। उत्प्रेक्ष्यते — पातालवेलावनवारिवासविश्वभराभृद्भ्रमणात्90 खिन्नेव श्रान्तेव पातालानि च नागलोका वेलावनानि च व्यन्तरनिवासा वारिवासाश्च असरयेयसमुद्रा विश्वभराभृतश्च कुलपर्वतास्तेषु (सद् ) भ्रमण चिराय दीर्घकाल पयटन तत्तथोक्त तस्मात्। उत्प्रेक्षालकार॥

अथेदानीमीब्विभक्तिं दर्शयति—यस्मिन्नित्यादि। यस्मिन् यशोर्घमहाराजे दिग्जैत्रयात्राकृतकुतूहले सति दिग्विजयविहितविनोदे सति महावाहिन्यो महानद्य सरयूशुतुद्रिस्वर्णदीशमनस्वसृनर्मदाप्रभृतय सध्याचमनकुल्या इव सामायिक वेलोपस्पशकृत्रिमनद्य इव बभूवु सजाता। वेलावनानि समुद्रतटोद्यानानि पुष्पावचयभूमय इव कुसुमचुण्टनवाटिका इव बभूवु। पयोधयश्चत्वार समुद्रा जलकेलिदीर्घिका इव तोयकी डावापिका इव बभूवु। द्वीपान्तराणि प्रतिवेशनिवेशा इव बभूवु। कुलशिखरिणो हिम वद्विन्ध्यसह्याचलादय क्रीडाचला इव केलिपवता इव बभूवु। दिक्पालभवनानि इन्द्रादीना गृहाणि उपकार्या इव (मठ) नवमण्डपादिराजसदनानीव बभूवु। ककुप्कुम्भिस्तम्भा दिग्गजेन्द्रालानस्तम्भा प्रशस्तिशिला इव प्रसिद्धलेखन पट्टा इव बभूवु। दीपकोपमालकार॥

यस्मिन्निति। यस्मिन् भूमिनाथे यशोधमहाराजे महीं पृथ्वी शासति प्रतिपालयति सति। किलेति लोकोक्तौ शास्त्रोक्तौ वा। कल्पलोका स्वर्गलोका अल्पेच्छतरा

अहो महीपाल नृपस्य तस्य त्वद्वराजा चन्द्रमति प्रियासीत्।
पतिव्रतत्वेन महीसपत्न्या प्राप्तोपरिष्टात्पदवी यया हि॥ ५४॥

साभूद्रतिस्तस्य मनोभवस्य धर्मावनिर्धर्मपरायणस्य।
गुणैकधाम्नो गुणरत्नभूमि कलाविनोदस्य कलाप्रसूति॥ ५५॥

शीलेन दृष्टान्तपद जनाना निदर्शनत्व पतिसुव्रतेन।
पत्युर्निदेशावसरोपचारादाचार्यक या च सतीषु लेभे॥ ५६॥

रूप भर्तरि भावेन सौभाग्य विनयेन च।
कलावत्त्वमृजुत्वेन भूषयामास यात्मन॥ ५७॥

———————

बभूवु सजाता। कस्मात् कारणात्। यस्मात् प्रजाना लोकाना मनश्चित्त स्वर्गाय न वर्तते। कथभूताना प्रजानाम्। मनीषितावाप्तमनोरथाना मनीषितानि मनोवाञ्छितानि अवाप्तानि प्राप्तानि मनोरथैर्दोहदर्यासा तास्तथोक्तास्तासाम्। हेत्वलकार॥

अहो महीपाल इत्यादि। हे मारदत्त महाराज, तस्य यशोर्घस्य महाराजस्य चन्द्रमतिश्चन्द्रमतिनाम्नी प्रिया वल्लभा पट्टमहादेवी आसीद्बभूव। कथभूता चन्द्रमति। त्वद्वराजा त्वदीयकुले सजाता। यया चन्द्रमल्या पतिव्रतत्वेन भतृभक्तित्वेन महीसपत्न्या मह्येव भूमिरेव सपत्नी अपरा भार्या महीसपत्नी तस्या महीसपत्न्या पृथ्वीप्रतिभार्याया उपरिष्टादधिकतरा पदवी पद प्राप्ता। व्यतिपतित्रता बभूवेत्यर्थ। रूपकालकार॥

साभूदित्यादि। तस्य यशोर्घस्य मनोभवस्य कामदेवस्य सा चन्द्रमतिर्महादेवी रतिरभूत्। तस्य धर्मपरायणस्य धर्मतत्परस्य धर्मावनिर्धर्मभूमिरभूद्बभूव। तस्य गुणैकधाम्न गुणानामद्वितीयगृहस्य गुणरत्नभूमिर्गुणमणीना खनिरभूत्। तस्य नृपस्य कलाविनोदस्य कलाकुतूहलस्य कलाप्रसूति कलानामुत्पत्तिरभूत्। दीपकालकार। रूपकोपमा च॥

शीलेनेत्यादि। या चन्द्रमति शीलेन ब्रह्मचयप्रतिपालनेन जनाना लोकाना दृष्टान्तपद उदाहरणस्थान लेभे प्राप्तवती। या चन्द्रमतिमहादेवी पतिसुव्रतेन पत्युर्गमन करोति अन्य पुमास पितृपुत्रसदृश मन्यते इति पत्यु सबन्धि सुष्ठु शोभन व्रत पतिसुव्रत तेन पतिसुव्रतेन कृत्वा जनाना लोकाना निदर्शनत्व लेभे। या चन्द्रमति पत्युर्भर्तुर्निदेशावसरोपचारात् आदेशसमयप्रतिपालनात् सतीषु साध्वीषु विषये आचार्यक आचार्यत्व लेभे लब्धवती। उपमादीपकालकार॥

रूपमित्यादि। या चन्द्रमति भर्तरि पत्यौ भावेन अनुरागेण कृत्वा आत्मन स्वस्य शोभन वर्ण भूषयामास अलचकार। या चन्द्रमति विनयेन कृत्वा सौभाग्य सुभगत्व प्रीतिजनकत्व भूषयामास। या चन्द्रमति ऋजुत्वेन सरलतया अकुटिलतया कलावत्त्व कलाविज्ञत्व भूषयामास। दीपकालकार॥

अपि च सत्यपि महति शुद्धान्ते या दयेव धर्मस्य, नयपद्धतिरिव स्याद्वादस्य, नीतिरिव राज्यस्य, क्षान्तिरिव तपस, अनुत्सेकस्थितिरिव श्रुतस्य, कीर्तिरिव जीवितव्यस्य, विजयवैजयन्तीव मनसिजस्य, माकन्दमञ्जरीव पुष्पाकरस्य, कल्पलतेव त्रिदिवद्रुमस्य, कल्याणपरम्परेव पुण्योदयदिवसस्य, तस्य महीपतेर्मतिदेवताया प्रणयप्रासादाधिष्ठानभूमिरासीत्।

यस्याश्च भर्तु श्रीर्विलासवयस्येव, कीर्ति प्रसाधनसखीव, सागराम्बरा मनोरथानुचरीव, सरस्वती विनोदभुजिष्येव, भूषणलक्ष्मीर्निजरूपावलोकनादर्शकेलिरिव भवन्ती स्त्रीत्वेनैव सापत्यमभजत्, न पुन प्रणयप्रसरखण्डनेन।

———————

अपि च तथा च या चन्द्रमति महति बृहति अतिप्रचुरे सहस्रगणनावति शुद्धान्ते अन्त पुरे निर्मलचित्ते वसति सत्यपि तस्य यशोघस्य महीपते राज्ञो मतिदेवताया बुद्धिदेवताया प्रणयप्रासादाधिष्ठानभूमिरासीत् प्रणय स्नेह स एव प्रासाद उन्नतोज्ज्वलत्वात् तस्य अधिष्ठानभूमिर्भवति मूल भवति। कथमिव। धर्मस्य दयेव। यथा दया धर्मस्य मूल भवति। स्याद्वादस्य अनेकान्तमनस नयपद्धतिरिवनैगमा दिनयाना मार्ग इव। यथा नयपद्धति स्याद्वादस्य मूल भवति। राज्यस्य नीतिरिव यथा नीतिर्न्यायमार्गो राज्यस्य अधिष्ठानभूमिर्भवति। तपस क्षान्तिरिव यथा तपश्चरणस्य क्षान्ति क्षमा अविष्ठा भूमिभवति। अनुत्सेकस्थितिरिव श्रुतस्य यथाश्रुतस्य शास्त्रस्य अनुत्सेकस्थितिरगर्भस्वभावो अधिष्ठानभूमिर्भवति। कीर्तिरिव जीवितव्यस्य यथा कीर्तिर्जीवितव्यस्य प्राणधारणस्य अधिष्ठानभूमिर्भवति। विजयवैजयन्तीव मनसिजस्य यथा मनसिजस्य कन्दर्पस्य विजयवेजयन्ती विजगज्जय लब्धध्वजा अधिष्ठानभूमिर्भवति। यथा माकन्दमञ्जरी सहकारवल्लरी पुष्पाकरस्य वसन्तस्य अधिष्ठानभूमिर्भवति। यथा कल्पलता कल्पवल्ली त्रिदिवद्रुमस्य कल्पवृक्षस्य अधिष्ठानभूमिर्भवति। यथा कल्याणपरम्परा शुभश्रेणि पुण्योदयदिवसस्य पुण्यपाक दिनस्य अधिष्ठानभूमिर्भवति। दीपकोपमालकार॥

यस्याश्च द्रमतेर्भर्तु श्री लक्ष्मी स्त्रीत्वेनैव सापत्न्य सपत्नीत्व सपत्नीभावमभजत्, न पुन प्रणयप्रसरखण्डनेन स्नेहव्याप्तिविध्वसनेन सापत्न्यमभजत्। भर्तु श्री कि कुवती। विलासवयस्येव भवन्तीति विलासस्य सभोगस्य वयस्येव साहाय्यदायिका सखीवभव ती सजायमाना। यस्याश्च भर्तु कीर्ति स्त्रीत्वेनैव सापत्न्यमभजत्, न पुन प्रणयप्रसरसण्डनेन सापत्न्यमभजत्। कीर्ति कि कुर्वती। प्रसाधनसखीव भवन्ती सैरन्ध्रीव सजायमाना। उक्त च— ‘सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका।’ तथा चोक्तम् —‘चतुषष्टिकलाभिज्ञा शीलरूपादिसेविनी। प्रसाधनप्रचारज्ञा सैरन्ध्री कथ्यते बुधे॥’

एव तयोर्मरुदेवीनाभिराजमहाराजयोरिव परस्परानुबन्धपेशल त्रिवर्गफलमनुभवतोरेकदा पुत्रप्रार्थनमनोरथावसथस्य तीर्थकालपालनपथस्य प्रकाशितपरस्परप्रीतिरसस्य दिवसस्य ब्राह्मसमयावर्ते मुहूर्ते मिथ सभाषणकथ प्रावर्ततायमुदन्त**—**

आखण्डल किल सुतत्वमुपागतो मे
विद्या प्रसाध्य सुरलोकगुरूपदिष्टा।
मत्केतने तनयजन्ममहोत्सवश्री
काम व्यधायि च जनै किल मोदमानै॥ ५८॥

———————

यस्याश्च भर्तु सागराम्बरा पृथ्वी स्त्रीत्वेनैव सापत्न्यमभजत्, न पुन प्रणयप्रसर खण्डनेन सापत्न्यमभजत्। सागराम्बरा कि कुर्वती। मनोरथानुचरीव भवन्ती मनोरथाना वाञ्छापूरणाना अनुचरीव किकरीव सजायमाना। यस्याश्च भर्तु सरस्वती भर्तुर्भारती स्त्रीत्वेनैव सापत्न्यमभजत् न पुन प्रणयप्रसरखण्डनेन। सरस्वती कि कुर्वती। विनोदस्य कुतूहलस्य नर्मकरणस्य भुजिष्येव किंकरीगणिकेव भवन्ती। ‘भुजिष्या गणिका’ इति देश्यात्। यस्याश्च भर्तुर्भूषणलक्ष्मी स्त्रीत्वेनैव सापत्न्यमभजत् न पुन प्रणयप्रसरखण्डनेन। भूषणलक्ष्मीराभरणलक्ष्मी कि कुर्वती। निजरूपावलोकनादर्श केलिरिव भवन्ती निजरूपस्य आत्मीयरूपस्य अवलोकने निरीक्षणे आदर्शकेलिरिव दर्पणक्रीडेव भवन्ती। दीपकोपमालकार॥

एवममुना प्रकारेण तयोश्चन्द्रमतियशोर्घयोर्मरुदेवीनाभिराजमहाराजयोरिव मरुदेवीनाभिराजसदृशयोरिव परस्परानुबन्धपेशल धर्ममविराध्यार्थकामानुभवन काममविराध्य धर्मार्थानुभवन परस्परानुबन्धपेशलमुच्यते। ईदृग्विध त्रिवर्गफल धर्मार्थकामफलमनुभवतोरास्वादयतो सतोरेकदा एकस्मिन्नवसरे पुत्रप्रार्थन मनोरथावसथस्य पुत्रस्य प्रार्थनस्य याचनस्य मनोरथाभिलापस्य आवसथस्य गृहस्य तीर्थकालपालनपथस्य चतुर्थदिवसास्नाता स्त्री तीर्थ उच्यते तस्य कालपालनस्य रतिदानस्य पन्था मार्गोयस्मिन् दिवसे तीर्थकालपालनपयस्तस्य तीर्थकालपालनपथस्य प्रकाशितपरस्परप्रीतिरसस्य प्रकटितान्योन्यप्रणयानुभवनस्य। एव विशेषणत्रयविशिष्टदिवसस्य दिनस्य ब्राह्मसमयावर्ते रात्रिशेषे मुहूर्ते समये मिथ एका ते परस्पर वा सभाषणकथा आलापनकथासयुक्तो अय वक्ष्यमाणलक्षणोपलक्षित उदन्तो वार्ता प्रावर्तत सजात। उपमालकार॥

अय क उदतप्रावर्तत इत्याह— आखण्डल इत्यादि। युग्मम्। हे देव यशोर्घमहाराज, मया चन्द्रमत्या निशावसाने पश्चिमरात्रौ इत्थममुना प्रकारेण किमपि किंचित्स्वप्ने निद्राया व्यलोकि दृष्टम्। कथभूत किमपि। तव सततिहेतुभूतम् भवत सतानकारणभूतम्। इत्थ कथमिति चेत् आखण्डल शक्र। किल वाक्यालकारे। मे मम

अन्यैव काचिद्वदनेन्दुलक्ष्मीरन्यैव नेत्रोत्पलकान्तिरासीत्।
अन्यैव तस्या कुचकुम्भशोभा मणेरिवान्तर्धृतरागवर्ते॥ ६३॥

गर्भभर्मणि महीपतिराप्तानादिदेश भिषज किल तस्या।
चित्तवित्तसदृश विधिमुच्चैर्निर्ममे तदुचित च स देव्या॥ ६४॥

इत्थ मिथोऽवोचदसौ महीक्षिन्मनस्विनी ता किल सत्त्वशान्त्यै।
मासोऽष्टमात्पूर्वमिद त्वयोच्चैर्हासादिक कर्म न देवि कार्यम्॥ ६५॥

तैस्तैर्विधानैर्द्वययत्नपूर्वै स सूतिकासद्मचकार भूप।
मासे पुनर्वैजननेऽवतीर्णे तस्या प्रसूते समय किलासीत्॥ ६६॥

———————

वा तस्याश्च द्रमतेर्महादेव्या आयताक्ष्या कर्णातविश्रान्तलोचनाया पृथिवीगुणेषु मृत्तिकाकुम्भभित्तिभक्षणेषु पर केवल दोहद मनोरथ आसीद्बभूव। हेत्वलकार॥

अन्यैवेत्यादि। तस्याश्चन्द्रमतेर्महादेव्या सबन्धित्वेन वदनेन्दुलक्ष्मीर्मुखचन्द्र शोभा काचिदनिर्वचनीया अन्येव अपूर्वैव आसीद्बभूव। पुन नेत्रोत्पलकातिर्लोचनकुवलयप्रभा अन्यैव अपूर्वा आसीत्। पुन कुचकुम्भशोभा स्तनकलशशोभा अन्यैवा पूर्वा आसीत्। तस्या कस्या इव। अतधृतरागवर्ते मध्यस्थापित नीलपत्रादिसयोगात् मणेरिव रत्नस्येव। दीपकोपमालकार॥

गर्भभर्मणीत्यादि। स महीपति यशोधमहाराज किलेति लोकोक्तौतस्या देव्या गर्भभर्मणि गर्भपोषणे आप्तान् हितकारकान् भिषजो वेद्यान् आदिदेश आदेश ददौ। चित्तवित्तसदृश विधि यादृश मनो वर्तते तत्सदृश विधिं गर्भाधानपुसवनसीमन्तोन्नयेन लक्षणमुच्चैरतिशयेन तदुचित गभयोग्य स्वय निर्ममे स्वयमेव निर्मितवान्। उक्त च—- ‘गर्भाधानमृतौ पुस सवन स्पन्दनात्पुरा। षष्ठेऽष्टमे वा सीमन्तो मासेऽन्ते जातकर्म च॥’ इति याज्ञवल्क्यस्मृतौ एकादश श्लोका। महापुराणे तु—‘धृतिस्तु सप्तमे मासि कार्या तद्वत्कृतादरै। गृहमेधिभी रच्यन्ते मानसैर्गर्भवृद्धये॥’ धृतिर्नाम क्रिया सीम तोनयनम्। इति जात्यलकार। समुच्चयालकारो वा॥

इत्थमित्यादि। असौ महीक्षित् यशोर्घस्ता मनस्विनी मानवती स्त्रिय मिथ एकान्ते। किलेति लोकोक्तौ शास्त्रोक्तौ वा। सत्त्वशान्यै गर्भस्थितजीवशान्त्यर्थ इत्थ अमुना प्रकारेण अवोचत् उवाच। इत्थ कथमिति चेत् हे देवि, अष्टमात् मासो अष्टम मास यावत् पूर्व इद प्रत्यक्षीभूत हासादिक कर्म नर्मक्रियाहसन च त्वया भवत्या उच्चै रुन्नतशब्देन न कार्य न कर्तव्यम्। अष्टमे मासे गर्भस्य ओज मातु शरीरमागच्छति। नवमे तु मासे तदोज गर्भ समागच्छति। तेन सप्तमे नवमे वा मासे जातो जीवति। अष्टमे तु मासे जातो न जीवति। इयमपि जाति॥

तैस्तैरित्यादि। स यशोर्घोभूपो राजा तैस्तैर्लोकप्रसिद्धैर्विधाने कर्तव्यै सूति

अन्यत्र राहो शुभदैरशेषैर्ग्रहैप्रशस्तेऽवसरे बभूव।
अस्या पुरा जन्मनि चन्द्रमत्या ममात्मलाभ परमोत्सवेन॥ ६७॥

नृत्यद्वृद्धपुरन्ध्रिगेयसुभगा सोल्लासहल्लानना
खेलद्वामन कामिनीप्रियभुव सानन्दधात्रीकुला।
पिष्टापीडविडम्ब्यमानजरतीसीमन्तकान्ताङ्गणा-
स्तूरोद्यावरवै सम किल बभु शुद्धान्तमध्यास्तदा॥ ६८॥

———————

कासद्मचकार प्रसवनगृह कृतवान्। कथभूतैर्विधानै। द्वययत्नपूर्वै द्वयस्य गर्भ गर्भिणीद्वयस्य यत्नोरक्षणोपाय पूर्वो येषु विधानेषु तानि द्वययत्नपूर्वाणि तस्तथोक्तै। पुन पुनरपि तदनन्तर वैजनने मासे नवमे मासे अवतीणे आगते सति तस्याश्चन्द्रमते प्रसूते समयो जन्मनोऽवसर किल आसीद्बभूव। जातिरियम्॥

अन्यत्रेत्यादि। हे राजन् मारदत्त, अस्यामभयमतौ पुरा जन्मनि पूर्वभवे चन्द्रमत्या सत्या परमोत्सवेन परमानन्देन मम आत्मलाभो जन्म बभूव सजात। कस्मिन् समये आत्मलाभो बभूव। अशेषै समग्रे शुभदे कल्याणकारकैग्रहै सूयादिभिरष्टभि कृत्वा प्रशस्ते प्रशसनीये अवसरे वेलाया लग्ने। कथ आत्मलाभो बभूव। अन्यत्र विना। कस्माद्विना। राहो अभ्रमिणवात् (?)। अन्ये सर्वे ग्रहा शुभा बभूवु राहूरोविनाभूदित्यर्थ। उत्तरत्र विशेषेणापायसभवात् जातिरियम्॥

नृत्यद्वृद्धेत्यादि। तदा तस्मिन् काले तूरोद्यावर वेर्वादित्रोत्सवशब्दै सम सार्थ किल निश्चयेन शुद्धा तमध्या अन्त पुरप्रदेशा बभु शोभिता। कथभूता शुद्धान्त मध्या। नृत्यद्वद्धपुरन्ध्रिगेयसुभगा नृत्यन्त्यो नर्तन तन्वन्त्यो वृद्धा जराजीर्णा पुरन्ध्र्य पुरन्ध्र्य स्त्रियस्तासा गेयैगानैसुभगा प्रीतिजनका। पुन कथभूता शुद्धान्तमध्या। सोल्लासहल्लानना सोल्लासानि सानन्दानि हल्लाना आसीतिकपुरुषाणा आननानि मुखानि येषु शुद्धान्तेषु ते तथोक्ता। पुन कथभूता शुद्धान्तमध्या। खेलद्वामनकामिनी प्रियभुव खेलन्त्यो नतन कुवन्त्यो या वामनकामिन्य सकुचितसर्वाङ्गशरीरा खट्टु (ड) रा स्त्रियस्ताभि प्रिया मनोज्ञा भूर्भूमिर्येषु शुद्धान्तमध्येषु ते तथा। पुन कथभूता शुद्धान्तमध्या। सानन्दधात्रीकुला सानन्दानि सहर्षाणि धात्रीणा उपमातॄणा स्तन दायिकाना कुलानि समूहा येषु ते तथा। पुन कथभूता शुद्धान्तमध्या। पिष्टापीड विडम्ब्यमानजरतीसीमन्तकान्ताङ्गणा पिष्टाना पञ्चवर्णचूर्णाना आपीड समूहस्तेन विडम्बयमाना कदर्थ्य माना जरतीना वृद्धस्त्रीणा सीमन्ता केशमार्गास्तै कान्तानि मनोहराणि अङ्गणानि गृहाभूमयो येषा शुद्धा तमध्याना ते तथा। जात्यलंकार॥

आमन्द पल्लवीना रतिरभसभरप्राप्तकेली विनोदा
सामोद केरलीना मुखकमलवनामोदपानप्रगल्भा।
आशैत्य कुन्तलीना कुचकलशरसावासकारा समीरा
काले वान्ति स्म तस्मिन्किल मलयलतानर्तिनो दाक्षिणात्या॥ ६९॥

व्योम काम इवाप्तानामगच्छत्स्वच्छता मुहु।
समपादि प्रसादश्चदिशा बन्धुदृशामिव॥ ७०॥

दुन्दुभिध्वनिरुत्तस्थे मोदाय सुहृदा दिवि।
हरिश्चन्द्रपुरीलोकध्वनिर्ध्वसाय च द्विषाम्॥ ७१॥

———————

आमन्दमित्यादि। तस्मिन् काले यशोधरमहाराजजन्मावसरे दाक्षिणात्या दक्षिणदेशसबन्धिन समीरा वायवश्च पवना किल निश्चयेन वान्ति स्म प्रवर्तते स्म। कथ वान्ति स्म। आमन्द शनै शनै। कस्मादामन्द वान्ति। पल्लवीना दक्षिणदेशस्थितगिरिसोपनगरस्त्रीणा रतिरभसस्य मैथुनक्रीडा वेगम्य योऽसौ भरोऽतिशयस्तेन प्राप्तो लब्ध केलीविनोद क्रीडाकुतूहल यै समीरैस्ते रतिरभसभरप्राप्तकेलीविनोदा। पुनश्च स मीरा कथ वान्ति स्म। सामोद परिमलसहित यथा भवत्येवम्। कथभूता समीरा। केरलीना दक्षिणदेशसबन्धिकेरलदेशस्त्रीणा मुखकमलवनामोदपानप्रगल्भा मुखान्येव कमलवनानि बिसप्रसूनकान्ताराणि तेषामामोदपाने मुखवासनगन्धास्वादने प्रगल्भा प्रौढतरा। पुनश्च समीरा कथ वान्ति स्म। आशैत्य आसमन्तात् शीतत्व यथा भवत्येवम्। अपर किविशिष्टा समीरा। कुन्तलीना दक्षिणदेशस्थितकुन्तलदेशस्त्रीणा कुचकलशरसावासकारा कुचा एव कलशा पयस आधारहेतुत्वात् तेषा रसो मैथुनक्रीडाश्रमसजातप्रस्वेदजल तत्र आवासकारा कियत्कालनिवासिन। पुनश्च कि रूपा समीरा। मलयलतानतिन मलयाचलपवते या लताश्चन्दनतरुशाखास्ता नर्तयन्ति झम्प (कथ) यन्तीत्येवशीलास्ते मलयलतानर्तिन। हेतुरलकार। शीतो मन्दसुरभिश्च वायुर्वर्णित इति ज्ञातव्यम्॥

व्योमेत्यादि। व्योम आकाश मुहुर्वारवार स्वच्छता निर्मलता अगच्छत् जगाम। क इव। आप्ताना हिताना काम इव वाच्छेव। दिशा ककुभा प्रसाद प्रसन्नता निर्मलता समपादि सजात। प्रसाद कासामिव। बन्धुदृशामिव बन्धुवर्गनेत्राणामिव। समुच्चयोपमालकार॥

दुन्दुभीत्यादि। दिवि आकाशे दुन्दुभिध्वनि पटहनाद उत्तस्थे उत्थित।किमर्थम्। सुहृदा बन्धुवर्गनेत्राणा मोदाय हर्षाय। तथा दिवि आकाशे हरिश्चन्द्रपुरी लोकध्वनिर्गन्धर्वनगरीलोकाध्वान उत्तस्थे। किमर्थम्। द्विषा शत्रूणा ध्वसाय विनाश निमित्तम्। दीपकसमुच्चयालकार॥

राज्ञ समृद्धये स्वर्गात्पुष्पवृष्टि पुरेऽपतत्।
गेहे शिखण्डिमण्डूकवृष्टिश्च श्रीच्छिदे द्विष॥ ७२॥

श्रिये निजश्रिया राज्ञश्चारवस्तरवो बभु।
त एवारातिलोकानामुत्पाताय पुरे पुन॥ ७३॥

उल्ललास नृपते सदनेषु सपदे युवतिमङ्गलशब्द।
विद्विषा च नगरे विगमाय सतत धवलमौकुलिनाद॥ ७४॥

अपि च।

आनन्दबाद्यरवपूरितदिङ्मुखानि
पौराङ्गनाजनविनोदमनोहराणि।
आमुक्तकेतुरचितोत्सवतोरणानि
काम तदा शुशुभिरे नगरे गृहाणि॥ ७५॥

———————

राज्ञ इत्यादि। पुरे नगरे स्वर्गादाकाशात् पुष्पवृष्टि कुसुमवषा अपतत्पपात। किमर्थम्। राज्ञो यशोर्घस्य समृद्धये लक्ष्मीनिमित्तम्। द्विप शत्रुवर्गस्य गेहे शिखण्डि मण्डूकवृष्टिश्चूलसहितभेकवषा अपतत्पपात। किमर्थम्। द्विष शत्रुवर्गस्य श्रीच्छिदे लक्ष्मीविनाशनिमित्तम्। दीपकालकार॥

श्रिय इत्यादि। निजश्रिया निजपुष्पफलपल्लवशोभया चारवो मनोज्ञास्तरवो वृक्षा बभु शोभिता। किमर्थम्। राज्ञो यशोधरस्य श्रिये लक्ष्मीनिमित्त त एव तरव अराति लोकाना पुरे नगरे पुनर्बभु शोभिता। किमर्थम्। उत्पाताय विनाशनिमित्तम्। अकाले फलितत्वात्। दीपकालकार॥

उल्ललासेत्यादि। नृपतेर्यशोर्घस्य सदनेषु गृहेषु युवतिमङ्गलशब्द स्त्रीणां धवलगानध्वनिरुल्ललास उच्छलित। किमर्थम्। सपदे राज्ञो लक्ष्मीनिमित्त विद्विषा नगरे शत्रूणा पुरे सततमुपर्युपरि धवलमौकुलिनाद श्वेतकाकध्वनिरुल्ललास। किमर्थम्। विद्विषा विगमाय विनाशाय। दीपकालकार॥

अपि च तथा च। आनन्देत्यादि। तदा तस्मिन् श्रीयशोधरजन्मकाले नगरे उज्जयिनीपत्तने गृहाणि वेश्मानि काम यथेष्ट शुशुभिरे शोभितानि। कथभूतानि गृहाणि। आनन्दवाद्यरवपूरितदिङ्मुखानि आनन्दवाद्यानामुत्सवतूर्याणा वै शब्दै पूरितानि भृतानि दिशा ककुभा मुखानि आस्यानि यैस्तानि। पुन कथभूतानि गृहाणि। पौराङ्गनाजनविनोदमनोहराणि पौराङ्गनाजनाना नगरस्त्रीसमूहाना विनोदै क्रीडाभिर्मनोहराणि मनोज्ञानि। पुन कथभूतानि। आमुक्त केतुरचितोत्सवतोरणानि आमुक्ता बद्धा केतवो ध्वजा येषु गृहेषु तानि आमुक्तकेतूनि रचितानि कल्पितानि उत्सवस्य

आखण्डलप्रतिमपुत्रवता धुरीण
स्त्रीलोचनोत्पलविलासरसप्रवीण।
त्रैलोक्यपावनयश किरणोदयेन
त्व नन्दतात्तनयजन्म महोत्सवेन॥ ७६॥

धर्म पल्लवित श्रिय कुसुमिता काम फलै श्लाध्यते
यशस्ते क्षितिनाथ सप्रति परा छाया श्रित, कामपि।
भूदेवी सकृतार्थतामुपगता मूलान्वयाना पुन-
श्चित्ते माति न देव सान्द्रितरसस्त्वत्पुत्रजन्मोत्सव॥ ७७॥

तथा।

सानन्द बन्दिवृन्दै क्वचिदवनिपति स्तूयते प्रार्थितार्थै-
र्बन्धूना तुष्टिदानै क्वचिदतनुमुद सौविदल्लास्त्वरन्ते।

———————

महोत्सवस्य सबन्धीनि तोरणानि आमुक्तकेतुरचितोत्सवतोरणानि। अपि चेति शब्देन समुच्चयालकार॥

तथा तेनैव प्रकारेण। सानन्दमिति। सानन्द आनन्दसहित यथा भवत्येव बन्दिवृन्दै वारजीवसमूहैरवनि पतिर्यशोर्घ क्वचित् कस्मिंश्चित्स्थाने स्तूयते श्लाघ्यते। कथभूतै बन्दि वृन्दै। प्रार्थितार्थैप्रार्थिता याचिता सुवर्णपट्टाम्बरतुरगादय अर्था पदाथा यैस्ते तथा तै। बन्दिवृन्दै कथ स्तूयते। हे देव, त्व भवान् तनयजन्म महोत्सवेन पुत्रजन्ममहानन्देन नन्दतात् वर्धस्व। कथभूतेन तनयजन्ममहोत्सवेन। त्रैलोक्यपावनयश किरणोद येन त्रैलोक्यस्य त्रिभुवनस्य पावना पवित्रीकरणा ये यश किरणा पुण्यगुणानुकीतिरश्मय तेषा उदय उत्पत्तिर्यत्रमहोत्सवे स तथा तेन। कथभूतस्त्वम्। आखण्डलप्रतिमपुत्रवता धुरीण आखण्डलप्रतिमा इद्रसदृशा पुत्रा विद्य ते येषा ते आखण्डलप्रतिमपुत्रवन्तस्तेषा मध्ये त्व धुरिणो धौरेयो धुरि वर्णनीय। पुन कथभूतस्त्वम्। स्त्रीलोचनोत्पलविलासरसप्रवीण स्त्रीणा कमनीयकामिनीना लोचनोत्पलाना नेत्रकुवलयाना विलासरस उल्लासरसस्तत्र प्रवीणश्चतुर। हे देव, इदानी धर्म पूजादानादिलक्षण पल्लवित उल्लास प्राप्त। श्रियो लक्ष्म्य कुसुमिता पुष्पिता। काम स्त्रीभोगफलै कृत्वा श्ला यते प्रशस्यते। तथा धर्मार्थकामास्त्रय पदार्था सिद्धा इत्यर्थ। हे क्षितिनाथ पृथिवीपते, ते तव वश अन्वय सप्रति इदानी परामुत्कृष्टा छाया शोभा कामपि अपूर्वामनिवचनीया श्रित आश्रित। हे देव, भूदेवी सकृतार्थता कृतार्थत्वसहितामुपगता प्राप्ता आयाता। मूलान्वयाना मन्त्रिणा चित्ते मनसि त्वत्पुत्रजन्मोत्सवो भवदीयतनयोत्पत्तिमहोत्सव पुनर्नभातिभरितत्वात् अवकाश न लभते। कथभूतस्त्वत्पुत्रजन्मोत्सव। साद्रितरस निबिडी

आकल्प भर्तृलक्ष्मीमियमनुभवतात्पुत्रपौत्रैश्च सार्धं
देवीत्येव पुरोधा क्वचिदपि च पठत्याशिष कामितश्री॥ ७८॥

स्वर्ग कल्पद्रुमैर्भू कुलधरणिधरैर्गौरधाम्नापयोधि -
र्द्यौपूष्णा भोगिलोको भुजगपरिवृढेनाकरक्ष्मेव रत्नै।
देवस्तावच्चिराय प्रथितपृथुयशा कीर्तिपृथ्वी तथेय
देवी च स्तात्प्रमोदावहदिवसवती पुत्रजन्मोत्सवेन॥ ७९॥

राजापि तदा

वस्तुवस्त्रवसुवाहनवर्ष याचकेषु स तथा किल चक्रे।
जातकल्पविटपिष्विव भूयस्तेषु याचनमनो न यथासीत्॥ ८०॥

——————

भूतानुराग। न केवल बन्दिवृन्दैरवनिपति स्तूयते, कितु क्वचित् कस्मिंश्चित्स्थाने सोविदल्ला कञ्चुकिन त्वरन्ते उत्सुका गच्छन्ति। कथभूता सौविदल्ला। बन्धूना स्वजनवर्गाणा तुष्टिदाने हर्षदानै कृत्वा अतनुमुद प्रचुरहर्षा वर्तन्ते। अपि च तथा च क्वचित्कस्मिंश्चित्स्थाने पुरोधा परोहित एव अमुना प्रकारेण आशिष आशीर्वादान् पठति व्यक्त वदति। कथभूत पुरोधा। कामितश्री वाञ्छितलक्ष्मीक। एव कथमिति चेत् इय प्रत्यक्षीभूता देवी चन्द्रमती महादेवी आकल्प दीर्घकाल भतृलक्ष्मी पतिलक्ष्मीमनुभवतात् भुङ्क्ताम्। कथम्। सार्धसह। कै सार्धम्। पुत्रपौत्रैश्च सह। चकारात्प्रपौत्रैश्च सह। समुच्चयालकार॥

स्वर्ग इत्यादि। पुरोधा आशीर्वाद ददाति — देवो यशोर्घमहाराजस्तावदनुक्रमेण चिराय दीर्घकाल पुत्रजन्मोत्सवेन प्रमोदावहदिवसवान् प्रमोदकारि दिवसवान् स्ताद्भवतु। ‘अर्थवशाद्विभक्तिविपरिणाम’ इति वचनादेवास्य पुस्त्वैकवचन दीयते। कथभूतो देव। प्रथितपृथुयशा प्रथित विख्यात पृथुविस्तीण त्रिभुवनव्यापक यश पुण्यगुणानुकीर्तन यस्य तथोक्त। तथा तेनैव प्रकारेण इय प्रत्यक्षीभूता देवी चन्द्रमती महादेवी च पुत्रजन्ममहोत्सवेन प्रमोदावहदिवसवती चिराय दीघकाल स्ताद्भवतु। कथभूता देवी। कीतिपृथ्वी कीर्ति पृथु विस्तीर्ण यस्या सा तथा। देव क इव। स्वर्ग इव देवलोक इव। यथा स्वर्ग कल्पद्रुमै कृत्वा प्रमोददिवसवान् भवति। देवी केव। भूरिव पृथ्वीव। यथा भू कुलधरणिधरै कुलपर्वतै कृत्वा प्रमोददिवसवती भवति। देव क इव। पयोधिरिव समुद्र इव। यथापयोधि गौरधाम्ना चन्द्रेण कृत्वा प्रमोदावहदिवसवान् भवति। देवी केव। द्यौरिव आकाशमिव। यथा द्यौ पूष्णा सूर्येण प्रमोदावहदिवसवती भवति। देव क इव। भोगिलोक इव पाताललोक इव। यथा भोगिलोको भुजगपरिवृढेन शेषनागेन्द्रेण प्रमोदावहदिवसवान् भवति। देवी केव। आकरक्ष्मेव आकरभूमिरिव। यथा आकरक्ष्मा रत्नै कृत्वा प्रमोदावहदिवसवती भवति। यथासख्यसमुच्चयोपमालकार॥

राजापि तदा। तस्मिन् काले राजापि यशोर्घमहाराज। वस्त्वित्यादि। याचकेषु

जातक्रिया किल विधाय स भूपतिर्मे
चक्रे यशोधर इति प्रथित च नाम।
यज्जीवितादपि निजान्वयजन्मभाजा
चेत पर स्पृहयति स्म यशोर्जनाय॥ ८१॥

पुनश्च किल तद्दशावशाद्ग्रथनमनोहरै सुकविलोकवाक्कुसुमसरैर्बान्धवननश्रवणभूता नीयमानव्यवस्था क्रमेणोत्तानशयदरहसितजानुचङ्क्रमणस्खलद्गतिगद्गदालापावस्था समनुबभूव।

तथा हि।

मुक्त क्षुभ्यति मञ्चकेषु लभते नैवान्यहस्ते रति
तातस्याङ्कगतश्च वक्षसि कुचावन्वेषते व्याकुल।

———————

बन्दिवारजीवनादिषु। किलेति लोकोक्तौ। तथा तेन प्रकारेण वस्तुवस्त्रवसुवाहनानि तेषा वर्षा विसग उत्सर्गो वितरण स तथा त चक्रे कृतवान्। तथा कथमिति चेत् यथा येन प्रकारेण तेषु याचकेषु याचनमन अभ्यर्थनचित्त भूय पुनरपि न आसीन्न बभूव। कथभूतेषु याचकेषु। जातकल्पविटपिष्विव जाता उत्पन्ना कल्पविटपिन कल्पवृक्षा येषु तथा तेषु। उपमालकार॥

जातक्रियामित्यादि। स भूपतिर्मे मम यशोधर इति प्रथित विख्यात नाम अभिधान चक्रे कृतवान्। किं कृत्वा। पूर्व जातक्रिया नालकर्तनादिकर्म किलेति लोकोक्तौ विधाय कृत्वा। यन्नाम निजा वयजन्मभाजा निजवशोत्पन्नाना नरेन्द्राणा चेत जीवितादपि परमुत्कृष्ट यशोजनाय यशउपार्जनार्थ स्पृहयति स्म वाञ्छितम्। जात्यलकार॥

पुनश्च पुनरपि च किलेति लोकोक्तौ वा क्रमेण अनुक्रमेण उत्तानशयदरहसितजानु चङ्क्रमणस्खलद्गतिगद्गदालापावस्था स यशोधरकुमार सम्यक्प्रकारेण अनुबभूव अनुभूतबान्। बालस्य पञ्चावस्था भुक्तवानित्यर्थ। उत्तानशयश्च उत्तान सन् उपरिमुख सन् शेते उत्तानशयनम्, दरहसित च मनाग्हास, जानुचङ्क्रमण च अष्ठीवभ्द्यागमनम्, स्खलद्गतिश्च स्खलद्गमनम्, गद्गदालापाश्च अस्फुटवचनानि, त एव अवस्थास्तेषा वा अवस्था अवस्थानानि ता कर्मतापन्ना। कथभूता अवस्था। सुकविलोकवाक्कुसुमसरैसत्कवि समूहवचनपुष्पमालाभि बान्धवजनश्रवणभूषणता नीयमानव्यवस्था बान्धवजनानां कुटुम्बवर्गाणा श्रवणानां श्रुतीना भूषणतामाभरणता नीयमानव्यवस्था नीयमाना प्राप्यमाना व्यवस्था अवस्थितिर्यासा अवस्थाना तास्तथोक्तास्ता। कथभूतै सुकविलोकवाक्कुसुमसरै। तद्दशावशाद्ग्रथनमनोहरै तद्दशावशाद्वा [ला ]वस्थावशात् प्रथनेन गुम्फनेन मनोहरै मनोज्ञै॥

तथा हि ता एवावस्था वर्णयति —

मुक्त इत्यादि। मञ्चकेषु पल्यङ्केषु मुक्तो धृत

स्वाङ्गुष्ठ वदने निधाय पिबति स्तन्येन शून्यानन-
स्त निष्पीड्य पुनश्च रोदिति शिशोश्चित्र विचित्रा स्थिति॥ ८२॥

दृष्टेषु पूर्वं रमते गृहीत स्पृष्ट कपोले च सफेनहास।
पुरोधसा स्वस्त्ययनोपचारमादाय हस्तेन मुखे दधाति॥ ८३॥

यत्रैव देव सदय विलोकते तत्रैव ते नाथ सुतोऽपि सादर॥
न केवल देहगुणै समस्त्वया धियाप्यय नूनमभिन्नवर्तन॥ ८४॥

यदेष बालोऽपि विनीतचित्त कृतादरो बन्धुषु तन्न चित्रम्।
को नाम चन्द्रस्य कलाप्रवृद्धौ नीलोत्पलोल्लासविधौ गुरुर्वा॥ ८५॥

स्वल्प रङ्गति जानुहस्तचरण किंचित्कृतालम्बन
स्तोक मुक्तकराङ्गुलि परिपतन्धात्र्या नितम्बे धृत।

——————

क्षुभ्यति व्याकुलो भवति। अन्यहस्ते रतिं सतोष च नैव लभते न प्राप्नोति। तातस्य। पितुरङ्कगत उत्सङ्ग प्राप्त सन् वक्षसि हृदये कुचों स्तनावन्वेषते मार्गति। कथभूत व्याकुलो दुर्बलीभूत। स्वाङ्गुष्ठ निजहस्तज्येष्ठ वदने मुखे निधाय वृत्वा पिबति धयति। स्तन्येन दुग्धेन शून्याननो रिक्तमुखस्त स्वाङ्गुष्ठ निष्पीड्य पीडयित्वा पुनश्च पुनरपि रोदिति रोदन करोति। शिशोर्बालकस्य स्थिति स्वभावो विचित्रा नानाप्रकारा। चित्रमाश्चर्यमेतत्। अर्थान्तरन्यासालंकार॥

दृष्टेषु पूर्वमित्यादि। गृहीत सन् पूर्वे दृष्टेषु मनुष्येषु रमते क्रीडति। कपोले स्पृष्ट छुपित सन् सफेनहासो भवति। पुरोधसा पुरोहिताना स्वस्त्ययनोपचार अक्षतादि दान हस्तेन करेण आदाय गृहीत्वा मुखे दधाति आस्ये धरति जात्यलंकार॥

यत्रैवेत्यादि। हे नाथ, यत्रैव यस्मिन्नेव पुरुषे देव पृथ्वीपति सदय दयासहित यथा भवत्येव विलोकते पश्यति, तत्रैव पुरुषे ते तव सुतोऽपि पुत्रोऽपि सादरो भवति आदरवान् जायते। न केवल देहगुणै कृत्वा त्वया भवता सम सदृशो वर्तते, किंतु अय पुत्रो धिया बुद्ध्यापि नून निश्चयेन अभिन्नवर्तन अपृथग्वर्ती वर्तते॥ जात्यलकार॥

यदेष इत्यादि। हे नाथ, एष तव पुत्रो बालोऽपि शिशुरपि विनीतचित्त विनयवन्मना सन् बन्धुषु कुटुम्बवर्गेषु कृतादरो विहितसन्मान तच्चित्रमाश्चर्य न वर्तते। अमुमेवाय आक्षेपेण द्रढयति— कलाप्रवृद्धौ कलाना वर्धने नीलोत्पलोल्लासविधौ इन्दीवराणा विकासविधाने वा। नामेति सभावनायाम्। चन्द्रस्य को गुरुर्वतते शिक्षको वर्तते। अपि तु न कश्चिद्गुरुरित्यर्थ। आक्षेपालंकार॥

स्वल्पमित्यादि। स्वल्प स्तोक रङ्गति चलति। कथभूत सन् स्वल्प रङ्गति॥

स्कन्धारोहणजातधी पुनस्य तस्या कचाकर्षणे
क्रूरालोकनकोपकल्मषमनास्तद्वक्त्रमाहन्ति च॥ ८६॥

आदायालकजा लकान्मणिचित पत्र करे न्यस्यति
स्थाने तस्य दधाति हस्तवलय द्वाभ्या विहीन पुन।
मुक्त्वा घर्घरमालिका कटितटाद्बद्ध्वाच ता पादयो-
र्निश्चेष्ट शिशुरेष जातरुदित खेदाय मोदाय च॥ ८७॥

तद्गेह वनमेव यत्र शिशव खेलन्ति न प्राङ्गणे
तेषा जन्म वृथैव लोचनपथ याता न येषा सुता।

———————

जानुहस्तचरण जानुभ्या अष्ठीवभ्द्याहस्ताभ्या पाणिभ्या चरति गच्छतीत्येवशील जानुहस्तचरण। ‘नन्द्यादेल्यु’ इति कर्तरि ल्युप्रत्यय। किंचित्कुतालम्बन किचित्मनाक् कृतालम्बन कृत विहित आलम्बन अङ्गुल्योरवलगन येन स तथा। स्तोक मनाक्मुक्तकराङ्गुलि मुक्ते परित्यक्ते करयोरङ्गुल्यौ येन स मुक्तकराङ्गुलि सन् परिपतन् भूमौ पतन् सन् धात्र्या उपमात्रा नितम्बे कटिपश्चाद्भागे धृत सन् स्कन्धारोहणजातधीर्भवति स्कन्धचटमोत्पन्न बुद्धिर्भवति। पुन पुनरपि अय बालकस्तस्या स्तनदायिन्या क चाकर्षणे सति क्रूरावलोकने सति कोपकल्मषमना कोपेन क्रोधेन कलुषितचित्त सन् तद्वक्र धात्र्या मातुर्वा आहन्ति च ताडयति। जात्यलंकार॥

आदायेत्यादि। धात्र्या मातुर्वा अलकजालकान् चूर्णकुन्तलसमूहान् मणिचित रत्नजटित पत्र तिलक आदाय गृहीत्वा करे हस्ते न्यस्यति धरति। (तस्य91 मणिरचितपत्र स्थाने ललाटे हस्तवलय करकङ्कण दधाति धरति। ) द्वाभ्या पत्रवलयाभ्या विहीन सन्पुन पश्चात् घर्घरमालिका कटितटात् मुक्त्वा छोटयित्वा ता घर्घरमालिका पादयोर्नि जचरणयोर्बद्ध्वावेष्टयित्वा एष प्रत्यक्षीभूत शिशुर्बालको निश्चेष्ट सन् बद्धपादत्वाच्चल नक्रियारहित सन् जातरुदित उत्पन्नरोदन खेदाय दुःखाय मोदाय हर्षाय च भवति। जात्यलकार॥

तद्गेहमित्यादि। हे नृपते हे राजन्, तद्गेह तत्प्रसिद्ध गृह वनमेव अटव्येव। तत्किम्। यत्र गेहे प्राङ्गणे चत्वरे शिशवो बालका न खेलन्ति न रमन्ते। हे नृप, तेषा पुरुषाणा जन्म उत्पत्तिर्वृथैव फल्ग्वेव निष्फलमेव। तेषा केषाम्। येषा पुरुषाणा सुता पुत्रा लोचनपथ नेत्रमार्ग न याता न गता। न दृष्टा इत्यर्थं। हे नृपते, तेषा पुरुषाणा अङ्गविलेपन च कर्पूरकस्तूरीचन्दनयक्षकर्दमादिविलेपनमङ्गराग पङ्कोपदेहै सम कर्दमविलेपनै सदृशम्।

तेषामङ्गविलेपन च नृपते पङ्कोपदेहै सम
येषा धूलिविधूसरात्मजरजश्चर्चा न वक्ष स्थले॥ ८८॥

लोलालकानि बहलाञ्जनलोचनानि
केलिश्रमश्वसितदुर्ललिताधराणि।
आलिङ्गनोद्गतवपु पुलका सुताना
चुम्बन्ति ये वदनकानि त एव धन्या॥ ८९॥

अम्बा तात इति ब्रवीति पितर चाम्बेति संभाषते
धात्रीपूर्वनिवेदितानि च पदान्यर्धोक्तितो जल्पति।
शिक्षालापविधौ प्रकुप्यति धृतो नास्ते स्थिरोऽय क्वचि -
व्द्याहूतो न शृणोति धावति पुन प्रत्युत्थित सत्वरम्॥ ९०॥

तदनु निवर्तिते प्रवर्तितसमस्तलोकोत्सवशर्मणि चौलकर्मणि सवय-

———————

तेषा केषाम्। येषा पुरुषाणा धूलिविधूसरात्मजरजश्चर्चाधूलिभि विधूसर ईषत्पाण्डुरो योऽसावात्मज पुत्रस्तस्य रजश्चर्चा धूलिविलेपन वक्ष स्थले हृदयस्थले न वर्तते। रूपकोपमालंकार॥

लोलालकानीत्यादि। हे नृपते, ये पुरुषा सुताना पुत्राणा वदनकानि मुग्धमुखानि चुम्बन्ति मुखेन स्पृशन्ति त एव पुरुषा धन्या पुण्यवन्त। कथभूतास्ते पुरुषा। आलिङ्गनोद्गतवपु पुलका आलिङ्गनेन आश्लेषेण उपगूहनेन उद्गता उत्पन्ना वपुषि शरीरे पुलका रोमहर्षणानि येषा ते तथा। कथभूतानि वदनकानि। लोलालकानि चञ्चलकुन्तलानि। पुन कथभूतानि वदनकानि। बहलाञ्जनलोचनानि बहल प्रचुरं अञ्जनं कज्जल लोचनेषु नेत्रेषु येषा तानि तथा। पुन कथभूतानि वदनकानि। केलिश्रमश्वसितदुर्ललिताधराणि केलीना क्रीडाना श्रमेण खेदेन यानि श्वसितानि निःश्वासास्तैर्दुर्ललितानि दुर्मनोहरा अधरा दन्तवास सि येषा तानि तथा च। जात्यलंकार॥

अम्बामित्यादि। अम्बा मातरं तात इति ब्रवीति हे पितरिति जल्पति आलपति। पितर च अम्ब हे मातरिति ब्रवीति। धात्रीपूर्वनिवेदितानि च पदानि धात्र्याउपमात्रा पूर्व निवेदितानि पदानि शब्दान् अर्धोक्तित साम्युक्तितो जल्पति वक्ति। शिक्षालापविधौ ‘हे पुन, एव क्रियते’ इति शिक्षाविधाने प्रकुप्यति कोप करोति। अय पुत्रो धृतो रक्षित सन् क्वचित् कस्मिंश्चित् स्थाने स्थिरो निश्चल सन् न आस्ते न तिष्ठति। व्याहूत आमन्त्रित सन् न शृणोति वचन नाकर्णयति। पुन पश्चात् प्रत्युत्थित स्खलितोत्थित सन् सत्वरं शीघ्र धावति उत्सुका गतिं करोति। जात्यलंकार॥

तदनु बालावस्थानन्तर चौलकर्मणि मुण्डनकर्मणि निवर्तिते निष्पादिते सति

सचिवसुतकृतानुशीलन समाचरितगुरुकुलोपनयन, प्रजापतिरिव सर्ववर्णागमेषु, पारिरक्षक इव प्रसख्यानोपदेशेषु, पूज्यपाद इव शब्दैतिह्येषु, स्याद्वादेश्वर इव धर्माख्यानेषु, अकलङ्कदेव इव प्रमाणशास्त्रेषु, पणिपुत्र इव पदप्रयोगेषु, कविरिव राजराद्धान्तेषु, रोमपाद इव गजविद्यासु, रैवत इव

———————

अह तदा तस्मिन् कुमारकाले गुरुजनैस्तद्विधोपाध्यायैरुपदिश्यमाना शिक्ष्यमाणा विद्या शास्त्राणि जग्राह गृहीतवान्। कथभूता विद्या। भूपकुलभूषणहेतुभूता राजकुलमण्डनराजभूता। कथभूत सन् विद्या जग्राह। स्वाध्यायधी स्वाध्याये पाठे धीर्बुद्धिर्यस्य स स्वाध्यायधी [अपर92 कथभूत सन् विद्या जग्राह। नियमवान् ब्रह्मचर्यव्रतोपपन्न। पुन कथभूत सन् विद्या जग्राह। विनयोपपन्न गुरुशुश्रूषातत्पर।] पुन कथभूत सन् विद्या जग्राह। सकलविद्याविदाश्चर्यप्रवणनैपुण्य आश्रित सन् सर्वविद्याविदग्धाना आश्चर्यप्रवण चित्तचमत्कारकरणकुशलनैपुण्य प्राप्त सन्। पुन कथभूत सन् विद्या जग्राह। परिप्राप्तगोदा नावसर परिप्राप्त समीपमागतो गोदानावसरो गोदानसमयो ब्रह्मचर्याश्रमविसर्जन यस्य स परिप्राप्तगोदानावसर। विद्या क इव जग्राह। पयोधिरिव समुद्र इव यथा पयोधि स्रोतस्विनीर्नदीर्गृह्णाति। कथभूता स्रोतस्विनी। अनेकमार्गा नानानिम्नोन्नतप्रदेशागता तथा विद्याश्च अनेकमतसबन्धिनी जग्राह। कथभूते चौलकर्मणि। प्रवर्तितसमस्तलोकोत्सवशर्मणि प्रवर्तित समस्ताना लोकाना जनाना उत्सवेन महोत्सवेन शर्म सौख्य यस्मादि ति तत्तथा तस्मिन्। अह कथभूत। सवय सचिवसुतकृतानुशीलन सवयोभि समव योभि सचिवसुतैर्मन्त्रिसुतै सह कृतमनुष्ठित अनुशीलन विद्याभ्यासो येन स तथोक्त। पुन कथभूतोऽहम्। समाचरितगुरुकुलोपनयन समाचरित सम्यगनुष्ठित गुरुकुलेन पुरो हितादिना उपनयन यज्ञोपवीत मुञ्जीबन्धनदर्भग्रहणादि यस्य स तथोक्त। पुनरपि कथभूतोऽहम्। सर्ववर्णागमेषु सर्वाक्षरस्वीकरणेषु नैपुण्यमाश्रित। क इव। प्रजापतिरिव ब्रह्मेव यथा प्रजापति सर्वेषा वर्णाना ब्राह्मणक्षत्रियवैश्यशूद्राणा आगमेषु नैपुण्यमाश्रयति। पुनरपि कथभूतोऽहम्। प्रसरयानोपदेशेषु गणितशास्त्रेषु नैपुण्यमाश्रित। क इव। पारिरक्षक इव यथा पारिरक्षको यति प्रसरयानोपदेशेषु जपशास्त्रेषु नैपुण्य प्राप्नोति। पुन कथभूतोऽहम्। शब्दैतिह्येषु व्याकरणशास्त्रेषु नैपुण्यमाश्रित। क इव। यथा पूज्यपादो देवनन्दी भट्टारक शब्दशास्त्रेषु नैपुण्यमाश्रयति। अपरं कथभूतोऽहम्। धर्माख्यानेषु धर्म शास्त्रेषु नैपुण्यमाश्रित। क इव। स्याद्वादेश्वर इव यथा स्याद्वादेश्वर सर्वज्ञ धर्माख्यानेषु दयालक्षणधर्मकथनलक्षणेषु नैपुण्यमाश्रयति। पुन कथभूतोहम्। प्रमाणशास्त्रेषु तर्क ग्रन्थेषु नैपुण्यमाश्रित। क इव। अकलङ्कदेव इव यथा अकलङ्कदेवो निष्कलङ्कस्य भ्राता प्रमाणशास्त्रेषु मीमांसाराधनेषु नैपुण्यमाश्रयति। पुन कथभूतोऽहम्। पदप्रयोगेषु सुमण्डि -

हयनयेषु, अरुण इव रथचर्यासु, परशुराम इव शस्त्राधिगमेषु, शुकनास इव रत्नपरीक्षासु, भरत इव संगीतकमतेषु, त्वष्टकिरिव विचित्रकर्मसु, काशिराज इव शरीरोपचारेषु, काव्य इव व्यूहरचनासु, दत्तक इव कन्तुसिद्धान्तेषु, चन्द्रायणीश इवापरास्वपि कलासु, सकलविद्याविदाश्चर्यप्रवणनैपुण्यमहमाश्रित परिप्राप्तगोदानावसरश्च

विद्यास्तदा गुरुजनैरुपदिश्यमाना
स्वाध्यायधीर्नियमवान्विनयोपपन्न।
जग्राह भूपकुलभूषणहेतुभूता
स्रोतस्वि

नीरिव पयोधिरनेकमार्गा॥ ९९॥

——————

तशब्देषु (सूक्तिवन्तशास्त्रेषु) नैपुण्यमाश्रित। क इव। पणिपुत्र इव पाणिन्याचार्य इव यथा पणिपुत्र पदप्रयोगेषु नेपुण्यमाश्रयति। पुन कथभूतोऽहम्। राजराद्धान्तेषु नीतिशास्त्रेषु नैपुण्यमाश्रित। क इव। कविरिव शुक्र इव यथा कवि राजराद्धान्तेषु नैपुण्यमाश्रयति। उक्त च— ‘शुको दैत्यगुरु काव्य उशना भार्गव कवि।’ पञ्चिकाकारेषु श्रीदेवाचार्य कविशब्देन बृहस्पतिमाह। पुन कथभूतोऽहम्। गजविद्यासु हस्तिशास्त्रेषु नैपुण्यमाश्रित। क इव। रोमपाद इव यथा रोमपाद अङ्गराजो गजविद्यासु नैपुण्यमाश्रित। पुन कथभूतोऽहम्। हयनयेषु शालिहोत्रशास्त्रेषु नैपुण्यमाश्रित। क इव। रैवत इव यथा रैवतो रविसुत अश्वशास्त्रेषु नैपुण्यमाश्रयति। पुन कथभूतोऽहम्। रथचर्यासु स्यन्दनकर्मसु नैपुण्यमाश्रित। क इव। अरुण इव यथा अरुण सूर्यसारथि रथकर्मसु नैपुण्यमाश्रयति। पुन कथभूतोऽहम्। शस्त्राधिगमेषु आयुध विज्ञानेषु नैपुण्यमाश्रित। क इव परशुराम इव यथा परशुरामो जमदग्निरेणुकासुत शस्त्राधिगमेषु नैपुण्यमाश्रयति। पुन कथभूतोऽहम्। रत्नपरीक्षासु नैपुण्यमाश्रित। क इव। शुकनास इव यथा शुकनासोऽगस्त्यो रत्नपरीक्षासु नैपुण्यमाश्रयति। पुन कथभूतोऽहम्। संगीतकमतेषु गीतनृत्यवादित्रशास्त्रेषु नैपुण्यमाश्रित। क इव। भरत इव यथा भरत ऋषभदेवपुत्र संगीतकमतेषु नैपुण्यमा श्रयति। पुन कथभूतोऽहम्। विचित्रकर्मसु नाना चित्रशास्त्रेषु नैपुण्यमाश्रित। क इव। त्वष्टकिरिव यथा त्वष्टकिर्देवसूत्रधारो विचित्रकर्मसु नैपुण्यमाश्रयति। पुन कथभूतोऽहम्। शरीरोपचारेषु नैपुण्यमाश्रित। क इव। काशिराज इव यथा काशिराजो धन्वन्तरि शरीरोपचारेषु वैद्यकशास्त्रेषु नैपुण्यमाश्रयति। पुन कयभूतोऽहम्। व्यूहरचनासु नैपुण्यमाश्रित। क इव। काव्य इव यथा काव्यो दैत्यगुरु शुक्र व्यूहरचनासु नैपुण्यमाश्रयति। पुन कथभूतोऽहम्। कन्तुसिद्धान्तेषु नैपुण्यमाश्रित। क इव। दत्तक इव यथा दत्तक

असपादितसस्कार सुजातमपि रत्नवत्।
सुतरत्न महीशाना सत्पदाय न जायते॥ ९२॥

सौधाय राज्यबन्धाय द्वावेतौ न सता मतौ।
घुणक्षीणप्रभ स्तम्भ स्वातन्त्र्योपहत सुत॥ ९३॥

पुनरुल्लिखितलाञ्छनचन्द्रसमवदनमण्डले लक्ष्मीकुचकलशविजयिभुजशिखरसौन्दर्यभाजि सपत्नसतानतरुस्तम्बोत्पाटनपटुदोर्दण्डमण्डलीविड

———————

कामशास्त्राचार्य कन्तुसिद्धातेषु कामशास्त्रेषु नैपुण्यमाश्रयति। पुन कथभूतोऽहम्। अपरास्वपि कलासु नैपुण्यमाश्रित चतु षष्टिकलासु नैपुण्यमाश्रित। क इव। च द्रायणीश इव। यथा चन्द्रायणीशश्चन्द्रकलासु नैपुण्यमाश्रित। श्लेषोपमादीपकसमुच्चयालकार॥

असपादितेत्यादि। महीशाना राज्ञा सुजातमपि सुतरत्न पुत्रमाणिक्य सत्पदाय राज्यपदनिमित्त न जायते न भवति। कथभूत सुतरत्नम्।असपादितसस्कारम् अनिष्पादितविद्याभ्यासम्। किवत्। रत्नवत् माणिक्यवत् यथा रत्न असपादितसस्कारं वेकटकृतसस्काररहित सुजातमपि वैदूर्यखनावुत्पन्नमपि सत्पदाय शोभनस्थानाय तरलस्थाननिमित्त न जायते न भवति। उपमालकार॥

सौधायेत्यादि। एतौ द्वौ पदार्थौसता विद्वज्जनाना सौधाय राजसदनाय राज्य बन्धाय राज्यस्थापननिमित्त न मतौ नकथितौ। न योग्यावित्यर्थ। एतौ द्वौ कौ। घुण क्षीणप्रभ कीटकविशेषभक्षितत्वात् क्षीणप्रभो निस्तेजस्क स्तम्भ सौधाधारकाष्ठम्। अन्यश्च स्वातन्त्र्योपहतो यदृच्छया पयटनविनष्ट सुत पुत्रश्च। यथासरयालकार॥

पुनश्च पुनरपि मयि यशोधरे पितर यशोर्घ उपचरति सेवमाने सति, तातेऽपि च मय्यपि मज्जन्मना मम समुद्भवेन ननु भुव पृथ्वी अनुशासति सति प्रतिपालयति सति, काश्चित् कियन्तोऽपि समा वर्षाणि व्यतीयुर्गता व्यतिका ता। कस्मिन् सति काश्चित्समा व्यतीयु। मम मे तारुण्यलावण्ये उदीर्णे उद्रिक्तेअवतीर्णे आगते सति। कथभूते तारुण्यलावण्ये। उल्लिखितलाञ्छनच द्रसमवदनमण्डले उल्लिखित दूरीकृत लाञ्छन मृगाकारो यस्य स उल्लिखितलाञ्छन स चासौ चन्द्रश्चद्रमास्तेन सम सदृश वदनमण्डल मुखमण्डल यस्मिन् तारुण्यलावण्ये तत्तथोक्त तस्मिन्। पुन कथभूते तारुण्यलावण्ये। लक्ष्मीकुचकलशविजयिभुजशिखरसौन्दर्यभाजि लक्ष्म्या कुचकलशौ स्तनघटौ तौ विजयते तिरस्कुर्वतीत्येवशील लक्ष्मीकुचकलशविजयिनी ते च ते भुजशिखरे उन्नतस्कन्धप्रदेशौ तयो सौन्दर्य सुन्दरत्व भजते आश्रयति यत् तारुण्यलावण्य तल्लक्ष्मीकुचकलशविजयिभुजशिखरसौन्दर्यभाक् तस्मिन्। पुन कथभूते तारुण्यलावण्ये। सपत्नसतानतरुस्तम्बोत्पाटनपटुदोर्दण्डमण्डलीविडम्बितस्तम्बेरमकराकारे सपत्नाना शत्रूणा सतान कुल स एव तरुस्तम्ब वृक्षस्कन्धस्तस्योत्पाटने उन्मूलने पटुश्चतुरतरा या।

म्बितस्तम्बेरमकराकारे श्रीसरस्वतीजलकेलिदीर्घिकालाघवकरणचतुरचक्षुषि मनागुद्भिद्यमानरोमश्यामिकामदरेखामण्डितगण्डस्थले दिग्गजालानस्तम्भशोभमानोरुणि स्मरविलासनिवासविलासिनीजनोन्मादसपाद नसिद्धौषधे ससारसारजन्मनि मनोजनटनाट्यमनोभिनवपात्रे निःशृङ्गशृङ्गारोत्तरङ्गान्तरङ्गभङ्गीभङ्गुरकरणवृत्तिनि समुत्सर्पद्दर्पोद्रेकाध कृतजगत्त्रये सतातजनस्य च परिजनस्य जनितयौवराज्यकण्ठिकाबन्धनमनोरथेऽवतीर्णे ममोदीर्णे तारुण्यलावण्ये,

———————

दोर्दण्डमण्डली तथा विडम्बितस्तिरस्कारमानीत स्तम्बेरमस्य गजस्य कराकार शुण्डा दण्डसस्थान येन तारुण्यलावण्येन तत्तथोक्त तस्मिन्। पुन कथभूते तारुण्यलावण्ये। श्रीसरस्वतीजलकेलिदीघिकालाघवकरणचतुरचक्षुषि श्रीश्चअभ्युदयलक्ष्मी, सरस्वती च जैनभारती, तयोर्जलकेलिदीघिके जलक्रीडावापिके तयोर्लाघवकरण तिरस्कारकरण तस्मिन् चतुरे विचक्षणे चक्षुषी लोचने यस्मिन् तत्तथोक्त तस्मिन्। पुन कथभूते तारुण्यलावण्ये।मनागुद्भिद्यमानरोमश्यामिकामदरेखामण्डितगण्डस्थले मनागीषदुद्भिद्यमानानि यानि रोमणि मुख्यलोमानि तेषा श्यामिका परेषा श्यामलत्वे ते एव मदरेखे दानरेखे ताभ्या मण्डिते शोभिते गण्डस्थले कपोलस्थले यस्मिन् तत्तथोक्त तस्मिन्। पुन कथभूते तारुण्यलावण्ये। दिग्गजालानस्तम्भशोभमानोरुणि दिग्गजालानस्तम्भवद्दिग्गजेन्द्र बन्धनस्तम्भाविव शोभमानौ अतिमनोहरौ ऊरू सक्थिनी यस्मिन् तारुण्यलावण्ये तद्दिग्गजालान स्तम्भशोभमानोरु तस्मिन्। पुनरपि कथभूते तारुण्यलावण्ये। स्मरविलास- निवासविलासिनीजनोन्मादसपादनसिद्धौषधे स्मरस्य कन्दर्पस्य विलास सभोगक्रीडा तस्य निवासा मन्दिरप्राया ये विलासिनीजना मनोहरस्त्रीसमूहास्तेषामुन्मादसपादने उन्मत्तत्वकरणे प्रथित्वविधाने सिद्धौषध निष्पन्नौषधसदृश यत्तारुण्यलावण्य तत्तथा तस्मिन्। पुन कथभूते तारुण्यलावण्ये। ससारसारजन्मनि ससारे सारं जन्म यस्य तारुण्यलावण्यस्य तत्तथा तस्मिन्। पुन कथभूते तारुण्यलावण्ये। मनोजनटनाट्यमानमनोभिनवपात्रे मनोज कन्दर्प स एव नटो भरताचार्यस्तेन नाट्यमान नर्तमान मनोभिनव पात्र चित्तप्रत्यप्रपान यस्मिन् तत्तथोक्त तस्मिन्। पुन कथभूते तारुण्यलावण्ये। निशृङ्गशृङ्गारोत्तरङ्गान्तरङ्गभङ्गी भडरकरणवृत्तिनि नि शृङ्गो निरङ्कुशो योऽसौ शृङ्गार वस्त्राभरणादिभावस्तेन उत्तरङ्गमुत्कल्लोल यदन्तरङ्ग मनस्तस्य भङ्गी वैचित्री तथा भङ्गुरा विघटनशीला करणाना पञ्चेन्द्रियाणा वृत्ति प्रवृत्तिर्यस्मिन् तारुण्यलावण्ये तत्तथोक्त तस्मिन्। पुन कथभूते तारुण्यलावण्ये। समुत्सर्पद्दर्पोद्रेकाध कृतजगत्त्रये समुत्सपन्नुत्पद्यमानो योऽसौ दर्पोद्रेको मदाधिक्य तेन अध कृत पादतले समानीत जगत्त्रय स्वर्गमृत्यु पातालभुवन यत्र तारुण्यलावण्ये तत्तथा तस्मिन्। पुन कथभूते तारुण्यलावण्ये। सतात-

तथा—

नितम्बलक्ष्म्या हृदयश्रिया च नित्य निजावासमहत्त्वलोभात्।
कृताल्पसीमो भजते च मध्यस्तदा तनुत्व परमस्मदीय॥ ९४॥

को मन्त्री नृपतेर्यशोधर इति ख्यात सुत को रणे
हन्ता वैरिबल यशोधर इति ख्यात सुत क सखा।
कार्यारम्भविधौ यशोधर इति ख्यात सुतो यस्य मे
लोकेष्वेवमवाप तातविषये प्रश्नोत्तरत्व स्थिति॥ ९५॥

पुनश्च गुरुमिवान्तेवासिनि स्वामिनमिव भृत्ये परज्योतिरिव योगवरचक्षुषि पितरमुपचरति सति, विश्रम्भेषु च द्वितीय इव हृदये, निदेशकर्मणि

———————

जनस्य च परिजनस्य जनितयौवराज्यकण्ठिकाबन्धनमनोरथे सतातजनस्य तातलोकसहितस्य परिजनस्य जनित उत्पादितो यौवराज्यपदस्य कण्ठिकाबन्धनमनोरथ स्थूलमुक्ता फलविनिर्मितग्रीवाभरणविन्यासनमनोरथो दौर्हृद यत्र तारुण्यलावण्ये तत्तथोक्त तस्मिन्। तथा तेनैव प्रकारेण तारुण्यलावण्यागमनप्रकारेण तदा तस्मिन् तारुण्यलावण्यागमनकाले पर केवल अस्मदीयो मध्यो ममोदरप्रदेश तनुत्वक्षामत्व भजते चाभजत् प्राप्तवान्। कथभूतो मध्य। नितम्बलक्ष्म्या कटिपश्चात्प्रदेशश्रिया हृदयश्रिया च चक्ष स्थललक्ष्म्या चनित्य सर्वकाल निजावासमहत्त्वलोभात् स्वकीय आवासबृहत्त्वलौल्यात् कृताल्पसीम इव कृता अल्पा सीमा मर्यादा यस्य मध्यस्य स कृताल्पसीम। उत्प्रेक्षालंकार॥

को मन्त्रीत्यादि। यस्य जगत्प्रसिद्धस्य मे मम यशोधरकुमारस्य स्थिति स्वभावो लोकेषु प्रश्नकारकजनेषु एवममुना प्रकारेण तातविषये यशोर्घमहाराजगोचरे प्रश्नोत्तरत्व अवाप प्राप्तवती ( बान् )। एव कथमिति चेत् लोक पृच्छति नृपतेर्यशोर्घमहाराजस्य मन्त्री बुद्धिसचिव को वर्तते। अपरलोक कथयति यशोधर इत्यभिधान ख्यातो जगत्प्रसिद्ध सुत पुत्रो वर्तते। कोऽपि लोक पृच्छति नृपतेयशोर्घमहाराजस्यरणे सग्रामे वैरिबल शत्रुसैन्य हता विध्वसक सेनापति को वर्तते। अपरो लोकस्तस्योत्तरं ददाति यशोधर इत्यभिधान ख्यात पृथिव्या प्रसिद्धो वर्तते। कश्चिल्लोकपृच्छति नृपतेर्यशोर्घमहाराजस्य कार्यारम्भविधौ सैन्यचालनाद्यारम्भविधाने सखा मित्र को वर्तते। अपरस्तु कथयति यशोधर इत्यभिधान ख्यात सुतो वर्तते। प्रश्नोत्तरालकार॥

मयि कि कुर्बति सति कतिचित् समयान् व्यतीयु। पितरं वप्तारं उपचरति सेवमाने सति। क कस्मिन्निव। गुरुमाचार्य अन्तेवासिनि शिष्ये इव यथा अन्तेवासी गुरुमुपचरति। सेवमाने सति स्वामिन राजान भृत्ये इव सेवके इव यथा भृत्य स्वामिनमुपचरति। पुन क कस्मिन्निव। परंज्योति परमात्मान योगवरचक्षुषीव यथा योगवरचक्षुर्योगी-

धनक्रीत इव दासे, विधेयताया स्वकीय इव चेतसि, निर्विकल्पतायामव्यभिचारिणीव सुहृदि, मयि प्रतिपन्नतदाराधनैकतानमनसि, अपरेषु च तेषु तेषु तदाज्ञावसरेष्वेकमप्यात्मान हृद्याशाविवोदकपात्रेष्वनेकमिव दर्शयति, दानमानाभ्यामन्यत्र सर्वमपि परिजन तदादेशविधिषु विदूरयति, देवताराधनेषु च तातस्य प्रतिचारिणि, गुरुजनोपासनेषु प्रतिवपुषि, धर्मनियोगेषु पुरोधसि, शास्त्राभ्यासेषु शिष्यसधर्मणि, विद्यागोष्ठीषु कलोदाहरणसाक्षिणि, रथचर्यासु यन्तरि, करिविनोदेष्वभिषादिनि, हयक्रीडासु चामरधृति, स्वैरविहारेष्वातपत्रोपकृति, धर्मासनेषु कार्यपुरश्चारिणि, समरसमयेषु सुभटा-

———————

श्वरोऽध्यात्मविद्यति परज्योतिरुपचरति। पुनश्च कथभूते सति काश्चित्समा व्यतीयु। विश्रम्भेषु विश्वासेषु द्वितीये अपरे हृदये इव मनसीव। निदेशकर्मणि आदेशकरणे धनक्रीते दासे इव स्वायत्ते येन गृहीते कर्मकरे इव। विधेयताया कर्तव्यताया स्वकीये निजे चेतसीव चित्ते इव। निर्विकल्पताया आदेशस्य अविचारणाया अव्यभिचारिणी अवैपरीत्यभागिनी सुहृदीव सख्यामिव। प्रतिपन्नतदाराधनैकतानमनसि प्रतिपन्नमङ्गीकृत तदाराधने एकतान अनन्यवृत्ति मनश्चित्त यस्य सोऽह प्रतिपन्नतदाराधनैकतानमनास्तस्मिन्। पुनश्च मयि कि कुर्वति सति काश्चित्समा व्यतीयु। अपरेष्वन्येषु तेषु तेषु जगत्प्रसिद्धेषु तदाज्ञावसरेषु पितुरादेशसमयेष्वेकमप्यद्वितीयमप्यात्मान मम जीवनमनेक नानाप्रकार दर्शयतीव प्रेक्षयतीव। केषु कस्मिन्निव। उदकपात्रेषु उदकभाजनेषु हृद्याशाविव चन्द्रमसीव। पुनश्च मयि किं कुर्वति सति। दानमानाभ्यामन्यत्रसवमपि परिजन तदादेशविधिषु विदूरयति सति तदादेशविधिषु पितु शिष्टविधिनेषु सब मपि परिजन समस्तमपि परिवार विदूरयति उत्सारयति सति। कथम्। अन्यत्र विना ताभ्या विना दानमानाभ्या दानाद्विना मानाच्च विना दान च पितैव ददाति। पुनश्च मयि कथभूते सति। देवताराधनेषु च देवतापूजासु तातस्य वप्तु प्रतिचारिणि प्रतिचारके सति। पुनश्च मयि कथभूते सति। गुरुजनोपासनेषु प्रतिवपुषिगुरुजनाना मातृपितृ उपाध्यायादीना उपासनेषु सेवासु प्रतिवपुषि प्रतिशरीरे। [पुनश्च मयि कथभूते सति। धर्मनियोगेषु पुरोधसि धर्ममागेषु पुरोहिते सति। ] पुनश्च मयि कथभूते सति। शास्त्राभ्यासेषु शास्त्रानुशीलनेषु शिष्यसधर्मणि शिष्यसदृशे सति। पुनश्च मयि कथभूते सति। विद्यागोष्ठीषु विद्याचारेषु कलोदाहरणसाक्षिणि कलाना उदाहरणाना दृष्टान्तवचनाना साक्षिणि प्रतिभुवि सति। पुनश्च मयि कथभूते सति। रथचर्यासु रथप्रवीणेषु यन्तरि सा रथौ सति। पुनश्च मयि कथभूते सति। करिविनोदेषु अभिषादिनि हस्तिना क्रीडासु अभिषादिनि प्रोतारे आधोरणे सति। पुनश्च मयि कथभूते सति। हयक्रीडासु चामर धृति अश्वकेलिषु चामरधृति प्रकीर्णकधारिणि सति। पुनश्च मयि कथभूते सति। स्वेर-

ग्रेसरतया विक्रमिणि, परेण च तेन तेन विनयकर्मणा सकलस्यापि लोकस्य वदनारविन्देषु स्वकीय यशोहस प्रचारयति, श्रवणाञ्जलिपुटेषु च निजकीर्तिसुधारस प्रवर्षयति,

तातेऽपि मज्जन्मना रत्नाकर इवेन्दिरानुजेन धर्माराम इव फलसपदा प्राक्पर्वत इव द्युमणिमण्डलेन सर्गादिदिवस इव प्रजापतिना द्वीपमध्य इव मन्दरेणात्मान बहुमन्यमाने, सकलाकूपारकरपरिग्रहा कुलस्त्रियमिवैकभोग्या भुवमनुशासति सति, तैस्तैर्मनोभिलाषासादिसवादै सुखसकथाविनोदैर्मुहूर्तसमया इव समा काश्चिव्द्यतीयु।

———————

विहारेषु वनक्रीडादिषु आतपत्रोपकृति छत्रोपकारके सति। पुन कथभूते सति। धर्मासनेषु कायपुरश्चारिणि धर्मासनेषु आस्थानेषु सभासु विषये कार्याणा पुरश्चारिणि अग्रगण्ये सति। पुन कथभूते सति। समरसमयेषु सुभटाप्रेसरतया विक्रमिणि सग्रेमावसरेषु सुभटाना सहस्रभटलक्षभटकोटीभटाना अग्रेसरतया मुख्यत्वेन विक्रमिणि पराक्रमकारिणि। पुनश्च किं कुर्वति सति। परेण च तेन तेन विनयकर्मणा सकलस्यापि लोकस्य वदनारविदेषु स्वकीय यशोहस प्रचारयति परेण च उक्तोर्वरितेन तेन तेन जगत्प्रसिद्धेन विनयकर्मणा प्रश्रयव्यतिकरेण सकलस्यापि समग्रस्यापि लोकस्यजनस्य वदनारविन्देषु मुखकमलेषु स्वकीय निज यशोहस यश श्वेतच्छद पक्षिण प्रचारयति प्रवेशयति सति। पुनश्च कि कुर्वति सति। श्रवणाञ्जलिपुटेषु च निजकीर्तिसुधारस प्रवर्षयति सति कर्णाञ्जलिपुटेषु आत्मीयकीतिद्रव अमृतद्रव सकलेन लोकेन वर्षण कार यति सति॥

तातेऽपि मज्जन्मना मम सभवेन कि कुर्वाणे सति। आत्मान बहुमन्यमाने सति। कस्मिन् केनेव। इन्दिरानुजेन लक्ष्मीलघुभ्रात्रा चन्द्रेण कृत्वा रत्नाकरे समुद्र इव आत्मान बहुमन्यमाने। पुन कस्मिन् केनेव। धर्मारामे फलसपदेव यथा फलसपदा कृत्वा फलसपत्त्या कृत्वा धर्मारामो धर्मोद्यान आत्मान बहुमन्यते। पुन कस्मिन् केनेव। द्युमणिमण्डलेन श्रीसूर्यबिम्बेन प्राकपर्वत उदयाचल इव आत्मान बहु मन्यते। पुन कस्मिन् केनेव। प्रजापतिना सर्गादिदिवसे इव यथा प्रजापतिना ब्रह्मणा कृत्वा सर्गादिदिवसे सृष्टिप्रथमदिन आत्मान बहुमन्यते। पुन कस्मिन्केनेव। द्वीपमध्य इव मन्दरेण यथा मन्दरेण मेरुणा द्वीपमध्ये जम्बूद्वीप आत्मान बहु मन्यते। ताते पुन कि कुर्वति सति। भुव पृथ्वीं एकभोग्या अद्वितीयपुरुष भोग्या अनुशासति पालयति सति। कथभूता भुवम्। सकलाकूपारकरपरिग्रहा सकला समग्रा ये अकूपाराश्चत्वार समुद्रास्तेषा तेषु वा करस्य भागधेयस्य परिग्रह स्वीकारो यस्या भुवि सा सकलाकूपारकरपरिग्रहा ताम्। पुन कथभूता भुवम्। कुलस्त्रियमिव यथा

एव रत्नकाञ्चनयोरिव समसमायोगेन धनदनलकूबरयोरिव परस्परप्रीत्या धनजयजयन्तयोरिव महोपचयैश्वर्यरसेनाधोक्षजमनोजयोरिव चान्योन्यानुवर्तनेन नित्यमावयोर्वर्तमानयोरेकदा पुरदरपुरपताकाञ्चलचुम्बनोचितमण्डले वनेजवनविकासविलासाविरलवारलाजनमनसि मनसिजकलहविगलितकालेयपौलोमीकपोलकोमले हरिहर्म्यभर्मनिर्मितकलशकान्तिविलोपिनि पुरुहूतपुरध्रिकाधरप्रसाधनजतुरसोत्कटपटलपेशले शचीश्रवणावतसार्पितपारिजातमञ्जरीजालजयिनि सुरतसहचरोपचारच्युतालक्तकलेपसपल्लवेषु स्तुतिमुखराम्बरचरीनिकुरुम्बबिम्बाधरपल्लवेषु विकचमानकमलकोशप्रकाशप्रसरै करै पुन

——————

कुलस्त्री कुलवधूरेकभोग्या भवति। समा कथभूता। तैस्तैर्जगत्प्रसिद्धै सुखसक्थाविनोदै सुखस्य परमानन्दलक्षणस्य सबन्धिनो ये कथाविनोदा क्थाकुतूहलानि त सुखसकथाविनोदै मुहूर्तसमया इव घटीद्वयलक्षणा इव। कथभूतै सुखसकथाविनोदै। मनोभिलाषासादिसवादै मनोभिलाषाणामासादिन प्रापका सवादा साधुवचनानि येषु सुखसकथाविनोदेषु ते तथा तै॥

एवमित्यादि। एवममुना प्रकारेण नित्य सर्वकालमावयो पितापुत्रयोर्यशोर्घयशोधरयोरन्योन्यानुवर्तनेन परस्परानुकूलतया वतमानयो सतोरेकदा एकस्मिन्नवसरे तस्य जगत्प्रसिद्धस्य यशोर्घमहाराजस्य आज्यावेक्षण घृतमध्ये मुखावलोकन दर्पणनिरीक्षण च कुर्वत पलिताङ्कुरदर्शनमभूत् पलितकेशनवोद्भिद्विलोकन बभूव (मभूत्)। कथभूतस्य यशोर्घमहाराजस्य। विजयोर्जितराज्यस्य विजयेन सर्वशत्रूणामभिमानमर्दनेन ऊर्जितमुन्नतमप्रतिहत राज्य राज्यव्यापारो यस्य स विजयोर्जितराज्यस्तस्य विजयोर्जितराज्यस्य। इति क्रियाकारकसबन्ध।आवयो कथभूतयो सतो। सम समायोगेन सदृशसयोगेन कृत्वा रत्नकाञ्चनयोरिव मत्पिता रत्नसदृश अह काञ्चनसदृश। परस्परप्रीत्याअन्योन्यस्नेहेन धनदनलकूबरयोरिव यशोर्घो धनदसदृश अह यशोधर नलकूबरसदृश कुबेरपुत्रसमान। महोपचयैश्वर्यरसेन कृत्वा महान् गरीय उपचयो वृद्धिस्तेनोपलक्षित यदैश्वर्य विभूतिस्तस्य रसेन अनुरागेण वनजयजयन्तयोरिव यशोर्घो धनजयसदृशो देवेन्द्रसमान अह जयन्तसदृशो देवेन्द्रपुत्रसमान। अन्योन्यानुवर्तनेन परस्परानुकूलतया अधोक्षजमनोजयोरिव नारायणप्रद्युम्नयोरिव। पुनश्च कस्मिन् सति कि कुर्वति सति पलिताङ्कुरदर्शनमभूत्। गभस्तिमति (मालिनि) श्रीसूर्ये पुन पुनरपि करैकिरणें कृत्वा स्तुतिमुखराम्बरचरीनिकुरुम्बबिम्बा धरपल्लवेषु अपरमेव पूर्वमेव किमपि अनिवचनीय अयावकाहार्य अयावकेन अलक्तकेन आसमन्तात् हर्तुशक्यते तिरस्कर्तुशक्यते उपमान प्राप्तुशक्यते अयावक-

रपरमेव किमप्ययावकाहार्यं सौन्दर्यं सृजति सति गभस्तिमति, तपनतापसोञ्छितच्छाये इव तमस्तापिच्छगुलुञ्छतुच्छे वियत्कच्छे, सकलदिक्पालवि-

———————

हार्य ईदृग्विव सौन्दर्य मनोहरत्व रक्तिमान सृजति कुवति सति। स्तुतिभि कृत्वा स्तुतिषु वा स्तवनेषु मुखरा वाचाला या अम्बरचर्य देव्यो विद्याधर्यो वा तासा निकुरुम्बा समूहास्तेषा बिम्बाधरपल वेषु परिपक्वतिन्दुकेरिफलसदृशैौष्ठप्रान्तेषु करै सौन्दर्य सृजति सति। कथभूतेषु स्तुतिमुखराम्बरचरी निकुरुम्बबिम्बाधरपल्लवेषु। सुरतसहचरोपचारच्युतालक्तकलेपसपल्लवेषु सुरतसहचराणा मैथुनक्रीडासखीना भतॄणा उपचारस्य पूजाया सबन्धी च्युत पतितो योऽसावलक्तकलेपो लाक्षारसलेपन तस्य सपत् शोभातस्या लवा लेशा येषु अधरपल्लवेषु ते सुरतसहचरोपचारच्युतालक्तकलेपसपल्लवास्तेषु। कथभूतै करै। विकचमानकमलकोशप्रकाशप्रसरै विकचमानानि विकसन्ति यानि कमलानि पद्मानि तेषा कोशो मध्यप्रदेशस्तस्य प्रकाशवत्तेजोवत्प्रसर प्रवतन येषा कराणा ते तथोक्तास्तै। कथभूते गभस्तिमति (मालिनि)। पुरदरपुरपताकाञ्चलचुम्बनोचितमण्डले पुरदरस्य यत्पुर नगर पूर्वदिशि सस्थित इन्द्रदिक्पालपत्तन तस्य पताका ध्वजास्तासामञ्चलानि प्रान्तास्तेषा चुम्बने स्पर्शने उचित योग्य निकटतर मण्डल बिम्ब यस्य गभस्तिमत स तथोक्तस्तस्मिन्। पुन कथभूते गभस्तिमति। वनेज वनविकासविलासाविरल्वारलाजनमनसि वनेजवनाना कमलसमूहाना विकास स्फुटत्व तस्य विलासो भोगस्तत्र अविरल घन वारलाजनाना हसीसमूहाना मनश्चित्त यस्मिन् गभस्तिमति स वनेजवनविकास विलासाविरलवारलाजनमनास्तस्मिन्। पुन कथभूते गभस्तिमति। मनसिजकलहविगलितकालेय पौलोमीकपोलकोमले मनसिजस्य कदर्पस्य कलहो मैथुनक्रीडा तेन विगलित च्युत कालेय कुङ्कुम यस्य स चासौ पौलोमीकपोल इन्द्रस्त्रीगण्डस्थल तद्वत्कोमलो मृदुलो मनोहर तस्मिन्। तत्पुरुष समास। पुन कथभूते गभस्तिमति। हरिहर्म्यभर्मनिर्मितकलशकान्तिविलोपिनि हरिहर्म्यं इद्रभवन तस्य सबन्धी भर्मनिर्मित काञ्चनमयो योऽसौ कलशस्तस्य कान्ति शोभा ता विलोपयतीत्येवशीलो हरिहर्म्य भर्मनिर्मित कलशकान्तिविलोपी तस्मिन्। पुन कथभूते गभस्तिमति। पुरुहूतपुरधिकाधरप्रसाधनजतुरसोत्कटपटलपेशले पुरुहूतस्य इन्द्रस्य पुरध्रिका बालपत्नी तस्या अधरो दन्तच्छदस्तस्य प्रसाधनमण्डन योऽसौ जतुरसो द्रुमाम यनिर्यासस्तेनोत्क्ट पुटो योऽसौ पटल पिचूपूपस्तद्वत् पेशलस्तस्मिन्। पुन कथभूते गभस्तिमति। शचीश्रवणावतसार्पितपारिजातमञ्जरीजालजयिनि शच्या इन्द्राण्या श्रवणयो कर्णयो अवतसाय कर्णपूराय अर्पित यत्पारिजातमञ्जरीजाल दिव्यपुष्पवल्लरीस मूहस्तज्जयति तिरस्करोतीत्येवशील शचीश्रवणावतसार्पितपारिजातमञ्जरीजालजयी तस्मिन्। पुन कथभूते सति पलिताङ्कुरदर्शनमभूत्। वियत्कच्छे गगनवने तमस्तापिच्छ गुलुञ्छतुच्छे तमो अन्धकार तदेव तापिच्छ कालस्कन्धवृक्षस्तस्य गुलुञ्छैर्लुञ्छिभि,

लासिनीसीमन्तसिन्दूरसततिसुन्दरालेखरेखासु गगनविशिखासु, खरकिरणकेसरिक्रमान्तिभीत इवापरगिरिशिखरान्तरविहारिणि शिशिरकरकरिणि, प्रालेयलवलिपिषु विलीनेष्विव लोकलोचना लोकलोपिषु नक्षत्रनिकरेषु, विधुरावसर इव मित्रैकशेषता बिभ्राणे नमसि, वीरनरेश्वर इव करमात्रतन्त्रत- यात्मप्रतापप्रकाशनावसायेऽदितितनये, अरुणमणिमहीभृत्प्रभापिञ्जरितरुचि-

——————

स्तुच्छे हीने सति। कस्मिन्निव। तपनतापसोञ्छितच्छाये इव तपन श्रीसूय स एव तापस तपश्चरणकरणत्वात्तेन उच्छिता शे (स्फे) टिता छाया तस्य वियत्कच्छस्य स तपनतापसोञ्छितच्छाय तस्मिन्। वृक्षस्य पत्रपुष्पेषु चुण्टितेषु छाया न भवतीति भाव। पुनश्च कासु सतीषु पलिताङ्कुरदर्शनमभूत्। सकलदिक्पालविलासिनी सीमन्तसिन्दूरसततिसुन्दरालेखरेखासु गगनविशिखासु आकाशमागषु। कथभूतासु गगनविशिखासु। सकलाश्च ते दिक्पाला इन्द्राग्नियमनितिवरुणवायुकुबेरेशानास्तेषा वि लासिनीना सीमन्तेषु केशभागेषु या सिन्दूरसततयो गर्भनामश्रेणयस्तद्वत् सुन्दार। मनोहरा आलेखरेखा विन्यासरेखायासु गगनविशिखासु तास्तथा तासु। पुनश्च कस्मिन् सति पलिताङ्कुरदर्शनमभूत्। शिशिरकरकरिणि चन्द्रहस्तिनि अपरगिरिशिखरान्तरविहारिणि अस्ताचलपर्वतशृङ्गस्य अन्तरे अन्तरस्मिन् विहारिणि पर्यटति सति। कथभूते शिशिरकरकरिणि। उत्प्रेक्षते—खरकिरणकेसरिक्रमाकान्तिभीत इव खरकिरण श्रीसूर्य स एव केसरी सिंह गगनाटव्यामेकाकिविहारित्वात् तस्य क्रमा पादास्तेषामा क्रान्तिर्व्याप्तिस्तस्या भीतो भय प्राप्त खरकिरण केसरिक्रमाक्रान्तिभीतस्तस्मिन् तथोक्ते। पुनश्च केषु सत्सु पलिताङ्कुरदर्शनमभूत्। नक्षत्र निकरेषु तारासमूहेषु लोकलोच नालोकलोपिषु सत्सु लोकाना लोचनानि नेत्राणि तेषामालोकात् उद्योतात् लुम्पन्तीत्ये वशीला लोक्लोचनालोकलोपिनस्तेषु। लोकाना दृष्टिषु नायान्तीत्यर्थ। नक्षत्रनिकरेषु कथभूतेषु। उत्प्रेक्षते—प्रालेयलवलिपिषु विलीनेष्विव विगलितेष्विव। पुनश्च कस्मिन् सति पलिताङ्कुरदर्शनमभूत्। नभसि आकाशे मिनैकशेषता बिभ्राणे सति। सूर्यएव एक अद्वितीय आकाशे स्थित, अपरे नक्षत्रादय सर्वे नष्टा इत्यर्थ। नभसि कथभूते। उत्प्रेक्षते—विदुरावसरे इव विधुरावसरे कष्टवेलाया मित्रमेव समीपे तिष्ठति, अन्ये सर्वेऽपि पलायन्ते नश्यन्ति। पुनश्च कस्मिन् सति पलिताङ्कुरदर्शनमभूत्। अदितितनये श्रीसूर्ये करमात्रतन्त्रतया किरणमात्रपरिग्रहतया आत्मप्रतापप्रकाशनावसाये आत्मन प्रतापस्य प्रकाशने प्रकटने अवसाय उद्यमो यस्य स तथोक्तस्तस्मिन्। कस्मिन्निव। वीरनरेश्वर इव यथा वीरनरेश्वर स्तुत्रकवीरो नृप करमात्रेण अल्पभागधेयेन तन्त्रेण सैन्येन आत्मप्रतापप्रकाशनावसायो भवति। अपर कस्मिन् सति पलिताङ्कुरदर्शनमभूत्। समस्तेऽपि समग्रेऽपि विहायस्याकाशे उपलक्ष्यमाणे सति। कथभूते विहायसि।

प्रविरलनीलिके विफलफेनस्फीतिनि निस्तरङ्गसङ्गे सागराम्भसीवोपलक्ष्यमाणे समस्तेऽपि विहायसि, भूर्जकुजवल्कलदुकूले लतालतान्तनूतनोत्तसचकासिनि विकसत्कोकनदामोदसान्द्रितशरीरे विश्वभराधरदरोज्झितनिर्झरशीकरासारमुक्ताफलितवपुषि दिक्वरटिकटकन्दरद्रवद्दानासवास्वादलङ्घिते सविधप्रधावद्गन्धलुब्धमधुकरीसमाजकूजितालोकशब्दसदर्भिणि झिल्लीकाझल्लरी-

———————

अरुणमणिमहीभृत्प्रभापिञ्जरितरुचिप्रविरलनीलिके। अरुणमणिमहीभृतो रक्तमणिपर्वतस्य उदयाचलस्य प्रभाभिस्तेजोभि पिञ्जरिता पीतरक्तीकृता या रुचि शोभा तया प्रविरला अल्पतरा नीलिका कृष्णभावो यस्य विहायसस्तथोक्त तस्मिन्। विहायसि कथभूते। निस्तरङ्गसङ्गे सागराम्भसीव कल्लोलसङ्गरहिते समुद्रजले इव। कथभूते सागराम्भसि। विफलफेनस्फीतिनि विफला नष्टा फेनस्फीतिडिण्डीर वृद्धिर्यस्येति तद्विफल फेनस्फीति तस्मिन् विफलफेनस्फीतिनि। यथा समुद्रजलमध्यस्थितरतमणिपर्वत तेजसा अलनीलिक (?) समुद्रजल भवति। पुनश्च कस्मिन् सति पलिताङ्कुरदर्शनमभूत्। मरुति वायौ शनै शनैमन्द मन्द परिसरति पर्यटति प्रवर्तमाने आगच्छति। मरुति कथभूते। दिवाभुजगे इव दिवाकामुके इव यथा दिवाभुजगो हि कामी सीमन्तिनी स भावयितु सभूषयितु सतोषयितु शनै शनै परिसरति तथा ककुप्सीमन्तिनीर्दिग्वधू सभावयितु मरुत्यागच्छति सति। कथभूते मरुद्दिवाभुजगे। भूर्जकुजवल्कलदुकूले भूर्जकुजा भूर्जवृक्षास्तेषा वल्कलानि त्वचो दुकूलानि यस्य स तथा तस्मिन्। पुन कथभूते मरुद्दिवाभुजगे। लतालता तनूतनोत्तसचक्रासिनि लताना वल्लीना लतान्तानि पुष्पाणि तान्येव नूतनोत्तस मुकुट कर्णपूरश्च तेन चकास्ति शोभते इत्येवशील लतालतान्तनूतनोत्तसचकासी तस्मिन्। पुनरपि कथभूते मरुद्दिवाभुजगे। विकसत्कोकन दामोदसान्द्रितशरीरे विकसति स्फुटन्ति यानि कोकनदानि रक्तकमलानि तेषामामोदेन परिमलेन सान्द्रित स्थूलित शरीर यस्य स तथोक्तस्तस्मिन्। पुन कथभूते मरुद्दिवाभुजगे। विश्वभराधरदरोज्झितनिर्झरशीकरासारमुक्ताफलितवपुषि विश्वभराधरा पर्वतास्तेषा दराभिर्गुहाभिरुज्झिता मुक्ता ये निर्झरशीकरा अध पतत्पानीयप्रवाहास्ते षामासारा समूहास्तैर्मुक्ताफलित मौक्तिकाभरणसहित कृत वपु शरीर यस्य स तथोक्तस्तस्मिन्। पुन कथभूते मरुद्दिवाभुजगे। दिक्करटिकटकन्दरद्रवद्दानासवास्वादलङ्घिते दिक्करटिना दिग्गजाना कटकन्दराणि कपोलस्थलविवराणि तेभ्यो द्रवत् प्रस्रवत् यद्दान मदस्तदेव आसवो मद्य तस्य आस्वादेन पानेन लङ्घितो विह्वलीभूतो यत्र तत्र सचरणशीलस्तस्मिन्। पुन कथभूते मरुद्दिवाभुजगे। सविधप्रधावद्गन्धलुब्धमधुकरीसमाजकूजितालोकशब्दसदर्भिणि सविधे समीपे प्रधावन्त्य शीघ्रगतिं कुर्वन्त्यो या गन्धलुब्धमधुकर्यं परिमललम्पटभ्रमर्यस्तासा समाज समूहस्तस्य कूजित शब्दित तदेव आलोकशब्दो जयजयशब्दस्तस्य सदभो गुम्फो विद्यते यस्य स तथोक्तस्तस्मिन्।

स्वरसूचितसचारे ककुप्सीमन्तिनी सभावयितु दिवाभुजगे इव शनै शनै परिसरति मरुति, त्रिदिवमुनिमण्डलीस्खलितजलदेवताजलकेलिकुतूहले जाह्नवीजले, वासरकरमुद्दिश्य द्विजातिहस्तोदस्तास्तोकस्तबकरक्तचन्दनच्छटाछद्मसिन्दूर्यमाणमण्डले व्योमसामजकुम्भस्थले, पालिन्दमन्दिरोदरतारतरोच्चार्यमाणमागधमङ्गलोल्लासतुन्दिले नगरदेवताङ्गणास्फालितविविधवाद्यो द्धुरध्वानलोहले नवसमागमानन्दमन्थरमिथुनचरपतङ्गप्रलापकाहले कमलि-

———————

पुन कथभूते मरुद्दिवाभुजगे। झिल्लीकाझल्लरीस्वरसूचितसचारे झिल्लीका कसायस्तित्तिर्यो जीवा पतङ्गजालयस्ता एव झल्लर्यों जयघण्टास्तासा स्वरेण शब्देन सूचितो ज्ञापित सचार आगमन यस्य स तथोक्तस्तस्मिन्। पुन कस्मिन् सति पलिताङ्कुरदर्शन मभूत्। जाह्नवीजले सति। कथभूते। त्रिदिवमुनिमण्डलीस्खलितजलदेवताजलकेलिकुतूहले त्रिदिवस्य स्वर्गस्य ये मुनयो लोकान्तिकास्तेषा मण्डली श्रेणी। क्स्यचित्तीर्यकरपरमदेवस्य वैराग्योत्पत्तिनिमित्त जाह्नवीमार्गे कृतगमनत्वात् जाह्नवीजलमार्गे समागतत्वात्। अथवा त्रिदिवमुनिमण्डली सप्तर्षिश्रेणिस्तया स्खलित विनित लज्जितत्वात् जलदेवताना जलकेलिकुतूहल जलक्रीडावेगो यस्मिन् जाह्नवीजले स तथा तस्मिन्। पुन कस्मिन् सति पलिताङ्कुरदर्शनमभूत्। व्योमसामजकुम्भस्थले सति व्योमाका शमेव सामजो हस्ती कृष्णवर्णत्वात्तस्य कुम्भस्थल शिर पिण्डस्थान तस्मिन् सति। कथभूते व्योमसामजकुम्भस्थले। वासरकरमुद्दिश्य द्विजातिहस्तो दस्तास्तोकस्तबकरतचन्दनच्छटाछद्मसि दूर्यमाणमण्डले93 देश प्रदेशो यस्य व्योमसामजकुम्भस्थलस्य तत्तथा तस्मिन्। पुनश्च कस्मिन् सति पलिताङ्कुरदर्शनमभूत्। गृहदीधिकासु गृहवापिकासुद्रुहिणद्विजकुलकोलाहले द्रुहिणद्विजाना ब्रह्मपक्षाणा हसाना कुलानि समूहास्तेषा कोलाहल कलकलशब्दो द्रुहिणद्विजकुल कोलाहलस्तस्मिन् सर्वत सर्वत्रसमुच्छलति उत्पद्यमाने सति। कथभूते द्रुहिणद्विजकुलकोलाहले। पालिन्दमन्दिरोदरतारतरोच्चार्यमाणमागवमङ्गलोल्लासतुन्दिले पालिन्दो नरेन्द्रस्तस्य मदिरमावासस्तस्योदर मध्यप्रदेशस्तस्मिन् तारतरमत्युच्चैस्तरमुच्चार्यमाण पठ्यमान यन्मागवाना नग्नाचार्याणा बोध काराणा मङ्गल मङ्गलपाठस्तस्योल्लासेनोच्छलनेन तुन्दिल स्थूलस्तस्मिन्। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। नगरदेवताङ्गणास्फालितविविधवाद्योद्धुरध्वानलोहले नगरदेवताया पुराधिष्ठायिकाया अङ्गणे चत्वरे गृहाग्रभूमौ आस्फालितानि ताडितानि विविधानि नानाप्रकाराणि यानि वाद्यानि वेणुवल्लकीएणयानकमृदङ्गशङ्खकाहलत्रिवलितालादीनि वादित्राणि तेषामुद्धरा उत्कटा ये ध्वाना शब्दास्तैर्लोहल अस्फुटस्तस्मिन्। अत्र नगरे देवताशब्देन जिनमन्दिरादिक ज्ञातव्यम्। अपर कथभूते द्रुहिणद्विजकुलकोलाहले। नवसमागमानदमन्थुरमिथुनचरपतङ्गप्रलापकाहले नवसमागमेन प्रत्यग्रागमनेन

नीमधुमत्तमत्तालिकलकलोत्ताले सहचरीरतिरसिकसारसरसितसरले क्रीडाकृतार्थ कुररकामिनीव्याहारबहले वीचिकाचयप्रचारप्रारम्भविजृम्भितकुक्कुभकुहकुहानादशब्दाले प्रमदवनानोकहकुहरकुलायनिलीनशुक-सारिकाशावशब्दासराले सुरासुरसमरसप्लव इवादिपुरुषोत्पत्तिदिवस इवामृतमथनकाल इव सेतुबन्धप्रबन्ध इव प्रथमयुगावतारपुण्याह इव च सर्वत समुच्छलति गृहदीर्घिकासु द्रुहिणद्विजकुलकोलाहले, निजनियोगव्यग्राङ्गनास-

——————

योऽसावानन्दस्तेन मन्थरा मन्दगामिनो ये मिथुनचरपतङ्गाश्चक्रवाकपक्षिणस्तेषा प्रलापैरनर्थकशब्दैकाहलो गम्भीरस्तस्मिन्। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। कमलिनीमधुमत्तमत्तालिकलक्लोत्ताले कमलिनीना पद्मिनीना मधुभिर्मकरन्दै पुष्परसैमत्तास्तृप्तास्तथा मत्ता मद प्राप्ता ये अलयो भ्रमरास्तेषा कलकलेन कोलाहलेन उत्ताल उत्सुक्स्तस्मिन्। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। सहचरीरतिरसिकसारसरसि तसरले सहचरी सारसी तस्या रतोसुरते रसिक सानुरागो योऽसौ सारस विलीनाङ्गो दीर्घजङ्घस्तस्य रसितेन शब्दितेन सरलोऽकुटिलस्तस्मिन्। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। क्रीडाकृतार्थकुररकामिनीव्याहारबहले क्रीडया कृतार्था सुरतेन कृतकृत्या या कुररकामिनी उत्क्रोशभार्या कङ्कणहारिका तस्या व्याहारेण शब्देन बहल प्रचुरस्तस्मिन्। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। वीचिकाचयप्रचारप्रारम्भविजृम्भितकुक्कुभकुह्कुहानादशब्दाले वीचिकाना लहरीणा चयेषु समूहेषु योऽसौ प्रचार सचरण तस्य प्रारम्भेण उद्यमेन विजृम्भित प्रभृतो योऽसौ कुक्कुभकुहकुहानादो जलकाकशब्दविशेष ध्वनिस्तेन शब्दाले मुखरे। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। प्रमदवनानोकहकुहरकुलायनिली नशुकसारिकाशावशब्दासराले प्रमदवनाना नृपोद्यानाना सबन्धिनो ये अनोकहा वृक्षास्तेषा कुहरेषु म येषु ये कुलाया नीडास्तेषु निलीना उपविष्टा शुकाश्च कीरा सारिकाश्च पीतपादास्तासा शावा अपत्यानि तेषा शब्दै कूजितैरसराल प्रचुरतरस्तस्मिन्। पुन कथभूते दुहिणद्विजकुलकोलाहले। सुरासुरसमरसप्लवे इव सुराश्च असुराश्च सुरासुरा देवदैत्या तेषा समरस्य सग्रामस्य सप्लव सगमस्तस्मिन् इव। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। आदिपुरुषोत्पत्तिदिवसे इव आदिपुरुषस्य श्रीवृषभनाथस्य उत्पत्तिदिवसो जन्मदिन तस्मिन्निव। पुन कथभूते दुहिणद्विजकुलकोलाहले। अमृतमथनकाले इव अमृतमथन देवदानवै क्षीरसागरमथन तस्य कालोऽवसर अमृतमथनकालस्तस्मिन्निव। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। सेतुबन्धप्रबन्धे इव सेतुबन्धो रामलक्ष्मणहनुमत्सुग्रीवादिभि कृतो योऽसौ समुद्रतरणोपायस्तस्य प्रबन्ध प्रघट्टक सेतुबन्धप्रबन्धस्तस्मिन्निव। पुन कथभूते द्रुहिणद्विजकुलकोलाहले। प्रथमयुगावतारपुण्याहे इव प्रथमयुगावतार आदिनाथराज्योपदेशनकालस्तस्मिन् यत्पुण्याह पाठ प्रथमयुगावतारपुण्याह तस्मिन्निव। तथा चोक्तम्—‘आषाढमासबहुलप्रतिपद्दिवसे कृती। कृत्वा कृतयुगारम्भ प्राजापत्यमुपेयिवान्॥’ पुन केषु सत्सु। पलिताङ्कुरद-

चरणरणन्मणिमञ्जीरस्वरसकराव्यक्तालप्तिव्यतिकरेषु राजभवनभूमिषु भोगावलीपाठकेषु, त्रोटिकोटिविघटितपुटनिवेशैर्मृणालिनीपलाशैर्निशानिरशनविवशकाय बालिशनिकाय स्मरसमर्दछर्दितौधस्यै पयोधरास्यैर्बालवतीष्वभिसारिकाखिवाश्वासयन्तीषु मरालीषु, करेणुकरोल्लसितसल्लकी पल्लवापनीयमानपरागोपदेहे नागनिवहे, तत्क्षणक्षरत्क्षीरप्रतीक्ष्यमाणातिथिषु व्रजलोकवीथिषु, आगामि जगत्सर्वसपादनाकुलकर्मणि, प्रजापाल-

———————

र्शनमभूत्। राजभवनभूमिषु नृपावासस्थानकेषु भोगावली पाठकेषु गीतकारशब्देषु सत्सु। कथभूतेषु भोगावली पाठकेषु। निजनियोगव्यग्राङ्गनासचरणरणन्मणिमञ्जीरखरसकरा व्यक्तालप्तिव्यतिकरेषु निजेषु स्वकीयेषु नियोगेषु अधिकारेषु व्यग्रा व्यावृत्ता या अङ्गना कमनीयकामिन्यस्तासा सचरणै प्रचारै रणन्त शब्दायमाना ये मणिमञ्जीरा पश्चविधमाणिक्यजटितनूपुरास्तेषा स्वराणा शब्दाना योऽसौ सकरो व्यामि श्रता तेन अव्यक्त अस्फुट आलप्तिव्यतिकरो नादप्रघट्टको येषुभोगावलीपाठकेषुते तथोक्तास्तेषु। पुनश्च कासु सतीषु पलिताङ्कुरदर्शनमभूत्। मरालीषु सतीषु। कि कुर्वतीषु सतीषु। बालिशनिकाय अपत्यसमूह मृणालिनीपलाशे पद्मिनीनवपल्लवै कृत्वा आश्वासयन्तीषु। कथभूतैर्मृणालिनीपलाशै त्रोटिकोटिविघटितपुटनि वेशैत्रोटीना चञ्चूना कोटिभिरग्रैकृत्वा विघटितत्रोटित पुटनिवेश सलग्नप्रदेशो येषा मृणालिनीपलाशाना तानि तै। कथभूत बालिशनिकायम्। निशाया निरशनेन निर्भोजनेन विवश कायो यस्य स निशानिरशनविवशकायस्तम्। कथभूतासु मरालीषु। बालवतीषु शिशुमतीषु अभिसारिकास्विव कान्तसकेतगतासु स्त्रीष्विव। उक्त च**—**

‘कान्ताथिनी तु या याति सकेत साभिसारिका’। एवविवलक्षणासु बालवतीष्वभिसारिकास्विव यथा बालवत्योऽभिसारिका पयोधरास्यै स्तनाग्रैर्बालिशनिकाय बालसमूह प्रभातकाले आश्वासयन्ति। कथभूतै पयोधरास्यै। स्मरस्य कन्दर्पस्य समर्देन समेलनेन पीडनेन छर्दितमुद्वात औधस्य दुग्ध यै पयोवरास्यैस्तानि तथा तै। पुनश्च कस्मिन्सति पलिताङ्कुरदर्शनमभूत्। नागनिवहे हस्तियूथे सति। कथभूते नागनिवहे। करेणुकरोल्लसितसलकीपल्लवापनीयमानपरागोपदेहे करेणूना हस्तिनीना करै शुण्डादण्डैरुद्धसि तानि त्रोटितानि यानि सल्लकीपल्लवानि वायुवृक्षप्रवालानि तैरपनीयमान स्फेट्यमान परागोपदेहो धूल्युपयोगो रेणुसमूहो यस्य नागनिवहस्य स तथोक्तस्तस्मिन्। पुनश्च कासु सतीषु पलिताङ्कुरदर्शनमभूत्। व्रजलोकवीथिषु सतीषु व्रजो गोकुल तस्य लोका गोकुलिकास्तेषा वीथयो मार्गास्तासु व्रजलोकवीथिषु सतीषु। कथभूतासु। तत्क्षणक्षरत्क्षीरप्रतीक्ष्यमाणातिथिषु तत्कालक्षरत्क्षीरेण प्रस्रवदुग्धेन प्रतीक्ष्यमाणा पूज्यमाना अतिथय प्राघूर्णिका यासु तास्तथा तासु। पुनश्च कस्मिन्सति पलिताङ्कुरदर्शनमभूत्। ब्रह्मणि धातरि सति। ब्रह्मणि कथभूते सति। आगामिजगत भविष्यलोकस्य सर्वस्य समग्रस्य सपादने

नोपायनिरतान्त करणे नारायणे, प्रलयकालकलासभालनार्दिनि कपर्दिनि, अनेकमस्वाह्वानगमनमूढमतिकक्षे सहस्राक्षे, होमाजिह्मब्राह्मणसमिध्यमानमहसि हुतान्धसि, त्रिविष्टपव्यापारपरायणावस्थे मध्यस्थे, क्षपाक्षयक्षीणाकाङ्क्षवक्षसि रक्षसि, नूत्नरत्नयत्नाहितमनोरथे पाथोनिधिनाथे, प्रसख्यानोन्मुखवैखानसमनोविनीयमानात्मनि मातरिश्वनि, वनीपकसतर्पणोद्धाटितकोशे धनेशे, योगनिद्रोद्रेकमुद्रिताक्षिपक्षे विशालाक्षे, धरोद्धरणाधीनचे-

———————

आकुले किकर्तव्यतामूढ कर्म व्यापारो यस्य स तथा तस्मिन् आगामिजगत्सर्वसपादनाकुलकर्मणि। पुनश्च कस्मिन्सति। नारायणे सति। कथभूते नारायणे। प्रजापालनोपायनिरतान्त करणे प्रजापालनस्य ब्रह्मणा सृष्टसृष्टिरक्षणस्य उपायोऽभ्युपाय उद्यमस्तस्मिन् निरत तत्पर अन्त करण मनो यस्य स तथा तस्मिन्। पुनश्च कस्मिन्सति। कपदिनि रुद्रे सति। कथभूते कपर्दिनि सति। प्रलयकालकलासभालनादिनि प्रलयकालकलाया लोकसह रणवेलाया सभालन स्मरण अर्दति गच्छति इत्येवशीलस्तस्मिन्। पुनश्च कस्मिन्सति। सहस्राक्षे देवेन्द्रे सति। कथभूते सति। अनेकमखाह्वानगमनमूढमतिकक्षे अनेके बहवो मखा यज्ञास्तेष्वाह्वान त्रिनिकायाना ज्योतिर्व्यन्तरकल्पवासिना भवनवासिभिरामन्त्रण गमन च स्वय तत्र गमन स्वय पञ्चकल्याणेषु गमन तस्मिन् मूढो व्याकुलो मतिकक्षो बुद्धिलता यस्य स तथा तस्मिन्। पुनश्च कस्मिन्सति। हुतान्धसि अग्नौ सति। कथभूते सति। होमाजिह्मब्राह्मणसमिध्यमानमहसि होमोऽग्नावाहुतीना दान तस्मिन् अजिह्मा प्रगुणा ये ब्राह्मणा द्विजन्मानस्तै समिध्यमान प्रज्वाल्यमान दीप्यमान मह स्तेजो यस्य हुतान्धस स तथा तस्मिन् होमाजिह्मब्राह्मणसमिध्यमानमहसि। पुनश्च कस्मिन्सति। मध्यस्थे यमे सति। कथभूते सति। त्रिविष्टपव्यापारपरायणावस्थे त्रयाणा विष्टपाना लोकाना व्यापार प्रवर्तन तस्मिन् परायणा तत्परा अवस्था व्यवस्थितिर्थस्य स तथा तस्मिन्। पुनश्च कस्मिन्सति। रक्षसि सति। कथभूते सति। क्षपाक्षयक्षीणाकाङ्क्षवक्षसि क्षपाया रात्रेक्षयेण दिवसप्रारम्भेण क्षीणाकार निराश वक्षो हृदय यस्य तत्तयोक्त तस्मिन्। पुनश्च कस्मिन्सति। पाथोनिधिनाथे सति। कथ भूते सति। नूत्नरत्नयत्नाहितमनोरथे मनोरथ इच्छा येन स तथा तस्मिन्। पुनश्च कस्मिन्सति। मातरिश्वनि वाते सति। कथभूते। प्रसरयानोन्मुखवैखानस मनोविनीयमानात्मनि प्रसरयाने ध्याने जपे वा उन्मुखास्तत्परा ये वैसानसास्तपखिनस्तेषा मन सु विनीयमान सकोच्यमान आत्मा स्वरूप यस्य मातरिश्वन स तथोक्तस्तस्मिन् सति। पुनश्च कस्मिसति। धनेशे कुबेरे सति। कथभूते सति। वनीपकसतर्पणोद्घाटितकोशे वनीपकाना याचकाना सतर्पणाय प्रीणनाय उद्घाटित प्रकटीकृत कोशो भाण्डागारो येन स तथोक्तस्तस्मिन्। पुनश्च कस्मिन्सति। विशालाक्षे रुद्रे सति। कथभूते सति विशालाक्षे। योगनिद्रोद्रेकमुद्रिताक्षिपक्षे योगनिद्राया उद्रेकेण आविधेन मुद्रिता मी-

तसि चक्षु श्रवसि, परस्पराचरितसमय इव स्वकीयक्रियाकाण्डकण्डुलहृदये भुवनत्रये, पुन स्वरदण्डिनीखण्डेषु चक्रवाकविकिरपरिषदि बन्धूकजीवेषु विद्रुमारामराजिषु पारापतपतङ्गचरणेषु सिन्दूरितशिर पिण्डशुण्डालघटाया च विभक्तारुणिमनीवार्यमणि सजाते सूर्यमणिमुकुरुन्दसुन्दरे,

‘दुःस्वप्नोपशमाय दुर्जनसमालोकागतैनश्छिदे
दुश्चिन्ताहतये दुरीहितभवद्विघ्नव्युदासाय च।
भूय कल्पितदक्षिणै कृतजयाघोषोत्सव ब्राह्मणै
राज्यावीक्षणमेतदस्तु भवत सर्वेप्सितावाप्तये॥ ९६॥

———————

लिता अक्षिपक्षा लोचनपक्ष्माणि येन स तथोक्तस्तस्मिन्। पुनश्च वस्मिन्सति। चक्षु श्रवसि शेषनागे। कथभूते सति। धरोद्धरणाधीनचेतसि धराया पृथिव्या उद्धरणे उच्चलने अधीन तत्पर चेतो मनो यस्य स तयोक्तस्तस्मिन्। पुनश्च कस्मिन्सति पलिताङ्कुदरश नमभूत्। भुवनत्रये त्रैलोक्ये सति। कथभूते भुवनत्रय। स्वकीयक्रियाकाण्डकण्डुलहृदये स्वकीयक्रियाकाण्डेषु निजाचारसमूहेषु कण्डुल उद्यत हृदय मनो यस्य स तथा तस्मिन्। पुन कयभूते भुवनत्रये। उत्प्रेक्ष्यते—परस्पराचरितसमय इव94
| पुनश्च कस्मिन्सति| पुनर् अर्यमणि श्रीसूर्ये सूर्यमणिमुकुरुन्दमुन्दरे अर्ककान्तरत्नमुकुरवद्दपणवत् सुन्दरे मनोहरे सजाते सति| उज्ज्वलता सप्राप्ते सतीत्यथ| पुन कथभूते अर्यमणि| उत्प्रेक्ष्यते—विभक्तारुणिमनि विभक्तो विभागीकृत्य दत्तो अरुणिमा रक्तत्व येन स तथा तस्मिन् विभक्तारुणिमनि इव| केषुपदार्थेषु अरुणिमा विभक्त इत्याह—खरदण्डिनीखण्डेषु पद्मिनीवनेषु रक्तकमलेषु| तथा चक्रवाकविकिरपरिषदि चक्रवाकपक्षिणा समूहे| तथा बधूकजीवेषु मध्याह्नपक्षेषु| तथा विद्रुमाराम राजिषु प्रवालवनश्रेणिषु| तथा पारापतपतङ्गचरणेषु कलरवपक्षिपातेषु| तथा सिन्दूरितशिर पिण्डशुण्डालघटाया च| विभ्रम इति सबन्ध| तस्य यशोघमहाराजस्य कि कुवत पलिताङ्कुरदर्शनमभूत्| इति अमुना प्रकारेण बन्दिवृन्दोक्तसूक्ती स्तुतिपाठकसमूहभणितसुवचनानि समाकर्णयत सशृण्वत| कीदृश्य सूक्ती समाकर्णयत| दुःस्वप्नेत्यादि| हे राजन्, एतत्प्रत्यक्षीभूत आज्यावेक्षण भवतस्तव सर्वसितावाप्तये अस्तु निखिलाभीष्टवस्तुप्राप्तये भवतु| आज्यावेक्षण कथभवति| ब्राह्मणैर्विप्रे कृतजयाघोषोत्सव यथा भवत्येव कृतो विहितो जयशब्दस्य आघोषो वनिस्तस्योत्सव आनन्दो यत्र आज्यावेक्षणकर्मणि कृतजयाघोषोत्सवम्| कथभूतैर्ब्राह्मणे| भूय कत्पित दक्षिणे भूयसी प्रचुरतरा कल्पिता समर्थिता दत्ता दक्षिणा हिरण्यादिदान येभ्यस्ते तथा तै| आज्यावेक्षण किमर्थ क्रियते इत्याह—दुःस्वप्नोपशमाय दुष्टस्वप्नप्रशमनाय|

यो दर्शयन्निजतनौ भुवन समस्त
जात समो भगवता मधुसूदनेन।
लीलाविलासवसतिश्चमृगेक्षणाना
क्षोणीश मङ्गलकरो मुकुर स तेऽस्तु’॥ ९७॥

इति बन्दिवृन्दोक्तसूक्ती समाकर्णयतो विजयोर्जितराज्यस्याज्यावेक्षण दर्पणनिरीक्षण च कुर्वत तस्य यशोर्घमहाराजस्य पलिताङ्कुरदर्शनमभूत्।

त च हस्तेनावलम्ब्यालोक्य च स मे तात किलैवमचिन्तयत्—

‘मति विभवविनाशोत्पातकेतुप्रतान
सुरतसुखसरोजोच्छेदनीहारसार।
मदनमदविनोदानन्दकन्दावमर्द-
प्रपतदशनिदण्डाडम्बर केश एष॥ ९८॥

—————

तथा दुर्जनसमालोकागतैनश्छिदे दुर्जनाना पापिष्ठलोकाना समालोकेनदर्शनेन आगतमुपढौकित यत् एन पाप तस्य छित् छेदन तस्यै दुर्जनसमालोकागतैनश्छिदे। (‘सत्सूद्विषदुहयुजविदभिदश्छिद जिनीराजामुपसर्गेऽपि’ इत्यनेन कि प्रतथा।) दुश्चिन्ता परवनपरकलत्रादिग्रहणचिन्तन दुश्चिन्ता तस्या हतिर्विनाश तस्यै दुश्चिताहतये। तथा दुरीहितभवद्विघ्नव्युदासाय च दुरीहितेन दुश्चेष्टितेन भवन्त सजायमाना ये विघ्ना अन्तरायास्तेषा व्युदासो विनाशस्तस्मै दुरीहितभवद्विघ्नव्युदासाय। समुच्चयालंकार॥

यो दर्शयन्नित्यादि। हे क्षोणीश हे पृथ्वीपते राजाधिराज, स जगत्प्रसिद्धो मुकुरो दर्पण ते तव मङ्गलकर श्रेयस्करो भवतु। स क। यो मुकुरो भगवता परमेश्वरेण मधुसूदनेन जरासधवैरिणा नारायणेन सम सदृशो जात। पुन क्थभूतो मुकुर। मृगेक्षणाना मृगलोचनाना स्त्रीणा लीलाविलासवसति लीलाना विदग्धचेष्टाना विला सवसति क्रीडामन्दिर लीलाविलासवसति। उक्त च—‘हेलाविलासबिब्बोकलीलाललितविभ्रमा। स्त्रीणा शृङ्गारचेष्टा स्युर्हावपर्यायवाचका॥’ समुच्चयालंकार॥

त चेत्यादि। त पलिताङ्कुर हस्तेनावलम्ब्य करे कृत्वा आलोक्य च दृष्ट्वा च स जगत्प्रसिद्धो मे मम यशोधरस्य तात पिता किलेति लोकोक्तौ। एव वक्ष्यमाणलक्षणोपल क्षितप्रकारेण अचिन्तयत् विचारयामास। एवं कथमिति चेत्—मतीत्यादि। एष प्रत्यक्षीभूत पलित केश कुतल। कथभूत। मतिविभव विनाशोत्पातकेतुप्रतान मतिरेव विभवो लक्ष्मीरिष्टभोगदायकत्वात् तस्य विनाश क्षयस्तदर्थमुत्पातकेतुप्रतानो नवमग्रहोदयसदृश। पुन कथभूत एष केश। सुरतसुखसरोजोच्छेदनीहारसार सुरतसुख स्त्रीसभोगसौख्य तदेव सरोज कमल पुण्यसूर्योदये विकाशित्वात् तस्योच्छेदो

करणकरिणा दर्पोद्रेकप्रदारणवेणवो
हृदयहरिणस्येहाध्वसप्रसाधनवागुरा।
मनसिजमनोभङ्गासङ्गे चिताभसितागमा
शुचिरुचिवशा केशा पुसा यमोत्सवकेतव॥ ९९॥

कुन्दावदातैर्दयितावलोकितैर्दुग्धद्युतै स्त्रीदशनच्छदामृतै।
सदा सहावासरसार्थने जने किमत्र चित्र यदय शुचि कच॥ १००॥

जरावल्लीतन्तुर्मनसिजचिताचक्रभसित
यमव्यालक्रीडासरणिसलिल केशमिषत।

——————

विनाशस्तदर्थ नीहारसार प्रालेयसमास। पुन कथभूत। मदनमदविनोदानन्दकन्दा वमदप्रपतदशनिदण्डाडम्बर मदनस्य क दर्पस्य योऽसौ मदो दर्पस्तेन (स्तस्य) विनोद स्त्रीरमणकुतूहल तस्माद्योऽसावानन्द सुख स एव कन्दो मूल तस्यावमर्दश्चूर्णीक्रण तदय प्रपतदशनिदण्डाडम्बर प्रपतत आगच्छतो अशनिदण्डस्य विद्युद्दण्डस्य आडम्बर शोभा यस्येति स तथोक्त। रूपकालंकार॥

करणेत्यादि। शुचिरुचिवशाश्च द्रवनिर्मला पुसा पुरुषाणा केशा कुन्तला। क्थभूता। करणकरिणामिन्द्रियगजाना दर्पोद्रेक प्रदारणवेणव दर्पस्य मदनस्य उद्रेक आधिक्य तस्य प्रदारणे विनाशने वेणवो वशवृक्षा। पुन कथभूता केशा। हृदयहरिणस्य मनोमृगस्य इहाध्वसप्रसाधने चेष्टाविनाशकरणे वागुरा बन्धनपाशा। पुन कथभूता केशा। मनसिजमनोभङ्गासङ्गेक दर्पेच्छाभङ्गकरणे चिताभसितागमा भस्मभूता। पुन कथभूता केशा। यमोत्सवकेतव यमस्य कृतान्तस्य उत्सवकेतवो महोत्सवध्वजा। रूपकालंकार॥

कुन्दावदातैरित्यादि। दयिताविलोकिते स्त्रीणा कटाक्षविक्षेपावलोकितै सह सदा सवकाल सहावासरसार्थने सहवासानुरागप्रार्थके जने लोके यतश्चाय कच केश शुचिरुग्वलो वर्तते तदत्र संसारे कि चित्र किमाश्चर्यम्। अपि तु न किमपि आश्चर्यम् शुचित्वहेतुगभित विशेषणमाह—कथभूतैदयिताविलोकिते। कुन्दावदातैरट्टाहासकुसुमवदुज्ज्वलै। तथा स्त्रीदशनच्छदामृतै स्त्रीणा अधरामृतै सह सदा सर्वकाल सहावा सरसार्थनेजने यदय कच शुचिर्वर्तते तदत्र चित्रकिम्। न किमपि चित्रम्। तद्धेतुगर्भित विशेषणमाह—कथभूतै स्त्रीदशनच्छदामृतै। दुग्धद्युतैर्गोक्षीरवदुज्ज्वलै। हेत्वाक्षेपालकार॥

जरावल्लीतन्तुरित्यादि। इद पलित केशमिषत पलितकेशव्याजेन जरावल्लीतन्तुवतते। जरा वाधक्य सैव वल्ली दु खफलदायिकत्वात् तस्यास्तन्तुस्तन्तुसदृश सूत्रसदृश। इद पमितकेशमिषत पलितकेशमिषात् मनसिजचिताचक्रभसित मनसिजस्य परेतक-

महामोहे पुसा विषतरुजटाजालमलघु
प्रियालोकप्रीतिस्थितिविरतये पत्रकमिदम्॥ १०१॥

तारुण्यकाले मददुर्दिनैर्या सितेतरै स्त्रीनयनै प्रजाता।
कृष्णच्छवि साद्य शिरोरुह श्रीर्जरारजक्या क्रियतेऽवदाता॥ १०२॥

अपि च कामिनीजन विलासविडुत्सारणेषु चण्डालदण्डा इव, प्रलयप्रारम्भवार्ताकर्णनेषु मृत्युदूतागमनमार्गा इव शृङ्गाररसप्रसरनिवारणेषु परागराजिसमागमा इव, स्वान्तस्फुरितखण्डनेषु परशुधारावपाता इव,करणग्रामविगमेषु धूमकेतूद्गमा इव, वपुर्लावण्योल्लेखनेषु स्फटिकशला-

——————

न्दर्पस्य या चिता मृतकाग्निस्तस्याश्चक मण्डल तस्य भसित भस्मसदृशम्। पुनश्च इद पलित केशमिषत यमव्यालक्रीडासरणिसलिल यमो मृत्यु स एव व्यालो दुष्टगज सर्वलोकविध्वसकत्वात् तस्य क्रीडासरणि केलिकुत्रिमनदी तस्या सलिलमुज्ज्वलमुदकम्। पुन कथभूतमिद पलितम्। महामोहे महा अचेतनत्वोत्पादने पुसा पुरुषाणा विषतरुजटाजाल विषतरोर्विषवृक्षस्य जटाजाल मूलसमूह। कथभूत विषतरुजटाजालम्। अलघु महत्। अपर कथभूतमिद पलितम्। प्रियालोकप्रीतिस्थितिविरतये पत्रकम्। प्रियाणा स्त्रीणा आलोको निरीक्षण तस्य प्रीति प्रेम तस्या स्थितिर्व्यवस्था तस्या विरतिर्विनाश प्रियालोकप्रीतिस्थिति विरतिस्तस्यै पत्रक करोतकरपत्र लेखपत्र वा। रूपकमिदम्॥

तारुण्यकाले इत्यादि। या शिरोरुहश्री केशलक्ष्मीस्तारुण्यकाले यौवनकाले स्त्रीनयनै कृष्णच्छवि प्रजाता कृष्णकान्तिर्बभूव। कथभूतै स्त्रीनयनै। मददुदिनै मदतिमिरै। कथभूतै। सितेतरै कृष्णवणै। सा शिरोरुहश्री अद्य इदानां जरारजक्या धोवणिक्या वार्धक्यपरिचारकया परिवर्तिकया अवदाता उज्ज्वला क्रियते विधीयते। हेत्वलंकार॥

अपि च तथा च अभी प्रत्यक्षीभूता मनुष्याणा मानवाना पलिताङ्कुरा कृश ( शुक्ल ) केशनवोद्भिद। कथभूता। कामिनीजनविलासविडुत्सारणेषु स्त्रीसमूह विलासविष्ठा विदूरीकरणेषु चण्डालदण्डा इव। चण्डालाना दण्डा पशुपर्शुकास्थीनि विडुत्सर्जनकानि भवन्ति। कथभूता पलिताङ्कुरा। प्रलय प्रारम्भवार्ता कर्णनेषु मृत्युदूतागमनमार्गा इव प्रलयो मरणकालस्तस्य प्रारम्भो रामस्य तस्य वार्ता वृत्तान्त तस्या आकर्णनानि श्रवणानि तेषु मृत्योर्यमस्य दूतानामागमनमार्गा इव आयानस्य पन्थान इव। कथभूता पलिताङ्कुरा। शृङ्गाररसप्रसरनिवारणेषु परागराजिसमागमा इव शृङ्गाररसस्य शृङ्गारानुजलस्य प्रसरो व्याप्तिस्तस्य निवारणेषु निषेधेषु परागराजेधूलीसमूहस्य समागमा आगमनानीव। पुन स्वान्तस्फुरितखण्ड नेषु परशुधारावपाता इव स्वान्त मनस्तस्य स्फुरित चेष्टित तस्य खण्डनेषु छेदनेषुकुठारधाराणा पातानीव। पुन करणग्राम विगमेषु धूमकेतूद्गमा इव करणा-

कावतारा इव, आगामिमतिमहामोहाविर्भावेषु विषतरुप्रसवपरिचया इव, मन सरसि च मनसिजद्विजानवसरसूचनेषु कीकसाभोगा इव; अमी मनुष्याणा पलिताङ्कुरा।

अपि च।

अज्ञस्य जन्तो परिताङ्कुरेक्षण भवेन्मनोभङ्गकृते धीमत।
ससारतृष्णाभुजगीविजृम्भणप्रशान्तिसीमाश्चिकुरा हि पाण्डुरा॥१०३॥

मुक्तिश्रिय प्रणयवीक्षणजालमार्गा
पुसा चतुर्थपुरुषार्थतरुप्ररोहा।
नि श्रेयसामृतरसागमनाग्रदूता
शुक्लाकचा ननु तपश्चरणोपदेशा॥१०४॥

माणा इन्द्रियसवसथाना विगमेषु उद्वासेषु अग्निप्रादुर्भावा इव। पुन वपुलावण्योल्लेखनेषु स्फटिकशलाकावतारा इव वपुष शरीरस्य लावण्य कान्तिस्तस्योेल्लेखनेषु उत्खन नेषु कर्पूरपारीणा सगमा इव। पुन आगामिमतिमहामोहाविर्भावेषु विषतरुप्रसवपरि चया इवआगमिष्यतीति आगामि मतेबुद्धेर्महान्‌ गुरुतरो योऽसौ मोहो वैचित्यतस्य आविर्भावेषु प्रादुर्भावेषु विषवृक्षस्य पुष्पसगमा इव। पुन मन सरसि च मनसिज द्विजानवसरसूचनेषु कीकसाभोगा इव मन सरसि हृदयसरोवरे मनसिजद्विजस्यकन्दर्प ब्राह्मणस्य कामकर्मचाण्डालस्य अनवसरसूचनेषु अयोग्यजल(काल)कथनेषुकीकसाभोगा इव अस्थिकीलकविस्तारा इव। उपमासमुच्चयालकार॥

अपि च अथवा अर्थान्तरेण पलिताङ्कुरान्वर्णयत्याचार्य—अज्ञस्येत्यादि। पाण्डुरा श्चिकुरा पलिता केशा अज्ञस्य बहिरात्मनो जतोर्जीवस्यपलिताङ्कुरेक्षण शुक्लकेशाङ्कुरदर्शन मनोभङ्गकृते चित्तभङ्गकार्याय भवेत्‌ सजायेत, न धीमतो बुद्धिमतस्तत्त्वज्ञानिनो मनोभङ्गकृते न भवति। स तत्त्वज्ञानी एव चिन्तयति—पाण्डुरा चिकुरा ससारतृष्णा भुजगीविजृम्भणप्रशान्तिसीमा ससारस्यतृष्णा इन्द्रियविषयाभिलाषो लोभ आशा सैव भुजगी कालसर्पिणी अन्तर्दुष्टत्वात्‌ तस्याविजृम्भण प्रसरस्तस्यप्रशानतिसीमा सीमानो शान्तिमर्यादा। रूपकालकार॥

** मुक्तिश्रिय इत्यादि।** पुसा पुरुषाणा शुक्लाकचा पाण्डुरा केशा ननु निश्चयेन मुक्तिश्रियोमुक्तिलक्ष्म्या प्रणयवीक्षणे स्रेहावलोकने जालमार्गा गवाक्षछिद्राणि। पुन कथभूता। चलुर्थपुरुषार्थतरुप्ररोहाचतुथस्तुरीय पुरुषार्थो मोक्ष स एव तरुर्वृक्षसुख फलच्छायादायकत्वात्तस्यप्ररोहा अङ्कुरा। पुन कथभूता। नि श्रेयसामृतरसागम.

तदनु सजातनिर्वेदसवेदनहृदय सविधतरनि श्रेयसाभ्युदय सच्चरितलोकलोचनचन्द्रमा पुनरिमा किलशीलसारा सस्मार ससारसागरोत्तरणपोतपात्रदशा द्वादशाप्यनुप्रेक्षा।

तथा हि।

उत्सृज्य जीवितजलबहिरन्तरेते
रिक्ता विशन्ति मरुतो जलयन्त्रकल्पा।
एकोद्यम जरति युनि महत्यणौच
सर्वकष पुनरय यतते कृतान्त॥१०५॥

—————

नाग्रदूता नि श्रेयस निर्वाण तदेव अमृतरसो अमृतधाराप्रवाहस्तस्य आगमनस्यअग्र दूता प्रथमसदेशहरा। पुन कथभूता। तपश्वरणोपदेशादीक्षाग्रहणशास्त्राणि॥

तदनु तदनन्तर पलिताङ्कुरदर्शनादनन्तर स यशोर्धमहाराज पुन पुनरपि इमा वक्ष्यमाणलक्षणोपलक्षिता किललोकोक्तौवा द्वादशापि द्विषडपि अनुप्रेक्षा भावना सस्मार चिन्तयामास। भूप कथभूत। सजातनिर्वेदसवेदनहृदय सजात उत्पन्नो योऽसौ निर्वेद ससारशरीरभोगत्रिविधवैराग्य सवेदन धर्मफल च सानुरागता। अथवा निर्वेदस्य सवेदन विचारण हृदये मनसि यस्यस सजातनिर्वेवदसवेदनहृदय। पुन कथभूत। सविधतरनि श्रेयसाभ्युदय सविधतर अतिनिकटवर्ती नि श्रेयसस्थ निर्वाणस्य अभ्युदय परिपाको यस्य स तथोक्त। पुन कथभूत। सच्चरितलोकलोचनचन्द्रमा स चरितलोकाना सदाचारमनुष्याणा महामुनीना च लोचनचन्द्रमा आनन्दकारक। कथभूता अनुप्रेक्षा। शीलसारा शीलेषु अष्टादशशीलसहस्रेषु सर्वयत्यचारेषु सारा सारभूता। पुन कथभूता अनुप्रेक्षा। ससारसागरोत्तरणपोतपात्रदशा ससारश्चतु गतिलक्षण स एवं सागर समुद्र पर्यन्तरहितत्वात्‌ तस्योत्तरणे पारप्रापणे पारगमने पोतपात्रस्यप्रवहणपात्रस्य दशा घटिकाप्राया। रूपकालंकार॥

तथाहि तदेव निरूपयति—उत्सृज्येत्यादि। एते स्वसवेदनप्रत्यक्षीभूता मरुत उच्छ्वासलक्षणा वायवो जीवितजलमायुस्तोय बहिरत्सृज्य बाह्ये मुक्त्वा रिक्ता सन्त अन्तर्मध्ये विशन्ति सचरन्ति। कथभूता मरुत। जलयन्त्रकल्पा अरहट्ट(घट्ट)घटीमा लासदृशा। अय प्रत्यक्षीभूत कृतान्तो यमजरति वृद्धजीवे, यूनि तरुणपुरुषे, महति नृपादौ गुरुपुरुषे, अणौ च दरिद्रे लघुपुरुषे, एकोद्यम यथा भवत्येव यतते विनाशयितु यत्नकरोति। कथभूत कृतान्त। सर्वकष पुन दावानलसदृश। पुन शब्द इवार्थे वर्तते।उपमालकार॥

लावण्ययौवनमनोहरणीयताद्या
कायेष्वमी यदि गुणाश्चिरमावसन्ति।
सन्तो न जातु रमणीरमणीयसार
ससारमेनमवधीरयितु यतन्ते ॥१०६॥

उच्चैपदनयति जन्तुमध पुनस्त
वात्येव रेणुनिचय चपला विभूति।
श्राम्यत्यतीवजनता वनितासुखाय
ता सूतवत्करगता अपि विप्लवन्ते ॥१०७॥

शूर विनीतमिव सज्जनवत्कुलीन
विद्यामहान्तमिव धार्मिकमुत्सृजन्ती।

——————

** लावण्येत्यादि**। अमी एते लावण्ययौवनमनोहरणीयताद्या गुणा यदि चेत्‌ कायेषु चिर दीर्घकालआवसन्ति शरीरेषु तिष्ठन्ति। लावण्य च कान्तियौवन च तारुण्य मनो हरणीयता च आदियमूर्तिता आद्या येषा रूपसौभाग्यादीना गणना ते लावण्ययौवन मनोहरणीयताद्या। तर्हिसन्त सत्पुरुषा एन प्रत्यक्षीभूत ससारमाजव जवभावमव वीरयितु निराकर्तुजातु कदाचिदपि न यतन्ते नोद्यम कुर्वन्ति सदाकलससार एव तिष्ठन्ति। कथभूत ससारम्‌। रमणीरमणीयसार रमणीभि कमनीयकामिनीभि रमणीय मनोहर सार मध्यो यस्य स तथा तम्‌। समुच्चयोपमालकार॥

** उच्चैरित्यादि**। विभूतिरैश्वर्येकथभूत जन्तु प्राणिन कर्म॑तापन्नमुच्चैपद राज्यमित्यादि द्वितीय कर्मनयति प्रापयति। पुन पश्चात्‌ विभूतिस्त जन्तु प्राणिनम वो नीचैस्तर स्थान रङ्कानरकादिक पद नयति प्रापयति। कथभूता विभूति। चपला वेगवत्तरा। क केव। रेणुनिचय रज समूह वात्या प्रथम उच्चैर्नयति पश्चादध पातयति। जनता लोको वनितासुखाय उत्तमस्त्रीसभोगसुखाय अतीव श्राम्यत्यतिशयेन खेद करोति सेवाकृषिवाणिज्यादिक व्यापार करोति। उक्तच—‘वनिता जनितात्यर्थानुरागाया च योषिति’। ता वनिता करगता अपि नश्यतिसूतवत्‌ करगता अपि मुष्टिमध्ये यत्नेन वृता अपि विप्लवन्ते नश्यन्ति। किंवत्‌.। सूतवत्‌ पारदरसवत्‌। पूर्ववृत्तेलावण्यादिक्मनित्यमुक्तम्‌, अस्मिन्वृत्ते राज्यलक्ष्मीरनित्येति सूचितम्‌। उपमालकार॥

शूरमित्यादि। इयप्रत्यक्षीभूता लक्ष्मीर्धन लोक पच्चजन कलुषीकरोति पापीश विदधाति। ‘लोभमूलानि पापानि’ इति वचनात्। लक्ष्मी कि कुर्वती। शूरसहस्रभटलक्षभटकोटिभटविध्वसक पुरुषमुत्सृजन्ती परिहरन्ती॥ कमिव। विनीतमिव प्रश्नयवन्त पुमासमिव। शूरं विनीत च परिहरतीत्यर्थ। लक्ष्मी पुन कि कुर्वती। कुलीन उत्तमकुल

चिन्ताज्वरप्रसवभूमिरिय हिलोक
लक्ष्मी स्वलक्षणसखी कलुषीकरोति ॥१०८॥

वाचि भ्रुवोर्दृशि गतावलकावलीषु
यासा मन कुटिलतास्तटिनीतरङ्गा।
अन्तर्नमान्त इव दृष्टिपथेप्रयाता
कस्ताकरोतु सरलास्तरलायताक्षी ॥१०९॥

सहारबद्धकवलस्ययमस्य लोके
क पश्यतो हरविधेरवधिं प्रयात।
यस्माज्जगत्

त्रयपुरीपरमेश्वरोऽपि
तत्राहितोद्यमगुणेविधुरावधान ॥११०॥

————

पुरुष उत्सृजन्ती। किंवत्‌। सज्जनवत्‌ पुरुषवत्‌ परोपकारिणमिव। यथा कुलवन्तपरिहरति तथा

परोपकारिणमपि परिहरतीत्यर्थ। लक्ष्मी पुन कि कुर्वती। धार्मिकमुत्सृजन्ती धार्मिक धर्मिष्ठ उत्सृजन्ती। कथमिव। विद्यामहा तमिव विद्यया शास्त्रेण महान्‌ गुरुविद्यामहान्‌ त विद्यामहान्त धामिक विद्वास परिहरतीत्यर्थ। कथभूता लक्ष्मी। चिन्ताज्वरप्रसवभूमि चिन्तया आर्त्याउत्पन्नो योऽसौ ज्वर सतापस्तस्यप्रसवभूमिरुत्पत्तिस्थान चिन्ताज्वरप्रसवभूमि। पुन कथभूता लक्ष्मी। स्वलक्षणसखी खलवत्‌ दुर्जनवत्‌ क्षणसखी अल्पकालस्नेहिनी। उक्त च—‘अभ्रच्छाया तृणादग्निखले प्रीति स्थलेजलम्‌। वेश्याराग कुमित्र च षडेते बुद्धुदोपमा॥` उपमालकार॥

** वाचीत्यादि।**ता जगत्प्रतिद्धास्तरलायताक्षी तरलानि चपलानि आयतानि दीर्घाणि कर्णान्तविश्रान्तानि अक्षीणि लोचनानि यासा तास्तरलायताक्ष्यस्ता तरलायताक्षी क पुमान्‌ सरला अकुटिलाकरोतु विदधातु। अपि तु न कश्चित्करोतीत्यर्थ। ता का। यासा स्त्रीणामन कुटिलता हृदयवक्रता तटिनीतरङ्गा नदीकल्लोला दृष्टिपथे लोचनमार्गे प्रयाता आयाता लोकै प्रत्यक्षे

ण दृष्टाकस्मिन्कस्मिन्‌ स्थाने प्रत्यक्षेण दृष्टावाचि वचने कुटिलता प्रत्यक्षेण दृष्टाभ्रुवोर्लोचनोपरिरोमराजीद्वये दृशिलोचनयुगेले गतौ गमने अलकावलीषु केशश्रेणिषुकस्मात्‌ प्रत्यक्षेण दृष्टाअन्तश्चेतसि नमान्त इव अवकाशमलभमान इव। रूपकोपमालकार॥

** सहारबद्धकवलस्येत्यादि।**क पुमान्‌ यमस्यकृतातस्य लोके संसारे अवधिं मर्यादाविनाश्यम्‌। अन्तमित्यर्थ। प्रयात गत। अपि तु न कश्चित्प्रयात इत्यर्थ। कथभूतस्ययमस्य। सहारार्थमोटयित्या स्वादनार्थबद्धकवलस्य सज्जीकृतपश्चा कुलस्य। अपरं कथभूतस्य। पश्यतोहरविधे पश्यतोहरस्य चौरस्य विधिरनुष्ठानं यस्य

इत्थ क्षणक्षयहुताशमुखे पतन्ति
वस्तूनि वीक्ष्य परित सुकृती यतात्मा।
तत्कर्म किंचिदनुसर्तुमय यतेत
यस्मिन्नसौनयनगोचरता न याति ॥१११॥

इत्यनित्यानुप्रेक्षा ॥१॥

दत्तोदयेऽर्थनिचये हृदये स्वकार्ये
सर्वसमाहितमति पुरत समास्ते।
जाते त्वपायसमयेऽम्बुपतौपतत्रे
पोतादिव द्रुतवत शरण न तेऽस्ति॥ ११२॥

—————

स तथा तस्य। ‘वाग्दिक्पश्यद्भ्योयुक्तिदण्डहरेषु" इति वचनात्‌ षष्ठ्याअलुकूसमास। यया वाचोयुक्ति दिशोदण्ड पस्यतोहर। कस्माद्वधिंन प्रयात। यस्मात्कारणात्‌ जगन्नयपुरीपरमेश्वरोऽपि तीर्थकरोऽपि तत्र यमे आहितोद्यमगुणे कृतात्साहगुणे सति विधुरावधान विफलप्रयत्न। दृष्टान्तालकार आक्षेपश्च॥

इत्थमित्यादि। अय सुकृती हेयोपादेयविवेकवान्‌ पुरुषो यतात्मा प्रमादरहित सन्‌ तत्किचित्‌ योगिगम्य कर्म अनुसर्तुआश्रयितु यतेत यत्नकुर्वीत। तत्किम्‌। यस्मिन्‌ कर्मणि सति असौ प्रयक्षीभूतो यमो नयनगोचरता न याति पुनरपि नेत्राभ्या न दृश्यते। किं कृत्वा। इत्थ पूर्वोक्तप्रकारेण वस्तूनि यौवनशरीरादीनि परित समन्तात्‌ क्षणक्षयहुताशमुखे पतन्ति गच्छन्ति वीक्ष्य क्षणो यम स एव क्षयहुताश प्रलयकालाग्निस्तस्यमुख वक्र क्षणक्षयहुताशमुखे पतन्ति वीक्ष्य दृष्ट्वा। रूपकालकार इत्थमनित्यानुप्रेक्षा अध्रुवानुप्रेक्षा सप्तभिर्वृत्तैसमाप्तेत्यर्थ॥

दत्तोदयेत्यादि। हे जीव, सर्वप्राणी ते तव पुरत अग्रत किकरतया समाहितमति सावधानमना सन्‌ समास्ते तिष्ठति। सेवते इत्यर्थ। कस्मिन्‌ सति। अर्थ निचये धनसमूहे दत्तोदये सति उदयमागते सति। पुनश्च कस्मिन्‌सति सर्व प्राणी पुरत समास्ते। स्वकार्ये धनकार्येहृदये चित्ते वर्तमाने सति। अपायसमये मृत्युकाले तु पुनर्जाते उत्पन्ने सति कोऽपि पुमान्‌ शरण नास्मि(अर्थिनमर्थो भवति)। ते तव कस्येव। अम्बुपतौसमुद्रे पोतात्प्रवहणात्‌ द्रुतवतश्च्युतस्य पतत्रेरिव पक्षिण इव। यथा ससुद्रेपोतात्‌ च्युतस्य पक्षिण कोऽपि पुमान्‌ शरण न भवेति। स पतत्रि समुद्रे उड्डीयमान सन्‌ तत्रैव समुद्रे ब्रुडित्वाम्रियते इत्यर्थ। ‘पतेरत्रिस्तै? इति वचनात्‌ अन्रिप्रत्यय। उपमालकार॥

बन्धुव्रजै सुभटकोटिभिराप्तवर्गै-

र्मन्त्रास्त्रतन्त्रविधिभि परिरक्ष्यमाण।
जन्तुर्बलादधिबलोऽपि कृतान्तदूतै-
रानीयते यमवशाय वराक एक ॥११३॥

ससीदतस्तव न जातु समस्ति शास्ता
त्वत्त पर परमवाप्तसमग्रबोधे।
तस्या स्थिते त्वयि यतो दुरितोपताप-
सेनेयमेव सुविधे विधुराश्रया स्यात् ॥११४॥

इत्यशरणानुप्रेक्षा ॥२॥

कर्मार्पित क्रमगति पुरुष शरीर-
मेक त्यजत्यपरमाभजते भवाब्धौ।

——————

बन्धुव्रजैरित्यादि। जन्तुर्जीव कृतान्तदूतैर्यमप्रणिधिभिर्यमवशाय कृता त स्याधीन्याय एक असहायो वराकस्तपस्वी आनीयते प्राप्यते। कथभूत सन्। परिरक्ष्यमाण सन् प्रतिपाल्यमान सन्। कै। बन्धुव्रजै कुटुम्बवर्गै तथा सुभटकोटिभि परिरक्ष्यमाण सुभटाना सहस्रभटलक्षभटकोटिभटाना कोटिभि शतलक्षै स तथा आप्तवर्गै पितृमातृमन्त्रिपुरोहितगुरूपाध्यायादिभि परिरक्ष्यमाण। पुन कै कृत्वा परिरक्ष्यमाण।

मन्त्रास्त्रतन्त्रविधिभि

मन्त्रयन्त्रादिविधिभिर्विधानैरस्त्रविधिभि खङ्गा दिरक्षाभिस्तन्त्रविधिभिश्चतुरङ्गसैन्यवेष्टनविधानैर्जयमूलादिभिर्वा। कथभूतो जन्तु।बलात् सर्वस्मात् सैन्यात् अधिकबलोऽपि अधिकपराक्रमोऽपि राक्षसविशेषादधिकबलोऽपि। दीपकोपमालकार।

ससीदत इत्यादि। हे सुविधे सच्चरित्रात्मन् तव भवत ससीदतो दु खीभवत त्वत्त पर त्वदन्य पुमान् पर निश्चयेन जातु कदाचित् शास्ता रक्षको न समस्ति न सम्यग्वर्तते। कितु तव च शास्ता त्वमेव वर्तसे इत्यर्थ। कथभूतात्त्वत्त।अवाप्तसमप्रबोधे अवाप्ता प्राप्ता समग्रा परिपूणा बोधि सम्यग्दर्शनज्ञानचारित्रत्रय येन स तथा तस्मात्। यस्मात् कारणात् तस्या रत्नत्रयप्राप्तिलक्षणाया बोधौ त्वयि भवति स्थिते आरूढे सति इयमेव दुरितोपतापसेना पापसतापसमूह विधुराश्रया कष्टाश्रयामृतेव स्याद्भवेत्। रूपकालकार॥ इति अमुना प्रकारेण त्रिभिर्वसन्ततिलकावृत्तै
रशरणानुप्रेक्षा समाप्ता॥

कर्मार्पितमित्यादि। पुरुष आत्मा एक शरीरं कलेवर त्यजति मुश्चति अपरं शरीरमाभजते आश्रयति। कस्मिन्। भवाब्धौ ससारसमुद्रे। कथभूत शरीरम्। कर्मा

शैलूषयोषिदिव ससृतिरेनमेषा
नाना विडम्बयति चित्रकरै प्रपञ्चै ॥११५॥

दैवाद्धनेष्वधिगतेषु पटुर्न काय
काये पटौ न पुनरायुरवाप्तवित्तम्।
इत्थ परस्परहतात्मभिरात्मधर्मै-
र्लोक सुदु खयति जन्मकर प्रबन्ध ॥११६॥

आस्ता भवान्तरविधौ सुविपर्ययोऽय-
मत्रैव जन्मनि नृणामधरोच्चभाव।
अल्प पृथु पृथुरपि क्षणतोऽल्प एव
स्वामी भवत्यनुचर स च तत्पदार्ह ॥११७॥

—————

पित शरीरनाम कर्मणा उपढौकितम्। दत्तमित्यर्थ। कथभूत पुरुष। क्रमगति एका गति त्य(भु) क्त्वा द्वितीया गतिं गच्छति इति क्रमगति। एषा प्रत्यक्षीभूता ससृति ससार कथ्यते। सा ससृति कि करोति। एन पुरुषमात्मान नानाप्रपञ्चेर्नानावेषैर्विडम्बयति विगोपयति। कथभूतै। चित्रकरै सर्वलोकाना चिताश्चयोत्पादकै। ससृति वैव। शैलूषयोषिदिव नटभार्येव। रूपकोपमालकार॥

दैवादित्यादि। प्रबन्ध प्रकृतिस्थित्यनुभागप्रदेशलक्षञ्चतु प्रकार कर्मबन्ध आत्मधमैनिजस्वभावै कृत्वा लोक प्राणिवर्ग सुदु खयति सुष्ठु अतिशयेन दु ख करोति। कथभूत प्रबन्ध। जन्मकर भवान्तराणामुत्पादक।कथभूतै आत्मधमै। इत्थ अमुना प्रकारेण परस्परहतात्मभि परस्परेण अन्योन्येन हतो विध्वसित आत्मा स्वभावो येषा आत्मधर्माणा परस्परहतात्मानस्तै। इत्थ कथमिति चेत् दैवात् कर्मोदयात् धनेषु स्वापतेयेषु अधिगतेषु प्राप्तेषु काय शरीर पटुरुत्कृष्ट न भवति। दैवात्काये शरीरे पटौ रोगरहिते सति पुन पुनरपि आयुर्न भवति। कथभूतमायु। अवाप्तवित्त परिप्राप्तधन न भवति। जात्यलकार॥

आस्तामित्यादि। अय प्रत्यक्षीभूत सुविपर्यय सुष्ठु विपर्यास भवान्तरविधौ जन्मान्तरविधाने न भवतीति आस्ता तिष्ठतु चेत् अत्रैव जन्मनि अस्मिन्नेव भवे नृणा मनुष्याणा अधरोच्चभाव नीचोच्चपर्यायो भवति। तमेव दर्शयति—अल्प पुमान् निर्धनो जीव पृथुर्विपुलो धनवान् भवति, पृथुरपि विपुलधनवानपि क्षणतो मुहूर्तमात्रात् अल्प एव निर्धन एव भवति। स्वामी राजा अनुचर किकरो भवति, स च किंकर तत्पदार्हस्वामिपदयोग्यो भवति। दीपकालकार॥

वैचित्र्यमित्थमनुभूय भवाम्बुराशे-
रातङ्कवाडवविडम्बितजन्तुवारे।
को नाम जन्मविषपादपपुष्पकल्पै
स्व मोहयेन्मृगदृशा कृतधी कटाक्षै ॥११८॥

इति ससारानुप्रेक्षा ॥३॥

एकस्त्वमाविशसि जन्मनि सक्षये च
भोक्तु स्वय स्वकृतकर्मफलानुबन्धम्।
अन्यो न जातु सुखदु खविधौ सहाय
स्वाजीवनाय मिलित विटपेटक ते ॥११९॥

—————

वैचित्र्यमित्यादि। नामेति सभावनायाम्। क कृतधीविधाता हेयोपादेयविवेकवान् मृगदृशा मृगलोचनाना स्त्रीणा कटाक्षैरपाङ्गवीक्षणै स्वमात्मान मोहयेत् विह्वलीकुर्यात्। अपि तु न कश्चिन्मोहयेदित्यर्थ। कथभूतै कटाक्षै जन्मविषपादपपुष्पकल्पै जन्म ससार स एव विषपादपो विषवृक्षो दु खफलदायकत्वात् तस्य पुष्पकल्पाकुसुमसदृशास्तै। किं कृत्वा। पूर्वं भवाम्बुराशे ससारसमुद्रस्य इत्थ पूर्वोक्तप्रकारेण वैचित्र्य वैचित्रीनानात्वअनुभूय भूत्वा। ज्ञात्वा इत्यर्थ। कथभूतस्य भवाम्बुराशे। आतङ्कवाडवविडम्बितजन्तुवारे सद्य प्राणहरो व्याधिरातङ्क उच्यते स एव वाडवो वडवानलस्तस्मिन् विडम्बितानि कदथितानि जन्तुवारीणि प्राणिवर्गजलानि येन भवाम्बुराशिना स तथोक्तस्तस्य। रूपकालकार॥ इति एतैश्चतुर्भिर्वृत्तै ससारानुप्रेक्षा समाप्ता॥

एक इत्यादि। हे जीव, त्व भवान् एक असहाय जन्मनि गर्भवासे आविशसि प्रवेश करोषि। सक्षये मरणे च एक आविशसि। कि कर्तु आविशसि। स्वकृतकर्मफलानुबन्ध भोक्तु अनुभवितु स्वेन आत्मना कृतमनुष्ठित यत्कर्म पुण्यरूप वा पापरूप तस्य फलस्य सुखरूपस्य दु खरूपस्य अनुबन्ध सबन्ध भोक्तु आविशसि। कथम्। स्वय आत्मना न तत्र कश्चित्प्रवेश कारयति। उक्त च—‘स्वय कर्म करोत्यात्मा स्वय त त्फलमश्रुते। स्वय भ्रमति ससारे स्वय तस्माद्विमुच्यते॥’ अन्य कोऽपि पुमान् सुखदु खविधौ सुखकरणे दु खविधाने च जातु कदाचित् सहायो न वतते तर्हि पुत्रकलत्रमित्रादिवृन्द किं सहाय तव भवति। हे जीव, ते तव विटपेटक शत्रु अवस्कन्धो मिलित एकत्रीभूत वर्तते। किमर्थम्। मिलित स्वाजीवनाय स्वस्य आत्मन आजीवनाय प्राणनाय। रूपकालकार॥

देहात्मकोऽहमिति चेतसि मा कृथास्त्व
त्वत्तो यतोऽस्य वपुष परमो विवेक।
त्व धर्मशर्मवसति परितोऽवसाय
काय पुनर्जडतया गतधीनिकाय ॥१२३॥

आसीदति त्वयि सति प्रतनोति काय
क्रान्ते तिरोभवति भूपवनादिरूपै।
भूतात्मकस्य मृतवन्न सुखादिभाव-
स्तस्मात्कृती करणत पृथगेव जीव ॥१२४॥

सानन्दमव्ययमनादिमनन्तशक्ति-
मुद्द्योतिन निरुपलेपगुण प्रकृत्या।

————————

दानोपवासव्रतसम्यक्त्वलक्षणपुण्यविपाकात् प्रशमतन्तु कृतावलम्ब सन् कर्मोपशम सूत्रविहितावलम्बन तत् तद्योगिना प्रसिद्ध धाम मोक्षस्थान धावति उत्सुको गच्छति। एकेन समयेन लोकाप्रमाश्रयति। कथभूत धाम। विधूतसमस्तबाध मूलादुन्मूलितस मस्तदु खम्। उपमालकार॥ इत्येभिश्चतुर्भिवृत्तरेकत्वानुप्रेक्षा समाप्ता॥

देहात्मक इत्यादि। हे जीव हे आत्मन्, अह देहात्मक शरीरमयो वर्तते इति इदृश विकल्प चेतसि मनसि त्व मा कृथा मैव कार्षी। यतो यस्मात् कारणात् अस्य वपुष अस्य शरीरस्य त्वत्तो भवत्सकाशात् परम उत्कृष्टो विवेक पृथग्भावो वर्तते। कोऽसौ विवेक इत्याह—त्वमात्मा धर्मशर्मवसति अनन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसौरयसयुक्तचेतनस्वभावो धर्म उच्यते, परमानन्दलक्षण सुख शर्मोच्यते। धर्मश्च शर्म च धर्मशर्मणी तयोर्वसतिर्निवासो धर्मशर्मवसति। त्व पुन कथभूत। परितोऽवसाय सर्वाङ्गचेतनस्वभाव। काय पुन शरीर तु जडतया अचेतनतया गतधीनिकायो नष्टचेतनसमूह। जात्यलकार॥

आसीदतीत्यादि। हे आत्मन् त्वयि आत्मनि सति विद्यमाने काय शरीर आसीदति, न केवलमासीदति त्वयि सति प्रतनोति च वृद्धिं याति च। हे जीव, त्वयि आत्मनि सति कायो भूपवनादिरूपै पृथिव्याद्यग्निरूपेस्तिरोभवति अदृश्यो भवति। भूतात्मकस्य पृथिव्यप्तेजोवायुस्वभावस्य कायस्य सुखादिभाव सुखदु खादिवेदन न वर्तते। किंवत्। मृतवत् मृतकस्येव यथा मृतकस्य सुखादिभावो न वर्तते। तस्मात्कारणात् कृती पुण्यवान् भवति। करणत शरीरात् जीव आत्मा पृथगेव भिन्न एव वर्तते। उपमालकार॥

सानन्दमित्यादि। अभी प्रत्यक्षीभूता योगिना दुरिताग्नय कर्मवैश्वानरा इम स्वानुभूतिप्रत्यक्ष पुरुषमात्मान सतापयन्ति उत्कामयति। कथभूता दुरिताग्नय। समृद्धा

कृत्वा जडाश्रयमिम पुरुष समृद्धा
सतापयन्ति रसवद्दुरिताग्नयोऽमी ॥१२५॥

कर्मासवानुभवनात्पुरुष परोऽपि
प्राप्नोति पातमशुभासु भवावनीषु।
तस्मात्तयो परमभेदविदो विदग्धा
श्रेयस्तदादधतु यत्र न जन्मयोग ॥१२६॥

इति पृथक्त्वानुप्रेक्षा ॥५॥

—————————

प्रवृद्धा प्रज्वलिता। उदयमागता इत्यर्थ। किं कृत्वा पूर्व सतापयति। जडाश्रय शरीराश्रय कृत्वा। किवत्सतापयन्ति। रसवत् यथा रस पारद जडाश्रय पानीयाश्रय कृत्वा अग्नयो रसमुत्तापयति95। रस पानीय वा सतापयन्ति। उक्त च—‘वार्वारि क पयोऽम्भोऽम्बु पाथोर्ण सलिल जलम्। शर वन कुश नीर तोय जीवनमब्विषम्॥ घ नरसो रसश्च’। कथभूत पुरुषम्। सानन्द अनन्तसौरयसहितम्। अव्यय अविनश्वर मृत्युरहितम्। अनादि आदिरहितम्। अनन्तशक्ति केवलज्ञानदर्शनाभ्या अनन्तवस्तुस्वरूपग्राहकत्वात्। उद्द्योतिन लोकालोकस्वरूपप्रकाशकत्वात्। निरुपलेपगुणनिश्चयेन कर्ममलकलङ्करहितम्। प्रकृत्या स्वभावेन। एतद्विशेषणषट्क पारदरसस्यापि दातव्यम्। रूपकोपमालकार॥

कर्मासवानुभवनादित्यादि। पुरुष आत्मा परोऽपि श्रोत्रियब्राह्मणवदुत्तमोऽपि अशुभासु पापरूपासु अपवित्रासु भवावनीषु चाण्डालादिभवान्तरभूमिषु पात पतन प्राप्नोति लभते। कस्मात्पतन प्राप्नोति। कर्मासवानुभवनात् कर्ममद्यास्वादनात्। उक्त च वादिराजेन महाकविना—‘कर्मणा कवलिता जनिता जात पुरान्तरजनङ्गमवाटे।कर्मकोद्रवरसेन हि मत्त कि किमेत्यशुभधाम न जीव॥’ ‘स्वागतेति रनभाद्गुरु युग्मम्’ इति वचनात् स्वागता छन्द इदम्। स वादिराजोऽपि श्रीसोमदेवाचार्यस्य शिष्य ‘वादीभसिंहोऽपि मदीयशिष्य श्रीवादिराजोऽपि मदीयशिष्य’ इत्युक्तत्वाच्च। तस्मात् कारणात् तयो कायपुरुषयो शरीरात्मनो परमभेदविद निश्चयेन अत्यन्तभेदज्ञानिनो विदग्धा हेयोपादेयविवेकवन्त पुरुषा तत्किमपि श्रेय आदधतु आचरन्तु। तत्किम्। यत्र श्रेयसि न जन्मयोग ससारो न वर्तते न भवति। पुनर्भवो न स्यादित्यर्थ। रूपकालकार॥ इति एतै काव्यैश्चतुर्भिवृत्तकै पृथक्त्वानुप्रेक्षा अन्यत्वानुप्रेक्षा समाप्ता। उक्त च—‘क्षीरनीरवदेकत्र स्थितयोर्देहदेहिनो। भेदो यदि ततोऽन्यत्र कलत्रादिषु का कथा॥ '

आधीयते यदिह वस्तु गुणाय कान्त
काये तदेव मुहरेत्य पवित्रभावम्।
छायाप्रतारितमतिर्मलरन्ध्रबन्ध
किं जीव लालयसि भङ्गुरमेतदङ्गम् ॥१२७॥

योषिद्भिरादृतकर कृतमण्डनश्री-
र्यकामचामररुचिस्तव केशपाश।
सोऽय त्वयि श्रवणगोचरता प्रयाते
प्रेतावनीषु वनवायसवासगोऽभूत् ॥१२८॥

अन्तर्बहिर्यदि भवेद्वपुष शरीर
दैवात्तदानुभवन ननु दूरमास्ताम्।

——————

आधीयत इत्यादि। हे जीव, इह-अस्मिन् काये शरीरे यद्वस्तु कपूरागुरुचन्दन कुसुमादिक वस्तु गुणाय सुगन्धत्वादिगुणनिमित्त कान्त अतिमनोहरं आधीयते क्रियते, तदेव वस्तु मुहुरतिशयेन अपवित्रभाव अशुचित्व एति गच्छति। तेन कारणेन हे आत्मन्, एतत्प्रत्यक्षीभूत अङ्ग शरीरं किमर्थ लालयसि पुन पुन पोषयसि। कथ भूतस्त्वम्। छायाप्रतारितमति छायया गौरश्यामादिवर्णेन प्रतारिता कश्चिता मतियस्य स त्व छायाप्रतारितमति। कथभूत अङ्गम्। मलरन्ध्रबन्ध मलाना विष्ठाना न्ध्राणि छिद्राणि तेषा बन्ध प्रघट्टको यत्र तन्मलरन्ध्रबन्धम्। पुन कथभूत अङ्गम्। भङ्गुर स्वयमेव विनश्वरम्। जात्यलकार॥

योषिद्भिरित्यादि। हे जीवेति सबोधनपद पूर्वोक्तमेव ग्राह्यम्। तेनोपमेयम्। हे जीव हे आत्मन्, यस्तव भवत केशपाश कुन्तलकलाप। कथभूत केशपाश। कामचामररुचि कामस्य कन्दर्पनरेद्रस्य चामररुचि चामरवत् प्रकीर्णवत् रुचि शोभा यस्येति स कामचामररुचि। कृष्णवर्ण इत्यर्थ। कथभूत केशपाश। योषिद्भिर्मृदुक रकमलाभि स्त्रीभि कृतमण्डनश्री जातीचम्पकमुक्तबन्धनादिपुष्पवासिततैलेन कृता मण्डनश्री शोभा लक्ष्मीर्यस्य स। कथम्। आदृतकर आदृतौ आदरपरौ करौ हस्तौ यस्मिन् मण्डनकरणकर्मणि तत् आदृतकरम् यथा भवत्येवम्। स पूर्वोत्कलक्षण केश पाश अय प्रत्यक्षीभूत त्वयि आत्मनि श्रवणगोचरता प्रयाते मरण प्राप्ते सति प्रे तावनीषु श्मशानभूमिषु वनवायसवासगं सर्वाङ्गकृष्णकाकगलकप्राप्तोऽभूद्बभूव। उपमालकार॥

अन्तरित्यादि। हे जीव, अन्त शरीरं अन्तर्गत शरीरं यदि चेत् वपुष शरीरात् बहिर्वाह्येभवेत् दैवात् दैवयोगात् तदा तस्मिन्काले शरीरस्य अनुभवन ननु अहो

कौतूहलादपि यदीक्षितुमुत्सहेत
कुर्यात्तदाभिरतिमत्र भवाञ्शरीरे ॥१२९॥

तस्मान्निसर्गमलिनादपि लब्धतत्त्वा
कीनाशकेलिमनवाप्तधियोऽचिराय।
कायादत किमपि तत्फलमर्जयन्तु
यस्मादनन्तसुखसस्यविभूतिरेषा ॥१३०॥

इत्यशुचित्वानुप्रेक्षा ॥६॥

अन्त कषायकलुषोऽशुभयोगसङ्गा-
त्कर्माण्युपार्जयसि बन्धनिबन्धनानि।
रज्जू करेणुवशग करटी यथैता -
स्त्व जीव मुञ्च तदिमानि दुरीहितानि ॥१३१॥

——————

दूर विप्रकृष्ट आस्ता तिष्ठतु। तस्मिन् काले कौतूहलादपि कुतूहलमात्रादपि यदीक्षितु द्रष्टु उत्सहेत तदा अत्र शरीरे अभिरतिं समुसीभूय मरण कुर्यात् विदध्यात्। जात्यलकार॥

तस्मादित्यादि। तस्मात्कारणात् अत एतस्मात् कायात् किमपि अनिर्वचनीय तत् योगिना प्रसिद्ध लब्धतत्त्वा पुरुषा हेयोपादेयविवेकवन्त पुरुषा फल लाभ अचिराय अर्जयन्तु गृह्णन्तु।यस्मात् फलात् एषा अनन्तसुखसस्यविभूति आत्यन्तिकसौख्यफलविभूतिरैश्वर्यं भवति। कथभूतात्। अत एतस्मात् कायात्। निसर्गमलिनादपि स्वभावेन कश्मलीभूतादपि। कथभूता लब्धतत्त्वा। कीनाशकेलिं यमक्रीडा प्रति अन वाप्तधिय अप्राप्तबुद्धय। यावन्मरण नायान्तीत्यर्थ। रूपकालकार। तथा चोक्तम्–‘व्यापत्पर्वभय विरामविरस

मूलेऽप्यभोगोचित विष्वक् क्षुत्क्षतपातकुष्व(?)कुपितग्राम्यामयैश्छिद्रितम्। मानुष्य घुणभक्षितेक्षुसदृश नामैकरम्य पर नि सारं परलोकबीजमचिरात्कृत्वेह सारीकुरु॥’ इति। एतैश्चतुर्भिवृत्तैरशुचित्वानुप्रेक्षा समाप्ता॥

अन्तरित्यादि। हे जीव, व अन्तर्मनसि कषायकलुष क्रोधमानमायालोभैर्मलिन सन् अशुभयोगसङ्गात् अशुभयोगाश्रयणात्कारणात् कर्माणि प्रकृतिस्थित्यनुभागप्रदेशलक्षणानि बन्धाना निबन्धनानि कारणानि कर्माणि आश्रयाण्युपार्जयसि स्वीकरोषि। यथा येन प्रकारेण करेणुवशग करटी हस्तिनीलम्पट करी एता राजमन्दिरप्रत्यक्षीभूता रज्जूर्बन्धनानि उपार्जयति। तत्तस्मात् कारणात् हे जीव, त्व भवान् इमानि प्रत्यक्षीभूतानि दुरीहितानि दुश्चेष्टितानि मुञ्चत्यज। उपमालकार॥

सकल्पकल्पतरुसश्रयणात्त्वदीय
चेतो निमज्जति मनोरथसागरेऽस्मिन्।
तत्रार्थतस्तव चकास्ति न किंचनापि
पक्षे पर भवसि कल्मषसश्रयस्य ॥१३२॥

सेर्ष्यंविभूतिषु मनीषितसश्रयाणा
चक्षुर्भवत्तव निजार्तिषु मोघवाञ्छम्।
पापागमाय परमेव भवेद्विमूढ
कामात्कुत सुकृतदूरवता हितानि ॥१३३॥

दौर्विध्यदग्धमनसोऽन्तरुपात्तभुक्ते-
श्चित्त यथोल्लसति ते स्फुरितोत्तरङ्गम्।

————————

सकल्पेत्यादि। हे जीवेति सबोधनपद पूर्वोक्तमेव ग्राह्यम्। तेनायमर्थ। हे जीव, सकल्पकल्पतरुसश्रयणादाश्रयणात् त्वदीय तव चेतो मन आत्मा अस्मिन् प्रत्यक्षी भूते मनोरथसागरे दोहदसमुद्रे निमज्जति ब्रुडति सकल्पश्चित्तोन्नति स एव कल्पत रुर्वाञ्छितफलप्रदायकत्वात् तस्य सश्रयणमवबन्धन तस्मात्। तत्र सकल्पतरुसश्रयणे अर्थत परमार्थतस्तव भवत किचनापि किचिदपि न चकास्ति इष्टस्र्यद्यनुभवन चकास्ति भवति। पर केवल निश्चयेन वा कल्मषसश्रयस्य पापाश्रयस्य पक्षे

भवति96स्वीकारवान्

भवति। रूपकालकार। तथा चोक्तम्—‘दट्ठूण परकलत्त राम मा वहसि हियय मज्जम्मि।पावेण पाव लिप्पसि पाव मावहसि त्व च शुद्धो हि॥ '

सेर्ष्यमित्यादि। हे जीव, तव चक्षु तव दृष्टि। त्वदीय मन इत्यर्थ। निजार्तिषु

आर्तेषु वस्त्वाकाङ्क्षासु भवत्सजायमान वर्तते। कथभूत चक्षु मोघवाञ्छ विफलेच्छम्। मनीषितसश्रयाणा विभूतिषु स्वार्गादिसौरयसबन्धिना वस्तूना विभूतिषु ऐश्वयेषु सेर्ष्य द्वेषसहित वर्तते। पर केवल पापागमाय पापोपार्जनाय एवेति निश्चित भवेत्सजायेत। रे विमूढ हेयोपादेयविकलात्मन् कामात् वाञ्छामात्रात् मनोरथमात्रात् सुकृतदूरवता पुण्यकर्मरहिताना हितानि सौख्यानि कुत। न कुतोऽपीत्यथ। आक्षेपालकार॥

दौर्विध्येत्यादि। हे आत्मन्, ते तव चित्त मन यथा येन प्रकारेण अन्तरुपात्त भुक्ते सकल्पेन गृहीतभोजनस्य ततो

मुक्तिग्रहणार्थमिति भाव। उल्लसति प्रवर्तते। कथभूत चित्तम्। स्फुरितोत्तरङ्ग स्फुरिता उत्पन्ना उत्तरङ्गा उत्कटा उल्लोला मनोरथा यस्येति स्फुरितोत्तरङ्गम्। कथभूतस्य ते। दौर्विध्यदग्धमनस दौर्विध्येन निर्धनत्वेन

धाम्निस्फुरेद्यदि तथा परमात्मसज्ञे
कौतस्कुती तव भवेद्विफला प्रसूति ॥१३४॥

इत्याश्रवानुप्रेक्षा ॥७॥

आगच्छतोऽभिनवकार्मणरेणुराशे-
र्जीव करोति यदवस्खलन वितन्द्र।

सत्तत्त्वचामरघरै प्रणिधानहस्तै
सन्तो विदुस्तमिह सवरमात्मनीनम् ॥१३५॥

यस्त्वा विचिन्तयति सचरते विचारै-
श्चार्वी चिनोति परिमुञ्चति चण्डभावम्।
चेतो निकुञ्चति समञ्चति वृत्तमुच्चै
स क्षेत्रनाथ निरुणद्धि कृती रजासि ॥१३६॥

———————

दग्ध भस्मीकृत मनो यस्य। हे जीव, तथा तेन प्रकारेण परमात्मसज्ञे वाम्निबहिस्तत्त्वान्तस्तत्त्वनाम्नि धाम्नि स्थाने तेजसि वा यदि चेत्स्फुरेत् कुर्यात्। चेष्टयेत् इत्यर्थ। तहि तव प्रसूतिर्भवत उत्पत्तिर्जन्म विफला निष्फला कौतस्कुती भवेत्। कुतो भवा कौतस्कुती। न कुतश्चिद्भवेदित्यर्थ। तव जन्म सफलमेव भवेत्। आक्षेपालकार॥ इति चतुर्भि

र्वृत्तैराश्रवानुप्रेक्षा समाप्ता॥

आगच्छत इत्यादि। सन्त सत्पुरुषा इह अस्मिन् ससारे त सवर विदुर्जानन्ति। कथयन्तीत्यर्थ। कथभूत सवरम्। आत्मनीन आत्महितम्। त कम्। आगच्छत ढाकैमानस्य अभिनवकार्मणरेणुराशे नवीनकर्मसबन्विपुद्गलपरमाणुसमूहस्य जीव आत्मा वितन्द्र अप्रमत्त सन् यत् अवस्खलन निषेध करोति। कै कृत्वा अवस्खलन करोति। प्रणिवानहस्तै शुभध्यानपाणिभि। कथभूतै प्रणिधानहस्तै। स्वतत्त्वचामरवरे आत्मतत्त्वप्रकीर्णकधारिभि। रूपकालकार॥

य इत्यादि। हे क्षेत्रनाथ आत्मन् स त्व कृती पुण्यवान् सन् रजासि पापा श्रवान् निरुणद्धि प्रतिबध्नीहि। स क। स त्वमेव आत्मैव। तथापि स क। यस्त्वा आत्मान विचिन्तयति ध्यायति। य आत्मा विचारैर्विवेकैर्भेदज्ञानैरात्मनि सचरते प्रवेश करोति। ‘उद श्चर सकर्मक’ इत्यधिकारे ‘समस्तृतीयायुक्तात्’ इत्यनेन सूत्रेण ‘चर’ धातोरात्मनेपदित्वम्। य आत्मा चार्वी बुद्धिं ज्ञानस्वरूपा चिनोति विस्तार नयति। य आत्मा चण्डभाव क्रोध परिमुञ्चति त्यजति। य आत्मा चेतो मनो निकुञ्चति विषय कषायेषु गच्छत्सकोचयति। य आत्मा उच्चैरतिशयेन वृत्त चारित्र समञ्चति समागच्छति प्रतिपालयति स त्व आत्मा वर्तसे। अनुपमानालकार॥

नीरन्ध्रसधिरवधीरितनीरपूर
पोतसरित्पतिमपैति यथानपाय।
जीवस्तथा क्षपितपूर्वतम प्रतान
क्षीणाश्रवश्च परम पदमाश्रयेत ॥१३७॥

इति सवरानुप्रेक्षा ॥८॥

मध्याधरोर्ध्वरचन पवनत्रयान्त-
स्तुल्य स्थितेन जघनस्थकरेण पुसा।
एक स्थितिस्तव निकेतनमेष लोक-
स्त्रस्यन्निकीर्णजठरोऽग्रनिषण्णमोक्ष ॥१३८॥

———————

** नीरन्ध्रसधिरित्यादि**। पोत प्रवहण यथा येन प्रकारेण अनपायो निर्विघ्न दुर्वातवार्दलादिरहित सन् सरित्पतिं समुद्र अपैति तीर्त्वा पार गच्छति। कथभूत पोत। नीरन्ध्रसधि निश्छिद्र सधिरहितश्च। पुन कथभूत पोत।अवधीरितनीरपूर दूरीकृतमध्यागतजलसमूह। तथा तेनैव प्रकारेण जीव आत्मा क्षपितपूवतमप्रतान निजीर्णपूर्वकर्मसमूह क्षीणाश्रवश्च अभिनवकर्माश्रवरहित परम पद मोक्ष आश्र येत स्वीकरोति। दृष्टा तालकार॥ इति त्रिभिर्वृत्तै सवरानुप्रेक्षा समाप्ता॥

मध्येत्यादि। हे जीव, एष प्रत्यक्षीभूतो लोकस्त्रैलोक्य तव निकेतन तव गृह वतते। कथभूतो लोक। मध्याधरोर्ध्वरचन मध्यो मर्त्यलोक, अधरोऽधोलोक ऊर्ध्व ऊर्ध्वलोक, एतैस्त्रिभिर्लोकै रचना निष्पत्तिर्यस्य स मध्याधरोर्ध्वरचन। पुन कथभूतो लोक। पवनत्रयान्त पवनाना घनवातघनोदधितनुवातवाताना त्रय अन्ते अवसाने वृक्षस्य त्वक्समानाकार यस्य स तथा। पुन कथभूतो लोक। पुसा पुरुषेण तुल्य सदृश। कथभूतेन पुसा। स्थितेन प्रसारितपादोद्भेदेन। अपर कथभूतेन पुसा। जघनस्थकरेण जघन कट्यप्रभागस्तस्मिन् तिष्ठत इति जघनस्थौ कटीतटस्थौ करौ हस्तौ यस्य स जघनस्थकरस्तेन तथा। पुन कथभूतो लोक। एकस्थिति एको महास्कन्ध स्थितिर्यस्य स एकस्थिति। ईदृग्विधोऽन्य कोऽपि स्कन्धे नास्ति। पुन कथभूतो लोक। त्रस्यन्निकीर्णजठर त्रस्यद्भि जीवैर्निकीर्णो भृतो जठर उदरो यस्य स त्रस्यन्निकीणजठर। त्रसजीवसभृतरज्जुविस्तार त्रयोदशरज्जूर्ध्वमध्यसद्भाव सप्तनरकाध स्थितैकरज्जुत्रसजीवशून्यत्वात् सा चतुर्दशीरज्जुरित्यर्थ। एषा षण्णा मपि नरकाणा अधोभागे एकैका रज्जु त्रसजीवरहिता वर्तते। लोकपूर्णसमुद्धातापेक्षया चतुर्दशस्वपि रज्जुषु त्रससद्भावो वर्तत एवेत्यागमरहस्य ज्ञातव्यम्। पुन कथभूत। अप्रनिषण्णमोक्ष अग्रेउपरितनभागे निषण्णमोक्ष स्थितमोक्ष पञ्चचत्वारिंशल्लक्षयोजनविस्तार आयामो यस्य लोकस्य स अग्रनिषण्णमोक्ष। उपमालकार॥

कर्ता न तावदिह कोऽपि धियेच्छया वा
दृष्टोऽन्यथा कटकृतावपि स प्रसङ्ग।
कार्ये किमत्र सदनादिषु तक्षकाद्यै-

राहृत्य चेत्त्रिभुवन पुरुष करोति ॥१३९॥

त्व कल्मषावृतमतिर्निरये तिरश्चि
पुण्योचितो दिवि नृषु द्वयकर्मयोगात्।
इत्थ निषीदसि जगत्रयमन्दिरेऽस्मि -
न्खैर प्रचारविधये तव लोक एष ॥१४०॥

अत्रास्ति जीव न च किंचिदभुक्तमुक्त
स्थान त्वया निखिलत परिशीलनेन।

———————

कर्तेत्यादि। हे आत्मन्, इह अस्मिन् ससारे कोऽपि रुद्रादिकस्तावत्कर्ता न वर्तते। कया। धिया बुद्ध्या कृत्वा, अथवा इच्छया वाञ्छया कृत्वा, कर्ता न वर्तते नास्ति। भवति चेत् तर्हि सत्यपि तृणादिके बुद्धौ इच्छाया च सत्या कटो

निष्पद्यते,न च तथा दृश्यते, अत एव धिया इच्छया वा कोऽपि कर्ता न दृष्ट। अन्यथा दृष्टश्चेत्, क्टकृतावपि हारनिष्पत्तावपि स कर्तृप्रसङ्गो दृष्ट। एवसति अत्र अस्मिन् जगति तक्षकाद्यै सूत्रधारदृषद्भेदकादिभि सदनादिषु गृहादिनिष्पादनेषु कि कार्यम्। अपि तु न किमपि कार्यम्। आहत्य वस्तूनि परमाण्वादीनि मेलयित्वा कश्चित्पुरुष त्रिभुवन करोति उर्वीपर्वततर्वादिक सर्व विदधाति। य एव त्रिभुवन विदधाति तस्य गृहादि करणे कि दुष्कर तेन कर्तृवाद सर्वोऽपि मिथ्यैव वर्तते। आक्षेपालकार॥

त्वमित्यादि। हे आत्मन् इत्थ अमुना प्रकारेण त्व भवान् अस्मिन् जगत्रयम न्दिरे त्रैलोक्यवेश्मनि निषीदसि तिष्ठसि। उत्पद्यस (?) इत्यर्थ। त्व कुत्र कुत्र तिष्ठसि कल्मषावृतमति निष्केवलपापवेष्टितबुद्धिर्निरये नरके तिरश्चि तिर्यग्गतौ च विष्ठसि पुण्येन उचितो योग्य सन् दिवि स्वर्गे सर्वार्थसिद्धिपर्यन्ते निषीदसि। द्वयकर्मयोगात् पापपुण्यकर्मसामग्रीयोगात् नृषु मनुष्यगतिषु निषीदसि। एष प्रत्यक्षीभूतो लोक तव भवत स्वैर तवेच्छानु

सारेण

प्रचारविधेये पर्यटनविधाने वर्तते। रूपकालकार॥

अत्रेत्यादि। हे जीव, अत्र अस्मिन् लोके किचित्स्थान त्वया अभुक्तमुक्त पूर्व भुक्त पश्चान्मुक्त न चैवास्ति वर्तते। कुत। निखिलत समस्तभावेन। लोकसबन्धि स्थान त्वया निखिल समस्त भुक्त मुक्त चेत्यर्थ। केन कृत्वा अभुक्तमुक्त न वर्तते। परिशीलनेन

तत्केवल विगलिताखिलकर्मजाल
स्पृष्ट

कुतूहलधियापि न जातु धाम॥१४१॥

इति लोकानुप्रेक्षा॥९॥

आपातरम्यरचनैर्विरसावसानै-
र्जन्मोद्भवै सुखलवै स्खलितान्तरङ्ग।
दु खानुषङ्गकरमर्जितवान्यदेन-
स्तत्त्व सहस्वहतजीव नवप्रयातम्॥१४२॥

कालुष्यमेषि यदिह स्वयमात्मकामो
जागर्ति तत्र ननु कर्म पुरातन ते।
योऽहिं विवर्धयति कोऽपि विमुग्धबुद्धि
स्वस्योदयाय स नर प्रवर कथ स्यात्॥१४३॥

——————

समन्तादभ्यासेन। अनन्तवारान् पुन पुनरभ्यासेन भुक्त मुक्त चेत्यर्थ। तर्हिकिमर्थे भुक्तमुक्त वतते किवा सर्वमेवानुभुक्तमुक्तम्, तज्जगत्प्रसिद्ध केवलमेक धाम स्थान जातु कदाचिदपि कुतूहलधिया विनोदेनापि स्पृष्ट न वर्तते। कथभूत तद्धाम। विगलि ताखिलकर्मजालम् विगलितानि नष्टानि अखिलानि समस्तानि मूलोत्तरप्रकृतिभेदभिन्नानि कर्मजालानि कर्मसमूहानि यस्मिन् यस्माद्वा तथा। जात्यलकार॥ इति लो कानुप्रेक्षा समाप्ता॥

आपातरम्यरचनैरित्यादि। हे हतजीव हृतो नष्टश्चासौ जीव हतजीव अथवा हता जीवा प्राणिनो येन स हतजीवस्तस्य सबोधन क्रियते हे हतजीव, तत् त्व नवप्रयात प्रत्यग्रमायात कर्मविपाक सहस्वक्षमस्व अनुभव। तत्किम्। यत् एन पाप अजितवान्। कथभूतमेन। दु खानुषङ्गकर शारीरमानसागन्तुकदुखोत्पादकम्। कथभूतस्त्वम्। सुखलवैर्वनितादिभोगसुखलेशैस्खलितान्तरङ्ग चलितचित्त। कथभूतै सुखलवै। आपातरम्यरचनै अनुभवकाले मनोहरविधानै। पुन कथभूतै सुखलवै। विरसावसानैविरस कटुतर नीरस अवसान पर्यन्तो येषा तानि तथा तै। पुन कथभूतै सुखलवै। जन्मोद्भवै ससारोत्पन्नै इष्टस्रग्वनिताचन्दनादिभि अथवा जन्म ससार तस्योद्भव उत्पत्तिर्येषा सुखलवाना ते तथा तै। जात्यलकार॥

कालुष्यमित्यादि। हे जीव, यस्त्व इह अस्मिन् ससारे कालुष्य परिणामस्या निर्मलत्वमेषि गच्छसि। कथम्। स्वयमात्मनैव। क्थभूतस्त्वम्। आत्मकाम आत्मनि कामो विषयाभिलाषो यस्य स आत्मकाम। तत्र आत्मकामे ननु निश्चयेन ते तव

आतङ्कपावकशिखा सरसावलेखा
स्वस्थे मनाग्मनसि ते लघु विस्मरन्ति।
तत्कालजातमतिविस्फुरितानि पश्चा-
ज्जीवान्यथा यदि भवन्ति कुतोऽप्रिय ते ॥१४४॥

इति निर्जरानुप्रेक्षा ॥१०॥

श्रद्धाभिसघिरवधूतबहि समीह-
स्तत्त्वावसायसलिलाहितमूलबन्ध।
आत्मा यमात्मनि तनोति फलद्वयार्थी
धर्म तमाहुरमृतोपमसस्यमाप्ता ॥१४५॥

——————

पुरातन पूर्वोपार्जित कर्म पुण्य पाप वा जागर्ति विद्यते। अमुमेवार्थ आक्षेपेण द्रढयति—य कोऽपि य कश्चित्पुमान् विमुग्धबुद्धि अज्ञानिना चक्रवर्ती अहि सर्प विवर्धयति दुग्धादिना पोषयति। किमर्थम्। स्वस्य आत्मन उदयाय कल्याणार्थम्। स नर स पुमान् प्रवर श्रेष्ठ कथ स्यात् केन प्रकारेण भवेत्। अपि तु न कथमपि स्यादित्यर्थ। आक्षेपालकार॥

आतङ्केत्यादि। हे जीव, आतङ्कपावकशिखा रोगवैश्वानरज्वालास्ते तव मनसि चेतसि मनाक् ईषत्स्वस्थे सुखिनि सति लघु शीघ्र विस्मरन्ति स्मृतिं नायान्ति हृदये न चमत्कुवन्ति। कथभूता आतङ्कपावकशिखा। सरसावलेखा सरस प्रत्यग्रो अवलेखो अनुभवो यासा ता। हे जीव, तत्कालजातमतिविस्फुरितानि तत्काले रोग काले जातान्युत्पन्नानि मतेर्बुद्धेर्यानि विस्फुरितानि चमत्कृतानि अह रोगमुक्तो यदा भविष्यामि तदा पश्चान्निश्चयेन धर्म करिष्यामीति विचारणानि यदि अन्यथा भवन्ति न विस्मरन्ति तर्हि जीव, ते तव अप्रिय पापापार्जन कुत। न कुतोऽपीत्यर्थ। रूपकाक्षेपालकार। इति निर्जरानुप्रेक्षा समाप्ता॥

श्रद्धेत्यादि। आत्मा जीवो य धर्मं अमृत आत्मनि तनोति विस्तारयति त धर्म अर्जयन्ति। के ते। आप्ता सर्वज्ञा। कथभूत धर्मम्। अमृतोपमसस्य अमृतोपमफलम्। कथभूत आत्मा। श्रद्धाभिसधि श्रद्धाया सम्यग्दर्शने अभिसधिरभिप्रायो यस्य स तथा। पुन कथभूत आत्मा। अवधूतबहि समीह अवधूता दूरीकृता बहि समीहा पञ्चेद्रियविषयवाञ्छा येन स तथा। पापक्रियाविरमणलक्षणचारित्रसयुक्त इत्यर्थ। पुन कथभूत आत्मा। तत्त्वावसायसलिलाहितमूलबन्ध तत्त्वाना जीवाजीवाश्रवबन्धसवरनिर्जरामोक्षलक्षणाना सप्ताना तत्त्वाना पुण्यपापद्वयसयुक्तनवपदार्थाना जीवपुद्गलधर्माधर्मकालाकाशाना षड्द्रव्याणा कालरहितपञ्चास्तिकायाना अवसाय

मैत्त्रीदयादमशमागमनिर्वृताना
बाह्येन्द्रियप्रसरवर्जितमानसानाम्।
विद्याप्रभाप्रहतमोहमहाग्रहाणा
धर्म परापरफल सुलभो नराणाम् ॥१४६॥

इच्छा फलै कलयति प्ररुणद्धि बाधा
सृष्टेरसाम्यविभुरभ्युदयादिभिर्य।
ज्योतीषिदूतयति चात्मसमीहितेषु
धर्म स शर्मनिधिरस्तु सता हिताय ॥१४७॥

———————

सम्यग्ज्ञान स एव सलिल पानीय ससारतृष्णानिवारकत्वात्तेनाहित आरोपितो मूलबन्धो येनात्मना स तथोक्त। श्रीदिगम्बराचायप्रतीतिसयुक्तसम्यग्ज्ञान इत्यर्थं। पुन कथभूत आत्मा। फलद्वयार्थी। स्वर्गमोक्षफलद्वयाकाङ्क्षी इत्यर्थ। रूपकोपमालकार॥

मैत्त्रीत्यादि। नराणा मनुष्याणा धर्म सुलभ सुग्रहो भवति। कथभूतो धर्म। परापरफल पर फल मोक्ष अपरं फल अभ्युदयलक्षण सासारिक सुख यस्मादिति परापरफल। कथभूताना नराणा धर्म सुलभो भवतीत्याह—मैत्रीदयादमशमागमनिर्वृतानाम् मैत्री च अद्वेष, दया च परहितवृत्ति, दमश्च पञ्चेन्द्रियजितेन्द्रियत्वम्, शमश्व उत्तमक्षमा, आगमश्च जिनसूत्रम्, अथवा मैत्रीदयादमशमाना आगमेन प्राप्त्या निर्वृता आनन्द प्राप्ता सुखीभूता ये ते मैत्रीदयादमशमागमनिर्वृतास्तेषा तथोक्तानाम्। पुन कीदृशाना नराणा धर्मसुलभो भवति। बाह्येन्द्रियप्रसरवर्जितमानसानाम् बाह्येषु स्पर्शरसगन्धवर्णशब्दरूपेषु पञ्चेन्द्रियविषयेषु इन्द्रियाणा प्रसर प्रवृत्तिस्तेन वर्जित रहित मानस चित्त येषा ते तथा तेषाम्। पुन कीदृशाना नराणा धर्म सुलभो भवति। विद्याप्रभाप्रहतमोहमहाग्रहाणाम् विद्या सर्वज्ञप्रणीतशास्त्र तस्या प्रभा मा हत्म्य तथा प्रहतो विध्वसितो मोह अज्ञान स एव महाग्रहो महापिशाच प्रथित्य(?) कारकत्वात् यैस्ते तथा तेषाम्। रूपकालकार॥

इच्छा इत्यादि। स जगत्प्रसिद्धो धर्म सता विद्वज्जनाना हिताय मोक्षायास्तु भवतु। स क यो धर्म फलै कृत्वा पुत्रकलनधनधान्यारोग्यादिभि कृत्वा इच्छा मनोरथान् कलयति पूरयति। यो धर्म बाधा शारीरमानसागन्तुकादीनि दुखानि प्ररुणद्धि निषेधयति। यो धर्म अभ्युदयादिभि कृत्वा राज्यादिभि कृत्वा असाम्यविभु अनुपमसमर्थ। यो धर्म ज्योतींषि श्रुतावधिमन पर्यायादीनि दूतयति मोक्ष दूतान्प्रेरयति प्रहिणोति। केषु दूतान्प्रहिणोति आत्मसमीहितेषु अनन्तज्ञानादि चतुष्टयेषु। कथभूतो धर्म। यथोक्तविशेषणविशिष्ट शर्मनिधि शर्मणा सौख्याना निधिर्निधान शर्मनिधि । रूपकोपमालकार॥

देहोपहारकुतपै स्वपरोपतापै
कृत्वाध्वरेश्वरमिष विदलन्मनीषा।
धर्मैषिणो य इह केचन मान्द्यभाज-
स्ते जातजीवितधियो विषमापिबन्ति ॥१४८॥

येऽन्यत्र मन्त्रमहिमेक्षणमुग्धबोधा
शर्वैषिण पुनरत शिवता गृणन्ति।
तेनावितारणदृशो दृषदोऽवलम्ब्य
दुष्पारमम्बुधिजल परिलङ्घयन्ति ॥१४९॥

धर्मश्रुतेरिह परत्र च येऽविचारा
सदिह्य तामसदृश सतत यतन्ते।
दुग्धाभिधानसमताविलबुद्धयस्ते
नून गवार्करसपानपरा भवन्तु ॥१५०॥

————————

देहोपेति। इह अस्मिन् ससारे ये केचन मान्द्यभाजो जडस्वभावा कर्मचाण्डाला अध्वरेश्वरमिष कृत्वा अध्वरस्य यागस्य ईश्वरस्य रुद्रपूजाया मिष छद्म कृत्वा विधाय वर्मैषिणो धर्मवाञ्छका भवन्ति। कै कृत्वा अध्वरेश्वरमिष कुर्वन्ति। देहोपहारकुतपै देहाना नरस्त्रीपशूना अ(उ)पहार शरीरविध्वसनमसिजलादिभि कुतपास्तूर्याणि वेदवचनानि इत्यर्थस्तै। कथभूतैर्देहोपहारकुतपै। स्वपरोपतापै कथकापर दुखहेतुभूतै। ते पुरुषा जातजीवितधिय जीवितार्थबुद्धय विष हलाहल आपिबन्ति आस्वादयन्ति। कथभूतास्ते पुरुषा। विदलन्मनीषा। दुर्बुद्धय इत्यर्थ। रूपकोपमालकार, दृष्टान्तो वा॥

ये इत्यादि। ये पुरुषा अन्यत्र सर्वज्ञ वीतराग दृष्ट्वा मतान्तरे मन्त्रमहिमेक्षण मुग्धबोधा सन्त मन्त्राणा महिमा माहात्म्य तस्य ईक्षणेन अवलोकनेन मुग्धबोधा अचतुरबुद्धयो मनुष्या शर्वैषिणो रुद्रमतानुसारिण पुरुषा पुन पश्चात् आराधनादनन्तरं अत अस्मात् रुद्रात् शिवता मुक्तत्व वय मुक्ता भविष्याम इति गृणन्ति जानन्ति ते पुरुषा नावितारणदृश नौकाया तारणबुद्धय दृषद पाषाणान् अवलम्ब्य गृहीत्वा आरुह्य दुष्पार पाररहित अम्बुधिजल समुद्रतोय परिलङ्घयन्ति उत्तरन्ति। दृष्टान्ता लकार॥

धर्मश्रुतेत्यादि। धर्मश्रुतेर्धर्मश्रवणात् इह अस्मिन् आर्हतमते परत्र च वेदोकार्थे ये पुरुषा अविचारा सदिह्य सदेह कृत्वा पश्च जैनाभासाश्च तामसदृशो मिथ्या दृष्टय सतत निरतर यतन्ते धर्मार्थ चेष्टते ते पुरुषा दुग्धाभिधानसमताविलबु

अज्ञस्य शक्तिरसमर्थविधेर्निबोध-
स्तौ चारुचेरियममूतुदती न किंचित्।
अन्धा

ङ्घ्रिहीनहतवाञ्छितमानसाना
दृष्टा न जातु हितवृत्तिरनन्तराया ॥१५१॥

चार्व्यांरुचौ तदुचिताचरणे च नृणा
दृष्टार्थसिद्धिरगदादिनिषेवणेषु।
तस्मात्परापरफलप्रदधर्मकामा
सन्तस्त्रयावगमनीतिपरा भवन्तु ॥१५२॥

इति धर्मानुप्रेक्षा ॥११॥
——————

द्धय क्षीरनाम्ना समतया सादृश्येन आविलबुद्धय अतुच्छबुद्धय कश्मलमतय नून निश्चयेन गवार्करसपानपरा गोरसे सुरभिदुग्धे अर्करसे मन्दारक्षारे च पानपरा आस्वादनतत्परा भवन्तु सजायन्ताम्। निषेधालकार॥

अज्ञेत्यादि। अज्ञस्य ज्ञानहीनस्य शक्तिश्चारित्र न किं तुदति, असमर्थविधे चारित्रहीनस्य पुरुषस्य निबोधो ज्ञान न किचिद्भवति, अरुचे सम्यक्त्वहीनस्य तौ च शक्ति निबोधौ न किचिद्भवत इयमरुचि तत्त्वानामश्रद्धान अमू शक्तिनिबोधौ कर्मतापन्नौ तुदती व्यथयन्ती वर्तते। अमुमेवार्थे दृष्टान्तेन द्रढयति—अन्धाङ्घ्रिहीनहतवाञ्छितमानसाना जातु कदाचित् हितवृत्तिर्मोक्षप्रवृत्तिरनन्तराया निर्विघ्ना न दृष्टा न विलाकिता। अन्धश्चक्षुर्विकल पुमानङ्घ्रिविहीन पड्गु पुरुष हतवाञ्छितमानस अरुचि पुमान् अन्धाङ्घ्रिहीनहतवाञ्छितमानसास्तेषा अन्धाङ्घ्रिहीनहतवाञ्छितमानसानाम्। उ क च—‘वनशिखिनि मृतोऽन्ध सचरन् बाढमङ्घ्रिद्वितयविकलमूर्तिर्वीक्ष्यमाणोऽपि पङ्गु। अपि सनयनपादोऽश्रद्दधानश्च तस्माद्दृगवगमचरित्रै सयुतैरेव सिद्धि॥’ दृ ष्टान्तालकार॥

चार्व्यामित्यादि। चार्व्या सम्यग्ज्ञाने सति रुचौ सम्यग्दर्शने सति तदुचिताचरणे च सम्यक्चारित्रे सति अगदादिनिषेवणेषु औषधस्वादनादिषु नृणा अर्थसिद्धि रोगादिविनाश कार्यसिद्धिर्दृष्टा अवलोकिता कथिता। औषधमन्त्रादिक यदि सम्यग्जानाति रुचिबलेन च कटुकमप्यौषध पातुमिच्छति तदुचिताचरणे च रुचिबलात् कटुकमप्यौषध पिबति च तस्य रोगविनाशो भवति उल्लासो भवति तथा सम्यग्दर्शनचा रित्रै कर्मरोगमुक्तो भवति। तस्मात्कारणात् परापरफलप्रदधर्मकामा पर फल नि श्रेयस अपर फल अभ्युदयलक्षण ते द्वे अपि प्रयच्छति इति परापरफलप्रद स चासौ धर्म परापरफलप्रदधर्मस्तस्य कामोऽभिलाषो येषा पुरुषाणा ते परापरफलप्रदधर्म-

ससारसागरमिम भ्रमता नितान्त
जीवेन मानवभव समवापि दैवात्।
तत्रापि यद्भुवनमान्यकुले प्रसूति
सत्सगतिश्च तदिहान्धकवर्तकीयम् ॥१५३॥

कृच्छ्राद्वनस्पतिगतेश्च्युत एष जीव
श्वभ्रेषु कल्मषवशेन पुन प्रयाति।
तेभ्य परस्परविरोधिमृगप्रसूता-
वस्या पशुप्रतिनिभेषु कुमानवेषु ॥१५४॥

ससारयन्त्रमुदयास्तघटीपरीत
सातानतामसगुण भृतमाधितोयै।

———————

कामा सत आसन्नभव्यजीवा त्रयावगमनीतिपरा सम्यग्दशनज्ञानचारित्रपरिज्ञाननयतत्परा भवन्तु सजायन्ताम्। दृष्टान्तालकार॥ इति धर्मानुप्रेक्षा समाप्ता॥

ससारसागरमित्यादि। ससारसागर समुद्र इम प्रत्यक्षीभूत चतुर्गतिलक्षण भ्रमता पर्यटता नितान्तमतिशयेन जीवेनात्मना कर्तृभूतेन मानवभव कर्मतापन्नो दै वात् पुण्यकर्मोदयात् समवापि सप्राप्त, तत्रापि मानवभवेऽपि सति यद्भुवनमान्यकुले प्रसूतिर्भवति द्विजनृपतिवणिग्वर्णकुले जन्म भवति सत्सगतिश्च भवति महामुनीना सगमश्च भवति तत् इह अस्मिन् ससारे अन्धकवर्तकीय अन्धकवर्तकीयो दृष्टान्त यथा कश्चिदन्धक पुमान् करतलेन करंताडयन् वर्तते तस्य करद्वयमध्यवर्तक पक्षि विशेष समायाति स तु दुर्लभस्तथा मानवभवे सत्सगतिर्दुर्लभा वर्तते। उपमालकार॥

कृच्छ्रादित्यादि। एष स्वानुभूतिप्रत्यक्षीभूतो जीव आत्मा कृच्छ्रात् कष्टात् अनन्तकालदुखानुभवितत्वात् वनस्पतिर्गते निर्गतवान् च्युतो निर्गम सन् कल्मषवशेन पापवशेन पुन पुनरपि वारवार श्वभ्रेषु सप्तमहानरकेषु प्रयाति नारकपर्यायान् गृह्णाति तेभ्य श्वभ्रेभ्य सकाशात् च्युत सन् परस्परविरोधिमृगप्रसूतौ अन्योन्यवैरिमृगजन्मनि प्रयाति गच्छति सिंहगजमृगव्याघ्रमूषकमार्जाराहिनकुलसर्पमयूरश्येनवर्तकादिति र्यक्षु उत्पद्यते। अस्या मृगप्रसूते सकाशात् च्युत सन् पशुप्रतिनिभेषु तिर्यक्स दृशेषु कुमानवेषु कुत्सितमनुष्येषु शशकर्णशष्कुलीकर्णलम्बकर्णकालमुखशूकरमुखसिंहमुखव्याघ्रमुखविद्युन्मुखएकोरुलाङ्गूलिकशृङ्गिकुभोगभूमिमनुष्येषु उत्पद्यते म्लेच्छेषु जायते। उपमालकार॥

ससारयन्त्रमित्यादि। एष जीव इति पूर्वोक्तमेव ग्राह्यम्। इत्थ अमुना प्रकारेण संसारयन्त्र ससारघरट्ट आवाहयेत् चालयेत्। कथभूत ससारयन्त्रम्। उदयास्तघटीपरीत

इत्थ चतुर्गतिसरित्परिवर्तमध्य-
मावाहयेत्स्वकृतकर्मफलानि भोक्तुम् ॥१५५॥

आतङ्कशोकभयभोगकलत्रपुत्रै-
र्य खेदयेन्मनुजजन्म मनोरथाप्तम्।
नून स भस्मकृतघीरिह रत्नराशि-
मुद्दीपयेदतनुमोहमलीमसात्मा ॥१५६॥

बाह्यप्रपञ्चविमुखस्य शमोन्मुखस्य
भूतानुकम्पनरुच प्रियतत्त्ववाच।

——————

उदयाश्च सूर्योदया अस्ताश्च सूर्यास्तमनानि उदयास्तास्त एव घट्यो जलघटिकास्ताभि परीत वेष्टितम्। पुन कथभूत ससारयन्त्रम्। सातानतामसगुण सातान सविस्तरस्तामस पापसमूह स एव गुणो वरलोकभाषया वरत्रा यस्मिन् ससारयन्त्रे तत् सातानतामसगुणम्। पुन कथभूत ससारयन्त्रम्। आधितोयैर्भूत आधितोयैर्मानसीपी डाजलैभृत पूरितम्। पुनरपि कथभूतम्। चतुगतिसरित्परिवर्तमध्य चतस्रश्च ता गतयो नारकतिर्यङ्मनुष्यदेवगतयस्ता एव सरितो नद्यस्तासा तासु वा परिवर्तकारी चक्रवत्परिभ्रमणकारी मध्यो यस्य ससारयन्त्रस्य तत्तथोक्तम्। ईदृग्विध ससारयन्त्र किमर्थमा वाहयेत् स्वकृतकर्मफलानि भोक्तु निजोपार्जितपुण्यपापफलानि सुखदु खरूपाणि भोक्तुमनुभवितुम्। रूपकालकार॥

आतङ्केत्यादि। आतङ्कश्च रोगश्च, शोक पश्चात्ताप, भय च सत्त्वादिभीति, भोगाश्च कपूरकस्तूरीचन्दनपुष्पवसनादय, कलत्राणि इष्टस्त्रिय, पुत्राश्च अपत्यानि, आतङ्क शोक्भयभोगकलत्रपुत्रास्तै करणतामापन्नै कृत्वा य पुमान् कतृभूतो मनुजजन्म मनुष्यभव कर्मतापन्न खेदयेत् निर्गमयेत्। कथभूत मनुजजन्।मनोरथाप्त मनोरथैरनेकदोहदैराप्त लब्ध स पुमान् नून निश्चयेन भस्मकृतधी भस्मनिमित्त इह अस्मिन् ससारे रत्नराशिं अनर्घ्यमाणिक्यपुञ्ज उद्दीपयेत् प्रज्वालयेत्। स पुमान् कथभूत। अतनुमोहमलीमसात्मा अतनुर्महान् योऽसौ मोहो अज्ञान लक्ष्मीवितर्को वा इच्छा तेन मलीमसो मलकलुषितपापेनातिकश्मलीकृत आत्मा चेतनो यस्य स अतनुमोहमली मसात्मा। दृष्टान्तालकार॥

बाह्येत्यादि। इय प्रत्यक्षीभूता बोधि रत्नत्रयप्राप्तिर्भव्यस्य रत्नत्रययोग्यस्य पुरुषस्य तस्मै जगत्प्रसिद्धाय पदाय मोक्षस्थानाय अस्तु भवतु सजायताम्। कथभूतस्य भव्यस्य। बाह्यप्रपश्चविमुखस्य बाह्यप्रपञ्चो विषयकषाय विस्तारस्तस्मात् विमुखस्य पराङ्मुखस्य। पुन कथभूतस्य भव्यस्य। शमोन्मुखस्य प्रशमोन्मुखस्य। पुन कथभूतस्य

प्रत्यक्प्रवृत्तहृदयस्य जितेन्द्रियस्य
भव्यस्य बोधिरियमस्तु पदाय तस्मै ॥१५७॥

इति बोध्यनुप्रेक्षा ॥१२॥

तथा—

‘कृत कीर्तिज्योत्स्नाप्रसरदमृतासारसलिलै-
रय ब्रह्मस्तम्बो धवलभवनाभोगसुभग।
भुजस्तम्भालानादियमपि रमासिन्धुरवधू-
र्वश नीता दृप्तद्विषदगमभङ्गैर्मृधवने ॥१५८॥

——————

भव्यस्य। भूतानुकम्पनरुच भूताना सर्वप्राणिना अनुकम्पने कारुण्यकरणे दयाविधाने रुचि श्रद्धा यस्य स भूतानुकम्पनरुक् तस्य भूतानुकम्पनरुच। अपरं कथभूतस्य भव्यस्य। प्रियतत्त्ववाच प्रिया कणामृतप्राया तत्त्व परमार्थभूता वाचो वाण्यो यस्य स प्रियतत्त्ववाक् तस्य प्रियतत्त्ववाच। भूयोऽपि कथभूतस्य भव्यस्य। प्रत्यक्प्रवृत्तहृदयस्य प्रतीचि पश्चाज्ज्योतिषि परमात्मस्वरूपे प्रवृत्त अधिकृत नियुक्त हृदय मनो यस्य स प्रत्यक्प्रवृत्तहृदयस्तस्य। पुन कथभूतस्य भव्यस्य। जितेन्द्रियस्य जितानि स्ववशीकृतानि इन्द्रियाणि स्पशनादीनि येन स जितेन्द्रियस्तस्य। नात्यलकार, अतिशयालकार इति॥ एतै पञ्चभिर्वृत्तैर्बोध्यनुप्रेक्षा समाप्ता॥

तथा स राजा रहसि एकान्ते तेषा अचिराय वेगेन समाहूय आकाय एक वक्ष्यमाणलक्षणोपलक्षितप्रकारेण अबूबुवद्बोधयामास। कथभूते रहसि। निवारितनिखि लजनसदसि निवारित निषिद्ध निखिलाना समस्ताना जनाना मन्त्रिपुरोहितसेनापति प्रभृतीना लोकाना सद समूहो यत्र रहसि तत्तथोक्त तस्मिन्। स कथभूतो राजा। विदूरितससारसुखसकल्प विदूरितो दूरीकृत परित्यक्त ससारसुखस्य स्रग्वनिताचन्दनादिक्स्य सकल्पश्चित्तोन्नतिर्येन स तथोक्त। स राजा पुन कथभूत। चेतोविनिश्चिततपश्च रणकल्प चेतसि मनसि विनिश्चितो निणातस्तपश्चरणस्य दीक्षाया कल्पो रचना येन स तथा। कि कृत्वा पूर्वमबूबुवत्। इति एव विचिन्त्य सम्यक् विचार्य। इतीति किम्। कृत इत्यादि। कीर्तिज्योत्स्नाप्रसरदमृतासारसलिलै कृत्वा अय प्रत्यक्षीभूतो ब्रह्मस्तम्बस्त्रैलोक्य धवलभवनाभोगसुभग कृत धवलानि उज्ज्वलानि भवनानि गृहाणि तेषामाभोग परिपूर्णता तेन सुभगो मनोहर सर्वलोकप्रीतिजनक कीर्तिरेव ज्योत्स्ना चन्द्रिका तया प्रसरन् व्याप्नुवन् अमृतासारो अमृतदृष्टिस्तस्य सलिलै रसै कृत्वा उज्ज्वल कृत इत्यर्थ। तथा मृधवने सप्रामाङ्गणेदृप्तद्विषदगमभङ्गैदृप्ता गर्विता ये द्विषन्त शनवस्त एव अगमा वृक्षा दुखफलदायकत्वात्तेषा भङ्गैशतखण्ड-

लताकान्तारम्यास्तरुपरिजनाकीर्णवसुधा-
स्तटीध्रप्रासादा कमलसुहृदानन्दितभुव।
अरण्यानीर्लक्ष्मीरिव मुहुरुपाश्रित्य हृदय
परस्थानावाप्तेर्विजयि भवतान्मामकमिदम् ॥१५९॥

इति विचिन्त्य विदूरितससारसुखसकल्पश्चेतोविनिश्चिततपश्चरणकल्प समाहूयाचिराय निवारितनिखिलजनसदसि रहसि मामेवमबूबुधत्—‘समस्तशास्त्ररहस्योपास्तिपेशलबुभुत्स वत्स, इय हि राज्यरमाभिलाषितसमागमापि प्रायो निसर्गविनीताचारमपि राजकुमारमभिनवयौवनाङ्गनेव च्छलयति सद्वृत्तोपपत्तिषु मनसि, अन्धयति सन्मार्गदर्शनेषु लोचनयो, ब-

——————

करणै। भुजस्तम्भालानात् दोर्दण्डस्तम्भबन्धनात् इय प्रत्यक्षीभूता रमासिन्धुरवधूरपि लक्ष्मीकरेणुरपि वश नीता स्ववशे कृता। रूपकालकार॥

लतेत्यादि। इद प्रत्यक्षीभूत मामक मदीय हृदय मन अरण्यानीर्महान्त्यरण्यानि उपाश्रित्य परस्थानावाप्तेर्मोक्षस्थानप्राप्तेर्विजयि जयवत् भवताद्भूयाद्भवतु। अरण्यानी कथभूता। लताकान्तारम्या लता वल्ल्यस्ता एव कान्ता स्त्रिय कोमलशरीरत्वात्ताभीरम्या अतिमनोहरा। पुन कथभूता अरण्यानी। वरुपरिजनाकीर्णवसुधा तरवो वृक्षास्त एव परिजना कुटुम्बवर्गा दुखपरितापनिवारकत्वात्तैराकीर्णा व्याप्ता वसुधा भूमिर्यासु तास्तथोक्ता। अरण्यानी पुन कथभूता। तटीध्रप्रासादा पर्वता एव मन्दिरा यासु तास्तथोक्ता। पुन कथभूता अरण्यानी। कमलसुहृदानन्दितभुव कमला मृगास्त एव सुहृदो मित्राणि पुरस्तादाश्रितत्वात्तैरानन्दिता आनन्द प्रापिता शोभिता भूर्भूमिर्यासामरण्यानीना तास्तथोक्ता। अरण्यानी पुन कथभूता। लक्ष्मीरिव राज्यलक्ष्मीसदृशा। रूपकोपमालकार॥

स राजा मा कि अबूबुधत्—समस्तेत्यादि। हे समस्तशास्त्ररहस्योपास्तिपेशल बुभुत्स समस्ताना समग्राणा शास्त्राणा ग्रन्थाना रहस्यस्य गोप्यसत्त्वस्य या उपास्ति रहस्यानुशीलन मुहुर्मुहुरभ्यासस्तया पेशला मनोहारिणी बुभुत्सा बोद्धुमिच्छा मीमासा विचारणा यस्य स तथोक्तस्तस्य सबोधन तथोक्त हे वत्स हे पुत्र, इय प्रत्यक्षीभूता राज्यरमा राज्यलक्ष्मीरभिलाषितसमागमापि वाञ्छितफलदायिन्यपि प्रायो बाहुल्येन निसर्गविनीताचारमपि स्वभावेन विनयवन्तमपि राजकुमार राजपुत्र छलयति प्रथयति। कथम्।हि निश्चयेन। केव छलयति। अभिनवयौवनाङ्गनेव प्रत्यग्रतारुण्यसयुक्तनितम्बिनीव।कस्मिन् छलयति। मनसि चित्ते। केषु छलयति। सद्वृत्तोपपत्तिषु सदा वाराङ्गीकारेषु। पुनश्च राज्यरमा किं करोति। लोचनयोर्नेत्रयोर्विषये अन्धयति अन्ध

धिरयति हितोपदेशेषु श्रवणयो, निपातयति च नियमेन दुरन्तासु तासु व्यसनसततिषु। यौवनाविर्भाव पुन क्षात्रपुत्राणा भूतावतार इव हेतुरात्मविडम्बनस्य, प्रसवागम इव कारण मदस्य, उन्मादयोग इव प्रसवभूमिरज्ञानविलसितस्य, मदनकारकोपयोग इव च निदानमनर्थपरम्पराया। तदुभयस्याप्युपस्थितस्याङ्ग विक्रमतुङ्ग समागमसुख धर्मसहित तथानुभव यथा न भवसि परेषा तदन्तरायविषय।

यत।

तातस्तावज्जडनिधिरभूत्सोदर कालकूट
कृष्णे यस्या प्रणयपरता पङ्कजाते रतिश्च।
लक्ष्म्यास्तस्या सकलनृपतिस्वैरिणीवृत्तिभाज
क प्रेमान्धो भवतु कृतधीर्लोकविप्लाविकाया ॥१६०॥

————————

करोति। केषु। सन्मार्गदर्शनेषु धर्मभागविलोकनेषु। राज्यरमा पुनश्च कि करोति। श्रवणयो बधिरयति बधिर करोति मूक विदधाति। केषु। हितोपदेशेषु पथ्यवचनेषु। राज्यरमा पुनश्च कि करोति। निपातयति निश्चित पातयति। चकार उक्तसमुच्चयार्थं। कासु। नियमेन निश्चयेन दुरन्तासु निरवद्याना तासु (?) जगत्प्रसिद्धासु व्यसनसततिषु दुसमूहेषु। क्षात्रपुत्राणा राजपुत्राणा यौवनाविर्भाव पुन तारुण्यवयश्च आत्मविडम्बनस्य जीवकदर्थनस्य हेतु कारण वर्तते। क इव। भूतावतार इव मण्डले पिशाचप्रवेश इव। पुन कथभूतो यौवनाविर्भाव। मदस्य दर्पस्य कारण हेतु। क इव। प्रसवागम इव मद्यपानमिव। यौवनाविर्भाव पुन कथभूत । अज्ञानविलसितस्य मूर्खत्ववृद्धे प्रसवभूमि उत्पत्तिस्थानम्। क इव। उन्मादयोग इव वातलताप्रसङ्ग इव। यौवनाविर्भाव पुन कथभूत। अनर्थपरम्पराया कार्यभङ्गश्रेण्या निदानम्। क इव। मदनकारकोपयोग इव मदनकारकाणा मदनोत्पादककोद्रवाणा उपयोग इव भोजनमिव। चकार उक्तसमुच्चयार्थ। तस्मात् हे पुत्र, उभयस्यापि राज्यलक्ष्मीयौवनाविर्भावद्वयस्यापि उपस्थितस्य आगतस्य अङ्ग अहो पुत्रक, अहो विक्रमतुङ्ग पराक्रमोन्नत, समागमसुख उभयप्रेम राज्यरमायौवनागमसुख धर्मसहित तथा तेन प्रकारेण त्व अनुभव आस्वादय। तथा कथम्। यथा त्व न भवसि परेषा शत्रूणा तदन्तरायविषय राज्यरमायौवनाविर्भावविघ्नगोचर॥

यतो यस्मात् कारणात्। [तात इत्यादि।] तस्या लक्ष्म्या क पुमान् कृतधीर्धर्मबुद्धि प्रेमान्धो भवतु। अपि तु न कश्चित्। तस्या कस्या लक्ष्म्या। तावत्तात पिता जडनिधि पक्षे मूर्खत्वनिधिरभूद्बभूव। सोदरो लघुभ्राता कालकूट विष वर्तते मृत्युहेतुर्वर्तते। यस्या लक्ष्म्या कृष्णे श्रीरामेपि नारायणे मलिनहृदये च प्रणयपरता स्ने

यस्मिन्रज प्रसरति स्खलितादिवोच्चै-
रान्ध्यादिव प्रबलता तमसश्चकास्ति।
सत्व तिरोभवति भीतमिवाङ्गजाग्ने-
स्तद्यौवन विनय सज्जनसगमेन ॥१६९॥

नयविनयचातुरीरुचिरचरित्रपवित्र पुत्र, त्वयि स्वभावादेव विदूरितागसि महाभागमनसि न किंचिदुपदेष्टव्यमस्ति। यस्माद्बालकालकेलिष्वपि तव प्रवृत्तय केसरिकिशोरकस्येव पराक्रमाक्रान्तवैरिकरिविहारभूमय, पयोधरसमयस्यैव शरासारप्रसरसूत्रितसपत्नपुरप्रासादमेदिनीदूर्वाङ्कुरप्ररोहा, श-

—————

हतात्पर्यं वर्तते। यस्या लक्ष्म्या पङ्कजाते कमले पापोत्पत्रेपुरुषे रतिर्वते। चकारो दोषाणामुक्तसमुच्चयार्थ। कथभूताया लक्ष्म्या। सकलनृपतिस्वैरिणीवृत्तिभाज सकलै समस्तैर्नृपतिभी राजभि स्वैरिणीवृत्त पुश्चल्याचारो भजते सेवते आश्रयति या सा सकलनृपतिस्वैरिणीवृत्तिभाक् तस्या। अपर कथभूताया लक्ष्म्या। लोकविप्लाविकाया विघ्नकारिण्या। हेत्वलकार॥

यस्मिन्नित्यादि। हे पुत्र, तद्यौवन तत्तारुण्य सज्जनसगमेन साधुलोकसगत्या विनय निर्गमय। त्व यत्किंचित् यस्मिन् यौवने सति रज प्रसरति अपवादो भवति। कस्मादिव। स्खलितादिव पापे आचारादिव कथम्। उच्चैरतिशयेन यस्मिन् यौवने तमस अज्ञानस्य प्रबलता प्रौढत्व चकास्ति भवति। कस्मादिव। आन्ध्यादिव चक्षुर्वि हीनत्वादिव। यस्मिन् यौवने सत्व प्रसनतागुण तिरोभवति नश्यति। किमिव। अङ्गजाग्रेकामाग्रेभीतमिव चकितमिव। उपमालकार॥

[नयेत्यादि।] हे नयविनयचातुरीरुचिरचरित्रपवित्र नयश्च नीतिमार्ग अन्या यवर्जनम्, विनयश्च गुरुपादपतनम् तयो चातुरी विचक्षणत्व तथा रुचिरमतिमनोहर यच्चरित्र सदाचारं क्रिया तेन पवित्र पावन स तथा तस्य सबोधन हे तथोक्त। हे पुत्र वत्सल, त्वयि भवति विषये स्वभावादेव प्रकृत्यैव विदूरितागसि विवर्जितापराधे महाभागमनसि पुण्यवन्मानसे किंचित्किमपि उपदेष्टव्य शिक्षणीय नास्ति न विद्यते। कस्मात् शिक्षणीय नास्ति। यस्मात्कारणात् तव प्रवृत्तयो भवतश्चेष्टितानि बालकालकेलिष्वपि आस्ता तावद्यौवने शिशुकाल्क्रीडास्वपि। कथभूता प्रवृत्तयो वर्तन्ते। पराक्रमाका…तवैरिकरिविहारभूमय पराक्रमेण निजबलेन आक्रान्ता व्यापिता वैरिकरिणा शत्रुगजाना विहारभूमय करिधावनधरणय पर्यटनभूमयो यासु प्रवृत्तिषु तास्तथोक्ता। तव कथभू तस्य केसरिकिशोरकस्येव पश्चाननबालकस्येव। पुन कथभूतास्तव प्रवृत्तय। शरा सारप्रसरसूत्रितसपत्नपुरप्रासादमेदिनीदूर्वाङ्कुरप्ररोहा शरासारप्रसरसूत्रिता आरोपिता

रच्चन्द्रस्येव निखिलजगद्धामधवलनारब्धयश प्रकाशामृतवृष्टय, सुरफलेग्रहेरिव सतर्पितार्थिजनहृदयमनोरथा, प्रतिपन्नदीक्षितस्येव सत्यशुचिवचनरचनाप्रपञ्चितय, प्रथमयुगावतारस्येव धर्ममहोत्सवपरायणा, सुधापयोधरस्येव प्रमोदितसकलभुवनभागभुव। तत्परमेतदेवाशास्महे—भवन्तु श्रीसर स्वतीसमागमानुबन्धीनि सिन्धुसलिलानीव चिरमायूषि, परिपालयतु भवान्प्र-

——————

सपत्नाना शत्रूणा पुराणा नगराणा प्रासादाना मन्दिराणा मेदिनीषु भूमिषु दूर्वाङ्कुराणा प्ररोहा प्रादुर्भावास्तास्तथोक्ता। तव कथभूतस्य। पयोधरसमयस्येव जलदकालस्येव यथा पयोधरसमयस्य प्रवृत्तय सराणा जलानाम्। तथा चोक्तम्—‘वबयोडलयोश्चैव रलयो शषयोस्तथा। अभेदमेव वाञ्छन्ति येऽलकारविदो बुधा॥’ आसारस्य वेगवद्वर्षस्य प्रसरेण व्याप्त्या सूत्रिता सपत्नपुरप्रासादमेदिनीषु दूर्वाङ्कुरप्ररोहा शतपर्वाङ्कुरप्ररोहा भवन्ति। पुन कथभूतास्तव प्रवृत्तय।निखिलजगद्धामधवलनारब्धयश प्रकाशामृतवृष्टय निखिल समग्र यज्जगत् त्रैलोक्य तदेव धाम गृह तस्य धवलने उज्ज्वलीकरणे आरब्धा रचिता यश प्रकाश एव अमृतवृष्टिर्याभि प्रवृत्तिभिस्तास्त थोक्ता। तव कथभूतस्य। शरच्चन्द्रस्येव यथा शरच्चन्द्रस्य प्रवृत्तय सर्वजगद्गृहववलने आरब्धामृतसृष्टयो भवन्ति। पुन कथभूतास्तव प्रवृत्तय। सतर्पिताथिजनहृदयमनो रथा सतर्पिता सम्यक्प्रीणिता अर्थिजनाना याचकाना हृदयमनोरथा चित्तवाञ्छा याभि प्रवृत्तिभिस्तास्तथोक्ता। तव कथभूतस्य। सुरफलग्रहेरिव कल्पवृक्षस्येव यथा कल्पवृक्षस्य प्रवृत्तयो अर्थिजनहृदयमनोरथान् तर्पयन्ति। पुन कथभूतास्तव प्रवृत्तय। सत्यशुचिवचनरचनाप्रपञ्चितय सति सत्पुरुषे भव सत्य अनृतवजित वचन तेन शुचीनि पवित्राणि यानि वचनानि तेषा रचनाना कल्पनाना प्रपश्चितिर्विस्तारो यासु प्रवृत्तिषु तास्तथोक्ता। तव कथभूतस्य। प्रतिपन्नदीक्षितस्येव अङ्गीकृतमहाव्रतस्य मुने वृत्तय सत्यशुचिवचनरचनाप्रपञ्चितयो भवन्ति। पुन कथभूतास्तव प्रवृत्तय। धर्ममहोत्सवपरायणा धर्ममहोत्सवेषु पूजादानादिलक्षणेषु परायणास्तत्परास्ता। तव कथभूतस्य। प्रथमयुगावतारस्येव कृतयुगप्रथमप्रवेशस्येव। पुन कथभूतास्तव प्रवृत्तय। प्रमोदितसकलभुवनभागभुव प्रमोदिता हर्ष प्रापिता सकलभुवनभागस्य त्रैलोक्यप्रदेशस्य मर्त्यलोकस्य वा भुवो भूमयो याभि प्रवृत्तिभिस्ता प्रमोदितसकलभुवन भागभुव। तव कथभूतस्य। सुधापयोधरस्येव अमृतमेघस्येव। यद्यपि तव किमप्युपदेष्टव्य नास्ति तत्तस्मात् करणात् परं केवल एतदेव इदमेव वय आशास्महे आशीर्वादान् ददामहे—भव तु सजाय ता श्रीसरस्वतीसमागमानुब धीनि लक्ष्मीसरस्त तीसमागमवर्तीनि चिर दीर्घकाल तव आयुषि जीवितकाला भवन्तु। कानीव। सिन्धुसलिलानीव समुद्रजलानीव। इद प्रत्यक्षीभूत अशेष समग्र इलावलय" भूमिमण्डल भवान् परिपालयतु त्व रक्ष। क इव। प्रजापतिरिव वृषभनाथ इव। कथभूत

जापतिरिव पूर्वावनीश्वरपरम्परायातपरिपालनोपदेशमशेषमिदमिलावलयम्, विश्रामयतु चास्माकमरालकालमवनिभारोद्धरणग्लपितमिम युगधरप्रदेशम्। चय तु साप्रत भवद्भुजगजारोपितसमस्तसाम्राज्यभाराश्चिरायप्रार्थितचतुर्थपुरुषार्थसमर्थनमनोरथसारा परवय परिणतिदूतीनिवेदितनिसर्गप्रणयायास्तपोवनाश्रमरमाया समागमावसरवर्त्मानमिवात्मान कर्तुमीहामहे।’

यशोधरः—‘समस्तभुवनभूपालस्तूयमानकीर्तिकुलदेवत तात, युक्तमेवैतत्। किंतु क्षितिपतिसुतानामखिलमनोरथेषु कामधेनुरपीय राज्यलक्ष्मी सकलदिक्पालकुलश्लाघ्यमानपादसेव देव, तातमन्तरेण किमपि सुखमुत्पा-

————————

इलावलयम्। पूर्वावनीश्वरपरम्परायातपरिपालनोपदेशम् पूर्वे प्रथमे भरतादय अवनीश्वरा पृथिवीपतयस्तेषा परम्परया प्रवाहेण आयाता आगता परिपालनस्य रक्षणस्य उपदेश शिक्षा यस्य इलावलयस्य तत्तथोक्तम्। इम प्रत्यक्षीभूत अस्माक युगधरप्रदेश स्कन्ध भवान् विश्रामयतु विश्राम प्रापयतु। कथभूत युगधरप्रदेशम्। अरालकाल प्रचुरकालपर्यन्त अवनिभारोद्धरणग्लपित अवने पृथिव्या भारोद्धरणेन भारोच्चलनेन ग्लपित भ्रान्तम्। वय तु एते वय तपोवनाश्रमरमाया तपोवनलक्ष्म्या समागमाव सरवर्त्मानमिव समागमस्य अवसरस्तस्य वर्त्म मार्गोयस्यात्मन समागमावसरवर्त्मानमिव तथोक्तम् आत्मान निजचेतनस्वभाव कर्तुं विधातु साप्रतमिदानी ईहामहे इच्छाम। इवशब्द एवमेव। कथभूता वयम्। भवद्भुजगजारोपितसमस्तसाम्राज्य भारा भवतस्तव भुजो दोर्दण्ड स एव गजो गजेन्द्र सवभारक्षमत्वात् तस्मिन् आरोपितो निवेशित समस्तसाम्राज्यस्य सकलपृथ्वीराज्यस्य भारो भरो यैस्ते त थोक्ता। पुन कथभूता वयम्। चिराय दीर्घकालेन प्रार्थित याचित चतुर्थ पुरुषार्थो मोक्षस्तस्य समर्थनस्य परिपूर्णकारणस्य ये मनोरया दोहदानि तै सारा सारीभूता बलवत्तरा। कथभूतायास्तपोवनाश्रमरमाया। परवय परिणतिदूतीनिवेदितनिसर्ग प्रणयाया परवयसो वार्धकस्य परिणति पर्याय सैव दूती सदेशहारिणी तया निवेदित कथितो निसर्गप्रणय स्वभावप्रेम यस्या सा तथा तस्या॥

यशोधरो ब्रूते—हे समस्तभुवनभूपालस्तूयमानकीर्तिकुलदेवत समस्तभुवनस्य पृथ्वीमण्डलस्य भूपालै राजभि स्तूयमाना कीर्तिकुलदेवता यस्य स तथा तस्य सबोधन हे समस्तभुवनभूपालस्तूयमानकीर्तिकुलदेवत हे तथोक्त। हे तात हे पित। युक्तमेवैतत् एतावता युक्त न भवति। कितु क्षितिपतिसुताना राजपुत्राणा अखिलमनोरथेषु समस्ताशयेषु कामधेनुरपि दिव्यगौरपि इय राजलक्ष्मीरेषा नार्पत्यसपत् हे सकलदिक्पालकुलश्लाघ्यमानपादसेव सकलै समस्तै दिक्पालकुलै राज्यवृन्दै श्लाध्यमाना स्तूयमाना पादसेवा

दयत्यपि पुन कार्यव्यासङ्गपरम्पराभिर्मदनफलप्रयुक्तिरिव भुक्तमाहारम तिबहुलहृदयखेदमुद्वमयति।

स्वच्छन्दवृत्ते शनिदृष्टिरेषा सुखोत्सवोपायविधौ च विष्टि।
केतूद्गति केलिमनोरथाना श्री स्याद्विना तातमनर्थहेतु॥१६२॥

विना विनेतारमय वृथा स्याद्यथा गजाना विनयोपदेश।
राज्य तथा राजकुमारकाणा विना विनेतारमिद वृथैव॥१६३॥

——————

यस्य स तथा तस्य सबोधन हे तथोक्त। हे देव हे राजन्। तातमन्तरेण पितरमन्तरेण विना किमपि किचिदपि सुख शर्मं उत्पादयति जनयत्यपि। अपीति सभावनायाम्। पुन कार्यव्यासङ्गपरम्पराभि कार्यस्य योऽसौ व्यासङ्ग प्रसङ्गस्तस्य परम्परा ताभि कृत्वा मदनफलप्रयुक्तिरिव राजफलभक्षणमिव भुक्तमाहारमास्वादितमतिबहुलहृदयखे दम् अतिप्रचुरं यस्य भवत्येव उद्वमयति बहिनिष्कासयति॥

स्वच्छन्दवृत्तेरित्यादि। तात पितर विना एषा इय श्रीर्लक्ष्मीरथनहेतुदु खकारण स्याद्भवेत्। कथभूता एषा श्री। स्वच्छ दवृत्ते स्वाधीनप्रवर्तनस्य शनिदृष्टि परिपूर्णशनैश्चरदृष्टि। तथा चोक्तम्—

‘देशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रे च। पश्यन्ति पादनुद्ध्या फलानि चैव प्रयच्छन्ति॥’ पुन कथभूता इय श्री। सुखोत्सवोपायविधौ च विष्टि सुखस्य उत्सवोपायविधाने विष्टि। सप्तम करण सुखकार्य भुनक्तीत्यर्थ। तथा चोक्तम्—कृष्णे च त्रिदशारात्रौ दिवा सप्तचतुर्दशी। चतुर्थ्येकादशीरात्रौ अष्टमी पूर्णिमा दिवा॥’ कानि तानि सप्तकरणानि—‘बव च बालव चैव कौलव तैतिल तथा। वणिज गर व विष्टिश्चएव करणसप्तकम्॥’ चत्वारि स्थिरकरणानि। तथा चोक्तम्—‘चतुर्दशी या शशिभि प्रहीणा तस्या विभागे शकुनिर्द्वितीये। दशद्वयो स्तश्चतुरङ्घ्रिनागे किस्नुन्नमाद्ये प्रतिपद्दले च॥’ कथभूता श्री। केलिमनोरथाना केतूद्गति क्रीडादोहदाना नवमग्रहोदय क्रीडा भनक्तीत्यर्थरूपकम्॥

विनेत्यादि। यथा येन प्रकारेण गजाना हस्तिना विनयोपदेश शिक्षोपदेशो वि- नेतार विना हस्तिपक विना वृथा स्यानिष्फलो भवेत्। तथा राजकुमारकाणा राजपुत्राणा इद राज्य विनेतार पितर विना वृथा स्यात्। दृष्टान्तालकार॥

गुरावर्पितभूभाराः सुख ये न समासते।
तेषा दिवापि धीव्योम्नि चिन्ताध्वान्त विजृम्भताम्॥१६४॥

किं च।

पुत्रास्ते ननु पुण्यकीर्तनपद तेऽनर्घ्यजन्मोत्सवा-
स्ते पुत्रार्थिजनस्य वशतिलकास्ते च श्रिय केतनम्।
आदेशावसरे गुरोरनुचरा शिष्या श्रुताराधने
कोपे सप्रणया प्रसादसमये ये च प्रसन्नोदया॥१६५॥

निजप्रतापभावसभावितभूर्भु स्वस्त्रयीमहोद्याव देव, ‘आत्मा वै पुत्र’ इति विदितशास्त्रहृदयाना गृहमेधीयाना पुराणपुरुषावगाह्यमैतिह्यम्। इदानी

————————

गुरावित्यादि। ये राजपुत्रा गुरौ, पितरि अर्पितभूभारा समारोपितभूमिभारा सुखेन यथा भवत्येव न समासते न सम्यक् तिष्ठन्ति। तेषा राजपुत्राणा दिवापि दि वसेऽपि। अपिशब्दाद्रात्रावपि। धीव्योम्निबुद्ध्याकाशे चिन्ताध्वान्त अत्यन्धकार विजृम्भता प्रसरतु। रूपकालकार॥

कि च। ईषद्विशेष वर्णयतीत्यर्थ। पुत्रा इत्यादि। ते पुत्रा ननु निश्चयेन पुण्य कीर्तनपद पवित्रकीर्ते स्थान भवन्ति। ते पुत्रा अनर्घ्यजन्मोत्सवा दुर्लभजन्मम होत्सवा भवन्ति। ते पुना पुत्रार्थिजनस्य पुत्रार्थिलोकस्य वशतिल्का कुलमण्डन भवति। ते पुना श्रियो लक्ष्म्या केतन गृह च भवन्ति। ते के। ये पुना गुरो पितुरादेशावसरे आदेशकाले अनुचरा किकरा भवन्ति। श्रुताराधने शास्त्राभ्यासकाले शिष्या अन्तेवासिनो भवन्ति। गुरो कोपे सप्रणया सस्नेहा भवन्ति। गुरो प्रसाद समये कारुण्यकाले प्रसन्नोदया प्रसन्नहृदया निर्मलचेतसश्च भवन्ति। रूपकालकार समुच्चयालकारश्च॥

निजप्रतापेत्यादि। हे निजप्रतापप्रभावसभावितभूर्भुव स्वस्त्रयीमहोद्याव निज प्रतापस्य स्वकीयतेजस प्रभावेन माहात्म्येन सभावितो हृदयमानीतो भूर्भुव स्व त्रय्या अधोमध्योर्ध्वलोके महोद्याव उत्सवो येन स तथा तस्य सबोवन हे तथोक्त। हे देव हे राजाधिराज परमाराध्य। ‘आत्मा वै पुत्र’ इति वेदे वाक्यमस्ति। पुत्रो वै निश्चयेन आत्मा वर्तते इतीदृश गृहमेधीयाना गृहस्थाना ऐतिह्यमनादिवार्ता वर्तते। कथभूतमैतिह्यम्। पुराणपुरुषावगाह्यम् पुराणपुरुषेण श्रीनारायणेन अवगाह्य माननीयम्। कथभूताना गृहमेधीयानाम्। विदितशास्त्रहृदयाना विज्ञातवेदशास्त्रमर्मणाम्। उक्त च उपनिषत्काण्डे—‘अथ त्रयो वा लोका मनुष्यलोक पितृलोको देवलोक’ इति। सोऽय

तमन्तरेण को नाम नि श्रेयसधाम परस्तप प्रारम्भावसर। खकीयवशाभिवृद्धिक्षेत्रात्पुत्राद्धर्मोऽपि नापर समस्ति। यत शास्त्रकृत पुमास प्रसाधितात्मीयान्बयोदयमीमास दुरीहितागमाज्जन्मान्तरसगमात्रायते यस्त पुत्र निर्वर्णयन्ति।

तत।

राज्यस्य तपसो वापि देवे श्रितवति श्रियम्।
अह छायेव देवस्य सहवृत्तिपरायण॥१६६॥

इत्येकताचित्तसतानस्य प्रतिजिज्ञासमानस्य मे प्रत्यादिश्य त्रिदशैरप्यनुल्लङ्घनीयव्यापारेण भ्रूक्षेपेण व्याहारव्यवहारमादाय स्वकीयान्मुक्ति -

—————————

मनुष्यलोक पुत्रेणैव जय्योनान्येन। कर्मणा पितृलोक, विद्यया देवलोकस्त्रैलोक्याना श्रेष्ठस्तस्माद्विद्या प्रशसन्ति। हे तात, इदानीमधुना तमन्तरेण पुत्र विना को नाम। नामेति सभावनायाम्। पर अन्यस्तप प्रारम्भावसर। कथभूतस्तप प्रारम्भावसर। नि श्रेयसधाम निर्वाणस्थानम्। हे तात, पुत्रादपरो धर्मोऽपि न समस्ति न सम्यग्वतते। कथभूतात्पुत्रात्। स्वकीयवशाभिवृद्धिक्षेत्रात् निजान्वयवशवृक्षाभिवर्धनभूमिस्थानात्। यतो यस्मात्करणात् शास्त्रकृतो व्यासवाल्मीकियाज्ञवल्क्य पाराशरादयो विद्वासो जन्मान्तरसगमात् पुनभवसगतेर्य पुमास त्रायते रक्षति त पुत्र निर्वर्णयन्ति। कथभूत पुमासम्। प्रसाधितात्मीयान्वयोदयमीमासम्। प्रसाधिता सम्यग्ज्ञाता आत्मीयस्य निजस्य अन्वयस्यकुलस्य उदयस्य मीमासा विचारणा येन पुसा स तथा तम्। कथभूताज्जन्मान्तरसगमात्। दुरीहितागमात् दुरीहितस्य दुश्चेष्टितस्य पापकर्मण आगमो यस्मिन् जन्मान्तसगमे स तथा तस्मात्॥

ततस्तस्मात् कारणात्। [राज्यस्येति।] राज्यस्य श्रिय तपसो वापि श्रिय देवे त्वयि श्रितवति आश्रितवति सति अह देवस्य तव सहवृत्तिपरायण सहगमनतत्परो भविष्यामि। केव।छायेव तव शरीरस्य छायासमान॥

इतीति। इति अमुना प्रकारेण एकताचित्तसतानस्य एकाग्रमन प्रवृत्ते प्रतिजिज्ञासमानस्य प्रतिज्ञा कुर्वाणस्य भ्रूक्षेपेण नेत्रोपरिस्थितरोमराज्या कृत्वा व्याहारव्यवहारं वचनप्रवर्तन प्रत्यादिश्य निषिध्य कण्ठदेशात् एकावलीं आदाय हारविशेष गृहीत्वा मे मम बबन्ध मे ग्रीवा निचिक्षेप। कयभूतेन भ्रूक्षेपेण। ..दशैरपि आसता तावन्मनुष्या देवैरपि अनुलङ्घनीयव्यापारेण अनतिक्रमणीयचेष्टितेन। कण्ठदेशात् कथभूतात्। स्वकीयादात्मीयात्। पुन कथभूतात् कण्ठदेशात्। मुक्तिलक्ष्मीसमालिङ्गनाभ्यासात् मुक्तिलक्ष्म्या मुक्तिश्रिय सबन्धि यत्समालिङ्गनमुपग्रहण तदभ्यासे

लक्ष्मीसमालिङ्गनाभ्यासात्कण्ठदेशादखिलमहीवलयवश्यतादेशमालामिवतारतरलमुक्ताफलामेका-वलीं बबन्ध।

यौवराज्याय समादिश्य च पट्टबन्धविवाहमहोत्सवाय खेदमोदमन्दयमानसर्गंसामन्तवर्गं विहितबहुसभाजन परिजन च भगवत समस्तश्रुतस्कन्धोद्धरणसमर्थमतिप्रसरस्य सयमधरस्य महर्षे सनिकर्षे मनोजसामजमदमहोदधितरङ्गसचयमिव कचनिचयमपहायाभिलषितमन्वतिष्ठत्।

तदन्वपरेद्युर्मम महादेव्या यागनागस्य तुरगस्य चानुकूलात्मन्यहनि वि-

————————

समीपे यस्य कण्ठदेशस्य स तथा तस्मात्। कथभूतामेकावलीम्। अखिलमहीवलयवश्य तादेशमालामिव अखिलस्य समस्तस्य महीवलयस्य भूमण्डलस्य वश्यतादेशवशीकरणनिमित्त तस्य मालामिव स्रजमिव। पुन कथभूतामेकावलीम्। तारतरलमुक्ताफला ताराणि उज्ज्वलानि तरलान्यपि नायकीभूतानि मुक्ताफलानि यस्या सा तथा ताम्।

स राजा यशोर्घ सयमधरस्य महर्षे सनिकर्षे समीपे अभिलषितम वतिष्ठत् दीक्षा जग्राह। कि कृत्वा। पूर्वे सामन्तवर्गे नृपतिसमूह परिजन च कुटुम्बवर्ग च यौवराज्याय युवराजस्थापनार्थ पट्टबन्धविवाहमहोत्सवाय वा रज्यपट्टबन्धमहोत्सवाय विवाहमहोत्सवाय च समादिश्य आदेश दत्वा। कथभूत सामन्तवर्गम्। खेदमोदमन्दायभानसर्गम् खेदस्य दुखस्य मोदस्य हर्षस्य च मन्दायमानो वर्धमान सर्ग सृष्टिर्यस्य स तथा ..म्। कथभूत परिजनम्। विहितबहुसभाजनम्। विहितमाचरित बहु प्रचुर सभाजन प्रीतिर्येन परिजनेन स तथा तम्। कथभूतस्य सयमधरस्य। भगवत इन्द्रादिसेवितस्य। उक्त च—‘ऐश्वर्यस्य समग्रस्य तपसो नियम श्रिय। वैराग्यस्याथ मोक्षस्य षण्णा भग इति स्मृति ॥’ एव षडर्थविशेषणविशिष्टो भगो विद्यते यस्य स भवति भगवान् तस्य भगवत। पुन कथभूतस्य सयमधरस्य। समस्तश्रुतस्कन्धोद्धरणसमर्थमतिप्रसरस्य समस्तश्रुतस्कन्धस्य द्वादशाङ्गशास्त्रस्य उद्धरणेन ग्रन्थतोऽर्थतश्च ज्ञानेन समर्थ प्रौढतरो बलवत्तरो मतिप्रसर आभिनिबोधिकज्ञान यस्य स तथा तस्य। कि कृत्वा पूर्वमभिलषितमन्वतिष्ठत्। कचनिचय केशकलाप अपहाय लुञ्चित्वा पञ्चमुष्टिभिर्लोच कृत्वा। कथभूत कचनिचयम्। मनोजसामजमदमहोदधितरङ्गसचयमिव मनोज कन्दर्प स एव सामजो गजस्तस्य मदो दर्प स एव महोदधिर्महासमुद्र। अपामतिगम्भीरत्वात्। तस्य तरङ्गसचयमिव कल्लोलाना समूहमिव॥

तदन्वित्यादि। तदनुयशोर्घमहाराजस्य दीक्षणादनन्तरं अपरेद्युरन्यस्मिन्नहनि मम यशोधरस्य महादेव्या अमृतमतेर्यागनागस्य पट्टहस्तिनस्तुरगस्य च यदास्य अनु

हितगणकाह्वान प्रतापवर्धन सस्थपति सेनापति परिकल्पितसकलपट्टबन्धोत्सवोपकरणसभार शुभसरम्भसार पुण्यपानीयपूतोपान्ताश्रयाश्रमविप्राया शिप्रायास्तीरतरुणतरुविराजमानहरित सरित कूले कमनीयलीले यथोक्तलक्षणाया प्राक्प्रवणाया च भुवि सम समाचरितमहावीथीप्रचारेण शाखानगरेणानेकरत्नचितमेतदुचितमतिविचित्रवस्त्रशोभापनीतातपमभिषेकमण्डपमनेकतोरणमङ्गवेदिकावासविभक्तकक्षान्तर सनिकाय विरचय्य,

——————

कूलात्मनि हितस्वरूपे अहनि दिवसे विहितगणकाह्वान कृतमौहूतिकामन्त्रण प्रतापवर्धनो नाम सेनापतिरित्याचरत् इति कार्य चकार। कथभूत सेनापति। सस्थपतिर्वा स्तुविद्याचार्यसयुक्त। पुन कथभूत सेनापति। परिकल्पितसकलपट्टबन्धोत्सवोपकरण सभार परिकल्पितो मेलित सकल समग्र पट्टबन्धोत्सवसबन्धी उपकरणसभार उपस्करसमूहो येन स तथोक्त। पुन कथभूत प्रतापवर्धनसेनापति। शुभसरम्भसार मङ्गलेषु श्रेयस्करेषु सरम्भेषु सार अतिचतुर। कि कृत्वा। पूर्व शिप्राया सरित शिप्रानाम नद्या कूले तटे प्राक्प्रवणाया पूर्वदिग्मुरयाया भुवि अभिषेकमण्डप सनिकाय गृह विरचय्यविरचन कारयित्वा। कयभूताया शिप्राया सरित। पुण्यपानीयपूतोपान्ता श्रयाश्रमविप्राया पुण्य पवित्र यत्पानीयमुदक तेन पूता पवित्रीकृता उपान्ताश्रया श्रमा तटविहितास्पदगृहा विप्रा यतयो वा यया शिप्रया तथा तस्या। पुन कथभूताया शिप्राया। तीरतरुणतरुविराजमानहरित तीरसबन्धिनो ये तरुणतरवो नवीनवृक्षास्तैर्विराजमाना शोभमाना हरितो दिशो यस्या सा तथा तस्या। कथभूते कूले। कमनीयलीले कमनीया मनोहरा लीला शोभा यस्य कूलस्य तत्कमनीयलील तस्मिन्। कथभूताया भुवि। यथोक्तलक्षणाया वास्तुशास्त्रोक्तस्वरूपायाम्। अभिषेक मण्डप कथ विरचय्य। शाखानगरेण सम प्रतिनगरेण सार्धम्। कथभूतेन शाखानगरेण समाचरितमहावीथीप्रचारेण समाचरित सम्यग्विहितो महावीथी प्रचारो हहमार्ग प्रवर्तन यस्य शाखानगरस्य तत्तथोक्त तेन। कथभूतमभिषेकमण्डपम्। अनेकरत्नचित नानाविधमाणिक्यजटितम्। सुवर्णमयशोभाधिकमित्यर्थ। पुन कथभूतमभिषेकमण्डपम्। एतदुचित विवाहपट्टाभिषेकयोग्यम्। पुन कथभूतमभिषेकमण्डपम्। अतिविचित्रवस्त्रशो भापनीतातपम्। अतिविचित्राणामतिमनोहराणा वस्त्राणा शोभाभिराडम्बरैरपनीतो दूरी कृत आतपो घर्मो येन अभिषेकमण्डपेन स तथा तम्। पुन कथभूतमभिषेकमण्डपम्। अनेकतोरणमङ्गवेदिकावासबिभक्तकक्षान्तरम्। अनेकैर्बहुभिस्तोरणैरुपलक्षिता मङ्गा प्रासादाश्चवेदिकाश्चकपिशीर्षरहितप्राकारा आवासाश्च धनवता गृहा तैर्विभकानि रचितानि कक्षान्तराणि वास्तुभूमयो यस्य स तथा तम्। कथभूत सेनापति। दिशि

दिशि दिशि निवेशिताशेषनरेश्वरशिबिर सपरिवार समाहूय गजवाजिब -लयोरधिकृतवशमुद्धताङ्कुशमहामात्र शालिहोत्र च महासाधकम् ‘अतित्वरितमुभाभ्यामपि भवद्भ्यामुभयनयनेदिष्टै स्वामिहितप्रतिष्ठै सहोन्नीय द्वे अप्याद्ये सेनाङे्गदेवस्य विज्ञापनीये’ इत्याचरत्।

तावुभावपि तद्वचनात्तथाचर्य तत्र परशुरामान्वयावकाश उद्धताङ्कुशस्तावदेव मा व्यजिज्ञपत्—‘देव, प्रतापवर्धनसेनापतिनिदेशान्मयोत्साहिताभिनि-

————————

दिशि निवेशिताशेषनरेश्वरशिबिर दिशि दिशि सर्वदिक्षु निवेशितानि उपवेशितानि अशेषाणा सर्वेषा नरेश्वराणा राज्ञा शिबिराणि सैन्यानि येन स तथोक्त। पुन कथभूत सेनापति। सपरिवार निजपरिवारसहित। किं कृत्वा पूर्वमित्याचरत्। उद्धताङ्कुशमहामात्र उद्धताङ्कुश नाम महामात्र गजसेनामुख्यशालिहोत्र च अश्व साधनक समाहूय आकाय। कथभूतमुद्धताङ्कुशमहामात्र शालिहोत्र च। गजवाजिबलयोरधिकृतवशम् गजबले अश्वबले च अधिकारी वश कुल यस्य यथासरय स तथा तम्। कथभूत उद्धताङ्कुशमहामात्र शालिहोत्र च। महासाधक च प्रधान कर्माण सेनापतिरित्याचरत्। इतीति किम्। भो उद्धताङ्कुश, भो शालिहोत्र, भवद्भ्या युवाभ्या उभाभ्यामपि द्वाभ्यामपि अतित्वरितमतिशीघ्र उभयनयनेदिष्ठै गजवाजिशास्त्रविचक्षणै साधुभि पुरुष स्वामिहितप्रतिष्ठै निजस्वामिहितसन्निष्ठे तत्परै सह सार्धउन्नीय परीक्ष्य द्वे अपि गजवाजिलक्षणे आद्ये प्रथमे सेनाङ्गेदेवस्य यशोधरस्य विज्ञापनीये निरूपणीये॥

तावुभावपि उद्धताङ्कुशशालिहोत्रौ तद्वचनात् सेनापत्यादेशात् तथा तेनैव प्रकारेण आचर्य पूर्वोतपुरुषै सह परीक्ष्य तत्र द्वयोर्मध्ये तावत् अनुक्रमेण उद्धताङ्कुशो नाम महा मात्रो मा यशोधर व्यजिज्ञपत् विज्ञापयामास। कथभूत उद्धताङ्कुश।परशुरामान्वयाव काश।परशुरामकुलोत्पन्न इत्यर्थ। एव कथमिति चेत्, हे देव, प्रतापवर्धनसेनापति निदेशात् आदेशात् सूरिपरिषत् विद्वन्मण्डली मन्मुखेन एव विज्ञापयति। किं कृत्वा। पूर्वं एन जगत्प्रसिद्ध कलिङ्गविषयाधिपतिप्रहितप्रतिवषदेयवेदण्डमण्डलीमध्ये एक सिन्धुर परीक्ष्य कलिङ्गविषयस्य योऽसावधिपति तेन प्रहिता प्रेषिता या प्रतिवर्ष वर्ष प्रति देया दातव्या वेदण्डमण्डली हस्तिसमूह तस्या मध्ये एकमद्वितीय सिन्धुर परीक्ष्य। कथभूत सिन्धुरम् \। देवस्य तव अनीकिनीतिलकबर्ह सेनामण्डनम्। पुन कथभूतम्। सपर्यार्हपादप्रक्षालनपूजायोग्यम्। पुन कथभूतम्। उदयगिरिनामक उदयगिरिरिति नाम यस्य स तथा तम्। कथभूता सूरिपरिषत्। मया उद्धताङ्कुशेन गुरुराजमुख्याभ्या च गुरुमुख्येन च राजमुख्येन च उत्साहिताभिनिवेशा उद्यम प्रापिताभिप्राया। पुन कथभूता

वेशा गुरुराजमुख्याभ्यामिभचारियाज्ञवल्क्यवाद्धलि97नरनारदराजपुत्रगौतमादिमहामुनिप्रणीतमत-ङ्गजैतिह्यावगाहसमीहमानमन प्रचारा अतीतपरमेश्वरप्रसादासादितवीरामृतगणाधिपत्यसत्कारा विदितनिरवद्योपनिषत्सूरिपरिषद्देवस्यानीकिनीतिलकबर्हेसपर्या है कलिङ्ग विषयाधिपतिप्रहितप्रतिवर्षदेयवेदण्डमण्डलीमध्ये सिन्धुरमेकमुदयगिरिनामक परीक्ष्य मन्मुखेनैव विज्ञापयति—

तथा हि कलिङ्गज वनेन, कुलेनैरावणम्, सम प्रचारेण, देशेन साधारणम्,

——————

सूरिपरिषत्। इभचारियाज्ञवल्क्यवाद्धलिनरनारदराजपुत्रगौतमादिमहामुनिप्रणीतमतङ्ग जैतिह्यावगाहसमीहमानमन प्रचारा इभचारी च याज्ञवल्क्यवाद्धलिश्च नरश्च नारदश्च राजपुत्रश्च गौतमश्चइमचारियाज्ञवल्क्यवाद्धलिनरनारदराजपुत्रगौतमा ते आदिर्येषा गर्गादीना महामुनीना तै प्रणीतानि यानि मतङ्गजैतिह्यानि गजपरीक्षाशास्त्राणि तेषामवगाहेन पठितपाठिताभ्यासेन समीहमान प्रवर्तमानो मन प्रचारश्चित्तव्यापारो यस्या सूरिपरिषद सा तथोक्ता। सूरिपरिषत्पुन कथभूता। अतीतपरमेश्वरप्रसादासादित वीरा अतीतपरमेश्वरस्य यशोर्घमहाराजस्य प्रसादेन आसादिता प्राप्ता वीरा वीरगणा हस्तिशिक्षादायिनो यया सा तथा। पुन कथभूता सूरिपरिषत्। अमृतगणाधिपत्यसत्कारा अमृतगणाधिपत्यस्य हस्तिवैद्यस्य सत्कार सन्मानो यस्या सा तथा। पुन कथभूता सूरिपरिषत्। विदितनिरवद्योपनिषत् विदिता विज्ञाता निरवद्या निदोषा उपनिषदधि करण कृत यया सा तथोक्ता॥

तथाहि। उद्धताङ्कुशस्तदेव विज्ञापयति—कलिङ्गजेत्यादि। कलिङ्गज वनेन। वनेन कृत्वा कलिङ्गज सिन्धुर विज्ञापयति। विशेषणतृतीया। उक्त च—‘उत्कलाना च देशस्य दक्षिणस्यार्णवस्य च। सह्यस्य चेव विन्ध्यस्य मध्ये कालिङ्गज वनम्॥’ तथा च—‘कुलजातिवयोरूपैश्चारवर्ष्मबलायुषाम्। सत्त्वप्रचारसस्थानदेशलक्षणरहसा॥ एषा चतुर्दशाना तु यो गुणाना समाश्रय। स राज्ञो यागनाग स्याद्भूरिभूतिसमृद्धये॥’ तथा च—‘कालिङ्गजा गजा श्रेष्ठा’ इति वचनात्। कथभूत सिन्धुरम्। कुलेन ऐरावणगज। श्वेतवर्णो भवति स ऐरावणगजकुल उच्यते। ‘हरिर्वा (द्वा) श्यामवर्णो वा कालो वा व्यक्तवर्णक। हरित कुमुदाभो वा कुलवर्ण समुच्यते॥’ सम प्रचारेण। गिरिनदीना प्रचारेषु समप्रचारस्तस्यैव प्रशस्तता। तदाह—मिश्रो वा गिरिचारी वा कलिङ्गाकारजानिक। सात्त्विको भद्रजातिश्च स तत्त्वात्कादिभि शुभ। इत्येतेर्लक्षणयुक्त यागनाग प्रचक्षते॥’ देशेन साधारणम्। ‘अनूपजाङ्गलगुणै सम साधारण स्मृत।’ जल-

भद्र जन्मना, सस्थानेन समसबद्धम्, उत्सेधायामपरिणाहै समसुविभक्तसर्वकायम्, आयुषा द्वादशापि दशा भुञ्जानम्, अनेन स्वायतव्यायतच्छविम्, आशसनीय वर्णप्रभाच्छायासपत्तिभि, कल्याणमाचारशीलशोभावेदितै, प्रशस्त लक्षणव्यञ्जनाभ्याम्, उत्तम बलवर्ष्मवयोजवै, ब्राह्म सबन्धि-

———————

प्रायेऽपि देशे प्रवर्तते, निर्जलदेशेऽपि प्रवर्तते स साधारण कथ्यते। भद्र जन्मना। जात्या कृत्वा भद्र विज्ञापयति। सस्थानेन समसबद्धम्। उत्सेधायामपरिणाहै समसु विभक्तसर्वकायम्। समेन सस्थानेन सुष्ठु विभक्तो विभागीकृत सर्वकाय शरीर यस्य स तम्। समचतुरस्रसस्थानेन सबद्धशरीरमित्यथ। उत्सेध ऊर्ध्वता, आयामो दीघता, परिणाहो वृत्तता, एतैर्गुणै समसबद्धशरीरम्।आयुषा द्वादशापि दशा भुञ्जानम्। दशवार्षिकी एकादशा ईदृशी द्वादशापि दशा भुञ्जान जीवन्तम्। अङ्गेन स्वायतव्याय तच्छविम्। स्वयता

ऊर्ध्ववृत्तिरहिता व्यायता तिर्यग्वलिरहिता छविस्त्वचा यस्य स तथा त विज्ञापयति। आशसनीय वर्णप्रभाच्छायासपत्तिभि। आशसनीय वर्ण पूर्वो क्तलक्षण प्रभा कान्तिश्छाया पार्थिवी आप्या तैजसी नाम्ना अन्यतमा वर्तते विज्ञापयति। कल्याण शुभ विज्ञापयति। [कै।] आचारशीलशोभावेदितै आचार कायगत शील मनोगत शोभा शरीरोपचयशोभा शरीरोपचयविशेष। सा शोभा सप्तधा भवति। तदुक्तम्—‘सालोहिता प्रतिच्छन्ना तृतीया पक्षलेपना। समकक्षा चतुर्थी स्यात्पञ्चमी समतल्पता। व्यतिकीर्णा च षष्ठी स्यात् द्रोणिका सप्तमी स्मृता॥’ सप्तशोभासु मध्ये श्रेयसी चतुर्थी—‘चतुर्थीशोभया युक्तो मदयुद्धक्षमोगज।’ इति वचनात्। आवेदित अर्थवेदिता तैराचारशीलशोभावेदितै कृत्वा। प्रशस्त लक्षणव्यञ्जनाभ्याम्। प्रशस्त विज्ञापयति। काभ्याम्। लक्षणव्यञ्जनाभ्याम्।तदुक्तम्—‘लक्षण जन्मसबन्धमाजीवादिति निश्चितम्। पश्चाद्व्यक्तिंव्रजेद्यस्तु तद्व्य-जनमिति स्मृतम्॥’ अथवा कररदनादिक लक्षण बिन्दुस्वस्तिकादिकव्यञ्जनम्। उत्तम विज्ञापयति। कै। बलवर्ष्मवयोजवै कृत्वा। बलमध्वगमनस्तम्भप्रमर्दनभारारोपणक्षमणलक्षणम्, वर्ष्म शरीरं सप्तोत्सेधेन वायामदशपरिणाहलक्षणप्रमाणम्, वयस्त्रयोविंशतेर्वर्षाणामूर्ध्वमाषष्टिम्, जवो भद्रस्यायमुत्तम दशधनुर्व्यवहित वीरपञ्चाशद्धनुर्मध्ये यदि गृह्णीयात् तैर्बलवर्ष्मवयोजवै। तदुक्तम्—‘वीथ्यादौ दश सप्त पश्च पुरुष कृत्वा पदाभ्यन्तरे भद्रामन्दमृगानवेति

गमिनार्गजीवेनोच्छिता (?)। पञ्चाशत्पद एव तत्पदशते सार्धे पदाना शते गृह्णीयु स्वनवत्क्रमोक्त धनुषा वशे

निदेशादरात्॥’ पदाभिधधनूषीत्यर्थ। ब्राह्म सबन्धिलक्षणेन। ब्राह्म ब्रह्मदैवतसबन्धिलक्षणेन ब्राह्म विज्ञापयति। तदुक्तम्—‘ननु बिन्दुसदन्तेषु कुशातलनिभच्छवि। चारुदृष्टित्वमन्येक्षो ब्राह्म सर्वा-

लक्षणेन, भवन्तमिवानवद्यैर्गतिरूपसत्त्वस्वरानूकै प्रियालोकम्, विनायकमिव पृथुपरिपूर्णायतमुखम्, अशोकपुष्पमिवारुण तालुनि, कमलकोशमिव शोणप्रकाशमन्तरास्ये, पीनोपचितकायमुरोमणिविक्षोभकटकपोलसुक्कसु, अनुन्नतानवनतसुप्रमाणकुम्भम्, ऋजुपूर्णहस्वकन्धरम्, अलिनीलघनदीर्घस्निग्धकेशपेशलम्, समसूद्गतव्यूढमस्तकपिण्डम्, अनल्पासनावकाशम्, आरोपितकार्मुकाकारपरिणतानुवशम्, अजकुक्षिम्, अनुपदिग्धपेचकम्,

————————

र्थसाधन॥ भवन्तमिवानवद्यैगतिरूपसत्त्वस्वरानूकै प्रियालोकम्। भवन्तमिव त्वत्सदृश प्रियालोक प्रियदर्शन विज्ञापयति। कैकृत्वा। गतिरूपसत्त्वस्वरानूकै गतिर्गजवाजिशार्दूलादीनाम्, रूप देवमनुष्यविद्याधरादीनाम्, सत्त्व मनुष्ययक्षगन्धर्वादीनाम्, स्वरो जीमूतशङ्खादीना अनूक अनूकरोति। सदृशतामिति यावत्। अनूकशब्दो गत्यादीना प्रत्येकमपि सबन्धनीय। गतिश्च रूप च सत्त्व च स्वरश्च गतिरूपसत्त्वस्वरास्तेषामनूकै सादृश्यै। कथभूतैर्गत्यादीना सादृश्यै। अनवद्यैर्निर्दोषे। पुन कथभूत विज्ञापयति। विनायकमिव पृथुपरिपूर्णायतमुखम्। पृथु विस्तीर्ण परिपूर्ण सपूर्णं आयत दीर्घ मुख यस्य स तथा त विघ्नराजमिव। पुन कथभूतम्। अशोकपुष्पमिवारुण तालुनि। तालुनि ताल्लुविषये अरुणमव्यक्तरागम्। किमिव। अशोकपुष्पमिव यथा अशोकपुष्प अरुण भवति। पुन कथभूतम्। कमलकोशमिव शोणप्रकाशमन्तरास्ये। अन्तरास्ये मुखमध्ये शोणप्रकाश कोकनदच्छविम्। किमिव। कमलकोशमिव पद्मगर्भमिव। पुन कथंभूतम्। पीनोपचितकायमुरोमणिविक्षोभकटककपोलसृक्कसु। उरोमणि हृदय विक्षोभकटक श्रोणिफलक कपोलौ गण्डस्थले सृक्कणी ओष्ठप्रान्तौ तानि तेषु पीनो पचितकाय स्थूलवृद्धशरीरम्। पुन कथभूतम्। अनुन्नतानवनतसुप्रमाणकुम्भम्। न उन्नतौ अत्युचौ न अवनतौ नीचैस्वरौ सुप्रमाणौ उत्तमस्त्रीस्वनाकारौ कुम्भौ शिरस पिण्डौ यस्य स तथा तम्। पुन कथभूतम्। ऋजुपूर्णहस्वक्न्धरम्। ऋजुरचक्रा पूर्णा मासला हस्वाअदीर्घा कन्धरा ग्रीवा यस्य स तथा तम्। पुन कथभूतम्। अलिनीलघनदीर्घस्निग्धकेशपेशलम्। अलिवद्धमरवन्नीला कृष्णवर्णा घना अविरला दीर्घा अहस्वास्निग्धा कान्तिमन्तो ये केशास्तै पेशलो अतिमनोहरस्तम्। पुन कथभूतम्। समसूद्गतव्यूढमस्तकपिण्डम्। सम अव्यक्त सुष्ठु अतिशयेन उद्गत प्रादुर्भूतो व्यूढो निबिडो मस्तकपिण्ड यस्य स तम्। पुन कथभूतम्। अनल्पासनावकाशम्। अनल्पो बृहदासनस्य पृष्ठदेशस्य अवकाश समितिर्यस्य स तथा तम्। पुन कथभूतम्। आरोपित कार्मुकाकारपरिणतानुवशम्। आरोपित सप्रत्यञ्चयत् कार्मुकधनुस्तदाकारेण परिणत पर्याय गतो अनुवश अनुक्रमेण वश पृष्ठ यस्य स तथा तम्। पुन कथभूतम्। अजकुक्षिम्। अजस्येव छागस्येव उभयपार्श्वयोरुन्नत कुक्षिरुदरं यस्य स तथा

ईषत्सवर्तकोन्नतभूमिदेशस्पर्शिगोलाङ्गुलवालधिम्, अभिव्यक्तोभयपुष्करम्, वराहजघनापरम्, आम्रपल्लवसकाशकोशम्, अतीव सुप्रतिष्ठितै समुद्गकूर्माकृतिभिर्गात्रापरतलैपातालतले निपतन्तीमुद्धरन्तमिव मेदिनीम्, उत्सर्पद्भिरष्टमीहिमाशुनिभसुनिविष्टश्लिष्टविंशतिनखमयूख-प्ररोहैर्भुवनसरसि विजृम्भमाणस्य तव यशोहसस्य मृणालजालानीव परिकल्पयन्तम्, आनुपूर्वीपृथुवृत्तायतकोमलाभोगेन भविष्यदनेकजन्यजयादेशरेखाभिरिव कति भि-

——————

तम्। पुन कथभूतम्। अनुपदिग्धपेचकम्। अस्थूलपुच्छमूलम्। पुन कथभूतम्। ईषत्सवर्तकोन्नतभूमिदेशस्पशिगोलाङ्गूलवालधिम्। ईषन्मनाक् सवर्तके वालधिप्रदेशे उन्नत उच्चो भूमिदेशस्पर्शी गोलाङ्गूलवत् वृषभपुच्छवत् वालधि पुच्छो यस्य स तथा तम्। पुन कथभूतम्। अभिव्यक्तोभयपुष्करम्। अभिव्यक्ते प्रकटे उभये अव स्तनोर्ध्व सबन्धिनी पुष्करे शुण्डाग्रभागे यस्य स तथा। पुन कथभूतम्। वराहजघनापरम्। वराहस्य अरण्यशूकरस्य जघनवत् कठ्यप्रभागवत् अपर पश्चिमदेशो यस्य स तथा तम्। पुन कथभूतम्। आम्रपल्लवसकाशकोशम्।आम्रस्य सहकारस्य पल्लवप्रवालस्तेन सकाश सदृश कोशो मेद यस्य स तथा तम्। सिन्धुर किं कुर्वन्तम्। अतीव सुप्रतिष्ठितै समुद्रकूर्माकृतिभिर्गात्रापरतले पातालतले निपतन्तीमुद्धरन्तमिव मेदिनीम्। गात्रापरतले गात्र अग्रकायो अपर पश्चात्कायस्तयोस्तलान्यधशरीराणि गात्रापरतलानि तै कृत्वा मेदिनी पृथ्वीं उद्धरन्तमिव। मेदिनीं कि कुर्वन्तीम्। पातालतले निपतन्तीं रसातले निमज्जन्तीम्। कथभूतैर्गात्रापरतलै। अतीव सुप्रतिष्ठितै अतिशयेन निश्चलै। पुन कथभूतै। समुद्भकूर्माकृतिभि समुद्र करण्डविशेष कूर्म कच्छपस्तयोरिव आकृतिराकारो येषा गात्रापरतलाना तानि समुद्रकुर्माकृतीनि तै। पुनश्च कि कुर्वन्त विज्ञापयति। उत्सर्पद्भिरष्टमीहिमाशुनिभसुनिविष्टश्लिष्टविंशतिनखमयूखप्ररोहैभु वनसरसि विजृम्भमाणस्य तव यशोहसस्य मृणालजालानीव परिकल्पयन्तम्। तव यशोहसस्य भवत पुण्यगुणानुकीर्तनश्वेतच्छदपक्षिणो मृणालजालानि पद्मिनी कन्दवृन्दानि परिकल्पयन्तमिव भक्षणार्थमुपढौकयन्तमिव। कि कुर्वाणस्य तव यशोहसस्य। भुवनसरसि विजृम्भमाणस्य भुवनसरसि त्रैलोक्यसरोवरे विजृम्भमाणस्य विशेषेण प्रसारं कुर्वाणस्य पर्यटत। व्याप्नुवानस्येत्यर्थ। कै कृत्वा मृणालजालानि परिकल्पयन्तम्। अष्टमीहिमा शुना अर्धचन्द्रेण निभा सदृशा सुनिविष्टा निश्चलास्ते च ते श्लिष्टा परस्परं सलग्ना विंशतिर्द्विदशपरिमाणा ये नखा कामाङ्कुशास्तेषा मयूखा किरणास्त एव प्ररोहा अङ्कुरास्ते तथा तै। कथभूतै नखमयूखप्ररोहै। उत्सर्पद्भिरूर्ध्व गच्छद्भि। पुनश्च किं कुर्वन्त विज्ञापयति। आनुपूर्वीपृथुवृत्तायतकोमलाभोगेन भविष्यदनेकजन्यजयादेश

श्चिद्वलिभिरलकृतेन सुस्रोतसा मृदुदीर्घविस्तृताङ्गुलिना करेण मुहुर्मुहुरितस्ततो विनिकीर्णैर्वमथुपाथ शीकरैर्दिक्पालपुरपुरध्रीणा पट्टबन्धावसरेऽस्मिन्मुक्ताफलोपायनानीव दिशन्तम्, अनवरतमुच्छलता मलयजागुरुसरोजकेतकोत्पलकुमुदामोदसवादिना मदवदनसौरभेण भवदैश्वर्यदर्शनाश-

——————

रेखाभिरिव कतिभिश्चिद्बलिभिरलकृतेन सुस्रोतसा मृदुदीघविस्तृताङ्गुलिना करेण मुहुर्मुहुरितस्ततो विनिकीर्णैर्वमथुपाथ शीकरैदिक्पालपुरध्रीणा पट्टबन्धावसरेऽस्मिन्मुक्ता फलोपायनानीव दिशन्तम्, अस्मिन्प्रत्यक्षीभूते पट्टबन्वावसरे राज्यपट्टबन्धसमये दिक्पालपुरपुरध्रीणा इद्रादिदिक्पालाना पुराणा नगराणा पुरध्रीणा कमनीयकामिनीना मुक्ताफलोपायनानि शौक्तिकेयप्राभृतानि दिशन्तमर्पयन्तमिव। कै कृत्वा मुक्ताफ लोपायनानि दिशन्तम्। वमथुपाथ शीकरैरद्वारजलकणै। कथभूतैर्वमथुपाय शीकरै। करेण शुण्डादण्डेन मुहुर्मुहुवारवार इतस्ततो यत्र तत्र विनिकीर्णैर्विनिक्षिप्तै। कथ भूतेन करेण। आनुपूर्वीपृथुवृत्तायतकोमलाभोगेन आनुपूर्व्या अनुक्रमेण पृयु स्थूलो वृत्तो वर्तुलाकार आयतो दीघ कोमल सुकुमार आभोग परिपूर्णता यस्य करस्य स तथा तेन। पुन कथभूतेन करेण। कतिभिश्चित्कियत्प्रमाणाभिर्वलिभि स्वकरसकोचरेखाभिरलकृतेन शोभितेन। कथभूताभिर्वलिभि। भविष्यदनेकजन्यजयादेशरेखाभिरिव भविष्यन्ति अनागतानि अनेकानि बहूनि जन्यानि सग्रामास्तेषु जयस्य विजयस्य प्राप्तेरादेशस्य कथनस्य रेखाभिरिव गणनाराजिभिरिव। पुन कथभूतेन करेण। सुस्रोतसा सुष्ठु शोभनस्रोतो मदप्रवाहो यस्य स सुस्रोतास्तेन। पुन कथभूतेन करेण। मृदुदीर्घविस्तृताङ्गुलिना मृदु कोमल दीर्घालम्बायमाना विस्तृता विस्तारं प्रापिता अङ्गुलयो यस्य स तेन। पुन कि कुर्वन्त विज्ञापयति। अनवरतमुच्छलता मलयजागुरुसरोजकेतकोत्पलकुमुदामोदसवादिना मदवदनसौरभेण भवदैश्वर्यदर्शनाश- यावतीर्णानामम्बरचरकुमारकाणामर्घमिवोत्क्षिपन्तम्। मदवदनसौरभेण मदेनोपलक्षित यद्वदन मुख तस्य सौरभेण परिमलेन अम्बरचरकुमारकाणा देवविद्याधरपुत्राणा अर्थ पूजा इव समुदायमुत्क्षिपन्तमिव उन्मुञ्चन्तमिव। कथभूतानामम्बरचरकुमारकाणाम्\। भवदैश्वर्य दर्शनाशयावतीर्णानाम् भवतस्तव ऐश्वर्य प्रभुत्व तस्य दर्शनाशयेन अवलो कनमनसा अवतीर्णानामागतानाम्। कथभूतेन मदवदनसौरभेण। अनवरत निरन्तरं उच्छलता आकाशे उत्पतता। अपर कथभूतेन मदवदन सौरभेण। मलयजागुरुसरो जकेतकोत्पलकुमुदामोदसवादिना मलयज गन्धसारम्। चन्दनमिति यावत्। अगुरु कृमिजग्धम्। काकतुण्ड लोहम्। राजार्हमिति यावत्। सरोजानि कमलानि, केतकानि केतकीपुष्पाणि, उत्पलानि कुमुदानि, कैरवाणि। श्वेतोत्पलानि इति यावत्। तावत्तेषामा मोद परिमल सवदत्यनुकरोत्युपमा धरतीत्येवशील तत्तथोक्त तेन। पुनश्च किं कुवन्तम्।

यावतीर्णानामम्बरचरकुमारकाणामर्घमिवोत्क्षिपन्तम्, अम्भोधरगम्भीरमधुरध्वनिना बृहितेन सकलयागनागसाधनाधिपत्यमिवात्मनि विनिवेदयन्तम्, अरालपक्ष्मण स्थिरप्रसन्नायतव्यक्तरक्तशुक्लकृष्णदृष्टिभागस्य मणिरुचो लोचनयुगलस्यारविन्दपरागपिङ्गलैरपाङ्गपातै ककुबङ्गनासु पिष्टातकचूर्णमिव किरन्तम्, मनाग्दक्षिणोन्नतेन ताम्रचूडहलोपशोभिना समसुजातमधुसन्निकाशदशनद्वितयेन विदधानमिव नाकलोकावलोकनकुतूहलिन्यास्त्व-

——————

अम्भोधरगम्भीरमधुरध्वनिना बृहितेन सकलयागनागसाधनाधिपत्यमिवात्मनि विनिवेदयन्तम्। बृहितेन गजितेन कृत्वा सकलयागनागसाधनाधिपत्य सकलाना समस्ताना यागनागसाधनाना पट्टयोग्यगजसैन्याना आधिपत्य प्रभुत्व आत्मनि स्वस्मिन् विनिवेदयन्त सूचयन्तमिव। किंविशिष्टेन बहितेन। अम्भोधरगम्भीरमधुरध्वनिना अम्भोधरस्य जलधरस्येव गम्भीर अतलस्पर्शो मधुर कर्णामृतप्रायो ध्वनि शब्दो यस्य बृहितस्य तत्तथा तेन। पुन किं कुर्वन्तम्।अरालपक्ष्मण स्थिरप्रसन्नायतव्यक्तरक्तशुक्लकृष्णहष्टिभागस्य मणिरुचो लोचनयुगलस्यारविन्दपरागपिङ्गलैरपाङ्गपातै ककुबङ्गनासु पिष्टातकचूर्णमिव किरन्तम्। लोचनयुगलस्य अपाङ्गपातैकटाक्षविक्षेपै ककुबङ्गनासु दिग्वनितासु पिष्टातकचूर्ण पटवासचूर्ण किरन्तमिव। किलक्षणैरपाङ्गपातै।अरविन्दपरागपिङ्गलै अरविन्दस्य कमलस्य परागो रजस्तद्वत् पिङ्गलैगोरोचनावर्णै। किं लक्षणस्य लोचनयुगलस्य। अरालपक्ष्मण घनस्निग्धनेत्ररोम्ण। पुन किंलक्षणस्य लोच नयुगलस्य। स्थिरप्रसन्नायतव्यक्तरक्तशुक्लकृष्णदृष्टिभागस्य स्थिरा निश्चला प्रसन्ना निर्मला आयता दीघा व्यक्ता स्फुटतरा रक्ता लोहिता शुक्ला उज्ज्वला कृष्णा यमकायसदृशा दृष्टिभागा अवलोकनप्रदेशा यस्य लोचनयुगलस्य तत्तथोक्त तस्य। पुन कथभूतस्य लोचनयुगलस्य।मणिरुच शुक्लकृष्णरक्ततेजस। पुनश्च किं कुर्वाण विज्ञापयति। मनाग्दक्षिणोन्नतेन ताम्रचूडहलोपशोभिना समसुजातमधुसन्निकाशदशनद्वितयेन विदधानमिव नाकलोकावलोकनकुतूहलिन्यास्त्वत्कीर्ते सोपानमार्गम्। समसुजातमधु सन्निकाशदशनद्वितयेन सम शोभनपरिणाहनिर्गम सुजात रथेषाकृति मधुसन्निकाश क्षौद्रवर्ण तच्च दशनद्वितय दन्तमुखयुगल तेन तथोक्तेन कृत्वा नाकलोकावलोक-नकुतूहलिन्या नाकलोक स्वर्गलोकस्तस्यावलोकने निरीक्षणे कुतुहल विनोदो विद्यते यस्या सा तथा तस्यास्त्वत्कीर्ते सोपानमार्ग आरोहणमार्ग विदधानमिव रचयन्त मिव। कथभूतेन दशनद्वितयेन। मनाग्दक्षिणोन्नतेन मनाक् ईषत् दक्षिणपार्श्व उन्नत मनाग्दक्षिणोन्नत तेन। तथा चोकम्—‘दक्षिणोन्नतमित्याहुर्दन्ते चार्वङ्गुलोन्नते। यवमानोन्नते केचित्तथा वामोन्नत विदु ॥’ पुनरपि कथभूतेन दशनद्वितयेन। ताम्रचूडहलोपशोभिना ताम्रचूड कुक्कुटस्तस्य हल चरणयो पश्चादङ्गुलिस्तद्वत् उपशोभते रा

त्कीर्ते सोपानमार्गम्, असिराततप्रलम्बबहलसुकुमारोदयेन कर्णतालद्वयेनोद्यावदुन्दुभीना नादमिव पुनरुक्तयन्तम्, उदग्रतया च स्वर्वयन्तमिव धरणिधरशिखराणि, समन्तात्प्रसरद्भि सरस्वतीहासापहासिभिर्देहप्रभापटलै खकीयशरीरश्रिताया वीरश्रिय पर्यन्तेषु सितसरसिरुहोपहारमिव सपादयन्तम्, अन्तरान्तराध्वजशङ्खचक्रस्वस्तिकनन्द्यावर्तविन्यासाभि प्रदक्षिणावर्तवृत्तिभि सु-क्ष्ममुखस्निग्धाङ्गजराजिभिरणुतरबिन्दुमालाभिश्च निचितोचितप्रतीकम्, आपादितोत्सवसपर्यमिव विजयलक्ष्मीनिवासम्, एवमन्यैरपि बहलविपुलव्यक्तस-निवेशमनोहारिभिर्मानोन्मानप्रमाणसमन्वितैश्चतुर्विधैरपि प्रदेशैरनूनानतिरि-

——————

जते इत्येवशील तत्तथोक्त तेन। पुनश्च किं कुवन्त विज्ञापयति। असिराततप्रलम्बबह लसुकुमारोदयेन कर्णतालद्वयेनोद्यावदुन्दुभीना नादमिव पुनरुक्तयन्तम्। कर्णतालद्वयेन ताडपत्राकारकर्णद्वितयेन कृत्वा उद्यावदुन्दुभीना आनदभेरीणा नाद ध्वनिं पुनरुक्तयन्तमिव द्विगुणीकुर्वन्तमिव। सताडनवशात् ध्वनिरुत्पद्यते। कथभूतेन कणतालद्वयेन। असिराततप्रलम्बबहलसुकुमारोदयेन न सिराभिस्ततो (अदृष्टस्ताभिव्याप्तो य) असिराततप्रलम्बो दीर्घतरो बहलो विस्तीर्णं सुकुमार सुकोमल उदयो यस्य कर्णतालद्वयस्य तत्त थोक्त तेन। पुन किं कुर्व तम्। उदग्रतया उन्नततया धरणिधर शिखराणि पर्वतशृङ्गाणि खवयन्तमिव ह्रस्वीकुर्वन्तमिव। पुन कि कुर्वन्तम्। देहप्रभापटलै शरीरकान्तिसमूहै कृत्वा वीरश्रिय वीरलक्ष्म्या पर्यन्तेषु सितसरसिरुहोपहार श्वेतकमलपूजन सपाद यन्तमिव। कथभूताया वीरश्रिय \। स्वकीयशरीरश्रिताया स्वकीय स्वस्य शरीरं श्रिताया आश्रिताया। क्थभूतैर्देहप्रभापटलै। समन्तात्प्रसरद्भि सर्वत्र व्याप्नुवद्भि। पुन कथभूतैर्देहप्रभापटलै। सरस्वतीहासापहासिभि भारतीहास तिरस्कुर्वद्भि। उज्ज्वलैरित्यर्थ। पुन कथभूत विज्ञापयति। सूक्ष्ममुखस्निग्धाङ्गजराजिभि। सूक्ष्ममुखा स्निग्धा अरूक्षा अङ्गजाना (गजाना) रोमाणा राजयस्ताभि कृत्वा अणुतरबिन्दुमालाभि सूक्ष्मत रबिन्दूना राजिभिश्च कृत्वा निचितोचितप्रतीक निचिता परिपूर्णजटिता उचिता योग्या प्रतीकाशरीरावयवा यस्य स निचितोचितप्रतीकस्तम्। कथभूताभि सूक्ष्ममुखस्निग्धाङ्गजराजिभि। अन्तरान्तरा मध्ये मध्ये ध्वजशङ्खचक्रस्वस्तिकनन्द्यावर्तवि न्यासाभि ध्वजश्च शङ्खश्च चक्र च स्वस्तिकश्च नन्द्यावर्तश्च ते तथोक्तास्तेषा विन्यामिरचना यासु अङ्गजराजिषु तास्तथोक्तास्ताभि। पुन कथभूताभिरङ्गजराजिभि। प्रदक्षिणावर्तवृत्तिभि प्रदक्षिणावर्ता वृत्ति प्रवृत्तियासा तास्तथोक्ताभि। पुन कथभूतम्। आपादितोत्सवसपर्यमिव आपादिता विहिता कृता रचिता उत्सवसपर्या महोत्सवपूजन यस्य स तथा तम्। पुन कथभूतम्। विजयलक्ष्मीनिवास जगज्जयश्रीनि-

क्तम्, आचक्षाणमिव सप्तधास्थितत्वेन खामिन सप्तसमुद्रमुद्र शासनमहामहीशमहामात्राणाम्, द्वादशस्वपि क्षेत्रेषु शुभसमुदायप्रत्यङ्गफलम्, निष्पन्नयोगिनमिव क्षान्त रूपादिषु विषयेषु, दिव्यर्षिमिव सर्वज्ञम्, असितर्तिमिव तेजस्विनम्, अभिजातमिवोदयप्रत्ययैर्विशुद्धम्, अधोक्षजमिव कामवन्तम्,

———————

वासस्तम्। पुन कथभूतम्। एवममुना प्रकारेण अन्यैरपि परैरपि चतुर्विधैरपि प्रदेश देशसद्भाविन मानिका उपधानिका लाक्षणिकाश्चेति चतु प्रकारै प्रदेशै शरीरावय वैरनूनातिरिक्त न्यूनाधिकतारहित विज्ञापयति। उक्त च—‘देशसद्भाविन केचित् मानिकाश्चोपधानिका। केचिल्लाक्षणिकाश्चेति प्रदेशाश्च चतुर्विधा॥’ कथभूतैश्चतुर्विवैरपि प्रदेश। बहलविपुलव्यक्तसनिवेशमनोहारिभि बहलो घनतरो विपुलो महान् व्यक्त स्फुट सनिवेशो विन्यासो येषा प्रदेशाना ते बहलविपुलव्यक्तसनिवेशास्तैर्मनो हरन्तीत्येवशीलास्ते तथा तै। पुन कथभूतैरपि चतुर्विधै प्रदेशै। मानोन्मानप्रमाण समवितै मान च उन्मान व प्रमाण च मानोन्मानप्रमाणानि तै समन्विता सयुक्ता ये प्रदेशास्ते तथा तै। तथा चोक्तम्- ‘ऊर्ध्वमान तु विज्ञेयमुन्मान तिर्यगाश्रयम्। प्रमाण परिणाहेन त्रिष्वय लक्षणक्रम॥’ पुनश्च किं कुर्वाण विज्ञापयति। सप्तधा स्थितत्वेन। तथा हि—‘ओजस्तेजो बल शौर्य सत्वसहनन जय। प्रशस्तै सप्तभिश्चैते स गज सप्तधा स्थित॥ इत्युक्तलक्षणेन सप्तधास्थितत्वेन। महामहीशमहामात्राणा महानृपाणा महाहस्तिपालकाना च स्वामिनस्तव सप्तसमुद्रमुद्र सप्तसागरपर्यन्त शासन आज्ञा आचक्षाणमिव कथयन्तमिव सूचयन्तमिव। पुनश्च कथभूत विज्ञापयति। द्वादशस्वपि क्षेत्रेषु द्वादशराजमण्डलीषु द्वादशकायेषु शुभसमुदायप्रत्यङ्गफल कल्याणस- मूहशरीरफ्ल विज्ञापयति। कानि तानि द्वादशक्षेत्राणि द्वादशशरीराणि। हस्तरदनमु खशिरोनयनकर्णग्रीवागात्रोरोजघनमेढकायलक्षणानि। कथभूतम्। निष्पनयोगिनमिव क्षान्तम्। रूपादिषु विषयेषु (रसनादिषु) रसस्पर्शगन्ववर्णलक्षणेषु पञ्चसु विषयेषु क्षात भवति अविचल भवति चित्तम्। कमिव। निष्पन्नयोगिनमिव। यथा निष्पन्नो योगी वीतरागो मुनि रूपादिषु विषयेषु क्षान्तो भवति। पुन कथभूतम्। सर्वज्ञ सर्ववस्तुज्ञातार कथयति। कमिव। दिव्यर्षिमिव। यथा दिव्यर्षि केवलज्ञानी पुमान् सर्वज्ञो भवति। पुन कथभूत विज्ञापयति। तेजखिन प्रतापवन्तम्। कमिव। असितर्तिमिव अग्निमिव। यथा असितर्तिस्तेजस्वीभवति। तथा चोक्तम्—‘भारस्यातीव वहन विद्यात्ते जखिन गजम्’। पुर्न कथभूतम्। अभिजातमिवोदयप्रत्ययैर्विशुद्धम् उदयो जन्म पुरोभागगमन च प्रत्ययो विश्वास प्रत्यासन्नगमन च उदयौ च प्रत्ययौ च उदयप्रत्ययास्तैरुदयप्रत्ययैर्विशुद्ध अधिगत विज्ञापयति। कमिव। अभिजातमिव कुलीनमानव-

अमृतकान्तिमिवासतापम्, आयोधनाग्रेसरमिव मनस्विनम्, अनाद्यूनमिव सुभगम्, आकरस्थानमिवान्येषामपि गुणरत्नानाम्।

अत्रावसरे करिकलाभाभिधानो वाग्जीवनोऽध्यगीष्ट गजप्रशसावृत्तानीमानि—

यस्माद्भानुरभूत्ततोऽण्डशकलाद्धस्ते धृतादात्मभू-
गयन्सामपदानि यान्गणपतेर्वत्रानुरूपाकृतीन्।
अस्राक्षीत्क्षितिरक्षणक्षमबलास्ते हस्तिनस्ते नृप
प्राय प्रीतिकृतो भवन्तु विजयश्रीकेलिकीर्तिप्रदा ॥१६७॥

——————

मिव। यथा अभिजात पुमान् उदयप्रत्ययेविशुद्धो भवति। पुन कथभूतम्। अधोक्षजमिवकामवन्तम्। ‘जिघासु सर्वसत्त्वाना कामवन्त प्रचक्षते। कमिव। अधोक्षजमिव। यथा अवोक्षजो नारायण कामवान् प्रद्युम्नवान् भवति। पुन कथभूतम्। अमृत कान्तिमिवासतापम्। ‘अस्त्रादीना च सहनादसताप विदुर्बुधा’।कमि। अमृतकान्तिमिव। यथा अमृतकान्तिश्चन्द्रोऽसताप शिशिरो भवति। पुन कथभूतम्। आयोधनाग्रेसरमिव मनस्विन शूर विज्ञापयति। ‘सर्वकर्मसहत्वाच्च

विद्यान्नाथ मनस्वि नम्’। कमिव। आयोधना…सरमिव। यथा आयोधने सग्रामे अग्रेसर पुमान् अग्रणी पुरुषो मनस्वीअभिमानवान् भवति। पुन कथभूत विज्ञापयति। अनाद्यूनमिव सुभग विज्ञापयति। अल्पाहार क्थयति। आद्यून क्रूराग्निर्न आद्यूनो अनाद्यूनमिव। अल्पभोजी इत्यर्थं। तदुक्तम्–‘अल्पाहारेण यस्तृप्त सुभग स गजोत्तम। कमिव। यथा अनाद्यूनो अल्पाहार पुमान् सुभगो भवति। उक्त च–‘आधून स्यादौदरिको विजिगीषाविव जिते’। पुन कथभूतम्। आकरस्थानमिव अन्येषामपि गुणरत्नानाम्। एवममुना प्रकारेण अन्येषामपि अपरेषामपि गुणरत्नाना गुणमाणिक्यानामाकरस्थानमुत्पत्तिस्थान विज्ञापयति।

अत्रावसरे अस्मिन्प्रस्तावे करिकलाभाभिधान करिणा गजाना कला चातुर्यम्, करि कलया आभा शोभा यस्येति करिकलाभ, करिकलाभाभिधान नाम यस्येति स करि कलाभाभिधानो वाग्जीवनो भट्ट इमानि वक्ष्यमाणानि गजप्रशसावृत्तानि पद्यानि अभ्यगीष्ट अपठत् पपाठ—यस्मादित्यादि। हे नृप, ते तव हस्तिन प्रायो बाहुल्येन प्रीतिकृतो भवन्तु हर्षोत्पादका सन्तु। कथभूतास्ते हस्तिन। विजयश्रीकेलिकीतिप्रदा विजयश्रियो विजयलक्ष्म्या या केलि क्रीडा तस्या सकाशात् या कीर्ति पुण्यगुणकीर्तन ता प्रयच्छन्ति इति विजयश्रीकेलिकीर्तिप्रदा। ते हस्तिन के। यान् हस्तिन आत्मभूर्ब्रह्मा ततस्तस्मात् अण्डशकलात् पिण्डखण्डात् हस्ते धृतात् करे कृतात् अस्राक्षीत् असृजत् सृष्टवान्। तत कस्मादण्डशकलात्। यस्मात् भानुरभूत् श्रीभास्कर उत्पन्न \। आत्मभ

अत प्रभाते परमेष्ठिनन्दनान्समर्च्य पश्यन्करिणो नरेश्वर।
न केवल तस्य रणेषु कीर्तय स सार्वभौमश्च भवत्यसशयम् ॥१६८॥

सामोद्भवाय शुभलक्षणलक्षिताय
दिव्यात्मने सकलदेवनिकेतनाय।
कल्याणमङ्गलमहोत्सवकारणाय
तुभ्य नम करिवराय वराय नित्यम्॥१६९॥

रवेरिवास्मादुषसि प्रबुद्धाद्दृष्टात्प्रसन्नेन्द्रियदृश्यमूर्ते।
दुस्वप्नदुष्टग्रहदुष्टचेष्टा प्रयान्ति नाश सहसा नृपस्य॥१७०॥

———————

कि कुर्वन्। सामपदानि गायन् सामवेदवाक्यानि पठन् लुताक्षरबहुलत्वात् गान कुर्वन्मन्दगमनहेतुत्वात् मन्दगमनानस्राक्षीदिति भाव। क्थभूतान्। गणपते लम्बोदरस्य वक्र मुख तस्यानुरूपा सदृशा आकृति आकारो येषा तान्। पुन कथ भूतान् अस्राक्षीत्। क्षितिरक्षणक्षमबलान्। पृथ्वीमण्डलप्रतिपालनसमर्थसामर्थ्यानिति शेष। उपमालकार ॥

अत इत्यादि। स नरेश्वर असशय नि सदेह सार्वभौमश्च भवतीति। न केवल तस्य नरेश्वरस्य रणेषु सग्रामेषु कीतय एव भवन्ति, अपि तु सार्वभौमश्च भवतीति चकारार्थ। नरेश्वर कि कुर्वन्। अत एतस्मात् कारणात् प्रभाते व्युष्टसमये करिण पश्यन्। किं कृत्वा। पूर्व समर्च्य पूजयित्वा। कथभूतान् करिण। परमेष्ठिनन्दनान् ब्रह्मपुत्रान्। समुच्चयालकार॥

सामोद्भवायेत्यादि। तुभ्य ते करिवराय गजाय नित्य सर्वकाल नमोऽस्तु। किमर्थ नम। वराय वरदानार्थम्। कथभूताय करिवराय। सामोद्भवाय सामवेदोत्पन्नाय। पुन कथभूताय करिवराय। शुभलक्षणलक्षिताय कल्याणलक्ष्मशोभिताय। दिव्यात्मने अतिमनोहराय। सकलदेवनिकेतनाय सकलाना सर्वेषा देवानामिन्द्रादीना निकेतनाय मन्दिराय। कल्याणमङ्गलमहोत्सवकारणाय कल्याण शुभ मङ्गल सुखदान पापविध्वसो वा महोत्सवो महानन्दस्तेषा वारणाय। हेतवे इति शेष। अतिशया लकार॥

रवेरित्यादि। अस्माद्गजात् उषसि प्रबुद्धात् प्रभाते जागरितात् दृष्टात् अवलोकितात् नृपस्य राज्ञ सहसा शीघ्रेण दु स्वप्नदुष्टग्रहदुष्टचेष्टा नाश प्रयान्ति। दुस्वप्नदुष्टप्रचेष्टानां दुराचाराणा पापस्य फल न भवतीत्यर्थं। कथभूतादस्माद्गजात्। प्रसन्नेद्रियदृश्यमूर्ते प्रसन्नै प्रसादवद्भिरिन्द्रियैश्चक्षुरादिभि दृश्या अवलोकनीया मूर्ति शरीरं यस्य स तथा तस्मात्। अस्मात्कस्मादिव। रवेरिव। यथा रवे श्रीसूर्यात् प्रसन्नादिविशेषणविशिष्टात् दु स्वप्नादिक विनाश गच्छति। उपमालकार॥

इत्थ सिन्धुरचेष्टितानि चरत श्रुत्वा रिपूणा गण
त्रासादस्तसमस्तविग्रहभर स्याद्भृत्य इत्याचरन्।
एते हस्तिन एष वाजिनिवह क्षोणीयमेते वय
देव ब्रूहि यदत्र भाति भवत सर्वत्र सज्जा वयम्॥१७४॥

सुभट इव विशस्त्र स्वामिहीनेव सेना
जनपद इव दुर्गैक्षीणरक्षाविधान।
बलमवनिपतीना वारणेन्द्रैर्विहीन
वशमवशमवश्य वैरिवर्गै क्रियेत॥१७५॥

भयेषु दुर्गाणि जलेषु सेतवो गृहाणि मार्गेषु रणेषु राक्षसा।
मन प्रसादेषु विनोदवेधसो गजा इवान्यत्किमिहास्ति वाहनम्॥१७६॥

——————————

प्रभावयेत्। वीरै सुभटै। कि कुर्वद्भिवीरै। पुरो अग्रत इतस्ततो यत्र तवप्रधावद्भिर्व गवद्भिर्गतिं कुर्वद्भि। तथा करेणुभिरपरगजसघट्टने। तथा मार्गनिकाचबन्धनै मागे तटिकार्गलाबन्धनै स तथा आतोद्यवाद्यै वादित्रवादनै प्रभावयेत्। तथा करिणा पलायनै अपरगजाना नाशनै प्रभावयेत्। दीपकालकार ॥

इत्थमित्यादि। इत्थ अमुना प्रकारेण सिधुरचेष्टितानि गजविलसितानि चरतो हैरिकाच्छ्रुत्वा आकर्ण्य रिपूणा गणा शत्रूणा समूहास्त्रासात् भयात् अस्तसमस्तविग्रहभर परित्यक्तसवसग्रामातिशयो भृत्य सेवक स्यात्। रिपूणा गण कि कुवन्। मृत्य स्यात् इति अमुना प्रकारेण आचरन् विदधन्। इतीति किम्। हे देव हे राजन्, एते प्रत्यक्षीभूता अस्माक हस्तिन वर्तन्ते। एष प्रत्यक्षीभूतो वाजिनिवहो अश्वसमूहो वर्तते। इय प्रत्यक्षीभूता क्षोणी पृथिवी वतते। एते प्रत्यक्षीभूता वय चसेवका वर्तामहे। अत्र एषु पदार्थेषु यद्भवतस्तव यद्भाति चमत्करोति तुभ्य रोचते तत्त्व ब्रूहि आदेश देहि। सर्वत्र हस्त्यश्वक्षोणीस्वस्रमर्पणे वय सज्जा एव वर्तामहे। रूपकालकार॥

सुभट इत्यादि। अवनीपतीना भूमिपतीना वारणेद्रै गजेन्द्रैर्विहीन रहित बल सैन्य वैरिवर्गै शत्रुवर्गैरवश परवश सत् अवश्य निश्चयेन वश स्वाधीन क्रियेत विधीयेत। क इव। विशस्त्र सुभट इव शस्त्रहीनो योद्धेव। तथा स्वामिहीना सेनेव नायकवर्जिता चमूरिव। तथा दुर्गैप्राकारै क्षीणरक्षाविधानो रहितरक्षाकरण जनपद इव देश इव। प्राचुर्योपमालकार॥

भयेष्वित्यादि। इह अस्मिन् ससारे गजा इव हस्तिसदृश किमन्यद्वाहनमस्ति। हस्तिसदृशमन्यद्वाहन नास्ति इत्यर्थं। कथभूता गजा। भयेषु भीतिषु आतङ्केषु दुर्गाणि प्राकारा। जलेषु सेतवस्तरणोपाया। मार्गेषु अध्वसु गृहाणि पस्त्यानि। रणेषु संप्रामेषु

अरिनगरकपाटस्फोटने वज्रदण्डा-
श्वलदचलनिपाता शत्रुसैन्यावमर्दे।
गुरुभरविनियोगे स्वामिन कामितार्था
प्रतिकरभयकाले सिन्धुरा सेतुबन्धा॥९७७॥

पर प्रधानस्तुरगो रथो नर कदाचिदेक प्रहरेन्न वा युधि।
स्वदेहजैरष्टभिरायुधैरय करी तु हन्यादखिल रिपोर्बलम्॥१७८॥

मणिरणितनिनादादप्रभाव परेषा
भवति नभसि केतुप्रेक्षणाद्देहसाद \।
व्रजति च सहसा यै प्राणित प्राप्तमात्रै
क्षितिप युधि सम तैर्वाहन नान्यदस्ति॥१७९॥

———————

राक्षसा पलाशिन। मन प्रसादेषु चित्तप्रसन्नकरणेषु विनोदवेधस कौतुकविचक्षणा।रूपकालकार॥

अरिनगरेत्यादि। सिन्धुरा कथभूता। अरिनगरकपाटस्फोटने वज्रदण्डा अरीणा शत्रूणां नगराणा पत्तनाना कपाटाना स्फोटने विदारणे वज्रदण्डा वज्रपाता। चल दचलनिपाता गच्छत्पर्वतसपाता शत्रुसैन्यावमर्दे शत्रुसेनाचूर्णकरणे। गुरुभरविनियोगे महाभारोच्चलनकार्ये स्वामिनो नरेन्द्रस्य कामितार्था वाञ्छितदायका। प्रतिकरिभय काले शत्रुगजभीत्यवसरे सिन्धुरा सेतुबन्धा सिन्धुरा गजा तरणोपाया। रूपकालकार॥

पर प्रधान इत्यादि। प्रधान प्रधानभूतो मुरयस्तुरगोऽश्वो रथ स्यन्दनो नर सुभटपदातिर्युधि सग्रामे एक परं शत्रु कदाचित्कदापि प्रहरेत् मारयेत् न वा प्रहरेत् अथवा न प्रहरेत्। अय करी तु हस्ती रिपो शत्रोरखिल समग्र बल सैन्य स्वदेहजैनिजशरीरोत्पन्नैरष्टभिरायुधैर्दन्तशुण्डापादपुच्छलक्षणै हन्यात् हिस्यात्। अतिशयालकार॥

मणिरणितनिनादादित्यादि। हे क्षितिप हे राजन् युधि सग्रामे तैर्जगत्प्रसिद्धै गजैर्हस्तिभि सम सदृश अन्यदपरं वाहन यत्र नास्ति न विद्यते। वे कै। यैर्हस्तिभि कृत्वा मणिरणितनिनादात् पादचक्ररणत्कारशब्दात्परेषा शत्रूणाम् अप्रभावो अमाहात्म्य भवति। नभसि आकाशे केतुप्रेक्षणात् ध्वजदर्शनात् परेषा शत्रूणा देहसादो गात्रभङ्गो भवति। यैर्गजै प्राप्तमात्रै निकटागमनमात्रै सहसा शीघ्र प्राणित जीवित व्रजति विनश्यति। चकार उक्तसमुच्चयार्थ। दीपकालकार॥

पुर प्रत्यक्पक्षभ्रमिभिरभिहन्तु व्यवसिते
गतै सर्वैर्गर्वात्समरसमये सिन्धुरपतौ।
विदीर्णं मातङ्गैस्तुरगनिवहैश्चापि दलित
रथै प्रास्त पद्गैपिशितकवलीभूतमचिरात्॥१८०॥

दण्डासहतभोगमण्डलविधीन्व्यूहान्रणप्राङ्गणे
देव द्विष्टजनैश्विरेण रचितान्स्वनेऽप्यभेद्यान्परै।
कोऽमेत्स्यद्यदि नाभविष्यदवनीपालस्य दानद्रव-
द्रोणीतीरनिषण्णषट्पदततिर्दुर्वारणो वारण॥१८९॥

अभिजन कुलजात्याचारदेहप्रशस्त
सुविहितविनयश्चेद्यस्य चेत्कोऽपि हस्ती।

——————

पुर इत्यादि। पुरोऽग्रत प्रत्यक्पश्चाद्भागेन पक्षयो सव्यापसव्यभागयो भ्रमिभि र्भ्रमणै कृत्वाभिहन्तु मारयितु गर्वात् सर्वै गतैर्जीवैर्गमनस्थूलोच्चयमध्यमोपजवन गमनै सिन्धुरपतौ अस्मिन् यागहस्तिनि समरसमये सग्रामसमये व्यवसिते उद्यमने सति किं जातम्। मातङ्गैशत्रुगजैअचिराद्वेगेन विदीर्णे विदारण प्राप्त तुरगनिवहैरश्वसमू हैरपि दलित विदारण प्राप्तम्। रथै स्यन्दने प्रास्त प्रध्वस प्राप्तम्। पद्गैपदातिभि पिशितकवलीभूत मासपिण्डीभूतम्। चकार उक्तसमुच्चयार्थ। समुच्चयालकार॥

दण्डेत्यादि। हे देव हे राजन्, रणप्राङ्गणे द्विष्टजने शत्रुसमूहै चिरेण दीघका लेन रचितान् कल्पितान् व्यूहान् सेनाविन्यासभेदान् क पुमान् अभेत्स्यत् व्यदारयिष्यत्। अपि तु न कश्चिदपि व्यदारयिष्यदित्यर्थं। यदि चेत् अवनिपालस्य नरेन्द्रस्य वारणो गजो नाभविष्यत् न समजनिष्यत्। कथभूतान् व्यूहान्। दण्डासहतभोगमण्डलविधीन् दण्डश्च दण्डाकारव्यूह, असहतश्च यत्र तत्र विक्षिप्तव्यूह, भोगश्च सर्पशरीराकारव्यूह, मण्डलश्च वर्तुलाकारव्यूह, दण्डासहतभोगमण्डलास्ते विधयो विधानानि येषा व्यूहाना वे तथा तान्। तथा चोक्तम्—‘दण्डो दण्डो यमव्यूहो विक्षिप्तश्चाथ सहत। स्याद्भोगिभोगवद्भोगो मण्डलो मण्डलाकृति ॥’ पुन कथभूतान् व्यूहान्। परै शत्रुभि स्वप्नेऽपि अभेद्यान् अविदार्यान्। न केवल प्रत्यक्ष अभेद्यान्, अपि तु स्वप्नेषु अभेद्यान्। कथभूतो वारण। दानद्रवद्रोणीतीरनिषण्णषट्पदतति दानद्रवस्य मदजलस्य या द्रोणी पर्वतसध्युत्पन्ननदी तस्यास्तीरे तटे निषण्णा उपविष्टा षट्पदानां भ्रमराणा ततय श्रेणयो यत्र वारणे स तथोक्त। पुन कथभूत। दुर्वारण दुःखेन महता कष्टेन वारण निषेधो यस्य स तथा। आक्षेपालकार॥

अभिजनेत्यादि। तस्य राज्ञो नरेन्द्रस्य परेषा शत्रूणा एतत्प्रत्यक्षीभूत चेष्टित

तपति तपनबिम्बे दानवानामिवैत-
त्प्रभवति न परेषा चेष्टित तस्य राज्ञ॥१८२॥

अविनीते यथा राज्ञि न चिर नन्दति क्षिति।
तथाविनीतशुण्डाल बल नारिबल जयेत्॥१८३॥

गजस्थितोऽस्त्रैर्नृप एक एव जेता सहस्रस्य भवेत्परेषाम्।
आसीनसिंह नगमापतन्तमस्ताश्मवर्षं प्रसहेत को हि॥१८४॥

हन्ता सहस्रशोऽन्येषा सोढास्त्राणा सहस्रश।
रणे करिसमो नास्ति रथेषु नृषु वाजिषु॥१८५॥

—————

व्यापारो न प्रभवति न समर्थो भवति। तस्य कस्य। यस्य राज्ञ कोऽपि आस्ता तावद्धस्ती भवति। कथभूतो हस्ती। अभिजनकुलजात्याचारदेहप्रशस्त अभिजन मन इति श्रीदेवनामा पञ्जिकाकार, कुल च पितृपक्ष, जातिश्चमातृपक्ष, आचारश्च निजस्वामिन अप्रतिकूलत्वम्, देहश्च यथोक्तलक्षण शरीरम्, अभिजनकुलजात्याचारदेहास्तै प्रशस्त प्रशसनीय स तथा चेत् यदि सुविहितविनय सुशिक्षितो भवति। परेषा दानवाना मिवैतत् प्रचेष्टित प्रचार। तपनबिम्बे श्रीभास्करमण्डले तपति सति चेष्टित न प्रभवति। कि तु रात्रावेव सचार इत्यर्थ। क्रियोपमालकार॥

अविनीते इत्यादि। यथा येन प्रकारेण अविनीते अशिक्षिते राज्ञि राजनि क्षिति पृथ्वी चिरं दीर्घकाल न नन्दति न समृद्धा भवति, तथा अविनीतशुण्डालमशिक्षितज बल सैन्य अरिबल शत्रुसैन्य न जयेत् न तिरस्कुर्यात् \। अविनीता शुण्डाला गजा यस्मिन् बले तदविनीतशुण्डाल बल कर्तृभूत अरिबल कर्मतापन्नम्। दृष्टान्तालकार॥

गजस्थित इत्यादि। नृपो राजा एक एव असहाय गजस्थितो हस्विनमारूढ अस्त्रैरायुधै कृत्वा परेषा शत्रूणा सहस्रस्य लक्षादेर्जेता जयनशीलो भवेत् सजायते। अमुमेवार्थ आक्षेपेण द्रढयति—आसीनसिंह नग पर्वत आसीन उपविष्ट सिंहो यत्र स तथा त आपतन्तमागच्छन्त क पुमान् प्रसहेत सोढु शक्नुयात्। अपि तु न कश्चिच्छक्रयादित्यर्थं। कथभूत नगम्। अस्ताश्मवर्षम् अस्त प्रेरितो अश्मना पाषाणाना वर्षो वृष्टिर्येन नगेन स तथा तम्। कथम्। हि स्फुटमिति शेष। आक्षेपालकार॥

हन्तेत्यादि। रणे सग्रामे करिसमो हस्तिसदृशो रथेषु स्यन्दनेषु नृषु पदातिषु वाजिषु अश्वेषु एकोऽपि नास्ति कोऽपि न विद्यते। कथभूत करी। अन्येषा शत्रूणा सहस्रशो असरयातान् हन्ता विध्वसक। अस्त्राणा आयुधाना सहस्रश असख्यातान् सोढा सहनशील। उपमालकार॥

भुजगशिरसि रत्न वारिधौद्वीपलोक
स्फुरदुरगसमन्ते भूमिदेशे निधानम्।
न भवति नृप धृष्य यद्वदेवान्यसत्त्वै-
र्गजपतिमधिरूढस्तद्वदेव क्षितीश॥१८६॥

हय प्रधावे हनने कृतान्त सुहृन्निदेशेऽस्त्रविधौ प्रहर्ता।
विलासिनी नर्तनकर्मकाले शिष्योऽपि चान्यत्र गिर करीन्द्र॥९८७॥

गजबन्धे नरेन्द्रस्य व्रतमेतत्करिष्वयम्।
अस्नानपानभुक्तेषु तत्क्रिय स्यान्न यत्स्वयम्॥१८८॥

बलेन कायेन जवेन कर्मणा परैरतुल्या परमेण चायुषा।
महीभुजा भाग्यबलान्महीतले कृतावतारास्त्रिदिवान्मतङ्गजा॥१८९॥

——————

भुजगशिरसीत्यादि। हे नृप हे राजन्, यद्वत् यथा भुजगशिरसि सर्पमस्तके रत्न अन्यसत्त्वैरपरप्राणिभि धृष्य गृहीतव्य न भवति न जायते। वारिधौ समुद्रे द्वीपलोको लङ्कादिद्वीपमानवो अन्यसत्त्वैर्यद्वत् धृष्यो न भवति। तथा। स्फुरदुरगसमन्ते विस्फुरत्सर्पसमीपे भूमिदेशे भूमिस्थाने स्थित निधान अन्यसत्त्वैर्यद्वत् धृष्य न भवति। तद्वदेव गजपतिं गजाधीश्वर अधिरूढश्चढित क्षितीशो राजा अन्यसत्त्वैर्धृष्यो न भवति। दृष्टान्तालकार॥

हय इत्यादि। करीन्द्रो गजेन्द्र कथभूत। प्रधावे वेगवद्गमने हयोऽश्वो वर्तते। हनने शत्रुमारणे कृतान्तो यमो वर्तते। निदेशे आदेशकर्मणि सुहृत् किंकरोवर्तते। अस्त्रविधौआयुधविधाने प्रहर्ता शत्रुमारको वर्तते। नर्तनकर्मकालेनृत्यविधानावसरे विलासिनी वेश्या वर्तते। गिरोऽन्यत्र च वाणीं विना शिष्योऽन्तेवासी वर्तते। वचन नास्ति, अन्यत्सर्व जानाति। असमस्तरूपकालकार॥

गजबन्ध इत्यादि। गजबन्धे हस्तिसग्रहे नरेन्द्रस्य राज्ञ एतद्ग्रत एष नियमो भवति। एतत्किम्। अय नरेन्द्र करिषु हस्तिषु अस्नानपानभुक्तेषु हस्तिस्नान विना हस्तिभोजन विना यत् खयमात्मना तत्क्रिय स्नानपानभोजनक्रियो न स्यात्। जात्यलकार॥

बलेनेत्यादि। मतङ्गजा हस्तिनस्त्रिदिवात् स्वर्गलोकात् महीतले कृतावतारा पृथ्वीमण्डले लब्धजन्मान। कस्मान्महीतले कृतावतारा। महीभुजा राज्ञा भाग्यबलात्, पुण्यप्रकर्षात्। कथभूता मतङ्गजा। बलेन सामर्थ्येन पराक्रमेण कायेन शरीरेण जवेन वेगेन कर्मणा व्यापारेण परमेण उत्कृष्टेन आयुषा जीवितकालेन च परैर्जीवादिभिरतुल्या असाधारणा। जात्यलकार॥

महान्तोऽमी सन्तोऽप्यमितबलसपन्नवपुषो
यदेव तिष्ठन्ति क्षितिपशरणे शान्तमतय।
तदत्र श्रद्धेय गजनयबुधै कारणमिद
मुनीन्द्राणा शाप सुरपतिनिदेशश्च नियतम्॥१९०॥

अनेकसमरसप्रहारव्रणविजयप्रशस्तिशृङ्गारितगात्र शालिहोत्र कलिकालबृहस्पते कुम्भिनीपते, तथैव मन्मुखेनापि साश्चर्यशौर्यनिर्जिताशेषद्विषदाचार्यपरिषद्देवस्यार्हणावन्तमर्वन्त विज्ञापयति—तथाहि। देव देवमिव भद्रजात्यमङ्गेन, देव देवमिव वासव सत्त्वेन, देव देवमिव सुभगा -

—————————

महान्त इत्यादि। अमी हस्तिनो महान्तो गुरुतरा सन्तोऽपि अमितबलसपन्न वपुषो अमर्यादीभूतपराक्रमसयुक्तशरीरा यत् क्षितिपशरणे राजमन्दिरे शातमतय अक्रूरचित्ता सन्तस्तिष्ठन्ति आसते। तदस्मिन् ससारे गजनयबुधैर्गजशास्त्र- नयशास्त्रनिपुण पुरुषैरिदमेतत्कारण हेतु श्रद्धेय रोचनीय ज्ञातव्यमिति। इद किम्। नियत निश्चित मुनी द्राणा शाप कारण च अन्यत् सुरपतिनिदेश शकादेश कारण ज्ञातव्यमिति। अनुपमालकार॥

अनेकेत्यादि। अथ शालिहोत्रोऽश्वसाधनिको उद्धताङ्कुशवचनादनन्तर ब्रूते। कथभूत शालिहोत्र। अनेकसमरसप्रहारव्रणविजयप्रशस्तिशृङ्गारितगात्र अनेके ब हवो ये समरा सग्रामास्तेषु सप्रहारवणै निष्ठुरप्रहारघातैर्विजयप्रशस्तिभि शत्रुजयन प्रसिद्धिभि शृङ्गारित शोभित गात्र शरीर यस्य स तथोक्त। शालिहोत्र कि विज्ञापयति— हे कलिकालबहस्पते हे महाबुद्धे यशोधरमहाराज।हे कुम्भिनीपते हे [भूमिनाथ] राजाधिराज। तथैव तेनैव प्रकारेण उद्धताङ्कुशप्रहारेण मन्मुखेनापि। न केवलम् उद्धताङ्कुशमुखेनापितु मन्मुखेनापि आचार्यपरिषत् अश्वपरीक्षाचायसभा सेना प्रतिनिदेश देवस्य यशोधरमहाराजस्य अर्व तमश्वरत्न विज्ञापयति। कथभूतमर्वन्तम्। अर्हणावन्तम् अर्हणा पादप्रक्षालनतत्पूजनतनमस्कारलक्षणपूजायोग्यम्। कथभूता आचार्यपरिषत्। साश्चर्यशौर्यनिर्जिताशेषद्विषत् साधर्य अत्यद्भुत यच्छौर्य सौभव्य तेन निर्जिता पराभवमानीता मानभङ्ग प्रापिता अशेषा समग्रा द्विषत शत्रवो यया आचार्य परिषदा सा तथा। कि विज्ञापयति—तथाहीति। तदेव दर्शयति— देव देवमिव भद्रजात्यमङ्गेन हे देव हे राजन्, देवमिव भवन्तमिव अङ्गेन शरीरेण भद्र- जात्य विज्ञापयति। उक्त च—‘सात्विकश्लक्ष्ण रोम त्वक्सुखसचारविग्रह।बुद्धिमानविषादी च भद्र स्यान्त्रासवर्जित॥’ हे देव, सत्त्वेन मनसा वासवमिन्द्र विज्ञापयति। कमिव। देवमिव भवन्तमिव। यथा भवान् सत्वेन कृत्वा वासवो वतते। उक्त च—‘तेजो विभूतिविक्रान्तै सत्वमैन्द्र विनिर्दिशेत्। देव, देवमिव

लोक समप्रकृत्या, देव देवमिव सम सस्थानेन, देव देवमिवावगाढ वयसा द्वितीया दशन्तम्, देव देवमिवानुभवितारमायुषा दशापि दशा, देव देवमिव पार्थिव छायया, देव देवमिव वरीयास बलेन, देव देवमिव कण्ठीरवमानूकेन, देव देवमिव समुद्रघोष स्वरेण, देव देवमिव कुलेन काम्बोजम्, वाजिराज च जवेन, देव देवस्य यशोराशिमिव श्वेतमान वर्णेन, देव देवस्य चित्तमिव सूक्ष्मदर्शन तनूरुहेषु, देव देवस्यारिवर्गमिव मग्नवश पृष्ठप्रदेशे, देव देवस्य वीरश्रीविलासचामरमिव रमणीय वालघौ, देव देवस्य

—————————

सुभगालोक समप्रकृत्या हे देव हे राजन्, समप्रकृत्याअविषमस्वभावेन सुभगालोक परेषा प्रीतिजनकदर्शन विज्ञापयति। कमिव। देवमिव भवन्तमिव। यथा भवान्समप्रकृत्या कृत्वा सुभगालोको भवति। हे देव सस्थानेन आकृत्या सम चतुरस्र विज्ञाप यति। कमिव देवमिव। यथा भवान् संस्थानेन समो वर्तते। देव, देवमिवावगाढ वयसा द्वितीया दशन्तम्। हे देव [दशन्तशब्देन दशा जानीयात्] वयसा यौवनावस्थया कृत्वा द्वितीया द्वयो पूरणीं दशन्त दशा अवगाढ व्याप्तम्। आरूढमिति यावत्। उक्तं च - सर्वकर्मसहो दृप्त परा बुद्धिमुपागत। द्वितीयस्या दशाया स्याद्वाह सप्राप्तवाहन॥’ अथ कासौ दशा। ‘आयुर्द्वात्रिंशत तेषा दशाश्चदश कीर्तिता। त्रयोऽब्दाश्च दशाहानि द्वौ च मासौ दशा मता॥’ हे देव, आयुषा कृत्वा दशापि दशा अनुभवितारं भोक्तारम्। भोक्ष्यतीत्यर्थं। कमिव। देवमिव भवन्तमिव। यथा भवान् आयुषा कृत्वा दशापि दशा भोक्ष्यति। हे देव, छायया कृत्वा पार्थिव विज्ञापयति। कमिव। देवमिव भवन्तमिव। छायया कृत्वा पार्थिवो वर्तते। उक्त च - ‘अनेकवर्णा सुस्निग्धा गम्भीरा महती स्थिरा। प्रशस्ता पार्थिवीछाया मनोदृष्टिप्रसादिनी॥’ हे देव हे राजन्, बलेन भारागमनसामर्थ्येन वरीयास अतिशयेन गुस्तरम्। कमिव। देवमिव भवन्तमिव। यथा भवान् बलेन वरीयान् भवति। हे देव हे राजन्, आनूकेन अन्वयेन बलेन यो कण्ठीरव सिंह विज्ञापयति। कमिव। देवमिव भवन्तमिव। यथा भवान् आनूकेन कण्ठीरवो भवति। हे देव, स्वरेण ध्वनिना समुद्रघोष विज्ञापयति। कमिव। भवन्तमिव यथा भवान् स्वरेण समुद्रघोषो भवति। हे देव, कुलेन जात्या काम्बोज बाह्लीकदेशोद्भव विज्ञापयति। क मित्र। देवमिव भवन्तमिव। यथा देवेति पूर्वोक्तमेव सबोधनपद प्राह्यम्। हे देव, जवेन वेगेन वाजिराज गरुड विज्ञापयति। हे देव, वर्णेन श्वेतमान वेतीकुर्वाण विज्ञापयति। कमिव। देवस्य यशोराशिमिव। यथा देवस्य यशोराशि श्वेतमानो वर्तते। ‘श्वेत प्रधानो वर्णानाम्’ इति वचनात्। यत इन्द्रस्य अश्व उच्चै श्रवा श्वेतवर्णो भवति। हे देव, तनूरुहेषु रोमसु सूक्ष्मदर्शन सूक्ष्मावलोकनम्। कमिव। देवस्य चित्तमिव। यथा देवस्य चित्त तव मन सूक्ष्मदर्शन भवति। हे देव पृष्ठप्रदेशे आसनप्रदेशे मग्नवश अदृष्टपृष्ठस्थलम्।

कीर्तिकुलदेवताकुन्तलकलापमिव मनोहर केसरेषु, देव देवस्य प्रतापमिव विशाल ललाटासनजघनवक्षस्त्रिकेषु, देव शिखण्डिकण्ठाभोगमिव कान्त कन्धरायाम्, इभकुम्भार्षमिव परार्ध्यं शिरसि, प्लक्षतरुपरिवर्तितच्छदपृष्ठमिव कमनीय कर्णयो, उल्लिखितमिव निर्मास हनुजानुजङ्घावदनघोणासु, स्फटिकमणिविनिर्मितमिव सुप्रकाश लोचनयो, नीरसहबर्हमिव तलिन सृक्कोष्ठजिह्वासु, देव देवस्य हृदयमिव गम्भीर तालुनि, कमलकोशमिव शुभयुगन्त-

—————————

कमिव। देवस्यारिवगमिव। यथा देवस्य अरिवर्ग शत्रुवर्गोमग्नवश क्षयगतकुलो भवति। हे देव, वालधौ पुच्छविषये रमणीय मनोहरम्। कमिव। देवस्य वीरश्रीविलासचा मरमिव। यथा देवस्य वीरश्रियो वीरलक्ष्म्या सबन्धि श्वेतविलासचामर क्रीडाप्रकीर्णक रमणीय भवति। हे देव, केसरेषु स्कन्धदेशेषु मनोहर चित्तानुरञ्जक विज्ञायति। कमिव।देवस्य तव कीतिकुलदेवताकुन्तलकलापमिव। यथा देवस्य कुलदेवताया कुतलकलापो मनोहरो भवति। हे देव, ललाटासनजघनवक्षस्त्रिकेषु ललाट च भालम्, आसन च पृष्ठभाग, जघन च कठ्यप्रभाग, वक्षश्च हृदयस्थलम्, त्रिक च पृष्ठवशाधरे त्रिकसज्ञम्, तेषु ललाटासनजघनवक्षस्त्रिषु पश्चस्थानेषु विशाल विस्तीर्ण विज्ञापयति। कमिव। देवस्य प्रतापमिव। यथा देवस्य प्रतापो विशालो भवति। हे देव, कन्धराया ग्रीवाया कान्त मनोहरं विज्ञापयति। कमिव। शिखण्डिकण्ठाभोगमिव परिणतमयूरकण्ठ विस्तारमिव। यथा शिखण्डिकण्ठाभोग कान्तो मनोहरो भवति। अत्र मयूरकण्ठस्या कार सस्थानमेव गृह्यते, न तु वर्ण। शिरसि मस्तके परार्थ्यं शुभ विज्ञापयति। कमिव। इभकुम्भामिव हस्तिकुम्भार्धमिव। हे देव, कर्णयो श्रवणयो कमनीय मनोहर विज्ञापयति। कमिव। प्लक्षतरुपरिवर्तितच्छदपृष्ठमिव प्लक्षतरु वटवृक्ष पर्कटितसबन्धिनौ परिवर्तितौ उद्बलितौ यौ छदा पर्णे तयो पृष्ठभागमिव विज्ञापयति। हे देव, हनुजानुजङ्घावदनघोणासु विषये हनुश्च चिबुक कपोलानामवोभाग, जानुनी च अष्ठीवन्तौ, जङ्घाश्च जान्वधोभागा, वदन च मुखम्, घोणा च नासिका, तासु तथोक्तासु निर्मास मासरहित विज्ञापयति। कमिव। उल्लिखितमिव उत्कीर्णभिव कण्टकछिन्नमिव। हे देव हे राजन्, लोचनयो नेत्रयो सुप्रकाश सुष्ठु तेजस्क विज्ञापयति। कमिव। स्फटिकमणिविनिर्मितमिवकाश्मीरमणिनिष्पादितमिव। हे देव, सुक्कोष्ठजिह्वासु सृक्णी च ओष्ठप्रान्तौ ओष्ठौ अधरौ, जिह्वा च रसना, तासु सृक्कोष्ठजिह्वासु तलिन तनु विज्ञापयति। तथा चोक्तम् - ‘सृक्के स्वच्छेव विरले तलिन पृष्ठिनिर्मितम्। ‘विरल तनु’ इत्यमर। कमिव। नीररुहयद्दमिव कमलपत्रमिव। हे देव, तालुनि काकुदे गम्भीरं अगाधम्। कमिव। देवस्य तव हृदयमिव। यथा देवहृदय गम्भीरं वर्तते। हे देव, अन्तरास्ये मुखमध्ये शुभयुक् शोभन विज्ञापयति। कमिव। कमलकोशमिव। यथा कमलकोश पद्मगर्भ शुभयुग्

रास्ये, चन्द्रकलाशकलसपादितमिव सुन्दर दशनेषु, लक्ष्मीकुचकलशमिव पीवर स्कन्धे, भटजूटमिवोद्धद्ध कृपीटदिशि, अजस्रजवाभ्यसादिव सुविभक्तघनगात्रम्, अवलीकै खरखुराकृतिमि शफैर्गतिप्रारम्भेषु रजस्वलत्वादिव भुवमस्पृशन्तम्, अमृतजलधिप्रतिबिम्बितेन्दुसवादिना निटिलपुण्ड्रकेण कथयन्तमिव सकलायामिलायामवनिपालस्यैकातपत्त्रवर्यम्,अहीनाविच्छिन्नाविचलितप्रदक्षिणवृत्तिभिर्देव-मणिनिश्रेणिश्रीवृक्षरोचमानादिनामभिरावर्तैशुक्तिमुकुलावलीढकादिभिश्च तद्विशेषैराश्रितोचितप्रदेशमुदाहरन्तमिव

—————————

भवति। दशनेषु दन्तेषु सुन्दरमतिमनोहर विज्ञापयति। कमिव। चन्द्रकलाशकलसपादितमिव द्वितीयाचन्द्रखण्डैर्निष्पादितमिव। स्कन्धे ककुदविषये पीवर स्थूल विज्ञापयति। कमिव। लक्ष्मीकुचकलशमिव लक्ष्म्या स्तनकुम्भमिव। कृपीठदिशि उद्बद्ध उत्तरदिशि तनूदरं भटजूटमिव। यथा सुभटस्य जूट केशपाश तनूदर उद्बद्धश्च भवति। सुविभक्तधनगात्र सुविभक्त सुविश्राणित सुविभागीकृत घन निबिड गात्र शरीर यस्य स तथा त विज्ञापयति। कुत कस्मात्। अजस्रजवाभ्यासादिव निरन्तरवे गानुशीलनादिव। हे देव, गतिप्रारम्भेषु गतिकरणेषु शफे खुरै भुव पृथ्वी अस्पृशन्त अच्छुपन्तम्। कस्मात्। उत्प्रेक्षते— रजस्वलत्वादिव रजो धूलि विद्यते यस्या सा रजस्वला (अस्त्यर्थे बलवतसोस्त्वसौ मत्वर्थीय।) रजस्वलाया भाव रजस्वलात्व तस्मात् रजस्वलात्वात्। यथा रजस्वला स्त्री ऋतुमती नरस्य स्प्रष्टु योग्या न भवति। कथभूतै शफै। अवलीकै रेखारहितै नीरेखै। कथभूतै शफै। खरखुराकृतिभिर्गर्दभखुराकारै। निटिलपुण्ड्रकेण ललाटतिलकेन अवनिपालस्य भूपते सकलाया समग्रायामिलाया भूमौ एकातपत्रवर्य एकच्छत्रमुख्य ऐश्वर्यस्वऐश्वर्यस्वामित्व कथयन्तमिव। कथभूतेन निटिलपुण्ड्रकेण। अमृतजलधिप्रतिबिम्बितेन्दुसवादिना अमृतजलधौ क्षीरसागरे प्रतिबिम्बित प्रतिफलितो य इन्दु परिपूर्णचन्द्रस्त सवदत्यनुकरोतीत्येवशील अमृत- जलधिप्रतिबिम्बिते दुसवादी तेन तथा। अहीनाविच्छिन्नाविचलितप्रदक्षिणवृत्तिभिर्देवमणिनि श्रेणिश्रीवृक्षरोचमानादिनामभिरावर्तैशुक्तिमुकुलावलीढकादिभिश्च तद्विशेषैराश्रितोचितप्रदेशमुदाहरन्तमिव देवस्य कल्याणपरम्पराम् हे देव, आवर्ते रोमावर्तै कृत्वा आश्रितोचितप्रदेश अङ्कितयोग्यस्थान98 विज्ञापयति। कि कुर्वन्तम्। देवस्य तव कल्याणपरम्परा शुभाना श्रेणिमुदाहरन्तमिव सूचयन्तमिव। कथभूतैरावर्तै। अहीना अविच्छिन्ना सुच्छाया अविचलिता अभ्रष्टा प्रदक्षिणा वामेतरवृत्तिर्येषा आवताना ते अहीनाविच्छिन्नाविचलितप्रदक्षिणवृत्तयस्तैस्तथोक्तै। पुन कथभूतैरावर्तै। देवमणिनि

देवस्य कल्याणपरम्पराम्, एवमपरैरपि लक्षणैर्दशस्वपि क्षेत्रेषु प्रशस्त विजयवैनतेयनामधेयमत्र प्रस्तावे वाजिविनोदमकरन्देन बन्दिना सलीलमभ्यधायि तुरङ्गमगुणसकीर्तनानीमानि वृत्तानि -

गिरयो गिरिकप्रख्या सरित सारिणीसमा।
भवन्ति लङ्घने यस्य कासारा इव सागरा॥१९१॥
एता दिशश्चतस्रोऽपि चतुश्चरणगोचरा।
स्यदे यस्य प्रजायन्ते गोपुराङ्गणसन्निभा॥१९२॥

—————————

श्रेणिश्रीवृक्षरोचमानादिनामभि देवमणिर्निर्गलादेशो ग्रीवाधोभाग, निश्रेणिर्ललाटे उपर्युपरि त्रय आवर्ता, श्रीवृक्ष पर्याणप्रदेश, रोचमान कण्ठप्रदेश, ते आदिर्येषा तानि नामानि येषामावर्ताना ते देवमणिनि श्रेणिश्रीवृक्षरोचमानादिनामानस्तैस्तथोक्तै। न केवलमेतैरेवावर्तैराश्रितोचित प्रदेशम्, अपि तु शुक्तिमुकुलावलीढकादिभिश्च तद्विशेषै शुक्तिर्मुक्तास्फोटकसदृशी, मुकुल कुड्यलोपमम्, अवलीढक गवालीढसमानाकारम्, तानि आदिर्येषा आवर्ताना ते शुक्तिमुकुलावलीढकादयस्तै तद्विशेषै (?)। मकामरकाभेदैरत्यर्थ। एवमपरैरपि लक्षणैर्दशस्वपि क्षेत्रेषु प्रशस्तम् एवममुना प्रकारेण अपरैरपि शालिहोत्रशास्त्रोकैर्लक्षणै कृत्वा दशस्वपि क्षेत्रेषु दशस्वपि गात्रेषु प्रशसनीय विज्ञापयति। कानि तानि दश क्षेत्राणि। ‘तानि वक्त्रशिरोग्रीवावशोवक्षश्च पञ्चमम्। हृदया सनकक्षाश्च नाभि सप्तममेव च। कुक्ष्यष्टम खुरे जानु जङ्घाश्व दशम मतम्॥’ विजयवैनतेय इति नाम यस्य अर्वत स विजयवैनतेयनामधेयस्त तथोक्तम्। अत्र प्रस्तावे अस्मिन् अवसरे वाजिविनोदमकरन्देन नाम्ना बन्दिना स्तुतिपाठकेन सलील विदग्ध चेष्टया तुरङ्गमगुणसकीर्तनानि अश्वगुणस्तवनानि इमानि वक्ष्यमाणलक्षणोपलक्षितानि वृत्तानि पद्यानि अभ्यधायि पठितानि अभिहितानि पठ्यन्ते स्म। ‘इजात्मनेपदे प्रथमैकवचने’ इत्यधिकारे ‘भावकर्मणोश्च’ इति इच्प्रत्ययो अद्यतन्या प्रथमैकवचन च।

** गिरय इत्यादि।** यस्य तुरङ्गमस्य लङ्घने उत्फालने गिरय पर्वता गिरिकप्रख्या क्रीडाकन्दुकसमाना भवन्ति जायन्ते। सरितो नद्य सारिणीसमा धोरणीसमा सदृशा भवन्ति। सागरा समुद्रा कासारा इव (तल्ला इव) तडागसदृशा भवन्ति। उपमा मध्यदीपकालकार॥

** एता इत्यादि।** यस्य तुरङ्गमस्य स्यदे जवे वेगे सति। ‘स्यदो जवे’ इति निपात। एता प्रत्यक्षीभूता दिशो हरितश्चतस्रोऽपि चतु सख्या अपि चतुश्चरणगो चराश्चतु पादगम्या सत्यो गोपुराङ्गणसन्निभा पुरद्वाराप्रभूमिसदृशा प्रजायन्ते भवन्ति। उपमालकार॥

प्राप्नुवन्ति जवे यस्य भूमावपतिता अपि।
निषादिना पुरक्षिप्ता शल्यबाला करग्रहम्॥१९३॥
यस्य प्रवेगवेलाया सकाननधराधरा।
धरणिखुरलग्नेव सार्धमध्वनि धावति॥१९४॥

किं च।

बालबालधितनूरुहपृष्ठे वशकेसरशिर श्रवणेषु।
वक्रनेत्रहृदयोदरदेशे कण्ठकोशखुरजानुजवेषु॥१९५॥
अन्यत्र स्वल्पदोषोऽपि यद्येतेषु न दोषवान्।
शुभावर्तच्छविच्छायो हय स्याद्विजयोदय॥१९६॥

—————————

** प्रानुवन्तीत्यादि।** यस्य तुरङ्गमस्य जवे वेगे सति शल्यबाला सपुङ्खबाणा पुर अप्रत क्षिप्ता मुक्ता सन्तो भूमौ अपतिता अपि निषादिना अश्ववाराणा करग्रह हस्तग्राह्य प्राप्नुवन्ति लभन्ते। पूर्व निषादिभिर्बाणा मुक्ता, पश्चादश्वप्रेरिता यावद्बाणा गच्छन्ति तावदश्वो गत, पश्चात्तैरेव निषादिभिस्ते बाणा भूमावापतिता एव गृहीता इत्यर्थ। अतिशयालकार॥

** यस्येत्यादि।** यस्य तुरङ्गमस्य प्रवेगवेलाया उत्कृष्टजवावसरे धरणि भूमि अध्वनि मार्गे सार्धं धावति तुरङ्गमेन सह यान्तीव दृश्यते। कथभूता धरणि। सकाननधराधरा वनपर्वतसहिता। अपर कथभूता। खुरलमेव शफवलितेव99। उत्प्रेक्षालकार॥

किच विशेषवर्णन करोति - बालेति। हयस्तुरग शुभावर्तच्छविच्छाय सन् शुभा कल्याणकारका आवर्ता भ्रमरका छविश्चरोमतेज छाया च कान्तिर्यस्य स शुभावर्त च्छविच्छाय। एवगुणविशिष्टो हयो विजयोदय स्यात् शत्रुपराजयदायक स्याद्भवेत्। यदि चेत् अन्यत्र पूर्ववृत्तलक्षणादन्यत्स्वल्पदोषोऽपि भवति। एतेषु न दोषवान् एतेषु स्थानेषु निर्दोष एव एतेषु केषु। बालबालधितनूरुहपृष्ठे बालबालधि सकेशपुच्छ तनूरुहाश्च रोमाणि पृष्ठ च आसनप्रदेश बालबालधितनूरुहपृष्ठे। समाहारो द्वन्द्व। वशकेसरशिर श्रवणेषु वशश्चपृष्ठास्थि केसराश्च स्कन्धकेशा शिरश्च मस्तक श्रवणौ कर्णौ वशफेसरशिर श्रवणास्तेषु। वक्रनेत्रहृदयोदरदेशे वक्र मुख नेत्रे च लोचने हृदय च वक्ष स्थलमुदरं च कुक्षि वक्रनेत्रहृदयोदराणि तेषा देश स्थान व नेत्रहृदयोदरदेशस्तस्मिन्। कण्ठकोशखरजानुजवेषु कण्ठश्च प्रीवा कोशश्व लिङ्ग खुराश्चशफा जानूनि च जलाना सधय। अष्ठीवन्तीत्यर्थं। जवश्चवेग कण्ठकोशखुरजानुजवास्तेषु। समुच्चयालकार॥ युग्मम्॥

मुक्ताफलेन्दीवरकाञ्चनामा किजल्फभिन्नाञ्जनभृङ्गशोभा।
बालारुणाशोकशुकप्रकाशास्तुरङ्गमा भूमिभुजा जयेशा॥१९७॥
गजेन्द्रकण्ठीरवतानकाना मेरीमृदङ्गानकनीरदानाम्।
समस्वरा स्वामिनि ह्रेषितेन भवन्ति वाहा परमुत्सवेहा॥१९८॥
नीरेजनीलोत्पलमालतीना सपिर्मधुक्षीरमदै समाना।
स्वेदे मुखे श्रोतसि येषु गन्धास्ते वाजिन कामदुहो नृपेषु॥१९९॥

—————————

मुक्ताफलेत्यादि। भूमिभुजा राज्ञा तुरङ्गमा अश्वा जयेशा जयसमर्था भवन्ति। कथभूतास्तुरङ्गमा। मुक्ताफलेन्दीवरकाञ्चनाभा मुक्ताफलानि च शौक्तिकेयानि, इन्दी वराणि च नीलोत्पलानि, काञ्चन सुवर्णम्, मुक्ताफलेन्दीवरकाञ्चनानि तेषा आभा वर्णो येषा ते तथोक्ता। शुक्लश्यामवर्णा इत्यर्थ। पुन कथभूता। किजल्कभिनाजननृङ्गशोभा किजल्क केसर, भिन्नाजन च मर्दितमषी, भृङ्गाश्चभ्रमरा, तेषा शोभा वर्णो येषा ते तथोक्ता। गोरोचनावर्ण इन्द्रनीलवर्ण कृष्णाश्च। पुन कथभूता। बालारणाशोकशुकप्रकाशा बालारुणश्च उदयभास्कर, अशोकश्चपिण्डीद्रुम, शुकश्चकीर, एतेषा प्रकाशो वर्णो येषा ते बालारुणाशोकशुकप्रकाशा ते तथोक्ता। अव्यक्तरागरक्तवर्णहरितवर्णा इत्यथ। उपमालकार॥

गजेन्द्रेत्यादि। वाहास्तुरङ्गमा ह्रेषितेन शब्दितेन। ध्वनितेनेति यावत्। स्वामिनि राजनि पर निश्वयेन उत्सवेहा महोत्सवचेष्टिता भवन्ति। कथभूता। गजेन्द्रकण्ठीरवतानकाना समस्वरा गजेन्द्रो यूयनाथ, कण्ठीरवश्च पञ्चानन, तानकाश्च वृषभा, गजेन्द्रकण्ठीरवतानकास्तेषा समस्वरा। भेरीमृदङ्गानकनीरदाना समस्वरा भेरी च भम्भा, मृदङ्गश्चमर्दल, आनकश्चपटह, नीरदश्चजलधर, भेरीमृदङ्गानकनीरदास्तेषा समस्वरा। समुच्चयालकार॥

नीरेजेत्यादि। नीरेजनीलोत्पलमालतीना ते वाजिन स्वस्था नृपेषु राजसु कामदुहो वान्छितप्रदा भवन्ति। ते के। येषु स्वेदे प्रस्वेदे मुखे वक्त्रेश्रोतसि कर्णद्वये गन्धा परिमला भवन्ति। कथभूता गन्धा। नीरेजनीलोत्पलमालतीना समाना सदृशा नीरेज कमलम्, नीलोत्पल इन्दीवरम्, मालती जाती, नीरेजनीलोत्पलमालत्यस्तासा समाना सदृशा गन्धा। तथोक्तम् - धन्वन्तरिनिघण्टुज्ञानी मनोज्ञानि सुमना राजपुत्री प्रियवदा मालती हृद्यगन्धा चत्वेतिका तैलभाविनी तथा द्वितीया जाती वा सप्रहसन्ती चमूवसन्तजा शीतला शीतसवासा सेव्या भ्रमरबान्धवा मनाग्रक्तवर्णा ज्ञातव्या। [पुन] कथभूता गन्धा। सर्पिर्मधुक्षीरमदै सर्पिश्चघृतम्, मधु च क्षौद्रम्, क्षीर च दुग्धम्, मदश्चगजदानम्, सर्पिर्मधुक्षीरमदास्तैस्तथोक्तै समाना। उपमालकार॥

हसप्लवङ्गपञ्चास्यद्विपशार्दूलसनिभै।
मितद्रव क्षितीन्द्राणामानूकैर्विजयप्रदा॥२००॥

ध्वजहलकलशकुशेशयकुलिशशशाङ्कार्धचक्रसमा।
तोरणतरवारिनिभास्तुरगेऽङ्गजवृत्तय श्रेष्ठा॥२०१॥

वक्षसि बाह्वोरलिके शफदेशे कर्णमूलयोश्चैव।
आवर्तास्तुरगाणा शस्ता केशान्तयोस्तथा शुक्ति॥२०२॥

विशालभाला बहिरानतास्या सूक्ष्मत्वच पीवरबाहुदेशा।
सुदीर्घजङ्घापृथुष्पृष्ठमध्यास्तनूदरा कामकृतस्तुरङ्गा॥२०३॥

—————————

** हसेत्यादि।**हसप्लवङ्गपञ्चास्यद्विपशादूलसनिभै हसश्च श्वेतच्छद प्लवङ्गश्चकपि, पञ्चास्यश्च सिंह, द्विपश्व हस्ती, शादूलश्चव्याघ्र, तेषा सनिभै सदृशै आनूकै नितम्बै कृत्वा मितद्रवस्तुरङ्गमा क्षितीद्राणा राज्ञा विजयप्रदा विजयदायका भवन्ति। उपमालकार॥

** ध्वजेत्यादि।** तुरगे तुरङ्गमे अङ्गजवृत्तयो रोमावर्ता श्रेष्ठा प्रशसनीया भवति। कथभूता अङ्गजवृत्तय। ध्वजहलकलश- कुशेशयकुलिशशशाङ्काधचक्रसमा ध्वजश्च पताका, हल च लाङ्गलम्, कलशश्च घट, कुशेशय च कमलम्, कुलिश च वज्रम्, शशाङ्कार्ध च अर्धचन्द्र, चक्र च भूमितलम्, तानि ध्वजहलक्लेशकुशेशयकुलिशशशाङ्कार्धचक्राणि तै समा सदृशा। पुन कथभूता अन्ङ्गजवृत्तय। तोरणतरवारिनिभा तोरण च द्वादशस्तम्भविन्यास, तरवारिश्चएकवारखङ्ग, ताभ्या निभा सदृशास्तोरणतरवारिनिभा। उपमालकार॥

** वक्षसीत्यादि।** तुरगाणा तुरङ्गमाणा आवर्ता भ्रमरका शस्ता प्रशसनीया भवन्ति। कुत्र कुत्र। वक्षसि हृदयस्थले, तथा बाह्वोर्भुजयोविषये, तथा अलिके ललाटे, तथा शफदेशे चतुर्णा खुराणा उपरितनभागे, तथा कर्णमूलयो श्रवणमूलयोर्विषये, तथा फेशान्तयोर्ग्रीवोमयप्रदेशयो शुक्तिमुक्तास्फोटाकारैरावर्ते शस्तौभवत। समुच्चयालकार॥

** विशालेत्यादि।** तुरङ्गास्तुरङ्गमा कामकृत इष्टफलदायका भवन्ति। कथभूतास्तुरङ्गा। विशालभाला विस्तीर्णललाटप्रदेशा। पुन कथभूता। बहिरानतास्या बाह्यप्रदेशे निम्नमुखा। पुन कथभूता। सूक्ष्मत्वच सूक्ष्मा च तुच्छा त्वक् त्वचा येषा ते तथा। पुन पीवरबाहुदेशा स्थूलबाहुप्रदेशा। पुन सुदीर्घजङ्घाअत्यायतप्रसूता। पुनः पृथुपृष्ठमध्या विस्तीर्णासनप्रदेशा। पुनः तनूदरा मध्यक्षामा। जात्यलकार॥

जीमूतकान्तिर्घनघोषह्रेष करीन्द्रलीलागतिराज्यगन्ध।
प्रिय पर माल्यविलेपनानामारोहणार्हस्तुरगो नृपस्य॥२०४॥

कदनकन्दुककेलिविलासिन परबलस्खलने परिघाहया।
सकलभूवलयेक्षणदृष्टय समरकालमनोरथसिद्धय॥२०५॥

अन्यूनाधिकदेहा समसुविभक्ताश्च वर्ष्मभि सर्वै।
सहतघनाङ्गबन्धा कृतविनया कामदास्तुरगा॥२०६॥

जय करे तस्य रणेषु राज्ञ काले पर वर्षति वासवश्च।
धर्मार्थकामाभ्युदय प्रजानामेकोऽपि यस्यास्ति हय प्रशस्त ॥२०७॥

—————————

** जीमूतकान्तिरित्यादि।** तुरगस्तुरङ्गमो नृपस्य राज्ञ आरोहणार्हचढनयोग्यो भवति। कथभूतस्तुरग। जीमूतकान्तिर्मेघवर्ण, घनघोषह्रेष मेघध्वनिसमानह्रेबारव, करी द्रलीलागति हस्तिनाथवदनायासमन्दगमन, आज्यगन्ध घृतसदृशपरिमलशरीर। पुन कथभूत। माल्यविलेपनाना च पुष्पचन्दनाना परमतिशयेन प्रिय। उपमालकार॥

** कदनेत्यादि।** हया अश्वा। कथभूता हया। कदनकन्दुककेलिविलासिन कन्दुकस्य केलि कीडाकरण कदुककेलि, कदन सग्राम एव क दुकुकेलिस्तत्रविलासो येषाते कनकन्दुककेलिविलासिन। पुन कथभूता हया। परबलरसलो परिघा परेषा शत्र‌णा बलस्य सैन्यस्य स्खलने प्रतिष्टम्भने परिघाअगला। पुन कथभूता हया। सकलभूव लयेक्षणदृष्टय सकलस्य समग्रस्य भूवलयस्य पृथ्वीमण्डलस्य ईक्षणे अवलोकनेदृष्टयो लोचनानि येषाम्। पुन कथभूता हया। समरकालमनोरथसिद्धय समरकाले सग्रामावसरे मनोरथाना वाच्छिताना सिद्धय प्राप्तिकरा। रूपकालकार॥

** अन्यूनेत्यादि।** तुरगास्तुरङ्गमा कामदा बाञ्छितप्रदायका भवन्ति। कथभूतास्तु रगा। अन्यूनाविकदेहा हीनाङ्गाधिकाङ्गरहितशरीरा। पुन कथभूता। सर्वैसमग्रैर्वष्मभिरुत्सेधायामपरिणाहै कृत्वा समनुविभक्ता समानविभागीकृता समानविश्राणिता। पुन कथभूता।सहतघनाङ्गबन्धा सहतो न्यस्तो घनो निविडो अङ्गबन्ध शरीररचना येषा ते सहतघनाङ्गवन्धा। पुन कथभूता। कृतविनया सूर्यमण्डल चन्द्राकार श्रीवतात्रिकूटयोवनषट्पद्मकूमसवतोभद्रमलक्वीणावतस्वस्तिकाविगतिषु शिक्षिता। समुच्चयालकार॥

** जय इत्यादि।** यस्य राज्ञ एकोऽपि हय प्रशस्त प्रशसनीय अस्ति भवति तस्य राज्ञ रणेषु सग्रामेषु जय शत्रुपराजय करे हस्ते भवति। वासवो मेघ पर निश्चयेन काले अवसरे बपति क्षरति। तस्य राज्ञ प्रजाना लोकाना धमाथकामाभ्युदयो भवति। धर्मश्चपूजादाालक्षण, अथश्चवनधान्यादिलक्षण, कामश्चइष्टसृग्वणिताचन्दनादिभोग पञ्चेन्द्रियविषयसौरय धमाथकामास्तेषुअभ्युदय उत्पत्तिर्भवति। समुच्चयालकार॥

कुलाचलकुचाम्भोधिनितम्बावाहिनीभुजा।
धरा पुरानना स्त्रीव तस्य यस्य तुरङ्गमा॥२०८॥

इति बन्दिभ्या ताभ्यामुक्ते विज्ञप्ती निशम्य विश्राण्य च पञ्चाङ्गलयनाधिकमङ्गस्पृष्टकमुत्तरीयदुकूलाञ्चलपिहितबिम्बिना सिद्धादेशप्रमुखेन मौहूर्तिकसमाजेन, ‘देव, प्रासाद सपाद्य प्रतिमा निवेशयेत्, प्रतिमा वा निवेश्य प्रासाद सपादयेत्, सति सामर्थ्ये प्रासादसपादन प्रतिमानिवेशन च युगपत्कुर्यात्, इति यथा—तथा समाचरितदारकर्मण पट्टबन्धोत्सवम्,

—————————

** कुलाचलेत्यादि।** यस्य राज्ञ तुरङ्गमा वर्तन्ते तस्य राज्ञो धरा पृथ्वी भवति। केव। स्त्रीव स्त्रीसदृश। कथभूता धरा। कुलाचलकुचा कुलाचलौ उद्यास्तपवतो तावेव कुचौ स्तनौ यस्या सा कुलाचलकुचा। पुन कथभूता। अम्भोधिनितम्बा अम्भोधि समुद्रो नितम्ब कटिपश्चाद्भागो यस्या सा तथा। पुन कथभूता। वाहिनीभुजा वाहिन्यो गङ्गासिधू नद्यौ भुजौ यस्या सा तथा। पुन कथभूता। पुरानना पुर राजधानी आनन मुख यस्या सा तथा। रूपकालकार॥

** इतीत्यादि।** किल निश्चयेन तदा तस्मिन् काले हस्त्यश्ववणनावसाने अह सपादितद्वितीयाश्रमदीक्षाभिषेकश्च सजग्मे सपादित उत्पादितो द्वितीयाश्रमस्य गृहस्थाश्रमस्य दीक्षाया अभिषेको मङ्गलस्नान यस्य सपादितद्वितीयाश्रमदीक्षाभिषेक, चकाराद्राज्याभिषेकश्च, सजग्मे सजात। कि कृत्वा पूर्वम्। इति पूवोक्तप्रकारेण बन्दिभ्या स्तुतिपाठकाभ्या ताभ्या करिकलाभ करिकलाभिवान वाजिविनोदमकरन्दाभ्या उक्ते विज्ञप्तेविज्ञप्ती विज्ञापने निशम्य श्रुत्वा। पुनश्च कि कृत्वा पूर्वम्। पञ्चाङ्गलयनाविक कट्यूध्वकाय करद्वयमस्तकसम्बन्धिआभरणवस्त्रादिकादपि अधिक अधिकतरं अङ्गस्पृष्टक निजशरीरलग्न वस्तु ताभ्या उभाभ्या विश्राण्य दत्वा। कथभूतोऽहम्। सिद्धादेशप्रमुखेन सिद्धादेश नामा प्रमुखो मुरयो यस्य मौहूर्तिकसमाजस्य स सिद्धादेशप्रमुखस्तेन सिद्धादेशप्रमुखेन मौहूर्तिकसमाजेन गणरुसमूहेन इति अमुना प्रकारेण विनिवेदितसविधतरोत्सवसमय विनिवेदितो विज्ञापित सविवतरो निक्टवर्ती उत्सवसमयो विवाहपट्टाभिषेकावसर। कथभूतेन मौहूर्तिकसमाजेन। उत्तरीयदुकूलाञ्चलपिहितबिम्बिना उत्तरीयमुपरितन यत् दुकूल पट्ट‌कूलवस्त्र तस्य अञ्चलेन प्रान्तेन पिहिता झम्पिता बिम्बी मुरा यस्य स उत्तरीयदुकूलाञ्चलपिहितबिम्बी तेन तथोक्तेन। इतीति किम्। हे देव हे राजन्, प्रासाद देवभवन सपाद्य निष्पाद्य प्रतिमा प्रतिच्छाय निवेशयेत् स्थापयेत्। प्रतिमा प्रतिबिम्ब वा निवेश्य स्थापयित्वा प्रासाद सपादयेत् देवमन्दिर निष्पादयेत्। सामर्थ्य सति समर्थताया विद्यमानाया सत्या प्रासादसपादन देवग्रहनिष्पादन प्रतिमानिवेशन चबिम्बस्थापन च युगपत्समकाल कुर्यात् विदध्यात्। इति इदृशो न्यायो यथा येन

कृतपट्टबन्धोत्सवस्य वा दारकर्म, सत्यनुगुणनायुक्ते उग्ने दारकर्म पट्टबन्धोत्सव च सह समाचरेदित्यत्र बीजाङ्कुरयोरिव न कश्चित्पूर्वापरक्रमनियम। कोहलिनीफलपुष्पयोरिव सहभावे वा विरोध कोऽपि समस्ति। तत श्रूयतामुभयोत्सवलग्नविशुद्धि।

तथा हि — सुकविकाव्यकथाविनोददोहदमाघ माघस्तावदय मास, सपत्नसतानसर शोषशुचे शुचि पक्ष, दुर्वारवैरिकुलकामिनीवैधव्यदीक्षागुरो गुरुर्वार, अनवरतवसुविश्राणनसतर्पितसमस्तातिथे तिथि पञ्चमी प्रणतभू-

—————————

प्रकारेण वर्तते, तथा तेन प्रासादप्रतिमाकारेण समाचरितदारकर्मण कृतविवाहराज्ञ पट्टवन्धोत्सव पट्टाभिषेक पट्टबन्ध समाचरेत् कुर्यात्। कृतपट्टबन्धोत्सवस्य राज वाथ वा दारकर्म समाचरेत् विवाह कुयात्। अनुगुणनायुक्ते अनुकूलनासयुक्ते लग्ने शश्युदये ‘राशीनामुदयो लग्नम् इति वचनात् सति विद्यमाने दारक्म विवाहमहोत्सव पट्टबन्धोत्सव च राज्यपट्टाभिषेक च सह युगपत् समाचरेत् सम कुर्यात् इत्यत्र अस्मिन् कार्यद्वये बीजाङ्कुरयोरिव पूर्व बीज पश्चादङ्कुर पूर्वमङ्कुर पश्चाद्वीज बीजाङ्कुरौ युगपद्भवत एव। पूवापरक्रमनियम पूर्वपश्चादनुक्रमनिर्धारण न कश्चिद्वर्तते न कोऽप्यस्ति। कोहलिनीफल पुष्पयोरिव कूष्माण्डीत(स)स्यकुसुमवत् सहभावे युगपद्भावे वा कोऽपि कश्चिद्विरोधो न समस्ति न समग्वर्तते। ततस्तस्मात् कारणात् उभयोत्सवलग्नविशुद्धि दारकर्मपट्टवन्धोत्सवमुहूर्तविशुद्धि कर्मतापन्ना भवता कर्तृभूतेन श्रूयतामाकर्ण्यताम्।

** तथाहि।** तमेव निरूपयति उभयोत्सवलग्नविशुद्धिं निरूपयति—हे सुकविकाव्यकयाविनोददोहदमाघ सुकवीना काव्यकथाविनोददोहदे कीडामनोरथे माघोमाघकविसदृश हे राजन् भूपते तस्य सबोधन हे तथोक्त, माघो माघनामा तावदनुक्रमेण अय इदानीं वर्तमानो मास वर्तते। हे सपत्नसतानसर शोषशुचे सपत्ना शत्रवस्तेषा सतान समूह एव सरस्तडाग जडमृतत्वात् तस्य शोषे निर्जलीकरणे शुचिराषाढमास सपत्नसतानसर शोषशुचिस्तस्य सवोधन हे तथोक्त, शुचि शुक्ल पक्षो वर्तते। हे दुर्वारवैरिकुलकामिनीवैधव्यदीक्षागुरो दुखेन महता कष्टेन वारयितुमशक्या दुर्वारास्ते च ते वैरिण शत्रवस्तेषा कुल समूह तस्य कामिन्यो विलासिन्यस्तासा वैधव्य विश्वस्तात्वतस्य दीक्षा व्रतस्य ग्रहणरण्डात्वप्रतिपालन तस्या गुरुर्निषेकादिकृद्गुरु दुर्वारवैरिकुलकामिनीवैधव्यदीक्षागुरुस्तस्य (कीर्तन) सबोधन क्रियते हे तथोक्त, गुरुर्बृहस्पतिनाम बारो दिन वर्तते। हे अनवरतवसुविश्राणनसतर्पितसमस्तातिथे अनवरत निरन्तर वसो कनकरत्नस्य विश्राणन वितरण वर्षण तेन सतपिता सम्यक्प्रीणिता समस्ता निखिला अपि अतिथय पात्राणि येन स तथा तस्य सबोधन हे तथोक्त, तिथि

पालाङ्गनाशृङ्गारसमागमाभयप्रदानोत्तर उत्तरानक्षत्रम्, प्रचण्डदोर्दण्डमण्डनकण्डूलद्विष्टदानवदमन सपादितजगत्त्रयीहर्षण हर्षणो योग, शौर्यधैर्यौदार्यवीर्यादिक्षत्रियचरित्रकीर्तनकथाप्रथम प्रथम करणम्, निजप्रतापगुणगायनीकृतामरमिथुन मिथुनोदय समय, सकललोकलोचनोत्सवचन्द्र चन्द्र

—————————

पञ्चमी वर्तते। गुरौ पूर्णासिद्धियोग सूचित इत्यर्थं। हे प्रणतभूपालाङ्गनाशृङ्गारसमागमाभयप्रदानोत्तर प्रणता पादयो पतिता ये भूपाला सामन्तास्तेषामङ्गनाना कमनीयकामिनीना शृङ्गारसमागमे अलकरणकाले अलकारकरणे अभयप्रदाने निभयत्वकरणे उत्तर श्रेष्ठ प्रणतभूपालाङ्गनाशृङ्गारसमागमाभयप्रदानोत्तरस्तस्य सबोधन हे तथोक्त, उत्तरानक्षत्र उत्तराभाद्रपद नाम नक्षत्र वर्तते। तथा चोक्तम् — ‘कन्याविवाहे निववो मघास्वात्युत्तरात्रये। मूलानुराधाहस्तेषु रेवतीरोहिणीमृगे॥’ हे प्रचण्डदोदण्डमण्डनक ण्डूलद्विष्टदानवदमनसपादितजगत्रयीहपण प्रचण्डा बलवत्तरा ये दोदण्डा बाह्रगलानि तैर्मण्डन सग्रामसून कण्डूला खर्जूमन्तो ये द्विष्टा शनवस्त एव दानवा देव्यास्तेषा दमनेन मानमर्दनेन भङ्गकरणेन सपादित जगत्त्रय्यात्रैलोक्यस्य हषणमानन्दो येन स तथा तस्य सबोधन हे तयोक्त, हषणो नाम योगो वर्तते। योगा सप्तविंशतिर्भवन्ति। ते के —‘विष्कम्भ प्रीतिरायुष्मान्सौभाग्य शोभनस्तया। अतिगण्ड सुकमा च धृति शूल तथैव च॥ गण्डो वृद्धिध्रुवश्चैव व्याघातो हषणस्तथा। वज्र सिद्धिर्व्यतीपातो वरीयान्परिघ शिव। सिद्धि साध्य शुभ शुक्रो ब्रह्मा ऐन्द्रोऽय वैवति॥’ इति गणनया हष णचतुर्दशो योग। हे शौर्यधैयौदार्यवीर्यादिक्षत्रियचरित्रकीर्तनकथाप्रथम शरस्य भाव कर्म वा शौर्य सौभव्य सहस्रभटकोटिभटादिकत्वम्, धीरस्य भावो वैर्य सग्रामादनिवतकत्वम् उदारस्य भाव औदार्य व्यञ्जनवत् अविद्यमानोऽपि धनस्य दातृत्वम्, वीरे भव वीर्यं सामर्थ्यम्, आदिशब्दात् शौण्डीर्थगाम्भीर्यादिक यत् क्षत्रियाणा राजपुत्राणा चरित्रस्य कीर्तन शब्दन कथन तस्य क्या वार्ता तस्या प्रथमो यस्तस्य सबोवन हे तयोक्त, प्रथम करण वर्तते। करणान्येकादश भवन्ति। तन्मध्ये सप्त चलानि, चत्वारि स्थिराणि। कानि तानि चलानि — ‘वव च बालव चैव कौलव तैत्तल तथा। गर च वणिज चैव विष्टिरुत्का च सप्तमम्॥’ तन स्थिराणि चत्वारि करणानि। उक्त च— ‘चतुर्दशी या तु शशि प्रहीणे तस्या विहीने शकुनिद्वितीये। दशाधयोस्तश्चरमहिभागे किस्तुन्नमाद्ये प्रतिपद्दले च॥’ इति वचनात् प्रथम करण ववनाम। हे निजप्रतापगुणगायनीकृतामर मिथुन निज आत्मीयो योऽसो प्रताप कोशदण्डाद्यतिरेकस्तस्य गुणस्य गायनी गान्धर्वीकृतामरमिथुनानि स्त्रीपुरुषयुगलानि येन स तथा हे तथोक्त, मिथुनोदय समय मिथुनलग्नस्य उदयो वर्तते। मिथुनकन्यातुलाधनु पूर्वार्धानि मानुषास्तेन धनु पूवार्ध मानवाकारं अपरार्धमश्वाकारम्। हे सकललोकलोचनोत्सवचन्द्र सकलाश्च ते लोकाश्च सकललोकास्तेषा लोचनानामुत्सवे आनन्दकरणे चन्द्र शीताशुस्तस्य सबोधन हे तथोक्त,

एकादशो लग्नस्य, श्रीसरस्वतीप्रसाधितपूर्वपाणिग्रह ग्रहगण सर्वोऽपि सप्तमाष्टमद्वादशदेशाश्रयशून्यो लग्नस्य, कल्याणपरम्परासपत्सपन्नदैवमानुष मानुषो लग्नाशकश्च, अशेषविश्वभरेश्वरातिशायिजन्मोत्सव दिवस दिवसतारा-तारेश्वरावस्थाश्च प्रकाम प्रशस्ता, विशेषेण तु गुरुबल महादेव्या, देवस्य चादित्यबलम्। तदुत्तिष्ठतु देव’ इति विनिवेदितसविधतरोत्सव समय समुपसृत्य विलासिनीजनजन्यमानमङ्गलालाप तमभिषेकमण्डपममरालयमिव सरत्नरजतकार्तस्वरकलशम्, ईश्वरश्वशुरमिव विविधौषधिसनाथम्, अकूपारमिव समु-

—————————

चन्द्रश्चन्द्रमा लग्नस्य मिथुनलग्नस्य एकादशो वतते। हे श्रीसरस्वतीप्रसाधितपूर्वपाणिग्रह श्रीश्च लक्ष्मी, सरस्वती च भारती, अनयो प्रसावित कृत पूर्व प्रथम पाणिग्रहो येन स तस्य सबोवन हे तथोक्त, सर्वोऽपि समस्तोऽपि ग्रहगणो लग्नस्य सप्तमाष्टमद्वादशदेशाश्रयशून्यो वर्तते। सप्तमे च स्थाने अष्टमे च स्थाने द्वादशे च स्थाने कोऽपिग्रहो न वर्तते। हे कल्याणपरम्परासपत्सपन्नदेवमानुत्र कल्याणाना शुभाना परम्परा श्रेणि सैव सपत् तथा सपन परिपूर्ण दैवमानुषो दिव्यमानवस्तस्य सबोधन हे तथोक्त मा नुषो लग्नाशक वृषलग्नस्य मिथुनाशो द्विपदत्वात् मानुष द्विपद चतुष्पदश्च अपदमध्ये। हे अशेषविश्वभरेश्वरातिशायिजन्मोत्सव दिवस विश्वभराया पृथिव्या इश्वरा विश्वभरेश्वरा, अशेषाश्चते विश्वभरेश्वराश्च तै विश्वभरेश्वरै अतिशायि अत्युद्धि जन्म उत्सवदिवसो यस्य स तथा तस्य सवोधन हे तथोक्त, दिवसतारातरेश्वरावस्थाश्चप्रकाम प्रशस्ता दिवसाश्च ‘प्रवासनष्टारयमृतजयारया हास्या रतिक्रीडितसप्तमुक्ता कूराह्वया कम्पितसुस्थिताश्च॥ तेषु मध्ये दिवसावस्था अतिशयेन प्रशस्ता वतते। तारा तारावस्था प्रशस्ता वर्तन्ते। तदुक्तम् -‘जन्मतारा द्विताया च षष्ठी चैव चतुर्थिका। अष्टमी नवमी चैव षट् ताराश्व शुभावहा॥" एतावता तृतीया पञ्चमी सप्तमी च तारा अशुभा इत्यर्थ। यस्मिन् नक्षत्रे जन्म भवति तस्माद्गण्यते। तारेश्वरश्चचन्द्रस्तस्याप्यवस्था प्रथमा अतिशयेन प्रशस्ता वर्तते। विशेषेण तु महादेव्या अमृतमतेर्गुरुबल वतते। देवस्य च भवत आदित्यबल वर्तते। तत्तस्मात् कारणात् देवो भवान् उत्तिष्ठतु उद्भवो भवतु उद्भातु। कि कृत्वा। पूर्व सपादितद्वितीयाश्रमदीक्षाभिषेक्मण्डप समुपसृत्य सम्यगाश्रित्य। कथभूतमभिषेकमण्डपम्। विलासिनीजनजन्यमानमङ्गलालापम् विलासिनीजनै स्त्रीजनैर्वाराङ्गनासमूहैर्वा जन्यमाना क्रियमाणा मङ्गलालापा मङ्गलशब्दा यस्मिन् मण्डपे स तथा तम्। पुन कथभूतमभिषेकमण्डपम्।सरत्नरजततार्तस्वरकलशम् कातस्वरस्य सुवर्णस्य ये कलशा पूर्णकुम्भा रत्नरजतकातस्वरकलशास्तत्सहितम्। अथवा रत्नानामपि कलशास्तत्रवर्तन्त एव। कमिव।अमरालयमिव मेरुगिरिमिव।यथा अमरालयो रत्नरजतकार्तस्वर-

द्रगापगाम्भ सुभगम्, अर्हन्निवासमिव प्रसाधितसितातपञ्चचामरसिंहासनम्, अम्बुजासनशयमिव कुतपाङ्कुरालकृतमध्यम्, एवमपरेष्वपि तेषु तेष्वभिलषितेषु वस्तुषु कल्पग्राममिव परिपूरितकामम्, अन्वयागतकुलदेवतोपकण्ठपरिकल्पितसकलकुलधनायुधम्, आप्तलोकापनीयमानमानवसबाधम्,

यत्पाकोन्मुखमुक्तशुक्तिपटलैर्मुक्ताफले स्फारित
यत्सद्य प्रविरूढकन्दलदलैरुल्लासित विद्रुमै।

—————————

कलशसहितो भवति। पुन कथभूतमभिषेकमण्डपम्। विविधोपधिसनाथम् द्वापञ्चाशदौषधादिसहित सर्वावधिसहित वा। कमिव। ईश्वरश्वशुरमिव हिमवत्पर्वतमिव। यथा हिमवान् नानाप्रकाराषधिसहितो भवति। पुन कथभूतमभिषेकमण्डपम्। समुद्रगापगाम्भ सुभगम् समुद्र गच्छति या सा आपगा नदी तस्या अम्भोभिर्जलै सुभग अतिमनोहरम्। कमिव। अकूपारमिव। यथा अकूपार समुद्रगापगाम्भ सुभगो भवति। पुन कथभूतमभिषेकमण्डपम्। प्रसाधितसितातपत्रचामरसिंहासनम् सितातपत्राणि श्वेतच्छत्राणि, चामराणि च प्रकीर्णकानि, सिंहासन च सिहविष्टरम्, सितातपत्रचामरसिंहासनानि प्रसाधितानि मण्डितानि सितातपत्त्रचामरसिहासनानि यस्मिन्नभिषेकमण्डपे स प्रसाधितसितातपत्त्रचामर सिंहासनस्तम्। कमिव। अर्हनिवासमिव सवज्ञसमवसरणसदृशम्। यथा अर्हनिवास प्रसाधितातपत्रचामरसिंहासनो भवति। पुन कथभूतमभिषेकमण्डपम्। कुतपाङ्कुराल कृतमध्यम् कुतपाङ्कुरै प्रत्ययदभैरलकृत शृङ्गारितो मध्यो मध्यप्रदेशो यस्य मण्डपस्य स तथा तम्। कमिव। अम्बुजासनशयमिव ब्रह्महस्तमिव। यथा अम्बुजासनशय दर्भाङ्कुराल कृत शृङ्गारितमध्यो भवति। पुन कथभूतमभिषेकमण्डपम्। एवममुना प्रकारेण अपरेष्वपि तेषु तेषु नगत्प्रसिद्धेषु अभिलषितेषु वस्तुषु मङ्गलभूतेषु पदार्थेषु परिपूरितकाम परिपूणाभिलाषम्। कमिव। कत्पग्राममिव स्वगलोकमिव। यथा कल्पग्राम सर्ववस्तुषु परिपूरित कामो भवति। पुन कथभूतमभिषेकमण्डपम्। अन्वयागतकुलदेवतोपकण्ठपरिकल्पितसकलकुलधायुधम् अन्वयागता निजकुलसबन्धिनी या कुलदेवता अम्बिकापरमेश्वरी तस्या उपक्ण्ठे समीपे परिकल्पितानि समताहृतानि सकलानि समग्राणि कुलध नानि पूर्व पुरुषोपार्जितखापतेयानि आयुधानि शस्त्राणि च यस्मिन् अभिषेकमण्डपे स तथा तम्। पुन कथभूतमभिषेकमण्डपम्। आप्तलोकापनीयमानमानवसबाधम् आप्तलोके हितकुटुम्बवर्गै अपनीयमाना दूरीक्रियमाणा मानवाना मनुष्याणा सबावा सकीर्णता यत्र स तथा तम्। अह कि कुर्वन्। सपादितद्वितीयाश्रमदीक्षाभिषेक सजग्मे सजात। इति अमुना प्रकारेण जलकेलिविलासात् जलकेलिविलासनामवैतालिकात् बोधकारात् मज्जनावसरनृत्तानि स्नानसमयकवितानि आकर्णयन् शृण्वन्। इतीति किम्।

यत्पाकेत्यादि। लक्ष्मीरमणी (ण्या) विनोद क्रीडा यस्य स लक्ष्मीरमणीविनोदस्तस्य

यन्नारायणनाभिपङ्कजरजोराजीभिरापिञ्जर
तल्लक्ष्मीरमणीविनोद जलधे, पाथोऽस्तु ते प्रीतये॥२०९॥

यत्राभूदमृतातप सुरकरी कल्पद्रुम कौस्तुभो
लक्ष्मीरप्सरसा गणश्च सुधया सार्ध बुधाना मुदे।
यद्भूयो भुवनोपकारिचरितैरासेव्यमान घनै-
स्तद्रत्नाकरवारि मज्जनविधौ भूयात्तव श्रेयसे॥२९०॥

————————

सबोधन हे तथोक्त हे राजन्, तत्प्रसिद्ध जलधे समुद्रस्य पाथो जल ते तव प्रीतये हर्षाय अस्तु भवतु। तत्किम्। यत्पाथ मुक्ताफलै मौक्तिकै स्फारित प्रचुरीकृतम्। कथभूतै मुक्ताफलै। पाकोन्मुखीनि पचमानानि निष्पन्नानि तथा पाकोन्मुखतया मुक्तानि व्यक्तानि शुक्तीना मुक्तास्फोटाना पटलानि प्रतरणानि मण्डलानि यैस्तानि पाकोन्मुखमुक्तशुक्तिपटलानि तैस्तथोक्ते। पाकोन्मुखशब्दात् तत्प्रत्ययो लुप्त, समासेनैव तत्प्रत्यय स्योक्तत्वात्। तत्किम्। यत्पाथ विद्रुमै प्रवालैरुल्लासित शोभमानम्। कथभूतै प्रवालै। सद्य प्रविरूढकन्दलदलै सद्यस्तत्काल प्रविरूढानि प्रादुर्भूतानि कन्दलदलानि वल्लीसमूहानि येषा विद्रुमाणा ते तथा तै। विद्रुमशब्देनात्र समुद्रसबन्धिप्रवालमणयो ज्ञातव्या। तत्किम्। यत्पाथ नारायणनाभिपङ्कजरजोराजीभिरापिञ्जरम् नरस्य वसुदेवस्यापत्य पुमान् नारायण। अथवा नारासु जलेषु अयन यस्यासौ नारायण।कृष्णस्य क्षीरसागरजलमये शयनकारित्वात् समुद्रस्य मध्य स्थितद्वारवतीनिवासका [रित्वात् वा]।नारायणनाभिपङ्कजरजोराजीभिरापिञ्जर समन्तात् इषद्वा पीतवर्णम्। रूपकालकार॥

** यत्रेत्यादि।** तत्प्रसिद्ध पूर्वोक्तलक्षण वा रत्नाकरवारि क्षीरसागरजल मज्जनविधौ स्नानविधाने तव भवत श्रेयसे मङ्गलाय भूयाद्भवतु। तत्किम्। यत्ररत्नाकरवारिणि अमृतातप व द्रोऽभूत् बभूव। यत्र रत्नाकरवारिणि सुरकरी ऐरावतो नाम उत्पन्न। तथा यत्र कल्पद्रुम सजात। तथा यत्र कौस्तुभो नाम रत्नमभूत्। तथा यत्र लक्ष्मीरभूत कृष्णभार्या सजाता। तथा यत्र रत्नाकरवारिणि अप्सरसा रम्भातिलोत्तमोर्वशीमेनिकादीना स्वगवेश्याना गण समूहोऽभूद्बभूव। कथम्। सार्धसह। कया सह। सुवया सह अमृतेन समम्। एतत्सर्व किमथमभूत्। बुधाना विद्वज्जनाना मुदे हर्षाय। तथा यद्रत्नाकरवारि घनैमघैरासेव्यमानमाखाद्यमान वर्तते। कथम्। भूयो वारवारम्। कथभूतैर्घनै। भुवनोपकारिचरितै भुवनस्य मर्त्यलोकस्य उपकारि उपकारक चरितमाचारो येषा ते भुवनोपकारिचरितास्तै। तथा चोफ कालिदासेन महाकविना — लक्ष्मीकौस्तुभपारिजातकसुराधन्वन्तरिश्चन्द्रमा गाव कामदुघा सुरेश्वरगजो रम्भादिदेवाङ्गना। अश्व सप्तमुरा सुधाहरिधनु शङ्खो विष चाम्बुधे रत्नानीति चतुर्दश प्रतिदिन कुवन्तु वो मङ्गलम्॥ समुच्चयालकार॥

यन्नाकलोकमुनिमानसकल्मषाणा
कार्श्यंकरोति सकृदेव कृताभिषेकम्।
प्रालेयशैलशिखराश्रमतापसाना
सेव्य च यत्तव तदम्बु मुदेऽस्तु गाङ्गम्॥२११॥

यास्तीराश्रमवासितापसकुलै सध्याविधावुल्बणा
सेव्यन्ते प्रतिवासर सुरगणैर्या पुण्यपण्यापणा।
उह्यन्ते शशिभौलिना च शिरसा त्व मज्जनायेव या-
स्ता वार सवनाय सन्तु भवतो भागीरथीसभवा॥२१२॥

यमुनानर्मदागोदाचन्द्रभागासरस्वती।
सरयूसिन्धुशोणोत्थैर्जलैर्देवोऽभिषिच्यताम्॥२१३॥

इति जलकेलिविलासाद्वैतालिकान्मज्जनावसरवृत्तान्याकर्णयन्

————————

यन्नाकलोकेत्यादि। तद्भाङ्गमम्बु तव मुदे आनन्दाय अस्तु भवतु। यत्किम्। यत् गाङ्गमम्बु सकृदेव एकवारमपि कृताभिषेक स्नानीय सत् नाकलोकमुनिमानसकल्मषाणा कार्श्यंकरोति विदधाति नाकलोकस्य स्वर्गस्य ये मुनयो मरीच्यत्रीत्यादयस्तेषा मानस मन आत्मा तस्य कत्मषाणा पापाना कार्श्यतनुत्व विदधाति। कथभूत गाङ्ग अम्बु। प्रालेयशेलशिखराश्रमतापसाना प्रालेयशेलस्य हिमाचलस्य शिखरेषु आश्रम स्थितियेषाते प्रालेयशैलशिखराश्रमास्ते च ते तापसा मुनयस्तेषा च सेव्य स्नानपानासनधावनादियोग्यम्।अतिशयालकार॥

** या इत्यादि।** हे राजन् ता भागीरथीसभवा चारो जलानि भवतस्तव सवनाय स्नानाय सन्तु भवन्तु। ता का। या वार तीराश्रमवासितापसकुले तीरयोस्तटयोराश्रमेषु गृहेषु वसन्तीत्येवशीलधर्मास्तीराश्रमवासिनस्ते च ते तापसा मुनयस्तेषा कुलै समूहै प्रतिवासर दिन दिन प्रति सेव्यन्ते। कथभूता वार। स याविवौ सध्यावन्दनविधाने उत्बणा उद्रिक्ता। न केवल तापसकुले सेव्यन्ते, सुरगणैर्देवसमूहेश्च या सेव्यन्ते। कथभूता वार।पुण्यपण्यापणा पुण्यमेव पण्य क्रयस्तस्य आपणा हट्टमार्गसदृशा। या वार शशिमौलिना श्रीमहादेवेन शिरसा मस्तकेन उह्यन्ते प्रियन्ते। किमर्थम्।त्वन्मज्जनाय इव भवत स्नाननिमित्तमिव। उत्प्रेक्षालकार॥

यमुनेत्यादि। देव श्रीयशोधरमहाराजो जलै कृत्वा अभिषिच्यता स्नाप्यताम्। कथभूतैर्जलै। यमुनानर्मदागोदाचन्द्रभागासरस्वतीसरयूसि धुशोणोत्यै यमुना च कालिन्दी सूरतनया, नर्मदा च रेवा मेकलकन्यका, गोदा च नदीविशेषा, सरस्वती च निम्नगाविशेष, सरयूश्च अयोध्याधोवतिनी नदी, सिन्धुश्च पश्चिमसमुद्रगामिन्यापगा,

उल्लोलालकवीचिभिर्विचलितापाङ्गोत्पलश्रेणिभि
प्रक्षुभ्यत्कुचचक्रवाकमिथुनैर्व्यालोलनाभीह्रदै।
वारस्त्रीनिवहै सतूर्यनिनद जाताभिषेकोत्सव
काम स्फारितकाञ्चिदेशपुलिनै सिन्धुप्रवाहैरिव॥२१४॥

पुन सारस्वतसर्ग इव धृतधवलदुकूलमाल्यविलेपनालकार, समारक्षणदक्षाङ्गरक्षसार, समाश्रित्य मार्जनीय देशमाचरितोपस्पर्शन, कुशपूतपा-

————————

शोणश्च नदविशेष, तेभ्य उत्थाउत्थान येषा जलाना तानि तयोक्तानि तै। समुच्चयालकार॥

** उल्लोलेत्यादि।** कथभूतोऽहम्। वारस्त्रीनिवहै वारस्यावसरस्य सबन्धिनो ये स्त्रीनिवहा स्त्रीसमूहा वारस्त्रीनिवास्तैर्वारस्त्रीनिवहै।वेश्याजनसमूहैरित्यर्थ। जाताभिपेकोत्सव समाप्तपट्टाभिषेकमहोत्सव। कथम्। सतूर्यनिनद अनेकवादिनध्वनिसहित यथा भवत्येवम्। कथभूतैर्वारस्त्रीनिवहै। उल्लोलालक्वीचिभि उल्लोला उत्कर्षेण चपला अलकाचूर्णकुन्तलास्तेषा वीचयो लहर्यो येषु वारस्त्रीनिवहेषु तथा तै।पुन कथभूतेवारस्त्रीनिवहै। विचलितापाङ्गोत्पलश्रेणिभि विचलिता विविधप्रकारचेष्टिता ये अपाङ्गा नेत्रप्रान्तास्त एव उत्पलश्रेणय बकुलसमूहा येषु ते तथा तै। पुन कथभूतै वारस्त्रीनिवहै। प्रक्षुम्यत्कुचचकवाकमिथुनै।

पुन कथभूतै वारस्त्रीनिवहै। व्यालोलनाभीह्रदै व्यालोला विशेषेण चपला नाभीह्रदा नाभीविवरा येषु ते तथा तै। पुन कथभूतैवारस्त्रीनिव है काममतिशयेन स्फारितकाञ्चिदेशपुलिनै स्मारितानि उच्चै कृतानि काञ्चिदेशा कठ्यग्रभागा एव पुलिनानि तोयान्वितसिकताद्वीपानि येषु ते तथा तै। पुन कथभूतै वारस्त्रीनिवहै। सिन्धुप्रवाहैरिव। यथा सिन्धुप्रवाहा उल्लोलवीचय विचलितोत्पलसमूहा सचलच्चक्रवाकमिथुना व्यालोलह्रदा स्फारितपुलिनाश्च भवन्ति। रूपकोपमालकार॥

पुनरभिषेकोत्सवानन्तरम्। कथभूतोऽहम्। धृतधवलदुकूलमाल्य विलेपनालकार धवल च पट्टदूकूलम्, माल्य च पुष्पदामानि विलेपन च धृता अङ्गेच्छ (वा)रोपिता धवलदुकूलमाल्यविलेपालकारा येन स तथा। कथभूत सारस्वतसर्ग इव। सरस्वत्या अय सारस्वत सर्ग सृष्टि। यथा सरस्वत्या सग धवलदुकूलमाल्यविलेपनालकारो भवति। पुनः कथभूतोऽहम्। समारक्षणदक्षाङ्गरक्षसार समन्तादारक्षणे रक्षाविधाने दक्षा समर्था ये अङ्गरक्षा शरीररक्षका सारा बलवत्तरा यस्य स तथा। पुन कथभूतोऽहम्। आचरितोपस्पर्शन आचरित कृत उपस्पर्शन आचमन येन स आचरितोपस्पर्शन। कि कृत्वा पूर्वम्। माजनीय देश हस्तपादप्रक्षालनोचित स्थान समाश्रित्य गत्वा। पुन-

नीयपरिकल्पितसकलोपकरणप्रोक्षण, पर्युपास्यासुतीवलद्वितीय पृषदाज्येनामिक्षया च समेधितमहस द्रविणोदशमनेक सुविदत्रवस्तुव्यस्तहस्तैर्निवर्तितयजत्र(न)कर्मभिर्यायजूकलोकैर्जनितजैवातृकमन्त्राशीर्वाद विधिभिर्यथाविधानम्, ‘अहो लक्ष्मीनिवासहृदय, विलासिनीविनोदचन्द्रोदय, श्रीमतीपतिश्रीवर्मनृपनदनामृतमतिमहादेवीपुर सराभिर्महामण्डलेश्वरपतिवराभि

————————

कथभूतोऽहम्। कुशपूतपानीयपरिकल्पितसकलोपकरणप्रोक्षण कुशैर्दर्भै पूत पवित्रयत्पानीयमुदक तेन परिकल्पित सकलाना समस्ताना उपकरणाना उपहारपात्राणा प्रोक्षणमभ्युक्षण येन स तथा। कि कृत्वा पूर्वं सपादितद्वितीयाश्रमदीक्षाभिषेक सजग्मे। आसुतीवलद्वितीय आसुतीवलो यज्वा द्वितीयो यस्य स तथा। यज्वना सहित सन् द्रविणोदश अग्नि पर्युपास्य सेवित्वा। विवाहहोम कृत्वा इत्यर्थ। केन कृत्वा द्रविणोदश पर्युपास्य। पृषदाज्येन दधिमिश्रसपिषा, न केवल दधिमिश्रसपिषा, आमिक्षया च दधिमि श्रोत्कलितक्षीरेण च। तथा चोक्तम् - मृते क्षीरे दविक्षिप्तमामिक्षा कथ्यते बुधै। कथभूत द्रविणोदशम्। समेधितमहस घृतेन प्रज्वालिततेजसम्। अग्निंकथपर्युपास्य। यायजूकलोकैर्होतृभि यथाविवान उक्तक्रमेण यथा भवत्येव। कथभूतैर्यायजूकलोकै। अनेकसुविदत्रवस्तुव्यस्तहस्तै अनेकानि नानाप्रकाराणि सुविदत्राणि मङ्गलभूतानि यानि वस्तूनि नालिकेरखर्जूरकदलादीनि तैर्व्यस्ता व्यापृता हस्ता करायेषा यायजूकलोकाना ते तथा तै। पुन कथभूतैर्यायजूकलोकै। निवर्तितयजन्त्र(न) कर्मभि निवर्तित निष्पादित यजत्र(न) कर्म अग्निहोत्रोयेस्ते निवर्तितयजत्र (न) कर्माणस्तै। पुन कथभूतैर्यायजूकलोकै। जनितजैवातृकमन्त्राशीर्वाद विधिभि जनित उत्पादितो जैवातृकमन्त्रै आयुर्ववनपरैर्मन्त्रैराशीर्वादविधियैस्ते तथा तै। अह कि कुर्वन् सजग्मे। इति अमुना प्रकारेण मनोजकुञ्जरात् बदिन स्तुतिपाठकात् चचासि वचनानि निशमयन्नाकर्णयन्। मनोजकुञ्जरात्किंकुर्वन्तम्। मा अमृतमतिमहा देवी च प्रतिपठत। इतीति किम्। अहोलक्ष्मी निवासहृदय लक्ष्म्या निवासभूत हृदय यस्य स तथा तस्य सबोधन हे तथोक्त। अहो विलासिनीविनोदचन्द्रोदय विलासिनीना सद्वनिताना विनोदाय क्रीडनाय चन्द्रोदय शशाङ्कोदयस्तस्य सबोधन हे तयोक्त। महामण्डलेश्वरपतिंवरामि समन्तादिह तत्तस्मात् कारणात् इह अस्मिन् प्रस्तावे भवतोर्युवयोरिदानीमधुना किमाशास्यते क आशीर्वादो दीयते। पर केवल प्रीतिरस्तु प्रेम भवतु। कथभूतयोर्भवतो। भवती चभवाश्च भवन्तौ तयोर्भवतो। रतिमनोभवयोरिव रतिकन्दर्पयोर्यथा। कथभूताभि मण्डलेश्वरपतिवराभि श्रीमतिपतिश्रीवर्मनृपनदनामृतमतिमहादेवीपुर सराभि श्रीमत्या पतिर्भर्ता श्रीमतीनाममहादेवीकान्त स चासौश्रीवर्मनृप श्रीवर्मनाम महाराजस्तस्य नन्दना सुता सा चासौ अमृतमतिमहादेवी अमृतमतिरिति नाम्नी पट्टमहादेवी

शतानन्द इव श्रुतिभि, खाण्डवोद्यानदेश इव कल्पलताभि, समुद्रीयोदकाभोग इव वेलानदीभि, प्रथम तीर्थंकरावतारसमय इव रत्नवृष्टिभि, त्रिदिवपर्वत इव नक्षत्रपङ्क्तिभि, पार्वणेन्दुरिव कलाभि, सरोवकाश इव कमलिनीभि, माधव इव वनलक्ष्मीभि समम्

लक्ष्मीरिय त्वमपि माधव एव साक्षा-
देषा शची सुरपतिस्त्वमपि प्रतीत।
आशास्यते तदिह किं भवतोरिदानी
प्रीति पर रतिमनोभवयोरिवास्तु॥२१५॥

एषा हिमाशुमणिनिर्मितदेहयष्टि-
स्त्व चन्द्रचूर्णरचितावयवश्च साक्षात्।
एव न चेत्कथमिय तव सगमेन
प्रत्यङ्गनिर्गतजला सुतनुश्चकास्ति॥२१६॥

————————

सा पुर सरा मुख्या यासा पतिंवराणा तास्तथा ताभि। कथभूतस्त्वम्। शतानन्द इव श्रुतिभि। यथा शतानन्द श्रुतिभिर्वेदवाग्भि सह प्रीतिमान् भवति। पुन कथभूतस्त्वम्। खाण्डवोद्यानदेश इव कल्पलताभि। यथा स्वर्गलोकवनप्रदेश क्ल्पवल्लीलताभि कल्पवल्लीभि सम प्रीतिमान् भवति। पुन कयभूतस्त्वम्। समुद्रीयोदकाभोग इव वेला नदीभि।पुन कथभूतस्त्वम्। प्रथमतीर्थंकरावतारसमय इव रत्नवृष्टिभि। यथा प्रथमतीर्थे करावतारसमयो वृषभस्वर्ग व्यवसा(ना)वसरो रत्नवृष्टिभि सम प्रतिमान् भवति। पुन कथभूतस्त्वम्। त्रिदिवपर्वत इव नक्षत्रपङ्क्तिभि। यथा त्रिदिवपर्वतो मेरु नक्षत्रपङ्क्तिभि सम प्रीतिमान् भवति। पुन कथभूतस्त्वम्। पार्वणेन्दुरिव कलाभि। यथा पार्वणेन्दु पूर्णिमाचन्द्र कलाभि सम प्रीतिमान् भवति। पुन कथभूतस्त्वम्। सरोवकाश इव कमलिनीभि। यथा सरोवकाश सरोवरप्रदेश कमलिनीभि सम प्रीतिमान् भवति। पुन कथभूतस्त्वम्। माधव इव वनलक्ष्मीभि। यथा माधवो वैशाखमासो वनलक्ष्मीभि सम प्रीतिमान् भवति।

** लक्ष्मीरित्यादि। एषेत्यादि।** हे राजन् इयममृतमतिमहादेवी लक्ष्मीर्वर्तते, त्वमपि भवानपि साक्षात् प्रत्यक्षेण माधव एव श्रीनारायण एव। एषा अमृतमतिमहादेवी शचीन्द्राणी वर्तते, त्वमपि भवानपि साक्षात् प्रतीतो विरयात सुरपति शक्र एव वर्तसे। एषा अमृतमतिमहादेवी हिमाशुमणिनिर्मितदेहयष्टिर्वर्तते हिमाशुमणिश्चन्द्रकान्तरत्नानि तैर्निर्मिता निष्पादिता देहयष्टिरुत्तमशरीर यस्या सा तथा त्व भवान् साक्षात् निश्चयेन चन्द्रचूर्णरचितावयवश्च वर्तसे चन्द्रचूर्णैशशाङ्कक्षोदै रचिता

त्व चन्द्ररुचिरेषा तु सत्य कमललोचना।
कथ त्वयान्यथा दृष्टा भवेत्कुङ्मलितेक्षणा॥२१७॥

उक्ता वक्ति न किंचिदुत्तरमिय नालोकितालोकते
शय्याया विहितागमा च विवशश्वासोल्बण वेपते।
नर्मालापविधौ सकोपहृदया गन्तु पुनर्वान्छति
प्रीतिं कस्य तथापि नो वितनुते बाला नवे सगमे॥ २१८

किंचित्केकरवीक्षित किमपि च भ्रूभङ्गलीलायित
किंचिन्मन्मनभाषित किमपि च श्लेषाभिलाषेहितम्।
इत्थ मुग्धतया बहिर्विलसित वध्वा नवे सगमे
चित्तस्थेन मनोभुवा बलवता नीवी खलत्व कृतम्॥ २१९

————————

निर्मापिता अवयवा शरीराणि यस्य स तथा। चेद्यदि एव न भवति तर्हि इय सुत शोभनशरीरा तव सगमेन भवत सपर्केण प्रत्यङ्गनिगतजला सर्वाङ्गप्रतिच्छन्ना क चकास्ति केन प्रकारेण भवति। अपि तु न कथमपि। अनुमानालकार॥

** त्वमित्यादि।** हे राजन्, त्व भवान् चन्द्ररुचिश्चन्द्रातपो वर्तसे, एषा तु देवी स निश्चयेन कमललोचना वर्तते। अन्यथा एव यदि न भवति तर्हि त्वया भवता दृष्टा लोकिता सती कथ केन प्रकारेण कुम्मलितेक्षणा सकुचितलोचना भवेत्। अपि तु कथमपि भवेत्। अनुमित्यलकार॥

** उक्तेत्यादि।** हे राजन्, इय देवी उक्ता आलपिता सती किचिदुत्तर नव न ब्रूते। आलोकिता निरीक्षिता सती नालोकते न पश्यति। शय्याया पयङ्क्तेविहिता गमा कृतसगति सती वेपते कम्पते। कथम्। विवशश्वासोल्बणम् विवशा परवशा श्वासा उच्छ्वासास्तैरुल्बणमुद्रिक्त यथा भवत्येवम्। नर्मालापविवौ वकवचनविधाने सको पहृदया कुपितचित्ता सती पुन गन्तु वाञ्छति पलायितुमिच्छति। युक्तोऽयमर्थं नवे सगमे प्रथममेलापके बाला वनिता कस्य पुरुषस्य तथापि प्रीतिं प्रेमाण नो वितनुते न विस्तारयति। अपि तु सर्वस्यापि विस्तारयतीत्यर्थ। अर्थान्तरन्यासालकार॥

** किंचिदित्यादि।** इत्थ अमुना प्रकारेण मुग्धतया कोमलत्वेन वध्वा स्त्रियो नवे सगमे प्रथमे सगमे बहिर्विलसित वर्तते। इत्थ कथमिति चेत्। किचिन्मनाक् केकरवीक्षित कटाक्षलीलान्वितमवलोकनम्। किमपि च अतिबन्धनाय भ्रूभङ्गलीलायित नेत्रोपरिरोमराज्युपक्षेपशोभासहितम्। किचिन्मनाक्मन्मनभाषित अस्फुटजल्पितम्। किमपि च अपूर्व अनिर्वचनीय श्लेषाभिलाषेहित परिरम्भचेष्टितम्। अस्मिन्नवसरे

विदलदलकवासे लोललीलावतसे
नवनयनविलासे मन्मनालापहासे।
क्षितिरमण तव स्यात्स्फारशृङ्गारलास्ये
सरभसमबलास्ये काम केली रहस्ये॥२२०॥

इति माममृतमतिमहादेवी च प्रतिपठतो मनोजकुञ्जराद्बन्दिनो वचासि निशमयन्, किल तदाह सजग्मे सपादितद्वितीयाश्रमदीक्षाभिषेकश्च

करितुरङ्गमवह्निपुरोधसा तदनु दक्षिणवृत्तिभिरिङ्गितै।
जलधरानकशङ्खपिकस्वनै श्रुतिसुखैर्ध्वनिभिश्च जयावहै॥२२१॥

————————

चित्तस्थेन मनसि वतमानेन बलवता प्रौढतरेण मनोभुवा कन्दर्पेण नीवी कटिवस्त्रबन्धन खलत्व दुर्जनत्व कृत रचितमिति। उपमालकार॥

** विदलदलकवास इत्यादि।** हे क्षितिरमण पृथ्वीपते, अबलास्ये वनितामुखे तव रहस्ये एकान्ते सरभस उत्कतया वेगसयुक्त यथा भवत्येव कामकेलि कामक्रीडा स्याद्भवेत्। कथभूते अबलास्ये। विदलदलकवासे विदलत्चूर्णीभवत् अलकाना कुन्त लाना वास स्त्रीभिर्यस्मिन् अबलास्ये तत्तथा तस्मिन्। पुन कथभूते अबलास्ये। लोललीलावतसे लोल चपल लीलाया कामक्रीडाया अवतस कर्णपूरो यस्मिन् तत्तथा तस्मिन्। पुन कथभूते। नवनयनविलासे नवा प्रत्यग्रा नयनयो विलासा लोचन चेष्टितानि यस्मिन् तत्तथा तस्मिन्। पुन कथभूते। मन्मनालापहास्ये मन्मनालाप अस्फुटशब्दो हासो यत्र तत्तथा तस्मिन्। पुन कथभूते। स्फारशृङ्गारलास्ये स्फारं प्रचुरतर शृङ्गारस्य लास्य नर्तन यत्र तत्तथा तस्मिन्। अत्रशृङ्गाररस॥

** इति मामित्यादि।** हे मारदत्तमहाराज, तदा तस्मिन् काले अह ता जगत्प्रसिद्धा उज्जयिनीनाम्नी राजधानीं पुरीं अनु समुखीकृत्य। किलेति लोकोक्तौ वा निश्चयेन वा। प्रत्यानृते प्रत्याजगाम। नदीतीरात् नगर प्राप्त इत्यर्थ। कथभूत सन् अह प्रत्या ववृते। समानन्दितमति सम्यगाह्लादितमना। कै कृत्वा समानन्दितमति॥

** करीत्यादि।** करितुरङ्गमवह्निपुरोधसा हस्त्यश्वाभिपुरोहिताना तदनु तदनन्तर दक्षिणवृत्तिभिर्दक्षिणपार्श्वे इङ्गितैश्चलितै। पुनश्च कै समानन्दितमति। जलधरानकशङ्गपिकस्वनै मेघगर्जितपटहवादनशङ्खध्वनिकोकिलशब्दै। कथभूतै जलधरादिशब्दै।श्रुतिसुखै कर्णामृतप्रायै। न केवल समानन्दितमति जयावहैर्ध्वनिभिश्च जय जीव नन्द वर्धस्वेत्यादिभि जयकारिभि शब्दै। जात्यलकार॥

समानन्दितमतिर्विधायात्मनस्तत्त्रितयस्य च पट्टबन्धोत्सवमिति मधुकलोकविहितमङ्गलान्युपचर्य राज्यलक्ष्मीचिह्नानि सभाव्य च।

अपहसितपुष्पदन्त कुवलयकमलावबोधनाद्देव।
अधरितसकलमहीधरमाभाति तवातपत्त्रमिदमेकम्॥२२२॥

द्विषद्द्विपमदध्वसाद्भूभृता शिरसि स्थित।
आरोहता क्षितीशाना सिंह सिंहासन नृप॥२२३॥
मृगमदतिलकेऽस्मिन्नर्धचन्द्रावदाते
जलनिधिरसनोर्वीभाजनैश्वर्यवर्ये।

————————

** समेत्यादि।** कि कृत्वा पूर्व प्रत्याववृते। आत्मन स्वस्य तत्त्रितयस्य च हस्त्यश्वदे वीजयस्य पट्टबन्धोत्सव पट्टबन्धमहोत्सव विधाय कृत्वा। पुनश्च कि कृत्वा पूर्वम्। इति अमुना प्रकारेण मधुकलोकविहितमङ्गलानि राज्यलक्ष्मीचिह्वानि उपचर्य स्वीकृत्य मधु हृदयगम कायन्तीति मधुका बन्दिनस्तेषा लोका समूहास्तैर्विहितानि मङ्गलानि उपश्लोकितानि मधुकलोकविहितमङ्गलानि। न केवल राज्यलक्ष्मीचिह्नानि उपचर्य सभाव्य च समीचीनानि मत्वा। इतीति किम्।

** अपहसितेत्यादि।** हे देव, इद प्रत्यक्षीभूत एक अद्वितीय आतपत्र छत्र तव भवत आभाति शोभते। कथभूतमातपत्त्रम्। अपहसितपुष्पद त तिरस्कृतचन्द्रादित्यम्। कस्मात्। कुवलयकमलावबोधनात् कुवलयस्य पृथ्वीवलयस्य पक्षे उत्पलसमूहस्य अवबोधनात् चन्द्रस्य तिरस्कारकम्, कमलाया लक्ष्मीकमलाना अवबोधनात् आनन्दकारणात् आदित्य तिरस्कारकम्। पुन कथभूतमातपत्त्रम्। अधरितसकलमहीधरम् अधरिता अध स्थापिता सकला समग्रा महीधरा राजानो येन तत्तथोक्तम्। पुष्पदन्तावपि सवपवतान् अध कुरुत॥

** द्विषदित्यादि।** नृप श्रीयशोधरमहाराज सिंहासन हरिविष्टरं आरोहता आरोहतु। कथभूतो नृप। क्षितीशाना पृथिवीपतीना सिंहो हर्यक्ष। कस्मात्सिंह। द्विषजिपमदध्वसात् द्विषन्त शत्रवस्त एव द्विपा हस्तिनस्तेषा मदेन खण्डेन ध्वसो विनाशो द्विषद्विपमदध्वसस्तस्मात्। पुन कथभूतो नृप। भूभृता नरेन्द्राणा पवताना च शिरसि मस्तके शिखरेऽवस्थितो विहितस्थान। हेतूपमालकार॥

** मृगमदतिलकेऽस्मिन्नित्यादि।** हे क्षितिरमण पृथिवीपते, तव भवत अस्मिन् ललाटे पट्टबन्धो मस्तकालकारोऽस्तु भवतु। कथभूते ललाटे। मृगमद‌तिलके कस्तूरिका तिलकसहिते। पुन कथभूते ललाटे। अर्धचन्द्रावदाते अष्टमीचन्द्रवन्निर्मले। पुन कथभूते ललाटे। जलनिधिरसनोर्वीभाजनैश्वर्यवर्ये जलनिधि समुद्र स एव रसना मेख-

जनितसकललोकानल्पकल्पप्रमोद
क्षितिरमण ललाटे पट्टबन्धस्तवास्तु॥२२४॥
विद्विष्टदर्पदीपाचिर्नन्दनानिलपेशलै।
चामरै सेव्यता देव श्रीकटाक्षोपहासिभि॥२२५॥

खड्गश्च तवायम्

लक्ष्मीविनोदकुमुदाकरचन्द्रहास
सग्रामकेलिनलिनीवनसूर्यहास।
विद्विष्टदैत्यमदमान्द्यहराट्टहास
कीर्तिस्त्रियास्त्रिमुवनोदद्यमोदहास॥२२६॥

————————

लादाम यख्या सा जलनिधिरसना सा च उर्वी पृथ्वी तस्या भाजन स्थान तस्य ऐश्वर्य स्वामित्व तेन वय मुरय यत् ललाट तत् जलनिधिरसनोर्वीभाजनेश्वर्यवर्यतस्मिन्। कथभूत पट्टबन्ध। जनितसकललोकानल्पकल्पप्रमोद जनित उत्पादित सकललोकाना अनल्पकल्पेषु बहुवर्षकोटिषु प्रमोद आनन्दो येन पट्टबन्धेन स तथोक्त। हेतूपमालकार॥

विद्विष्टेत्यादि। देव श्रीयशोधरमहाराजश्चामरैश्वमरीरुहै सेव्यतां वीज्यताम्। कथभूतैश्चामरै। विद्विष्टदर्पदीपार्चिर्नन्दना निलपेशलै विद्विष्टा शत्रवस्तेषा दर्प औत्कण्ट्यस एव दीपार्चि अधूमदीप मन्दतेजस्कत्वात् तस्य नन्दनो विध्यापको योऽसावनिलो वातस्तेन पेशलानि मनोहराणि तथा तै। पुन कथभूतैश्चामरै। श्रीकटाक्षोपहासिभिश्रियोलक्ष्म्या ये कटाक्षा अपाङ्गावलोकनानि तान् उपहसन्तीत्येवशीलानि श्रीकटाक्षोपहासीनि तै। रूपकोपमालकार॥

** लक्ष्मीविनोदेत्यादि।** हे देव, अय प्रत्यक्षीभूत खङ्गश्च करवाल। कथभूत। क्ष्मीविनोदकुमुदाकरचन्द्रहास लक्ष्म्या श्रियो योऽसौ विनोद क्रीडा स एवं कुमुदाकर कैरव तद्विकारो चन्द्रहासश्चन्द्रज्योत्स्नासदृश। पुन कथभूत। सग्रामकेलिनलिनीवनसूर्यहास सग्रामकेली रणक्रीडा सैव नलिनीवन पद्मिनीखण्डस्तद्विकारो सूर्यहास सूर्यतेज। पुन कथभूत। विद्विष्टदैत्यमद‌मान्द्यहराट्टहास विद्विष्टा शत्रवस्त एव दैत्या दानवास्तेषा मदो दर्पस्तस्य मान्द्यमप्राचुर्य तस्य प्रलयकरणे हराट्टहासो रुद्रमहाहास। पुन कथभूत। कीर्तिस्त्रियास्त्रिभुवनोदद्यमोदहास कीर्तिरेव स्त्री तस्या कीर्तिस्त्रिया त्रिभुवनस्य उदय उद्गमन तेन मोदस्तस्य हासो इसनम्। रूपकालकार॥

मन्ये भुजामण्डलमण्डनेऽस्मिल्ँलोकत्रयी तिष्ठति ते कृपाणे।
स्थित स्थितिं कम्पित एष कम्प कुतोऽन्यथा नाथ करोति तस्या॥२२७॥

एषा मही तव करे करभाजि चापे
कर्णान्तसङ्गिनि गुणे त्वयि सगता श्री।
लक्ष्यानुवर्तिनि शरे तव देव जाता
जाता न के त्वदनुवृत्तिपरा नरेन्द्रा॥२२८॥

मन्त्रिपुरोहितमहामात्यसेनाधिपतिसख पूर्णपात्रवायनकप्रसादसप्रदायै समस्तमनुरागरसोत्सर्पत्प्रमोदोत्सर्गं द्विजातिपरिजनसामन्तवर्गमाचरितगज-

————————

** मन्ये इत्यादि।** हे नाथ हे राजन्, अस्मिन् प्रत्यक्षीभूते ते तव कृपाणे कौक्षेये अह एव मन्ये जाने लोकत्रयी तिष्ठति त्रैलोक्य वसति। कथभूते कृपाणे। भुजामण्डलमण्डने बाहुप्रदेशाभराणे। अन्यथा यदि कृपाणे लोकत्रयी न वसति तर्हि कृपाण स्थित सन् तस्या लोकत्रय्यास्थितिंकथ करोति। एष कृपाण कम्पित सन् कम्प कुत करोति। अनुमानालकार॥

** एषा इत्यादि।** हे देव हे राजन्, तव भवत करे हस्ते करभाजि चापे सति हस्तभागिनि धनुषि सति एषा प्रत्यक्षीभूता मही पृथ्वी तव सबन्धिनी जाता॥ गुणे प्रत्यञ्चाया कर्णान्तसङ्गिनि आकृष्टे सति लक्ष्मीस्वयि भवति सगता मिलिता। हे देव, तवभवत शरे बाणे लक्ष्यानुवर्तिनि वेध्यसमुखेजाते सति के नरेन्द्रा त्वदनुवृत्ति परा त्वत्सेवका न जाता। अपि तु सर्वेऽपि त्वत्सेवका जाता इत्यर्थ। सहोक्त्यलकार॥

** मन्त्रीत्यादि।** अह कथभूत सन् राजधानीमनु प्रत्याववृते। मन्त्रिपुरोहितमहामात्यसेनाविपतिसख मन्त्री च सचिव, पुरोहितश्च त्रिविवापत्प्रतीकर्ता, महामात्यय्य सर्वनिजदेशाधिकारी, सेनाधिपतिश्च चमूनायक मन्त्रिपुरोहितमहामात्यसेनाधिपतय ते सखायोऽभीष्टतया निकटवर्तिनो यस्य स तथोक्त। ‘राजन् अहन् सखि’ इत्यनेन अन्प्रत्ययान्तो निपात। कथ प्रत्याववृते। समस्त समग्र द्विजातिपरिजनसामन्तवग पूर्णपात्रवायनकप्रसादसप्रदायै अनुरागरसोत्सर्पत्प्रमोदोत्सर्ग यथा भवत्येवम् पूर्णपात्र च दक्षिणया द्विजातिवर्ग च समान्य, वायनक बलाहनकदान परिजनवर्ग समान्य, प्रसादश्च प्रसन्नीभवन पूर्णपात्रवायनकप्रसादास्तेषा सप्रदायै सम्यग्दानै कृत्वा अनुराग अकृत्रिमस्नेहस्तस्य रसेन भावनया उत्सर्पन् प्रादुर्भवन् प्रमोदस्य हृषस्य उत्सग उत्साहो यस्मिन् प्रत्यावतनकर्मणि स तथोक्त। द्विजातयश्चब्राह्मणा, परिजनाश्चकुटुम्बवर्गा, सामन्ताश्व देशपतयो द्विजातिपरिजनसामन्तास्तेषा वर्ग समूहो यत्र अनुरागरसोत्सर्पत् प्रमोदोसर्गे तत्तथोक्तम्। अत्रायमर्थ — पूर्णपात्रेण द्विजातय प्र-

वाजिनीराजनै समरसकथावरीयोभिर्विहितसर्वसन्नहनघोषणैरनन्यसामान्य जन्यार्जितकीर्तिप्रसाधनपुनरुक्तालकारविधिभिसकललोकविधीयमानयशश्चन्दनवन्दनैर्निवातकवचनिचिताङ्गयष्टिभि परश्शतैराप्तपुरुषैरपरैश्चात्मसमसभावनै कृपाणपाणिभिरग्रेसरैर्नरै परिवृत, समन्तादित्वरैरनवरतमशेषसत्त्वापहारव्यवहारघर्षरध्वनिभिरुदात्तदीर्घदण्डविडम्बितदोर्दण्डमण्डलै

————————

मोद प्रापिता, वायनकेन परिजना प्रमोद प्रापिता, प्रसाददानेन सामता प्रमोद प्रापिता इत्यथ। यथासरयालकार। पुनरह कथभूत सन् राजधानी प्रत्याववृते। आप्तपुरुषैर्हितपुरुषै प्रत्यावृत परिवृतो वेष्टित। कथभूतैराप्तपुरुषै। आचरितगजवाजिनीराजनै आचरितानि कृतानि गजस्य यागहस्तिनो वाजिनश्चविजयवैजतेय नामाश्वस्य नीराजन पूजन यैराप्तपुरुषैस्ते आचरितगजवाजिनीराजनास्तै। पुन कथभूतैराप्तपुरुषै। समरसकथावरीयोभि समरस्य सग्रामस्य सकथाभि समीचीन वार्ताभि वरीयोभिरतिशयेन गुरुभिरित्यर्थ। पुन कथभूतैराप्तपुरुषै। विहितसर्वसन्नहनघोषणै विहिता कृता सर्वेषा सन्नहनस्य सनाहस्वीकारस्य घोषणा उच्चैर्वचन यैस्ते तथा तै। पुन कथभूतैराप्तपुरुषै। अनन्यसामान्यजन्यार्जितकीतिप्रसाधनपुनरुक्तालकारविधिभि अनन्यसामान्य अनुपमो योऽसौ जन्य सग्रामस्तस्मिन् अर्जिता उपाजिता या कीर्ति यश सैव प्रसाधन मण्डन तत पुनरुक्तो द्विगुणीकृतो अलकारविविराभरणविधान यैस्ते तथा तै। पुन कथभूतैराप्तपुरुषै। सकललोकविधीयमान यशश्चन्दनवदनै सकलाश्च ते लोका बालगोपालादयस्तैर्विधीयमान यद्यश कीर्तिस्तदेव चन्दन हरिचन्दनद्रवस्तस्य वन्दनानि तिलकानि येषा ते तथोक्तास्तै। पुन कथभूतैराप्तपुरुषै। निवातकवचनिचिताङ्गयष्टिभि निवातानि निबिडानि यानि कवचानि कार्पासास्तैर्निचिता निगडिता अङ्गयष्टय उत्तमशरीराणि येषा ते तथोक्तास्तै। कतिसख्योपेतैराप्तपुरुषै। परश्शतै शतादविकगमनै। उक्त च — परश्शताद्यास्ते येषा परा सरया शतादिकात्’। एव पर100शता पर सहस्रा परोलक्षा पर कोट्य इति शब्दा ज्ञातव्या। न केवलमाप्तपुरुषैरावृत, अपरैश्चअन्यैश्चाग्रेसरै जयनशीलैर्नरै पुरुषे परिवृतो वेष्टित। कथभूतै अग्रेसरै नरै। आत्मसमसभावनै यशोधरम हाराजसदृशै। पुन कथभूतैरग्रेसरैर्नरै। कृपाणपाणिभि उत्खातखङ्गकरैरित्यर्थ। पुन कथभूतोऽह प्रत्याववृते। प्रशास्तृभि समन्तात्सर्वत इत्वरैरितस्ततो धावनशीलै। पुन कथभूतै। अनवरत निरन्तर अशेषसत्त्वापहारव्यवहारघर्घरध्वनिभि अशेषा

प्रशास्तृभिरग्रेगूभिश्चगोलधनुर्धरगोधाधिष्ठितवृत्तिभिर्वाताश्चैरुदक्यापण्डकपोगण्डचण्डालादिकादृशी कसमुत्सारणकुशलैर्विशोधितमार्ग सजातपरमोत्सवससर्ग इति पुण्यश्लोकालापहृदयालुभि कुलवृद्धैराघोषितपुण्याहपरस्पर।

दधिदृर्वाक्षतपुष्पचन्दनरसैर्गोरोचनालालसै-
र्ध्वजदीपव्यजनातपत्त्रमुकुरैरापूर्णकुम्भोत्करैः।
विहितानन्दमहोत्सव कुलवधूगीतप्रसाद्यैरि101मै-
नृप वाद्यैरपि जातमङ्गलरव पायाश्चिर मेदिनीम्॥२२९॥

————————

समस्ता सत्त्वा प्राणिनस्तेषा अपहारव्यवहारे दूरीकरणव्यापारे घर्घर कण्ठाभ्यन्तरावर्ती ध्वनि शब्दो येषा ते तथोक्तास्तै। पुन कथभूतै। उदात्तदीघदण्डविडम्बितदोर्दण्डमण्डलै उदात्ता उद्गृहीता उन्नता दीर्घा आयता ये दण्डा लगुडानि तैर्विडम्बितानि तिरस्कृतानि दोर्दण्डमण्डलानि बाहुदण्डवलयानि येषा ते तथातै। कथभूतैरग्रेसरै। गोलधनुधरगोधाधिष्ठितवृत्तिभि। धरशब्द प्रत्येकमभिसबध्यते। तेन गोलधराश्चगोफणाहस्ता धनुर्धराश्चचापपाणय भवन्त्येव। गोधा पुरुषास्तैरधिष्ठिता आरोपिता वृत्तिर्येषा ते तथा तै। पुन कथभूतै। अग्रेगूभिश्चवाताश्वैकुकुटिकै कपटभाषणशीलै। अपर कथभूतै। उदक्यापण्डक पोगण्डचण्डालादिकादृशीकसमुत्सारणकुशलै उदक्याश्चउदकयोग्या रजस्वला स्त्रिय, पण्डकाश्च नपुसकानि, पोगण्डाश्चविकलाग्ना, चण्डालादिकाश्चमातङ्गादय, ते च ते अदृशीकानवलोकान् अयोग्यास्तेषा समुत्सारणे दूरीकरणे प्रत्यायनविधाने कुशला प्रवीणास्ते तथा तै। अह कथभूत प्रत्याववृते। सजात उत्पन्न परमोत्सवस्य ससर्ग सगमो यस्य स तथोक्त। पुन कथभूतोऽह प्रत्याववृते। इति अमुना प्रकारेण पुण्यश्लोकालापहृदयालुभि पुण्या पवित्राश्चते श्लोका वृत्तानि तेषामालापेषु लपनेषु हृदयालवश्चतुरचेतस। सुहृदया इत्यथ। ते तथा तै। ईदृग्विधै कुलवृद्वै अवयजरद्भि आघोषितपुण्याहृपरम्पर आघोषिता उच्चैरुचारिता पुण्या हस्य पुण्यदिनस्य परम्परा श्रेणिर्यस्य स तथोक्त। इतीति किम्।

** दधीत्यादि।** हे नृप, इमै पदार्थे जातमङ्गलरव समुत्पन्नमङ्गलध्वनिस्त्व चिर दीर्घकाल मेदिनीं पृथ्वी पाया पाहि रक्ष प्रतिपालयत्वम्। कथभूतस्त्वम्। विहितानन्दमहोत्सव विहित कृत आनन्दसबन्धी महोत्सवो मन्ङ्गल यस्य स तथा। इमै

यावद्द्यौरवनि कुलावनिभृत शेष पयोराशय
सूर्य शीतरुचिर्दिश सुरपतिर्ब्रह्मा च सर्गैसह।
एतेषा द्विगुणीक्कृतोदयजयस्तत्साम्यभाजात्मना
तावत्त्व क्षितिपाल पालय मही जातोत्सवै कामितै॥२३०॥

योषा सुभूषा करिण प्रशस्ता नराश्च रत्नाम्बरहेमहस्ता।
तव प्रयाणे नृप समुखा स्यु प्रादेशनानीव महीपतीनाम्॥२३१॥

————————

कै। दधिदूर्वाक्षतपुष्पचन्दनरसै दधि च घनीभूतक्षीरम्, दूर्वा च शतपर्वा, अक्षताश्चतण्डुला, पुष्पाणि च प्रसवा, चन्दनरसश्च श्रीखण्डद्रव दधिदूर्वाक्षतपुष्पचन्दनरसास्तै। पुनश्च कै जातमङ्गलरव गोरोचनालालसै गोरोचनालालसितै। पुनश्व के कृला जातमङ्गलरव। ध्वजदीपव्यजनातपत्त्रमुकुरै ध्वजाश्च पताका, दीपश्चप्रदीप कलिका, व्यजनानि च तालवृतानि, आतपत्त्राणि च छत्राणि, मुकुराश्च दर्पणा ध्वजदी पव्यजनातपत्त्रमुकुरास्तै। पुनश्च कै। आपूर्णकुम्भोत्करै जलपूर्णघटसमूहै। पुनश्च कै। कुलवधूगीतप्रसाद्यै कुलवधूना कुलस्त्रीणा यानि गीतानि गानानि तै प्रसाद्यानि प्रसन्नीकरणीयानि प्रसन्नीभूतानि ईदृग्विधै वाद्यैरपि वादित्रैरपि जातमङ्गलरव। समुच्चयालकार॥

** यावदित्यादि।** हे क्षितिपाल हे यशोधरमहाराज, त्व भवान् कामितैर्मनोवाञ्छितै कृत्वा जातोत्सव समुत्पन्नानन्द सन् साम्यभाजात्मना स्वर्गादिसमानेन आत्मना जीवेन सह एतेषा स्वर्गादीना द्विगुणीकृतोदयजय द्विगुणीभूतजयोदय सन् महीं पालय भूमण्डलस्य रक्षा कुरु। तावत्कियत्। यावत् द्यौ स्वर्ग उर्व(म)न्तरिक्ष वा वर्तते, यावत्काल अवनि पृथ्वी वर्तते, यावत्काल कुलावनिभृत पर्वता वर्तन्ते, यावत्काल शेषो धरणेन्द्रो वर्तते, यावत्काल पयोराशय समुद्रा वर्तते, यावत्काल सूर्य श्रीभास्करो वर्तते, यावत्काल शीतरुचिश्चन्द्रमा वर्तते, याबत्काल दिश पूर्वादयो वर्तन्ते, यावत्काल सुरपतिर्देवेद्रो वर्तते, यावत्काल सर्गै सह त्रिभुवनै सह ब्रह्मा विरञ्चिश्चिरजीवो वा वर्तते। दीपकालकार॥

** योषा इत्यादि।** हे नृप, तव प्रयाणे राजधानी प्रति गमनप्रारम्भे समुखा समुखायाता स्युभवेयु। का। योषा स्त्रिय। कथभूता। सुभूषा शोभनवस्त्राभरणमण्डिता। करिणो हस्तिनश्च। कथभूता। प्रशस्ता गजपरीक्षाशास्त्रवर्णितलक्षणा। नराश्चपुरुषा। कथभूता। रत्नाम्बरहेमहस्ता रत्नानि च माणिक्यानि अम्बराणि च वस्त्राणि हेम च सुवर्ण तानि हस्तानि येषा ते तथोक्ता। एतानि पूर्वोक्तानि वस्तूनि कथभूतानि। महीपतीना नरेन्द्राणा प्रादेशनानीव प्राभृतकानीन्न। उपमालकार॥

भूयाद्गन्धवहै सार्धमनुलोमोऽर्कनन्दन।
तथातोद्यै सम नन्द्याद्दधिवक्त्रकलखन॥२३२॥

गजस्यास्येव शौण्डीरवदान्यद्विषतामपि।
निदधातु पद मूर्ध्नि देव सर्वजगत्पति॥२३३॥

अपि च ।

ब्रह्मन्नाहवजैत्रमन्त्रसुभगास्तूर्ण कुरु व्याहृती-
र्द्रागिन्द्र प्रहिणु द्विषा विजितये दिव्यास्त्रतन्त्र रथम्।
दिक्पाला पुनरेव सत्वरममी देवस्य सेवाविधा-
वित्थ पार्थिवनाथ कत्थनपर शङ्खध्वनिर्जृम्भताम्॥२३४॥

————————

भूयादित्यादि। हे राजन्, तव प्रयाणे सजायमाने सति अर्कनन्दन काक गन्धवहै वायुभि सार्धअनुलोम सानुकूल समुखवपु (१) पृष्ठगामी भूयात्। तथा तेनेव प्रकारेण आतोद्यैर्हस्तवाद्यै सम सार्ध दधिवक्त्रोगर्दभ कलस्वनो मधुर शब्दो नन्द्यात् समृद्धिकारको भूयात्। सहोक्त्यलकार॥

** गजस्येत्यादि।** देव श्रीयशोधरमहाराज शौण्डीरवदान्यद्विषतामपि शौण्डी रास्त्यागविक्रमाभ्या विश्रुता वदान्या प्रियवाग्दानशीलास्ते च ते द्विषन्त शत्रवस्तेषां शौण्डीरवदान्यद्विषता मूर्ध्नि मस्तके पद चरण निद्धातु धरतु। कस्येव। अस्य गजस्येव यथा गजस्य मस्तके पद निद्धाति देवस्तथा शत्रूणामपि। कथभूतो देव। सर्वजगत्पति आसमुद्रान्तपृथ्वीपति। उपमालकार॥

** अपि च। ब्रह्मन्नित्यादि।** हे पार्थिवनाथ राजाधिराज श्रीयशोधरमहाज, इत्थममुना प्रकारेण कत्थनपर सूचनपर शङ्खध्वनि शङ्खनादो जृम्भता प्रसरतु। इत्थ कथमिति चेत् हे ब्रह्मन् हे विधात, त्व तूर्ण शीघ्र व्याहृतीर्वेदध्वनीन् कुरु विधेहि। कथभूता व्याहृती। आहवजैत्रमन्त्रसुभगा आहवस्य सग्रामस्य जैत्रा जयनशीला ये मन्त्राचत्वारिंशदध्यायोक्तकाण्ड्या मन्त्रा उच्यन्ते अथवणमन्त्रा वा, तै सुभगा हृदयप्रिया। पुनश्च कि कथयति शङ्खध्वनि। हे इन्द्र, द्राक्शीघ्र त्व रथ प्रहिणु स्यन्दन प्रस्थापय प्रेषय। किमर्थम्। द्विषा शत्रूणा विजितये जयनाय। कथभूत रथम्। दिव्यास्त्रतन्त्रम् दिव्यानि देवताधिष्ठितानि यान्यस्त्राणि आयुधानि तेषा तन्त्र साधन यत्र रथे स तथा तम्। उक्त च—‘तन्त्र शास्त्र कुल तन्त्र तन्त्र सिद्धौषधिक्रिया। तन्त्र सुख बल तन्त्र तन्त्र पाठनसाधनम्॥’ पुनश्च कि सूचयति शङ्खध्वनि। हे दिक्पाला, पुनर्वारवारं सत्वर शीघ्र अमी प्रत्यक्षीभूता एत आगच्छत यूयम्। किमर्थम्। देवस्य श्रीयशोधरमहाराजस्य सेवाविधौ इसनिकाविधाने। उत्प्रेक्षालकार॥

उत्तालै कर्णतालै किमिदमिति मनोव्याकुल दिक्करीन्दै
प्रत्याक्षिप्तार्वगर्वस्खलितकरयुग सादिना भास्करस्य।
सद्य सत्रस्तकान्तापरिचयचटुलैर्य श्रुत सिद्धसार्थै
स स्ताद्दिक्पालसेवावसरविधिकरस्तूरघोषस्तवायम्॥२३५॥

पुलोमात्मजानुगत सुरपतिरिवैरावण तयामृतमतिमहादेव्या सहारुह्यत कुञ्जरेश्वरममरतरुप्रसूनमञ्जरीभिरिवोभयतकामिनीकरवलयमणिमरीचिमेचकरुचिभिश्चामरपरम्पराभिरुपसेव्यमान कौमुदीचन्द्रमण्डलविलासिनातपत्त्राभोगेनाम्बरसरसि परिकल्पितापरापरप्रदेशोद्दण्डपुण्डरीकानीक सेवाग-

————————

** उत्तालैरित्यादि।** हे राजन्, स जगत्प्रसिद्ध अय प्रत्यक्षीभूतस्तव भवत स्तूरघोषो वाद्यध्वनि दिक्पालसेवावसरविधिकर स्तात् दिक्पालाना नरेद्राणा सेवावसरविधिं सेवाप्रस्तावविधान करोति सूचयति इति दिक्पालसेवावसरविधिकर स्तात् भवतु। स क। तद्यदोनित्यसबन्धत्वात् यस्तूरघोष श्रुत आकर्णित। कैराकणित। दिक्करीन्दै दिग्गजेन्द्र। कै कृत्वा श्रुत। कर्णतालै कर्णतालपत्त्रै। कथभूतै कर्णतालै। उत्तालैरुस्सुकै (?)। कथ श्रुत। इति अमुना प्रकारेण व्याकुल विह्वल मनो यथा भवत्येवम्। इतीति किम्। इद कि किमेतद्गर्जतीति। पुनश्च तूरघोष केन श्रुत। भास्करस्य श्रीसूर्यस्य सादिना सारथिना। कथ श्रुत। प्रत्याक्षिप्तार्वगर्वस्खलितकरयुग प्रत्याक्षिप्तो विध्वसितोऽर्वता सप्ताश्वाना योऽसौ गर्वस्तेन स्खलितमक्कृताकर्षण करयुग यथा भवत्येवम्। नश्यतोऽश्वान् करयुगेन सा[दी]धर्तु नाशकृदित्यर्थ। पुन कै श्रुत। सिद्धसार्थै विद्याधरसमूहै। कथभूतै सिद्धसार्थै। सद्य सत्रत्तकान्तापरिचयचटुलै सद्यस्तत्काल सत्रस्ता भय प्राप्ता या कान्ता देवविशेषभार्यास्तासा परिचयेन सगल्या चटुला पलायितु चपला सद्य सत्रस्तकान्तापरिचयचटुलास्तै। हेत्वलकार॥

** पुलोमेत्यादि।** कि कृत्वा पूर्व राजधानीमनु प्रत्याववृते। त उदद्यगिरिनाम धेय कुञ्जरेश्वर यागहस्तिन तया श्रीमतीपतिश्रीधर्मनृपतिनन्दनया अमृतमतिमहादेव्या सह आरुह्य आरोहण कृत्वा। अह कथभूत प्रत्याववृते। सुरपतिरिव देवेन्द्र इव। यथा सुरपति पुलोमात्मजानुगत शचीसहित ऐरावणमारोहति। पुन कथभूतोऽह प्रत्याववृते। उभयतो द्वयो पार्श्वयोर्हस्तिन्यारूढकामिनीना करैश्चामरपरम्पराभिरुपसेव्यमान चमरीरुहश्रेणिभिर्वीज्यमान। कथभूताभि चामरपरम्प राभि। कामिनीकरवलयमणिमरीचिमेचकरुचिभि कामिनीना वारस्त्रीणा करवलयमणीना करकङ्कणरत्नाना मरीचिभि किरणैर्मेचकरुचिभि श्यामलतेजोभि। उक्त च - ‘कृष्णेऽन्धकारे मायूरचन्द्रके श्यामलेऽपि च। मेचक कव्यते विद्भिश्वतुर्ष्व

तानेकमहासामन्तमुकुटमाणिक्योन्मुखमयूखशेखरिताञ्चलपल्लवैर्विचित्ररत्नरचितकाण्डकोटिभि विविधाकृतिपताका-दुकूलैरपरामिय दिव भुव चान्तरा त्रिदिवद्रुमोद्यानश्रिय विस्तारयन् जय जीव राज नन्द वर्धस्वेत्यादिबन्दिवृन्दालापबहलमूलेन वेणुवीणानुगताङ्गनागीतपल्लवितवृत्तिना स्खलत्खली-

————————

र्थेषु योजित॥’ कथभूताभिश्चामरपरम्पराभि। अमरतरुप्रसूनमञ्जरीभिरिव कल्पवृक्षपुष्पवल्लरीभिरिव। पुन कथभूत प्रत्याववृते। आतपत्त्राभोगेन छत्राडम्बरेण अम्बरसरसि आकाशसरोवरे परिकल्पिता परापरप्रदेशोद्दण्डपुण्डरीकानीक परिकल्पितानि अपरापरप्रदेशेषु सर्वत्र उद्दण्डानि उन्नतानि पुण्डरीकाणा श्वेतकमलाना अनीकानि समूहा यस्य स तथोक्त। कथभूतेन आतपत्राभोगेन। कौमुदीचन्द्रमण्डलविलासिना कौमुदीचन्द्रमण्डलवत् ज्योत्स्नासयुक्तचन्द्रबिम्बवत् विलसनशीलेन। कि कुर्वन्नह प्रत्याववृते। विविधाकृतिपताकावुकूलै कृत्वाअनेकाकारध्वजवस्त्रै कृत्वा दिव भुव चान्तरा यावाभूम्योर्मध्ये अपरा द्वितीया त्रिदिवद्वमोद्यानश्रिय कल्पवृक्षवनलक्ष्मी विस्तारयन्निव। कथभूतैर्विविधाकृतिपताकादुकूलै सेवागतानेक- महासामन्तमुकुटमाणिक्योन्मुखमयूखशेख रिताश्ञ्चलपल्लवै सेवायामाराधनायामागता उ पढौकिता ये अनेके बहवो महासामन्ता देशपतयस्तेषा मुक्कुटाना सबन्धीनि माणिक्यानि रत्नानि तेषामुन्मुखा ऊर्ध्वाग्रा ये मयूखा किरणास्तै शेखरितानि मुकुटवन्ति कृतानि अञ्चलपल्लवानि वस्त्रप्रान्तप्रवालानि येषा पताकाडुकूलाना तानि तथोक्तानि तै। पुन कथभूते पताकादुकूलै। विचित्ररत्न्नरचित काण्डकोटिभिविचित्रैर्नानाप्रकारै श्वेतपीतहरिता रुणकृष्णै रत्नैर्माणिक्यै रचिता जदिता काण्डकोटयो दण्डाग्राणि येषा तानि तथा तै। पुनरपि कथभूतोऽह प्रत्याववृते। दुन्दुभीना पटहाना खनेन ध्वनिना आनन्दितनिखिलभुवन हर्षप्रापितसमस्तपृथ्वीमण्डलजन। कथभूताना दुन्दुभीनाम्। प्रक्षोभिताम्भोधिनाभीना प्रक्षोभिता सचालिता अम्भोधे समुद्रस्य नाभिर्मध्यप्रदेशो यैदुन्दुभिभिस्ते प्रक्षोभिताम्भोनिधि नाभयस्तेषाम्। कथभूतेन खनेन। जय जीव राज नन्द वर्धस्वेत्यादिबन्द्विन्दाला पबहलमूलेन हे देव, त्व जय सर्वोत्कर्षेण प्रवर्तस्व। हे देव, जीव त्व दीर्घायुर्भव। हे देव, त्व राज दीप्तिमान् भव। हे देव, त्व नन्द समृद्धिं प्राप्नुहि। हे देव, त्व वर्धस्वपुत्रपौत्रशाखाधनधान्यादिभिर्वृद्धिं प्राप्नुहि। इति इदृक् आशिष आदिर्येषामालापा नाम्। आदिशब्दात् शत्रून् क्षय इत्यादय। ये बन्दिवृदाना स्तुतिपाठकसमूहाना ये आलापा आशीर्वादवचनानि तैर्बहल स्थूल मूल प्रथमारम्भो यस्य दुन्दुभिस्वनस्य स, तथोक्तस्तेन। पुन कथभूतेन दुन्दुभिस्वनेन। वेणुवीणानुगताङ्गनागीतपल्लवितवृत्तिना वेणवश्चसच्छिद्रवशा वीणाश्च विपश्चिकास्तासामनुगतानि मिश्रितानि यानि

नाननहयह्रेषाघोषघस्मरेण मदमन्दिमोड्डमरगण्डमण्डलशुण्डालगलनालनादसान्द्रश्रुतिना दिक्पालपुरप्रासादपालीप्रवेशमासलेन वेलाचलकुलगुहासङ्गसजातमन्थरिम्णा प्रक्षोमिताम्भोधिनाभीना दुन्दुमीना स्वनेनानन्दितनिखिलभुवनस्ता मन्दाक्षितामरावतीरामणीयका राजधानीमनु किल तदाह प्रत्याववृते।

तत सैन्यसीमन्तिनीचरणप्रणिपातप्रणयिमानसाप्रणीतप्रसृतासवाहनविनोदकर्माण कृतनितम्बस्थलीखेलखेदा सजनितनाभिदरकुहरविहरणा

————————

अङ्गनाना स्त्रीणा गीतानि गानानि तै पल्लविता सप्तस्थाने वृद्धिं गता वृत्तिर्मूर्च्छना यस्य स तथोक्तेन। पुन कथभूतेन स्वनेन। स्खलत्खलीनाननहयह्रेषाघोषघस्मरेण स्खलन्ति क्षुभ्यन्ति यानि खलीनानि कदिकास्तैरुपलक्षितानि आननानि मुखानि येषा ते स्खलत्खलीनाननास्ते च ते हयातुरङ्गमास्तेषां ह्रेषा शब्द‌विशेषा ध्वनय तेषा घस्मर सर्वभक्षको विलोपक इत्यर्थस्तेन। पुन कथभूतेन स्वनेन। मदमन्दिमोड्डमरगण्डमण्डलशुण्डालगलनालनादसान्द्रश्श्रुतिना मदस्य दानस्य मन्दिमा प्राचुर्य तेन नादा शब्दास्तै सान्द्रा द्विगुणीकृता श्रुति शब्दो यस्य दुन्दुभिस्वनस्य स तथा तेन। पुन कथभूतेन दुन्दुभिस्वनेन। दिक्पालपुरप्रासादपालीप्रवेशमासलेन दिक्पालानामिद्रादीना यानि पुराणि नगराणि तेषु ये प्रासादा देवगृहास्तेषा पाल्यो वेदिका कपि शीर्षरहितप्राकारास्तासा प्रवेशेन भित्त्वा मध्यगमनेन मासल। स्थूल इति यावत्। तेन। पुन कथभूतेन दुन्दुभिस्वनेन। वेलाचछकुलगुहासङ्गसजातमन्थरिम्णा वेलाचलाना समुद्रतटपर्वताना कुलानि समूहास्तेषा गुहा कन्दरास्तासा सङ्गेन मध्य देशेन सजात उत्पन्नो मन्थरिमा मन्दगामित्व प्राचुय यस्य स तथा तेन। कथभूता राजधानीम्। मन्दाक्षितामरावतीरामणीयका मन्दाक्षिता ह्रेषिता लज्जा प्रापिता अमरावत्या इन्द्रनगर्या रामणीयक रमणीयत्व यस्या सा मन्दाक्षितामरावतीरामणीयका ता तथोक्ताम्।

ततस्तदनन्तर बलसचरणरेणव सैन्यगमनरजासि व्यजृम्भन्त प्रसस्रुप्रसृता प्रसरन्ति स्म। कथभूतास्ते बलसचरणरेणव। प्रियतमा इव स्त्रीणा भर्तार इव। कथभूता रेणव। सैन्यसीमन्तिनीचरणप्रणिपातप्रणयिमानसाप्रणीतप्रसृतासवाहनविनोदकर्माण सैन्यान्येव सीमन्तिन्य कमनीयकामिन्य आदेशकारकत्वात् तासा चरणा पादास्तेषा प्रणिपातेषु पादपतनेषु प्रणयीनि स्नेहवन्ति यानि मानसानिचित्तानि तैराप्रणीतमासमन्तात् प्रसृत उत्कृष्ट वृद्धिगत आसंवाहनविनोदकर्म पादस-

प्रतिपन्नवालिवहिनीजलक्रीडा परिमलितस्तनस्तम्बडम्बरा परिपीताधरामृतलावण्या परिक्लिष्टनयनकमलकान्तय समाचरितसीमन्तप्रान्तचुम्बना सूत्रितसुरतसमागमा प्रियतमा इव, पुनरमरसुन्दरीवदनचन्द्रकवला ककुबङ्गनालकप्रसाधनपिष्टातकचूर्णाश्चतुरुदधिवेलावनदेवता-पटवासा पुनरु-

————————

मर्दनक्रीडाकर्म यै रेणुभि ते तथोक्ता। भर्तृवत् पूर्वपादेषु लग्ना इत्यर्थ। पुन कथभूता रेणव। कृतनितम्बस्थलीखेलखेदा कृतो विहित नितम्बस्थलीषु कटि पश्चाद्भागप्रदेशेषु खेलै क्रीडाभि खेदो दुख विषादो वा येस्ते तथोक्ता। यथा भर्तार स्त्रीणा नितम्बस्थलीषु घातै प्रहारै खेदमुत्पादयन्ति। पुन कथभूता रेणव। सजनितनाभिदरकुहर विहरणा सजनितानि सम्यगुत्पादितानि नाभिदरकुहरेषु तुन्दीविवरगह्वरेषु विहरणानि पर्यटनानि यैस्ते तथोक्ता। यथा प्रियतमा भर्तार स्त्रीणा नाभिदरकुहरेषु विहरणानि कुर्वन्ति। पुन कथभूता रेणव। प्रतिपन्नवलिवाहिनीजलक्रीडा प्रतिपन्ना अङ्गीकृता वलिवाहिनीषु त्रिवलीनदीषु जलक्रीडा उदकक्रीडा उदकक्रीडनानि यैस्ते तथोक्ता। यथा भर्तार स्त्रीणा त्रिवलीनदीषु जलक्रीडा कुर्वन्ति। पुन कथभूता रेणव। परिमलितस्तनस्तम्बडम्बरा परिमलिता समन्ता मर्दिता स्तनस्तम्बाना कुचतटानामाडम्बरा आटोपा यैस्ते तथोक्ता। यथा भर्तार स्त्रीणा स्तनस्तम्बाना मर्दनाडम्बरान् कुर्वन्ति। पुन कथभूता रेणव। परिपीताधरामृतलावण्या परिपीता आस्वादिता अधरामृतलावण्यानि ओष्ठपीयूषकान्तयो यैस्ते तथोक्ता। यथा भर्तार स्त्रीणाम् अधरा मृतलावण्यानि पिबन्ति। पुन कथभूता रेणव। परिक्लिष्टनयनकमलकान्तय परिक्लिष्टा मलिनीकृता नयनकमलाना लोचनविषयप्रसूताना कान्तयो रुचयो येस्ते तथोक्ता। यथा भर्तार स्त्रीणा नयनकमलका तीर्लोचनकमलरुचीर्लोचनचुम्बनेन मलिनयन्ति। पुन कथभूता रेणव। समाचरितसीमन्तप्रान्तचुम्बना समाचरित सम्यगनुष्ठित सीमन्तप्रान्तेषु केशपाशेषु चुम्बनानि स्पर्शानि यैस्ते तथोक्ता। यथा भर्तार स्त्रीणा सीमन्तप्रान्तेषु चुम्बनानि वक्त्रसयोगानि कुवन्ति। कथभूता प्रियतमा। सूत्रितसुरतसमागमा सूत्रित सूचित सुरतस्य सभोगकीडाया समागमोऽवसरो यैस्ते सूत्रित सुरतसमागमा। पुन कथभूता वलसचरणरेणव। पुन पुनरपि अमरसु दरीवदनचन्द्रकवला अमरसुन्दरीणा देवाङ्गनाना वदनाना मुखाना च द्रकवला मुखमण्डनप्राया।पुन कथभूता रेणव। ककुबङ्गनालकप्रसाधनपिष्टातकचूर्णा ककुभो दिश एवाङ्गना ललना तस्या अलकप्रसाधन केशसुगन्धीकरण तदर्थं पिष्टातकचूर्णं पटवासचूर्णानीव चतुरुदधिवेलावनदेवतापटवासा चत्वारश्च ते उदधय समुद्रास्तेषा वेलावनेषु तटवनेषु या देवतास्तासा पटवासा वस्त्रसुगन्धीकरणचूर्णानीव। पुन कथभूता रेणव। पुनरुक्त-

पुन करिकदलिकानिकरनिरस्तातपप्रसरा परस्परमिलल्पताकापटप्रतानविहितवितानाडम्बरा ससरम्भसचरद्रथकठ्योड्डमरपासवकरटिकटस्यन्दमानमदजलजनितकर्दमास्तुरगवेगस्वरस्वुरक्षोदनिबिडभूमय करभक्रमसपातमसृणतला पदश्रमश्रान्तसीमन्तिनीधनधर्मजलगलद्धुसृणरस-प्रसाधितसमार्जना सेनाङ्गनास्तनक्षोभविभ्रश्यन्मुक्ताभरणमणिरचितरङ्गवल्या पुरोपवन-देवताप्रकीर्णकुसुमोपहारा समजनिषत सभाकुट्टिमादपि मनोहरा, प्रयाणमार्गा।

————————

पुन पुनरपि सभाकुट्टिमादपि आस्थानिकाया बद्धभूमेरपि अधिकमनोहरा प्रयाणमार्गा गमनमार्गा समजनिषत सजायन्ते स्म सजाता। कथभूता प्रयाणमागा। करिकदलिकानिकरनिरस्तातपप्रसरा करिणा गजाना कदलिकाना ध्वजपिच्छाना मयूरपिच्छच्छत्राणा निकरै समूहै निरस्तो विध्वसित आतपप्रसरो धर्मप्रवृत्तिर्येषा प्रयाणमागाणा ते तथा। पुन कथभूता प्रयाणमागा। परस्परमिलत्पताकापटप्रतानविहितवितानाडम्बरा परस्परमन्योन्य मिलन्त आश्लिष्यन्त पताकापटाना ध्वजवस्त्राणा प्रताना समूहास्तैर्विहित परिकल्पितो वितानाना चन्द्रोपकाना आडम्बर आटोपो येषु ते तथोक्ता। पुन कथभूता प्रयाणमार्गा। ससरम्भसचरद्रथकट्योड्डमरपासव ससरम्भसोत्ताल सचरन्त्यो रथकट्या स्यन्दनसमूहास्तासा उड्डमरा उत्कटा स्थूला पांसवो धूलयो येषु ते तथोक्ता। पुन कथभूता प्रयाणमार्गा। करटिकटस्यन्दमानमदजलजनितकर्दमा करटिना गजाना कटेभ्यो गण्डस्थलेभ्य स्यन्दमानानि श्रोतन्ति यानि मदजलानि दानोदकानि तैजनित उत्पादित कर्दमो निषद्वरो येषु मार्गेषु ते तथोक्ता। पुन कथभूता प्रयाणमार्गा। तुरगवेगखरखुरक्षोदनिबिडभूमय तुरगाणा अश्वाना वेगेनोपल क्षिता खरा कठिना लोहटङ्कसदृशा ये खुर पादप्रान्तास्तेषा क्षोदै सक्षेप(पेष)णैर्निबिडा बद्धजाला(ता)भूमिर्येषा ते तथोक्ता। पुन कथभूता प्रयाणमार्गा। करभक्रमसपातमस्सृणतला करभा क्रमेलकास्तेषा क्रमाणा पादाना सपातैर्मसृणानि श्लक्ष्णानि दर्पणसदृशानि तलानि उपरितनभागा येषा प्रयाणमार्गाणा ते तथोक्ता। पुन कथभूता प्रयाणमार्गा। पदश्रमश्रान्तसीमन्तिनीघनधर्म जलगलगुसृणरसप्रसाधितसमार्जना पदस्य मार्गस्य श्रम खेदस्तेन श्राता खेद प्राप्ता या सीमन्तिन्यो नवयोवना स्त्रियस्तासा घन प्रचुरं यत् घर्मजल प्रखेदोदक तेन गलन्नध पतन् योऽसौ घुसृणरस कुङ्कुमद्रवस्तेन प्रसाधित कृत समार्जन छटको येषा मार्गाणा ते तथोक्ता। पुन कथभूता प्रयाणमार्गा। सेनाङ्गनास्त नक्षोभविभ्रश्यन्मुक्ताभरणमणिरचितरङ्गप्रचया(वलया)सेनाना सबन्धिन्यो या अङ्गना स्त्रियस्तासा स्तना वक्षोजास्तेषां क्षोभेण सघटनेन विभ्रश्यन्तो ये मुक्ता मुक्ताफलानि आभरणमणयश्च सुवर्णाभरणरत्नानि तैरचिता निर्मिता रङ्गप्रचया (वलया) चतुष्कपूरणा येषा प्रयाणमार्गाणा ते तथोक्ताः। पुन कथभूता प्रयाणमार्गा।

ततोऽतिसविधसैन्यसमालोकनोत्तालविलासिनीसकुलसौधशृङ्गमावर्जितोत्सवसपर्यासङ्गमपहसितसुरमन्दिर पुरमवलोक्य हहो महाकविकाव्यकथावतस सरस्वतीविलासमानसोत्तसहस प्रादुरासन्किल तदा मन्मतिलतायास्त्वादृशजनश्रवणभूषणोचितविधय सूक्तिमञ्जर्य102। तथा हि—

नितम्बशोभा वलभीर्विधाय काञ्चीगुण तोरणपुष्पमाला।
ध्वजावलीर्लोलभुजा स्वय मे पुर पुरी नृत्तमिवातनोति॥२३६॥

————————

पुरोपवनदेवताप्रकीर्णकुसुमोपहारा पुरोपवनाना नगरोद्यानाना सबन्धिन्यो या वनदेवता कान्तारदेवतास्ताभि प्रकीर्णोऽविक्षिप्त कुसुमाना पुष्पाणा उपहार पूजन उपचयो वा येषा ते तथोक्ता। जात्यलकार॥

ततस्तदनन्तर हहो महाकविकाव्यकथावतस महाकवीना चिरंतनकवीश्वराणां काव्यकथा कवित्वरचनावतस कर्णपूर श्रवणाभरण यस्य स तथा तस्य सबोधन हे तथोक्त। हे सरस्वतीविलासमानसोत्तसहस सरस्वत्या भारत्या योऽसौ विलास क्रीडा स एव मानस मानससरोवर तस्योत्तसे तत्तीरप्रदेशे हसो मानसौका सरस्वतीविलासमानसोत्तसहसस्तस्य सबोधन क्रियते। हे तथोक्त श्रीमारदत्त महाराज।उक्त च — ‘आत्मा पक्षी मुनिर्धर्मसुरगोरावणो रवि। हस इत्युच्यते विद्भिरेते कार्यविचक्षणै॥’ किल निश्चयेन तदा तस्मिन् राजधान्यागमनकाले मन्मतिलताया मद्बुद्धिवल्ल्या(समृद्धे पत्न्या) सूक्तिमञ्जर्य सुवचनवल्लर्यप्रादुरासन् प्रादुर्बभूवु। कथभूता सूक्तिमञ्जर्य। त्वादृशजनश्रवणभूषणोचितविधय त्वादृशा जना भवत्सदृशा साधुलोका महान्त पृथ्वीपतयस्तेषा श्रवणानि शब्दग्रहास्तेषा भूषणे मण्डने उचितो विधि कर्तव्य यासा सूक्तिमञ्जरीणा तास्तथोक्ता। किं कृत्वा पूर्वं सूक्तिमञ्जर्य प्रादुरासन्। ‘अस् भुवि’ इत्यकर्मकधातो प्रयोगात् कर्तर्युक्ति। पुरमवलोक्य उज्जयिनीपत्तन दृष्ट्वा। कथभूत पुरम्। अतिसविधसैन्यसमालोकनोत्तालविलासिनीसकुलसौधशृङ्गम् अतिसविधानि अतिनिकटवर्तीनि यानि सैन्यानि कटकानि तेषा समालोकने सदर्शने उत्ताला उन्मुखा या विलासिन्यो मत्तकामिन्य। उक्त च – रूपयौवनसपन्ना नारी स्यान्मत्तकामिनी।’ ताभि सकुलानि व्याकुलानि (व्याप्तानि) सौधाना राजसदनाना शृङ्गाणि शिखराणि यस्य पुरस्य तत्तथोक्तम्। पुन कथभूत पुरम्। आवर्जितोत्सवसपर्यासङ्गम् आवर्जित कृत उत्सवसपर्याया ध्वजारोपणपट्टशालायाच्छादनशोभाया सङ्ग सगमो यस्य पुरस्य तत्तथोक्तम्। पुन कथभूत पुरम्। अपहसितसुरमन्दिरम्अपहसितानि तिरस्कृतानि सुरमन्दिराणि इन्द्रभवनानि येन पुरेण तदपहसितसुरमन्दिरम्॥ तथा हि। तान्येव सूक्तिवचनानि वर्णयति - नितम्बशोभामित्यादि। पुरी नगरी मे मम पुरो यत स्वयमात्मना नृत्त नर्तनमातनोतीव कुर्वतीच वर्तते। कि कृत्वा पूर्व

सौधाग्रभागेषु पुराङ्गनाना नीलोत्पलस्पर्धिभिरीक्षणैर्मे।
आनन्दभावादियमम्बरश्री पुष्पोपहाराय कृतादरेव॥२३७॥

गवाक्षमार्गेषु विलासिनीना विलोचनैर्मौक्तिकबिम्बकान्तै।
सदर्भितेय नगरी चकास्ति नक्षत्रकीर्णेव सुमेरुभूमि॥२३८॥

अमी पुरध्रीवदनै प्रकाम वातायना पूरितरन्ध्रभागा।
श्रिय वहन्तीव सर स्थलीना वीचीविभक्ताम्बुजषण्डभाजाम्॥२३९॥

मनोभवव्यालप्रबोधसुधोपलासारसुन्दरै कामदेवप्रासादसपादनसूत्रपातका-

————————

नृत्तमातनोति। वलभी पट्टलाधरा वशपञ्जरो वलभीत्युच्यते ता वलभी नितम्बशोभा विधाय स्त्रीकटीपश्चाद्भागो नितम्बस्तस्य शोभा कृत्वा। पुनश्च कि कृत्वा। पूर्व तोरणपुष्प माला काञ्चीगुण सजीनकलाप विधाय कृत्वा। पुनश्च कि कृत्वा। ध्वजावली पताका पङ्क्तीर्लोलभुजा चपलबाहुर्विधाय कृत्वा। रूपकोत्प्रेक्षालकार॥

सौधाग्रभागेष्वित्यादि। इय प्रत्यक्षीभूता अम्बरश्रीराकाशलक्ष्मीर्मेमम पुष्पो पहाराय कुसुमवर्षणाय कृतादरेव वर्तते। कस्मात्।आनन्दभावात् हर्षभरात्। कै कृत्वा पुष्पोपहार करोति। ईक्षणैर्लोचनै कृत्वा। कासामीक्षणै। सौधाग्रभागेषु स्थिताना पुराङ्गनाना नगरस्त्रीणा सबन्धिभिर्लोचनै। कथभूतै ईक्षणै। नीलोत्पलस्पर्धिभि इन्दीवराणा तिरस्करणशीलै। उपमोत्प्रेक्षालकार॥

गवाक्षमार्गेष्वित्यादि। इय नगरी गवाक्षमार्गेषु वातायनछिद्रेषु विलासिनीना स्त्रीणा विलोचनैर्नेत्रै सदर्भिता सयुक्ता चकास्ति शोभते। कथभूतैर्विलोचनै। मौक्तिकबिम्बकान्तै मौक्तिकाना मुक्ताफलाना बिम्बै प्रतिच्छायाभि कान्तैर्मनोहरै।नगरी कीदृशी चकास्ति। नक्षत्रकीर्णा तारामण्डलमण्डिता सुमेरुभूमिरिव मेरुपर्वतभूमिरिव। उपमालकार॥

अमीत्यादि। अभी प्रत्यक्षीभूता वातायना गवाक्षमागा पुरध्रीवदनै स्त्रीणा मुखै प्रकाम यथेष्ट पूरितरन्ध्रभागा आवृतप्रदेशा श्रिय शोभा वहन्ति धारयन्ति। कासा श्रिय वहन्ति। सर स्थलीनामिव सरोवरप्रदेशानामिव। कथभूताना सर स्थलीनाम्। वीचीविभक्ताम्बुजषण्डभाजाम् वीचीभिर्लहरीभि विभक्तानि विश्राणितानि चढितानि यान्यम्बुजानि कमलानि तेषा षण्डा समूहास्तान् भजन्ते आश्रयन्ति या सर स्थल्यस्ता वीचीविभकाम्बुजषण्डभाजस्तासाम्। कयभूतैरपाङ्गावलोकितै। मनोभवव्यालप्रबोधसुधोपलासारसुन्दरै मनोभव कन्दर्प स एव व्याल कालसर्पस्तस्य प्रबोधाय जागरणाय सुधोपलाना चन्द्रकान्तमणीना आसारो वेगवद्वषस्तद्वत् सुन्दरै मनोहरै चन्द्रकान्तदृषदृष्टिसदृशै। पुन कथभूतै। कामदेवप्रासादसपादनसूत्रपात -

न्तिभि प्रणयकलहसक्रीडनमृणालजालैरिवापाङ्गावलोकितै, पुनरुक्तेनेव लाजाञ्जलिवर्षेणात्मान फलार्थिनो लोकस्य कुसुमितमिव कुर्वन्नम्बरश्रीनृत्यहस्तैरिव पवमानचञ्चलचलनसगताङ्गसुभगवृत्तिभिर्विविधवर्णविनिर्माणमनोहराडम्बरैरन्तरान्तरामुक्तकल-क्वणन्मणिकिङ्किणीजालमालाभि महोत्सवपताकाशुकाञ्चलपल्लवै प्रत्यावर्तमानमार्तण्डकरप्रसरम्, गगनलक्ष्मीवक्षोजमण्डलैरिव स्वकीयकान्तिपिञ्जरितनभोभोगभित्तिभि काञ्चनकलशै परिकल्पिताभ्रलिहशिखरिशिखरपरम्पराशोभम्, त्रिदिवदीर्घिकातरङ्गैरिवेतस्तत

————————

कान्तिभि कामदेव कन्दर्प स एव प्रासादस्तस्य सपादने उत्पादने सूत्रपातकान्तिभि सूत्रारोपणसदृशै। पुन कथभूतै। प्रणयकलहसक्रीडनमृणालजालै प्रणय स्नेह स एव क्लहसो राजहसस्तस्य क्रीडने रमणे मृणालजालैरिव पद्मिनीकन्दसमूहैरिव। कथभूत त्रिभुवनतिलक नाम राजसदनम्। महोत्सवपताकाशुकाञ्चलपल्लवैप्रत्यावर्तमानमार्तण्डरप्रसरम्। महोत्सवस्य पताकाशुकाञ्चलपल्ल्वै वस्त्रप्रान्तप्रवालै प्रत्यावर्तमान पराङ्मुखीक्रियमाणो मार्तण्डस्य सूर्यस्य करप्रसर किरणप्रवृत्तिर्यत्र राजसदने तत्प्रत्यावर्तमानमार्तण्डकरप्रसरम्। कथभूतैर्महोत्सवपताकाशुकाञ्चलपल्लवे। अम्बरश्रीनृत्यहस्तैरिव अम्बरश्रीराकाशलक्ष्मीस्तस्या नृत्यहस्तैर्नर्तनकरैरिव। पुन कथभूतैर्महोत्सवपताका शुकाञ्चलपल्लवे। पवमानचञ्चलचलनसगताङ्गसुभगनृत्तिभि चञ्चलचलनसगताङ्गसुभगा अतिमनोहरा वृत्ति प्रवृत्तिर्येषा अशुकपल्लवाना ते तथोक्तास्तै। पुन कथभूतैर्महोत्सवपताकाशुकाञ्चलपल्लवै। विविधवर्णविनिर्माणमनोहराडम्बरै विविधवर्णविनिर्माणेन पञ्चवर्णरचनया मनोहरो हृदयगमो आडम्बर आटोपो येषा पताकाशुकाञ्चलपल्लवाना ते तथोकास्तै। पुन कथभूतैर्महोत्सवपताकाशुकाञ्चलपल्लवै। अन्तरान्तरामुक्तकलक्वणन्मणिकिङ्किणी जालमालाभि अन्तरे अन्तरे मध्ये मध्ये आमुक्ता कला मधुरशब्दा क्वणन्त्य शब्दा यमाना या मणिकिङ्किण्यो रत्नजटितसुवर्णक्षुद्रघण्टिकास्तासा जालमाला समूहश्रेणिर्विद्यते येषा ते तथा तै। पुन कथभूत त्रिभुवनतिलक नाम राजसदनम्। काञ्चनकलरौ शात कुम्भै परिकल्पिताभ्रलिहशिखरिशिखरपरम्पराशोभम् परिकल्पिता रचिता अम्रलिहशिखरिणा उन्नतपर्वताना शिखराणा शृङ्गाणा परम्पराणा श्रेणीना शोभा आभा यत्र राजसदने तत्तथोक्तम्। कथभूतै काञ्चनकलशै। गगनलक्ष्मीवक्षोजमण्डलैरिव स्वकीयकान्तिपिञ्जरितनभोभोगभित्तिभि स्वकीयकान्तिभिर्निजप्रभाभि पिञ्जरिता पीतरकीकृता नभोभोगभित्तय आकाशप्रदेशकुड्या यैस्ते तथा तै। पुन कथभूत राजसदनम्। इतस्तत प्रधावद्धि इतस्ततो यत्र तत्रप्रधावद्भि प्रगच्छद्भि सुधादीधितिप्रबन्धै श्वेतद्रव्य- किरणप्रसरसमूहैर्धवलिताखिलदिग्वलय धवलित उज्ज्वलीकृतमखिल समग्र दिग्वलय दिङ्मण्डल येन तत्तथोक्तम्। कथभूतै सुधादीधितिप्रबन्धै। त्रिदिवदीर्घिकातरङ्गैरिव गङ्गा

प्रधावद्भि सुधादीधितिप्रबन्धैर्घवलिताखिलदिग्वलयम्, अहीश्वरवेश्मदेवताविलासदोलाभिरिव रत्नमयस्तम्भावलम्बितमुक्ताप्रलम्बप्रबलप्रवालानेकदिव्यदुकूलसदोहाभिरुपरितनदेशोत्तम्भितध्वजप्रान्तप्रोतमरकतमणिमुकुन्दकिरणहरिताङ्कुरप्रलोभमन्दितधुमणिरथतुरगवेगाभिरुत्तुङ्गोत्तरङ्गतोरण-पङ्किभि प्रकाशित कुबेरपुरीरामणीयकाव-तारम्, महामण्डलेश्वरैरनवरतमुपायनीकृतकरीन्द्रमदलक्ष्मीजनितसमार्जनम्,उपाहूताजानेययाननोद्गीर्णडिण्डीरपिण्डपुण्डरीकविहितोपहारम्, अनेकप्रहितदूतहस्तविन्यस्तवस्तुविरचितरङ्गा-

————————

नदीकल्लोलैरिव। पुन कथभूत राजसदनम्। उत्तुङ्गोत्तरङ्गतोरणपङ्क्तिभि प्रकाशितकुबेरपुरीरामणीयकावतारम् प्रकाशित प्रकटीकृत कुबेरस्य धनदस्य पुर्या अलकाया रामणीयक अतिमनोहर अवतारो रचनाविशेषो येन राजसदनेन तत्तथोक्तम्। कथभूताभिस्तोरणपङ्क्तिभि। अहीश्वरवेश्मदेवताविलासदोलाभिरिव अहीश्वरस्य शेष- नागस्य वेश्मदेवताया विलासदोलाभिरिव क्रीडाप्रेङ्खाभिरिव। पुन कथभूताभिस्तोरणपङ्किभि। रत्नमयस्तम्भावलम्बितमुक्ताप्रलम्बप्रबलप्रवालानेकदिव्यदुकूलसदोहाभि रत्नमयस्तम्भेषु माणिक्यघटितस्तम्भेषु अवलम्बितानि आमुक्तानि यानि मुक्ताप्रलम्बानि मुक्ताफलानि दीर्घमाला तथा प्रबला स्थूला ये प्रवाला विद्रुमास्तथा अनेकानि दिव्यानि अमानुषाणि दुकूलानि वस्त्राणि तेषा सदोहा समूहा यासु तोरणपङ्तिषुतास्तथा ताभि। पुन कथभूताभिस्तोरणपतिभि। उपरितनदेशात्तम्भितध्वजप्रान्तप्रोत मरकतमणिमुकुन्दकिरणहरिताङ्कुर प्रलोभमन्दितद्युमणिरथतुरग वेगाभि उपरितनदेशेषु प्रान्तप्रदेशेषु उत्तम्भिता बद्धा ये ध्वजा पताकास्तेषा प्रान्तेषु प्रोता प्रवेशिता ये मरकतमणय त एव मुकुरन्दा हरितरत्नदर्पणास्तेषा किरणहरिताङ्कुरा रश्मिनीलप्ररोहास्तेषा प्रलोभेन आकाङ्क्षया मन्दितोऽल्पीकृतो द्युमणे श्रीसूर्यस्य रथस्य स्यन्दनस्य तुरगाणा घोटकाना वेगो रयो याभिस्तोरणपङ्क्तिभिस्तास्तथा ताभि। पुन कथभूत राजसदनम्। महामण्डलेश्वरैर्महासामन्तैरनवरत निरन्तर उपायनीकृतकरीन्द्रमदलक्ष्मीजनितसमार्जन उपायनीकृता प्राभृतीकृता उपढौकिता ये करीन्द्रा गजनायकास्तेषा मदलक्ष्मीसपद्भिर्जनितमुत्पादित समार्जन सेचन छटको यत्र राजसदने तत्तथोक्तम्। पुन कथभूत राजसदनम्। उपाहूताजानेयहयाननोद्गीर्णडिण्डीरपिण्डपुण्डरीकविहितोपहारम् उपाहूता उपढौकिता ये आजानेयहया कुलीनाश्वास्तेषामाननैर्मुखैरुद्वीर्णा उद्वाता ये डिण्डीरपिण्डा फेनराशयस्त एव पुण्डरीकानि महोत्पलानि श्वेतकमलानि तैर्विहित कृत उपहार पूजन यत्र राजसदने तत्तथोक्तम्। पुन कथभूत राजसदनम्। अनेकप्रहितदूतहस्तन्यस्तवस्तुविरचितरङ्गार्चनम् अनेके बहव प्रहिता परै राजभि प्रेषिता ये दूता वचोहरास्तेषा हस्तेषु पाणिषु विन्यस्तानि आरोपितानि यानि वस्तूनि

र्चनम्, अवसर्पितवारविलासिनीसचरणवाचालतुलाकोटिक्कणिताकुलितविनोदवारलम्।

किं च प्रजापतिपुरमिवाप्यदुर्वासोधिष्ठितम्, पुरदरागारमिवाप्यपारिजातम्, चित्रभानुभवनमिवाप्यधूमश्यामलम्, धर्मधाम इवाप्यदुरीहितव्यवहारम्, पुण्यजनावासमिवाप्यराक्षसभावम्, प्रचेत पस्त्यमिवाप्यजडाशयम्,

————————

रत्नकनकपट्टदुकूलादीनि तैर्विरचितरङ्गार्चनमप्रभूमिपूजन यस्य त्रिभुवनतिलकसदनस्य तत्तथोक्तम्। पुन कथभूत राजसदनम्। अवसर्पितवारविलासिनीसचरणवाचालतुलाकोटिक्कणिताकुलितविनोदवारलम् अव समन्तात्सर्पिता प्रसृता या वारविलासिन्यो वारो वेलासमयस्तद्विलासिन्यो वारविलासिन्यो वेश्याजनास्तासा सचरणेन प्रवेशेन वाचाला ये तुलाकोटयो नूपुराणि तेषा क्वणितै शब्दितैराकुलिता विह्वलीभूता विनोदवारला क्रीडाहस्यो यत्र राजसदने तत्तथोक्तम्।

कि च अस्ति कश्चिद्विशेषोऽत्र। कथभूत राजसदनम्। प्रजापतिपुरमिवाप्यदुर्वासोधिष्ठितम् दुष्टानि मलिनानि तानि यानि। ननु यत् प्रजापतिपुर ब्रह्मनगर तत् अदुर्वासोधिष्ठित कथ भवति। विरुद्धमेतत्। परिह्रियते - अदुर्वासोधिष्ठित अमलिनवस्त्रमनुष्योपेतम्। अपि निश्चयेन इति स्पष्टम्। पुन कथभूत राजसदनम्। पुरदरागारमिवाप्यपारिजातम्। ननु यत् पुरदरागारसदृश इन्द्रमन्दिरसमान तत् अपारिजात पारिजातपुपरहित कथ भवति। पारि स्वर्गस्तत्र जातानि इति विग्रह। विरुद्धमेतत्। परिहियते -अपगतानि नष्टानि अरीणा शत्रूणा जातानि समूहानि यस्मादिति तत् अपारिजातमिति स्वच्छम्। पुन कथभूत राजसदनम्। चित्रभानुभवनमिवाप्यधूमश्यामलम्। ननु यत् चित्रभानुभवन अग्निमन्दिर तत् अधूमश्यामल धूमेन अमलिन कथ भवति इत्यपि विरुद्धम्। तत्रापि शक्यम्। चित्रा नानाप्रकारा भानवोऽनेकमाणिक्यकिरणास्तेषा भवन स्थान अपगतधूम अधूमश्यामल अकृष्णमिति स्वच्छम्। पुन कथभूत राजसदनम्। धर्मधाम इवाप्यदुरीहितव्यवहारम् धर्मस्य यमस्य धाम गृह धर्मधाम। ‘अनन्तमित्यधिकारे वा नपुसकम्’ इत्यनेन सूत्रेण अनन्तोऽय निपात। ननु यद्धर्मधाम यममन्दिरं तत् अदुरी हितव्यवहार दुश्चेष्टिताचाररहित कथ भवति। विरुद्धमेतत्। परिह्नियते -धर्मस्य दानादेर्धाम धर्मधाम अत एव दुरीहितव्यवहाररहित पापव्यवहाररहितमिति स्वच्छम्। पुन कथभूत राजसदनम्। पुण्यजनावासमिवाप्यराक्षसभावम्। ननु यत् पुण्यजनावास पुण्यजनाना राक्षसानामावासो यत्र तत् पुण्यजनावास तदराक्षसपदार्थरहित कथ भवति। विरुद्धमेतत्। परिह्रियते — पुण्यजनाना पुण्यपवित्रलोकाना आवासो यत्र तत्पुण्यजनावास अत एवाराक्षसभाव अदुष्टपरिणाम लोकसहित इति स्वच्छम्। पुन कथभूत राजसदनम्। प्रचेत पस्त्यमिवाप्यजडाशयम्।

वातोदवसितमिवाप्यचपलनायकम्, धनदधिष्ण्यमिवाप्यस्थाणुपरिगतम्, शभुशरणमिवाप्यव्यालावलीढम्, ब्रध्नसौधमिवाप्यनेकरथम्, चन्द्रमन्दिरमिवाप्यमृदुप्रतापम्, हरिगेहमिवाप्यहिरण्यकशिपुनाशम्, नागेशनिवासमिवाप्यद्विजिह्वपरिजनम्, वनदेवतानिवासमिवाप्यकुरङ्गम्,

————————

पुन कथभूत राजसदनम्। वातोदवसितमिवाप्यचपलनायकम्। ननु यत् वातोदवसित वायुमन्दिर तदचपलनायक स्थिरखामिक कथ भवति। विरुद्धमेतत्। परिह्रियते - वातावराणा विशिष्टाना अतोद अपीडनम्। शिष्टप्रतिपालनमित्यर्थ। तेन अव समन्तात् सित बद्धसयुक्तमातोदवसितम्। ‘अवाप्योरल्लोप’ इति वचनात् अवशब्दस्य अकारलोप। तथा चोक्तम् — ’ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो। आप चैव हलन्ताना यथा वाचा निशा दिशा॥’ वशब्देन विशिष्ट कथ लभ्यते - इति चेत्, तदुक्त विश्वप्रकाशे - ‘वो दन्त्योष्ठ्योऽपि वरुणे वारुणे वरि।शोषणे पचने सन्धे वासे वृन्दे च वारिधौ॥ वदने वदनेवादवदनाय च कीर्तित॥ (?) अत एव अचपलनायक अचपलनायका परधनकलत्रग्रहणरहिता नायका सामन्तादयो यत्र तदचपलनायकमिति स्वच्छम्। पुन कथभूत राजसदनम्। धनदधिष्ण्यमिवाप्यस्थाणुपरिगतम्। ननु यत् धनदधिष्ण्य कुबेरमन्दिर तत् अस्थाणुपरिगत रुद्ररहित कथ भवति यस्य रुद्रस्य मित्रत्वात्। विरुद्धमेतत्। परिह्रियते — धनदाना दातॄणा वाताना धिष्ण्य गृह स्थाणूना स्कन्धावशेषतरूणा कीलकाना अपरिगत रहितमिति स्वच्छम्। पुन कथभूत राजसदनम्। शभुशरणमिवाप्यव्यालावलीढम्। ननु यत् शभुशरण रुद्रमन्दिर तत् अव्यालावलीढ सर्पैरस्पृष्ट कथ भवति। इद विरुद्धम्। परिह्रियते— शभूना सुखोत्पादकाना शरण स्थानम्। ‘श भवत्यस्मात्’ इति निरुक्ते। अव्यालावलीढ न व्यालैदुष्ट पुरुषैरवलीढ स्पृष्टमव्यालावलीढमिति स्वच्छम्। पुन कथभूत राजसदनम्। ब्रध्नसौधमिवाप्यनेकरथम्। ननु यत् ब्रह्मसौध सूर्यमन्दिर भवति तदनेकरथ कथ भवति सूर्यस्यैकरथत्वात्। विरुद्धमेतत्। परिह्रियते - ब्रध्नसोधस्य अनुन्नतत्वात् समीपवर्तीनि सौधानि सुधोज्ज्वलानि गृहाणि यत्र तसौध अनेके बहवो रथा यत्र तदनेकरथमिति स्वच्छम्। पुन कथभूत राजसदनम्। चन्द्रमन्दिरमिवाप्यमृदुप्रतापम्। ननु यत् चन्द्रमन्दिरं शशाङ्कगृह तदमृदुप्रताप तीव्रप्रताप कथ भवति। इदमपि विरुद्ध परिहियते चन्द्रमन्दिरं अतिसु गन्धत्वाच्च अमृदुप्रताप अमृदूना तीक्ष्णाना हिंसकाना प्रकृष्टताप सताप कदर्थन यत्र तदमृदुप्रतापम्। उक्त च - ‘अतीक्ष्ण कोमल मृदु’। पुन कथभूत राजसदनम्। हरिगेहमिवाप्यहिरण्यकशिपुनाशम्। ननु यत् हरिगेह नारायणगृह तद्धिरण्यकशिपुनामदैत्यस्य बलपितुर्नाशरहित कथ भवति। इति विरुद्ध नामैतत्। परिह्रियते— हिर

पताकितभ्रू स्मितसौधकान्तिरालोलनेत्राम्बुरुहोपहारा।
एषाङ्गनाविभ्रमदर्भिताङ्गी यागावने सवदतीव लक्ष्मीम्॥२४०॥
इय विलोलालकचामरश्रीर्नितम्बसिंहासनमण्डिता च।
मम द्वितीय कुचकुम्भशोभा सौभाग्यसाम्राज्यमिवादधाति॥२४१॥

————————

ण्यस्य सुवर्णस्य कशिपोर्वर्णस्य कशिपोर्वस्त्रभोजनद्वयस्य नाशरहितमिति स्पष्टम्। तथा चोक्तम् - ‘वस्त्रे च भोजने चैव तद्वयो कशिपुर्मत’ इति वचनात्। पुन कथभूत राजसदनम्। नागेशनिवासमिवाप्यद्विजिह्वपरिजनम्। ननु यन्नागेशनिवास नागराजभवन तत् अद्विजिह्वाना सपाणा परिजनरहित कय भवति। इति विरुद्धम्। परिह्रियते - नागेशाना गजेन्द्राणा निवास द्विजिह्वाना दुर्जनाना निवास लण्ठालुञ्चनलम्पटाना परिजनरहितमिति स्वच्छम्। पुन कथभूत राजसदनम्। वनदेवतानिवासमिवाप्यकुरङ्गम्। ननु यत् वनदेवतानिवास तदकुरङ्ग मृगरहित कथ भवति। विरुद्धमेतत्। परिह्रियते - वनस्य अमृतस्य प्रियोदकदेवताना स्वगिणा या लक्ष्मीस्तयोर्निवासमकुरङ्ग च अविद्यमान कुत्सितो रङ्ग काचपच्य यत्र तदकुरङ्गमिति स्पष्टम्। उपमालकारो विरोधाभासालकारश्च॥

पताकितभ्रुरित्यादि। एषा पुरी यागावनेर्यागभूमे लक्ष्मी शोभा सवदतीव कथयतीव। एषा कथभूता। पताकितभ्रुपताका सजाता यस्या सा पताकिता। पताकीकृता स्त्रीणा भ्रुवो यस्या सापताकितभ्रू। यथा यागभूमि पताकिता भवति। पुन कथभूता एषा नगरी। स्मितसौधकान्ति स्मितमीषद्धास सौधकान्तिर्याग मण्डपशोभा यस्या सा स्मितसौधकान्ति। यथा यागमण्डपभूमि चूर्णधवलिता भवति। पुन कथभूता। आलोलनेत्राम्बुरुहोपहारा आलोलानि चपलानि नेत्राणि स्त्रीणा लोचनानि तान्येव अम्बुरुहाणि कमलानि तेषा उपहार पूजा यस्या सा आलोलनेत्रा म्बुरुहोपहारा। यथा यागभूमि कमलसहिता भवति। पुन कथभूता एषा अङ्गनाविभ्रमदर्भिताङ्गी अङ्गनाना स्त्रीणा विभ्रमा भूक्षेपास्तैदर्भित सयुकमङ्ग शरीर यस्या नगर्या सा तथोक्ता यथा यागभूमिर्दर्भसयुक्ता भवति। उपमालकार॥

इयमित्यादि। इय नगरी मम यशोधरमहाराजस्य द्वितीयमपर सौभाग्यसाम्राज्य आदधातीव धरतीव। कथभूता इयम्। विलोलालकचामरश्री विलोलाचपला ये अलकाचूर्णकुन्तलास्त एव चामरश्रीयस्या सा तयोक्ता साम्राज्येऽपि चपलबालचामरशोभा भवन्ति। पुन कथभूता इयम्। नितम्बसिंहासनमण्डिता स्त्रीणा नितम्बा येव सिंहा सनानि सिंह विष्टराणि तैर्मण्डिता शोभिता। साम्राज्यमपि सिंहासनमण्डित भवति पुन कथभूता इयम्। कुचकुम्भशोभा कुचकुम्भाना कुचकलशाना शोभा यस्या सा कुचकुम्भशोभा।साम्राज्यमपि पूर्णकुम्भशोभित भवति। उपमालकार॥

एवमपरासामपि मदालोकनोत्सुकमनसा निजविभ्रमापहसितवासवीयावासवासितविलासा-नामनङ्गाश्रमकामधेनूनामिव मत्तकामिनीना स्मरशरनिशितफलिप्रकाशिभि,

अपि च क्वचिदशेषनिशितशास्त्रशेमुषीश्वरविचारगोचरीक्रियमाणसकलजगद्व्यवहार धर्मराजनगरमिव, क्वचिद्द्विजन्मजनोदाह्रियमाणनिगमार्थ

————————

एवममुना प्रकारेण तत् जगत्प्रसिद्ध त्रिभुवनतिलक नाम राजसदन आसादयाबभूव अह प्रापयाबभूव। प्राप्तवानित्यर्थ। अह कि कुर्वन् सन् त्रिभुवनतिलक नाम राजसदन प्रापयाबभूव। अपरासामपि अन्यासा न केवल नगरस्त्रीणा अपि तु अपरासामपि मत्तका मिनीना रूपयौवनसपन्ननारीणा अपाङ्गावलोकितै कटाक्षवीक्षितै पुनरुक्तेन द्विगुणीकृतेनेव लाजाञ्जलिवर्षेण आर्द्रतण्डुलाञ्जलिवर्षेण आत्मान फलार्थिनो लोकस्य कुसुमितमिव कुर्वन् पुष्पितमिव विदधन्। कथभूताना मत्तकामिनीनाम्। मदालोकनोत्सुकमनसा समवीक्षणोत्तालहृदयानाम्। पुन कथभूताना मत्तकामिनीनाम्। निजविभ्रमापहसितवामवीयावासवासितविलासाना निजै स्वकीयैविभ्रमै भ्रूक्षेपैर पहसिता तिरस्कृता वासवी यावासवासिताना स्वर्गस्त्रीणा विलासा लोचनशोभा याभिर्मत्तकामिनीभिस्तथोक्तास्तासाम्। वासवस्य इन्द्रस्य अय वासवीय स चासावावास स्वर्गलोकस्तस्य सबन्धिन्यो या वासिता स्त्रियो देवानास्तासा विलासाना विग्रह। पुन कथभूतानाम्। अनङ्गाश्रम कामधेनूनामिव कदर्पगृहकामधेनूनामिव। कामदायकानामित्यर्थ। कथभूतैरपाङ्गाव लोकितै स्मरशरनिशितफलिप्रकाशिभि स्मरस्य कदर्पस्य ये शरा बाणास्तेषा निशितानि तीक्ष्णानि फलीनि भल्लयस्तेषा प्रकाशी निर्मलत्वात् कर्पूरमिव वर्तते॥

पुनरपि कथभूत राजसदनम्। अपि च अस्ति कश्चिद्विशेष। क्वचित्कस्मिंश्चित्स्थाने अशेषनिशितशास्त्रशेमुषीश्वरविचारगोचरीक्रियमाणसकलजगद्व्यवहारम् अशेषाणि समग्राणि निशितानि सूक्ष्मतत्त्वकथनानि तानि च शास्त्राणि तेषु शेमुषी ‘शे मोह मुष्णातीति शेमुषी बुद्धिस्तस्या ईश्वरा स्वामिनो विद्वासस्तेषा विचारेषु गोचरीकि यमाणो गम्यमान सकलस्य समग्रस्य जगत ससारस्य व्यवहार उपचारो यत्र राजमन्दिरे तत्तथोक्तम्। किमिव। धर्मराजनगरमिव यमपत्तनमिव। यथा धर्मराजनगरे निशिताना तीक्ष्णाना जीवग्राहकाणा शास्त्राणा शेमुषीश्वरा बुद्धिचतुरा यमनियमयोगि नस्तेषा विचारेषु गोचरीक्रियमाणसकलजगद्व्यवहारो भवति अय मृत, अय मार्यमाणो वर्तते अय मरिष्यति, इति विचारो यमनगरे वर्तते। पुन कथभूत राजसदनम्। क्वचित्कस्मिंश्चित्स्थाने द्विजन्मजनोदाह्रियमाणनिगमार्थम् द्विजन्मजनैर्ब्राह्मणलोकैरुदाह्रियमाणो निगमाना नगराणा प्रामादीना अर्थ उद्गृहीत धन यत्र राजमन्दिरे

ब्रह्मालयमिव, क्वचिद्भरतसुताभिनीयमानेतिवृत्त तण्डुभवनमिव, क्वचिद्बुधप्रधानविधीयमानतत्त्वोपदेश समवसरणमिव, क्वचिद्दभ्यमानसागरगणमरुणकरस्यन्दनमिव, क्वचिद्विनीयमानसारङ्गसङ्घमङ्गराजनिकेतनमिव, क्वचिदासन्नास्मदीयदर्शनक्षुभित-सर्वकर्मीणपरिवारमनङ्गमित्रोदयप्रमोद रत्नाकरमिव, क्वचिच्च ‘हले व्यलीकविलासव्यसनिनि वसन्तिके, कृत कितवकिंवदन्तीमि।

————————

तत्तथोक्तम्। किमिव। ब्रह्मालयमिव विश्वसृग्मन्दिरमिव। यथा ब्रह्मालयो मन्दिरं ब्राह्मणैर्व्यावर्ण्यमानो निगमार्थोभवति। पुन कथभूत राजसदनम्। क्वचित्कस्मिश्चिंत्स्थाने भरतश्रुताभिनीयमानेतिवृत्तम् भरतसुतैर्नटाचायै अभिनीयमान उच्यमान इतिवृत्त भरतशास्त्र यत्र तत्तथोक्तम्। किमिव। तण्डुभवनमिव तण्डुर्नाम शकरस्य नृत्योपदेश प्रति प्रथमशिष्यस्तस्य भवनमिव। यथा तण्डुभवन भरतसुतैर्नर्तकाचार्यैरभिनीयमान विजृम्भ्यमाण नितृत्त भवति। पुन कथभूत राजसदनम्। क्वचित्कस्मिश्चिंत्स्थाने बुधप्रधानविधीयमानतत्त्वोपदेशम् बुधाना विदुषा मध्ये ये प्रधाना मुख्यविद्वासस्तैर्विधीयमान क्रियमाण तत्त्वस्य वाद्यभेदस्य उपदेश स्वरूप यत्र तत्तथोक्तम्। किमिव। समवसरणामिव। यथा समवसरण तीर्थकरसभास्थान जीवादितत्त्वोपदेशसयुक्त भवति। पुन कथभूत राजसदनम्। क्वचित्कस्मिश्चिंत्स्थाने दभ्य मानसागरगणम् दभ्यमान खेद्यमान सागराणा चतुरङ्गमानांगण समूहो यत्रतत्तथोक्तम्। किमिव। अरुणकरस्यन्दनमिव सूर्यरथमिव। पुन कथभूत राजसदनम्। क्वचिद्विनीयमानसारङ्गसङ्घम् क्वचित्कस्मिश्चिंत्स्थाने विनीयमान शिक्ष्यमाण सारङ्गाणा हस्तिना सङ्घ समूहो यत्र तत्तथोक्तम्। किमिव। अङ्गराजनिकेतनमिव अङ्गराजस्य गजशास्त्राचार्यस्य निकेतनमिव। पुन कथभूत राजसदनम्। क्वचिदासन्नास्मदीयदर्शनक्षुभितसर्वकर्मीणपरिवारम् क्वचित्कस्मिश्चिंत्स्थाने आसन्न समीपवर्ति यदस्मदीयदर्शन अस्माकमीक्षण तेन क्षुभित सचलित सर्वकर्मीणाना विश्वकर्मकराणा परिवार परिच्छेदो यत्र तत्तथोक्तम्। कमिव। रत्नाकरमिव समुद्रमिव। कथभूत रत्नाकरम्। अनङ्गमित्रोदयप्रमोदम् अनङ्गस्य कदर्पस्य मित्र चन्द्रमास्तस्य उद‌येन उद्गमनेन प्रमोदो हर्षो यत्र रत्नाकरे स तथा तम्। उत्कल्लोलसमुद्रमिवेत्यर्थ। पुन कथभूत राजसदनम्। क्वचित्कस्मिश्चिंत्स्थाने जरतीभि वृद्धाभि स्त्रीभि इत्यमुना प्रकारेण व्याकुलितनि खिलपरिजन व्याकुलित विशेषेण आ समन्तात् आकुलितो विह्वलीकृतो निखिल समग्र परिजन परिवारो यत्र तत्तथोक्तम्। कथभूताभिर्जरतीभि मातृव्यञ्जनाभि सपञ्चाशत्काभि स्त्रीभि। पश्चाशद्वर्षाणामुपरि वर्तमानाभिरित्यर्थ। इतीति किम्। हे हले हे सखि हे व्यलीकविलासव्यसनिनि निष्फलशृङ्गारासक्ते वसन्तिके वसन्तिकानाम्नि,

अविलम्ब यतस्व बकुलमुकुलावलीविरचनेषु। अङ्गो103 निरर्गलगते लवङ्गि, मा गा सखीभि सह सङ्गम्। अकालक्षेप दक्षस्व रङ्गवल्लिप्रदानेषु। अपि प्रमादिनि मदने, किमद्यापि निद्रायसि। द्रुतमाद्रियखारतीयप्रगुणतायाम्। अयि कुरङ्गि, किमकाण्डमितस्ततो हिण्डसे। अचिराय त्वरस्वदेवस्याङ्गरागसपादनेषु। अयि वाचाललपने मालति, एष खलु समीपवर्ती देव तल्लघु लङ्क्षस्व भद्रासनप्रसाधनेषु। अये हसितदोहदहृदये कलहसि, किं नाकर्णयसि सविधतर तूरशब्दम्, यतो न तूर्णं सज्जसे ताम्बूलकपिलिकायाम्। अहे अल-

————————

कितवकिवद तीभि कृत द्यूतकारवार्ताभि पूर्णम्। अविलम्ब शीघ्र बकुलमुकुलावलीविरचनेषु मञ्जुलपुष्पकलिकाश्रेणिविरचनेषु मालाकरणेषु यतस्वयत्न कुरुष्व। अङ्गो निरर्गलगते लवङ्गि, मा गा सखिभि सह सङ्गम्। अकालक्षेप दक्षस्व रङ्गवल्लिप्रदानेषु। अङ्गोइति ओकारान्तोऽव्यय सबोधनार्थ। अङ्गोहे लवङ्गिनामिके अन्त पुरसुन्दरि निरर्गलगते अनिषिद्धगमने खच्छन्दागमने सखीभि सह आलीभि सङ्ग मेलापक मा गा मा त्व गच्छ। अकालक्षेप लघुतरं रङ्गवल्लिप्रदानेषु चतुष्कपुरणेषु दक्षस्वशीघ्रा भव। ‘दक्ष शीघ्रार्थे च’ इति धातो प्रयोगात् त्वदावात्मनेपदित्वात्। अयि प्रमादिनि मदने, किमद्यापि निद्रायसि। द्रुतमाद्रियस्वारतीयप्रगुणतायाम्। अयि इति इकारान्तमव्यय सबोधनार्थम्। हे प्रमादिनि अयि मदने हे मदननामिके अन्त पुरसुन्दरि, अद्यापि इदानीमपि कि निद्रायसि किमिति अतिशयेन निद्रा करोषि। ‘द्रा स्वप्ने’ इति धातो प्रयोगात्। आरतीयप्रगुणताया आरार्तिकसज्जनक्रियाया द्रुत शीघ्रमाद्रियस्व। ‘द्रिड् आदरे’ तुदादेधातो प्रयोगात्। अयि कुरङ्गि, किमकाण्डमितस्ततो हिण्डसे। अचिराय त्वरस्वदेवस्याङ्गरागसपादनेषु। अयि कुरङ्गि हे कुरङ्गिनामिके अकाण्डमप्रस्ताव इतस्ततो यत्र तत्र कि हिण्डसे किमर्थ पर्यटसि। ‘हिडि गत्यनादयो’ इति धातो प्रयोगात्। देवस्य यशोधरमहाराजस्य अङ्गरागसपादनेषु कपूरागुरुकस्तूरिकुङ्कुमकङ्कोलादिद्रवविलेपनकरणेषु अचिराय शीघ्रतर त्वरस्वत्वरिता भव। ‘ञित्वरा सभ्रमे’ इति धातो प्रयोगात्। अयि वाचाललपने मालति, एष खलु समीपवर्ती देव। तल्लघु लङ्क्षस्वभद्रासनप्रसाधनेषु। अयि इति इकारान्तमव्यय सबोधनार्थेवर्तते। हे वाचाललपने बहुजल्पवक्त्रेमालति मालतीनामिके अन्त पुरसुन्दरि, एष प्रत्यक्षीभूतो देव श्रीयशो धरमहाराज। खल्विति वाक्यालकारे। समीपवर्ती वर्तते। तत्तस्मात्कारणात् भद्रासन- प्रसाधनेषु सिंहासनप्रतिकर्मसु लघु शीघ्र लङ्क्षस्वसमर्था भव। ‘लघि सामर्थ्येच’ इति धातो प्रयोगात्। अये हसितदोहदहृदये कलसि किं नाकर्णयसि सविधतरंतूर्यशब्दं यतो न तूर्ण सज्जसे ताम्बूलकपिलिकाया अये इति एकारान्तमव्यय संबोधनार्थे

कवल्लरीभङ्गदुर्विदग्धे मधुकरि, किं मुधा विधमस्यात्मानम्। अद्धा प्रसाधय प्रकीर्णकानि। वर्षधर, अपरस प्रतूर्णमेकत। किरात, निकेत निजनिवासे निभृतम्। कुब्ज, न्युब्जशुभाशयविशिष्टासु चेष्टासु। वामन, आमन, सर- भसरसक्रोडा क्रीडा। सौविदल्ल, सोल्लासमीहस्वनिजनियोगेषु। शुकपाक[ल], सोत्कण्ठमुत्कण्ठस्वभोगावलीपाठेषु। सारिके, प्रमोदाधिक कीर्तय मङ्गलानि। हसि, कुतो न हसि रसितु निराबाधावकाशम्। सारस, कस

————————

वर्तते। हे हसितदोहदहृदये हसितमनोरथमानसे कलहसि राजहसीति नामिके, सविधतरं निकटतर तुर्यशब्द वाद्यध्वनिं किं नाकर्णयसि किं त्व न शृणोषि, यतो यस्मात् कारणात् ताम्बूलकपिलिकाया ताम्बूलस्थगिकाया तूर्णं शीघ्र न सज्जसे प्रगुणा न भवसि। ‘सज्जप्रागुण्ये’ इति धातो प्रयोगात्। अहे अलकवल्लरीभङ्गदुर्विदग्धे मधुकरि, किं मुधा विधमस्यात्मानम्। अद्धा प्रसाधय प्रकीर्णकानि वर्षधरापसर प्रतूर्णमेकत मधुकरिनामिके। कथभूते। अलकवल्लरीभङ्गदुर्विदग्धे अलकाना केशाना वल्लरीणा मञ्जरीणा भङ्गेमार्गरचनाया दुर्विदग्धा तस्या सबोधनम् अयि अलकवल्लरीभङ्गदुर्विदग्धे, किमर्थ मुधा निरर्थक आत्मान निजस्वरूप विधमसि विडम्बयसि। अद्धा झटिति प्रकीर्णकानि चामराणि प्रसाधय सज्जीकुरु। वर्षबर, अपसर प्रतूर्णमेकत। हे वर्षधर हे नपुसक, प्रतूर्ण शीघ्र एकत एकस्मिन् पार्श्वे अपसर दूर गच्छ। देवस्या पशकुन भविष्यतीति कारणात्। किरात, निकेत निजनिवासे निमृतम्। रे किरात रे भिल्ल, निजनिवासे आत्मगृहे निभृत प्रश्रित निकेत निवास कुरु। ‘कित निवासे रोगापनयने च’ इति धातो प्रयोगात्। तद्दर्शनेन देवस्यापशकुन भविष्यतीति भाव। कुब्ज न्युब्जशुभाशयविशिष्टासु चेष्टासु। अरे कुब्ज, त्व शुभाशयविशिष्टासु शुभपरिणामशो भनासु चेष्टासु न्युब्जऋजू भव। ‘उब्ज आर्जवे’ इति धातो प्रयोगात्। वामन, आमन सरभसरसक्रोडा क्रीडा। अरे वामन, सरभसरसक्रोडा उत्सुकरसप्रधाना क्रीडा पलायनान्वित आमन रचय। वामन, भवद्दर्शनेन देवस्यापशकुन भविष्यतीति भाव। सौविदल्ल, सोल्लासमीहस्वनिजनियोगेषु। सौविदल्ल हे स्थापत्य, सोल्लास सोत्कण्ठ यथा भवत्येव निजनियोगेषु स्वकीयाधिकारेषु अन्त पुररक्षासु ईहस्वचेष्टस्व। अन्त पुरमध्ये प्रविश्य तिष्ठ। देवस्य तव दर्शन मा कारय। अपशकुन भविष्यतीति भाव। शुकपाक[ल], सोत्कण्ठमुत्कण्ठस्वभोगावलीपाठेषु। हे शुकपाक[ल] कीरपुन् [पू], भोगावलीपाठेषु सुरतक्रीडावचनपठनेषु सोत्कण्ठ सोल्लास यथा भवत्येव उत्कण्ठस्वउद्यतो भव। सारिके, प्रमोदाधिक कीर्तय मङ्गलानि। हे सारिके पीतपादे, प्रमोदाधिक यथा भवत्येव मङ्गलानि सुतिवचनानि कीर्तय सशब्दय। हसि, कुतो न हसि रसितु निराबाधावकाशम्। हे हसि हे वारले हसकामिनि, कुत कस्मात् कारणात् रसितु शब्दयितु निराबाधावकाश

तारस्वर प्रदक्षिणप्रचार। कुरङ्ग, रङ्गापसव्य द्विपिना स्थाने विजयकुञ्जर, उदाहर शुभोचितानीङ्गितानि। जयहय, सुघोष ह्रेषस्व।’ इति मातृव्यञ्जनाभिर्जरतीभिर्व्याकुलितनिखिलपरिजन तत्त्रिभुवनतिलक नाम समन्ततस्तु- ङ्गतमङ्गशृङ्गोत्सङ्गसगताङ्गनापाङ्गप्रसरपुनरुक्तसितपताकावसनराजसदनमासाद‌याबभूव कीर्तिसाहारनामा वैतालिक—

लक्ष्मीं बिभ्रद्ध्वजौघेक्वचिदनिलबलोल्लोलवीचेर्द्युनद्या-
श्छाया पुष्यत्सुमेरो क्वचिदरुणतरै स्वर्णकुम्भाशुजालै।
कान्तिं कुर्वत्सुधाब्धे क्वचिदतिसितिमद्योतिमिर्भित्तिभागै
शोभा श्लिष्यद्धिमाद्रे क्वचिदिव गगनाभोगभाग्भिश्चकूटै॥२४२॥

————————

बाधारहित देश न हसि न गच्छसि। सारस, कस तारस्वर प्रद‌क्षिणप्रचार। हे सारस हे विलीन दीर्घजङ्घ, तारस्वर सन् उच्चैस्तरशब्द सन् प्रदक्षिणप्रचार सन् देवस्य दक्षिणकरपार्श्वे भूत्वा कस गच्छ। कुरङ्ग, रङ्गापसव्य द्विपिना स्थाने। हे कुरङ्ग हे मृग, अपसव्य देवस्य वामपार्श्वे द्विपिना स्थाने मृगयार्थमृगाणा स्थाने रङ्गत्व गच्छ। तथा चोक्तम् - ‘एकोपि यदि वा त्रीणि पञ्चसप्त नवापि वा। वामपार्श्वेषु गच्छन्तो मृगा सर्वे शुभावहा॥’ विजयकुञ्जर, उदाहर शुभोचितानीङ्गितानि। हे विजयकुञ्जर हे गजयूथनाथ गज, शुभोचितानि शुभशकुनयोग्यानि इङ्गितानि चेष्टितानि उदाहर व दर्शय। हे जयहय, सुघोष ह्रेषस्व। हे जयहय जात्यश्च, सुघोष सजलजलदसमुद्रध्वनि यथा भवत्येव ह्रेषस्वशब्द कुरुष्व। पुन कथभूत राजसदनम्। समन्तत सर्वत्र तुङ्गत मङ्गशृङ्गोत्सङ्गसगताङ्गनापाङ्गप्रसरपुनरुक्त सितपताकावसनम् तुङ्गउच्चैस्तरो यस्तमङ्गउपरितनभूमिका तस्य शृङ्गोत्सङ्गेषु सगता मिलिता या अङ्गना नवयौवना स्त्रियस्तासा अपाङ्गप्रसरैर्लोचनप्रातवितरणै पुनरुतानि द्विगुणीकृतानि सितपताकाना उज्ज्वल ध्वजाना वसनानि वस्त्राणि यस्मिन् राजसदने तत्तथोक्तम्। कीर्तिसाहारनामा वैतालिक कीर्तिसाहारनामा वैतालिको बोधकरो भट्ट अत्रावसरे वृत्तत्रय पपाठ।

तथाहि - लक्ष्मीं विभ्रदित्यादि। हे अवनीपते हे राजन्, इद प्रत्यक्षीभूत भवद्भवन भवत प्रासादो विभाति विशेषेण शोभते। भवन कि कुवत्। क्वचित् कस्मिंश्चित् स्थाने ध्वजौघेकृत्वा द्युनद्या गङ्गाया लक्ष्मीं शोभा बिभ्रत् धरत्। कथभूताया द्युन द्या। अनिलबलोल्लोलवीचे अनिलबलेन वातबलेन उल्लोला उच्छलन्त्यो वीचयो लहर्यो यस्या सा अनिलबलोल्लोलवीचिस्तस्या भवनम्। भवन पुन कि कुर्वत्। क्वचित्कस्मिंश्चित्स्थाने अरुणतरैरव्यक्तरागै स्वर्णकुम्भाशुजालै कनककलशकिरणसमूहै सुमेरो सुरालयस्य छाया शोभा पुष्यत् पुष्टिं नयत्। भवन पुन कि कुर्वत्। क्वचित्कस्मिंश्चित्स्थाने

श्रीलीलाकमल तवावनिपते साम्राज्यचिह्न मह-
त्कीर्त्यत्पत्तिनिकेतन क्षितिवधूविश्रामधाम स्वयम्।
लक्ष्मीविभ्रमदर्पण कुलगृह राज्याधिदेव्या पुन
क्रीडास्थानमिद विभाति भवन वाग्देवताया इव॥२४३॥

वशीकृतमहीपाल श्रीलीलाकमलाकर।
चिरमत्र स्थित सौघे चतुरन्तामव क्षितिम्॥२४४॥

वित्तेश त्वरता पुर सुरतरूद्यानै सम मातले
तूर्णं सज्जय सामज कुरु गुरो यानोचिता वाहिनीम्।
आसीदित्थमशेषकल्मषमुषि प्रादुर्भवत्केवले
यस्मिन्स्वर्गपतेर्महोत्सवविधि सोऽव्यात्त्रिलोकी जिन॥२४५॥

————————

अतिसितिमद्योतिभि अत्युज्ज्वलतेजोभि भित्तिभागै कुड्यप्रदेशै कृत्वा सुधाब्धे क्षीरसमुद्रस्य कान्तिशोभा कुर्वत् रचयत्। भवन पुन कि कुर्वत्। कचित् कस्मिञ्चित् स्थाने गगनाभोगभाग्मि आकाशविस्तारभजनशीलै कूटै शिखरै कृला हिमाद्रे हिमाचलस्य शोभामुपमा श्लिष्यत्। उपमासमुच्चयालकार॥

** श्रीलीलाकमलमित्यादि।** पुन कथभूतम्। श्रीलीलाकमल लक्ष्‌मीकीडापङ्कजम्। पुन कथभूतम्। साम्राज्यचिह्न सकलस्य राजस्याभिज्ञानम्। कथभूत साम्राज्यचिह्नम्। महत् गुरुतरम्। अपर कथभूतम्। कीर्त्युत्पत्तिनिकेतन कीर्तेरुत्पत्ते जन्मनो निकेतन गृहम्। पुन कथभूतम्। क्षितिवधूविश्रामधाम क्षितिरेव वधूर्वनिता तस्या विश्रामधाम निवासगृहम्। कथम्। स्वय स्वभावेन। पुन कथभूत भवनम्। लक्ष्मीविभ्रमदर्पणम् लक्ष्म्या विभ्रमदर्पण लीलामुकुरम्। अपर कथभूतम्। राज्याधिदेव्या। पुन इवार्थे। राज्याधिष्ठातृदेवताया कुलगृह कुलमन्दिरमिव। अपरं कथभूतम्। वाग्देवताया सरस्वत्या क्रीडास्थानमिव रमणनिवासमिव। रूपकोपमालकार॥

** वशीकृतमहीपाल इत्यादि।** हे राजन्, अत्र अस्मिन् सौधेराजगृहे स्थितो निविष्ट सन् चिर दीर्घकाल चतुरन्ता चतु समुद्रपर्यन्ता क्षितिं पृथ्वी अव प्रतिपालय। कथभूतस्त्वम्। वशीकृतमहीपाल वशीकृता आज्ञामानीता महीपाला राजानो येन स। पुन कथभूतस्वम्। श्रीलीलाकमलाकर श्रियो लक्ष्म्या लीलाया कीडाया कमलाकर कमलवनसदृश। रूपकातिशयालकार॥

** वित्तेशेत्यादि।** अथेदानीं आश्वासान्ते मङ्गल करोति - स जगत्प्रसिद्धो जिन श्रीमद्भगवदर्हत् वीतराग त्रिलोकीं त्रयाणा लोकाना समाहार त्रिलोकी ता त्रिलोकीं अव्यात् रक्षतु विघ्नाना विनाश करोतु श्रेय सप्राप्तिं च करोतु। स जिन क। यस्मिन् प्रादुर्भ

कर्णाज्ललिपुटैपातु चेत, सूक्तामृते यदि।
श्रूयता सोमदेवस्य नव्या काव्योक्तियुक्तय॥२४६॥

इति सकलतार्किकचूडामणे श्रीमन्नेमिदेवभगवत शिष्येण सद्योनवद्यगद्यपद्यवि-
द्याधरचक्रवर्तिशिखण्डमण्डनीभवच्चरणकमलेन श्रीसोमदेवसूरिणा विरचिते
यशोधरमहाराजचरिते यशस्तिलकापरनाम्निमहाकाव्येपट्टबन्धोत्सवो
नाम द्वितीय आश्वास समाप्त।

————————

वत्केवले चतुर्थकल्याणावसरे खगेपते सौधर्मेद्रस्य इत्थममुना प्रकारेण महोत्सवविधि महादर्षविधिरासीद्बभूव। यस्मिन्‌कथभूते। अशेषकल्मषमुषि अशेषाणि समग्राणि कल्मषाणि पापानि बह्यहत्यादीनि त्रिषष्टिप्रकृतिलक्षणानि वा मुष्णाति निर्मूलकाषङ्कषतीति अशेषकल्मषमुट्तस्मिन्नशेषकल्मषमुषि। इत्थ कथमिति चेत्‌ हे वित्तेश हे धनद, सुरतरूद्याने सम कल्परक्षवने सार्धपुरोऽग्रत त्वरता सभ्रमेण त्व गच्छ। हे मातले हे शक्रसारथे, तूर्ण शीघ्र सामजमैरावणनाम गज सज्जय प्रयाणयोभ्य कुरु। हे गुरो हे बृहस्पते मन्त्रिन्, वाहिनीं सुरसेना यानोचिता गमनयोग्या कर त्व विधेहि। अतिशयालंकार॥

कर्णाञ्जलिपुटैरित्यादि। हे विद्वन्‌ यदि चेत्‌ सूक्तामृते काव्यामृते कर्णाञ्जलिपुटैपातुश्रवणाञ्जलिपात्रैरास्वादितु चेतो मनस्तव वर्तते तर्हिसोमदेवस्य सोम देवाचार्यस्वामिनो नव्या प्रयग्रा काव्योक्तियुक्तयकाव्यस्य यशस्तिलकनामेतिहासस्य उक्तीना वचनाना युक्तयो रचना कर्मतापन्ना श्रूयता त्वया आकर्ण्यताम्‌। रूपको पमालंकार॥

इति सकलतार्किकलोकचूडामणिश्रीमन्नेमिदेवभगवत शिष्येण सद्योनव- द्यगद्यपद्यविद्याधरचक्रवर्तिशिखण्डमण्डनीभवञ्चरणकमलेन श्रीसोमदेवसूरिणा विरचिते यशोधरमहाराजचरिते यशस्तिलकापरनाम्नि महाकाव्ये पट्टवन्धोत्सवो नाम द्वितीय आश्वास॥ अस्य व्याख्यान पूर्ववद्वेदितव्यम्॥

इति श्रीपद्मनन्दिदेवेन्द्रकीर्तिविद्यानन्दिमल्लिभूषणाभिप्रायेण भट्टारकश्रीमल्लिभूषण गुरुपरमाभीष्टगुरुभ्रात्रा गुर्जरदेशसिंहासनभट्टारकश्रीलक्ष्मीचन्द्रकाभिमतेन मालवदेशभट्टारकश्रीसिंहनन्दिप्रार्थनया यतिश्रीसिद्धातसागर-व्याख्याकृतिनिमित्त नवनवतिमहामहावादिस्याद्वादलब्धविजयेन तर्कव्याकरणाद्यनेकशास्त्ररचनाचञ्चुना सूरिधीश्रुतसागरेण विरचिताया यशस्तिलकचन्द्रिकाभिधानाया यशोधरमहाराजचरितमहाकाव्यटीकाया यशोधरमहाराजपट्टबन्धमहोत्सवविवरण नाम द्वितीयाश्वासचन्द्रिका परिसमाप्ता इति शुभम्॥

————————

तृतीय आश्वास।

श्रीलीलाम्बुजगर्भसभवतनु स्वर्णाचलस्नानभू-
र्लक्ष्मीप्रार्थितसंगमोऽपि तपस स्थान परस्याभवत्।
ध्यानावन्ध्यविधि समस्तविषय ज्योति पर प्राप्तवा-
न्यस्तद्धामधृतोदयश्चस जगत्पायादपायाज्जिन॥१॥

————————

अथेदानीं तृतीयस्याश्वासस्य राज्यलक्ष्मीविनोदनाम्न प्रारम्भ कुर्वाणा श्रीसोमदेवसूरय आदिमङ्गलार्थं श्रीमदर्हत्परमेश्वरस्य पञ्चकल्याणगर्भितां सुतिं प्राहु। शादूलविक्रीडित छन्द। श्रीलीलेत्यादि। स जगत्प्रसिद्धो जिनस्तीर्थकरपरमदेव जगत्त्रैलोक्य अपायात् चतुर्गतिरक्षात पायात् रक्षतु। स क। तद्यदोर्नित्यसबन्धत्वात् यो भगवान् जिन श्रीलीलाम्बुजगर्भसभवतनु श्रियो लक्ष्म्या लीलाम्बुज क्रीडाकमल तस्य गर्भेकर्णिकाया सभवा उत्पन्ना तनु शरीर यस्य स तथोक्त। भगवान् किल स्वगावतरण कल्याणे मातुर्गर्भजा शक्तिमाधाय तन्त्र कमल कृत्वा तस्य कर्णिकाया अवतरति, तत्र कमले वृद्धिं याति, पश्चान्मातुर्योनिमस्पृष्ट्वा104 मातुबाधामदत्त्वा जन्म गृह्णाति, तेन श्रीसोमदेवाचार्य प्राह - श्रीलीलाम्बुजगभसभवतनु। य पुन कथभूत। स्वर्णाचल स्नानभू स्वर्णाचलो मेरुपर्वत स स्नानस्य जन्माभिषेकस्य भूर्भूमि यस्य स स्वर्णा चलस्नानभू। पुन कथभूतो य। लक्ष्मीप्रार्थितसगम लक्ष्म्या साम्राज्यत्रिया प्राथितो याचित सगमो मेलापको यस्य स तथोक्त। अपिशब्दात् कोऽपि कुमारदीक्षितोऽपि भवति तत्सूचनार्थमपिशब्दो वर्तते। पुन कथभूतो भगवान्। परस्य उत्कृष्टस्य तपसो दीक्षाया स्थान निवासो अभूद्बभूव। यो भगवान् पुन किं कृतवान्। परं ज्योतिकेवलज्ञान प्राप्तवान् लब्धवान्। कथभूत पर ज्योति। समस्तविषयम् समस्तो लोक श्चोलोकश्च विषयो गोचरो गम्यो यस्य पर ज्योतिष तत्परं ज्योतिष समस्तविषयम्। कथभूतो भगवान्। ध्यानावन्ध्यविधि ध्यानाभ्या धर्मशुक्लध्यानाभ्या अवन्ध्य सकलो बिधि कर्तव्य यस्य स ध्यानावन्ध्यविधि। हरिहरहिरण्यगर्भादिभिर्ध्यानकृत परं फल न लब्धमिति भाव। पुन कथभूतो भगवान्। तद्धामधृतोद्य तस्मिन् जगत्प्रसिद्धे धाम्निसर्वकर्मक्षयलक्षणे मोक्षे धृत आरोपित (उत्कृष्टो अय) उदय शुभावहो विधिर्येन स तद्धामधृतोदय। चकार उक्तसमुच्चयार्थ। तेन अनन्तचतुष्टयादयोनवकेवललब्ध्यादय अनन्तगुणा समुच्चीयन्ते। रूपकातिशयसमुच्चयालकार॥

लक्ष्मीपतिप्रभृतिभि कृतपादसेव
पायाज्जगन्ति स जयी जिनचन्द्रदेव।
साम्य त्रिविष्टपधृतिस्थितविक्रमस्य
दष्ट्राधृतावनितलस्य हरेर्न यस्य॥२॥

पुनस्तदध्यास्य श्रीसरखतीविलासकमलाकर राजमन्दिरमहो असमसाहसारम्भ, त्रिभुवनभवनस्तम्भ, कदाचित्समीपसमस्तलोकलोचनोन्मेषेषु

————————

लक्ष्मीपतिप्रभृतिभिरित्यादि। स जगत्प्रसिद्धो जिनचन्द्रदेव जगन्ति त्रीणि भुवनानि पायाद्रक्षतु। अनेकविषमभवगहनदु स्वप्रापणहेतून् कर्मारातीन् जयन्तीवि जिना गणधरदेवादय। ‘इणिकृशिभ्यो णक्’ इत्युणादिसूत्रेण णक्प्रत्ययेन जिनशब्द सिद्ध। जिनाना गणधरदेवादीना चन्द्र आह्लादको जिनचन्द्र चासौ देव परमाराध्य जिनचन्द्रदेव। कथभूतो जिनचन्द्रदेव। यथोक्तविशेषणविशिष्ट लक्ष्मीपतिप्रभृतिभि कृतपादसेव लक्ष्म्या पतिर्लक्ष्मीपतिर्नारायण स प्रमृतिर्मुख्यो येषां रुद्रब्रह्मादीना ते लक्ष्मीपतिप्रभृतयस्तैर्लक्ष्मीपतिप्रभृतिभि कृता परमधर्मानुरागेण रचिता पादयोश्चरणकमलयो सेवा वन्दना भक्तिर्यस्य स लक्ष्मीपतिप्रसृतिभि कृतपादसेव। पुन कथभूत। जयी जयनशील। स क। यस्य जिनचन्द्रदेवस्य हरेर्नारायणस्य साम्य तुल्यता न वर्तते। तद्धेतुगर्भितु विशेषणमाह - कथभूतस्य यस्य। त्रिविष्टपधृतिस्थितविक्रमस्य त्रयाणा विष्टपाना लोकाना धृतौ उद्धरणे स्थित उद्ध‌रितो विक्रम सामर्थ्य यस्य स तथा तस्य। कथभूतस्य हरे। दष्ट्रावृतावनितलस्य दष्ट्रया वृत समुच्चलितमवनितल पृथ्वीमण्डल येन स तथा तस्य। वराहावतारेण यदा नारायण सजातस्तदा प्रलयकालभयात् हस्ताभ्या पृथ्वीमुद्धर्तुमसमर्थत्वात् दष्ट्रयोद्धृतवान् इत्यर्थ। व्यतिरेकालकार॥ उक्त च वाग्भट्टेन महाकविना - ‘केनचिद्यत्र धर्मेण द्वयो स सिद्धसाम्ययो। भवत्येकतराधिक्य व्यतिरेक स उच्यते॥’

पुनरित्यादि। अहो मारदत्त, अहो असमसाहस्रारम्भ असम असदृश अनन्यसभवि यत् साहस अद्भुत कर्म तस्यारम्भ प्रारम्भो यस्य स तथा तस्य संबोधन हे तथोक्त। अहो त्रिभुवनभवनस्तम्भ त्रिभुवनमेव भवन गृह तस्योद्धरणे स्तम्भ आधारकाष्ठ त्रिभुवनभवनस्तम्भस्तस्य सबोधन हे तथोक्त। कदाचित् कस्मिंश्चिदवसरे तदा तस्मिन् काले निशीथिनीशेषेषु रात्रिशेषेषु। किलेति लोकोक्तौ शास्त्रोकौ वा। अह यशोधरमहाराज पल्यङ्कतल शय्योत्सङ्गमुज्झाचकार तत्याज उज्झितवान्। कथंभूतेषु निशीथिनीशेषेषु। समीपसमस्तलोकलोचनोन्मेषेषु समीपा इदानीमेव भविष्यन्त समस्ताना लोकाना लोचनोन्मेषा नेत्राणामुद्घाटनानि येषु ते तथा तेषु। कयभूत

निशीथिनीशेषेषु ‘हिमरुचिरस्तमेति निशि निगदितनिजविनियोगसगर। रविरपि नयनविषयमयमवति जगति निजाय कर्मणे। तत्कलह विहाय सविशत पुनर्ननु दूरमन्तरम्’ इति प्रात कथयतीव मिथुनेषु रसत्कृकवाकुमण्डलम्।

————————

पर्यङ्कतलम्। मृगमदाङ्गरागबहुलपरिमलम्। मृगमदो नाम कस्तूरिका तेनोपलक्षितो योऽसावङ्गरागो विलेपन तेन बहुल प्रचुरतर परिमलो विमर्दोत्थो गन्धो यन्त्र पर्यङ्कतले तत्तथोक्तम्। क इव पर्यङ्कतलमुज्झाचकार। मन्दाकिनीपुलिन कलहस इव। यथा कलहसो राजहसो मन्दाकिन्या गङ्गाया पुलिन तोयोत्थित द्वीप त्यजति। कथभूत मन्दाकिनीपुलिनम्। नवोल्लासमासलसरोजकाननम् नवोल्लासेन प्रत्यग्रविकसनेन मासल मनोहरस्थल सरोजकानन कमलवन यत्र मन्दाकिनीपुलिने तत्तथोक्तम्। किं कृत्वा पूर्वं पर्यङ्कतलमुज्झाचकार। पुन राज्यपट्टाभिषेकादनन्तर तत्पूर्वोक्त त्रिभुवनतिलक नाम राजमन्दिर राजभवनमध्य स्थित्वा। कथभूत राजमन्दिरम्। श्रीसरस्वतीविलास कमलाकरम् श्रीश्चलक्ष्मी सरस्वती च भारती तयोर्विलासकमलाकर क्रीडाकमलवनम्। अह कि कुर्वन् पर्यङ्कतलमुज्झाचकार। इति अमुना प्रकारेण व्यावर्ण्यमानविधानेन प्रबोधमङ्गलपाठकाना प्रबोधस्य जागरणस्य ये मङ्गलपाठका नग्नाचार्या प्रबोधमङ्गलपाठकास्तेषा सूक्ती सुभाषितानि आकर्णयन् शृण्वन्। कथभूताना प्रबोधमङ्गलपाठकानाम्। वैभातिकसूक्तपाठकठोरकण्ठकानाम् वैभातिकानि यानि सूतानि सुवचनसुभाषितानि तेषा

पाठेनाध्ययनेन कठोरास्तीव्रतरा वाचाला कण्ठका गलनालानि येषा ते तथा। कथभूता सूक्ती। अवसरावेदनसुन्दरोक्ती अवसरस्य प्रस्तावस्य आवेदन विज्ञापन तेन सुन्दा अतिमनोहरा उक्तयो वचनानि यासु सूक्तिषु ता अवसरावेदनसुन्द्रोक्तयस्तास्त्रयोक्ता। इतीति किम्। [हिमरुचिरित्यादि] — रसत्कृकवाकुमण्डल शब्दाय‌मानताम्रचूडवृन्द मिथुनेषु स्त्रीपुरुषद्वन्द्वेषु प्रात प्रभावे कथयतीव सूचयतीव। कृकवाकुमण्डल कि कथयति। अहो मिथुनानि, अय प्रत्यक्षीभूतो हिमरुचिश्चन्द्रमा अस्तमेति अस्तमय गच्छति। कथभूतो हिमरुचि। निशि रात्रौ निगदितनिजविनियोगसगर निगदित सूचितो निज स्वकीयो विनियोगस्य सगर प्रतिज्ञा येन स तथोक्त। अय प्रत्यक्षीभूतो रविरपि भास्करोऽपि जगति नयनविषयं लोचनगोचरं आ समन्तात् अवति गच्छति वा । ‘अव रक्ष पालने’ इत्यत्र अवधातोरेकोनविंशत्यर्थेषु वर्तमानत्वात्। तथा हि - ‘पालनगतिकान्तिप्रीतितृप्त्य-वगमनप्रवेशश्रवणखाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभाववृद्धिषु’ इति। रवि किमर्थ नयनविषयमागच्छति। निजाय कर्मणे निजयो ग्याय। तत्तस्मात् कारणात् हे मिथुनानि, कलह झकटक विहाय परित्यज्य सविशत संभोग कुरुत यूयम्। पुन पश्चात् नन्वहो मिथुनानि दूर अन्तरं वर्तते रजनी पुनरपि दूरे भविष्यतीति भाव। उत्प्रेक्षालकार॥

निद्राशेषनिमीलितार्धनयन किंचिद्विलम्बाक्षर
पर्यस्तालकजालक प्रविलसद्धर्माम्बुमुक्ताफलम्।
भ्रूभङ्गालसमल्पजृम्भणवशादीषत्प्रकम्पाधर
चुम्बालिङ्ग्य सखीमुख ननु रवेरेषा प्रभा दृश्यते॥

विकिरनिकिर एष व्याकुल पादपाना
तिरयति शिखराणि प्रेङ्खितो द्वन्द्वशब्द।
इह च युवतिसार्थ सद्मकर्मप्रबन्धा-
त्तरलितकुचकुम्भ सचरत्यङ्गणेषु॥४॥
गलति तम इवाय चक्रनाम्नावियोग
स्फुटति नलिनराजि सध्यया सार्धमेषा।

————————

निद्रेत्यादि। हे राजन्, आलिङ्ग्यआलिङ्गन दत्त्वा सखीमुख तव प्रियकान्तावदन चुम्ब वक्रेण सयोजय। एषा प्रत्यक्षीभूता रवे श्रीभास्करस्य ननु हे राजन्, प्रभा दीप्तिर्दृश्यते श्रीसूर्य उदेष्यति। प्रभात जातमित्यर्थ। कथभूत सखीमुखम्। निद्राशेषेण अल्पस्वापेन निमीलिते मुद्रिते अर्धनयने लोचने यस्मिन् सखीमुखे तत्तथोक्तम्। अपर कथभूत सखीमुखम्। किचिद्विलम्बाक्षरम् किचिन्मनाक्विलम्ब कालक्षेपो येषा तानि किचिद्विलम्बानि अक्षराणि वर्णा यस्मिन् सखीमुखे तत्तयोक्तम्। पुन कथभूतम्। पर्यस्तालकजालकम् पर्यस्तानि यत्र तत्र गतानि अलकाना कुन्तलाना जालकानि वल्लर्यो यत्र तत्तथोक्तम्। पुन कथभूतम्। प्रविलसद्धर्माम्बुमुक्ताफलम् प्रविलसन्ति शोभमानानि घर्माम्बूनि आस्वादजलबिन्दवोमुक्ताफलानि व्याकरणे यानि यस्मिन् सखीमुखे तत्तथोक्तम्। पुन कथभूतम्। भ्रूभङ्गालसम् भ्रूभङ्गेषु भ्रूक्षेपेषु नेत्रोपरिरोमराज्योल्लासनेषु अलसो भन्द उद्यमो यस्मिन् तत्तथोक्तम्। पुन कथभूतम्। अल्पजम्भणवशात् स्वो कविनामकरणात् हावविधानात् इषत्प्रकम्पाधरम् ईषत् मनाक्प्रकम्प स्फुरण अधरे दन्तच्छदे यस्मिन् तत्तथोक्तम्। रूपकमनुमानालकार॥

** विकिरनिकर इत्यदि।** एष प्रत्यक्षीभूत विकिरनिकर पक्षिसमूहो व्याकुलो विस्त सन् पादपाना वृक्षाणा शिखराणि उपरितनभागानि तिरयति झम्पति। द्वन्द्वशब्दो मिथुनध्वनि वै प्रेङ्खितश्चञ्चलोवर्तते। प्रस्तावात् पक्षिणा द्वन्द्वमिति गृह्यते। इह च एष च अङ्गणेषु गृहाग्रभूमिषु युवतिसार्थ स्त्रीणा समूह सचरति गतागत करोति। कथभूतो युवतिसार्थ। सद्मकर्मप्रवन्धात् गृहव्यापारप्रघट्टकाव् तरलित कुचकुम्भ शिथिलितस्तनकलश। जात्यलकार॥

गलति इत्यादि। हे राजन्, अय प्रत्यक्षीभूतचक्रनान्ना चक्रवाकानावियोगो

अगणितपतिनर्मा कूणितभ्रूलतान्त-
स्त्यजति कुलवधूना वासगेहानि सार्थ॥५॥

अविरलपुलकालीपाशुलास्याम्बुजाना
नवनवनखरेखालेखलोलस्तनीनाम्।
स्मरनरपतिदूतीविभ्रम कामिनीना-
मिह विहरति यूथ प्रक्वणन्नूपुराणाम्॥६॥

अलकवलयवृत्ता किंचिदाकुञ्चितान्ता
सरसकरजरेखा कामिनीना कपोले।
प्रविदधति पलाशस्याग्रशाखाशिखाया-
मवनतमुकुलाना मञ्जरीणामभिख्याम्॥७॥

——————

विप्रलम्भो गलति विघटते। किमिव। तम इव अन्धकार यथा। हे राजन्, एषा प्रत्यक्षीभूता नलिनराजि कमलसमूह स्फुटति विकसति। कथम्। सार्धं सह। कया। सध्यया प्रभातकालवत्। हे राजन्, कुलवधूना कुलस्त्रीणा सार्थ समूह वासगेहानि विलासमन्दिराणि त्यजति मुञ्चति। कथभूत कुलवधूना सार्थ। अगणित पतिनर्मा न गणित मनस्यानीत पतीना भर्तॄणा नर्म परिहास अगणितपतिनर्मा। उक्त च — ‘द्रवकेलिपरीहासा क्रीडा लीला च नर्म च’। पुन कथभूत कुलवधूना सार्थ। कूणितभ्रूलतान्त कूणिता कोपेन कुटिलितो भ्रूलतानामन्त प्रान्तो येन स तथोक्त। उपमासहोक्त्यलंकार॥

अविरलपुलकालीत्यादि। हे राजन्, इह अस्मिन् स्थाने कामिनीना स्त्रीणा यूथ समूहो विहरति पर्यटति। कथभूताना कामिनीनाम्। अविरलपुलकालीपाशुला स्याम्बुजानाम् अविरला अविच्छिन्ना या पुलकाली पुलकश्रेणिस्तया पाशुलानि मिलितानि आस्याम्बुजानि मुखकमलानि यासा तास्तथा तासाम्। पुन कथभूताना कामिनीनाम्। नवनवनखरेखालेखलोलस्तनीनाम् नवनवा प्रत्यग्रा या नखरेखा पुनर्भवराजय तासामालेखैर्विलेखनैर्लोलाश्चपला स्तना यासा तास्तथा तासाम्। पुन कथभूताना कामिनीनाम्। प्रक्वणन्नूपुराणाम् प्रक्वणन्त शब्दायमाना नूपुरा हिञ्जीरा यासा तास्तथा तासाम्। कथभूत कामिनीना यूथ। स्मरनरपतिदूतीविभ्रम स्मरनरपते कामनरेन्द्रस्य दूतीना सचारिकाणा विभ्रम शोभा यस्य यूथस्य स तथोक्त। रूपकोपमालंकार॥

अलकवलयवृत्ता इत्यादि। हे राजन्, कामिनीना स्त्रीणा कपोले गण्डस्थले सरसकरजरेखा सरसा तत्कालदत्ता करजाना नखाना रेखा पदानि पलाशस्य

द्वीपान्तरेषु नलिनीवनवर्तिवृत्ते
भानौ क्रिया नृप न कापि यथेह भाति।
एव त्वयि प्रियतमाधरपानलोले
लोके कुत फलति कर्मवता प्रयास॥८॥

स्मरभरकलहकेलिलुलितालकविदलिततिलकमण्डन
नवनखलिखितलेखगण्डस्थलमदयनिपीडिताधरम्।
निद्रोड्डमरनयनमबलामुखमुषसि समन्मनाक्षर
सुरतविलासहस तव कथयति निखिलनिशासु जागरम्॥९॥

—————

किंशुकतरोरग्रशाखाशिखायामुपरितनशाखाया उपरितनभागे अवनतमुकुलाना वक्रकलिकाना मञ्जरीणा अभिख्या शोभा प्रविदधति प्रकुर्वन्ति। कथभूता सरसकरजरेखा।अलकवलयवृत्ता अलकाना कुन्तलाना वलयेषु विण्टिकासु वृत्ता प्रवृत्ता सजाता। पुन कथभूता। किचिदाकुञ्चितान्ता किंचिन्मनाक् आकुञ्चित वर्ति अन्त पर्यन्तो यासा करजरेखाणा तास्तथोक्ता। उपमालंकार॥

द्वीपान्तरेष्वित्यादि। हे नृप हे राजन्, इह अस्मिन् लोके द्वीपान्तरेषु पूवापरविदेहेषु यथा येन प्रकारेण नलिनीवनवर्तिवृत्ते पद्मिनीखण्डवर्तनशीलाचारे भानौ श्रीसूर्ये सति कापि क्रिया काचित् चेष्टा न भवति न चमत्करोति न प्रवर्तते एवममुना प्रकारेण त्वयि भवति प्रियतमाधरपानलोले सति वल्लभस्त्रीअधरास्वादनलम्पटे सति कर्मवता क्रियावता पुरुषाणा प्रयास उद्यम कुत कस्मात् फलति। न कुतोऽपि फलवान् भवति। दृष्टान्ताक्षेपालंकार॥

स्मरभरेत्यादि। हे सुरतविलासहस सुरतस्य सभोगक्रीडाया विलासहस क्रीडाकरणे राजहस सुरतविलासहसस्तस्य संबोधन हे तथोक्त, अबलामुख वनितावदन कर्तृभूत उषसि प्रभाते तव भवतो निखिलनिशासु सर्वरात्रिषु105 इवि पाणिनिसूत्रेण रात्ररच्प्रत्ययमकृत्वैव व्याकरणविरुद्धमिकारान्तरात्रिशब्दोपादान ग्रन्थकर्तुं प्रमाद ( सर्वरात्रेषु पूर्वरात्रमध्यरात्रापररात्रेषु ) इत्येते प्रयोगा पाठ्याश्च") पूर्वरात्रि मध्यरात्रि अपररात्रिषु जागर जागरण कर्मतापन कथयति। कथभूत अबलामुखम्। स्मरभर कलहकेलिलुलितालकविदलिततिलकमण्डनम् स्मरभरेण कन्दर्पातिशयेन योऽसौ कलहो युद्ध तस्य केलि क्रीडा तथा लुलिता लुठिता ये अलका केशास्तैर्विदलितं चूर्णीकृत लोपित तिलकमण्डन तिलक च मण्डन च कुङ्कुमकज्जलादिक यस्य अबला मुखस्य तत्तथोक्तम्। पुन कथभूत अबलामुखम्। नवनखलिखितलेखगण्डस्थलम् नव

विद्विष्टदर्पहर मध्यमलोकपाल
कस्त्वा प्रबोधयतु सर्वजगत्प्रबोधम्।
लोकत्रयोद्धरणधामनिकेतनेषु
निद्रा कुतो भवति नाथ भवादृशेषु॥१०॥

मक्ष्येष राज्यरथसारथिरागतस्ते
नीरोगतावहितवाक्प्रवणो भिषक्च।
पौरोगवोऽभिनवपाकपर समास्ते
द्वारे तवोत्सवमतिश्च पुरोहितोऽपि॥११॥

—————

प्रत्यग्रोनखै कामाङ्कुशैर्लिखितो विन्यासीकृत योऽसौ लेखो लिपिविशेषस्तेनोपल क्षित गण्डस्थल कपोलमण्डल यस्याबलामुखस्य तत्तथोक्तम्। पुन कथभूत अबलामुखम्। अदयनिपीडिताधरम् अदय दयारहित यथा भवत्येव निपीडितश्चुम्बित अधरो दन्तवासो यस्य तत्तथोक्तम्। पुन कथभूत अबलामुखम्। निद्रोड्डमरनयनम् निद्रया जागरेण उड्डमरे उत्कटे नयने लोचने यत्र तत्तथोक्तम्। पुन कथभूत अबलामुखम्। समन्मनाक्षरम् सह मन्मनेन गद्गदशब्देन उपलक्षितानि अक्षराणि वर्णा यस्मिन् अबलामुखे तत्तथोक्तम्। अनुमानालंकार॥

विद्विष्टेत्यादि। हे विद्विष्टदर्पहर विद्विष्टाना शत्रूणा दर्पो मदस्त हरतीति विद्विष्टदर्पहरस्तस्य संबोधन हे तथोक्त हे राजन्, भवादृशेषु युष्मत्सदृशेषु निद्रा स्वाप कुतो भवति। न कुतोऽपि भवति इत्यर्थ। क पुमान् वा भवन्त प्रबोधयतु जागरयतु। अपि तु न कश्चित् प्रबोधयतु इत्यर्थ। कथभूत त्वाम्। मध्यमलोकपाल मध्यमलोकस्वामिनम्। पुन कथभूतम्। सर्वजगत्प्रबोधम् सर्वस्य निखिलस्य जगतः पृथ्वीमण्डलस्य प्रबोध सावधानभवन यस्मात् स तथा तम्। कथभूतेषु भवादृशेषु। लोकत्रयोद्धरणधामनिकेतनेषु लोकानां त्रय तस्योद्धरणे प्रकाशने धाम तेजस्तस्य निकेतनानि गृहाणि लोकत्रयोद्धरणधामनिकेतनानि तेषु। अतिशयाक्षेपालंकार॥

मन्त्रीत्यादि। हे राजन्, एष प्रत्यक्षीभूतस्ते तव मन्त्री आगत आयातो वर्तते। कथभूतो मन्त्री। राज्यरथसारथि राज्यमेव रथ तदुन्नतिहेतुत्वात्तस्य सारथि। तत्प्रवर्तक इत्यर्थ। न केवल मन्त्री आगत भिषक् वैद्यविद्याविलासापरनामा सज्जनवैद्य आगतो वर्तते। कथभूतो भिषक्। नीरोगतावहितवाक्प्रवण नीरोगताया आदाननिदानचिकित्साभिरारोग्यत्वकरणे अवहिता सावधाना या वाच आयुर्वेदवचनानि तत्र प्रवणो विचक्षण। तथा पौरोगवो महानसाध्यक्ष समास्ते उद्भूतस्तिष्ठति। कथभूतपौरोगव। अभिनवपाकपर अभिनव प्रत्यग्रोयोऽसौ पाको रन्धन त्रिषष्टिव्यञ्जन

प्राभातिकानकरवश्रवणप्रबोधा-
द्दीर्घंरसन्ति गृहवापिषु राजहसा।
उत्तिष्ठ देव भज सप्रति राजलक्ष्मी-
सपादित विभवमेनमिति ब्रुवाणा॥१२॥

सुप्तेषु येषु रविरेष बुधावलोक
यावत्तमो दलति तत्किल तेषु धत्ते।
बोध पुनर्दधति येऽस्य पुरो वितन्द्रा-
स्तेजासि नाथ वितनोति निजानि तेषु॥१३॥

इति वैभातिकसूक्तपाठकठोरकण्ठकाना प्रबोधमङ्गलपाठकानामवसरावेदनसुन्दरोक्ती सूक्तीराकर्णयन्नवोल्लासमासलसरोजकानन मन्दाकिनीपुलिन कलहस इव तदा किलाह मृगमदाङ्गरागबहुलपरिमल पल्यङ्कतलमुज्झाचकार। कदाचिदासन्नोदयद्युमणिमहसि प्रत्यूषानेहसि

—————

निष्पादने परस्तत्पर। तथा हे राजन्, पुरोहितोऽपि तव भवतो द्वारे च तिष्ठति। कथभूत पुरोहित। उत्सवमति उत्सवे शान्तिकर्ममहोत्सवे मतिर्बुद्धिर्यस्य स तथा। समुच्चयालंकार॥

प्राभातिकेत्यादि। हे देव हे राजाधिराज, गृहवापिषु राजमन्दिरसरोवरेषु राजहसा चञ्चुचरणलोचनेषु लोहिता चक्राङ्गा राजहसा उच्यन्ते ते रसन्ति शब्द कुवन्ति। कथम्। दीर्घे तारतरं यथा भवत्येवम्। कस्मात्। प्राभातिकानकरवश्रवणप्रवोधात् प्रभाते भवा प्राभातिकास्ते च ते आनका पटहास्तेषा रव शब्दस्तस्य श्रवणेनाकर्णनेन योसौ प्रबोधो जागर प्राभातिकानकरवश्रवणप्रबोधस्तस्मात्। राजहसा किं कुर्वाणा रसन्ति। इति अमुना प्रकारेण ब्रुवाणा सूचयन्त। इतीति किम्। हे देवराजन्, त्व उत्तिष्ठ उत्थो भव। सप्रति इदानीं राजलक्ष्मीसपादित एन प्रत्यक्षीभूत विभव ऐश्वर्य भज त्वआश्रय। उत्प्रेक्षालंकार॥

सुप्तेष्वित्यादि। हे बुधावलोक, विद्वज्जनलोचन, येषु सुप्तेषु ऐश्वर्य भज त्व आश्रय। एष प्रत्यक्षीभूतो रवि यावन्मात्र तमोऽन्धकारं दलति विध्वसयति तत्तम किल निश्चयेन तेषु पुरुषेषु धत्ते धरति। ये पुरुषा वितन्द्रा निद्रारहिता निरालस्या अस्य रवे पुर पूर्वमेव पुनर्बोध दधति जागरण कुर्वन्ति जाग्रति। हे नाथ, तेषु पुरुषेषु निजानि तेजासि द्योतान् वितनोति विस्तारयति। जात्यलंकार॥

इतीत्यादि। हे राजन्, कदाचित्कस्मिंश्चिदवसरे प्रत्यूषानेहसि प्रभातक आस्थान

व्योमाम्बुधौ विद्रुमकाननश्रीर्वियद्वने किंशुकपुष्पकान्ति।
आभाति राग प्रथम प्रभाते सुरेभसिन्दूरितकुम्भशोभ॥ १४॥

निशे विहायापि निशीथिनीश रतिस्तवात्यन्तमिह प्रसिद्धा।
इय त्वहीश्रीर्न विना दिनेशमास्ते निमेषार्धमपि स्वतन्त्रा॥ १५॥

अतो निसर्गान्निशि पाशुलत्व शुद्धस्थितित्व दिवसश्रियश्च।
मत्वैव ससर्गभयात्पुरैव सध्या तयो सीम्नि विधि ससर्ज॥ १६॥

——————

मण्डपमास्थाय सभायामुपविश्य धर्मस्थैर्न्यायाधिकारिभि पुरुषै सह सर्वेषा आश्रमिणा ब्रह्मचारिगृहिवानप्रस्थभिक्षूणा इतरव्द्यवहारविश्रामिणा च ब्राह्मणक्षत्रियवणिक्शूद्राणा वर्णाना च कार्याणि अपश्य अह विचारयामास इति क्रियाकारकसबन्ध। कथभूते प्रत्यूषानेहसि। आसन्नोदयद्युमणिमहसि आसन्न समीपवर्ति उदयाचलस्य द्युमणे श्रीसूर्यस्य महस्तेजो यत्र प्रत्यूषानेहसि स आसन्नोदयद्युमणिमहास्तस्मिन् तथोक्ते। कथभूतमास्थानमण्डपम्। बुधप्रकाण्डमण्डलीविधीयमानधर्मागमालापम् बुधाना विद्वज्जनाना मध्ये प्रकाण्ड प्रशस्त बुधप्रकाण्ड तस्य मण्डली मेलापकस्तया विधीयमाना क्रियमाणा धर्मागमालापा स्मृतिशास्त्रप्रवचनानि यस्मिन्नास्थानमण्डपे स तथा तम्। अह कि कुर्वन् कार्याणि अपश्यम्। इति अमुना प्रकारेण सौखशायनिकाना सुखशयन पृच्छन्तीति ये ते सौखशायनिकास्तेषा सूक्तगीतामृतरससुवचनकथितामृतद्रव कर्णपूरता नयन्। आकर्णयन्नित्यर्थ। इतीति किम्—

व्योमाम्बुधावित्यादि। हे राजन्, प्रभाते विभातसमये प्रथम पूर्व राग श्रीसूर्यस्य तेज आभाति शोभते। कथभूतो राग। व्योमाम्बुधौ आकाशसमुद्रे विद्रुमकाननश्री विद्रुमाणा प्रवालाना काननस्य श्री शोभा यस्य रागस्य स तथा। पुन कथभूतो राग। वियद्वने आकाशकानने किशुकपुष्पकान्ति किशुकाना पलाशवृक्षाणा पुष्पाणि कुसुमानि किंशुकपुष्पाणि तेषा कान्ति शोभा यस्य स तथा। पुन यथभूतो राग। सुरेभसिन्दूरितकुम्भशोभ सुरेभस्य ऐरावणगजस्य सिन्दूरित सिन्दूरेणारुणीकृतोऽसौ कुम्भ शिर पिण्डस्तस्य शोभा उपमा यस्य रागस्य स तथा। रूपकोपमालंकार॥

निशे इत्यादि। हे निशे हे रात्रे, निशीथिनीश चन्द्र विहायापि परित्यज्यापि इह अस्मिन् संसारे तव अत्यत रति प्रसिद्धा विख्याता वर्तते। इय अहश्रीर्दिनश्री दिनेश विना श्रीभास्करमन्तरेण सूर्यादृते निमेषार्धमपि स्वतन्त्रा स्वच्छन्दचारिणी नास्ते न तिष्ठति। जात्यलंकार॥

अत इत्यादि। अत एतस्मात् कारणात् निसर्गात्स्वभावेन निशि रात्रौ पाशुलत्वअन्धकारेण सह व्यभिचारिणी नास्ते न त्व दिवसश्रियश्च दिनलक्ष्म्या शुद्धस्थितित्व

पूर्वं सरसकरजरेस्वाकृतिरधररुचिस्ततो रवि-
स्तदनु च घुसृणपिण्डखण्डद्युतिरब्जचयच्छविस्तत।
पुनरयमरुणरत्नमुकुरश्रीरुदयति रागनिर्भरै
कुर्वन्ककुभि ककुभि बन्धूकमयीमिव सृष्टिमशुभि॥१७॥

शतमखधामहेमकुम्भाकृतिरिन्द्रसमुद्रविद्रुम-
स्तम्बस्तिमितकान्तिरहरुत्सवसमयसुवर्णदर्पण।
उदयति रविरुदारहरिरोहणरुचिरुचिरोत्करै करै-
र्दिग्दयितामुखानि पिञ्जरयन्नरुणितजलधिमण्डल॥१८॥

—————

अव्यभिचारिणीत्वमत्वैव विज्ञायैव तयोर्निशादिनश्रियो सीम्नि मध्ये विधिर्विधाता सध्या पुरैव ससर्ज चक्रे। कस्मात्। संसर्गभयादिव व्यभिचारिण्या अव्यभिचारिण्याश्च सपर्क शङ्कनादिव। उत्प्रेक्षालंकार॥

पूर्वमित्यादि। अय प्रत्यक्षीभूतो रवि उदयति उद्गच्छति। कथभूतो रवि। पूर्वेप्रथमत सरसकरजरेखाकृति सरसा तत्कालदत्ता या करजरेखा तस्या आकृतिर्यस्य स तथोक। पुन कथभूतो रवि। ततस्तदनन्तर अधररुचि स्त्रीणा दन्तच्छन्दाकार। तदनु तदनन्तरं घुसृणपिण्डखण्डद्यति कुङ्कुमपिण्डखण्डद्युति अर्धपिण्डसदृश। ततस्तदनन्तर अब्जचयच्छवि रक्तकमलसदृश। पुनस्तदनन्तरं अरुणरत्नमुकुरश्री पद्मरागमणिदर्पणसमानशोभ। रवि किं कुर्वन्। रागनिर्भरै रक्तिमबहुलैरशुभि कृत्वा ककुभि ककुभि दिशि दिशि बन्धूकमयींसृष्टिं कुर्वन्निव विदधदिव। उपमालंकार।दुवईछन्द॥

शतमखधामेत्यादि। रवि श्रीसूर्य उदयत्युद्गच्छति उदेति। कथभूत सन्नुदेति। शतमखधामहेमकुम्भाकृति पूर्वदिक्पालप्रासादसुवर्णकुम्भसदृश। पुन कथभूत। इन्द्रसमुद्रविद्रुमस्तम्बस्तिमितकान्ति पूर्वसमुद्रप्रवालसमूहवन्निश्चलदीप्ति। पुन कथभूत। अहरुत्सवसमयसुवर्णदर्पण अह्णोदिवसस्य उत्सवसमयो महोत्सवकालस्तस्य संबन्धी सुवर्णदर्पण काश्चनादर्श। रवि किं कुर्वन्। करैकिरणै कृत्वा दिग्दयितामुखानि दिग्वधूवदनानि पिञ्जरयन् रक्तपीतानि कुवन्। कथभूतै करै। उदारहरिरो हणरुचिरुचिरोत्करै उदारमतिमनोहरं यद्धरिरोहण हरिचन्दन तस्य रुचिर्दीप्तिस्तद्वत् रुचिरा मनोहरा उत्करा समूहा येषा कराणा ते तथोक्तास्तै। कथभूतो रवि। अरुणितजलधिमण्डल श्वेतरक्तीकृतसमुद्राभोग। रूपकालंकार॥ दुवईछन्द॥

** अर्धकाव्यकवि —**

अरुणकिरणमध्ये विद्रुमस्तम्बबिम्ब
क्षितिप किमिव शोभा भानुरुद्यद्बिभर्ति।

** राजा —**

बुध युधि मम शत्रो शोणितापूरिताया
प्रतरदुपरि कोपात्पाटल यद्वदास्यम्॥ १९॥

निशि मदनविनोदाद्वासरे च प्रजाना-
मुदयनयनियोगाद्गाढमुद्रिक्तनिद्र।
इति वपुषि नितान्त बिभ्रदम्भोजलक्ष्मी-
मुदयति तपनस्ते देव सामान्यवृत्ति॥ २०॥

अलकवलयमध्ये पद्मरागप्रसूतिं
नवकिसलयशोभा कर्णपालीप्रदेशे।
कुचकलशतटाना कुङ्कुमस्येव राग
दधति रविमयूखा प्रातरेतेऽबलासु॥ २१॥

—————

अर्धकाव्यकवि समस्याकारक कश्चिद्ब्रूते। किं ब्रूते—अरुणकिरणेत्यादि। हे क्षितिप हे राजन्, अरुणकिरणम ये अरुणानामव्यक्तरागाणा किरणाना मयूखाना मध्ये मध्यवर्ती विद्रुमस्तम्बबिम्ब प्रवालसदृशमण्डलो भानु श्रीसूर्य उद्यत् उद्यद्गच्छति। किमिव कीदृशी शोभा बिभति धत्ते। राजा ब्रते**—**हे बुध हे विद्वन्, युधिसंग्रामे शोणितापूरिताया रुचिराभृताया उपरि प्रतरत् उन्मज्जत् मम शत्रोरास्य मुख कोपात् पाटल श्वेतरक्त यद्वद्यादृश भवति तद्वत् भानु शोभा बिभर्ति। प्रश्नोत्तरोपमालंकार॥

निशीत्यादि। हे देव हे राजन्, तपन श्रीसूर्य ते तव सामान्यवृत्ति सादृश्य प्रवृत्तिरुदयति। कथभूतस्त्वम्। गाढमविशयेन उद्रिक्तनिद्र गतनिद्र। कस्मात्। निशि रात्रौ मदनविनोदात् कामक्रीडनात् वासरे च दिवसे प्रजाना लोकाना उदयनयनियोगात् वृद्धिकरणाधिकारात्। उद्रिक्तनिद्र इत्येव त्व कि कुर्वन्। इति अमुना प्रकारेण वपुषि शरीरे नितान्तमतिशयेन अम्भोजलक्ष्मी रक्तकमलशोभा बिभ्रत् धरन् तेन कारणेन तपन श्रीसूर्य सामान्यतया उदयति। त्वत्सकाशादहीनतया उदय करोति इत्यर्थ। व्यतिरेकतुल्ययोगितालंकार॥

अलकेत्यादि। एते प्रत्यक्षीभूता रविमयूखा सूर्यकिरणा प्रात प्रभातसमये अलकवलयमध्ये चूर्णकुन्तलमण्डलान्तरे पद्मरागप्रसूतिं रक्तमणीनामुत्पत्तिं दधति

काश्मीरकेसररुच करजक्षताभा
कान्ताधरद्युतिधृत शुकवक्त्रकल्पा।
सिन्दूरिताङ्गणतलास्तव देव चित्त
भानो करा विविधचाटुतयाश्रयन्ते॥२२॥

इति सौखशायनिकाना सूक्तगीतामृतरस कर्णपूरता नयन्समाचरितगुरुदेवतोपासनविधि प्रतापनिधि सकलजगद्व्यवहाराग्रणीग्रहग्रामणीरिव सभावयन्पुरोहितैरुपनीतानि स्वस्त्ययनमङ्गलानि भुजङ्गभोगभू- षणाग्रतरङ्गरुचिभिरम्भोधिवीचिभिर्वेलाचल इव कामकोदण्डमण्डितदोर्दण्डिकामण्डलाभिरबलाभि परिवृत सपादितप्रभातवृत्त पुरस्कृतमन्दरा वसतिमिव प्रदक्षिणीकृत्य सवत्सा धेनु प्रथमतराविर्भूतदर्शनै कल्पतरुरिव कतिभिश्चित्प्रसूनैरुत्तसितशिखण्डदेश शुचिपक्ष इव धवलाम्बरधर

——————

धरति। अबलासुकर्णपालीप्रदेशे कर्णोपरितनभागे नवकिसलयशोभा प्रत्यग्रपल्लवप्रभा दधति। अबला कुचकलशतटाना स्तनकुम्भप्रदेशाना कुङ्कुमस्य काश्मीरजन्मकेसररागशोभामिव दधति धरन्ति। उपमालंकार॥

काश्मीरकेसररुच इत्यादि। हे देव, भानो करा तव भवतश्चित्त विविधचाटुतया नानाप्रकारप्रेमस्तुतितया आश्रयन्ते प्रविशन्ति। भवतश्चित्ताय रोचन्त इत्यथ। कथभूता भानो करा। काश्मीरकेसररुच जात्यकुङ्कुमकिजल्कसदृशा। पुन कथभूता। करजक्षताभा अबलासु नखोपशोभिता। पुन कथभूता। कान्ताधर द्युतिधृत कान्ताना स्त्रीणा अवरद्युतिं शोभा धरतीति कान्तावरद्युतिवृत। पुन कथभूता। शुकवक्त्रकल्पातव क्रीडाकीरतुण्डसदृशा। पुन कथभूता। सिन्दूरिताङ्गणतला सिन्दूरित रक्तीकृतमङ्गणतल गृहाग्रभूमिर्येस्ते सिन्दूरिताङ्गणतला। उपमालंकार॥

अह कथभूत सन् कार्याणि अपश्यम्। समाचरितगुरुदेवतोपासनविधि समाचरित सम्यग्विहितो गुरोरुपाध्यायस्य मात्रादेश्चदेवतायाश्च उपासनविधि सेवाविधान येन।

समुद्र इव सरत्नोर्मिकाभरण श्रीसरस्वतीरतिरहस्योपदेशदित्सया कर्णलग्नाभ्यामुशनोबृहस्पतिभ्यामिव चन्द्रकान्तकुण्डलाभ्यामलकृतश्रवण परेण चाभिजातजनोचितेनाकल्पेनाध्यासितस्वशरीर समन्तादालानितानामपरोत्सर्ग दिग्गजसर्गमिव दर्शयता दशनकोशारुणमणिमयूखोन्मुखरेखालेखपुनरुच्यमानकुम्भस्थलीसिन्दूरशोभानामनेकपानामनवरतकटकदरद्रववद्दानसौ-

—————

श्रीसरस्वतीरतिरहस्योपदेशदित्सयाकर्णलग्नाभ्यामुशनोबृहस्पतिभ्यामिव चन्द्रकान्तकुण्डलाभ्यामलंकृतश्रवण श्रीश्च लक्ष्मी सरस्वती च वाग्वादिनी श्रीसरस्वत्यौ तयो रत्यो सभोगक्रीडयो सबन्धि यत् रहस्य गोप्यतत्त्व तस्योपदेश शिक्षण तस्य दित्सा दातुमिच्छा श्रीसरस्वतीरतिरहस्योपदेशदित्सा

अत्र उशना शुक्रो लक्ष्मीभोगशिक्षा दातु एकस्मिन् कर्णे लग्न, सरस्वत्या रतिरहस्योपदेशदित्सया बृहस्पतिर्द्वितीये कर्णे लग्न। यथासख्यालंकारगर्भित उत्प्रेक्षालंकार सूचितो भवति। पुन कथभूत सन् कार्याण्यपश्यम्। परेण चाभिजातजनोचितेना कल्पेनाध्यासितस्वशरीर न केवल एतेरेवाभरणैर्मण्डितशरीरोऽह वर्ते किं तु परेण च कण्ठाभरणयज्ञोपवीतकटिसूत्रादिना च आकल्पेन वेषेण अध्यासित स्वशरीर मण्डितनि जाङ्ग। कथभूतेन आकल्पेन। अभिजातजनोचितेन अभिजाता कुलीना ये जना लोकास्तेषामुचितेन योग्येन। समन्तादालानितानामपरोत्सर्ग दिग्गजसगमिव दर्शयता दर्शन कोशारुणमणिमयूखो मुखरेखालेखपुनरुच्यमानकुम्भस्थलीसि दूरशोभानामनेकपा नामनवरत कटकदरद्रवद्दानसौरभाकृष्यमाणेदन्दिरसुन्दरीकुलकुवलयितगगनापगाभागम् अनेकपाना गजेन्द्राणा सबन्धित्वेन अनवरत निरन्तर कटकदरेभ्यो गण्डस्थलेभ्यो द्रवत् श्योतत् यद्दान मदस्तस्य सौरभ सौगन्ध्य तेन आकृष्यमाणा आतन्यमाना या इन्दिन्दिराणा सुन्दर्यो भ्रमर्यस्तासा कुलानि समूहास्तै कुवलयितो नीलोत्पलितो गगनापगाया आकाशगङ्गाया भाग प्रदेशो येन मण्डपेन स तथा तम्। कथभूताना अनेकपानाम्। समन्तात् सर्वत्र आलानिताना बद्धानाम्। पुन कथभूताना अनेकपानाम्। दशनाना दत्तमुसलाना ये कोशा वेष्टनखोलकास्तेषा सबन्धिनो ये अरुणमणयो जटितपद्मरागरत्नानि तेषा मयूखा किरणास्तेषा उन्मुखा ऊर्ध्व गता या रेखा राजय स्तासामालेखैर्विन्यासै पुनरुच्यमाना द्विगुणीक्रियमाणा कुम्भस्थलीना मस्तकपिण्डतटीना सिन्दूरशोभा गर्भनागाभिख्या येषा ते तथोक्तास्तेषाम्। किं कुर्वता अनेकपानाम्। दिग्गजसर्ग दिग्मण्डलसृष्टिं अपरोत्सर्ग अपरदिग्गजसर्जन दर्शयतामिव लोकाना विलोकन कारयतामिव। पुन कथभूतमास्थानमण्डपम्। वाजिनामनिमेषह्रेषाघोषमुखरितसविधसौधोत्सङ्गम् वाजिना अश्वाना अनिमेषमनवरत योऽसौ ह्रे

रभाकृष्यमाणेन्दिन्दिरसुन्दरीकुलकुवलयितगगनापगाभागम्, इतस्तत कृतासरलचलस्थाना नेत्रचीनचित्रपटीपटोलरल्लिकाद्यावृतदेहाना प्रतियवसघासचलच्चामरचुम्ब्यमानलोचनान्ताना मुहुर्मुहुर्विजयपरम्पराप्रतिपादनपरेणेव दक्षिणचरणेन महीतलमुल्लिखतामुत्तालजलधिकल्लोललीलाना वाजिनामनिमेषहेषाघोषमुखरितसविघसौधोत्सङ्गम्, अविरतदह्यमानकालागुरुधूपधूमोद्गमारभ्यमाणदिग्विलासिनीकुन्तलजालम्, उत्तरलतरपताकाप्रतानातन्यमानाम्बरसरोहसमालम्,उत्तुङ्गतमङ्गशृङ्गसगतानेकमाणिक्योत्कीर्णक-लशरुचि-

——————

षाघोषो ह्रेषाध्वनिस्तेन मुखरित वाचालित सविधाना निकटवर्तिना सौधानामुत्सङ्ग अङ्को येन स तथा तम्। कथभूताना वाजिनाम्। इतस्ततो यत्र तत्रकृता रचिता असरला अपर्यन्ता चलस्था पङ्क्तिर्येषा ते इतस्तत कृतासरलचलस्थास्तेषाम्। पुन कथभूताना वाजिनाम्। नेत्रचीनचित्रपटीपटोलरल्लिकाद्यावृतदेहानाम् नेत्राणा सूक्ष्म पट्टकूलवारलाना चीनाना चीनदेशोत्पन्नवस्त्राणा चित्रा नानाप्रकारा या पट्य सूक्ष्मवस्त्राणिताश्च पटोलानि च पट्टकूलवस्त्राणि रल्लिकाश्च रक्तादिकम्बलविशेषास्ता आदिर्येषा तैरेवादिप्राणान्तैरावृता वेष्टिता देहा शरीराणि येषा ते तथा तेषाम्। पुन कथभूताना वाजिनाम्। प्रतियवसघासचलच्चामरचुम्ब्यमानलोचनान्तानाम् यवसस्य तृणस्य योऽसौ घास कवलश्चर्वण यवसघास यवसघास प्रति प्रतियवसघास चलति कम्पमानानि चामराणि मस्तकप्रकीर्णकानि तैश्चुम्ब्यमानानि आस्पृश्यमानानि लोचनाना अन्ता प्रान्ता येषा वाजिना ते तथा तेषाम्। वाजिना कि कुर्वताम्। दक्षिणचरणेन अपसव्याग्रपादेन महीतल भूमितल उल्लिखता उत्खनताम्। कथभूतेन दक्षिणचरणेन। उत्प्रेक्ष्यते—मुहुर्मुहुर्वारवार विजयपरम्पराणा शत्रुपराजयनिश्रेणीना प्रतिपादनपरेणेव सूचनतत्परेणेव। अपर कथभूताना वाजिनाम्। उत्तालजलधिकलोललीलानाम् उत्ताला उत्सुकता ये जलधिकलोला समुद्रमहातरङ्गास्तेषा लीला शोभा येषा ते तथोक्ता स्तेषाम्। पुन कथभूतमास्थानमण्डपम्।अविरतदह्यमानकालागुरु धूपधूमोद्गमारभ्यमाणदिग्विलासिनीकुन्तलजालम् अविरतमनवरत दह्यमान भस्मीक्रियमाण यत्कालागुरु कृष्णकाकतुण्ड तस्य धूपस्य योऽसौ धूम तत्पर्यायान्तरं तस्योद्गम प्रादुर्भाव तेन आरभ्यमाणानि रच्यमानानि दिग्विलासिनीना दिग्वधूना कुन्तलजालानि यत्र मण्डपे स तथा तम्। पुन कथभूतमास्थानमण्डपम्। उत्तरलतरपताकाप्रतानातन्यमानाम्बरसरोहसमालम् उत्तरलतराश्चपलतरा या पताका ध्वजास्तासा प्रतान समूहस्तेन आतन्यमाना विस्तार्यमाणा अम्बरसरसि आकाशसरोवरे हसमाला हससमूहो यत्रयेन वा स तथोक्तस्तम्। पुन कथभूतमास्थानमण्डपम्। उत्तुङ्गतमङ्गशृङ्गसंगतानेकमा

रच्यमानखेचरीकुचविचित्रपत्रभङ्गम्, अभिनवोत्फुल्लफलितपल्लवान्तरालविलसत्कीरकामिनी पुनरुक्तचन्दनस्रक्प्रसङ्गम्, अन्तरान्तरावलम्बितोत्तरलतारहारमरीचिवीचिचयप्रचाराचर्यमाण-सुरसरित्सलिलसेकम्, अतिबहलकालेयकर्दमोन्मृष्टस्फटिककुट्टिमतलप्रवेकम्, अनल्पकर्पूरपरागपरिकल्पितरङ्गावलिविधानम्, ईषदीषदुन्मिषत्कमलमालतीबकुलतिलकमल्लिका-शोकादिकुसुमोपहारा मोदमन्दमधुलिहापाद्यमानापरमरकतमयवितर्दिकाप्रतानम्, अ-

—————

णिक्योत्कीर्णकलशरुचिरच्यमानखेचरीकुचविचित्रपत्त्रभङ्गम्उत्तुङ्ग उन्नतोयोऽसौ तमङ्गप्रासादस्तस्य शृङ्गाणि शिखराणि तेषु सगता आरोपिता अनेके बहवो ये माणिक्योत्कीर्णकलशा रत्नघटितघटास्तेषा रुचिभिर्दीप्तिभी रच्यमान क्रियमाण खेचरीणा देवविद्यावरीणा कुचेषु विचित्रो मनोहर पत्रभङ्ग पत्रावली यस्मिन् आस्थानमण्डपे स तथा तम्। पुन कथभूतमास्थानमण्डपम्। अभिनवोत्फुल्लफलितपल्लवान्तरालविलसत्कीरकामिनीपुनरुक्तवन्दनस्रक्प्रसङ्गम् अभिनवा प्रत्यग्राउत्फुल्ला पुष्पसहिता फलसहिता ये पल्लवा वृक्षशाखाग्राणि तेषामन्तरालेषु मध्येषु विलसन्त्य क्रीडन्त्यो या कीरकामिन्य शुकभार्यास्ताभि पुनरुक्तो द्विगुणीकृत वन्दनस्रक्प्रसङ्ग वन्दनमालासततिर्यत्र स तथा तम्। पुन कथभूतमास्थानमण्डपम्। अन्तरा तरावलम्बितोत्तरलतारहारमरीचिवीचिचयप्रचाराचयमाणसुरसरित्सलिलसेकम् अन्तरान्तरा मध्ये मध्ये अवलम्बिता आरोपिता उत्तरलाश्चपला महामध्यमणिसहिता वा तारहारा अत्युज्ज्वला ये हारा मुक्ताफलमालास्तेषा मरीचिवीचिचया किरणलहरीसमूहास्तेषा प्रचारै प्रसरैराचर्यमाण क्रियमाण सुरसरित्सलिलस्य गङ्गाजलस्य सेक सेचन यत्र स तथा तम्। पुन कथभूतमास्थानमण्डपम्। अतिबहलकालेयकर्दमोन्मृष्टस्फटिककुट्टिमतलप्रवेकम् अतिबहल अतिशयेन प्रचुरो योऽसौ कालेयकर्दम काश्मीरजन्मकेसरद्रवस्तेन उन्मृष्ट समार्जित छटकित यत् स्फटिककुट्टिमतल काश्मीरोपलबद्धभूमितल तेन प्रवेक प्रविभागो यस्य स तथा तम्। पुन कथभूतमास्थानमण्डपम्। अनल्पकपूरपरागपरिकल्पितरङ्गावलिविधानम् अनल्पेन प्रचुरेण कर्पूरपरागेण घनसारचूर्णेन परिकल्पित समन्ताद्रचित रङ्गावलिविधान चतुष्कपूरण यत्र स तथोक्तस्तम्। पुन कथभूतमास्थानमण्डपम्। इषदीषदुन्मिषत्कमलमालतीबकुलतिलकमहिकाशोकादिकुसुमोपहारामोदमन्दमवुलिहापाद्यमानापरमरकतमयवितर्दिकाप्रतानम्कमलानि च पङ्केरुहाणि मालत्यश्च जातीपुष्पाणि, बकुलानि च मदगन्धितरुपुष्पाणि, तिलकानि च पुरुषतरुपुष्पाणि, मल्लिकाश्च मुक्तबन्धनपुष्पाणि, अशोकानि च श्रीवृक्षपुष्पाणि, आदिर्येषा चम्पकादीना तानि कमलमालतीबकुलतिलकमल्लिकाशोकादीनि तानि च तानि कुसुमानि तेषामुपहार पूजन तस्यामोदेन परिमलेन मन्दास्तल्लीनाये मधुलिहा भ्रमरास्तैरापाद्यमा-

वलगनागच्छदगण्यपण्याङ्गनास्तनतुङ्गिमोत्सार्यमाणमार्गपरिजनबलम्,उच्चैस्तरोच्चार्यमाणजयजीवितयश प्रकाशनाशीर्वादविदग्धबन्दिवृन्दवदनोच्छलत्कलकोलाहलम्, उदीर्णमणिस्तम्भिकामध्य-प्रसाधितसिहासनम्, अमरतरुपरिकर मेरुशिखरमिव, लक्ष्मीकटाक्षवलक्षोभयपक्षविक्षिप्यमाणचामरपरम्परम्,अमृतोदधिदेवतापाङ्गद्विगुणतरङ्गप्रसराकुल कुलशैलमिव, उपरिविततसितदुकूलवितानम्, उदितेन्दुमण्डलमुदयाचलमिव, अध ऊर्ध्व

——————

नोऽपरो द्वितीयो मरकतमय कीरपक्षनिभरत्नभूमयो वितर्दिकाप्रतानो वेदिकाविस्तारो यत्रस तथा तम्। उक्त च**—**

‘गारुत्मत मरकतमश्मगर्भो हरिन्मणि। काल च नील च मेचकम्’ इति बचनात्। पुष्परागो‌द्धलिता भ्रमरास्तादृशा सुजाता। पुन कथभूतमास्थानमण्डपम्। अवलगनागच्छदगण्यपण्याङ्गनास्तनतुङ्गिमोत्सार्यमाणमार्गपरिजनबलम् अवलगने सेवाया आगच्छन्त्य उपढौकमाना या अगण्यपण्याङ्गना गणनातीता वेश्यास्तासा स्तनतुङ्गिम्नाकुचोच्चत्वेनोत्सार्यमाण प्रेर्यमाण

उत्पठ्यमाना ये जयजीवितयश प्रकाशनाशीर्वादा जयश्चअपराजय, जीवित च दीघायुष्कता, यशश्च पुण्यगुणानुकीर्तन तेषा प्रकाशना प्रकटनपरा आशीर्वादा आशीवचनानि तेषु विददग्धाश्चतुरा बन्दिन स्तुतिपाठका अब्राह्मण भट्टास्तेषा वृन्दानि समूहास्तेषा वदनानि मुखानि तेषु उच्छलन्त कला मधुरा कर्णा- मृतप्राया कोलाहला कलकलशब्दा यत्र स तथोक्त। पुन कथभूतमास्थानमण्डपम्। उदीर्णमणिस्तम्भिकामध्यप्रसाधितसिंहासनम् उदीर्णा उन्नता या मणिस्तम्भिका रत्ना नामल्पस्तम्भास्तेषा मध्ये अन्तर्भागे प्रसाधित शृङ्गारित सिहासन हर्यक्ष‌विष्टर यस्मिन् स तथा तम्। पुन कथभूतमास्थानमण्डपम्। अमरतरुपरिकर मेरुशिखरमिव कल्पवृक्षपरिवेष्टित रत्नसानुमस्तकमिव। पुन कथभूतमास्थानमण्डपम्। लक्ष्मीकटाक्षवलक्षोभयपक्षविक्षिप्यमाणचामरपरम्परम् लक्ष्मीकटाक्षवत् लक्ष्म्यपाङ्गावलोकनवद्वलक्षा उज्ज्वला उभयपक्षयो सव्यासव्यपार्श्वयोर्विक्षिप्यमाणा विविधवीज्यमाना चामरपरम्परा प्रकीर्णकश्रेणिर्यत्र मण्डपे स तथा तम्। पुन कथभूतमास्थानमण्डपम्।कुलशैलमिव कुलपवतमिव। कथभूत कुलशैलम्। अमृतोद‌धिदेवतापाङ्गद्विगुणतरङ्गप्रसराकुलम् अमृतोदधि क्षीरोदसागरस्तस्य सबन्धिन्यो या देवतास्तासामपाङ्गैर्लोचनप्रान्तैर्द्विगुणा द्विरुक्ता ये तरङ्गा कल्लोलास्तेषा प्रसरा विस्तारास्तैराकुलो व्याप्त- स्तम्। पुन कथभूतमास्थानमण्डपम्। उपरिविततसितदुकूलवितानम् उपरि राजमस्तकोपरितनभागे वितत विस्तारित सितदुकूलवितान शुक्लपट्टकुलचन्द्रोपकयत्र स तथा तम्। पुन कथभूतमास्थानमण्डपम्। उदितेन्दुमण्डलम् उदित उदय प्राप्तमिन्दुमण्डल चन्द्रबिम्ब यस्मिन् उदयाचले स उदितेन्दुमण्डलस्तईदृग्विध उदयाचलमिव

भित्तीना च रत्नफलकभागेषु प्रतिबिम्बितोपासनागतसमस्तसामन्तसमाजम् असुरामरदिक्पालदत्तयात्राभाजमिव, विविधमणिविन्यासविहितबहुरूपाकृते रङ्गस्यावलोकनाद्भीतभूपालबालकाकुलितसौविदल्लम्, आखण्डलसभाप्रतिमल्लम्, ‘मा भजत वैकृतमाकल्पम्, विजहीत धनयौवनमदोल्लासितानि टिरिटिल्लितानि, प्रविशतानधिकृतमनीषा पुरुषा, समाध्वमसबाधमात्मभूमिकायाम्, मा कथयत मिथ प्रजल्पोत्पथा कथा, प्रमुञ्चत चापल

—————

उदयाचलसदृशमास्थानमण्डपम्। पुन कथभूतमास्थानमण्डपम्। अध ऊर्ध्वंअधस्तनभागे ऊर्ध्वभागे च भित्तीना कुड्याना रत्नफलकभागेषु माणिक्यपटकदेशेषु प्रतिविम्बितोपासनागतसमस्तसामन्तसमाजम् प्रतिबिम्बित प्रतिच्छायामागत उपासनागताना सेवासमागताना समस्ताना समग्राणा सामन्ताना देशपतीना राज्ञा समाज समूहो यत्र आस्थानमण्डपे स तथा तम्। पुन कथभूतमास्थानमण्डपम्। असुरामरदिक्पालदत्तयात्राभाजमिव ये अधप्रतिबिम्बितास्ते दिक्पालस्थानीया ये देवास्तैर्दत्ता कृता यात्रा गमन ता भजते श्रयतीति अमुरामरदिक्पालदत्तयात्राभाक् तम्। पुन कथभूतमास्थानमण्डपम्। विविधमणिविन्यासविहितबहुरूपाकृते रङ्गस्यावलोकनाद्भीतभूपालबालकाकुलितसौविदल्लम् रङ्गस्यावलोकनात् अग्रभूमेरवलोकनाद्दर्शनात् भीता भय प्राप्ता ये भूपालाना बालका सामन्ताना शिशवस्तैराकुलिता खेद प्रापिता सौविदल्ला स्थापत्या यस्मिन् मण्डपे तथा तम्। भूपालबालका कस्माद्भीता तद्धेतुगर्भित विशेषणमाह—कथभूतस्य रङ्गस्य। विविधमणिविन्यासैनानारत्नानिर्मितेर्विहितानि कृतानि बहूनि रूपाणि सिंहव्याघ्रादीना रूपाणि तेषामाकृति। कारो यस्मिन् रङ्गेस तथा तस्य। पुन कथभूतमास्थानमण्डपम्। आखण्डलसभाप्रतिमल्लम्। सुधर्मपरिषत्समानमित्यर्थ। पुन कथभूतमास्थानमण्डपम्। इति अमुना प्रकारेण इतस्ततो यत्र तत्र टीकमानै सचरद्भि याष्टीकै प्रतीहारैर्विनीयमानानुकसेवकम् विनीयमाना शिक्ष्यमाणा अनुकसेवका प्रत्यासन्नसेवका यत्र स विनीयमानानुकसेवकस्तम्। इतीति किम्। मा भजत मा गृह्णीत वैकृत सविकारमाकल्पवेषम्। टिरिटिल्लितानि आत्मन अनुचितव्यवहारान् विजहीत विशेषेण मुञ्चत यूयम्। कथभूतानि टिरिटिल्लितानि। धनयौवनमदोल्लासितानि धन च स्वापतेयम्, यौवन च तारुण्यम्, तयोर्मदश्चित्तोल्लासो गवस्तेन उल्लासितानि प्रादुर्भावितानि धनयौवनमदोल्लासितानि। अनधिकृतमनीषा अनियोगबुद्धय पुरुषा जना, मा प्रविशत प्रवेश मा कुरुत यूयम्। असबाध सावकाश यथाभवत्येव आत्मभूमिकाया निजस्थानेषु समाध्व तिष्ठतो यूय विशत यूयम्। ‘यस्य घे’ इति पाणिनिसूत्रेण सकारलोप, यदि कातन्त्रव्याकरणाभिप्रायेण लुप्यते ‘न दधटा तृतीय–’ इति सूत्रेण सस्य दो भवति तेन समाध्व (द्ध्व) मिति सयोगाक्षर निष्पद्यते। कथा वार्ता मा कथयत यूयम्। कथभूता कथा। मिथ प्रजल्पो-

मनोमर्कटस्य, मा कुरुत पारिप्लवप्लुतानिमानिन्द्रियहयान्, केवल कि प्रक्ष्यति, किं प्रवक्ष्यति, किमादिक्ष्यति, किं वा स्रक्ष्यति विनियोगजात देव इत्येकायनमनसो निरीक्षध्व देवस्य वदनम्’ इतीतस्ततष्टीकमानैर्याष्टीकैर्विनीयमानानुकसेवकम्, अतिविधीयमानागन्तुकम्, अखिललोकलोचनेन्दीपरानन्दचन्द्रमस लक्ष्मीविलासतामरस नाम बुधप्रकाण्डमण्डलीवि- धीयम्गनधर्मागमालापमास्थानमण्डपमास्थाय निःसङ्गीकृतद्वारदेश स्वयमेव यथादेशरूपमनुत्पिञ्जलमना सकलविद्याव्यवहारवेदिभिर्विगतसर्वपथीनन्यायद्वापरैर्दृष्टश्रुतानेकाचारविचारिलोकै सत्यवादिभिस्तमोपहालोकैरिव यथा-

————————

त्पथा मिथपरस्पर जल्प प्रभाषण उत्पथ उन्मार्गोयासु तास्तथोक्ता। मनोमर्कटस्य चित्तशाखामृगस्य चापल चपलत्व प्रमुञ्चत प्रकषेण दूरीकुरुत यूयम्। इमान् प्रत्यक्षीभूतान् इन्द्रियहह्यान् स्पशनादितुरगान् वाक्पाणिपादादीन् वा पारिप्लवप्लुतान् चञ्चलत्वोत्पालान् मा कुरुत मा विदधीध्व यूयम्। सेवका ब्रुवन्ति यद्येव न कुर्मस्तर्हि कि कुर्म इति चेत् इति अमुना प्रकारेण केवल देवस्य यशोवरमहाराजस्य वदन मुख एकायनमनस एकाग्रचित्ता सन्तो निरीक्षध्व अवलोकयत। कथभूता कथा निरीक्षध्वम्। देव कि विनियोगजातमविकारसमूह प्रक्ष्यति किमनुयोक्ष्यति प्रश्न करिष्यति। देव कि प्रवक्ष्यति। देव किमादिक्ष्यति किमादेश दास्यति। वा अथवा कि स्रक्ष्यति का सृष्टिं करिष्यति। पुन कथभूतमास्थानमण्डपम्। अतिविधीयमाना अन्विष्यमाणा अवलोक्यमानाआगन्तुका नवतरपुरुषा यस्मिन् मण्डपे स तथा तम्। पुन कथभूतमास्थानमण्डपम्। अखिललोकलोचने दीवरानन्दचन्द्रमसम्। अखिलाना लोकाना लोचनानि तान्येव इन्दीवराणि नीलोत्पलानि तेषामानन्दे हर्षोत्पादने विकासने चन्द्रमा शशाङ्कस्तम्। कथभूत सन् कार्याणि अपश्यम्। निःसङ्गीकृतद्वारदेश अनिषिद्धजनप्रवेश। अह कार्याणि कथ अपश्यम्। यथादेशरूप यथान्याय भवत्येवम्। क्थभूतोऽहम्। अनुत्पिञ्जलमना अनाकुलितचित्त। कथभूतैर्धर्मस्थै। सकलविद्याव्यवहारवेदिभि सकला समस्ता या विद्याश्चतुर्दशविद्यास्तासा व्यवहार प्रवर्तन विदन्ति जानन्तीत्येवशीलास्ते तथा तै। कास्ता चतुर्दशविद्या इति केचित्— ‘षडङ्गानि चतुर्वेदा मीमांसा न्यायविस्तर। धर्मशास्त्र पुराण च विद्याश्चैताश्चतुर्दश ॥’ शिक्षा कल्पो व्याकरण ज्योतिष छन्दो निरुक्त चेति वेदाना अङ्गानि षट्। चत्वारो वेदा प्रसिद्धा। पुन कथभूतैधमस्थै। विगतसर्वपथीनन्यायद्वापरै सर्वपथीना सर्वमार्गानुसारास्तेषा न्यायो नीतिर्व्यवहारो विगतो विनष्ट सर्वपथीनन्यायस्य द्वापर सदेहो येषा ते तथा तै। उक्त च— ‘विचिकित्सातुसशय। सदेहद्वापरौ च’। पुन कथभूतर्धर्मस्थै। दृष्टश्रुतानेकाचारविचारिलोकै दृष्टा लोचनाभ्या प्रत्यक्षीकृता श्रुता कर्णैराकर्णिता अनेकेषामाचाराणा विचारिणो लोका

र्थदर्शनस्थैर्धर्मस्थैसह सर्वेषामाश्रमिणामितरव्द्यवहारविश्रामिणा च कार्याण्यपश्यम्। दुर्दर्शोहि राजा कार्याकार्यविपर्यासमासन्नै कार्यतेऽतिसधीयते च द्विषद्भि। न हि नियोगिनामसतीजनानामिव भर्तुर्व्यसनादपर प्रायेणास्ति जीवनोपाय। स्वामिनो वा नियुक्ताना स्त्रीणामिवातिप्रसरणनिवारणात्। भवन्ति चात्र श्लोका—

नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये स्वैरविहारसारा।
बिडालवृन्दाहितदुग्धमुद्रा स्वपन्ति ते मूढधिय क्षितीन्द्रा॥२३॥

ज्ञायेत मार्ग सलिले तिमीना पतत्त्रिणा व्योम्निकदाचिदेष।
अध्यक्षसिद्धेऽपि कृतावलोपा न ज्ञायतेऽमात्यजनस्य वृत्ति॥२४॥

—————

वृद्धविद्वासो यैस्ते तथा तै। पुन कथभूतेर्धर्मस्थै। सत्यवादिभि यथोक्तकथक्तै। पुन कथभूतैर्धर्मस्थै। तमोपहालोकैरिव तमोपहस्य सूर्यस्य आलोका उ‌द्योता तमोपहलोका तै श्रीभास्करद्योतसदृशै। कायाणि खय कस्मादपश्य तत्कारणमाह — हि यस्मात्कारणात् राजा पृथिवीपतिर्दुर्दर्श दुःखेन महता कष्टेन द्रष्टुमशक्यो दुर्दर्श। ‘ईषदु सुषु’ इति कृच्छ्रार्थेखल्। आसन्नै पुरुषै कार्याकार्यविपर्यास कृत्य वैपरीत्य कार्यते निर्धार्यते द्विषद्भि शत्रुभिश्चराजा अतिसधीयते पराभूयते। हि यस्मात् कारणात् नियोगिनामन्त्रिणा भर्तुर्नरेन्द्रस्य व्यसनात् दुःखात् अपर कोऽपि जीवनोपाय जीबनहेतु प्रायेण बाहुल्येन न नास्ति। किंतु स्वामिनो व्यसनमेव नियोगिना जीवनोपाय। केषामिव जीवनोपायो नास्ति। असतीजनानामिव पुश्चलीलोकवत्। यथा पुश्चलीलोकाना कान्तस्य व्यसने सति स्वेच्छ्या पर्यटन भवति।स्वामिनो वा राज्ञ नियुक्ताना नियोगिना अतिप्रसरणनिवारणात् अतिव्याप्तिनिषेधनादन्यो अपर कोऽपि प्रायेण जीवनोपायो नास्ति। कासामिव। स्त्रीणामिव यथा स्त्रीणा अतिप्रसरणनिवारणात् अपर स्वामिनो जीवनोपायो नास्ति। भवति चात्र श्लोका वृत्तानि भवन्ति॥

नियुक्तेत्यादि। ये क्षितीन्द्रा ये राजानो नियुक्तहस्तापितराज्यभारा नियोगिना मन्त्रिणा हस्ते अर्पितो दत्तो राज्यभारो यैस्ते तथोक्ता तिष्ठन्ति आसते। कथभूता सत्तस्तिष्ठन्ति। स्वैरविहारसारा स्वैरविहार स्वेच्छाप्रवर्तन सारो मनोनुरञ्जनो येषां ते तथोक्ता। ते क्षितीन्द्रा मूढधियो निर्विवेका स्वपन्ति निद्रा कुर्वन्ति। कथभूता सन्त स्वपन्ति। बिडालवृदाहितदुग्धमुद्रा बिडालाना मार्जाराणा वृदेषु आहिता आरोपिता दुग्धरक्षणे मुद्रा साक्षरमङ्गुलिभूषण यैस्ते तथोक्ता। विडालवृन्देषु दुग्धरक्षाधिकार दत्त्वा स्वपन्ति निश्चिन्ता सन्तो निद्रा कुर्वन्ति। दृष्टान्तालंकार। आक्षेपो वा॥

** ज्ञायेतेत्यादि।** तिमीना मत्स्याना मार्गसलिले ज्ञायेत विद्येत। पतत्त्रिणा प-

व्याधिवृद्धौ यथा वैद्य श्रीमतामाहितोद्यम।
व्यसनेषु तथा राज्ञ कृतयत्नानियोगिन॥२५॥

नियोगिभिर्विना नास्ति राज्य भूपे हि केवले।
तस्मादमी विघातव्या रक्षितव्याश्च यत्नत॥२६॥

कदाचित्सचिव सेवावसरानुकूलेषु मन्त्रकालेषु

——————

क्षिणामेष मार्गो व्योम्याकाशे कदाचित् कस्मिंश्चित्काले ज्ञायेत बुध्येत। पर अमात्यजनस्य वृत्ति मन्त्रिलोकस्य वृत्तिराचारो न ज्ञायते नावबुध्यते। कथभूता अमात्यजनस्यवृत्ति। अध्यक्षसिद्धेऽपि प्रत्यक्षनिष्पन्नेऽपि। कर्तव्ये इत्यध्याहार। कृतावलोपा कृतोरचित अवलोप समन्ताददर्शन यथासा तथोक्ता। स्वभावोक्तिजात्यलंकार॥

व्याधिवृद्धावित्यादि। यथा येन प्रकारेण वैद्यो भिषक्श्रीमता लक्ष्मीवत्पुरुषाणा व्याधिवृद्धौ रोगवर्धने आहितोद्यम रचितोपायो भवति, तथा तेन प्रकारेणनियोगिनो मन्त्रिणो राज्ञो नृपस्य व्यसनेषु दुः खोपनिपातेषु कृतयन्ना भवन्ति रचितोपाया भवन्ति। दृष्टान्तालंकार। उपमा वा॥

नियोगिभिरित्यादि। नियोगिभिविना सचिवैरन्तरेण केवले भूपे भूपाले राज्यनास्ति न विद्यते।कथम्। हि स्फुट निश्चयेन। तस्मात् कारणात् अमी नियोगिनोविधातव्या कर्तव्या यत्नत सावधानतया रक्षितव्याश्च रक्षणीया भवन्ति।जात्यलंकार॥

कदाचित्कस्मिंश्चिदवसरे मन्त्रकालेषु पञ्चविधमन्त्रावसरेषु यथाकाल अवसरस्यानतिक्रमणेन षडपि षट्सख्योपेतानपि गुणान् संधिविग्रहयानासनसंश्रयद्वैधीभावसज्ञान्अन्वतिष्ठ अनुष्ठितवानह चकार। कथभूतेषु मन्त्रकालेषु। सचिवसेवावसरानुकूलेषुसचिवाना मन्त्रिणा सेवा आराधन तस्या अवसर कालस्तस्य अनुकूलिता ये मन्त्रकालास्ते तथोक्तास्तेषु। किं कृत्वा पूर्व षङ्गुणानन्वतिष्ठम्। इति अमुना प्रकारेण दैववादिनपुण्यकर्मस्थापकस्य विद्यामहोदधे विद्यामहोदधिनामकात् सचिवात् मन्त्रिण सकाशात्इतिकर्तव्यताक्रिया कार्य निर्धारकरण हस्तेकृत्य गृहीत्वा। कथभूता इतिकर्तव्यताक्रियाम्।गाङ्गेयोर्मिका लक्ष्मीमुद्राकाम्। लक्ष्मीमुद्राया अङ्कश्चिह्न यस्या सा लक्ष्मीमुद्राङ्काताम्।कथभूत सन् षड्गुणानन्वतिष्ठम्। प्रतिपन्नधर्मविजयैकभाव। विजिगीषवस्तावत्त्रयोवर्तन्ते— धर्मविजयी लोभविजयी चेति। तत्र धर्मविजयी शत्रो पादपतनमात्रेण तुष्यति, लोभविजयी शत्रो सर्वे सगृहीत्वा तुष्यति,त्रिविधेष्वपि विजयिष्वह कथभूत। प्रतिपन्नधर्मविजयैकभावधर्मविजयिनो नरेन्द्रस्य एको निष्केवलो भाव परिणामो येन स तथोक्त। कइव। सत्यवागिव यतिरिव। यथा यति धर्मे विजयमेकमद्वितीय भाव प्रतिपद्यते इतिक्रियाकारकसबन्ध। इतीति किम्। विद्यामहोदधिरेव कथयति। एवं कथमिति चेत्—

विशोधय महीपाल मन्त्रशालामशेषत।
अयुक्तोऽर्हति न स्थातुमस्या रतिरहस्यवत्॥ २७॥

** यत—**

एक विषरसो हन्ति शस्त्रेणैकश्च हन्यते।
सबन्धुराष्ट्र राजान हन्त्येको मन्त्रविप्लव॥ २८॥

तव तेजोनिधेर्देव सर्वलोकैकचक्षुष।
को नाम दर्शयेन्मन्त्र प्रदीप द्युमणेरिव॥ २९॥

चन्द्रादिवाम्बु तत्कान्ते सूर्यात्तेजस्तदश्मनि।
त्वत्तो गुणनिधेर्नाथ मतिर्मादृशि जायते॥ ३०॥

—————

विशोधयेत्यादि। हे महीपाल पृथ्वीपते, मन्त्रशाला मन्त्रगृह अशेषत सर्वप्रकारेण विशोधयमन्त्रशालायामनधिकारिण पुरुष निष्काशय। अस्या मन्त्रशालायामयुक्तपुमान् मन्त्रभेदको जीव स्थातु स्थितिं कर्तु नाहति न योग्यो भवति। किवत्। रतिरहस्यवत्। यथा रतिरहस्ये सभोगक्रीडाया अयुक्तो न स्थातुमर्हति। उपमैव॥

यतो यस्मात् कारणात्। एकमित्यादि। विषरसो हालाहलद्रव एक पुरुष हन्तिमारयति। शस्त्रेण च आयुधेन च एक पुमान् हन्यते मार्यते। मन्त्र विप्लवो मन्त्रभेदएकोऽद्वितीयो राजान नृप हन्ति मारयति। कथभूत राजानम्।सबन्धुराष्ट्रम् बन्धवश्चकुटुम्बवग राष्ट्र च देश बन्धुराष्ट्र सह वर्तते इति सबन्धुराष्ट्रस्तम्। व्यतिरेकालंकार॥

तवेत्यादि। विद्यामहोदधिसचिव प्राह—हे देव राजन्। नामेति सभावनायाम्।कपुमान् तव मन्त्र दर्शयेत् ज्ञापयेत्। अपि तु न कश्चिद्दर्शयेदित्यर्थ। कथभूतस्य तव।तेजोनिधे ज्ञाननिवानस्य। पुन कथभूतस्य तव। सर्वलोकैकचक्षुष सर्वेषालोकानामेकमद्वितीय चक्षुर्लोचन सर्वलोकैकचक्षुस्तस्य। कस्य कमिव। द्युमणे श्रीसूर्यस्य प्रदीपमिकज्योतिरिव। यथा द्युमणे सर्वलोकलोचनप्रायस्य प्रदीप क पुमान् दर्शयति। अपि तु न कश्चित्। दृष्टान्तालंकार॥

** चन्द्रादित्यादि।** हे नाथ हे राजन्, त्वत्तो भवत्सकाशात् मादृशि मल्लक्षणेजने मतिबुद्धि जायतेउत्पद्यते। कथभूतात्त्वत्। गुणनिधेर्ज्ञाननिधानात्। कस्मात्किमिव। चन्द्रात् तत्कान्ते चन्द्रकान्तमणौ अम्बु द्रवमिव जलमिव। यथा चद्रकान्तेमणौ चन्द्रादम्बु जायते तथा त्वत्तोऽस्मासु मतिरुत्पद्यते। पुन कस्मात् किमिव। सूर्यात् तदश्मनि सूर्यकान्तमणौ तेज इव उद्द्योत इव। यथा सूर्यकान्तरत्ने सूर्यात् तेजउत्पद्यते। उपमालंकार दृष्टान्तो वा॥

स्वस्यैव बुद्धिशुद्ध्यर्थ किं तु किंचिन्निगद्यते।
निकषाश्मोपकाराय न सुवर्णपरीक्षणम्॥३१॥

स्वय नयानभिज्ञस्य निसर्गात्सज्जनद्विष।
पुर क्षितिपतेर्नाम मौन मान्यैर्विधीयते॥३२॥

समस्तशास्त्रसदर्भप्रगल्भप्रतिभे त्वयि।
सल्लोकलोचनानन्दे को हि वाचयमक्रिय॥३३॥

किं च —

उक्ते युक्तेऽपि य स्वामी विपर्यस्येद्दुराग्रहात्।
प्रत्यर्थवेदिवेतण्डसमे तत्र क ईश्वर॥३४॥

——————

** स्वस्येत्यादि**। हे राजन्, स्वयमात्मना कितु किचित् मनाक्निगद्यते विज्ञाप्यते।किमर्थम्। स्वस्यैव आत्मन एव बुद्धिशुद्ध्यर्थबुद्धिविज्ञापनार्थम्। युक्तोऽयमर्थ। सुवर्णपरीक्षण कनककर्षण निकषात्मोपकाराय कषपट्टिकापाषाणस्य उपकाराय न भवति।अर्थान्तरन्यासालंकार॥

स्वयमित्यादि। हे राजन्, स्वयमात्मना नयानभिज्ञस्य नयो हिताहितलाभपरिहारोपाय त न अभिजानाति इति नयानभिज्ञस्तस्य नीतिशास्त्राविज्ञापकस्य निसर्गात् स्वभावेन सज्जनद्विष सज्जनान् द्वेष्टीति सज्जनद्विद्र तस्य सज्जनद्विष एवविशेषणद्वय विशिष्टस्य क्षितिपतेनरेन्द्रस्य पुरोऽग्रत। नामेति सभावनाया सबोधने वा।मान्यैर्ज्ञानवद्धि मनो ज्ञान तत्र नियुक्ता मान्यास्तर्मान्यै मौन मूकत्व विधीयते। जात्यलंकार॥

** समस्तेत्यादि।** हे राजन्, त्वयि भवति वाचयमक्रिय मौनवान् पुमान् को भवति। अपि तु न कश्चित् भवति। कथम्। हि स्फुटम्। कथभूते त्वयि। समस्तशास्त्रसदर्भप्रगल्भप्रतिभे समस्ताना समग्राणा शास्त्राणा धमार्थकाममोक्षग्रन्थाना सदर्भ समूहस्तस्मिन् प्रगल्भा प्रौढा कुशाग्रीया अन्तर्भेदिनी प्रतिभा बुद्धिर्यस्य स तथोक्तस्तस्मिन्।पुन कथभूते त्वयि। सन्तो विद्वासस्ते लोका सल्लोका। विद्वज्जना इत्यर्थ। तेषालोचनानि तेषामान द सल्लोकलोचनानन्दस्तस्मिन् आक्षेपालंकार॥

** किं च– उक्ते इत्यादि।** य स्वामी यो राजा युक्तेऽप्युक्ते हिते दुराग्रहात्दुष्टाभिप्रायात् कारणात् विपर्यस्येत् विपरीत मन्यते। तत्र तस्मिन् राजनि क पुमान्सबोधयितु समर्थ। य सबोधयति स एव म्रियत इत्यर्थ। कथभूते तत्र स्वामिनि।प्रत्यर्थिवेदिवेतण्डसमे प्रत्यर्थिन शत्रु वेत्त्येवशील प्रत्यर्थिवेदी स चासौ वेतण्डोगजस्तेन सम सदृश प्रत्यर्थिवेदिवेतण्डसमस्तस्मिन्। यथा प्रत्यर्थिवेदी गजो य कश्चित्हित शिक्षयति तमेव शत्रु ज्ञात्वा मारयति। उपमाक्षेपालंकार॥

वार्तयापि हि शत्रूणा प्रक्षुभ्यति मनोम्बुधि।
कस्तान्दृष्टिपथे कुर्यान्नर कुम्भीनसानिव॥४०॥

दुर्गे मन्दरकन्दराणि परिधिस्ते गोत्रधात्रीधरा
खेय सप्तपयोधय स्वविषय खर्ग सुरा सैनिका।

मन्त्री चास्य गुरुस्तथाप्ययमगात्प्राय परेषा वश
दैवाद्देवपतिस्तदत्र नृप कि तन्त्रेण मन्त्रेण वा॥४१॥

या नैव लभ्या त्रिदशानुवृत्त्या मनोरथैरप्यनवापनीया।
सा देव लक्ष्मी स्वयमागतेय निषेव्यतामत्र सुखेन सौधे॥४२॥

यस्तत्प्रसादादधिगम्य लक्ष्मी धर्मे पुनर्मन्दतरादर स्यात्।
तस्मात्कृतघ्न किमिहापरोऽस्ति रिक्त पुरोजन्मनि वा मनुष्य॥४३॥

——————

वार्तयेत्यादि। हे राजन् शत्रूणा अनभिमताना वार्तयापि न केवल युद्धेनमनोम्बुधिचित्तसागर प्रक्षुभ्यति चलति तान् शत्रून् को नर पुरुषो दृष्टिपथेलोचनगोचरे कुर्याद्विदध्यात्। अपि तु न कश्चन कुर्यादित्यर्थ। कथभूतान् तान्शत्रून्। कुम्भीनसानिव सर्पसदृशान्। आक्षेपोपमालंकार॥

दुर्गमित्यादि। हे नृप हे राजन्, अय प्रत्यक्षीभूतो देवपतिर्देवेन्द्र प्रायो बाहुल्येन तथापि तदपि दैवात् कर्मयोगात् परेषा शत्रूणा वश पराधीनत्व अगाज्जगाम।तथापि कथम्। यद्यपि अस्य देवपते मन्दरकन्दराणि मेरुविवराणि दुर्ग वर्तते। तेजगत्प्रसिद्धा गोत्रधात्रीधरा कुलपर्वता परिधि प्राकारो वर्तते। सप्तपयोधयसप्तसमुद्रा खेय खातिका वर्तते। स्वविषयो निजो देश स्वर्गलोको वर्तते। सैनिकाकिंकरा सुरा देवा वर्तन्ते। गुरुबृहस्पति मन्त्राय धीसचिवो वर्तते। ततस्तस्मात्कारणात् अत्र अस्मिन् ससारे तन्त्रेण सैन्येण मन्त्रेण वा पञ्चाङ्गमन्त्रेण किम्। नकिमपि। दैवमेवात्र प्रधानमित्यर्थ। समुच्चयालंकार॥

या नैवेत्यादि। हे देव हे राजन्, सा जगत्प्रसिद्धा इय प्रत्यक्षीभूता लक्ष्मीराज्यलक्ष्मी स्वयमागता वर्तते। यदि स्वयमेवागता तर्हि अत्रअस्मिन् सौधेत्रिभुवनतिलकनाम्नि प्रासादे सुखेन निश्चिन्ततया निषेव्यता अनुभूयता भवता। सा लक्ष्मीका। या लक्ष्मी त्रिदशानुवृत्त्या देवतासेवया नैव लभ्या न लभ्या न प्राप्या वर्तते।तथा मनोरथैरपि दोहदैरपि आस्ता तावत् प्रत्यक्षेण मनसापि अनवापनीया अलभ्या। अतिशयालंकार॥

यस्तत्प्रसादादित्यादि। हे राजन् य पुमान् तत्प्रसादात् पुण्यप्रसादात्लक्ष्मीमधिगम्य प्राप्य पुन पुनरपि धर्मे पुण्यकर्मणि मन्दतरादर शिथिल स्याद्भवेत्।

धन धर्मविलोपेन परभोगाय भूपते।
पाप त्वात्मनि जायेत हरेर्द्विपवधादिव॥४४॥

इति दैववादिनो विद्यामहोदधे सचिवात्,

चेष्टमान क्रिया सर्वा प्राप्नोति न पुन स्थित।
दृष्ट्वैवपौरुष शक्तिं को ह्यदृष्टाग्रहे ग्रह॥४५॥

पुण्यपापे नृणा देव ते च स्वाभाविके न हि।
किं तूभय समीहातस्तद्दैव क सुधीर्भजेत्॥४६॥

नरस्य बद्धहस्तस्य पुरो भक्ते कृतेऽपि यत्।
अशक्त मुखनिक्षेपे तद्दैव क समाश्रयेत्॥४७॥

—————

तस्मात् पुरुषात् इह अस्मिन् संसारे अपरोऽन्य क कृतघ्नो निर्गुणोऽस्ति। पुरोजन्मन्यागामिनि भवे तस्मात् परो मनुष्य कि रिक्तो वर्तते। अपि तु स एव रिक्तइत्यर्थ। आक्षेपालंकार॥

धनमित्यादि। हे राजन्, धर्मविलोपेन धर्मोच्छेदनेन परभोगाय परभोगनिमित्तभूपते नरेन्द्रस्य धन भवति। पाप तु आत्मनि राजनि जायेत उत्पद्येत। कस्मादिव।हरे सिंहस्य द्विपवधादिव हस्तिघातादिव। यथा सिंहो द्विपवध करोति पापमुपार्जयति, द्विपमास शृगालादय खादन्ति। उपमालंकार॥

हे मारदत्तमहाराज, इत्यमुना प्रकारेण पौरुषभाषिण पौरुषवादिन सकाशात्चार्वाकावलोकनात् नास्तिकमतवादिनो मन्त्रिण सकाशात् इतिकर्तव्यता हस्तेकृत्यषड्गुणानहमन्वतिष्ठम्। इतीति किम्। चेष्टमान इत्यादि। चार्वाकमतानुसचिवउवाच— हे राजन्, चेष्टमान उद्यम कुर्वाण सर्वा क्रिया भोजनादिकार्याणि प्राप्नोतिलभते, न पुन स्थितो न पुनर्निश्चल पुमान् कामपि क्रिया लभते। एवमीदृग्विधापौरुषी शक्तिं दृष्ट्वा उद्यमगुण विलोक्य क। न कोऽपि अदृष्टाग्रहे दैववादे ग्रहो दुष्टाभिप्राय। अपि तु न कश्चित्। आक्षेपालंकार॥

पुण्यपापे इत्यादि। हे देव हे राजन्, नृणा मनुष्याणा पुण्यपापे द्वे वर्तेते। ते चद्वे पुण्यपापे दैवशब्दवाच्ये स्वाभाविके प्राकृतिके न वर्तेते। किं तु उभय पुण्यपापद्वयसमीहात पौरुषात् भवति। तत्तस्मात् कारणात् क सुधी को विद्वान् दैव भजेत्।अपि तु न कश्चिद्भजेदित्यर्थ। पौरुषमेव करणीयमिति भाव। कथम्। हि स्फुटमितिशेष। आक्षेपालंकार॥

नरस्येत्यादि। हे राजन् नरस्य पुरुषस्य बद्धहस्तस्य सयमितहस्तद्वयस्य भक्तेओदने पुर अग्रत कृतेऽपि परिविषितेऽपि सति यत् दैव मुखनिक्षेषे मुखानयने अश-

दैवैकशरणे पुसि वृथा कृष्यादय क्रिया।
अकृत्वा कचिदारम्भमाकाशकवलो भवेत्॥४८॥

दैवावलम्बनवत पुरुषस्य हस्ता-
दासादितान्यपि धनानि भवन्ति दूरे।
आनीय रत्ननिचय पथि जातनिद्रे
जागर्ति तत्र पथिके हि न जातु दैवम्॥४९॥

किं च।

विहाय पौरुष यो हि दैवमेवावलम्बते।
प्रासादसिहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसा॥५०॥

तेजोहीने महीपाले स्वापरे च विकुर्वते।
निः शङ्क हि न को धत्ते पद भस्मन्यनूष्मणि॥५१॥

—————

क्तमसमर्थ वर्तते तदीदृश दैव क पुमान् समाश्रयेत् अवलम्बेत। अपि तु नकश्चित्। आक्षेपालंकार॥

दैवैकशरण इत्यादि। हे राजन्, दैवैकशरणे कर्मैकगतिके पुसि पुरुषे कृष्यादय क्रिया वृथा अन्तर्गडवो भवन्ति। कचित्कमपि आरम्भ उद्यम अकृत्वा अधिधाय आकाशकवलो भवेत् गगनग्रास स्यात्। उपमालंकार॥

दैवावलम्बनेत्यादि। हे राजन्, दैवावलम्बनवत देवाश्रयिण पुरुषस्य नरस्यआसादितान्यपि धनानि प्राप्तान्यपि स्वापतेयानि हस्तात् दूरे भवन्ति विप्रकृष्टे भवन्ति।अमुमेवार्थंदृष्टान्तद्वारेण द्रढयति—

रत्ननिचय रत्नसमूह माणिक्यपुञ्ज आनीय आहृत्यपथिके जातनिद्रे उत्पन्नतन्द्रे अध्वगे सति तत्र तस्मिन् रत्ननिचये दैव जातु कदाचित्न जागतिंन रक्षक भवति। कथम्। हि स्फुटमिति शेष। दृष्टान्तालंकार॥

किं चास्ति कश्चिद्वशेष। विहायेत्यादि। हे राजन् य पुमान् पौरुष विहायउद्यम परित्यज्य दैवमेकमेव अवलम्बते आश्रयति तस्य पुरुषस्य मूर्ध्नि मस्तके वायसाकाकातिष्ठन्ति सम्यगासते। किवत्। प्रासादसिंहवत् यथा प्रासादसिंहस्य मूर्ध्नि मस्तकेवायसा तिष्ठन्ति। निरुद्यम पुमान् शत्रुभिर्मार्यत इत्यर्थ। दृष्टान्तालकार॥

तेजोहीन इत्यादि। हे राजन्, तेजोहीने उद्यमरहिते पौरुषविवर्जिते महीपालेराजनि स्वाकुटुम्बवर्गा दायिन परे च शत्रवश्च विकुर्वते। अमुमेवार्थ अर्थान्तरद्वारेण द्रढयति—

अनूष्मणि उष्णत्वरहिते भस्मनि रक्षाया क पुमान् निःशङ्क निर्भययथाभवत्येव पद चरण को न धत्ते को न धरति। अपि तु सर्वोऽपि धरति। कथम्।हि स्फुटमिति शेष। दृष्टान्तालंकार॥

अहकारविहीनस्य किं विवेकेन भूभुज।
नरे कातरचिते हि क स्यादस्त्रपरिग्रह॥५२॥

हर्षोऽमर्षश्च नो यस्य धनाय निधनाय च।
को विशेषो भवेद्राज्ञस्तस्य चित्रगतस्य च॥५३॥

येषा बाहुबल नास्ति येषा नास्ति मनोबलम्।
तेषा चन्द्रबल देव कि कुर्यादम्बरस्थितम्॥५४॥

उदयास्तमयारम्भे ग्रहाणा कोऽपरो ग्रह।
कोऽन्य स्रष्टा जगत्स्रष्टु कपाले भैक्ष्यमश्नत॥५५॥

तद्विक्रमक्रमाक्रान्तसमस्तभुवनस्थिति।
विद्विष्टदानवोच्छेदाद्विजयी हरिवद्भव॥५६॥

—————————

** अहकारेत्यादि।** हे राजन्, अहकारविहीनस्य पौरुषरहितस्य भूभुजोराज्ञो विबेकेन किंचित् ज्ञानेन किम्। न किमपि। कातरचित्ते नरे भीरुमनसि पुसि अस्त्रपरिग्रह आयुधग्रहण क स्यात्। अपि तु न कश्चित्स्यादित्यर्थ। कथम्। हि स्फुटमितिशेष। आक्षेपालंकार॥

हर्ष इत्यादि। हे राजन्, यस्य राज्ञो नरेन्द्रस्य हर्षो धनाय न भवति। अमर्ष क्रोधश्चनिधनाय मृत्यवे नो भवेत्। तस्य राज्ञ चित्रगतस्य च चित्रलिखितस्य च राज्ञको विशेष। अपि तु न कश्चिद्विशेष इत्यर्थ। यथासख्यालंकार, आक्षेपश्च॥

येषामित्यादि। हे देव, येषा बाहुबल दोर्दण्डमण्डलपौरुष नास्ति न विद्यते,तथा येषा मनोबल चित्तोत्साहो नास्ति न जागर्ति न चकास्ति तेषा पुरुषाणामम्बरेआकाशे स्थित आसीन चन्द्रबल ज मादिस्थित कि कुर्यात् कि विदध्यात्। अपि तुन किमपि कुर्यादित्यर्थ। आक्षेपालंकार॥

उदयास्तेत्यादि। हे राजन्, उदयारम्भे अस्तमयारम्भे ग्रहाणा सूर्यादीनाकोपरो ग्रहो वर्तते। अपि तु न कश्चित्। जगत्स्रष्टु श्रीमहादेवस्य क अन्य स्रष्टावर्तते। जगत्स्रष्टु कि कुर्वत। कपाले मृतके करोट्या भैक्ष्य भिक्षासमूह अश्नतो भुञ्जानस्य। पौरुषमेव प्रधानमित्यर्थ। आक्षेपालंकार॥

तद्विक्रमेत्यादि। हे देव मारदत्त, तत्तस्मात् कारणात् विद्विष्टदानवोच्छेदात्शत्रुदैत्यदपदलनात् विजयी भव जयवान् जायस्व। कथभूत सन्। विक्रमक्रमाक्रान्तसमस्तभुवनस्थिति विक्रमक्रमेण पराक्रमपादेन आक्रान्ता स्वायत्तीकृता समस्तभुवनस्थिति स्थान येन स तथोक्त। किवद्विजयी भव। हरिवत् नारायणवत्। यथा हरिदर्शनवोच्छेदादध करोति। उपमालंकार॥

कामपि श्रियमासाद्य यस्तद्वृद्ध्यै न चेष्टते।
तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बिवत्॥५७॥

सुख श्रीभ्य श्रिय शौर्याच्छौर्य स्वायत्तजन्मकम्।
तथाप्यत्रैतदाश्चर्य यत्सीदन्ति नरेश्वरा॥५८॥

लब्धाप्यनन्यसामान्यसाहस नायक विना।
लक्ष्मीर्न निर्भराश्लेषा प्रमदेव जरत्पतौ॥५९॥

इति पौरुषभाषिण चार्वाकावलोकनात्,

दैव च मानुष कर्म लोकस्यास्य फलाप्तिषु।
कुतोऽन्यथा विचित्राणि फलानि समचेष्टिषु॥६०॥

अप्रेक्षापूर्विका यत्र कार्यसिद्धि प्रजायते।
तत्र दैव नृपान्यत्र प्रधान पौरुष भवेत्॥६१॥

—————

कामपीत्यादि। हे देव, कामपि श्रियमासाद्य कामपि लक्ष्मीं लब्ध्वा य पुमान्तद्वृद्ध्यै तल्लक्ष्मीवृद्ध्यर्थन चेष्टते न पौरुष कुरुते, तस्य पुरुषस्य आयतिषु उत्तरकालेषु श्रेय शुभ न भवति। किवत्। बीजभोजिकुटुम्बिवत् बीजभक्षककर्षकस्येव।उपमालंकार॥

सुखमित्यादि। हे राजन्, सुख आन द श्रीभ्यो भवति, श्रिय शौर्यात् सौभट्यात् भवन्ति, शौर्य सौभट्यस्वायत्तजन्मक आत्मायत्त न तत्पराधीनम्। तथापि तदपिनरेश्वरा राजानो यत्सीदन्ति दारिद्र्यदु खमनुभवन्ति एतत् अत्राश्चर्य वतते। हेतुरलंकार॥

** लब्धेत्यादि।** हे राजन्, लक्ष्मीर्लब्धापि सती प्राप्तापि सती अनन्यसामान्यसाहस नायक विना अनुपमपौरुष खामिनमन्तरेण निभराश्लेषा गाढालिङ्गना न भवति।केव। जरत्पतौ जराजीर्णे भर्तरि प्रमदेव स्त्रीव। उपमालंकार॥

पुनश्च किं कृत्वा शौर्यषड्गुणानन्वतिष्ठम्। इति अमुना प्रकारेण द्वयाश्रयिण दैवपौरुषद्वयस्थापकात् कविकुलशेखरात् कविकुलशेखरनामकात् सचिवात् इतिकर्तव्यताहस्तेकृत्य गृहीत्वा। इतीति किम्। कविकुलशेखरमाह— दैवमिति। हे राजन्, अस्य लोकस्य फलाप्तिषु फललाभेषु दैव पूर्वोपार्जित कर्म मानुष कर्म च पौरुषद्वय वर्तते।निष्केवल दैव निष्केवल पौरुष च लाभाय न भवति। अन्यथा समचेष्टिषु समानोद्यमेषुपुरुषेषु विचित्राणि नानाप्रकाराणि फलानि उच्चावचानि फलानि कुत। न कुतोऽपि।आक्षेपालंकार॥

अप्रेक्षेत्यादि। हे नृप, यत्र कार्ये अप्रेक्षापूर्विका अबुद्धिपूर्विका कार्यसिद्धि

सुप्तस्य सर्पसपर्के दैवमायुषि कारणम्।
दृष्ट्वानुवञ्चिते सर्पे पौरुष तत्र कारणम्॥६२॥

परस्परोपकारेण जीवितौषधयोरिव।
दैवपौरुषयोर्वृत्ति फलजन्मनि मन्यताम्॥६३॥

तथापि पौरुषायत्ता सत्त्वाना सकला क्रिया।
अतस्तच्चिन्त्यमन्यत्र का चिन्तातीन्द्रियात्मनि॥६४॥

इति द्वयाश्रयिण कविकुलशेखरात्,

मठस्थानमिद नैव न वादसमयोऽपि वा।
किं तु मन्त्रनिषद्येय तत्प्रस्तुतमिहोच्यताम्॥६५॥

———————

प्रजायते उत्पद्यते, तत्र तस्या कार्यसिद्धौ दैव प्रधानम्। अन्यत्र प्रेक्षापूर्विका कार्यसिद्धिप्रजायते, तत्र पौरुष प्रधान भवेत्। उक्त च समन्तभद्रेण भगवता

‘अबुद्धिपूर्वापेक्षायामिष्टानिष्ट स्वपौरुषात्’। जात्यलंकार॥

** सुप्तस्येत्यादि।** हे देव, सुप्तस्य निद्रा प्राप्तस्य पुरुषस्य सर्पसपर्के सति सर्पस्पर्शेसति आयुषि जीवितव्यकारण पौरुष भवति। जात्यलंकार॥

परस्परोपकारेणेत्यादि। दैवपौरुषयो कर्मोद्यमयो फलजन्मनि फलोत्पत्तौ

परस्परोपकारेण अन्योन्यगुणेन वृत्ति प्रवृत्तिर्मन्यता ज्ञायताम्

किमिव

। जीवितौषधयोरिव। यथा जीवित आयु कर्म औषधस्य उपकारक भवति, औषध तु जीवितस्योपकारक भवति, सति जीविते औषध लगति, औषधे सति जीवित स्थिरीभवति,एव सति दैवे पौरुष फलति सति पौरुषे दैव फलति। उपमालंकार॥

तथापीत्यादि। हे देव, यद्यप्येव तथापि तदपि सत्त्वाना प्राणिना सकला समस्ता क्रियाश्चेष्टा पौरुषायत्ता भवन्ति। अत कारणात् तच्चिन्त्य प्रारभ्य अन्यत्र दैवेका चिन्ता न काचित् चिन्ता।कथभूते दैवे। अतीन्द्रियात्मनि चक्षुरादीन्द्रियाणामगोचरे। आक्षेपालंकार॥

पुनश्च कि कृत्वा पूर्व षड्गुणानन्वतिष्ठम्। इत्यमुना प्रकारेण नवकात् नवीनात् उपायसर्वज्ञनाम्न सचिवात् इति कर्तव्यताक्रिया हस्तेकृत्य गृहीत्वा। उपायसर्वज्ञो मन्त्रीकथयति। कि कथयति**—**

मठस्थानमित्यादि। हे राजन्, इद मठस्थान छात्रादीनाविद्याभ्यासनिवासो न वर्तते। वाथवा वादसमयोऽपि गुरुशिष्ययोर्वादाभ्यासनिमित्तकालो न वर्तते। किं तु इय मन्त्रनिषद्या मन्त्रशाला वर्तते। तत्तस्मात् कारणात्प्रस्तुत प्रस्तावोचित इह अस्या मन्त्रशालाया उच्यता व्याह्रियताम्। जात्यलंकार॥

विजिगीषुररिर्मित्त्र पार्ष्णिग्राहोऽत्र मध्यम।
उदासीनोऽन्तरान्तर्द्धिरित्येषा विषयस्थिति॥ ६६॥

स एव विजयी तेषा शौर्यं यस्य नयानुगम्।
किमसाध्य ततो देव त्वया तद्द्वयसद्मना॥ ६७॥

देशकालव्ययोपायसहायफलनिश्चय।
देव यत्र स मन्त्रोऽन्यत्तुण्डकण्डूविनोदनम्॥ ६८॥

मन्त्र कार्यानुगो येषा कार्य स्वामिहितानुगम्।
त एव मन्त्रिणो राज्ञा न तु ये गल्लफुल्लना॥ ६९॥

नृपस्तदर्थमुद्यच्छेदकृत्वा दीर्घसूत्रिताम्।
मन्त्रक्रियान्यथा तस्य निरर्था कृपणेष्विव॥ ७०॥

——————

विजिगीषुरित्यादि। हे राजन्, इति अमुना प्रकारेण एषा प्रत्यक्षीभूता विषयस्थितिर्विषयस्य स्थितिर्मर्यादा धारणा वर्तते। इतीति किम्। एको विजिगीषु राजाआत्मद्रव्यप्रकृतिसंपन्नो नयस्याधिष्ठान विजिगीषू राजा, अज्ञैश्वर्ययो प्रतिकूलवृत्तिररि,चित्तवित्ताभ्यामनुकूलाचार मित्रम्, पश्चात्प्रकोपकारी पाष्णिग्राह, एतेभ्यो विकलो मध्यम। तदधिकबलतर उदासीन विजिगीषोररेर्मध्यो दुर्बल अन्तर्द्धिरिष्यते। जात्यलंकार॥

** स एवेत्यादि**। हे राजन्, स एव राजा तेषा विजयिना विजयी जेतावर्तते। स क। यस्य शौर्य भवति। कथभूत शौर्यम्। नयानुगम्। तत्तस्मात् कारणात्। हे देव, त्वया किं असाध्यम्। न किमप्यसाध्यम्। कथभूतेन त्वया। तद्वयसद्मनाशौर्यनयनिवासेन। आक्षेपालंकार॥

** देशकालेत्यादि।** हे देव हे राजन्, यत्र यस्मिन् मन्त्रे देशकालव्ययोपायसहायफलनिश्चय देशश्च कालश्च व्ययोपायश्च सहायश्च फल चदेशकालव्ययोपायसहायफलानि तेषा निश्चयो निर्धार यत्र मन्त्रे स तथोक्त। स मन्त्र अन्यत् इतरत्तुण्डकण्डूविनोदन मुखखर्जनस्योटनमेव न तु मन्त्र। रूपकालंकार॥

मन्त्र इत्यादि। हे राजन्, येषा मन्त्रिणा मन्त्र पर्यालोचलक्षण कार्यानुगकार्यकारक कार्य कर्तव्य स्वामिहितानुग भवति स्वामिनो हितकारक भवति राज्ञांनृपाणा त एव मन्त्रिण। न तु ये गल्लफुल्लना वाग्जालभाषिण। जात्यलंकार॥

नृप इत्यादि। नृपो नरेन्द्रस्तदर्थपूर्वोक्तमन्त्रार्थ व उद्यच्छेत् उत्साह कुर्यात्।किं कृत्वा। पूर्व दीर्घसूत्रिता कालक्षेप अकृत्वा अविधाय। अन्यथा दीर्घसूत्रिताकरणेतस्य राज्ञो मन्त्रक्रिया मन्त्रपर्यालोचो निरर्था अन्तर्गडुर्भवति। केष्विव। कृपणेऽष्विव

स्वदेश परदेशो वा मन्त्री भवतु भूभुजाम्।
प्रारब्धकार्यनिर्वाहसुखसिद्ध्या प्रयोजनम्॥७१॥

दुखाय देहजो व्याधि सुखाय वनजौषधि।
गुणा कार्यकृत पुसा भोजने स्वपरक्रिया॥७२॥

मन्त्रयुद्धाश्रितश्रीणा शस्त्रयुद्धेन किं फलम्।
को नाम शैलमारोहेदर्के लब्धमधु सुधी॥७३॥

अकृत्वा निजदेशस्य रक्षा यो विजिगीषते।
स नृप परिधानेन वृत्तमौलि पुमानिव॥७४॥

नरस्योपायमूढस्य मुधा भुजविजृम्भितम्।
शरा कि व्यस्तसवाना साधयन्ति मनीषितम्॥७५॥

—————

अदातृष्विव। यथा कृपणा वयमेतद्दान दास्याम इति पर्यालोचयन्ति पर न ददति।उपमालंकार।

स्वदेश इत्यादि। हे राजन्, भूभुजा नरेन्द्राणा स्वदेशो यस्य स्वदेश परोदेशोयस्य स परदेश वाथवा मन्त्री भवतु सचिव सजायताम्। प्रारब्ध कार्य निर्वाहसुखसिद्ध्या प्रयोजनम् प्रारब्धयत्कार्य तस्य निर्वाहे यत्सुख तस्य सिद्धि प्राप्ति प्रारब्धकार्य निर्वाहसुखसिद्धि तथा प्रयोजन अर्थोवर्तते। अर्थान्तरन्यासालंकार॥

दुःखाथेत्यादि। हे राजन्, देहजो निजशरीरोत्पन्नोऽपि व्याधीरोगो दुःखायभवति। वनौषधिररण्योद्भवौषधिमूलादिक सुखाय भवति दुःख स्फेटयित्वा सुखकरोति। पुसा पुरुषाणा गुणा उपकारा कार्यकृत कार्यकारिणो भवति कार्यमायान्ति। स्वपरक्रिया स्वकीयपरकीयविचारणा भोजने भवन्ति भुक्तिपङ्क्तौभवन्ति।दृष्टान्तालंकार॥

मन्त्रयुद्धेत्यादि। हे नूप, मन्त्रयुद्धाश्रितश्रीणा पुरुषाणा मन्त्रयुद्धेन आश्रिताश्रियो येषा ते मन्त्रयुद्धाश्रितश्रियस्तेषा नृपाणा शास्त्रयुद्धेन आयुधयुद्धेन किं फलम्। नकिमपि फलम्। नामेति सभावनायाम्।कसुधी को विद्वान शैल आरोहेच्चढति।कथभूत। अर्के मन्दारवृक्षे लब्धमधुप्राप्तक्षौद्र। अपि तु न कश्चिच्छेलमारोहेत्।आक्षेपालंकार, दृष्टान्तश्च॥

अकृत्वेत्यादि। यो नृपो निजदेशस्य रक्षामकृत्वा विजिगीषते अपर देश गृहीतुमिच्छति स नृप परिधानेन अन्तरीयवस्त्रेण वृत्तमौलि वेष्टितमस्तक पुमानिव पुरुषसदृशो भवति गुह्यस्थानमुद्घाटित करोति मस्तक सवृणोति तत्सदृश। उपमालंकार॥

नरस्येत्यादि। उपायमूढस्य नरस्य सामदानभेददण्डलक्षण चतुरुपायानभिज्ञस्य

अय लघुर्महानेष न चिन्ता नयवेदिषु।
नद्या पूरप्लवाद्यान्ति सम तीरतृणद्रुमा॥७६॥

तदाह—

एक हन्यान्न वा हन्यादिषु क्षिप्तो धनुष्मता।
प्राज्ञेन तु मति क्षिप्ता हन्याद्गर्भगतानपि॥७७॥

लब्धा अपि श्रियो यान्ति पुसा भोक्तुमजानताम्।
अबद्धा कुञ्जरेन्द्राणा पुलाका इव हस्तगा॥७८॥

निजवशैकदीपस्य वैर सापत्नज न ते।
चतुरन्तमहीनाथे त्वयि तद्भूमिज कुतः॥७९॥

न त्वयि स्त्रीजमप्येतत्परनारीसहोदरे।
नयविक्रमसंपन्ने वैर नान्यदपि त्वयि॥८०॥

—————

भुजविजृम्भित मुधा बाहुचेष्टा वृथेव वर्तते। व्यस्तसधानाश्चाप नारोपिता शराबाणा मनीषित कि साधयन्ति। अपि तु न साधयन्ति। आक्षेपालंकार॥

अयमित्यादि। हे नृप, अय पुमान् लघुरल्पीयानेष पुमान् महान् पुरुर्वर्तते।नयवेदिषु इदृशी चिन्ता न भवति। नद्या सरित पूरप्लवात् प्रवाहागमनात् तीरतृणद्रुमा सम सदैव यान्ति गच्छन्ति श्रमयित्वा पतन्ति। दृष्टान्तालंकार॥

तदाह**—**

एकमित्यादि। लघुगुर्वन्तरमाह**—**

हे राजन्, इषुर्बाण धनुष्मताधनुर्वेदिना क्षिप्तो मुक्त एक पुरुष हन्यात्। प्राज्ञेण नीतिवेदिना पुरुषेण मति क्षिप्ताप्रेरिता सती गर्भगतानपि हन्यात्। दीपकालंकार॥

लब्धा इत्यादि। हे राजन् भोक्तुमास्वादितुमजानता अविदता पुसा पुरुषाणां लब्धा अपि प्राप्ता अपि श्रियो लक्ष्म्यो यान्ति नश्यन्ति। क इव। अबद्धा अपिण्डीकृतातृणैरवेष्टिता कुञ्जरेन्द्राणा हस्तगा करप्राप्ता पुलाका इव घुर्घुरिका इव। उपमालंकार॥

निजेत्यादि। हे राजन्, सापत्नज वैर अपरमातृजपुत्रवैर ते तव न वर्तते।तत्कारणगर्भित विशेषणमाह—कथभूतस्य ते। निजवशैकदीपस्य निजस्य वशस्यैकोदीप उपद्योतकस्तस्य। यदि सापत्नज वैर नास्ति तहि तद्भूमिज वैरं भविष्यति तदपिन चतुरन्तमहीनाथे त्वयि चतु समुद्रान्तपृथ्वीपतौ त्वयि भवति तद्भूमिज वैरं कुत।न कुतोऽपि। हेत्वाक्षेपालंकार॥

न त्वयीत्यादि। हे राजन्, स्त्रीजमपि स्त्रीसबन्ध्यपि एतद्वैरं त्वयि भवति न वर्तते।कस्मात्। तत्कारणगर्भित विशेषणमाह—

कथभूते त्वयि। परनारीसहोदरे परस्त्रीभ्रातृसदृशे। अन्यदपि वैर त्वयि न वर्तते, अन्यदपि परधनग्रहणादिकमपि वैरं त्वयि न

उदयसमता हानिस्त्रय काला महीभुजाम्।
तत्राद्य एव योद्वव्य स्थातव्यमुभयो पुन॥८१॥

पादयुद्धमिवेभेन भूयसा सह विग्रह।
त सघातविघातेन साधयेद्वनहस्तिवत्॥८२॥

आमभाजनवद्युद्धे समेनोभयत क्षय।
एन प्रबन्धयेदन्यैर्गज प्रतिगजैरिव॥८३॥

हीनोऽपि सुभटानीकस्तीक्ष्णैरन्यै सहाहवे।
नेतव्य क्षीणता नो चेन्नयैर्दासत्वमानयेत्॥८४॥

———————

वर्तते। तत्कारणगर्भित विशेषणमाह**—**

कथभूते त्वयि। नयविक्रमसपत्ने नीतिपराक्रमसंयुक्ते। रूपकहेत्वलंकार॥

उदय इत्यादि। हे राजन्, महीभुजा कालास्त्रयो वर्तन्ते। के ते। एकस्तावदुदयउदयकाल परस्मादात्मन अतिवृत्तिरधिकवृद्धिरुदय कथ्यते। द्वितीय समताकालआत्मपरयोरैश्चयसाम्ये समता। तृतीयो हानिरेतद्वैपरीत्य हानि। तत्रत्रिषु कालेषुमध्ये आद्ये एव उदयकाले एव योद्धव्यम्। उभयो समताहानिकालयोपुन स्थातव्यम्। न योद्धव्यमित्यर्थ। जात्यलंकार॥

पादयुद्धमित्यादि। हे राजन्, भूयसा प्रचुरबलेन राज्ञा सह विग्रहो युद्धम्।कीदृश वर्तते। इभेन हस्तिना सह पादयुद्धमिव। हस्तिना सह युध्यमान पत्तिभिर्हस्तिना पात्यत एव। तमरिं सधातविघातेन समूह कृत्वा हननेन साधयेत्। किवत्।वनहस्तिवत्। यथा वनहस्ती एको बहुभि पत्तिभिर्हस्तिभिर्वा साध्यते। उपमालंकार॥

आमभाजनेत्यादि। हे राजन् समेन समानबलेन राज्ञा सह युद्धे सति उभयत स्वस्मिन् परस्मिंश्च क्षयो विनाशो भवति। किवत्। आमभाजनवत्। यथाअपक्वेन मृद्भाजनेनापक्वमृद्भाजन ताड्यमान उभये अपि भाजने भज्येते, तथा उभयतक्षयो भवति। पक्वेन भाजनेन अपक्वभाजन यत्ताड्यते तदा अपक्वमेव भज्यते। तेनसमानेन सह युद्ध न कर्तव्य। एन सम शत्रु प्रबन्धयेत् बद्ध कुर्यात्। कैरन्यै कृत्वा।अन्यैर्नृपै कृत्वा प्रकर्षेण बन्धयेत्। कै कमिव। गज प्रतिगजैरिव हस्तिनमपरहस्तिभिरिव। उपमालंकार॥

हीनोऽपीत्यादि। हीनोऽपि। अपिशब्दात् अधिकोऽपि। सुभटानीक सुभटसमूह अन्यैस्तीक्ष्णैर्हिसकै सुभटै सह आहवे सग्रामे सति क्षीणता नेतव्य क्षय प्रापणीय।नो चेत् यदि अन्यैस्तीक्ष्णै क्षीणत्व सुभटानीको न नीयते तर्हि नयैर्न्यायै कृत्वा दासत्वसेवकत्वमानयेत् प्रापयेत्। उपमालंकार॥

अह महानय स्वल्पश्चिन्तेय नृप मुच्यताम्।
सिंहशावात्करीन्द्राणा मृत्युरत्र निदर्शनम्॥८५॥

पुष्पैरपि न योद्धव्य कि पुनर्निशितै शरै।
तामवस्था गताना तु न विद्म किं भविष्यति॥८६॥

क्षत्रसार भृत शूरमस्त्रज्ञमनुरागि चेत्।
अपि स्वल्प श्रियै सैन्य वृथेय मुण्डमण्डली॥८७॥

अन्योन्यशत्रुसक्षोभान्निष्कण्टकमहीतल।
लक्ष्मीपतिस्तटस्थोऽपि भिन्नमुद्रवहित्रवत्॥८८॥

तन्नयानायनिक्षेपात्कुरु हस्ते द्विषत्तिमीन्।
दोर्भ्या युद्धाम्बुधिक्षोभात्तद्गृहे कुशल कुत॥८९॥

—————

अहमित्यादि। हे नृप, अह महान् अय शत्रु स्वल्पो वर्तते इय इदृशी चिन्तामुच्यता परिह्रियताम्। अत्र अस्मिन्नर्थे सिंहशावात् सिंहबालकात् करी द्राणा मृत्युनिदर्शन दृष्टान्तो वर्तते। प्रतिवस्तूपमालंकार॥

** पुष्पैरित्यादि।** हे नृप, पुष्पैरपि प्रसूनैरपि न योद्धव्य न युद्ध कर्तव्यम्।निशितै शरै किं पुनरुच्यते। शरैर्विशेषेण न योधनीयमित्यर्थ। ता युद्धावस्थागताना प्राणिना किं भविष्यतीति न विद्म। न वय जानीम इत्यर्थ। जात्यलंकार।

क्षत्रसारमित्यादि। हे राजन्, स्वल्पमपि सैन्य श्रियै लक्ष्मीनिमित्त भवति।इय प्रत्यक्षीभूता मुण्डमण्डली बहुसैन्य वृथा निरर्थका वर्तते। कथभूत सैन्यम्। क्षत्रसार क्षत्रा सुभटा राजपुत्रा यस्मिन् सैन्ये तत्क्षत्रसारम्। पुन कथभूत सैन्यम्।भृत अत्राज्यादिभि पोषितम्। पुन कथभूतम्। शूर युद्धे निभयम्। पुन कथभूतम्।अस्त्रज्ञ क्षुरिकादियुद्धचतुरम्। पुन कथभूतम्। चेत् यपि अनुरापि स्वामिन्यकृत्रिमस्नेह भवति। समुच्चयालंकार॥

** अन्योन्येत्यादि।** हे राजन् राजा तटस्थोऽपि दूरस्थोऽपि लक्ष्मीपतिर्भवतिश्रीपतिर्भवति। तत्कारणगर्भित विशेषणमाह— कथभूतो राजा। अन्योन्यशत्रुसक्षोभात् शत्रूणा परस्परं युद्धकारणात् निष्कण्टकमहीतल निष्कण्टक क्षुद्रशत्रुरहितमहीतल यस्य स तथोक्त। किवल्लक्ष्मीपतिर्भवति। भिन्नमुद्रवहित्रवत् मुद्रासहितप्रवहणस्येव। यथा कश्चिद्बहव्द्यवहारी प्रवहणो देशान्तर गतोऽपि तस्य वहित्रस्य निजनामाङ्केन दूरस्थोऽपि पति स्वामी भवति, तथा राजापि परस्परशत्रुक्षयाल्लक्ष्म्यास्वामी भवति। उपमालंकार॥

तन्नयेत्यादि। हे राजन्, तत्तस्मात् कारणात् नयानायनिक्षेपात नयो नीतिस एव आनायो जाल तस्य निक्षेपो मोचन नयानायनिक्षेपस्तस्मात्। द्विपत्ति-

एक वपुरुभौ हस्तौ शत्रवश्चपदे पदे।
दुःखकृत्कण्टकोऽपि स्यात्कियत्खङ्गेन साध्यते॥९०॥

साम्ना दानेन भेदेन यत्कार्य नैव सिध्यति।
तत्र दण्ड प्रयोक्तव्यो नृपेण श्रियमिच्छता॥९१॥

सामसाध्येषु कार्येषु को हि शस्त्र प्रयोजयेत्।
मृतिहेतुर्गुडो यत्र कस्तत्र विषदायक॥९२॥

अकुर्वन्नात्मलक्ष्मीणा सविभाग नरेश्वर।
मधुच्छत्रमिवाप्नोति सर्वनाश सहात्मना॥९३॥

————————

मीन्शत्रुमत्स्यान् हस्ते कुरु निजसेवकान् विधेहि। दोर्भ्यावाहुभ्या युद्धाम्वुधिक्षोभात्युद्धसागरतरणात् तद्गृहे योधगृहे कुशल शुभ कुत। न कुतोऽपीत्यर्थ। रूपकालंकार, आक्षेपालंकारश्च॥

एकमित्यादि। हे राजन्, वपु शरीर तावदेक वर्तते। कण्टकोऽपि बदरीकण्टकसदृश क्षुद्रशत्रुरपि दुःखकृत्स्यात्। उक्तच —

‘सूच्यग्रेक्षुद्रशत्रोच रोमहर्षे च कण्टक’। तेन कारणेन खङ्गेन असिना कियत् किं परिमाणमस्येति कियत्सा यते। अपि तुन क्रियदपि सा यते। तेन सामदानभेदादिना शत्रु साध्यत इत्यर्थ। आक्षेपालंकार॥

साम्नेत्यादि। हे राजन्, यत्कार्य कर्तव्य साम्ना दानेन भेदेन च नैव सिध्यति तत्रनृपेण दण्ड प्रयोक्तव्य। कथभूतेन नृपेण। श्रियमिच्छता तत्रसाम पञ्चविधम्**—**

सबन्धोपारयानम्, गुणसंकीर्तनम्, अन्योपकारदर्शनम्, आत्मोपरिधानम्, आयतिप्रदर्शनम्, चेति। भूमिहिरण्यकन्यादिवितरण दानम्। शङ्काजननमतिभत्सन च भेद।वधपरिक्रोश अर्थहरण च दण्ड। जात्यलंकार॥

सामसाध्येष्वित्यादि। हे राजन्, सामसाध्येषु कार्येषु साम्ना पूर्वोक्तेन पञ्चविधेन साध्यानि सामसाध्यानि तेषु सामसा येषु कार्येषु क पुमान् शस्त्रमायुध प्रयोजयेत् प्रेरयेत्। अपि तु न कश्चित्। यत्रयस्मिन् मृतिहेतुर्मरणकारण गुडो भवति,तत्र तस्मिन् पुरुषे विषदायको ब्रह्मपुत्रविश्राणक को भवेत्। कथ हि स्फुटमितिशेष। दृष्टान्तालंकार, आक्षेपश्च॥

अकुर्वन्नित्यादि। हे राजन्, नरेश्वरो राजा आत्मलक्ष्मीणा निजसपदा सविभाग सविभजन दायादीनामवण्टकरण अकुर्वन् अविदधन् सर्वनाश सर्वलक्ष्मीक्षयआप्नोति। कथम्। सह सार्धम्। केन। आत्मना निजशरीरेण। किमिव। मधुच्छत्रमिव यथा मधुच्छत्र मधुपुलक मधूनि सचिनोत्येव, न कस्यापि किमपि ददाति तथाकश्चित्समायाति स त मधुपुलक भड्क्त्वानिश्च्योतत् मधु गृहीत्वा गच्छति। एव राजापिलक्ष्मीविनाश प्राप्नोति। दृष्टान्तसहोक्त्यलंकार॥

अभित्त्वा शत्रुसघात य पराक्रमते नृप।
स तुङ्गस्तम्बसलग्नवीरणाकर्षकायते॥९४॥

शक्तिहीने मति कैव का शक्तिर्मतिवर्जिते।
नृपस्य न्याय्यदृष्टान्त पङ्गुरन्धश्च कथ्यताम्॥९५॥

दूरस्थानपि भूपाल क्षेत्रेऽस्मिन्नरिपक्षिण।
बलोपलमहाघोषै क्षिप क्षेपणिहस्तवत्॥९६॥

निपाजीव इव स्वामिन्स्थिरीकृतनिजासन।
चक्र भ्रमय दिक्पालपुरभाजनसिद्धये॥९७॥

—————

अभित्त्वेत्यादि। हे राजन्, यो नृप शत्रुसंघात अभित्त्वा भेदमकृत्वा रामवद्विभीषणस्य पराक्रमते उद्यम करोति स राजा तुङ्गस्तम्बसंलग्नवीरणाकषकायते तुङ्गा उन्नता ये स्तम्बा स्कन्धप्रदेशास्तै संलग्न परस्पर मिलितो योऽसौ वीरणो वशवृक्षस्तस्य आकर्षक आतानकस्तुङ्गस्तम्बसंलग्नवीरणाकर्षक स इवाचरति तुङ्गस्तम्बसलग्नवीरणाकर्षकायते।उपमालंकार॥

शक्तिहीन इत्यादि। हे राजन्, शक्तिहीने नृपे मति कैव। अपि तु न काचिद्वर्तते। मतिवर्जिते राजनि नीतिशास्त्रस्य अविज्ञायके नृपे शक्ति का। अपि तु नकाचिच्छक्ति। तस्य नृपस्य दृष्टान्त उदाहरण पङ्गुपादविक्ल अन्धश्चक्षुहींनश्चकथ्यताम्। तथा राजा ज्ञानवानपि शक्तिहीन किं करोति, तथा मतिहीनो राजाशक्तिमानपि किं करोति। आक्षेपालंकार, उपमा च॥

** दूरस्थानपीत्यादि**। हे भूपाल हे राजन्, अरिपक्षिणशत्रुशकुन्तान् दूरस्था नपि विप्रकृष्टानपि अस्मिन् क्षेत्रे उज्जयिन्या पुरि स्थित सन् त्व बलोपलमहाघोषै बल सन्य उपला पाषाणश्च महाघोषा महाशब्दाश्च तै कृत्वा क्षिप प्रेरय।किवत्। क्षेपणिहस्तवत् गोलागोफणिकरवत्। यथा गोलागोफणिसहितहस्त पुमानरीन् दूरस्थानपि हन्तीति वाक्यार्थ। दृष्टान्तालंकार॥

** निपाजीवेति।** हे स्वामिन् प्रभो, त्व स्थिरीकृतनिजासन स्थिरीकृत निश्चलीकृत निजासन स्वकीयमासन येन स स्थिरीकृतनिजासन चक्र सैन्य भ्रमय कटकप्रेषय।किमर्थम्। दिक्पालपुरभाजनसिद्धये दिक्पालाश्चतुर्दिग्वलयनृपास्तेषा पुराणितान्येव भाजनानि भोज्यपात्रादीनि सुखामृताधारत्वात् तेषा सिद्धि प्राप्तिस्तस्यै दिक्पालपुरभाजनसिद्धये। क इव। निपाजीव इव कुम्भकारवत्। यथा निपाजीवचक्रभ्रमयन् घटादिभाजनप्राप्तिमान् भवति। उपमारूपकालंकार॥

नृणा परिच्छद स्वस्य कार्यायाथ सुखाय च।
तदर्थमात्मन क्लेशे किं परिच्छदसपदा॥९८॥

स वाह वेति सदेहो मतेर्यत्रोपजायते।
तत्रादावेव को नाम रणे प्रेरयते नृपम्॥९९॥

पाति क्षेत्र यथा गोप स्थित्वा तन्नाभिमञ्चुके।
तथा त्वमपि राजेन्द्र चतुरन्तामव क्षितिम्॥१००॥

येऽनन्तर स्थिता भूमेस्ते नृपास्तव भूपते।
प्रतिहारसम द्वारि तिष्ठन्त्याज्ञापरायणा॥ १०१॥

अन्येऽपि मण्डलाधीशा कृतलोकैकशासनम्।
वाञ्छितैस्त्वा निषेवन्ते सिद्धा कल्पद्रुमा इव॥ १०२॥

—————

** नृणामित्यादि।** हे राजन्, नृणा मनुष्याणा परिच्छद परिवार स्वस्यात्मनकार्याय कारणाय च अन्यत् सुखाय सुखोत्पादनाय च भवति। चकारः परस्परसमुच्चयेवर्तते। तदर्थ कार्यकारणार्थ च आत्मन स्वस्य क्लेशे सति उद्यमे सति परिच्छदसपदापरिवारश्रिया किम्। किमपि न। आक्षेपालंकार॥

स वाहमित्यादि। हे राजन्, नृणा मनुष्याणा यत्र यस्मिन् दण्डलक्षणे युद्धेइति ईदृक् मतेबुद्धे सदेह सशय उपजायते उत्पद्यते। इतीति किम्। स च शत्रुर्वाराजा भविष्यति अह वा राजा भविष्यामि। तत्र आदावेव प्रथमत एव। नामेतिसभावनायाम्। क पुमान् नृप राजान रणे प्रेरयते प्रयोजयति। अपि तु न कश्चित्।आक्षेपालंकार॥

पातीत्यादि। हे राजेन्द्र, यथा येन प्रकारेण गोप कर्षक तन्नाभिमञ्चुके क्षेत्रमध्यमालके स्थित्वा क्षेत्र पाति रक्षति। तथा तेन प्रकारेण त्वमपि भवानपि चतुरन्ता चतु समुद्रपर्यन्ता क्षितिं भूमिभव प्रतिपालय। दृष्टान्तालंकार॥

येऽनन्तरमित्यादि। हे भूपते राजन्, ये नृपास्ते तव भूमेर्देशस्य अनन्तरस्थिता निकटवर्तिनो वर्तन्ते ते नृपा तव द्वारि तिष्ठति वर्तन्ते। कथम्। प्रतिहारसमद्वारपालसदृश यथा भवत्येवम्। कथभूतास्ते नृप। आज्ञापरायणा विशिष्टतत्पराः।उपमालंकार॥

अन्य इत्यादि। हे राजन्, अन्येऽपि अपरेऽपि मण्डलाधीशा तृतीयदेशस्थितादेशपतय ते राजान त्वा भवन्त वाञ्छितै प्राभृतै कृत्वा निषेवन्ते सेवा कुर्वते।कथभूतास्ते राजान। सिद्धा कल्पद्रुमा इव हस्तप्राप्ता कल्पवृक्षा इव। कथभूत त्वाम्।

स्वानुवर्तिषु लोकेषु यस्तु क्षोभाय चेष्टते।
श्रेयासि न चिर तस्य सुप्तव्यालप्रबोधिवत्॥१०३॥

व्यलीकैश्वर्यपर्याप्तव्यस्तमर्यादचेतसाम्।
विनयाय तथाप्येषा दिक्षु दण्डोऽतिदिश्यताम्॥ १०४॥

इति नवकादुपायसर्वज्ञात् ‘साध्वाह देव, आर्यमिश्राणामग्रणी प्रज्ञउपायसर्वज्ञ।

द्विषतापि हिते प्रोक्ते सन्तस्तदनुलोमना।
विवदेतात्र को नाम समकार्यधुरोदिते॥ १०५॥

—————

कृतलोकैकशासनम् कृत विहित लेके ससारे एकमद्वितीय शासनमादेशो येन सतयोक्तस्तम्। उपमालंकार॥

स्वानुवर्तिष्वित्यादि। हे राजन्, यस्तु राजा स्वानुवर्तिषु निजपृष्ठलग्नेषु अनुकूलेषु लोकेषु सेवकेषु क्षोभाय क्रोधायावदानाय चेष्टते प्रवर्तते। तस्य राज्ञश्चिर दीर्घकाल श्रेयासि शुभानि कल्याणानि न भवन्ति। किवत्। सुप्तव्यालप्रबोधिवत् सुप्तोनिद्रा प्राप्तो व्याल कालसर्पस्तस्य प्रबोधिवत् जागरकस्येव। उपमालंकार॥

व्यलीकेत्यादि। हे राजन्, यद्यप्येव तथापि तदपि एषा नरेन्द्राणा विनयायशिक्षार्थदिक्षु दिङ्मण्डलेषु दण्ड सैन्यमतिदिश्यता दीयता प्रस्थापनीयम्। कथभूतानामेषाम्। व्यलाकैश्वर्यपर्याप्तव्यस्तमर्यादचेतसाम् व्यलीक असत्य रिक्त यदैश्वर्यनार्पत्य तेन पर्याप्ता परिपूर्णा व्यस्ता परित्यक्ता मर्यादा स्थिति चेतो मनो येषा तेतथोक्तास्तेषाम्। जात्यलंकार॥

इतीत्यादि। पुनश्च कि कृत्वा पूर्व षड्गुणान वतिष्टम्। इत्यमुना प्रकारेण गीतिबृहस्पतेर्नाम सचिवात् इतिकर्तव्यताक्रिया हस्तेकृत्य। कथभूतान्नीतिबृहस्पते। समासादितसमस्तसचिवपुर सरस्थितेसमासादिता प्राप्ता समस्तेषु सर्वेषु सचिवेषु मन्त्रिषुपुर सरामुख्या स्थितिर्मर्यादा धारणा येन स तथोक्तस्तस्मात्। इतीति किम्। नीतिबृहस्पतिमन्त्री कथयति— हे देव हे राजन्, उपायसवज्ञो नाम सचिव साध्वाह युक्त ब्रवीति। कथभूतउपायसर्वज्ञ।आर्यमिश्राणा बुधप्रधानानामध्ये अग्रणी प्रज्ञ प्रधानबुद्वि।

द्विषतेति। हे देव, द्विषतापि शत्रुणापि हिते परिणामपथ्ये प्रोक्ते कथिते सतिसन्तो विद्वज्जनास्तदनुलोमना तस्य प्रोक्तस्य सानुकूला भवन्ति। अत्र अस्मिन् प्रोक्ते।नामेति सभावनायाम्। क पुमान् विवदेत विवाद कुर्यात्। अपि तु न कश्चिद्विवदेत।कथभूते अत्र प्रोक्ते। समकायधुरोदिते समकायस्य साधारणकार्यस्य धुरि मुख्यतयाउदित यत्र तत् तथा तस्मिन्। ‘पथि अपूपुनधुन्’ (?) इति वचनात् अकारा तोनिपात। आक्षेपालंकार॥

केवलमिदमशेषार्थशास्त्रोपात्तसारसमुच्चय सुभाषितत्रय शारीर कर्मेवप्रत्यहमवधातव्यम्।

स्वस्मान्निज परोऽन्यस्मात्स्व परस्मात्परो निजात्।
रक्ष्य स्वस्मात्परस्माच्च नित्यमात्मा जिगीषुणा॥१०६॥

वृक्षान्कण्टकिनो बहिर्नियमयन्विश्लेषयन्सहिता-
नुत्खातान्प्रतिरोपयन्कुसुमिताश्चिन्वल्लघून्वर्धयन्।
उच्चान्सनमयन्पृथूश्च कृशयन्नत्युच्छ्रितान्पातय-
न्मालाकार इव प्रयोगनिपुणो राजन्मही पालय॥१०७॥

—————

केवलमित्यादि। हे राजन्, केवल निष्केवलमिद वक्ष्यमाण सुभाषितत्रय प्रत्यहनिरन्तरमवधातव्य अवधारणीयम्। कथभूत सुभाषितत्रयम्। अशेषार्थंशास्त्रोपात्तसारसमुच्चयम् अशेषाणि समग्राणि यान्यर्थशास्त्राणि तेभ्य उपात्तो गृहीत सारसमुच्चयोयत्र सुभाषितत्रये तत्तथोक्तम्। किमिव अवधातव्यम्। शारीर कर्मेव भोजनादिकमिव॥

** स्वस्मादित्यादि।** हे राजन्, जिगीषुणा नरेन्द्रेण स्वस्मात् निज स्वकीय पुमान्रक्ष्य रक्षणीय। परोऽन्योऽन्यस्मात् रक्षणीय। स्व स्वकीय परस्मात् रक्षणीय।केनापि पीडित सन् स्वभृतेन रक्षणीय।परपीडित सन् परेण रक्षणीय। कदाचित्परस्मादपि स्व रक्ष्य। स्वस्मादपि परो रक्ष्य। निजात्मा तु स्वस्मात् परस्मात् सर्वैप्रकार रक्षणीय इत्यर्थ। कथम्। नित्य सर्वकालम्। जात्यलंकार॥

** वृक्षानित्यादि।** हे राजन्, महीं पालय रक्षा क इव मालाकार इव पुष्पोपजीवीव। कथभूतस्त्वम्। प्रयोगनिपुण यथायोग्यव्यापारचतुर। यथा मालाकार निजवन प्रतिपालयति। किं कुर्वन्। कण्टकिन खदिरबदरीकिदर्पादीन् वृक्षान् तरून् बहिर्बाह्ये वृतिस्थाने नियमयन् बध्नन्वन पालयति। तथा राजापि क्षुद्रशत्रून् मण्डलाद्वहिकुर्वन् महीं पालयति। मालाकार पुन कि कुर्वन्। सहितान् मिलितान् वृक्षान् विश्लेषयन् विरलान् कुर्वन्। तथा राजापि मिलितान् नृपान् पृथक्कुर्वन् महीं पालयति।मालाकार पुन कि कुर्वन्। उत्खातान् वातादिना उन्मूलितान् वृक्षान् प्रतिरोपयन्पुनर्वापयन् वन पालयति। तथा राजापि उत्खातान् गृहीतदण्डान् प्रतिरोपयन् पुनर्मन्त्र्यादिपद ददत् महीं पालयति। मालाकार पुन कि कुर्वन्। कुसुमितान् पुष्पितान्वृक्षान् चिन्वन् पुष्पाणि लुनन् अवचुण्टयन्। तथा राजापि वर्धितधनान् षष्ठाश गृह्णन्महीं पालयति। मालाकार पुन कि कुर्वन्। लघून् बालतरून् वर्धयन् गुरून् कुर्वन्।तथा राजापि कृतकार्यमृतसेवकपुत्रान् वर्धयन् पितृसदृशान् कुर्वन् महीं पालयति।मालाकार पुन कि कुर्वन्।उच्चान् उन्नतान् वृक्षान् सम्यक्प्रकारेण नमयन्, तच्छायापातेन अन्ये वृक्षा न वर्धन्ते यत तथा राजापि उच्चान् गर्वितान् सनमयन् पादयो

स्वल्पादपि रिपोर्बीजादश्वत्थस्येव शाखिनि।
भय जायेत कालेन तस्मात्कस्तमुपेक्षते’॥१०८॥

इति समासादितसमस्तसचिवपुर सरस्थितेर्नीतिबृहस्पतेश्च लक्ष्मीमुद्राङ्कागाङ्गेयोर्मिकामिव हस्तेकृत्येतिकर्तव्यताक्रिया सत्यवागिव प्रतिपन्नधर्मविजयैकभावो यथाकाल षडपि गुणानन्वतिष्ठम्।

यथा मदगजारूढे यतयाताप्रयोगिणि।
न चिर श्रीस्तथामन्त्रे जाततन्त्रेऽपि राजनि॥१०९॥

शुचय स्वामिनि स्निग्धा राजराद्धान्तवेदिन।
मन्त्राधिकारिणो राज्ञामभिजाता स्वन्देशजा॥११०॥

** **कदाचित्सततसन्मानदानाह्लादितसमस्तमित्रतन्त्रसचिवलोकमतिसमु-

———————

पातयन् महीं पालयति। मालाकार पुन कि कुर्वन्। पृथून् विस्तीर्णाश्च कृशयन्प्रतनुकुर्वन्। तथा राजापि पृथून् प्रचुरसैन्यान् कृशयन् अल्पसैन्यान् कुर्वन् महीं पालयति।दृष्टान्तालंकार॥

स्वल्पादित्यादि। हे राजन्, स्वल्पादपि हीनादपि रिपो शत्रो बीजात्सतानात् उत्तरकाले भय जायेत भीतिरुत्पद्येत। कस्मिन्निव। अश्वत्थस्य पिप्पलवृक्षस्यअल्पादपि बीजात् शाखिनि परवृक्षे भय जायते। तमपरवृक्ष विदारयतीत्यर्थ।तस्मात् कारणात् अल्पशत्रुबीज क पुमान् उपेक्षते अनादरीकुर्यात्। तमुद्धरेदित्यर्थ।उपमाक्षेपालंकार॥

इदानीं मन्त्रप्रस्तावोचित मन्त्रमन्त्रिणो स्वरूपमाह

यथेत्यादि। यथा येन प्रकारेण मदगजारूढे पुरुषे यतयाताप्रयोगिणि यतयातस्य वाक्पादाङ्कुशप्रणिधीनामप्रयोगिणिअकारके पुरुषे चिर दीर्घकाल श्री शोभा न भवति तेन हस्तिना सोऽप्रयोगी पातितसन् अशोभा लभते। तथा तेन प्रकारेण अमन्त्रे मन्त्रविज्ञानरहिते राजनि नृपे जाततन्त्रेऽपि उत्पन्नबहुसैन्येऽपि श्री राज्यलक्ष्मी चिर दीर्घकाल न भवति। दृष्टान्तालंकार॥

शुचय इत्यादि। राज्ञा नरेन्द्राणा मन्त्राधिकारिणो मन्त्रिणो धीसचिवा भवन्ति।कीदृशो भवन्ति। शुचय परधनपरयोपित्पराङ्मुखा। स्वामिनि स्निग्धा। पुन कथभूता।अभिजाता कुलोद्गता। पुन कथभूता। स्वदेशजा निजदेशोद्भवा। जात्यलंकार।इति मन्त्राधिकार समाप्त॥

कदाचिदित्यादि। कदाचित् कस्मिंश्चिदवसरे त जगत्प्रसिद्ध दूत आक्षपटलिकेनव्यवहारवेदिना अक्षो व्यवहारस्तस्य पटल समूह अक्षपटल अक्षपटले नियुक्त आक्षपटलिकस्तेन आक्षपटलिकेन। उक्त च**—**

‘रावणात्मज आत्मा च ज्ञान सूचन इत्यपि।

द्धृतमन्त्र श्रीविलासिनीसूत्रितैश्वर्यवरेषु वसुमतीश्वरेषु खलु दूतपूर्वा सर्वेऽपिसध्यादयो गुणा इत्यवधार्याकार्य च

दक्ष शूर शुचि प्राज्ञ प्रगल्भ प्रतिभानवान्।
विद्वान्वाग्ग्मी तितिक्षश्च द्विजन्मा स्थविर प्रिय॥१११॥

** **इति गुणविशिष्टमशेषमनीषिपुरुषपरिषदिष्टमखिलप्रयाणसामग्रीसुविधेयहिरण्यगर्भनामधेय शास्त्रशस्त्राभ्यासनिर्जितामरगुरुपार्थं निसृष्टार्थं निजप्रज्ञातिशयावहेलितपुलह पुलोमपुलस्तिपालकाप्यकात्यायनमतिजात दूतमाक्षपटलिकेन तमेव लेखार्थंश्रावयामास।

—————————

कर्षे विनीतकश्चैव वासकासद्भिरीरित॥ व्यवहारो रथस्यात्रावयवाप्यक्ष उच्यते। सौवर्चल हृषीक च तुच्छमक्ष नपुंसके॥’ व्यवहारवेदिना लेखचतुरेण लेखार्थ लेखनार्थंअहं श्रावयामास आकणितवान्। किं कृत्वा। पूर्व इति अमुना प्रकारेण गुणविशिष्टहिरण्यगर्भनामधेय आकार्य आहूय। इतीति किम्।

दक्ष इत्यादि। दक्ष कार्यघटनाकुशल, शूर शस्त्रशास्त्रप्रयोगनिपुण, शुचिश्चतुरुपधाशुद्ध। धमाद्यैयत्परीक्षणमुपधेत्युच्यते। वशविद्याव्रतविधुरोपकारश्चेति उपधा। प्राज्ञ स्वपरोक्तिसंपन्नसम्यगभ्यूह, प्रगल्भ परचित्तप्रसादनकुशल, प्रतिभानवान् परैरभियोगेसन्मिषदनेकोपाय, विद्वान् आत्मेतरव्यवस्थितिविदग्ध वाग्ग्मी हृदये अभिनिविष्टस्यार्थस्य प्रतिपादनप्रवीण, तितिक्ष परगजितेषु स्थिरप्रकृति, स्थविर नीतिविद्यैश्वर्यादिभिरविकृताचार, प्रिय नयनमनोह्लादनजनन। समुच्चयालंकार॥

इतीत्यादि। पुनश्च किं कृत्वा दूतमाकार्य। इत्यमुना प्रकारेण अवधार्य ज्ञात्वा।इतीति किम्। वसुमतीश्वरेषु नृपेषु खलु निश्चयेन दूतपूर्वा सर्वेऽपि सध्यादयो गुणाभवन्ति। कथभूतेषु वसुमतीश्वरेषु। श्रीविलासिनीसूत्रितैश्वर्यवरेषु श्रीरेव विलासिनीवेश्या तया सूत्रित सूचित यदैश्वर्य तेन वरेषु। कथभूत दूतम्। अशेषमनीषिपुरुषपरिषदिष्टम् अशेषा ये मनीषिपुरुषा विद्वज्जनास्तेषा परिषत् सभा तत्र इष्ट वल्लभम्। पुनकथभूत दूतम्। अखिलप्रयाणसामग्रीसुविधेयम् अखिलासु प्रयाणसामग्रीषु प्रस्थानवस्तुमेलनेषु सुविधेय सुप्रश्रितम्। पुन कथभूत दूतम्। शास्त्रशस्त्राभ्यास निर्जितामरगुरुपार्थम्शास्त्राभ्यासेन निजितो अमरगुरुर्ब्रहस्पतिर्येन, शस्त्राभ्यासेन निजित पार्थो अर्जुनो येनस तथा तम्। पुन कथभूत दूतम्। निसृष्टार्थ सर्वकार्येषु प्रमाणीभूतव्यापारम्। तथा चोक्तम् — ‘निसृष्टार्थोमितार्थश्च तथा शासनहारक। सामर्थ्योत्पादनो हीनो दूतस्तुत्रिविध स्मृत॥’ अमात्यसामर्थ्यात् गुणसपत्ते पादहीनो यथोत्पन्नकार्यकारी मितार्थमितार्थात् पादतो हीन एकपादगुण यथालिखितपाठक शासनहर इति त्रयो दूता।

तथा हि—

गर्वंबर्बर मुञ्च मा चरत रे पञ्चाकाश्चापल
केलिं केरल सहर प्रविश रे मद्रश देशान्तरम्।
मिथ्यैश्वर्यबलावलेपरभसभ्रश्यद्विवेकात्मना
मिथ्या वष्टिरिटिल्लित न सहते देव स दैवाश्रय॥११२॥

शौण्डीर्यशालिनि जगत्त्रयलब्धवर्णे
देवे न य प्रणतिभावमुपैति भूप।
तस्याहवेषु वयसा शिरसि प्रबन्धो
यद्वाश्रमेषु परलोकधिया जटानाम्॥११३॥

———————

पुन कथभूत दूतम्। निजप्रज्ञातिशयावहेलितपुलहपुलोमपुलस्तिपालकाप्यकात्यायनमविजातम् निजप्रज्ञातिशयेन आत्ममतिप्रकर्षेण अवहेलित पुलहस्य ऋषिविशेषस्य तथापुलोमस्य तथा पुलस्ते तथा पालकाप्यस्य काव्यस्य वा। द्वय भिन्नम्। कात्यायनस्यवररुचेर्मतीना जात समूहो येन स तथोक्तस्तम्।

तथा हि तमेवालेखार्थ आक्षपटलिको ब्रूते**—**

गर्वमित्यादि। रे बर्बर सपादलक्षपर्वताधीश, त्व गर्व मुञ्च मद परिहर मिथ्याभिमान त्यज। रे पञ्चालका पञ्चालदेशोद्भवा क्षत्रिया चापल चपलत्वमा नैव चरत कुरुत यूयम्। रे केरल मलयाचलनिकटवर्तिन्, त्व केलि क्रीडा सहर सकोचय। रे मद्रेश मद्रदेशाधीश, त्व देशान्तरंअपरदेश प्रविश प्रवेश कुरु। स जगत्प्रसिद्धो देवो यशोधरमहाराज इत्थममुनाप्रकारेण वो युष्माकं टिरिटिल्लित आत्मनोऽनुचित व्यवहार न सहते न मृष्यति नक्षमते। कथभूताना व। मिथ्यैश्वर्यबलावलेपरभसभ्रश्यद्विवेकात्मनाम् मिथ्या निरर्थक यदैश्वर्य बलावलेपश्च सैन्यगर्व तेन रभसेन वेगेन भ्रश्यन् विगलन् विवेको हेयोपादेयचातुर्यं आत्मना येषा तथोक्तास्तेषाम्। कथभूतो देव। दैवाश्रय। पुण्येनाधिकतरइत्यर्थ। समुच्चयालंकार॥

शौण्डीर्यशालिनीत्यादि। यो भूप देवे यशोधरमहाराजे प्रणतिभाव नम्रत्वन उपैति न गच्छति तस्य भूपस्य आहवेषु सग्रामेषु शिरसि मस्तकोपरि वयसा काकगृध्रादीना पक्षिणा प्रबन्धो मेलापको भवति। तस्य मस्तक भिद्यत इत्यर्थ। यद्वाअथवा आश्रमेषु गङ्गादिनदीतटेषु परलोकधिया स्वर्गादिबुद्ध्या (जटाना लग्नकचाना)प्रबन्धो भवति। कथभूते देवे। शौण्डीर्यशालिनि त्यागविक्रमाभ्या विश्रुत शौण्डीरस्तस्य भाव कर्म वा शौण्डीर्य तेन शालते शोभते इत्येवशील शौण्डीर्यशाली तस्मिन् शौण्डीर्यशालिनि। ‘शड शोभायाम्’ इति धातो प्रयोगात्। पुन कथभूते देवे।

दूतस्य पुन स्वामिनैवमुक्तस्यापीदमनुष्ठानम्—

सकीर्तयेत्साम रिपौ सदर्पे नय सनीतौ बलिनि प्रभेदम्।
मन्त्रेण तन्त्रेण च हीनवृत्तौ दण्डाश्रयोपायविधि विधिज्ञ॥११४॥

अन्यथा—

वागर्थरूक्षलुब्धाना दूताना दु प्रवृत्तिभि।
श्री स्वामिन प्रवृद्धापि क्रियते सशयाश्रया॥११५॥

कदाचित्कृतकार्धचन्द्रचुम्बितचन्द्रकापीडविडम्बितमुण्डमण्डल, तूलिनी-

———————

जगत्त्रयलब्धवर्णे जगत्त्रये त्रैलोक्ये लब्ध प्राप्तो वर्णो यशो येन स तथा तस्मिन्।दीपकालंकार॥

** दूतस्येत्यादि।** पुन स्वामिनैवमुक्तस्यापीदमनुष्ठान दूतस्य निसृष्टार्थादित्रिविधस्य लक्षणस्यापि पुनरुक्तादनन्तर स्वामिना नृपेण एव पूर्वोक्तलक्षणमर्थम्। ‘गर्व बबर मुञ्च**—**

‘इत्यादिक उक्तस्यापि शिक्षितस्य इद वक्ष्यमाणमनुष्ठान कर्तव्य भवति॥

तत् किम्। सकीर्तयेदित्यादि। विधिज्ञो राजनीतिविज्ञायको दूत उपायचतुरसदर्पे रिपौ समदे शत्रौ साम संकीर्तयेत्। तथाहि — सबन्धोपाख्यान गुणसंकीर्तनअन्योन्योपकारदर्शन आत्मोपरिधान आयतिप्रदर्शन चेति सनीतौ न्यायवति शत्रौनय संकीर्तयेत्। मन्त्रेण पञ्चाङ्गेन तन्त्रेण च पञ्चाङ्गेन च हीनवृत्तौ हीने रिपौ दण्डाश्रयोपायविधिं संकीर्तयेत् दण्डस्य सैन्यस्य आश्रया बहुसैन्यदर्शन साधनसमुद्रत्वउपायविधिंउपायविधानम्। निरूपयेदिति शेष। दीपकालंकार॥

अन्यथा दूतो यद्येव न करोति तदा कि भवति**—**

वागर्थेत्यादि। वागर्थरूक्षलब्धाना कर्कशवचनकर्कशार्थसंयुक्ताना लोभिना च दूताना दु प्रवृत्तिभि दुराचारैस्वामिनो नृपस्य श्रीर्लक्ष्मी प्रवृद्धापि वृद्धिं गता अपि संशयाश्रया संदेह प्राप्ता क्रियतेविधीयते। जात्यलंकार॥

कदेत्यादि। कदाचित् कस्मिंश्चिदवसरे गूढपुरुषाधिष्ठायकात् पुरुषनियोगिन सकाशात् वरिष्ठकनामधेयात् इति ईदृश आकर्ण्य श्रुत्वा। किमाकर्ण्य। तत् कृत्याकृत्यलोकस्य भेदाभेदजनस्य जनश्रुतिं वार्ता आदाय गृहीत्वा शङ्खनकनामा शङ्खनक इत्यभिधान प्रणिधि स्पर्शहैरिक चर आगतो वर्तते। त च शङ्खनक आहूय च निजसमीपेआकार्य इत्यमुना प्रकारेण तेन शङ्खनकेन सह नर्मालाप बर्बरभाषण अकरवअह कृतवानिति क्रियाकारकसबन्ध। कथभूत शङ्खनक। कृतकाधचन्द्रचुम्बितचन्द्रकापीडविडम्बितमुण्डमण्डल कृतकेन कृत्रिमेन अर्धचन्द्रण चुम्बित स्पृष्टो योऽसौचन्द्रकापीड मयूरबर्हैकदेशमुकुटस्तेन विडम्बित शोभित मुण्डमण्डल शिर प्रदेशोयस्य स तथोक्त। पुन कथभूत शङ्खनक। तूलिनी कुसुमकुङमलाकृतिजातुषोत्क

कुसुमकुङ्मलाकृतिजातुषोत्कर्षितकर्णकुण्डल, कार्मणानेकजटाजातिजटितकण्ठिकावगुण्ठन-जठरकण्ठनाल, चिरचेलचीरीचर्चितविचित्राप्रपदीनप्राप्तलम्बजाल, कुवली फलस्थूलत्रापुषमणि विनिर्मिताङ्गदसपादितप्रकाण्डमण्डन,कूर्परपर्यन्तप्रकोष्ठप्रकल्पितगवलवल्यावरुण्डन, काकनन्तिकाफलमालोपरचितवैकक्षकवक्ष स्थल, कठोरकमठपृष्ठाष्ठीलस्थलपुटपाणितल, पटच्चरपर्याणगोणीगुह्यापिहितमेहन, पुराणतरमन्दीरमेखलालकृतनितम्बनिवेशन,

—————

र्षितकर्णकुण्डल तूलिनी शाल्मलिवृक्षस्तस्य कुसुमकुड्मले पुष्पकोरके तयोराकृति आकारो ययोस्ते तूलिनीकुसुमकुड्मलाकृतिनी ते च ते जातुषे लाक्षामये ईदृशे उत्कर्षितेनिवेशिते कर्णयो श्रवणयो कुण्डले कर्णवेष्टने येन स तथोक्त। पुन कथभूत शङ्खनक। कार्मणानेकजटाजा तिजटितकण्ठिकावगुण्ठनजठरकण्ठनाल कार्मणा वशीकरणादिप्रयोगा अनेका (के) बद्धरोषा जटा मूलानि तासा जातय प्रकारास्ताभिर्जटिता याकण्ठिका कण्ठाभरण तस्या अवगुण्ठनेन सम ताद्वन्वनेन रूक्षणेन जठर कठिन कण्ठनालकण्ठकन्दली यस्य स तथोक्त। पुन कथभूत शङ्खनक। चिरचेलचीरी चर्चितविचित्राप्रपदीनप्राप्तलम्बजाल चिरचेलानि पुराणवस्त्राणि तेषा चीरीभिश्चर्चित रचितविचित्र अनेकवर्ण आप्रपदीन गुप्ति (ल्फ) पर्यन्त प्राप्त लम्बजाल दीर्घहारो यस्य सतथोक्त। पुन कथभूत शङ्खनक। कुवली फलस्थूलत्रापुषमणिविनिर्मिताङ्गदसपादितप्रकाण्डमण्डन कुवलीफलानि बदरीफलानि तद्वत् स्थूला त्रापुषा त्रपुमयाये मणयस्तैविनिर्भितानि अङ्गदानि बाहुभूषणानि तै सपादित कृत प्रकाण्डमण्डन प्रकोष्ठाभरणमणिबन्धस्थानाभरण येन स तथोक्त। पुन कथभूत। कूर्परपर्यन्तप्रकोष्ठप्रकल्पितगवलवलयावरुण्डन कूर्परपर्यन्त मणिबन्धादारभ्य कफोणिपयन्तप्रकोष्ठयोर्मणिबन्धनस्थानयो प्रकल्पित रचित गवलवलयाना महिषशृङ्गकटकाना अवरुण्डन आरुण्डन येन स तथोक्त। पुन कथभूत। काकनन्तिकाफलमालो पर चितवैकक्षकवक्ष स्थल काकनन्तिकाफलाना गुजाफलाना ये माले द्वे ताम्यामुपरचित विनिर्मित यद्वैकक्षक वक्षसि तिर्यग्विक्षिप्त तेनोपलक्षित वक्ष स्थल यस्य स तथोक्त। उक्त च**—**

’ तिर्यग्वक्षसि विक्षिप्त वकक्ष मुदाहृतम्’। वस्त्रादिकमिति शेष। पुन कथभूत। कठोरकमठपृष्ठाष्ठीलस्थपुटपाणितल कठोर कठिन यत् कमठस्य कच्छपस्यपृष्ठ तस्य अष्ठील कर्पूर तद्वत् स्थपुट निम्नोन्नत पाणितल हस्ताग्रयस्य स तथोक्त।पुन कथभूत। पटच्चरपर्याणगोणीगुह्यापिहितमेहन पटच्चरस्य पुराणस्य पर्याणस्यपल्ययनस्य या गोणी चममयमाच्छादन तस्य गुह्या कच्छोटिका तथा पिहितमाच्छादितमेहन लिङ्ग येन स तथोक्त। पुन कथभूत। पुराणतरमन्दीरमेखलालकृत नितम्बनिवेशन पुराणतरमतिजीर्ण यन्मन्दीर मन्थानिकालम्बनरज्जुस्तस्यया मेखला कटिमे-

कसहसकरसितवाचालचरणचारचातुरीक्षोभितवीथीजनमनस्कार कातरेक्षणविषाणक्वाणविनिवेदितनिशा बलिप्रचार, किरातवेषस्य भगवतो विश्वमूर्तेरपरमेव कमप्याकल्प बिभ्राण, पुत्रभाण्ड बन्दिवृन्दारकस्य कटकाधिपते,जामिर्भोगावलीपाठिन सुभटसौहादस्य, दौहित्र श्रोत्रियकितवनाम्नो नर्मसचिवस्य, समाश्रयस्थानमवकीर्णिलोकानाम्, अखिलपुनर्भूविवाहकृतकशिपुचेतनसबन्ध, सकलगोकुलालिखिततूवरसुरभिसैरिभीदायनिबन्ध, प्रचुरप्रतिकर्मविकृतगात्रै सन्निपुत्रैर्दाण्डाजिनकैश्च परिव्राजकै ‘एष खलु भगवान्

————————

खला तया अलंकृत शृङ्गारित नितम्बनिवेशन कटीभागो येन स तथोक्त। पुनकथभूत। कसहसकरसितवाचालचरण चारचातुरीक्षोभितवीथीजनमनस्कार कसस्यधातु विकृतिविशेषस्य ये इसका नूपुरास्तेषा रसितै शब्दितै वाचालौ शब्दवन्तौ बहुशब्दो यौ चरणौ पादौ तयोश्चारस्य गमनस्य चातुरी वैदग्धी तया क्षोभित सचालितवीथीजनाना मार्गलोकाना मनस्कारश्चित्ताभोगो येन स तथोक्त। पुन कथभूत।कातरेक्षणविषाणक्वाणविनिवेदितनिशाबलिप्रचार कातरेक्षणो महिषस्तस्य विषाणशृङ्ग तस्य क्वाणेन नादेन विनिवेदित प्रकटीकृतो निशाया रात्रे बलिप्रचार पूजाप्रवर्तन येन स तथोक्त। शङ्खनक किं कुर्वाण। किरातवेषस्य भिल्लवेषस्य भगवतसर्वज्ञस्य विश्वमूर्ते श्रीमहादेवस्य अपरमेवानीदृशमेव कमपि अपूर्व अनिर्वचनीयआकल्प वेष बिभ्राणो धरन्। कथभूत शङ्खनक। पुत्रभाण्ड बन्दिवृन्दारकस्य कटकाधिपते बन्दिन स्तुतिपाठका अब्राह्मणभट्टास्तेषा मध्ये वृन्दारक प्रधानस्तस्य बन्दिवृन्दारकस्य कटकाधिपते कटकाधिपतिनामकस्य पुत्रभाण्ड पुत्र एव। पुन कथभूत। जामिर्भोगावलीपाठिन सुभटसौहार्दस्य सुभटसौहार्दनामकस्य भोगावलीपाठिन चारणभाटस्यजामिजमाता। पुन कथभूत। नर्मसचिवस्य भण्डस्य श्रोत्रियकितवनाम्नो दौहित्रोनप्ता। पुन कथभूत। अवकीर्णिलोकाना ब्रह्मचर्य भ्रष्टाना समाश्रयस्थान विश्रामस्थानम्।पुन कथभूत। अखिल पुनर्भूविवाहकृतकशिपुचेतनसबन्ध अखिलाना समस्ताना पुनर्भूणा पुश्चलीना सग्रहस्त्रीविधवाना विवाहे कृतो विहित कशिपुचेतनस्य भोजनाच्छादनदेयस्य सबन्धो निबन्धन यस्य स तथोक्त। पुन कथभूत। सकलगोकुलालिखिततूवरसुरभिसैरिभीदायनिबन्ध सकलेषु गोकुलेषु गो(ष्ठे)पेषुआलिखितराजपत्रविन्यस्त तूवराणा शृङ्गरहिताना सुरभीणा गवा सैरिभीणा महिषीणा दायनिबन्धो यस्य स तथोक्त। पुन कथभूत। परिव्राजकै शिखाधरद्भि शैवलिङ्गिभिइति अमुना प्रकारेण आवेद्यमानज्ञानमन्त्रतन्त्रप्रभाव आवेद्यमानो ज्ञायमान ज्ञानस्य मन्त्रस्य तन्त्रस्य प्रभावो महिमा यस्य स तथोक्त। कथभूतै परिव्राजकै।प्रचुरप्रतिकर्मविकृतगात्रैप्रचुरेण भूरिणा प्रतिकर्मणा नेपथ्यविधिना विकृतानि विकार

सजातमहायोगिनीसगतिरतीन्द्रियज्ञानोद्गति सिद्ध सामेधिक सवननकर्मणा करिणा केसरिणमपि सगमयति विद्वेषभेषजेन जननीमप्यात्मजेषुवैरिणी विदधाति इत्यावेद्यमानज्ञानमन्त्रतन्त्रप्रभाव स्वपुरविषयनिवासिनकृत्याकृत्यलोकस्य जनश्रुतिमादायागत शङ्खनकनामा प्रणिधिरिति गूढपुरुषाधिष्ठायकाद्वरिष्ठकादाकर्ण्याहूय च तम् ‘हहो शङ्खनक, कुतो नखलु सप्रति सा तव तुन्दवृद्धिः’ इति तेन सह नर्मालापमकरवम्।

———————

प्राप्तानि गात्राणि येषा परिव्राजकाना ते तथा तै। पुन कथभूते। सन्निपुत्रै सन्निनोऽपायायोगज्योतिर्भरतवैद्यकादिविद्याधारेण राज्ञो हिताहितजनपरिज्ञानकुशला तेषांपुत्रा सन्निपुत्रास्तै। पुन कथभूतै। दाण्डाजिनकैश्च दण्ड च यष्टि अजिनच चर्म दण्डाजिने तयोर्नियुक्ता दाण्डाजिनकास्तै। दण्डचर्मधारिभिरित्यर्थ।इतीति किम्। हे देव हे लोका, एष खलु शङ्खनकनामा भगवान् योगीश्वर सजातमहायोगिसगति सजाता प्रत्यक्षीभूता महायोगिनीना महाविद्यादेवताना संगतिप्रत्यक्षता यस्य स तथोक्त। एष पुन कथभूत। अतीन्द्रयज्ञानोद्गति अतीन्द्रियज्ञानस्य इन्द्रियरहितज्ञानस्य उद्गतिरुत्पत्तिर्यस्य स तथोक्त। असौ सिद्ध एष संसारिजीव असो विपरीत एष सामेधिक अव्यभिचारिवचन एष खलु भगवान् सवननकर्मणा वशीकरणेन केसरिणमपि सिंहमपि करिणा गजेन सगमयति विद्वेषभेषजेन वैरोत्पादकौषधेन जननीमपि आत्मजेषु वैरिणी विदधाति करोति। असौ शङ्खनकनामा किकृत्वाआगत। गूढपुरुषाधिकारी वरिष्ठक कथयति— खपुरविषयनिवासिन स्वदेशपरदेशवास्तव्यस्य कृत्याकृत्यलोकस्य परोपजापसहा कृत्या परोपजाप न सहन्तेअकृत्या कृत्याश्च अकृत्याश्च कृत्याकृत्या भेद्याभेद्या ये पुरुषास्तेषा लोक समूहस्तस्यजनश्रुति वार्तां आदाय गृहीत्वा।शङ्खनकनामा प्रणिधिरागत इति सबन्ध। अह तेनशङ्खनकनाम्ना सह इति नर्मालाप अकरव कृतवान्।अहं कि कृत्वा। पूर्व शङ्खनकनामानआहूय आकार्य। इतीति किम्। हहो अहो शङ्खनक, तव सबन्धिनी पूर्व या मयादृष्टा सा तव तुन्दवृद्धिरुदरवृद्धि संप्रति इदानीं खलु निश्चयेन वाक्यालंकारे वा कुतकस्मात् कारणात् न वर्तत इति। सोऽपि शङ्खनकनामा प्रणिधि इति अमुना प्रकारेणआललाप आलाप चकार।इतीति किम्। हे देव हे राजन्, भवादृशानामेव अय युष्मत्सदृशानामेव अय प्रत्यक्षीभूत तुन्द उदर अमन्दिमान अलघुत्व वृद्धिमास्कन्दति प्राप्नोति।न केवल भवादृशानामेव तुन्दोऽमन्दिमानमास्कन्दति, अपि तु स्वभावादेव निसर्गेणैव तुन्दपरिमृजस्य अलसस्य लोकस्य अय तुन्दोऽमन्दिमानमास्कन्दति।कथभूतानाभवादृशानाम्। पूर्वोक्तैर्भोजनैर्वारिपूरैश्च जलसमूहैराकण्ठ कण्ठपर्यन्त आशिखाग्र चमस्तकोपरि काकपक्षपर्यन्त प्रतिदिवस दिन दिन प्रति दशद्वादशवासरान् भुञ्जानानां

सोऽपि ‘देव, कामिनीजनकटाक्षैरिवातिदीर्घविशदच्छविभिर्दीदिविभि,विरहिणीहृदयैरिव सोष्मभि काञ्चनच्छायापलापै सूपै, कान्ताननैरिवतत्प्राञ्जलिपेयपरिमलै प्राज्यैराज्यै, स्त्रीकैतवैरिव जनितस्वान्तप्रीतिभिर्बहुरसवशैरवदशै, लासिकाविलासैरिव मनोहरै समानीतनेत्रनासारसनानन्द**-**

———————

वत्सलवत्सलाना भोजनप्रियाणाम्। पुन कथभूताना भवादृशानाम्। शोकापनुदसपदाम्शोकापनुदा शोकदुः खविनाशिनी सपत् येषा ते तथोक्तास्तेषाम्। कथभूतस्य तु दपरिमृजस्य लोकस्य। एवविधस्य प्रतिदिवस दशद्वादशवासरान् भुञ्जानस्य। पुन कथभूतस्य लोकस्य। उत्कोटश्रीशिखाप्रकाशप्रशान्तयथार्थदर्शनस्य उत्कोटो लम्ब तत्सबन्धिनी या श्री लक्ष्मीस्तस्या शिखा अग्र तस्या प्रकाशेन द्योतेन प्रशान्त नष्टयथार्थदर्शन यथोक्तनिरीक्षण यस्य स तथा तस्य। लक्ष्मीमदेन कमपि रुचिरतया नपश्यतीत्यर्थ। कस्येव। तमिस्राया रात्रौ गृहीतप्रदीपस्येव। यथा रात्रौ हस्तगृहीतप्रदीपपुमान् यथोक्त न पश्यति। अस्मादृशा तु अस्मत्सदृशभिक्षुकाणा तु। नामेति सभावनायाम्। अथप्रत्यक्षीभूत पिचण्डो जठर कथ केन प्रकारेण स्फायता वृद्धिं गच्छतु। अपितु न कथमपि स्फायताम्। कथभूताना अस्मादृशाम्। देवप्रसादात् श्रीमहादेवकारुण्यात्युष्मत्प्रसादाद्वा उपमानोपमेयार्थरहिताना दरिद्रिणाम्। अस्मत्सदृश कोऽपि दरिद्री नप्रवर्तते यस्योपमान दीयते। अस्मात्सदृशा उपमेया वयमेव वर्तामहे। कै कैर्भोजनै।तृप्ताना दीदिविभिरोदनै। कथभूतैर्दीदिविभि। अतिदीर्घविशदच्छविभि कामिनीजनकटाक्षैरिव नवयौवनस्त्रीजनापाङ्गदर्शनैरिव। यथा कामिनीजनकटाक्षा अतिदीर्घविशदच्छवयो भवन्ति। पुनश्च कै भोजनै। तृप्ताना सूपैर्दालिभि कृत्वा। कथभूतै सूपै।काञ्चनच्छायापलापै कनक्कान्तितिरस्कारकै। पुन कथभूतै। सोष्मभि उष्णत्व सहितै। कैरिव। विरहिणीहृदयैरिव विप्रलब्धस्त्रीजीवस्थानैरिव। यथा विरहिणीना भतृवियोगिनीना स्त्रीणा हृदयानि सोष्माणि भवन्ति सुवर्णवर्णानिच भवन्ति गौरवर्णत्वात्।पुनश्च कै कृत्वा। वत्सलवत्सलाना प्राज्यै प्रचुरै आज्यैर्घृतै। कथभूतैराज्यै। तत्प्राञ्जलिपेयपरिमलै तत्प्राञ्जलिना नासिकाञ्जलिना पेय आस्वादनीय परिमलो येषातानि तथोक्तानि ते। कैरिव। कान्ताननैरिव। यथा कान्ताननानि वनितामुखानिनासिकाञ्जलिपेयपरिमलानि भवन्ति। पुनश्च कै कृत्वा। वत्सलवत्सलाना तथाअवदशै शालनकै भक्तिसिक्त संयुक्त वनस्पतिव्यञ्जनै। कथभूतैरवदशै। जनितखान्तप्रीतिभि उत्पादित हृदयानन्दै। पुन कथभूतैरवदशै। बहुरसवशै शुक्ततिन्तिडिकविकद्वक्षीवभूतनाशनघनघनसारादिसंस्कृतै। कैरिव। स्त्रीकैतवैरिव स्त्रीणा धूर्तत्वसदृशै। यथा स्त्रीकैतवानि नारीजनकपटा स्वान्तप्रीतिकराणि बहुरसानि चभवन्ति। पुनश्च कै कृत्वा। वत्सलवत्सलाना खाण्डवैस्तीमनविशेषैरन्नव्यञ्जनै।कथभूतै खाण्डवै। मनोहरै हृदयानन्दजनकै। पुन कथभूतै। समानीतनेत्र

भावै खाण्डवै प्रियतमाधरैरिव स्वादमानैरविच्छिन्नखिन्नै पक्वान्नै, तरुणीपयोधरैरिव सुजाताभोगै स्तब्धविधिभिर्दधिभि, प्रणयिनी विलोकितैरिवमधुरकान्तिभि स्निग्धैर्दुग्धै, अभिनवाङ्गनासगमैरिवातीव स्वादुभि शर्करासपर्कसमासन्नै परमान्नै मेहनरसरहस्यैरिव सर्वाङ्गीणसतापहारिभिर्घनसारपारीदन्तुरैर्वारिपूरै, आकण्ठमानयनमाशिखमाशिखाग्र च प्रतिदिवसदशद्वादशवासरान्वत्सलवत्सलानामेवविधस्य च तमिस्राया गृहीतप्रदीपस्येवोत्कोटश्रीशिखा प्रकाशप्रशान्तयथार्थदर्शनस्य खभावादेव तुन्दपरिमृजस्यलोकस्य शोकापनुदसपदा भवादृशानामेवाय तुन्दोऽमन्दिमानमास्कन्दति।अस्मादृशा तु देवप्रसादादुपमानोपमेयार्थरहिताना कथ नामाय पिचण्डस्फायताम्’ इत्याललाप।

———————

नासारसनानन्दभावै समानीत उत्पादितो नेत्राणा नासाना घ्राणाना रसनानाजिह्वानामानन्दभावो यै ते तथा तै। कैरिव। लासिकाविलासैरिव नर्तकीना लोचनचेष्टितैरिव। यथा लासिकाविलासा नेत्रादीना मनोहरा भवन्ति। पुन कै कृत्वा।पक्वान्नै स्वादमानै रोचमानैरुचिं कुर्वद्भि। कथभूतै पक्वान्ने। अविच्छिन्नखिन्नै परिपूर्णपचनै। कैरिव। प्रियतमाधरैरिव वल्लभस्त्रीदन्तच्छदैरिव। यथा प्रियतमाधरा स्वादमाना रोचिष्णवो भवन्ति। पुन कै कृत्वा। दधिभि नवनीतहेतुभि सुजाताभोगैसुनिष्पन्न विस्तारै। कथभूतै दधिभि। स्तब्धविधिभि काठिन्यविधानै। कैरिव। तरुणीपयोधरैरिव नवयौवनस्त्रीस्तनैरिव। यथा तरुणीना पयोधरा सुजाताभोगा स्तब्धविधयश्च भवन्ति। पुन के कृत्वा। दुग्धैरौधस्यै। कथभूतैर्दुग्धै। मधुरकान्तिभि प्रियतेजोभि शुक्लवर्णै। पीतादिवर्णरहितेरित्यर्थ। कैरिव। प्रणयिनीविलोकितैरिव स्नेहवतीवनिताकटाक्षावलोकितरिव। यथा प्रणयिनीविलोकितानि स्वादूनि प्रियाणि चभवन्ति। पुनश्च कै कृत्वा। परमान्ने क्षीरान्नै। पायसैरिति यावत्। कथभूतैपरमान्नै। अतीव स्वादुभि अतिशयेन मिष्टै। पुन कथभूतै। शर्करासपर्कसमासन्नैशर्कराया सपर्को मिश्रण समासन्न प्रत्यासन्नो येषा तानि शर्करासपर्कसमासन्नानितै। कैरिव। अभिनवाङ्गनासगमैरिव नूतनपरिणीतवनितासयोगैरिव। यथा अभिनवाङ्गनासगमा अतीव स्वादवो भवन्ति। पुन कै कृत्वा। वारिपूरैर्जलप्रवाहै। कथभूतैवारिपूरै। सर्वाङ्गीणसतापहारिभि सर्वशरीरपरितापस्फोटकै। पुन कथभूते। धनसारपारीदन्तुरै कर्पूरपालिकाचमत्कारिभि।कैरिव। मेहनरसरहस्यैरिव सुरतरसगौप्यतत्त्वैरिव। यथा मेहनरसरहस्यानि सर्वाङ्गीणसतापहारीणि भवन्ति। प्रायेणोपमालंकार॥

** पुन सपरिहासमेनमहमेवमवोचम् – ‘अयि हुलाधिपते, किमद्य क्वचनापि हस्तमुखसयोगोऽभूत्।’ ‘चतु समुद्रमुद्राङ्कितमेदिनीपरिवृढ, बाढम्।‘‘कथय कथय।’ ‘देव, श्रूयताम्। त्रिपुरुषोल्लिखितकमण्डलुकम्बुकलावत्फलकनामावलीप्रशस्ते, अस्ति खल्वस्यामेव पुरि प्रकृतिपुरुषस्येश्वरवर्तेर्दिवाकीर्तेर्नप्ता, स्वस्रीयो बलाहकस्य सवाहकस्य, मैथुनिक सवरकस्यास्तरकस्य, स्वकीयेन च यशसा देवादपि त्रिचतुरैरङ्गुलैरुपरिवर्तमान, तथा हि—मितपचानामग्रेसर, किंपचाना प्रथमगण्य, कीकटानामुदाहरणभूमि, कद-**

—————

पुन पुनरपि भूयोऽपि सपरिहास सवर्कपन ( ? ) शङ्खनक प्रति अह यशोधरमहाराज एवममुना प्रकारेण अवोच उक्तवान्। एव कथमिति चेत्। अयि अहो हुलाधिपते मेषाधिपते भारवाट्, किमद्य अद्य दिने क्वचनापि कस्मिंश्चिदपि स्थाने हस्तमुखसंयोगोऽभूत् करवक्रमेलापको बभूव। शङ्खनको ब्रूते —हे चतु समुद्रमुद्राङ्कितमेदिनीपरिवृढ हे आसमुद्रान्तपृथ्वीपते बाढमतिशयेनाभूत्। यशोधरो ब्रूते—क्व क्व हेशङ्खनक, भोजनमभूत् कथय कथय ब्रूहि ब्रूहि। शङ्खनको ब्रूते—हे देव हे राजन् श्रूयता त्वया आकण्यताम्। हे त्रिपुरुषोलिखितकमण्डलुकम्बुकलावत्फलकनामावलीप्रशस्तेत्रिभि पुरुषै ब्रह्मविष्णुरुद्रैरुल्लिखिता उत्कीरिता यथासख्य ब्रह्मणा निजकमण्डलुफलके शौचोपकरणोपरि विष्णुना कम्बुफलके निजपाञ्चजन्यनामशङ्खोपरि रुद्रेण निजकलावत्फलके निजललाटस्थितार्धचन्द्रफल के पट्टिकाया नामावल्या अङ्कनसमूहस्य प्रशस्ति प्रसिद्धिर्यस्य स तथा तस्य सबोधन हे तथोक्त। खल्विति वाक्यालंकारे। अस्यामेव पुरि अस्मिन्नेवोज्जयनीपत्तने किलिञ्जकनामधेयो अस्ति वर्तते। स मा किमपि अपूर्वअनिर्वचनीय अबूभुजत् भोजयामास। कथभूत किलिञ्जकनामधेय। प्रकृतिपुरुषस्यशिल्पिकस्य ईश्वरवर्ते ईश्वरेषु वर्तेति ईश्वरवर्तिनामधेयस्य दिवाकीर्तिनापितस्यचाण्डालस्य वा नप्ता दुहितु पुत्र। दौहित्र इत्यर्थ। बलाहकस्य बलाहकनामधेयस्यसवाहकस्य अङ्गमर्दकस्य स्वस्त्रीय भागिनेय। पुन कथभूत। सवरकस्य सवरकनामधेयस्य आस्तरकस्य शय्यापालकस्य मैथुनिक श्याल। स कि कुर्वाण किलिञ्जक। स्वकीयेन निजेन यशसा पुण्यगुणानुकीर्तनेन देवादपि श्रीयशोधरमहाराजादपि त्रिचतुरैत्रिभिश्चतुर्भिर्वा अङ्गुलैरुपरिवर्तमान। चकार उक्तसमुच्चयार्थ। तथा हि तदेव निरूपयति — असौ किलिञ्जकनामधेय अग्रेसर त्वमिव अग्रणीर्वर्तते। पर केषाम्। मितपचानांकृपणानाम्। पुन कथभूत। प्रथमगण्य पूर्वगणनीय। पर केषाम्। किपचाना किमपिपचन्तीति किपचास्तेषाम्। पुन कथभूत। उदाहरणभूमि त्वमिव दृष्टान्तस्थानम्।परं केषाम्। कीकटाना निर्धनानाम्। पुन कथभूत। धुरिवर्णनीय त्वमिव मुख्यतया

र्याणा धुरिवर्णनीय, शिखामणिर्लोलुभानाम्, भोजनावसानानन्तरमादेयनामा, सप्रति च परमरमारमणीकामिन स्वामिन प्रसादभूमि, दाक्षिणात्यदेशजन्मनो जङ्घाचारिकनामकस्य विश्वावसो प्रतिहस्त किलिञ्जकनामधेयोदेवेन कृतसकेत इवापरकृष्णमुखमक्षिकामुण्डमण्डली प्रतिमतुपपरुषपाषाणाकीर्णविवर्णविस्तीर्णजीर्णयावनालौदनादिप्रारम्भम्,अतिपूतिपर्युषितविरसालसान्द्रोत्तरारम्भम्, उन्दुरमूत्रमितकुथितातस्यतैलधारावपातप्रायम्, असमस्तसिद्धैर्वारुकोपदशनिकायम्, अर्धरद्धालाबूफलफालिप्रकारम्, ईषत्स्वि

—————

वर्णनीय।परं केषाम्। कदर्याणा मलिनवस्त्राणाम्। उक्त च – ‘कदर्यहीनकीनाशकिपचानमितपचा।कृपण क्षुल्लक क्षुद्र क्लीबा एकार्थवाचका॥’ अत्र प्रस्तावे अयश्लोक—

’ दृढतरनिबद्धमुष्टे कोषनिषण्णस्य सहजमलिनस्य। कृपणस्य कृपाणस्य चप्रायेणाकारतो भेद ॥’ शिखामणि शिरोरत्नम्।पर केषाम्। लोलुभाना लुब्धानाम्। पुनकथभूत किलिञ्जकनामधेय। भोजनावसानानन्तर भुक्तेरनन्तरं आदेयनामा ग्रात्याभिधान। अस्य नाम भोजनात्पूर्व न गृह्यते भोजनान्तरायो भवतीति भाव। सप्रति च इदानींच स्वामिन प्रसादभूमि तव कारुण्यस्थान वर्तते। कथभूतस्य स्वामिन। परमरमारमणीकामिन परमरमा साम्राज्यलक्ष्मी सैव रमणी वल्लभस्त्री। सर्वविषय सौख्यप्रदायिकात्वात्। तस्या कामोऽभिलाषो विद्यते यस्य स तथोक्तस्तस्य। कथभूत किलिञ्जकनामधेय। दाक्षिणात्यदेशजन्मन कर्णाटदेशोद्भवस्य जङ्घाचारिकनामकस्य चारपुरुषप्रधानस्य विश्वावसो विश्वावसुनामधेयस्य प्रतिहस्त दर्वीसमान। किमपि मा अबूभुजत् भोजयामास।किवत् भोजयामास। देवेन भवता कृत सकेत इव शिक्षित इव। कथभूत किमपि। अपरकृष्णमुखमक्षिका मुण्डमण्डलीप्रति मतुषपरुषपाषाणाकीर्णविवर्णविशीणजीर्णयावनालोदनादिप्रारम्भम् अपरा अनीदृशा या कृष्णमुखमक्षिका कालवक्रपुत्तलिकास्तासा मुण्डमण्डल्यशिरोवयवा तत्प्रतिम तत्सदृश तुषैर्धान्यत्वग्भि परुष कर्कश पाषाणाकीर्ण दन्तभक्षनकर्करव्याप्त विवर्ण मलिन विशीर्ण शतखण्डीभूत जीर्ण चिरकालोषित यत् यावनालौदन षड्धान्यभक्त आदो प्रथमत प्रारम्भो यस्य भोजनस्य तत्तथोक्तम्। पुनकथभूतम्। अतिपूतिपर्युषितविरसालसान्द्रोत्तरारम्भम् अतिपूतयो अतिदुर्गन्धा पयुषिताह्यस्तनदिने रद्धा ये विरसाला राजभाषा तेषा सा द्रो बहुल उत्तरारम्भ उपरि परिवेषण यस्य भोजनस्य तत्। पुन कथभूतम्। उन्दुरमूत्रमितकुथितातस्य तैलधारावपातप्रायम् उन्दुरस्य मूषिकस्य यन्मूत्रे प्रस्रावे लघुनिमित्त तेन मित प्रमित कुथित दुर्गन्ध अतस्या इद आतस्य यत्तैल चोपट तस्य धाराया अवपात इषत्पात प्रायेणभोजने यस्मिन् तत् तथोक्तम्। पुन कथभूतम्। असमस्तसिद्धैर्वारुको पदश निकायम्असमस्तसिद्धानि ईषत्पक्वानि मनाक्चटितानि प्रायेण कटुकानि यानि ऐर्वारुकाणि

न्नकर्कारुकर्कशच्छेदसारम्, अवालमालूरमूलकचक्रकोपक्रमम्, अभृष्टचिर्भटिकाभक्षणभग्नभावक्रमोपक्रमम्,अपक्वार्काग्निदमनरिङ्गिणीफलाविरलविरचनम्,अग-स्तिचूताम्रातकपिचुमन्दकन्दलसदनम्, अनेकदिवसवासार्थिताम्लखलकविस्तारम्, अतीवपाकोपहतबृहतीवार्ताकफल्सोभाजनकन्दसालनकावतारम्, एरण्डफलपलाण्डुमुण्डिकाडम्बरम्**,** उच्छूनोद्वेल्लितवल्ल -

—————

कर्कटीखण्डानि तेषा उपदशनिकायो व्यञ्जनसमूहो यस्मिन् भोजने तत्तथोक्तम्। पुनकथभूतम्। अर्धरद्धालाबूफलफालिप्रकारम् अर्धरद्धानि करटानि यानि अलाबूफलानितुवङ्कफलानि तेषा फालय खण्डानि तेषा प्रकारा अनेकभेदा यस्मिन् भोजने तत्तथोक्तम्। पुन कथभूतम्। ईषत्खिन्नककारुकर्कशच्छेदसारम् ईषन्मनाकू खिन्ना अर्धरद्धा येकर्कारूणा कलिङ्गफलानां कर्कशा कठिना ये छेदा खण्डानि तै सार मनोहरम्। पुन कथभूतम्। अवालमालूरमूलकचक्रकोपक्रमम् अवालानि बृहन्ति यानि मालूराणि बिल्वफलानि मूलकानि च चक्रकानि च खटालपत्रशाकविशेष तेषामुपक्रम ज्ञात्वारम्भोयत्र तत्तथोक्तम्। पुन कथभूतम्। अभृष्टचिर्भटिकाभक्षणभग्नभावक्रमोपक्रमम् अभृष्टानिईषत् साक्षादनिपक्कानि यानि चिर्भटिकानि किंचरिकास्तेषा भक्षणेन चर्वणेन भग्नोनष्टो भावक्रमोऽरुचिक्रमोपक्रम यस्मिन् तत्तथोक्तम्। पुन कथभूतम्। अपक्वार्काग्निदमनरिङ्गिणीफलाविरलविरचनम् अपक्वानि अनग्निसिद्धानि अकाणि अर्कफलानि अग्निदमनानि क्षुद्विनाशकानि रिङ्गिणीफलानि कण्टकारिकाफलानि तेषा अविरल प्रचुरत रवितरण तस्य विरचना यस्मिन् भोजने तत्तथोक्तम्। पुन कथभूतम्। अगस्तिचूताम्रातकपिचुमन्दकन्दलसदनम् अगस्तिश्च अगस्तिवृक्ष चूतश्च आम्रवृक्षकपिप्रियवृक्ष। उक्त च धन्वन्तरिनिघण्टौ— ’ आम्रातक पीतनक कपिचूतोऽम्लचाटक। शृङ्गी कपिरसोऽन्यश्च तनुक्षीर कपिप्रिय॥’ पिचुमन्दश्च निम्बतरुस्तेषा कन्दलाना खण्डाना सदन स्थानम्। पुन कथभूतम्। अनेकदिवसवासार्थिताम्लखलकविस्तारम्। अनेकदिवसवास बहुदिवसोषित बहुदिवसस्थित अर्थित याचयित्वा नीत यत्आम्लखलकं दन्तशठरब्धाविशेषस्तस्य विस्तार प्राचुर्य यत्र तत्तथोक्तम्। पुन कथभूतम्। अतीवपाकोपहतबहतीवार्ताकफलसोभाञ्जनक दसालनकावतारम् अतीव अतिशयेन पाकोपहता पक्वा या बृहती क्षुद्रधाताकी वार्ताक च वृन्ताक तेषा फलानि।उक्त च— ‘वृन्ताक कोमल पथ्य कोहल कोमल विषम्।’ सोभाजनश्च शिशुवृक्ष कन्दश्चउङ्गलिका तेषा सालनकाना अवतार परिवेषण यस्मिन् भोजने तत्तथोक्तम्। पुनकथभूतम्। एरण्डफलपलाण्डुमुण्डिकाडम्बरम्। पुन कथभूतम्। उच्छूनोद्वेल्लितवल्लकराकोकुन्दोड्डमरम् उच्छूनोद्वेल्लिता स्थूलभूता स्वपथुप्राप्ता उद्वेल्लिता उत्कम्पिता ये वल्लका निष्पावकास्तादृशा ये रालका कङ्गव कोकुन्दानि च अण्डराणि

करालककोकुन्दोड्डमरम्, अनल्पराजिकावर्जितावन्तिसोमावसानम्, समासलिलसमक्षारपानीयपानम्। न किमपि नाम बूभुज न चाशनाया उपशान्तिर्मनागप्यवापम्। केवल तस्य वञ्चितदृष्टिपातया स्ववासिन्या परिविष्टो मूलाटीवराटो त्कटकट्वलकालशेय विशिष्ट सर्वपात्रीण श्यामाकभक्त प्राणमकार्षीदिति च क्षणमात्र द्रवालापानन्दितचेतस्तमखण्डक्षीणे शरणे

किमप्युदन्तजातमापप्रच्छे।

सर्वचेतोगतानर्थान्द्रष्टु येषा कुतूहलम्।

ते भवन्तु पर चारैश्चक्षुष्मन्त क्षितीश्वरा॥ ११६॥

चारसचारतो येषा नाध्यक्षा स्वपरस्थिति।
नियुक्तारातिसपातात्तेषा नार्थो न चासव॥११७॥

—————

तैरुड्डमर उत्कटम्। पुन कथभूतम्। अनल्पराजिकावजितावन्तिसोमावसानम्अनल्पा प्रचुरा या राजिका आसु तथा आवजित मिश्रित यत् अवन्तिसोम काञ्जिकतत् अवसाने अन्ते यत्र तत्तथोक्तम्। पुन कथभूतम्। समासलिलसमक्षारपानीयपानम्समा लवणाकरस्तस्या सलिलसम उदकसदृश यत् क्षार पानीय तस्य पान यत्र तत्तथोक्तम्। हे राजन्, न च नैव अशनाया बुभुक्षाया उपशान्तिर्विनाशो मनागपि स्तोकमपि अवाप न प्राप्तवानहम्। केवल लवणजीरकादिसयोगरहित तस्य किलिञ्जकनामधेयस्य वञ्चितदृष्टिपातया दृष्टिपात वञ्चयित्वा स्ववासिन्या बधूत्पाद्या परिविष्ट परिवेषितो भुक्त श्यामाकभक्त मम प्राणत्राण प्राणरक्षण षड्वान्यकर अकार्षीत् चकार।कथभूत श्यामाकभक्त। मूलाटीवराटोत्कटकट्वलकालशेयविशिष्ट मूलाटी दधिमूल वराटोत्कट कन्दर्पसदृश कट्वल (?) आम्लाधिक कालशेय तक्र तेन विशिष्ट सयुक्त। पुनकथभूत। सर्वपात्रीण कौलादियोग्य। इति च अनेन प्रकारेण क्षणमात्र मुहूर्त द्रवालापानन्दितचेत द्रवालापैर्नर्भवचनेरानन्दितचेता हृष्टमना त शङ्खनक अखण्डक्षीणे जनद्वयाधारे एकान्ते शरणे गृहे किमपि विवक्षित उदन्तजात वार्तासमूह आपप्रच्छे आपृष्टवानहम्।

सर्वचेत इत्यादि। येषा नृपाणा सर्वचेतोगतान् सर्वेषा हृदयस्थितान् अर्थान्कार्याणि द्रष्टु अवलोकितु कुतूहल कौतुक वर्तते। क्षितीश्वरास्ते राजान परंनिश्चयेन चारैश्चरैश्चक्षुष्मन्तो लोचनवन्तो भवन्तु सजायन्तु। जात्यलंकार॥

** चारसचारत इत्यादि।** येषा नृपाणा चारसचारतो हैरिकपुरुषप्रयोगत स्वपरस्थिति अध्यक्षा प्रत्यक्षा न भवति तेषा राज्ञा नियुपकारातिसपातात् नियुक्तानानियोगिनां दण्डाधिपतीना अरातीना शत्रूणां व संपातात् आगमनात् न अर्थो

कदाचित्करतलीकृतसकलसचिवचेत कूटकपट कापटिक, य खलुमया तत्रान्वयागतप्रजाप्रणये जनपदविषये सर्वर्द्धिसमृद्धोऽपि व्रतप्रश्रिताशयतया त्रिविधास्वपि स्त्रीषु महर्षिरिवासजातस्मरशरशरव्यहृदय, ससारतिमिरावसरावेशोऽपि न मनागपि प्रभालेपीमणिरिव सपन्नमलिनाभिनिवेश, पय पातोच्छ्वसितस्य महीतलस्य गर्भिणीजठरसमत्वादतिकारुणिकतयाङ्गुष्ठमात्रीमपि धरित्रीं न कर्षयति, महाकृपालुतया सत्त्वसमर्दभयेन

—————

लक्ष्मीन भवति। न च असव न च प्राणा भवन्ति। निर्धना सन्तो म्रियन्त इत्यर्थ।जात्यलंकार।

कदाचित् कस्मिश्चिदवसरे अस्मात् कापटिकात् शङ्खनकात् इद वक्ष्यमाणलक्षण अश्रौष अशुश्रुवम्। कथभूतात् कापटिकात्। इत्यमुना प्रकारेण सादरमापृष्टात्आदरसहित यथा भवत्येव अनुयुक्तात्। इतीति किम्। हे करतली कृतसकलसचिवचेत कूटकपट, करतलीकृत करतलामलकावधिज्ञात सकल समग्र सचिवस्य मन्त्रिणचेतसो मनस कूटो असत्य कपट पाखण्डो येन स तथोक्त। हे कापटिक हे शङ्खनक, य सचिव मन्त्री। खलु निश्चयेन वाक्यालंकारे वा। मया यशोधरेण तत्र जनपदविषये देशमध्ये नियुक्तोऽलंकृतो अधिकारी कृत स सचिव सप्रति इदानी कीदृशस्थिति कीदृशाचारो वर्तते। कथभूते जनपदविषये। अन्वयागतप्रजाप्रणये अन्वयागत कुलक्रमेणागत प्रजासु लोकेषु प्रणयो मम स्नेहो यस्मिन् जनपदविषये स तथोक्तस्तस्मिन्। य सचिवो मन्त्री कथभूत। सर्वर्द्धिसमृद्धोऽपि परिपूर्णलक्ष्मी सयुक्तोऽपिव्रतप्रश्रिताशयतया व्रतविनीत विचिनतया त्रिविधास्वपि स्त्रीषु बालयुवतिमध्यमवय सुत्रिप्रकारासु स्त्रीषु महर्षिरिव दिगम्बर इव असजातस्मरशरशरव्यहृदय न सजातस्मरशराणा कामबाणाना शरव्य वेध्य हृदय यस्य स असजातस्मरशरशरव्यहृदय।यथा महर्षि सवर्द्धिरणिमादिऋद्धिसहितोऽपि सन् व्रताधीनतया स्त्रीषु मनो न करोति।पुन कथभूत सचिव। ससारतिमिरावसरावेशोऽपि न मनागपि प्रभालेपीमणिरिव सपन्नमलिनाभिनिवेश ससारस्य सबन्धी यत्तिमिर अन्धकार दैन्य तस्य अवसरस्य प्रस्तावस्य आवेश प्रवेशो यस्य स ससार तिमिरावसरावेश ससार कृष्णावसरान्धकारोऽपि सन् प्रथमयौवनत्वात् मनागपि स्तोकमपि सपन्नमलिनाभिनिवेशो न वर्ततेसप्राप्तमलिनाभिप्रायो न वर्तते। क इव। प्रभालेपोमणिरिव बृहज्ज्योतिरत्नमिव। यसचिव अङ्गुष्ठमात्रीमपि एकाङ्गुलप्रमाणामपि धरित्रीं भूमिं न कर्षयति न खेटयति।कया। अतिकारुणिकतया यतोऽय अतिदयालुर्वर्तते। कस्माद्धरित्री न कर्षयति। पयपातोच्छ्वसितस्य जलवर्षणोल्लासितस्य महीतलस्य गर्भिणीजठरसमत्वात् यथा गभिणीजठर बीजपातेन उच्छ्वसित भवति। य सचिव महाकृपालुतया सरसकारुणिकतया

पदात्पदमपि भ्रमन्भविल इव नादत्ते दारव पादपरित्राणम्, एकान्ततपरमपदस्पृहयालुतया स्वैरकथास्वपि कर्मन्दीव न तृप्यति विषविषमोल्लेखेषुविषयसुखेषु, सदैव शुचिरिव ब्रह्मचारी तथापि लोकव्यवहारप्रतिपालनार्थ देवोपासनायामपि समाप्लुत्य वैखानस इव जपति जलजन्तूद्वेजनजनितकल्मषप्रघर्षणायाघमर्षणतन्त्रान्मन्त्रान्। आस्ता तावदशुभस्य दर्शन स्पर्शन च,किंतु मनसाप्यस्य परामर्षे शसितव्रत इव प्रत्यादिशत्याशम्। असहप्रवृत्तसङ्गेषुह्यङ्गेषु को नाम नराणा लालनायाग्रह इत्याकलय्य पर्वरसेष्वपि दिवसेषु

———————

सत्त्वसमर्दभयेन प्राणिना चम्पनभयात्पदात् पदमपि भ्रमन् एकपदमात्रमपि भूम्युपरिभ्रमन् दारव काष्टमय पादपरित्राण पादुका नादत्ते न गृह्णाति। क इव। भविल इवमहामुनिरिव। यथा दयालुर्मुनि काष्ठपादत्राण न गृह्णाति। य सचिव एकान्ततसर्वथा प्रकारेण परमपदस्पृहयालुतया मोक्षाभिलाषुकतया स्वैरकथास्वपि स्वेच्छावार्तास्वपि विषयसुखेषु न तृप्यति नाभिलषति। कथभूतेषु विषयसुखेषु। विषविषमोल्लेखेषु विषवद्धालाहलवत् विषम क्रूरतर प्राणापहारक उल्लेखो अग्र येपा तानि तेषु। कइव न तृप्यति। कर्मन्दीव तपस्वीव। यथा कर्मन्दी विषयसुखेषु न तृप्यति। यं सचिवसदैव सर्वकाल शुचिरिव अग्निरिव ब्रह्मचारी वर्तते यद्यप्येव ब्रह्मचारी सदा शुचितथापि लोकव्यवहारप्रतिपालनार्थ लोकाना व्यवहार अस्नातो देवान् न प्रपूजयेदितिवर्तते तस्य प्रतिपालनार्थ देवोपासनायामपि देवपूजनार्थमपि समाप्लुत्य सदुष्णजलेनस्नानं कृत्वा जलजन्तूद्वेजनजनितकल्मषप्रघर्षणाय जलस्य सबन्धितो ये जन्तवपूतरादय प्राणिनस्तेषामुद्वेजनेन बाधाकरणेन जनितमुत्पादित यत् कल्मप पापतस्य प्रघर्षणाय शान्त्यर्थ अघमर्षणतन्त्रान् पापोपशमसप्रदायान् मन्त्रान् गुप्तभाषणान्जपति परावर्तयति। क इव। वैखानस इव। यथा वैखानस दण्डयक्ष्मान् वा मन्त्रान्जपति। य सचिव कि करोति। आस्ता तावत् तत्तावत्तिष्ठतु यत् अशुभस्यमद्यमासचर्मचाण्डालादेर्दर्शनमवलोकन स्पशन च आभेटनम्, किंतु मनसापि चित्तेनापिअस्य अशुभस्य परामर्षे सकल्पेऽपि आश भोजन प्रत्यादिशति निराकरोति अन्तरायविधत्ते। क इव। शसितव्रत इव दिगम्बर इव। यथा महाव्रतदिगम्बर दशनस्पशनसकल्पान्तरायान् करोति। उक्त च— ‘मासरक्तार्द्रचर्मास्थिपूयदर्शनतस्त्यजेत्। मृताङ्गिवीक्षणादन्न प्रत्यारयातान्नसेवनात्॥ मातङ्ग श्वपचादीना दर्शने तद्वच श्रुतौ।भोजन परिहतव्य मलमूत्रादिदर्शने॥’ पुनश्च य सचिव किं करोति। असहप्रवृत्तङ्गेषु मरणे सति सार्धअनागमनशीलेषु हि निश्चित अङ्गेषु शरीरेषु को नामकश्चित् नराणा लालनाय पोषणाय आग्रह आक्षेप इतीदृशमाकलश्य सम्यग्विचार्य पर्वरसे (दिवसे) पि दीपोत्सवादिदिवसेषु शाकमुष्टे शाकमात्रकवलात् यवमुष्टेर्वा यवो

मुमुक्षुरिव न शाकमुष्टेर्यवमुष्टेर्वापरमाहरत्याहारम्। ईषदप्यशुभमन्यत्रोत्पादितमात्मन्युप्तबीजमिव जन्मान्तरे शतश फलतीति दयालुभावाद्दुरितभीरुभावाच्च106 न दल फल वा योगीव स्वयमवचिनोति वनस्पतीन्। परोपरोधादनुभवश्च तन्न पतङ्गपावकस्पर्शपूतमनुभवति। न केवल मयि चिरपरिचयोदन्वदसीमस्नेहनिघ्नत्वात्सुहृदिव वृत्तविघ्नाकारमपि राज्यभारमूरीकृतवान्। नालम्पटमनस्कारोऽस्तीह कश्चिद्विपश्चिदप्यधिगताधिकारो नर इतिव्यभिचारयितुमिव कुशलाशयतया च घटशतेनापि स्वाति बिन्दुनापि नस्पृश्यत इति मत्वा धर्ममूलत्वान्महाकुलप्रसूतेर्महाभागपदप्रादुर्भूतेश्चधर्मस-

—————

दनकवलात् वा अपर अन्य आहार मोदकादिक न आहरति न भुङ्क्ते। क इव।मुमुक्षुरिव मोक्तुमिच्छुर्मुनिरिव। यथा मुमुक्षु शाकमात्रात्रात् अपर स्निग्धमाहारनाहरति। पुनश्च य सचिव किं करोति। दल फल वा स्वयमात्मना वनस्पतीन्न अवचिनोति गृह्णाति वनस्पतीना दल फल स्वयमेव न चुण्टति। ‘यात्स्नार्घा दुहिच्छित्तिप्रच्छिरुधिस्नूसारिजनीवहज्वदण्डग्रहकूष्मानविमुष पञ्चाद्याद्यवो द्विटार’ (?) इतिवचनात् चिञ्धातो प्रयोगे द्विकर्मकत्वात् वनस्पतीनिति षष्ठीबाधिका द्वितीया।कस्मात् खय दल फल वा न चिनोति। इत्यमुना प्रकारेण दयालुभावात् कारुणिकत्वात्। न केवल दयालुभावात्। दुरितभीरुभावाश्च। इतीति किम्। ईषदपि स्तोकमपिअशुभ दुःख अन्यत्र अपरजीवे उत्पादित जनित जन्मान्तरे अन्यभवे आत्मनि स्वस्मिन् शतश शतवारान् सहस्रवारान् लक्षधा कोटिधा दुःख फलति। किमिव। उप्तबीजमिव वपितकण इव। क इव चिनोति। योगीव ध्यानवान्मुनिरिव। पुनश्च किंकरोति सचिव। परोपरोवात् कुटुम्बाद्याग्रहात् तद्दल फल वा अनुभवश्चास्वादयन्पतङ्गपावकस्पर्शपूत सूर्यानिवैश्वानरस्पर्शनपूत पवित्र विना नानुभवति नास्वादयति।पुनश्च कि कृतवान्। न केवल निष्केवल मयि विषये चिरपरिचयोद वदसीम स्नेहनघ्नत्वात्चिरपरिचयेन बालादारभ्य सगतितया उदन्वन् उत्पद्यमानो योऽसौ असीम स्नेह अपर्यन्तप्रीतिस्तस्मिन्निघ्नत्वात् तत्परत्वात् पराधीनत्वात् सुहृदिव कुटुम्बवर्ग इव वृत्तविघ्नाकारमपि चारित्रान्तरायमूर्तिमपि राज्यभार ऊरीकृतवान् स्वीचकार। उक्त च—‘परतन्त्र पराधीन परवान्नाथवानपि। अधीनो निम्न आयत्तोऽखच्छन्दो गृह्यकोऽप्यसौ॥’ मया किं कृत्वा जनपदविषयसचिवो नियुक्त। इति मत्वा ईदृश ज्ञात्वाधर्मसवर्धन विधित्सुना महाकुलप्रसूते उत्तमकुलप्रादुर्भावस्य धर्ममूलत्वात् धर्म विनाउत्तमकुले प्रसूतिर्न भवति इति मत्वा। तथा च कि मत्वा। महाभागपदप्रादुर्भूते स्व

वर्धन विधित्सुना, प्रजामूलत्वात्कोशवृद्धेस्तन्त्रवृद्धेश्च प्रजापालन चिकीर्षुणा, प्रकृतिमूलत्वादसाध्यसाधनस्य पराबाधावरोधनस्य च प्रकृतिप्रसत्तिमुत्पिपादयिषुणा, सत्पुरुषमूलत्वादशेषशास्त्रव्युत्पत्तेर्विशिष्टाचारप्रवृत्तेश्च सत्पुरुषान्सजिघृक्षुणा, प्रतिपक्षापायमूलत्वादाज्ञोत्कर्षस्य प्रतापप्रकर्षस्य च प्रतिपक्षापाय समीचिक्षुणा, राज्यलक्ष्मीमूलत्वाद्विषयसुखोपसर्पणस्यार्थिजनस-

————————

गमोक्षत्पादस्य धर्ममूलत्वात् धर्म विना महाभागपदप्रसूतिर्न भवति इति मत्वा। असौ सचिव जनपदविषये किमर्थं नियुक्त। इति ईदृशं कार्यव्यभिचारयितुमिव असत्यं कारयितुमिव। इतीति किम्। इह अस्मिन् संसारे अलम्पटमनस्कार निलाभचित्त कश्चिद्विपश्चिदपि कोऽपि विद्वानपि अधिगताधिकार प्राप्तनियोगो नर पुमान् नास्ति न वर्तते। किं कृत्वा। सर्वमिति मत्वा। इतीति किम्। कुशलाशयतया यत्नपरिचिततया घटशतेनापि कुम्भसहस्रेणापि स्नाति स्नानं करोति बिन्दुनापि बिन्दुप्रमुखेनापि न स्पृश्यते। बिन्दुमात्रजलस्यापि पापं न भवतीत्यर्थ। पुनश्च किं कर्तुमिच्छुना मया सचिवो नियुक्त। प्रजापालन चिकीर्षुणा प्रजानां लोकानां पालनं रक्षणं चिकीर्षुणा कर्तुमिच्छता। कस्मात् प्रजापालनं कर्तुमिच्छता कोशवृद्धेर्धनवर्धनस्य प्रजामूलत्वात् प्रजा विना कोशवृद्धिर्न भवति इति मत्वा। पुनश्च कस्मात् नियुक्त। तन्त्रवृद्धेश्चसेनावृद्धेश्च प्रजापालनं विना सैन्यवृद्धिर्न भवति इति मत्वा। पुनश्च किं कर्तुमिच्छता मया सचिवो नियुक्त। प्रकृतिप्रसत्तिं उत्पिपादयिषुणा प्रकृतीनां पूर्वोक्ताष्टादशशतीना प्रसत्तिं प्रसन्नता उत्पिपादयिषुणा उत्पादयितुमिच्छता। कस्मात् प्रकृतीनां प्रसन्नतोत्पाद्यते। असाध्यसाधनस्य असाध्यस्य विषमस्य दुर्गादे साधनस्य करे करणस्य प्रकृतिमूलत्वात् प्रकृतिं विना असाध्य न साध्यते इति मत्वा। न केवलम् असाध्यसाधनस्य किं तु पराबाधावरोधनस्य परेषां शत्रूणाम्आबाधा उपद्रवस्तस्य अवरोधनस्य निषेधनस्य प्रकृतिमूलत्वात्। शत्रुबाधानिरोध प्रकृतिं विना न भवतीति भाव। पुनश्च किं कर्तुमिच्छता मया सचिवो नियुक्त। सत्पुरुषान् सजिघृक्षुणा सग्रहीतुमिच्छता। सत्पुरुषसग्रहणेच्छापि कस्मात्। अशेषशास्त्रव्युत्पत्ते सकलशास्त्रपरिज्ञानाथस्य विशिष्टाचारप्रवृत्तेश्च सदाचारप्रवतनस्य च सत्पुरुषमूलत्वात् सकलशास्त्र व्युत्पत्तिर्विशिष्टाचारप्रवृत्तिश्च सत्पुरुषान् विना न भवतीति कारणात्। पुनश्च किं कर्तुमिच्छता मया सचिवो नियुक्त। प्रतिपक्षापाय शत्रुविनाश समीचिक्षुणा समीक्षितुमिच्छता। प्रतिपक्षापायसमीक्षणेच्छापि कस्मात्। आज्ञोत्कर्षस्य प्रतापप्रकृष्टतायाश्च प्रतिपक्षापायमूलत्वाच्च शत्रूणा विनाशं विना आज्ञाविशिष्ट प्रतापप्रकर्षश्च न भवति। पुनश्च किं कर्तुमिच्छता मया सचिवो नियुक्त। राज्यलक्ष्मीं उल्लिलासयिषुणा राज्यलक्ष्मीं उल्लासयितुमिच्छता। राज्यलक्ष्म्युल्ला सेच्छापि कस्मात्। विषयसुखोपसर्पणस्य विषयसौख्यप्रवर्तनस्य अर्थिजनसंतर्पणस्य च

तर्पणस्य च राज्यलक्ष्मीमुल्लिलासयिषुणा च, आत्मोचितानुचरचमूयुक्तो नियुक्त प्रज्ञाप्रभावतिरस्कृतबार्हस्पत्य पामरोदाराभिधानोऽमात्य स कीदृशस्थिति सप्रतीति सादरमापृष्टादस्मादिदमश्रौषम्। तथा हि — कापटिक प्राह– ‘देव, यथायथ कथयामि। किं तु तद्वार्तावातूलीव्यतिकराद्देवस्याप्युपरि किचिद्दुरपवादरज प्रसरिष्यति। यत—

पूज्यमब्ज श्रिय सङ्गाज्ज्येष्ठायाश्च न कैरवम्।
प्रायो जनेऽन्यसंसर्गाद्गुणिता दोषितापि च॥ ११८ ॥

देव,

स भर्तुरेव दोषोऽय स्वच्छन्द यद्विकुर्वते।
आत्मातिरिक्तभावेन दारा इव नियोगिन॥ ११९ ॥

——————

याचकजनप्रीणनस्य च राज्यलक्ष्मीमूलत्वात् विषयसुख अथिजनतर्पण च राज्यलक्ष्मीविना न भवति। कथभूतो नियुक्त। आत्मोचितानुचरचमूयुक्त एतद्योग्यकिंकरसेनासमेत। अपर कथभूत। प्रज्ञाप्रभावतिरस्कृतबार्हस्पत्य प्रज्ञाप्रभावेण मत्यतिशयेन तिरस्कृतो निर्भर्त्सितो बार्हस्पत्य बहस्पतीना गुरूणा समूहो येन स तथोक्त। यावन्त सुरपतयो वर्तते तेषां प्रत्येक बहस्पतिनामा सचिवो वर्तते एव। पुन कथभूत। पाम रोदाराभिधान पामराणा हालिकाना उदारो हृदयेष्टस्तेषा पीडाया आकारकत्वात् पामरोदार इति अभिधान नाम यस्य स तथोक्त। तथाहि तदेव निरूपयति— किमशेष कापटिक शङ्खनक प्राह ब्रूते। कि ब्रूते। देव, यथायथ यथोक्त कथयामि प्रबन्ध रचयामि। किंतु किं तर्हि तद्वार्तावातूलीव्यतिकरात् तस्य मन्त्रिणो वार्ता समाचार सैव वातूली वात मण्डली तस्या व्यतिकर प्रघट्टकस्तस्मात् तद्वार्तावातूलीव्यतिकरात् देवस्यापि भवत उपरि मस्तके किंचित् मनाग् दुरपवादरज अपकीर्तिधूली प्रसरिष्यति व्याप्स्यति। कस्मात् म (त) दुपरि दुरपवादरज प्रसरिष्यतीति चेत्—यत यस्मात् कारणात्।

पूज्यमित्यादि। श्रियो लक्ष्म्या सङ्गात् संसर्गात् अब्ज कमल पूज्य भवति। ज्येष्ठाया देवताविशेषस्य सङ्गात् संसर्गात् कैरव कुमुद श्वेतोत्पल पूज्य न भवति। युक्तोऽयमर्थ— जने लोके प्रायो बाहुल्येन अन्यसंसर्गात् सगतिविशेषात् गुणिना गुणित्व दोषिणा दोषित्व च भवति। दृष्टान्तालंकार॥

स भर्तुरित्यादि। हे देव हे राजन्, सोऽय दोष भर्तुरेव राज्ञ एव वर्तते। स क। यत् नियोगिन स्वच्छन्द विकुर्वते विक्रिया भजन्ति। केन कृत्वा विकुर्वते। आत्मातिरिक्तभावेन आत्मन अधिकत्वेन। अभिमानेनेत्यर्थ। क इव। दारा इव कलत्रमिव।

स्वयं विषमरूपोऽपि संघात कार्यकृद्भवेत्।
अधिष्ठातुंप्रयत्नेन यथा हस्तोऽसमाङ्गुलिः॥१२०॥

देव, देवस्य स्वभावत एव कल्याणाचारत्वादमायव्यवहारत्वाच्चात्मनीव दुरात्मन्यपि जने निरञ्जनसभावन मन। यत—

आत्मनीव परत्रापि प्राय सभावना जने।
यदस्तेनादपि स्तेन स्वदोषात्परिशङ्कते॥१२१॥

ततो देव, त हतकचरित निर्विचारचेत प्रभाव देव च प्रति तैस्तैर्विसृष्टविसृष्टज्ये(पे)ष्टचेष्टितरविभि कविभि प्रायेण देवस्य पूर्वपक्षपातीति कृतानि प्रहतवृत्तानि साधु समाकर्ण्यताम्। तत्र तावत्तरुणीलीलाविलासस्य—

—————

यत् दारा कलत्र विकुर्वते विकृतिं भजन्ति सोऽयं भर्तुरेव दोष पत्युरेव दोष यदसौ पतिर्दारेषु अभिमानं ददाति। उपमालंकार॥

स्वयमित्यादि। हे राजन्, संघात समूह स्वयम्आत्मना विषमरूपोऽपि उच्चावचरूपोऽपि कार्यकृद्भवेत् कार्यकारी स्यात्। केन। अधिष्ठातुं प्रयत्नेन स्वामिन सावधानतया। कथम्। यथा हस्त इव। कथंभूतो हस्त। असमाङ्गुलि असमाना अङ्गुलयो यस्य स तथोक्त। दृष्टान्तालंकार॥

** देवेत्यादि**। हे देव हे राजन्, देवस्य तव स्वभावत एव निसर्गेणैव कल्याणाचारत्वात् शुभाचारत्वात् अमायव्यवहारत्वाच्च मायारहिताचारत्वाच्च आत्मनीव स्वस्मिन्निव दुरात्मन्यपि जने दुराचारेऽपि लोके मनश्चित्त निरञ्जनसभावन वर्तते निर्दोष घटना वर्तते। यत यस्मात् कारणात्।

** आत्मनीत्यादि**। आत्मनीव स्वस्मिन्निव परत्रापि परस्मिन्नपि प्रायो बाहुल्येन जने लोके संभावना वर्तना। यत् यस्मात् कारणात् स्तेनश्चारै स्वदोषात् अस्तेनादपि अमलिष्णुत्वादपि परिशङ्कते शङ्कां करोति बिभेति। दृष्टान्तालंकार॥

तत इत्यादि। ततस्तस्मात् कारणात् हे देव हे राजन्, त पामरोदारसचिव प्रतिदेव च त्वा प्रति तैस्तैर्जगत्प्रसिद्ध कविभि प्रायेण बहुलतया देवस्य तव पूर्वपक्षपातीनि भवस्थापनोच्छेदकानि प्रहतवृत्तानि नेष्टचरितानि (देवतानि) साधु रुचिरं यथा भवत्येव सावधानतया समाकण्यता श्रूयताम्। कथंभूत सचिवम्। हत क्चरित नष्टाचारम्। कथंभूत देवम्। निर्विचारचेत प्रभाव विचाररहितमनोमाहात्म्यम्। कथंभूतैः कविभिः। विसृष्टविसृष्टपेष्टचेष्टितरविभि विसृष्टं तिरस्कृतं विसृष्टपेष्टस्य भवनस्य चेष्टिते आकाशप्रकाशे रवि श्रीसूर्यो यै कविभिस्ते तथोक्तास्तै। भुवनप्रकाशनसूर्यैरित्यर्थ। तत्र तेषु कविषु मध्ये तावदनुक्रमेण तरुणीलीलाविलासस्य तरुणीलीलाविलासनाम्नो महाकवे

नमो दुर्मन्त्रिणे तस्मै नृपाङ्घ्रिपमहाहये।
यद्वशान्नार्थिसप्रार्थ्यस्तच्छायाश्रमविश्रम॥ १२२॥

अष्टपदा नान्दी।

यस्य शिष्टघटोच्छेदि मन्त्रसूत्र विजृम्भते।
सत्पात्रपाचिने तस्मै नमो दुर्मन्त्रिचक्रिणे॥ १२३॥

इयं च।

और्वायापूर्वरूपाय तस्मै दुर्मन्त्रिणे नमः।
अजडा अपि शोष्यन्ते येन पत्यु श्रिय परा॥ १२४॥

इयं च द्वादशपदा।

———————

कृत मन्त्रिण प्रहतवृत्त तावत्समाकर्ण्यताम्। इयम् अष्टपदा नान्दी दुर्मन्त्रिपुराणप्रारम्भे, इयम् अष्टपदा नान्दी मङ्गलसूत्रम्॥

मन इत्यादि। तस्मे दुर्मन्त्रिणे पामरोदारनाम्ने सचिवाय नमः नमस्कारोऽस्तु। अयं नमस्कारो हास्येन वर्तते नतु परमार्थतया। कथंभूताय तस्मै। नृपाङ्घ्रिपमहाहये नृप एव अङ्घ्रिपो वृक्ष लक्ष्मीफलदायकत्वात् तस्मिन्महान्गुरुतरो अहि सर्प नृपाङ्घ्रिहाहिस्तस्मै नृपाङ्घ्रिमहाहये। यद्वंशात् यत्प्रभावात् तच्छायाश्रमविश्रम नृपवृक्षच्छाया आश्रमविश्रम स्थानविश्राम अर्थिसप्रार्थ्यो न भवति याचकजनानां सुलभो न भवति। रूपकालंकार। अष्टपदा नान्दी॥

यस्येत्यादि। तस्मै दुर्मन्त्रिचक्रिणे नम नमोऽस्तु। तस्मै कस्मै। यस्य दुर्मन्त्रिचक्रिण मन्त्रसूत्र मन्त्रसूचन शास्त्र विजृम्भते प्रसरति। कथभूत मन्त्रसूत्रम्। शिष्टघटोच्छेदि शिष्टाना साधुलोकाना घटा श्रेणि तामुच्छिनत्तीत्येवशील शिष्टघटोच्छेदि। पक्षे यथा चक्रिण कुम्भकारस्य सूत्र दवरक शिष्टा निष्पादिता ये घटा कुम्भास्तच्छेदक भवति। कथभूताय तस्मै। सत्पात्रपाचिने सत्पात्राणि सत्पुरुषान् पचति सतापयती त्येवशील सत्पात्रपाची तस्मै। यथा कुम्भकार समीचीनानि पात्राणि कुम्भादीनि पचति अग्निमध्ये मुक्त्वा पावकमध्ये क्षिप्त्वा पक्वानि करोति। रूपकालंकार। इय च अष्टपदा नान्दी वर्तते॥

** और्वायेत्यादि**। तस्मे दुर्मन्त्रिणे नम। तस्मै कथभूताय। अपूर्वरूपाय अभिनवममूर्तये और्वाय वडवानलाय। तस्मै कस्म। येन दुर्मन्त्रिणा पत्युर्नरेद्रस्य परा उत्कृष्टा श्रियो लक्ष्म्य अजडा अपि शोष्यन्ते पीयन्ते। वडवानलेन सजड107 समुद्र शोष्यते, अनेनापि उभये शोष्यते। रूपकव्यतिरेकालंकार॥ इय च द्वादशपदा नादी वर्तते॥

ततश्च—

चञ्चापञ्चजनाकृति क्षितिपतिर्यत्राभवन्नायक
पौरो भाग्यपुराणपालितमतिर्मन्त्री धवित्रीसुत।
स प्रौढोक्तिबृहस्पतिश्च तरुणीलीलाविलास कवि-
स्तद्दुर्मन्त्रिदुरीहित विजयते सूक्तोत्कट नाटकम्॥ १२५॥

मृल्लोष्ठचेष्ट क्षितिप स्वभावात्सुदुष्टचेष्ट सचिवश्च यत्र।
शुभाशयस्यापि सुमेधसोऽपि क्षेम कुतस्तत्र भवेज्जनस्य॥ १२६॥

शिष्टावास कुतस्तत्र दुर्मन्त्री यत्र भूपतौ।
श्येनैश्वर्यं तरौ यत्र कुतस्तत्रापरे द्विजा॥ १२७॥

——————

ततस्तस्मात् कारणात्। चञ्चापञ्चजनाकृतिरित्यादि। तज्जगत्प्रसिद्ध दुमन्त्रिदुरीहित दुष्टमन्त्रिदुश्चेष्टित सूक्तोत्कट सूक्तै सुवचनैरुत्कटमुल्बण नाटक प्रेक्षणक विजयते सर्वोत्कर्षेण प्रवर्तते। नाटक किम्। यत्र नाटके क्षितिपती राजा नायकोऽभवत् नाटकमुख्यो बभूव। कथभूत क्षितिपति। चञ्चापञ्चजनाकृति चञ्चा तृणनिर्मित पञ्चजन पुरुष चञ्चापञ्चजना। तृणनिर्मित इत्यर्थ। तस्य आकृतिराकारो यस्य क्षितिपते स चञ्चापञ्चजनाकृति। पौरो नगरलोक। कथभूत। भाग्यपुराणपालितमति भाग्यपुराणेन सर्वकार्योपार्जितपुराणेन पालिता प्रतिप (र) क्षिता मतिर्यस्य स तथोक्त। मन्त्री कथभूत। धवित्रीसुत लोहकारीपुत्र। तस्मिन्नाटके स तरुणीलीलाविलासनामा कविवतते। कथभूत कवि। प्रौढोक्तिबहस्पति प्रोढा बलवत्तरा या उक्ति वचनरचना तस्या बहस्पति चार्वाकगुरु। समुच्चयालंकार॥

मृल्लोष्ठचेष्ट इत्यादि। तत्र तस्मिन् राज्ये जनस्य लोकस्य क्षेम श्रेय कुतो भवेत्, न कुतोऽपि कल्याण स्यात्। कथभूतस्य जनस्य। शुभाशयस्यापि पुण्यपरिणाम स्यापि आस्ता तावत्पातकिनो लोकस्य। सुमेधसोऽपि सद्बुद्धेरपि आस्ता तावद्दुबुद्वेर्लोकस्य तत्र। यत्र यस्मिन् राज्ये क्षितिपो नरेद्रो मृल्लोष्ठचेष्ट मृत्पिण्डसमानक्रिय। कस्मात्। स्वभावात् प्रकृत्यैव। यत्र यस्मिन् राज्ये सचिवश्च मन्त्री। कथभूत। सुदुष्टचेष्ट अतीव दुष्टक्रिय। जातिरूपकालंकार॥

शिष्टा इत्यादि। यत्र यस्मिन् भूपतौ दुर्मन्त्री वतते तत्र राजनि शिष्टावास साधुलोकाना स्थिति कुत, न कुतोऽपि। यत्र यस्मिन् वृक्षे श्येनैश्वर्य शशादननार्पत्यं तत्र तरौ अपरे द्विजा काकचटकादय कुत। न कुतोऽपीत्यर्थं। आक्षेपालंकार॥

विषकलुषितमन्ध कस्य भोज्याय जात
कुसचिवहतभूतिर्भूपति कैरुपास्य॥ १३१॥

अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीव।
यत्र खलाश्च प्रबलास्तत्र कथ सज्जनावसर॥ १३२॥

विदग्धमुग्धम्य—

पङ्कजवने लक्ष्मीर्विपिने विजयो हुताशने तेज।
तपने च पर मण्डलमवनिपतेर्भवति दु सचिवात्॥ १३३॥

खङ्गेषु पर कोश शेषाया तन्दुला करे पर्व।
चतुरङ्गेषु च तन्त्र दुर्मन्त्रिणि भवति भूपस्य॥ १३४॥

————————

विषकलुषित हालाहलदूषित अन्धो भोजन कस्य पुरुषस्य भोज्याय जायते समुत्पन्नम्। अपि तु न कस्यापि इत्यर्थ। तथा न्यायेन कुसचिवहतभूति कुमन्त्रिदूषितैश्वर्य भूपति राजा कै पुरुषैरुपास्य। अपि तु न केरपि पुरुषै सेवनाय इत्यर्थ। आक्षेपालंकार॥

अविवेकमतिरित्यादि। यत्र यस्मिन् राज्ये नृपति राजा अविवेकमतिवि। चाररहितबुद्धि। यत्र राज्ये मन्त्री सचिवो गुणवत्सु विदुषेषु108 वक्रिततीव पराङमुखो भवति। यत्र राज्ये खला सूचका प्रबला बलवत्तरा वर्तते। तत्र तस्मिन् राज्ये सज्जनावसर साधुलोकप्रस्ताव कथ केन प्रकारेण भवति। अपि तु न कथमपि भवतीत्यर्थ। आक्षेपालंकार॥

विदग्वमुग्धस्य विदग्वमुग्धनाम्नकवेर्वृत्तरचना श्रूयताम्— पङकेजवन इत्यादि। अवनिपतेर्नरे द्रस्य दु सचिवात् दुर्मन्त्रिण सकाशात् भवति सजायते। का। लक्ष्मी। कस्मिन् पङ्केजवने कमलवने। राज्यलक्ष्मीन भवतीत्यर्थ। विपिने वने विजयो भवति। शत्रुपराजयो राजनि न भवति, वीना पक्षी (क्षि) णा जयो वने भवतीत्यर्थ। हुताशने तेज अग्नौ प्रतापो भवति। राजनि प्रतापो न भवतीत्यर्थ। तपने श्रीसूर्ये परमुत्कृष्ट मण्डल बिम्ब भवति। राजनि मण्डल देशो न भवतीत्यर्थ। समुच्चयदीपकालंकार॥

खड्गेष्वित्यादि। भूपस्य राज्ञो दुर्मन्त्रिणि सति किं कि भवति। खङ्गेषु निस्त्रिंशेषु पर केवल कोश असिपत्त्र भवति, न तु राज्ञो भाण्डागारो भवति। शेषाया आशीर्वादे तण्डुला अक्षता भवति, न तु राज्ञो धान्यानि सज्ञायन्ते। करे हस्ते पर्व अङ्गुलिरेखा भवति, न तु राज्ञ पर्व दीपोत्सवादिषु उत्सवो भवति। चतुरङ्गेषु द्यूतेषु तन्त्र अर्थसाधन भवति, न तु राज्ञस्तन्त्र सैन्य भवति। परिसख्यालंकार॥

नीतिनेत्रस्य—

राज्यवृद्धिस्ततोऽमात्याद्यो न कुक्षि॑भरि स्वयम्।
अत्ति स्थाल्येव चेद्भक्त भोक्तुर्भुक्तिर्भवेत्कुत॥ १३५॥

य स्याद्भुजगवद्भूपो बहिरीक्षितमोहित।
त खादन्ति न किं नाम लञ्जिका इव सेवका॥ १३६॥

परैरबाधन स्वस्य परेषा बाधन स्वयम्।
प्रजाप्रकृतिकोशाना श्रीश्च मन्त्रात्फल विदु॥ १३७॥

कोशोद्वासी प्रजाध्वसी तन्त्रक्षोभविधायक।
यो विद्वेष्टा विशिष्टाना शत्रुर्मन्त्रिमिषादसौ॥ १३८॥

मानधनजयस्य —

श्रीमानर्थिजनार्थी पृथ्वीश पुरुषरत्नयत्नार्थी।
सचिवश्च परहितार्थी यदि भवति तत कुतस्तु कलिकाल॥१३९॥

———————

नीतिनेत्रस्य नीतिनेत्रनाम्न कवेर्वृत्तरचना श्रूयताम् — राज्यवृद्धिरित्यादि। ततस्तस्मादमात्यात् सचिवात् राज्यवृद्धिर्भवेत्। तत कस्मात्। यो अमात्य स्वयमात्मना कुक्षि॑भरि स्वोदरपूरको न भवेत्, चेत् यदि स्थाल्येव ( उखैव ) पाकभाण्ड भक्त कूर अत्ति भक्षयति तर्हि भोक्तु पुरुषस्य भुक्तिर्भोजन कुत कस्मात् भवेत् सजायेत। न कुतोऽपीत्यर्थ। दृष्टान्तालंकार॥

य इत्यादि। यो भूप बहिरीक्षितमोहित बहि क्रियावन्दित। किवत्। भुजगवत् कामुक इव स्याद्भवेत् त भूपम्। नामेति सभावनायाम्। सेवका मन्त्रयादय कि न राादन्ति। अपि तु भक्षयन्त्येवेत्यर्थ। का इव। लञ्जिका इव। यथा लञ्जिका वेश्या बाह्यचेष्टामोहित पुरुष खादन्ति निर्धन कुर्वन्ति। उपमालंकार, आक्षेपश्च॥

** परैरित्यादि**। परै शत्रुभि स्वस्य आत्मन अबाधन अपीडन परेषा शत्रूणा स्वयमात्मन बाधन पीडन प्रजाप्रकृतिकोशाना श्री प्रजाना प्रकृतीना कोशाना श्रीश्चयद्भवति109 तत् मन्त्रात् फल विदुर्ब्रुवन्ति। जात्यलंकार॥

कोशोद्वासीत्यादि। यो मन्त्री कोशोद्वासी भाण्डागाररेचक, प्रजाध्वसी प्रजाध्वसक, तन्त्रक्षोभविधायक सैन्यसचलनकारक, विशिष्टाना साधुलोकाना विद्वेष्टा विद्वेषकारक असौ मन्त्री मन्त्रिमिषात् सचिवच्छलात् शत्रुर्ज्ञातव्य। रूपकालंकार॥

मानधनजयस्य कवेवृत्तरचना श्रूयताम् — श्रीमानित्यादि। श्रीमान् लक्ष्मीवान् पुमान् यदि अर्थिजनार्थी भवति, पृथ्वीशो राजा पुरुषरत्नयत्नार्थी पुरुषा एव रत्नानि

नृपतिसुतः खलनिरत सचिवजनो दुर्जनोऽधन सुजन।
महता मस्तकशूल जातैश्वर्य कदर्यश्च॥१४०॥

कविकोविदस्य—

कपटपटुभिर्वाचाटास्यै पुर स्फुटचाटुभि-
र्बहिरुपहितप्रायोमायैर्मुधा व्रतिकाशयै।
वचसि फलवत्तन्त्रावापप्रयोगनयानुगै-
र्नरपतिसुत कृत्योऽमात्यैर्वशोऽर्थकृशोऽपि च॥१४१॥

यदीच्छसि वशीकर्तुं महीश गुणय द्वयम्।
बहुमायामय वृत्त चित्त चाकरुणामयम्॥१४२॥

——————

तेषा यत्न सग्रह सार्थो विद्यते यस्य स तथोक, सचिवश्च मन्त्री यदि पर हितार्थी भवति, परेषा हितप्रयोजन स्यात्, तर्हि कलिकाल कुत। न कुतोऽपीत्यर्थ। रूपकाक्षेपालंकार॥

** नृपतिसुत इत्यादि**। नृपतिसुतो राजपुत्र खलनिरत सूचकतत्पर, सचिवजनो मन्त्रिलोको दुर्जन नापितादिपुत्र, सुजन सत्पुरुष अधनो निर्धनो भवति, कदर्यो अदाता जातैश्वर्य विभूतिमान् भवति, एतत् सर्व महता विद्वज्जनाना मस्तकशूलम्। असहनीयमित्यर्थ। समुच्चयालकार॥

कविकोविदनाम्न कवेर्वृत्तरचना श्रूयताम् — कपटपटुभिरित्यादि। नरपतिसुतो राजपुत्र अमात्यैर्मन्त्रिभि वश पराधीन अर्थकृशोऽपि च दरिद्रोऽपि कृत्य कर्तव्य। कथभूतैरमात्यै। कपटपटुभि वञ्चनाचतुरै। पुन कथभूते। वाचाटास्य बहुगर्ह्यवाग्वदनै। पुन कथभूतै। पुर स्फुटचाटूभि पुर अग्रत प्रव्यक्तमिथ्यास्तुतिभि। पुन कथभूतै। बहिरुपहितप्रायोमायै बहिर्बाह्ये उपहिता कृता प्रायो बाहुल्येन माया परवञ्चन यैस्ते तथा ते। पुन कथभूतै। सुधा व्रतिकाशयै अन्तर्गडुव्रतप्रतिपालनाभिप्रायै। पुन कथभूतै। वचसि केवल जिह्वाग्रे फलवत्तन्त्रा वापप्रयोगनयानुगै फल विद्यते यस्मिन् तत् फलवत् एवविध यत्तन्त्र सैन्य तस्य अवाप प्राप्तिस्तस्य प्रयोगनय कर्तव्यनीतिस्तमनुगच्छन्तीति राजाग्रे प्रब्रुवन्तीति फलवत्तन्त्रावापप्रयोगनयानुगास्तै। समुच्चयालंकार॥

यदीत्यादि। हे विद्वन्, यदि चेत् महीश राजान वशीकर्तुमिच्छसि तर्हि द्वय गुणय एतद्द्वयमभ्यस। एतत् किम्। बहुमायामय वृत्त प्रचुरपरवञ्चनमय चारित्रम्, अकरुणामय निर्दय चित्त मन। समुच्चयालंकार॥

बहिरलघुरसप्रभवैरन्त शून्यार्थपाटवै सचिवै।
मुग्धमृगा प्रतिदिवस वञ्च्यन्ते मरुमरीचिकाशङ्कै॥ १४३॥

कार्ये स्वस्याभिमते सचिव सिद्धिं करोति हठवृत्त्या।
नृपतिरय बहुसचिव के वयमत्रेति भाषतेऽन्यस्य॥ १४४॥

काशा तत्र नरेशे समस्तपरिवारजीविताहार।
सचरति यस्य निकटे सचिवजनो दुर्जनाचार॥ १४५॥

अभिमानमहीधरस्य—

अनवाप्तधनोऽपि जन सकिंचने भवति चाटुतापात्रम्।
मातर्लक्ष्मि तवाय महिमा किमिवोच्यतामत्र॥१४६॥

आत्मायत्त वृत्त वृत्तायत्तानि जगति पुण्यानि।
पुण्यायत्ता लक्ष्मीर्यदि विद्वान्दैन्यवान्किमिति॥ १४७॥

** बहिरित्यादि**। सचिवैर्मुग्धमृगा अपरिज्ञानतत्त्वपुरुषहरिणा प्रतिदिवस वञ्च्यन्ते प्रतार्यन्ते। कथभूतै सचिवै। बहिरलघुरसप्रभवै बहिर्बाह्ये गुरुतरानुरागोत्पादकै। पुन कथभूतै। अन्त शून्यार्थपाटवै अन्तर्मध्ये शून्यार्थे फल्गुकार्ये पाटव पटुत्वयेषा ते तथोक्तास्तै। अपर कथभूतै। मरुमरीचिकाशङ्कैमृगतृष्णासमानै। यथा मृगतृष्णा बाह्ये प्रचुरतरजलाभ्याश दर्शयति, मध्ये तु जलबिन्दुरपि न वर्तते।उपमालंकार।

कार्ये इत्यादि। सचिवो मन्त्री स्वस्य आत्मन अभिमते कार्ये अभिप्रयोजने हठवृत्त्या बलात्कारेण सिद्धिं करोति निष्पत्तिं विदधाति अन्यस्य कार्ये इति ईदृश वचन भाषते ब्रूते। इतीति किम्। अय एष नृपती राजा बहुसचिवो वर्तते। अत्र अस्मिन् राजनि वय के। अस्माभिर्न किमपि कार्य सिध्यति इत्यथ। आक्षेपालंकार॥

** काशा इत्यादि**। तत्रतस्मिन् नरेशे का आशा। अपि तु न कापि वाञ्छा। तत्रकुत्र। यस्य नरेशस्य निकटे दुर्जनाचार सचिवजन सचरति प्रविशति। कथभूत सचिवजन। समस्तपरिवारजाविताहार सर्वपरिच्छदजीविकाभक्ष। आक्षेपालंकार॥

अभिमानमहीधरस्य अभिमानमहीधरनाम्न कवेर्वृत्तरचना श्रूयताम्—अनवाप्तधन इत्यादि। जनो लोक अनवाप्तधनोऽपि अलक्ष्मीकोऽपि सकिचने सवने पुसि चाटुतापात्र भवति मिथ्यास्तुतिकारक सजायते। हे मात लक्ष्मि हे अम्ब रमे, अय प्रत्यक्षीभूतस्तव महिमा प्रभाव। अत्र अस्मिन् संसारे किमिवोच्यताम्। किं कथ्यते इत्यर्थ। आक्षेपालंकार॥

आत्मायत्तमित्यादि। वृत्तमाचरण तावदात्मायत्त स्वाधीन वर्तते। जगति स—

यद्यपि विधे न सुविधि काम्येऽर्थे याच्यसे तथापीदम्।
कुरु मरण माकार्षी सुजनाना दुर्जनै सङ्गम्॥ १४८॥

मन्त्रावसरे समरे विधुरे दारेषु वस्तुसारेषु।
यो न व्यभिचरति नृपे स कथ तु न वल्लभस्तस्य॥ १४९॥

अव्याधिदुर्बलस्य—

क्षाराब्धौ सलिलस्य दुर्जनजने विद्याविनोदस्य च
क्षुद्रे सभ्रमभाषितस्य कृपणे लक्ष्मीविलासस्य च।
भूपे दु सचिवागमस्य सुजने दारिद्र्यसङ्गस्य च
ध्वस स्यादचिरेण यत्र दिवसे त चिन्तयन्दुर्बल॥ १५०॥

—————

सारे पुण्यानि शुभकर्माणि वृत्तायत्तानि आचरणाधीनानि वर्तन्ते। लक्ष्मीर्धन पुण्यायत्ता पुण्यकर्माधीना। हे विद्वन्, यदि त्वं विद्वान् विचक्षणो वर्तसे, तहि दैन्यवान् याचकत्ववान् किमिति किमर्थ वर्तसे। जात्यलंकार॥

यद्यपीत्यादि। हे विधे हे कर्मन्, यद्यपि त्व काम्येऽर्थे सुविधि सानुकूलो न वर्तसे, तथापीद तदपि इद एक वस्तु त्वं याच्यसे। इद किम्। मरण कुरु प्राणान् गृहाण। सुजनाना सत्पुरुषाणा दुर्जनै खललोकै सह सङ्ग मेलापक माकार्षीर्मा कुरु। प्रतिवस्तूपमालंकार॥

मन्त्रावसरे इत्यादि। य सचिवो नृपे न व्यभिचरति न स्खलति स मन्त्री तु पुनस्तस्य वल्लभोऽभीष्ट कथ न भवति। अपि तु भवत्येव। कुत्र कुत्र न व्यभिचरति। मन्त्रावसरे मन्त्रप्रस्तावे, समरे संग्रामे, विधुरे व्यसनवेलायाम्, दारेषु स्त्रीषु, वस्तुसारेषु धनरत्नादिषु। आक्षेपालंकार॥

अव्याधिदुर्बलस्य अव्याधिदुर्बलनाम्न कवेर्वृत्तरचना श्रूयताम्— क्षाराब्धावित्यादि। हे राजन्, यत्र यस्मिन् दिवसे दिने अचिरेण स्तोककालेन ध्वसो विनाश स्याद्भवेत् त दिवस चिन्तयन् प्रतीक्षमाण प्रतिपालयन्। कस्य ध्वस स्यात्। क्षाराब्धौ लवणोदसमुद्रे सलिलस्य ध्वस स्यात्, दुर्जनजने खललोके विद्याविनो दस्य ध्वस स्यात्, क्षुद्र असहिष्णुपुरुषे सम्भ्रमभाषितस्य महारवचनस्य ध्वस स्यात् कृपणे बद्धमुष्टौ लक्ष्मीविलासस्य लक्ष्मीविस्तारस्य ध्वस स्यात्, भूपे राजनि दुः सचिवागमस्य दुष्टमन्त्र्यागमस्य च ध्वस स्यात्, सुजने सुष्ठुजने दारिद्र्यसङ्गस्य दरिद्रस्य भावोदारिद्र्य तस्य सङ्ग सगमस्तस्य ध्वस स्यात्। समुच्चयालंकार। वर्तमानसमीपे वर्तमानकाल स्यात्॥

यदतिथिविषयेऽस्मिन्विष्टपे सृष्टिरेषा
सुरभितरुमणीनामर्थितार्थप्रदानाम्।
इदमणकमिहैक मे कृशाङ्गत्वहेतु
कुसचिववशवृत्तिर्भूपतिश्च द्वितीयम्॥१५१॥

कविकुसुमायुधस्य—

यदि तव हृदय समय विद्वन्स्वप्नेऽपि मा स्म से विष्ठा।
सचिवजित युवतिजित खड्गिजित खलजित च राजानम्॥ १५२॥

उपल सलिलेषु तरेज्जलधिर्गाधेत मन्दर प्रचरेत्।
इति सभवति कदाचिन्नाखलभाव पुन सचिव॥ १५३॥

विषमकर शिशिर स्यादनिलोऽचपल खराशुरमृताशु।
सर्पश्चाविषदर्पो न तु मैत्रीस्थो नियोगस्थ॥ १५४॥

———————

यदतिथीत्यादि। इह अस्मिन् ससारे इद प्रत्यक्षीभूत एक अणक दुःख मे मम कृशाङ्गत्वहेतु कारण वर्तते। यत् यस्मात् कारणात् अतिथिविषये याचनापराङ्मुखे अस्मिन् विष्टपे ससारे एषा प्रत्यक्षीभूता सुरभितरुमणीना सृष्टिर्वर्तते। कथभूताना सुरभितरुमणीनाम्। अर्थितार्थप्रदाना वाञ्छितवस्तुप्रदायकानाम्। द्वितीय मे कृशाङ्गत्वहेतुवर्तते। भूपति कुसचिववशवृत्तिर्दुष्टमन्त्रिवशेन पराधीनत्वेन वृत्तिर्यस्य स तथा। हेत्वलंकार॥

कविकुसुमायुधस्य वृत्तरचना श्रूयता राजन्— यदि तवेत्यादि। हे विद्वन्, यदि चेत् तव हृदय मन सनय न्याययुक्त वर्तते, तर्हि स्वप्नेऽपि, आस्ता तावज्जा ग्रदवस्थायाम्, स्वप्नेऽपि निद्रायामपि राजान मा स्म त्व सेविष्ठा मा सेवस्व। कथभूत राजानम्। सचिवजित मन्त्रिजनवशवर्तिनम्, युवतिजित स्त्रीवशवर्तिनम्, खड्गिजित शस्त्रिजित (विटजितम् ), खलजित पिशुनजितम्। समुच्चयालकार॥

उपल इत्यादि। उपल पाषाण सलिलेषु जलेषु तरेत् उन्मज्जेत्, जलधि समुद्रगाधेत प्रतिष्ठा लभेत तरितु शक्यते, मन्दरो मेर प्रचरेत् चपलो भवेत् इति चेत् वस्तुत्रय कदाचित् सभवति घटते, सचिवो मन्त्री पुन भूयोऽपि अखलभाव अदुर्जनस्वभावो न सभवति। दीपकालकार॥

विषमकर इत्यादि। विषमकर अग्नि शिशिर शीतल स्याद्भवेत्, अनिलो वायुरचपल स्थिर स्यात्, खराशु श्रीसूर्य अमृताशु स्यात्, सर्पश्चक्षु श्रवा अविषदर्प स्यात् विषदर्परहितो भवेत्, न तु नियोगस्थो मन्त्री मैत्रीस्थो मित्रत्वसहितस्यात्। समुच्चयालकार॥

बुद्धाण्ड इवाभाण्डे पाण्डित्यक्रीडितस्य नरनाथे।
किं विदधातु सुधीरिहबहिरीहाबहलदेहेऽपि॥ १५५॥

सुजनजीवितस्य—

विश्वस्त महिमास्त सुजन विजन कुलीनमसुहीनम्।
गुणिन च दुः खकणिन कुर्यादिति सचिवसिद्धान्त॥ १५६॥

कुमुदाकर इव दिनकृति विरमति नृपतिर्नरे सरागे हि।
स लघु विरक्ते रज्यति रजनिरसश्चूर्णरजसीव॥ १५७॥

मुग्धाङ्गनाकेलिकुतूहलस्य—

ज्वरार्त इव खिद्येत मन्त्री सत्सु धनव्यये।
कृतार्थ इव मोदेत विटवाग्जीवनादिषु॥ १५८॥

——————

बुद्धाण्ड इत्यादि। इह अस्मिन् संसारे सुधीर्विद्वान् नरनाथे राजनि कि विद धातु कि करोतु। कथभूते नरनाथे। पाण्डित्यक्रीडितस्य अभाण्डे विद्वज्जनविद्याविनोदस्य अनमत्रे अभाजने। पुन कथभूते नरनाथे। बहिरीहाबहलदेहे बाह्यक्रियाप्रचुरशरीरेऽपि। कस्मिन्निव अभाण्डे बुद्धाण्डे इव। यथा बुद्धाण्ड निष्कासितवृषण पुमान् पाण्डित्येनोपलक्षित क्रि( क्री) डित कामशास्त्रे प्रोक्त स्त्रीणामनुभवन तस्य पाण्डित्यक्रीडितस्य अभाण्ड अपात्र भवति। बहिरीहाबहलदेहस्य भवति हस्तपादमुखादिचेष्टादिसहितोऽपिसन् स्त्रीभोग न जानाति स्त्रिय भोक्तु समर्थो न भवति। आक्षेपालंकार॥

सुजनजीवितस्य कवेर्वृत्तरचना श्रूयताम् — विश्वस्तमित्यादि। इति ईदृशसचिवसिद्धान्त सचिव सिद्धान्तवाद विश्वस्तविश्वास प्राप्त पुरुष महिमास्त महत्वरहित कुर्यात् विदध्यात्। सुजन सत्पुरुष विजन परिवाररहित कुर्यात्। कुलीन सत्कुलसंभव पुरुष असुहीन जीवितरहित कुर्यात्। गुणिन विद्वास दुः खकणिन दुःखै सक्रन्दनसहित कुर्यात्। दीपकालंकार॥

कुमुदाकर इत्यादि। नृपति नरेन्द्र सरागे सानुरागे हितकारकपुरुषे विरमति विरक्तो भवति अनानन्दो भवति। कथम्। हि निश्चयेन। कस्मिन् क इव। दिनकृति श्रीभास्करे कुमुदाकर इव। यथा कुमुदाकर श्वेतोत्पलकमलवन सूर्ये विरमति स राजा विरक्ते पुरुषे लघु शीघ्र रज्यति राग प्राप्नोति। कस्मिन् क इव। चूर्णर जसि अग्निपक्वपाषाणधूल्या रजनिरस इव हरिद्रा इव। दृष्टान्तालंकार॥

मुग्धाङ्गनाकेलिकुतूहलस्य कवेर्वृत्तरचना श्रूयताम्

ज्वरार्त इत्यादि। मन्त्री सचिव सत्सु विद्वज्जनेषु धनव्यये वित्तवितरणे सति खिद्येत दुखी भवति। क इव। ज्वरार्त इव ज्वरपीडित इव। मन्त्री विटवाग्जीवनादिषु विटा परस्त्रीलम्पटा वाग्जीवना

भस्मनि हुतमिव महते यद्दत्त देव तदफलसकलम्‌।
उपयोगिने तु देय नटाय विरपेटकायापि॥ १५९॥

पिण्डीशूरा केवलममी हि सर्वस्वभक्षणे दक्षा।
नहि यामार्थंसन्त स्वामिन्भटपेटिकार्थं वा॥ १६०॥

विलासिनीकोचनकज्जलस्य—

येषा धर्मार्थकामेषु दुष्टलुण्टाकचेटका।
तेषामनन्तराया स्यु श्रेय श्रीयोषित कुत॥ १६१॥

यदल्प दर्श्यतेऽमात्यैफलमाकाशज क्वचित्‌।
तत्सर्वस्वापहाराय सुग्धेषु पुरधूर्तवत्‌॥१६२॥

———————

मद्यपायिनो भट्टाते आदिर्येषा ब्रह्मघातकगुरुनिन्दकादीना ते विटवाग्जीवनादय स्तेषु धनव्यये सति मोदेत हर्षं प्राप्नुयात्‌ प्रमोद गच्छेत्‌। क इव। कृतार्थइव। यथा कृतार्थपुमान्‌ अद्य मम जीवित सकलजातमितिमोदते। उपमालंकार॥

भस्मनीत्यादि। हे देव हे राजन्‌, महते साधवे सद्गुरवे यत्‌ घन दत्त तत्‌ स कलसमस्त असफल फलरहित भवति। किमिव असफल भवति। भस्मनि दुतमिव अग्निरहितरक्षाया बपटुकृतमिव। उपयोगिने नियोगिने निजमन्त्रिणे तु पुन देय दातव्य तत्‌ सफल च भवतीत्यर्थ। कथभूताय उपयोगिने। नटाय नर्तकायापि। पुन कथभूताय। विटपेटकाय बिटाना पेटको घाटीयस्यउपयोगिन स तथोक्तस्तस्मै। उपमालंकार॥

पिण्डीशूरा इत्यादि। हे स्वामिन्‌, अमी प्रत्यक्षीभूता सन्तसाधव केवल पिण्डीशूरा भोजनभटा। पुन कथभूता सन्त। सर्वस्वभक्षणे दक्षा सर्वधनस्वादने चतुरा। कथम्‌। हि निश्चयेन नहि यामार्थसन्तो वर्तन्ते प्रहरक न ददति रात्रौ न जायति। वा अथवा भयपेटिकार्थसुभटग्रासनिमित्त न वर्तन्ते। जात्यलंकार॥

विलासिनीलोचनकज्जलस्यकवेर्वृत्तरचना श्रूयताम्‌—येषामित्यादि। हे राजन्‌ , येषा राज्ञा धर्मार्थकामेषु धर्मनिमित्त अर्थनिमित्त कामनिमित्त दुष्टलुण्टाकचेटका दुष्टेषु मन्त्रिषुसत्सुधर्मो न भवति, लुण्टाकेषु चौरेषु मन्त्रिषु अर्थो न मवति, चेटकेषुपरस्त्रीलम्पटेषु कामो न भवति, ईदृग्विधा मन्त्रिणोयेषा राज्ञा वर्तन्ते तेषा राज्ञा श्रेय श्रीयोषित धर्मार्थकामा अनन्तराया निर्विघ्नाकुत स्यु कस्माद्भवेयु। यथासख्यालंकार॥

यदल्पमित्यादि। अमात्यैर्मन्त्रिभिर्यत्‌ क्वचित्‌ अल्प फल स्तोक द्रव्य दश्यतेराज्ञेकथ्यते ‘देव, यत्रविंशतिसहस्राणि उत्पद्यन्ते तत्र त्रिंशत्सहस्राणि उत्पादयामि’’

सभावयत्यमात्योऽय यत्स्वमेव महीभुजि।
तदन्यस्माद्विवेकोऽस्य मा भून्मयि धनाशिनि॥ १६३॥

अन्यथा—

किं कुर्वन्ति खला पुसा विशुद्धेऽध्वनि धावताम्।
इति मत्वा प्रमोदन्ते महान्तो बह्वधिष्ठिता॥ १६४॥

सारस्तनी कैतवकौतुकस्य—

और्वोऽखर्व सुधाम्भोधौ भूपाले प्रबला खला।
सदर्पाश्चन्दने सर्पा न रत्नमनुपद्रवम्॥ १६५॥

ग्रहो ग्रहाणामसुरोऽसुराणा यमो यमस्यापि नृपस्य मन्त्री।
एव न चेदेष कथ नु जीवेदकारण कोविदकामकाल॥ १६६॥

———————

ईदृश यत्फल दर्शने आकाशज आकाशफलसमान आकाशपुष्पसदृश तत् किमर्थं दर्शयति। सर्वस्वापहाराय सर्वभक्षणार्थ किचित् मुग्धेषु भद्रकेषु राजसु पुरधूर्तवत् शृगालवत्। यथा करटकदमनकादय शृगाला सिंहस्य स्तोक मांस प्रदर्श्यस्वयमेव सर्वं भक्षयन्ति। उपमालंकार॥

सभावयतीत्यादि। यत् अय अमात्यो महीभुजि राजनि स्वमेव श्रीमुखेन सभावयति आत्मसंभावना करोति, तत् किमर्थम्। मयि मन्त्रिणि धनाशिनि धनभक्षके सति अस्य राज्ञ अन्यस्मात् अपरस्मात् पुरुषात् विवेको वैदग्धी मा भूत् यथा न भवति एतदर्थम्। जात्यलंकार॥

अन्यथा—

किमित्यादि। अन्यथा यद्येते धनभक्षका मन्त्रिणो न भवन्ति तदा इति मत्वा इदृश ज्ञात्वा महान्त चतुर्वर्णचतुराश्रमगुरवो राजानो धनवन्तो वा पुरुषा बह्वधिष्ठिता बहुमन्त्रिसंयुक्ता प्रमोदन्ते आह्लादन्ते। इतीति किम्। खला दुजना पुंसा किं कुर्वन्ति न किमपि कुर्वन्ति। किं कुर्वता पुंसाम्। विशुद्धेऽध्वनि धावता निर्दोषमार्गे शीघ्रं गच्छताम्। आक्षेपालंकार॥

सारस्तनीकेतव कौतुकस्य कवेवृत्तरचना श्रूयताम्—

और्व इत्यादि। सुधाम्भोधौक्षीरसागरे और्वो वडवानल अखर्वो महान् वर्तते। भूपाले खला दुष्टमन्त्रिण प्रबला वर्तन्ते। चन्दने श्रीखण्डवृक्षे सदर्पा अत्युत्कटा सर्पा वर्तन्ते। युक्तोऽयमर्थरत्न उत्तम वस्तु अनुपद्रव अनुत्पात न वर्तते नास्ति। अर्थान्तरन्यासालंकार॥

ग्रह इत्यादि। नृपस्य राज्ञो मन्त्री सचिव। कथभूतो वर्तते।ग्रहाणा शनिमङ्गलराहुकेत्वादीनां दुष्टग्रहाणां ग्रहो दुष्टग्रहो वर्तते। असुराणांपूर्वदेवानां असुर पूर्वदेव। यमस्य कालस्य यम कालो वर्तते। चेदेव न वर्तते तर्हि एष मन्त्री। नु इति वितर्के। कथ

अपि च।

द्विजिह्वोजन्तूनां मृगपतिरिभानामिव कुले
तडिद्दण्डोऽद्रीणामयमसमरोचि क्षितिरुहाम्।
हिमातानोऽब्जाना तपतपनकालश्च सरसा-
मभूत्क्रूर कोऽपि प्रकृतिखलभावेन महताम्॥ १६७॥

तदुक्त कैश्चिद्विपश्चिद्भिरेतदेव हृदयस्थमपि जिह्वास्थ कर्तुमतरद्भि समासोक्तिमिषेण—

प्रतीक्षे जातास्थ सुकृतसुलभ तद्दिनमह
यतो यातारोऽमी प्रलयमहयश्चन्दनतरो।
अमीषा पापानामिह हि वसतामेष महिमा
कदाप्येतच्छायामभिलषति यन्नाध्वगजन॥ १६८॥

———————

केन प्रकारेण जीवेत् प्राणिति। एन पापिष्ठ ग्रहा असुरा यमश्च न मारयन्तीत्यर्थ। कथं भूतोऽय मन्त्री। अकारण निष्कारण कोविदकामकाल कोविदानां विद्वज्जनानां कामस्य वाञ्छितस्य कालो विध्वसक। रूपकानुमानालंकार॥

अपि च। द्विजिह्वइत्यादि। हे राजन्, अपि च महता कुलेऽयं तव मन्त्री कोऽप्यपूर्व क्रूरोऽभूत्। केन कृत्वा। प्रकृतिखलभावेन स्वभावेन। केषां क इव। जन्तूनां कुले द्विजिह्वइव सर्प इव। इभानां कुले मृगपतिरिव। अद्रीणा कुले तडिद्दण्ड इव। क्षितिरुहा कुले असमरोचिरिव अग्निरिव। अब्जानां कुले हिमातान इव प्रालेयपटल इव। सरसा तडागानां कुले तपतपनकाल इव ग्रीष्मकाल इव। समुच्चयदीपकोपमालंकार॥

तदुक्तमित्यादि। तदुक्तं तद्वचन एतदेव इदमेव वचनं कैश्चिद्विपश्चिद्भि पण्डितै हृदयस्थमपि मनसि स्थितमपि जिह्वास्थ कर्तुं जिह्वाग्रमानेतु अतरद्भिरसमर्थैअशक्नुवद्भि सद्भि समासोक्तिमिषेण समासोक्त्यलंकारच्छलेन एव प्रतिपादितम्। कासौ समासोक्तिरिति चेत् उच्यते—

‘उच्यते वक्तुमिष्टस्य प्रतीतिजननक्षमम्। सधर्मंयत्रवस्त्वन्यत्समासोक्तिरिय यत॥’ इति॥

प्रतीक्षे इत्यादि। अह तद्दिन प्रतीक्षे प्रतिपालयामि। कथभूतोऽहम्। जातास्थ उत्पनापेक्ष। कथभूत तद्दिनम्। सुकृतसुलभ सुकृतेन सुलभ सुप्राप्त तत्। किं दिनम्। यतो यस्मिन् दिने अमी प्रत्यक्षीभूता चन्दनतरोश्चन्दनवृक्षस्य अहय प्रलय यातारो यास्यन्ति। अमीषामहीना पापाना पापमूर्तीना इह चन्दनतरौ वसता तिष्टता एष महिमा वर्तते। कथम्। हि निश्चयेन। कोसौ महिमा। यत् यस्मात् कारणात् एतच्छाया

प्रौढप्रियापाङ्गनवोत्पलस्य—

तत्र कथ ननु सन्तो यत्रास्ते तच्चतुष्टय युगपत्।
कलिकाल खलकालो नृपकाल सचिवकालश्च॥ १६९॥

यत।

गुणरागधृति क्षितिभृति सचिवजने सुजनजातिभजने च।
लक्ष्मीरिव प्रसीदति सरस्वती पटुषु पात्रेषु॥ १७०॥

शूर समरविदूर क्षुद्रो रुद्र परासरोसार।
भामसमोऽपि च माम स्वार्थपरस्तदहमेव तव देव॥ १७१॥

——————

चन्दनवृक्षच्छायामनातप कदापि अध्वगजन पथिकसमूहो नाभिलषति न वाञ्छति। समासोक्त्यलंकार॥

प्रौढप्रियापाङ्गनवोत्पलस्य कवेर्वृत्तरचना श्रूयताम् — तत्रेत्यादि। तत्र तस्मिन् स्थाने ननु अहो सत सत्पुरुषा विद्वासश्च कथ केन प्रकारेण। तिष्ठ तीति क्रिया ध्याहार। तत्र कुत्र। यत्र यस्मिन् स्थाने तज्जगत्प्रसिद्ध चतुष्टय चत्वार पदार्था युगपत् समकाल आस्ते तिष्ठति। किं तच्चतुष्टयम्। एक्स्तावत् कलिकाल दुःसमाकाल, द्वितीय खलकाल पिशुनसूचककाल, तृतीयो नृपकाल अविचारको राजा, चतुर्थ सचिवकाल मन्त्रिकृतान्त। समुच्चयालंकार॥

यत इत्यादि। यस्मात् कारणात् षटुषु पात्रेषु वृत्तेषु दक्षेषु विद्वत्सु सरस्वती भारती प्रसीदति प्रसन्ना भवति वर्धत इत्यर्थ। केव। लक्ष्मीरिव। यथा लक्ष्मी प्रसीदति तथा सरस्वत्यपि प्रसीदतीत्यर्थ। कस्मिन् सति। क्षितिभृति राजागुणराग वृति सति। गुणेष्वनुरागवतीत्यर्थ। सचिवजने मन्त्रिलोके सुजनजातिभजने च सुजनाना रात्पुरषाणा जाति सुजनजाति, सुजनकुल भजते सेवते मानयति सुजनजातिभजनस्तस्मिन्। ‘कृत्ययुटोऽन्यत्रापि’ इति वचनात् कतरि युट्। उपमैव। यथासख्यालंकार॥

शूर इत्यादि। हे देव, इत्यमुना प्रकारेण आत्मसभावना जिह्मब्राह्मीकम् आत्मनसभावना उद्भावना गुणस्तुतिरूपा अजिह्मा प्रगुणा ब्राह्मीका वाणी यस्य स आत्मसभावनाजिह्मब्राह्मीकस्त सचिव मन्त्रिण उपहरे एकान्ते हयता आकारयता त्वया प्रकृतयप्रजा ज्ञातयश्च स्वकीयमपि कुटुम्ब कथकार केन प्रकारेण न नैव साधु रुचिरतया प्रसादिता प्रसमीकृता। हिंसिता इति भाव। ‘अन्ययैव कथमित्यसुसिद्धा प्रयोगश्चेत्’ इत्यनेन कृञ्खमुज् प्रत्यय। ‘षड्लृविशरणगत्यवसादनेषु’ इति धातोरर्थत्रयेषु विशरण मुख्यतया सूचित कापटिकेन। इतीति किम्। शूर समरविदूर देवशूर किमिति सगृह्यते। यत यस्मात् कारणात् शूर समरविदूर समरकाले दूर। समरकाले दूरवर्ती

इत्यात्मसभावनाजिह्मब्राह्मीकमुपह्वरे ह्वयता प्रकृतयो ज्ञातयश्च कथकार न साधु प्रसादिता।

प्रजाप्रतिपालन च तस्य किमिव वर्ण्यते। यस्य

वापसमयेषु विष्टि सिद्धाय क्षीरिकणिशकालेषु।
लवनावसरेषु पुन स्वच्छन्द सैनिकाबाध॥ १७२॥’

राजा कर्णौ पिधाय शान्त ब्रूते

‘आ पापाचार कापटिक, महाभागे समागतगुरुगुणानुरागे च तस्मिन्मैव पाप भाषीष्ठा।’ कापटिक प्राह**—**

‘देव, लोचनागोचरायाते कार्यजाते चारसचारो विचारश्च नरेश्वराणा

——————

वर्तते, अथ वा समराय भवता सह युद्धाय विदूरो निकटवर्ती। तथा रुद्र तीक्ष्ण पुमान् क्षुद्र असहिष्णुरेव तव लक्ष्मीं न सहते। परासर परिकाङ्क्षीयति। असारोऽसारभूत। मामो मातुल श्वशुर भामसमोऽपि च ज्येष्ठभगिनीपति। तर्हि यद्येते अपात्र तर्हि पात्र के। हे देव, तत्तस्मात् कारणात् तव स्वार्थपर कार्यसाधक अहमेव अह सचिव एव स्वार्थ। समुच्चय॥

तस्य पामरोदरनाम्नो मन्त्रिण प्रजाप्रतिपालन किमिव वण्यते**—**

यस्य वापसमयेत्यादि। यस्य मन्त्रिण वापसमयेषु बीजवापनावसरेषु विष्टिर्भवति यथा कमदान भवति। यस्य मन्त्रिण क्षीरिकणिशकालेषु क्षीर विद्यते येषा ते क्षीरिणो दुग्धमागता ये कणिशा कणमञ्जर्यस्तेषा कालेषु अवसरेषु सिद्धायो भागदेयो गृह्यते। यस्य मन्त्रिण लवनावसरेषु सस्यच्छेदन प्रस्तावेषु पुन द्वितीयवार स्वच्छन्दो निरवग्रह निरर्गल। क। सैनिकाबाध सेनारक्षाणा सचारेण आबाध उपद्रवो भवति॥

राजेत्यादि। राजा यशोधर कर्णौ पिधाय कर्णौ कराभ्या पिधाय मुद्रयित्वा शान्त यथा भवत्येव ब्रूते। आ इति कोधे पीडाया च। रे पापाचार पापकर्मन् रे कापटिक, तस्मिन् मन्त्रिणि पामरोदरे महाभागे पुण्यवति समागतगुरगुणानुरागे च समागत सम्यगायातो गुरुगुणेषु महागुणवत्सु पुरुषेषु अनुराग अकृत्रिम स्नेहो यस्य स तथा तस्मिन् मा एव त्व पाप भाषीष्ठा मा त्वमेव ब्रूहि। मे सम पाप लगिष्यत इति भाव। उक्त च कविकालिदासेन महाकविना—

‘निवार्यतामालि किमप्यय बटु पुनविवक्षु स्फुरितोत्तराधर। न केवल यो महतोऽपभाषते110 शृणोति तस्मादपिय स पापभाक्॥’ कापटिक शङ्खनक प्राह ब्रूते—

हे देव हे राजन्, लोचनागोचरायाते लोचनयोरगोचर अगम्यता आयाते आगते एवविधे कार्यजाते कार्यसमूहे चारसचार चारप्रवेश वि

प्रायेणेक्षणद्वयम्। तच्च देवस्य दिव्यचक्षुष इव नास्ति। केवल मिथ्याभिनिवेशानुरोधान्मनोमोहनौषधानुबन्धाद्वा विपर्यासवसतिर्मति। तथा चोक्त शास्त्रान्तरे—

चारो यस्य विचारश्च राज्ञो नास्तीक्षणद्वयम्।
तस्यान्धदुग्धवद्राज्य मन्त्रिमार्जारगोचरम्॥ १७३॥

देव, मासरसरतस्य पुस किमिव मासव्रतम्। कपाले भुञ्जानस्य हि नरस्य क इव केशदर्शनादाशप्रत्यादेश। पुरे प्रमोषदक्षस्य हि पुरुषस्य केव कान्तारेऽपेक्षा। निरम्बरनितम्बायामात्माम्बाया दाहोद्योगस्य हि जनस्य क इव पराम्बायामम्बरपरित्याग। यत।

स्थितासु ग्रसमानस्य गतासौ कीदृशी दया।
परबाले कृपा कैव स्वबालेन बलिक्रिये॥ १७४॥

—————

चारश्च पर्यालोचन नरेश्वराणा प्रायेण इक्षणद्वय लोचनद्वय वर्तते। तच्च चारविचारेक्षणद्वय देवस्य भवतो नास्ति न विद्यते। कस्य। दिव्यचक्षुष अन्धस्येव। यथादिव्यचक्षुषपुरुषस्य लोचनद्वय न भवति तथा देवस्य इक्षणद्वय नास्ति। केवल निष्केवल मिथ्या भिनिवेशानुरोधात् असत्याभिप्रायप्रभावात् मनोमोहनौपधानुबन्धाद्वा मनसो मोहने अज्ञानोत्पादने यदौषध मूलादिक तस्यानुबन्धात् आस्रवात् मतिर्बुद्धिविपर्यासवसति विपरीतास्पद भवति। तथा उक्त च शास्त्रान्तरे—

‘चारो यस्य विचारश्च राज्ञो नास्ती क्षणद्वयम्। तस्या धदुग्धवद्राज्य मन्त्रिमार्जारगोचरम्॥’ यस्य राजश्चारो हेरिको विचारश्चपर्यालोचन एवगुणविशिष्टमीक्षणद्वय नास्ति न वर्तते, तस्य राज्ञो राज्यमन्धदुग्धवत् अन्धस्य क्षीर यथा मन्त्रिमार्जारगोचर भवति मन्त्री एव मार्जारो विडाल प्रजामूषिक्भक्षकत्वात् तस्य गोचर गम्य भवति। रूपकालंकार। उपमा च॥

देवेत्यादि। देव, मासरसरतस्य मासवेसवारनिर्यासेरतस्य पुस पुरुषस्य किमिव किं मासव्रतम्। अपि तु न किमपि मासव्रतम्। देव, कपाले भुञ्जानस्य हि नरस्य मनुष्यशिर करोटिकाया भोजन कुर्वाणस्य नरस्य केशदर्शनात् केशावलोकनात् क इव आशप्रत्यादेश को भोजनान्तराय। देव, पुरे प्रमोपदक्षस्य चौरिकासमथस्य हि निश्चयेन एवगुणविशिष्टस्य पुरुषस्य केव का तारे अपेक्षा कान्तारे वने का अपेक्षा का इच्छा। अपि तु न कापि। देव, निरम्बरनितम्बाया नग्नाया आत्माम्बाया निजमातरि दाहो द्योगस्य कामज्वरिताङ्गस्य जनस्य हि निश्चयेन पराम्बाया लोकमातरि अम्बरपरित्याग क इव को वर्तते। यो निजमातर न मुञ्चति स परमातर कथ त्यजतीत्यर्थ॥

यत इत्यादि। यतो यस्मात्कारणात्। स्थितासुमिति। हे देव, स्थितासु ग्रस-

देव, स्वभावजा हि दुस्त्यजा खलु प्रकृति। न खलु पोषितोऽप्यहिपोतो जहाति हिसाध्यवसायम्, न खलु व्रतशीलोऽपि बिडालस्त्यजति क्रौर्यम्, न खलु प्रायोपवेशनवासिन्यपि कुट्टनी मुञ्चति परवञ्चनोचिता चिन्ताम्, न खलु कालकवलनिकटोऽपि किराटो रहति शाठ्यस्थितिम्। यत।

य स्वभावो भवेद्यस्य स तेन खलु दुस्त्यज।
न हि शिक्षाशतेनापि कपिर्मुञ्चति चापलम्॥ १७५॥

देव, वशविद्यावृत्तविधुरोपकारा हि सेवकेषु स्वामिनमनुरञ्जयन्त्याश्चर्यशौर्यविजृम्भा प्रारम्भा वा। तत्र वशस्तावत्पिण्डीभाण्डशालिना पितृप्रियपिण्डीनामस्य। यत।

——————

मानस्य जीवन्त भक्षत पुरुषस्य गतासौ गतजीवे जीवे दया कारुण्य कीदृशी वर्तते। न कीदृश्यपि वर्तते। परबाले लोकपुत्रे कृपा कैव का वर्तते। अपि तु न कापि। कथभूते पुरुषे। स्वबालेन निजशिशुना बलिक्रिये बलिकारके पुरुषे। आक्षेपालंकार॥

देवेत्यादि। हे देव, स्वभावजा स्वभावोत्पन्ना प्रकृति खलु दुस्त्यजा दुष्परिहारा। कथम्। हि निश्चये। खलु वाक्यालंकारे। न खलु पोषितोऽपि पुष्टिं नीतोऽपि अहिपोत सर्पबालक हिंसाध्यवसाय हिंसोद्यम जहाति परिहरति। न खलु व्रतशीलोऽपि बिडाल। खलु वाक्यालंकारे। व्रतशीलोऽपि दीक्षा प्राप्तोऽपि बिडालो मार्जार क्रौर्य न त्यजति। न खलु प्रायोपवेशनवासिन्यपि सन्यास प्राप्तापि कुट्टनी दूती परवञ्चनोचिता चिन्ता न मुञ्चति लोकवञ्चनयोग्या चिन्ता न त्यजति न खलु कालकवलनिकटोऽपि किराट कीनाशग्राससमीपोऽपि किराटो धणिकृच्छाठ्यस्थितिं रहति कैतवाचार न मुञ्चति॥

यत इत्यादि। यत यस्मात् कारणात्। य इति। यस्य पुरुषस्य य स्वभावो भवेत् स स्वभावस्तेन पुरुषेण खलु निश्चयेन दुस्त्यज दुःखेन महता कष्टेन त्यक्तुमशक्य। कपिर्वानर शिक्षाशतेनापि शिक्षासहस्रेणापि चापल चपलत्व न मुञ्चति न त्यजति। कथम्। हि स्फुटमिति शेष। दृष्टान्त॥

देवेत्यादि। हे देव हे राजन् वशविद्यावृत्तविधुरोपकारा वशश्च कुलम्, विद्या च शास्त्रम्, वृत्त च ब्रह्मचर्यादिकम्, विधुरोपकाराश्च व्यसनोपनिपातादुद्धरणम्, ते वशविद्यावृत्तविधुरोपकारा। चत्वार पदार्थाउपधाशब्देन गृह्यन्ते। ते चतुरुपधापरीक्षितेषु सेवकेषु स्वामिन अनुरञ्जयन्ति स्नेहमुत्पादयन्ति आश्चर्यशौर्यविजृम्भा प्रारम्भा वा आश्चर्यभूत चेतश्चमत्कारोत्पादक यच्छौर्य सुभटत्व तस्य विजृम्भ प्रसरो येषु प्रारम्भेषु ते आश्चर्यशौर्यविजृम्भा एवगुणविशिष्टा प्रारम्भा संग्रामा स्वामिनमनुरञ्जयन्ति। चतुरुपधाभिरपरीक्षिता अपि यदि संग्रामशूरा भवन्ति ते नैव स्वामिनमनुरञ्जयन्ति। तत्र

ध्वजकुलजातस्तात पामरपुत्री च यस्य जनयित्री।
पञ्चपुरुषा च योषा कुलस्थिति स हि कथ तु कुलजन्मा॥ १७६॥

देव, तथाविधान्वयपात्रे चात्र येयमह महीक्षिदित्यहकृति, उभयकुलविशुद्धिपात्रैर्निहीनचारित्रै क्षतपुत्रै फेलाभ्यवहारेण स्थिति, देवेन च स्वयमभ्युत्थानविहिति, बान्धवजनप्रणति सामन्तोपनतिर्महापुरुषापचितिश्च, सा ह्यन्त कृतातङ्का शल्यशलाकेव कमहकारोत्सेक सविवेक च लोक खर न खेदयति। ततश्च।

असल्लोकानुरोधेन सल्लोकोपेक्षणेन च।
व्यालशैलान्तरालाङ्गी कुरङ्गीवाक्षमा रमा॥ १७७॥

——————

तेषु चतुर्षु मध्ये वशस्तावव्द्यावर्ण्यते— अस्य मन्त्रिण पितृप्रियपिण्डीनामस्य पिण्डीखलस्य भाण्ड सप्रहस्तेन शालन्ते शोभन्ते इत्येवशीला पिण्डीभाण्डशालिनस्तेषाम्। अथ वा पिण्डीभाण्डा शाला विद्यन्ते येषा ते तथा तेषाम्॥

यत। ध्वजकुलेत्यादि। ध्वजकुलजातस्तात तिलतुदकुलोत्पन्नो वला (पिता), यस्य पामरोदरानाम्नो मन्त्रिण जनयित्री माता पामरपुत्री नीचसुता वर्तते। उक्त च—

‘विवर्ण पामरो नीच प्राकृतश्च पृथग्जन। निहीनोऽपसदो जाल्म क्षुल्लकाश्चतुरश्चरु॥ वर्वरोऽप्यन्यथा जातोऽपि’ इति क्षीरस्वामिवचनम्॥ यस्य योषा स्त्री पश्चपुरुषा पञ्चभतृका। यस्य मन्त्रिण ईदृशी कुलस्थिति कुलाचार स मन्त्री तु पुन कुलजन्मादि निश्चयेन कथ केन प्रकारेण वर्तते। समुच्चयालंकार॥

** देवेत्यादि**। देव, तथाविधान्वयपात्रे तादृशकुलवति च पुन अत्र मन्त्रिणि या प्रसिद्धा इय प्रत्यक्षीभूता अह महीक्षित् अह राजा इति ईदृशी अहकृतिरहकारो वर्तते। उभयकुलविशुद्धिपात्रे जातिकुलनिर्मलताभाजनै निहीनचारित्रैनिकृष्टाचारै क्षत्रपुत्रै राजपुत्रै फेलाया अभ्यवहारेण स्थितिर्वर्तते ऊर्जितभोजमास्वादनाचारो यद्वर्तते। यस्य मन्त्रिण उच्छिष्टभोजन उत्तम कुर्वन्ति न केवल उच्छिष्टभोजनविधान देवेन च त्वया स्वयमात्मना अभ्युत्थान विहिति आसनादुत्थीभवनविधान वर्तते। बान्धवजनप्रणति कुटुम्बवर्गस्यास्य प्रणामकरण सामन्तोपनतिर्देशपतिभि समुखागमन व महापुरुषापचितिश्च महापुरुषाणा महानुभावाना अपचितिश्चपूजा यद्वर्तते। सा पूजा ता आदृतिर्निश्चयेन अन्त कृतातङ्का मनस्युत्पादितसंतापा शल्यशलाकेव हृदयक्षुब्धासिखण्डमिव क सविवेक लोक खरं अतिशयेन न खेदयति दुःखयत्येव। कथभूत लोकम्। अहकारोत्सेकं वयं महान्त इति गर्वम्॥

तंतश्च तस्मात् कारणाच्च। असल्लोकेत्यादि। असल्लोकानुरोधेन नीचलोकानुवर्त-

देव, श्रूयन्ते ह्यसता सता च प्रग्रहावग्रहाभ्या च नृपेषु व्यापद। तथा हि — कलिङ्गेष्वनङ्गो नाम नृपतिर्दिवाकीर्तिसेनाधिपत्येन सामन्तसतान सतापयन् सभूय प्रकुपिताभ्य प्रकृतिभ्य किलैकलोष्ठानुरोध वधमवाप। केरलेषु कराल कितवस्य पौरोहित्येन वङ्गालेषु मङ्गलो वृषलस्य साचिव्येन, क्रथकैशिकेषु कामोऽवरुद्धवधूस्तनधयस्य यौवराज्येन, तथा वङ्गेषु स्फुलिङ्ग कुल क्रमागतस्य चतुरुपधाशुद्धस्यापि सचिवस्यावमानेन, मगधेषु मकरध्वज साधुसमीहितस्यापि पुरोहितस्यावहेलेन, कौङ्गेषु कुरङ्गो देशकोशोचितप्रतापस्यापि सेनापतेरधिक्षेपेण, चेदिषु नदीशो

——————

नेन च सल्लोकोपेक्षणेन च उत्तमलोकानामनादरेण च उदासीनत्वेन च रमा लक्ष्मीरक्षमा असमर्था भवति। केव। कुरङ्गीव मृगीव। कथभूता कुरङ्गी। व्यालशैलान्तरालाङ्गी एकस्मिन् पार्श्वे व्यालो दुष्टगज द्वितीयस्मिन् पार्श्वे शैल पर्वतो वर्तते तयोरन्तराले मध्ये अङ्ग शरीरं यस्या कुरङ्ग्या सा व्यालशैलान्तरालाङ्गी। उपमालंकार॥

देवेत्यादि। हे देव, असता दुर्जनाना सता च साधूना प्रग्रहावग्रहाभ्या स्वीकारास्वीकाराभ्या नृपेषु राजसु व्यापदो विपत्तय श्रूयन्ते आकर्ण्यन्ते। कथम्। हि निश्चयेन। तथा हि तदेव निरूपयति—

कलिङ्गेषु कलिङ्गदेशेषु अनङ्गो नाम नृपती राजा दिवाकीर्तेर्नापितस्य सेनापतित्वेन सामन्तसतान सेवकनृपसमूह सतापयन् दुःख दापयन् सभूय मिलित्वा एकत्रीभूय प्रकुपिताम्य प्रकृतिभ्य प्रजाभ्य। किलेति लोकोक्तौ। एकलोष्ठानुरोध एकैकमृत्पिण्डानुवर्तन वध घात अवाप प्राप्तवान्। उक्त च—

’ अमात्याद्याश्च पौराश्चसद्धि प्रकृतयः स्मृता। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ राज्याङ्गानि प्रकृतय, पौराणा श्रेणयोऽपि च ॥’ केरलेषु दक्षिणाश्रितदेशेषु करालो नाम राजा कितवस्य विजाते पौरोहित्येन पुरोहितत्वेन वध अवाप। बङ्गालेषु मङ्गलो नाम राजा वृषलस्य ब्राह्मण्या शूद्रेणोत्पादितस्य साचिव्येन साचिव्यत्वेन वध अवाप। क्रथकैशिकेषु क्रथकैशिकनामदेशेषु कामो नाम राजा अवरुद्धवधूस्तनधयस्य वाराङ्गनापुत्रस्य यौवराज्येन युवराजत्वेन वध अवापेति संबन्ध। तथा च वङ्गेषु वङ्गदेशेषु स्फुलिङ्गो नाम राजा कुलकमागतस्य चतुरुपधाशुद्धस्यापि सचिवस्य मन्त्रिण अवमानेन वध अवाप। उपधीयते समीपे ढौक्यते परीक्षार्थ उपधा धर्मकामार्थोभूयोपन्यासेन आशयान्वेषण चित्तपरीक्षण उपधोच्यते। यत्कौटिल्य कवि प्राह— निशौचशौचपरिज्ञान मनोज्ञान उपधा। मगधे मागधीये ) षु मगध (धीय ) देशेषु मकरध्वजो नाम राजा साधुसमीहितस्यापि शोभनचेष्टितस्यापि सदाचारस्यापि पुरोहितस्य अवहेलेन अनादरेण वध अवाप। कौङ्गेषु कौङ्गदेशेषु कुरङ्गो नाम नृपति देशकोशोचितप्रतापस्यापि देशकोशेन उचित प्रतापो यस्य स देशकोशोचितप्रतापस्तस्य अधिक्षेपेण तिरस्कारेण वध अवाप। चेदिषु

निरपवादस्यापि महत सुतस्य यौवराज्यप्रच्यवेन। देव, यद्यपि देवस्य तेजोबल प्रबलम्, तथापि—

तेजस्तेजस्विना स्थाने धृत धृतिकर भवेत्।
करा सूर्याश्मवद्भानो किं स्फुरन्ति हताश्मनि॥ १४८॥

देव, सकललोकाधिकैश्वर्यवन्द्याना हि विद्याना साधूपचरित स्फुरितमवस्थानस्थितमपि स्त्रीरत्नमिवातीवात्मन्यादर कारयत्येव जने। एतच्चास्य कृत्रिमरत्नमणेरिव बहिरेव। देव, प्रसादनादनात्मभाविन्योऽपि विभूतय पतिंवरा इव खात्पतितस्यापि जनस्य भवन्ति, न पुनरायु स्थितय इवानुपासितगुरुकुलस्य यत्नवत्योऽपि सरस्वत्य। यत।

——————

चेदिदेशेषु नदीशो नाम नृपतिर्निरपवादस्यापि लोकश्लाघितस्यापि महत सुतस्य महत पुत्रस्य ज्येष्ठपुत्रस्य यौवराज्यप्रच्यवेन युवराज्यत्वाच्चालनेन वध अवाप। देव, यद्यपि यदपि देवस्य तव तेजोबल तेजस प्राणात्ययेऽपि असहनलक्षण बल सामर्थ्यं तेजोबल प्रबल प्रचण्ड वर्तते, तथापि तदपि।

तेज इत्यादि। तेजस्विना पुरुषाणा तेज स्थाने धृत योग्यप्रदेशस्थापित धृतिकरं सतोषोत्पादक भवेत् सजायते। भानो करा सूर्याश्मवत् सूर्यकान्तमणौ लग्ना यथा स्फुरन्ति चमत्कुर्वन्ति तथा हताश्मनि नष्टपाषाणे धृता विस्फुरन्ति चमत्कुर्वन्ति किम्। अपि तु न स्फुरन्तीत्यर्थ। दृष्टा ताक्षेप॥

देवेत्यादि। हे देव, सकललोकाधिकैश्वर्यवन्द्याना सकलाना लोकाना अधिकैश्वर्यतया वद्याना नमस्करणीयाना हि निश्चयेन विद्याना शास्त्राणा साधूपचरित रुचिरतया व्यवहृत स्फुरित चमत्कृतमवस्थानस्थितमपि निजस्थाने स्थितमपि स्त्रीरत्नमिव स्त्रीषु श्रेष्ठस्त्रीव अतीवातिशयेन आत्मनि स्वस्मिन् जने लोके आदरं कारयत्येव। एतच्च स्फुरित अस्य पामरोदरस्य मन्त्रिण कृत्रिमरत्नमणेरिव स्फटिकमणिकृतहारकस्येव बहिरेव वर्तते, नाभ्यन्तरे। हे देव प्रसादनात् प्रसन्नीकरणात् अनात्मभाविन्योऽपि आत्मन अभविष्यन्त्योऽपि विभूतयो लक्ष्म्य पतिंवरा इव कन्या इव खात्पतितस्यापि जनस्य अकस्मादागतस्यापि लोकस्य भवन्ति सजायन्ते। वसुदेवस्य गन्धर्वदत्तावत् प्रसाधिता सत्यो न भूतयो भवन्ति। पुन सरस्वत्यो भवन्ति। कस्य। अनुपासितगुरुकुलस्य असेवितगुवाम्नायस्य। सरस्वत्य कथभूता। यत्नवत्योऽपि अहर्निशमनुशीलिता अभ्यस्ता अपि। का इव। आयु स्थितय इव। विभूतयो भवन्ति भूपप्रसादात् न पुनरायु स्थितयो भवन्ति। यत कारणात्॥

नृपकरुणाया काम द्रविणकणाः सचरन्ति शरणेषु।
न त्वाभिजात्यमेतत्पाण्डित्य वा वृणा भवति॥ १७९॥

देव, तच्छून्येऽपि यत्क्वचित्पुंसि नभसि विद्युत इव विद्याविलसितम्‌ , तद्धनस्य घनस्येव माहात्म्यान्नात्मन। यत।

विद्यारसविहीनापि धीस्थली विभवातपात्‌।
व्यलीकोक्तोत्तरङ्गेय भवेन्मुग्धमृगप्रिया॥१८०॥

यदपि क्वचित्क्वचित्कलासु पयसि पतितस्यतैलबिन्दोरिवान्तर्व्याप्तिशून्यस्याप्यस्योपन्याससाहसम्‌, तदपि लक्ष्मीलवलाभाशापाशस्खलितमतिमृगीप्रचारस्य दुर्भरजठरकुठारविनिर्भिन्नमानसारस्य हताहकारस्यसरस्वतीपण्यपातकावसरस्यजनस्याजर्यान्न पुनर्बोधौदार्यात्‌।

———————

नृपकरुणाया इत्यादि। नृपकरुणाया राजकारुण्यात्‌ काममतिशयेन द्रविणकणा धनलवा धनधान्यानि वा शरणेषु गृहेषु सचरन्ति। एतत्‌ प्रत्यक्षीभूत आभिजात्यकुलीनत्वपाण्डित्य वा वैदुष्य वा नृणा मनुष्याणां न भवति। जात्यलंकार॥

देवेत्यादि। हे देव, तच्छून्येऽपि अभिजातपाण्डित्यरहितेऽपि तवमन्त्रिणि यत्क्वचित्‌ पुंसि भवत्सचिवसदृशे पुरुषे विद्याविलसित विद्याविलासो वर्तते, तत्‌ धनस्यमाहात्म्यात् न आत्मन न स्वस्यप्रभावात्‌। कस्मिन्‌ कस्याक इव। नभसि आकाशे विद्युत इव। यथा नभसि विद्युतस्तडित विलसित भवति। तत्‌ घनस्यमाहात्म्यात्‌ विद्युतो विलसित भवति, तथा अस्मिन्‌ सचिवे धनस्य माहात्म्यात्‌ विद्याविलसित भवति। न तुआकाशे विद्युतो विलसित स्वयमेव भवति॥ यत कारणात्‌॥

** विद्यारसेत्यादि**। विद्यारसविहीनापि विद्यारसेन रहिता अपि इय धीस्थलीविभवातपात्‌ धनधर्मात्व्यलीकोक्तोत्तरङ्गाभवेत्‌ व्यलीकोक्तैरसत्यवचनैरुत्तरङ्गाउत्कल्लोला भवेत्‌। कथभूता धीस्थली। मुग्धमृगप्रिया मुग्धा अविद्वासस्त एवमृगा हरिणास्तेषा प्रिया। यथा रसहीनापि जलरहितापि स्थली असत्यजलकल्लोला सती मृगाणा प्रिया भवति वल्लभा भवति, तथा अस्यधीस्थली मुग्धाना प्रिया भवति वल्लभाभवति। रूपकालंकार॥

यदपीत्यादि। हे देव, यदपि यत्‌ क्वचित्‌ क्वचित्‌ कासु कासु कलासुवक्तृत्वकवित्वादिषु अस्यसचिवस्य उपन्याससाहसं भवति वचनरचनायाश्चातुर्यभवति। कथभूतस्य। अन्तर्व्याप्तिशून्यस्यापि अभ्यन्तरे कलानुभवनरहितस्यापि पयसि जले पतितस्य ‘तैलबिन्दोरिव, तदपि तच्चापि जनस्यवाग्ग्मिलोकस्यअजर्यात्‌ सगमात्‌ न पुनर्वोदार्यात्‌ प्रज्ञोत्कषात्‌। कथभूतस्यजनस्य। लक्ष्मीलवलाभाशापाशस्खलितमतिमृगीप्र-

यतो देव, घटदासीना हि वदनसौरभ स्वामिताम्बूलोद्गालान्न सौभाग्यबलात्, पवनस्य हि परिमलपेशलता प्रसूनवनससर्गान्न निसर्गात्, दारुणो हि दाहदारुणता बृहद्भानुभावान्न स्वभावात् मण्डलस्य हि मण्डनकण्डूलताधिपतिसनिधानवशान्न शौर्यावेशात्, उपलशकलस्य हि नमस्यता देवाकारानुभावान्न प्रकृतिभावात्। अपि च।

अबुधेऽपि बुधोद्गारे प्राज्ञानुज्ञा विजृम्भते।
सस्कर्तु कौशलादेति यत काचोऽपि रत्नताम्॥ १८१॥

——————

चारस्य लक्ष्म्या लवो लेशस्तस्य लाभस्य आशा वाञ्छा सैव पाश कण्ठबन्धनस्वना तत्र स्खलितो बन्धमायातो मतिमृग्या बुद्धिहरिण्या प्रचार प्रवतन यस्य विद्यादायकजनस्य स तथोक्तस्तस्य। पुन कथभूतस्य वाग्मि (ग्गिम) लोकस्य। दुर्भरजठरकुठारविनिर्भिन्नमा नसारस्य दुःखेन महता कष्टेन म्रियते दुर्भर स चासौ जठर कुक्षि स एव कुठार परशुर्वा तेन विनिर्भिन्नो विदारितो मानसारो अभिमानतरुमध्यो यस्य स तथोक्त स्तस्य। पुन कथभूतस्य विद्यादायकजनस्य। हताहकारस्य हृतो विध्वसित अहंकारो मदो यस्य स तथा तस्य। पुन कथभूतस्य विद्यादातुर्जनस्य। सरस्वतीपण्यपातकावसरस्य सरस्वतीविक्रयपापसमयस्य॥

यत इत्यादि। हे देव, यतो यस्मात्कारणात् घटदासीना कुटहारिकाणा हि निश्चयेन वदनसौरभ मुखसौगन्ध्य तत्स्वामिताम्बूलोद्गालात् स्वामिना चर्वितनागवल्लीपर्णो च्छिष्टभक्षणात्, न सौभाग्यबलात्। यतो हे देव, पवनस्य हि निश्चयेन परिमलपेशलता सुगन्धमनोहरत्व तत् प्रसूनवनसंसर्गात्पुष्पवाटीसगमात्, न हि निसर्गात्स्वभावेन। हे देव, दारुण काष्ठस्य दाहदारुणता भस्मीकरणरौद्रता तत् बृहद्भानुभावात् अग्निसयो गात्, न स्वभावात्। यतो हे देव, मण्डलस्य कुर्कुरस्य हि निश्चयेन मण्डनकण्डूलता [अधिपतिसनिधानवशात्, न शौर्यावेशात् ]। हे देव, उपलशकलस्य पाषाणखण्डस्य हि निश्चयेन नमस्यता नमस्कर्तव्यता नमस्करणीयता देवाकारानुभावात् देवताप्रतिच्छाया प्रभावात् न प्रकृतिभावात् न स्वभावास्तिताया॥

** अपि च। अबुधेऽपीत्यादि**। हे राजन्, अबुधे मूर्खेऽपि बुधोद्गारे बुधकथनात् बुधवचनात् प्राज्ञानुज्ञा प्राज्ञाना अनुज्ञा अनुमत विजृम्भते प्रसरति। मूर्खमपि यदि विद्वासो विद्वासं कथयन्ति तदा प्राज्ञा कथयन्त्येतदय विद्वानेवेत्यनुमन्यन्ते। यतौयस्मात् कारणात् संस्कर्तुकौशलात् वेकटिकस्य बिज्ञानात् काचोऽपि रत्नतां एति। दृष्टान्तालंकार॥

यत्पुन सेवकलोकदौरात्म्यप्रचिख्यापयिषु किमप्यणकपदबन्धेन भगवती सरस्वती विधमति, तत्र यो हि स्वयमेव निकायति स कथ नाम दुरात्मास्यादिति परप्रतारणार्थम्‌। किं च।

आसनि विवेकविकलप्रसिद्धिमात्रेण रज्यते सकल।
कैरव इव कमलेऽपि हि न श्री पूज्य तथाप्यञ्जम्‌॥१८२॥

वृत्तपुनरस्यपिण्याकपण्याङ्गनाजनस्ये- वालोकान्तोत्सर्गैरनेकशोऽनेकपाखण्डिलिङ्गिससर्गविसर्गैरेवराजपथीकृतम्‌। यत।

——————

यत्पुन इत्यादि। हे राजन्‌, यत्‌ पुन" सेवकलोकदौरात्म्य किकरजनदुष्टत्वप्रचिख्यापयिषु प्रख्यापयितुमिच्छु कथयितुमना किमपि ईषत्‌ अणकपदबन्धेन श्लोकादिना भगवतीं परमेश्वरी सरस्वतीं वाणीं विधमति सतापयति, तत्र कारणान्तरं वर्तते। तत्‌ किं कारणम्‌। य सचिव हि निश्चयेन स्वय आत्मना एव अमुना प्रकारेण निकायति वदति सकथ केन प्रकारेण। नामेति संभावनायाम्‌। दुरात्मा दुष्ट स्यात्‌। अपि तु न स्यात्‌। इति अमुना प्रकारेण परप्रतारणार्थम्‌। परेषा वञ्चनार्थमित्यर्थ। उक्त च—‘भग श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु।’ भज्यते सेव्यते मथ्यते च भग खलभग फलवेति वक्तव्यादय कामोऽत्रयोनि सूर्यविशेषो भग पुसिमित्रवत्‌ धर्मो मोक्षश्च भग। यथाहु—ऐश्वर्यस्यसमग्रस्यधर्मश्चयशस श्रिय। वैराग्यस्यचे मोक्षस्यवर्णोभग इति स्मृत॥

किं च अस्तिकश्चिद्विशेष। आत्मनीत्यादि। हे राजन, अत्मनि स्वस्मिन्विवेकविकलसकल पुमान्‌ प्रसिद्धिमात्रेण रज्यते राग करोति। कैरवे श्वेतोत्पलेइव। यथा कैरवे श्रीर्न विद्यते तथा कमलेऽपि हि श्रीर्नासि। तथापि अब्जकमलपूज्यन कैरव पूज्यम्‌। दृष्टान्तालंकार॥

अथेदानीं सचिवस्यवश विद्या च वर्णयित्वा वृत्तमाचरण वर्णयति। विघुरोपकार पश्चाद्वक्ष्षति—हे राजन्‌, अस्यसचिवस्यवृत्तमाचरण पुन अनेकश अनेकवारान्‌ अनेकपाखण्डिलिङ्गिसंसर्गविसर्गैअनेकपाखण्डिलिङ्गा चार्वाकादयस्तेषा ससर्गविसर्गैसगतिवद्भिपुरुषै राजपथीकृत प्रकटीकृतम्‌। कथभूतै अनेकपाखण्डिलिङ्गिसंसर्गविसर्गै। आलोकान्तोत्सर्गैआर्यानार्यदेशपर्यटनशीलै। अस्य वृत्त कस्येव। पिण्याकपण्याङ्गनाजनस्येव पिण्याकेन खलखण्डेन पण्याङ्गनाजन वेश्याजनस्तस्य पिण्याकपण्याङ्गनाजनस्य। खलखण्ड गृहीत्वाशत ददाति यपण्याङ्गनाजनस्तस्येव अस्यशील वर्तते। यत कारणात्‌॥

त्रै

दण्डिकाहितुण्डिककापालिक कौशिकव्रतकै।
कीर्तिर्जगति प्रसृता खरपटदीक्षाधिकैरस्य॥ १८३॥

यस्तु स्वास्थ्यावसरेष्वपि समृद्धदेशो हि महीश कीनाश इवावश्य करोति कामपि विकृतिमिति धूमकेतुरिवानपराधमपि जनपद पीडयति, प्रभूतपक्षबलो हि भूपाल शैल इव कस्य भवति वश इत्यनुरक्तमतीरपि प्रकृतीरसमञ्जसयति, कृशकोशको हि धरेश क्षपितपक्ष पक्षीव भवेत्सुखसाध्य इति धन निधनयति, व्यसनव्याकुलितो हि राजसुतो व्याधित इव न जातु विकुरुते पुरुश्चारिष्विति द्विषत प्रोत्कर्षयति, एकारक्षोहि क्षितिपति करिपतिरिव न स्यात्परेषा विषय इति न कमप्यभिजात स-

———————

** त्रैदण्डिकेत्यादि**। हे राजन्, अस्य सचिवस्य कीर्ति जगति प्रसृता व्याप्ता। कै कृत्वा कीर्ति प्रसृता। त्रैदण्डिकाहितुण्डिककापालिककौशिकव्रतकै त्रीणि दण्डानि समाहृतानि त्रिदण्ड त्रिदण्डेन चरन्ति त्रैदण्डिका शैवलिङ्गिनस्त्रिकमतानुसारिण, अहि तुण्डेषु नियुक्ता आहितुण्डिका सर्पधारका गारुडिका वा, कपालेषु नियुक्ता कापालिका, कौशिकेषु नियुक्ता कौशिका इन्द्रजालपतयस्तेषा कुत्सितानि व्रतकानि येषा ते तथोक्तास्ते न केवलमेतै। कीर्ति प्रसृता। खरपटादीक्षाधिकैश्च खरपटाना। भावकाना दीक्षा तथा अधिका खरपटादीक्षाधिकास्तै। अपकृष्टसमुच्चयालंकार॥

हे राजन्, यस्तु सचिव स्वास्थ्यावसरेष्वपि लोकानां सौम्यसमयेष्वपि समृद्धदेशो हि महीश स्वस्थदेशो राजा कीनाश इव यम इव अवश्य निश्चयेन कामपि काचिदपि विकृतिं विकार करोति विदधाति इति ईदृश विचिन्त्य धूमकेतुरिव अग्न्युत्पात इव अनपराधमपि निर्दोषमपि जनपद देश पीडयति संतापयति। हे राजन् प्रभूतपक्षबल प्रचुरपक्षसामर्थ्य हि निश्चयेन भूपालो राजा शैल इव पर्वत इव कस्य पुरुषस्य वशो भवति। अपि तु न कस्यापि। इति विचार्य अनुरक्तमतीरपि अनुरक्तबुद्धीरपि प्रकृतीरमात्यपौरादिका असमञ्जसयति अन्यायवती करोति। हे राजन्, कृशकोश अल्पभाण्डागारो धनहीनो धरेशो राजा क्षपितपक्ष लुञ्चितपत्र पक्षीव शकुन्त इव सुखसाध्यो भवेत् अनायासेन हस्तमायाति इति विचार्य धन नृपस्वापतेय निधनयति विनाशयति। हे राजन् व्यसनव्याकुलित अवस्थया विह्वलीभूतो हि निश्चयेन राजसुतो राजपुत्र व्याधित इव रोगीव पुरश्चारिषु लोकेषु सचिवादिषु जातु कदाचित् न विकुरुते न विक्रिया करोति इति कारणात् द्विषत शत्रन् प्रोत्कर्षयति सबलान् करोति। हे राजन्, एकारक्ष एकाव्याप्त हि निश्चयेन क्षितिपति करिपतिरिव परेषां श्रेष्ठिसामन्तादीना विषयो गम्यो न स्यात् नो भवेदिति विचार्य कमपि कचिदपि अभि-

हते, स किल प्राणप्रतीकारेषु स्वापतेयोपकारेषु वा विधुरेषु भवितोपकर्तेति को नाम श्रद्दधीत। यत।

स्वस्थावस्थायामपि योऽनर्थपरम्परार्थमीहेत।
स कथ विधुरेषु पुन स्वामिहिते चेष्टतेऽमात्य॥ १८४॥

तस्माद्देव, कर्णकटुकमपीदमेवमवधार्यताम्।

अपि त्वामतिवाह्यैष यथातीतान्महीपतीन्।
तूरीवान्याश्रयस्थायी लञ्चा(म्बा) लुञ्चानिशाचर॥ १८५॥

अन्यथा।

तत्तन्नृपतिसगीर्णविनिर्वाहपरा नरा \।
कथ पत्यन्तर यान्ति कान्ता इव कुलोद्गता॥ १८६॥

————————

जात अलीन न सहते न क्षमते। हे राजन्, स मन्त्री। किलेत्यहेतौ। प्राणप्रतीकारेषु प्राणरक्षणेषु स्वापतेयोपकारेषु वा धन दत्त्वा उपकारकरणेषु वा विधुरेषु व्यसनेषु उपकर्ता उपकारको भविता भविष्यति ईदृशमर्थं क पुमान्। नामेति सभावनायाम्। श्रद्दधीत सभावयति। अपि तु न कश्चिदेता वार्ता मन्यते॥

यत। स्वस्थावस्थायामित्यादि। हे राजन्, स्वस्थावस्थायामपि सुखावसरेऽपि यो मन्त्री अनर्थपरम्परार्थ दुःखश्रेणिनिमित्त ईहेत चेष्टेत। स पुनरमात्यो विधुरेषु स्वामिहिते स्वामिहितनिमित्त कथ चेष्टते कथ व्याप्रियते। अपि तु न कथमपि। आक्षेपालंकार॥

तस्मात् कारणात् हे देव, कर्णकटुकमपि कर्णशूलप्रायमपि इद वचन एवममुना प्रकारेण अवधार्यता विज्ञायताम्। त्वयेति संबन्ध॥

अपि त्वामित्यादि। एष मन्त्री वामपि भवन्तमपि अतिवाह्य वञ्चयित्वा यथा अतीतानयशोर्धादीन् नृपान् वञ्चयित्वा तूरीव तूरवादक इव अन्याश्रयस्थायी अन्यनृपमन्दिरे स्थास्यति। कथभूतोऽय मन्त्री। लम्बालुचानिशाचर उत्कोटत्रोटने राक्षस। रूपकानुमानालंकार॥

अन्यथेत्यादि। अन्यथा यद्येव न भवति तर्हि नरा किंकरा पत्यन्तर अपर राजान कथ केन प्रकारेण यान्ति गच्छन्ति। कथभूता नरा। तत्तन्नृपतिसगीर्णविनिर्वाहपरा तैस्तैर्जगत्प्रसिद्धैनृपतिभि राजभि सगीर्ण प्रतिज्ञातो विनिर्वाह सेवा फल तस्मिन् परास्तत्परा। पुन कथभूता नरा। कुलोद्गता कुलोद्भूता कान्ता इव। उपमालंकार॥

देव, नितान्त सवृतचित्तस्यापि दुर्वृत्तस्य प्रमादेन प्रमोदमदाभ्या निद्रोद्रेकेण वातिरहस्योदयमपि हृदये भवत्यवश्य प्रकटाशयम्। अतश्च य खलु दृढदुष्टवासनाभ्यासप्रकर्षादुषायामेवमुत्खनति स कथ नाम दैवदोषेण दुर्विलसितोन्मेषेण वा प्रकल्पितसैन्येषु सहचारी सभाव्येत। तथा हि।

यौ स्वास्थ्याय समीहेते व्याधितस्य नृपस्य च।
स्वार्थसिद्धिनिरोद्धारौ धिग्धिक्तौ वैद्यमन्त्रिणौ॥ १८७॥

व्याधिर्व्यसनवृद्धिश्च गोपे भूपे च नास्ति चेत्।
न धेनु कामधेनुश्च वैद्यस्य सचिवस्य च॥ १८८॥

तथा।

अशुभस्य कालहरण नृपतेर्व्यसन नियोगिना कलहम्।
तन्त्रस्य वृत्तिविनिमयमारभमाण सुखी सचिवा॥ १८९॥

——————

देवेत्यादि। हे देव हे राजन्, नितान्तमतिशयेन सवृतचित्तस्यापि दुर्वृत्तस्य दुराचारस्य पुरुषस्य प्रमादेन असावधानतया प्रमोदमदाभ्या हर्षाहकाराभ्या कृत्वा निद्रोद्रेकेण निद्राधिकतया वा अतिरहस्योदयमपि अतिगुप्तपापमपि हृदये मनसि अवश्य निश्चयेन प्रकटाशय प्रकटाभिप्राय भवति। अतश्च कारणात् यस्तव मन्त्री। खलु वाक्यालंकारे। दृढदुष्टवासनाभ्यासप्रकर्षात् दृढा बलवत्तरा दुष्टा पापिष्ठा यासौ वासना तस्या अभ्यासस्य पुन पुनरनुशीलनस्य प्रकर्षात् अतिशयात् उषाया रात्रौएवममुना प्रकारेण उत्खनति जल्पति स मन्त्री कथ केन प्रकारेण। नामेति सभावनायाम्। दैवदोषेण देवतादोषेण देवताकृतग्रथिलत्वेन दुविलसितोन्मेषेण वा दुराचारप्रादुर्भावेन प्रकल्पितसैन्येषु रचितगजघटादिसैन्येषु ईदृग्विधेषु कष्टेषु सहचारी सहाय सभाव्येत। अपि तु न सभाव्यत इत्यर्थ॥

तथाहि रात्रौ स्वप्नावस्थाया किमेष जल्पतीत्याह—

यावित्यादि। यौ स्वास्थ्याय स्वस्थतानिमित्त समीहेते चेष्टेते व्याधितस्य नृपस्य च रोगिणो राज्ञश्च तौ वैद्यमन्त्रिणौ धिक्। निन्दिताविभावित्यर्थ। कथभूतौ तौ। स्वार्थसिद्धिनिरोद्धारौ स्वार्थस्य निजप्रयोजनस्य सिद्धे प्राप्तेर्निरोद्धारौ निषेधकौ। यथासख्यालंकार॥

व्याधिर्व्यसनवृद्धिरित्यादि।

तथा। अशुभस्येत्यादि। सचिव एतत् आरभमाण कुर्वाण। किमारभमाण। अशुभस्य कालहरण यदा राज्ञो अशुभं भवति तदा सचिव कालहरण कालयापन

शौर्यं चास्य निगदेन व्याख्यातम्। यत।

वणिजि च भिषजि च शूर शौण्डीरो दुर्बले च विकले च।
कपिरिव निभृतस्तिष्ठति रणशौण्डे चण्डदण्डे च॥ १९०॥

देव, सरलस्व

भावस्य देवस्यामात्यदैत्यानामाकल्पोदञ्च प्रतिक्रियाप्रपञ्चश्च साधुतायोगेऽनुरागे च कारणम्। तत्र चामीषामेतत्तात्पर्यम्। तथा हि— सत्पुरुषपृषतवधाय व्याघस्याखिलाङ्गसवरण यत्रावरणमिवामात्यजनस्य लम्बाञ्चलक चोलकम्, मुग्धमीनबन्धनानायमिव महाकाय कूर्चकेशनिकाय कपटकोटपेटकघटनाय सर इवोदारमुदरम्, परव्यसनान्वेषणाय मृगधूर्तस्येव मन्दमन्दाचार पादप्रचार, कथमेते खलु पातालस्था करस्था मम

———————

करोति बृहत्काल यथा अशुभ तिष्ठति तथा करोति। नृपतेर्व्यसनमारभमाण सुखी भवति। नियोगिना कलहमारभमाण सुखी भवति। दीपकालंकार॥

देव, अस्य सचिवस्य शौर्य सौभट्यनिगदेन लोकप्रसिद्ध्या व्याख्यात सूचितमेव। यतो यस्मात् कारणात्। वणिजि इत्यादि। वणिजि च क्रयविक्रयकारिणि, भिषिजि च वैद्ये च, अय शूर शौण्डीरस्त्यागविक्रमाभ्या विश्रुत। दुर्बले बलसामर्थ्यरहिते विकले च पड्ग्वादौ शौण्डीर, अय मन्त्री रणशौण्डे चण्डदण्डे च पुरुषे निभृतस्तिष्ठति विनीतो मौनवान् सन्नास्ते। क इव। कपिरिव यथा कपिर्मौनवान् तिष्ठति विनीतश्चभवति। यथा योगी शिक्षयति कपिस्तथैव करोति। उपमालंकार॥

हे देव हे राजन्, सरलस्वभावस्य अकुटिलप्रकृतेर्देवस्य तव अमात्यदैत्याना मन्त्रिराक्षसाना आकल्पोदञ्चकषायवस्त्रादिवेषोद्गम प्रतिक्रियाप्रपञ्चश्च प्रतीकारविस्तारश्च साधुतायोगे साधुत्वप्राप्त्यर्थ अनुरागे च राजानुरागविधायने च कारण हेतुवर्तते। तत्र च तेषु आकल्पोदञ्चनादिषु अमीषा सचिवानामेतत्तात्पर्यमेतद्रहस्यम्। तथा हि तदेव निरूपयति—

सत्पुरुषपृषतवधाय सत्पुरुषमृगहननार्थंव्याघस्येव लुब्ध कस्येव अखिलाङ्गसवरण सर्वशरीरप्रावरण यत्रावरण च अमात्यजनस्य लम्बाञ्चलक दीर्घप्रान्त चोलक परिधानधौतवस्त्रम्। हे राजन्, अमात्यजनस्य कूर्चकेश निकाय महाकायो बृहत्। कथभूत। मुग्धमीनबन्धनानायमिव उदारभद्रकज नमत्स्यबन्धननिमित्त आनायमिव जालमिव। हे देव, अमात्यजनस्य उदारमुदर बृहद्वर्तते। कथभूतमुदरम्। कपटबकोटपेटकघटनाय सर इव कपटा परवञ्चनाचारास्त एव बकोटा बकास्तेषा पेटक समूह तस्य घटनाय चेष्टनाय सर इव तडाग इव। हे देव, सचिवजनस्य पादप्रचार। कथभूत। मन्दमन्दाचार शनै शनै सचरणम्।

भविष्यन्ति शेषशिखामणय इति लुण्टाकतयेव मुहुर्मुहुर्जलेषु निमज्जनम्, कदा ह्यमी गगनचरा कदनन्दुकविनोदकरा मम भविष्यन्ति रविरथतुरङ्गा इत्यपजिहीर्षयेवादितिसुतोपासनम्, अरे हताश हुताश, मयि सत्याश्रयाशे सर्वाशे च कथ नाम तन्नामवान्भवानितीर्ण्ययेवाहुतिमिषेण विषमरोचिताडनम्, सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्त न गच्छतीति मनीषया साधुजनशकुनिहननाय द्वीपिद्विजोद्दीपनमिव देवतार्चनम्, कियन्तो मया महान्त प्रतारिता कियन्तो नाद्यापीति सभालनायेव जपव्यवसाय, कुशलशकुलाशनाय बकस्येव ध्यानपरता, चतुरवञ्चनाय बकस्येव धर्मागमपाठ, परलोकगतिभङ्गाय निगलजालस्येव गुरुचरणोपचार, शाकिनीजनस्येव सेवकेषु

——————

कस्येव। मृगधूतस्यैव। किमर्थम्। परव्यसनान्वेषणाय परेषा राजलोकादीना व्यसनस्य अवस्थाया अन्वेषणाय विलोकनार्थम्। हे देव, अमात्यजनस्य मुहुर्मुहुर्वारंवारं जलेषु निमज्जन कायप्रवेशन इति एतस्मात् कारणात् लुण्टाकतयेव चौरस्येव भूषणनिमित्त मिव। इतीति किम्। एते शेषशिखामणय शेषनागशिरोरत्नानि। खलु वाक्यालंकारे। पातालस्था मम करस्था कथभविष्यति। हे राजन्, अमात्यजनस्य अदितिसुतोपासन श्री भास्करसेवन इति एतस्मात् कारणात् वर्तते। कदा कस्मिन् काले। हि निश्चयेन अमी गगनचरा कदनकन्दुकविनोदकरा सग्रामदष्टकक्रीडाकारिण रविरथतुरङ्गा मम भविष्यन्ति तेषामपजिहीर्षया इव अपहर्तुमिच्छया इव। हे देव, अमात्यजनस्य इति ईर्षया अक्षमया इव आहुतिमिषेण होतव्यद्रव्यदान ( व ) तुलेन विषमरोचेस्ताडन अग्ने कुट्टनम्। इतीति किम्। अरे हताश निर्भाग्य हुताश अग्ने, मयि मन्त्रिणि आश्रयाशे आश्रयभक्षके सर्वाशे च सर्वभक्षके च सति विद्यमाने। नामेति सभावनायाम्। तन्नामवान् आश्रयाशसर्वाशनामवान् भवास्त्व कथ वर्तसे। हे देव, अमात्यजनस्य सुप्रयुक्तस्य युक्ततया कृतस्य दम्भस्य अन्त पार ब्रह्मापि न गच्छति इति मनीषया च देवतार्चन वर्तते। देवतार्चन किमिव। साधुजनशकुनिहननाय साधुजना साधुलोकास्त एव शकुनयश्चटकादिपक्षिणस्तेषा हननाय मारणाय द्वीपिद्विजोद्दीपनमिव द्वीपिद्विजो मृगयाविनोदपक्षी। श्येन इत्यर्थ। तस्य उद्दीपनमिव पोषणमिव। हे राजन् सचिवजनस्य जपव्यवसाय जपव्यापार किमर्थम्। कियन्त कियत्प्रमाणा महान्त सत्पुरुषा मया प्रतारिता वञ्चिता कियन्तो महान्तोऽद्यापि न प्रतारिता वर्तन्ते इति सभालनाय इव स्मरणाय इव। हे राजन् अस्य अमात्यजनस्य कुशलशकुलाशनाय कुशला विद्वासस्त एव शकुला मत्स्यास्तेषा अशनाय भक्षणाय बकस्येव ध्यानपरता ध्यानैकाग्रता। चतुरवञ्चनाय चतुराणां विदुषा वञ्चनाय प्रतारणाय बकस्येव खरपटस्येव धर्मागमपाठ धर्मशास्त्रपठनम्। स्मृतिपठनमित्यर्थ। परलोकगतिभङ्गाय परलोक स्व

र्गादिकस्तस्य गतिभङ्गो गम-

जीवितविनाशाय प्रियवदता, अविज्ञातान्तस्तत्त्वस्य शुष्कसर सेतोरिव क्लेशाय प्रियालोकता। अपि च।

बहिरविकृतवेषैर्मन्दमन्दप्रचारै-
र्निभृतनयनपातैसाधुताकारसारै।
निकृतिनयविनीतैश्चान्तरेतैरमात्यै
स्तिमय इव बकोटैर्वञ्चिता के नलोका॥ १९१॥

देव, अप्सरसामिवामरेषु नरेष्वपि किलखलाना चतुर्दश कुलानि पुरा प्रादुर्बभूवु। तत्रतावत्प्रथम प्रमथनाथकण्ठालकारनिकटात्कालकूटात्प्रादुरासीत,द्वितीय द्विजिह्वेभ्य,तृतीय तृक्षात्मजतुण्डचण्डताया ,चतुर्थंचतु

——————

नविनाशस्तस्मैपरलोकगतिभङ्गाय निगलजालस्येव शृङ्खलासमूहस्येव गुरुचरणोपचार गुरुपादपूजनम्‌। शाकिनीजनस्येव डाकिनीलोकस्येव सेवकेषु जीवितविनाशाय ग्रासलोपनाय प्रियवदता प्रियवचनता। अविज्ञातान्तस्तत्त्वस्यअपरीक्षिताभ्यन्तरमर्मण शुष्कसर सेतोरिव शुष्कतडागपालिबन्धस्येव क्लेशाय कष्टाय प्रियालोकता मधुरालोकनम्‌॥

अपि च। बहिरविकृतवेषैरित्यादि। हे राजन्, एते प्रत्यक्षीभूतैरमात्यैर्मन्त्रिभि के लोका न वञ्चिता। अपि तु सर्वे लोका वञ्चिता इत्यर्थ। कथभूतरमात्यै। बहिर्बाह्येअविकृतवेषैशुक्लवेषैपुन कथभूते। मन्दम दप्रचारैशनै शनैगमनै। पुन कथभूतैः। निभृतनयनपातैनिश्चललोचनावलोकनै। पुन कथभूतै। साधुताकारसारैसाधुताया साधुत्वस्ययोऽसावाकार आभासस्तेन सारैर्बलवत्तरै। पुन कथभूतै। अन्त मध्ये निकृतिनयविनीतैर्निकृतिनये मायान्याये विनीतैशिक्षितै। अमात्येर्लोका कैरिव वञ्चिता। बकोटैरिव। यथा बकोटैस्तिमयो वञ्च्यन्ते। बकोटाअपि बाह्येउज्ज्वलाभवन्ति, अभ्यन्तरे पापिनो भवन्ति, मन्दमन्दगमना , निश्चललोचना, बाह्ये साध्वा कारा अभ्यन्तरे मायाविनो भवन्ति। उपमाक्षेपालंकार॥

देवेत्यादि। हे देव हे राजन्‌, अमरेषु देवेषु अप्सरसा देवाङ्गनाना यथा चतुर्दश कुलानि भवन्ति तथा नरेष्वपि। किलेत्यरुचौ। खलाना दुर्जनाना चतुर्दश कुलानि पुरा पूर्वं प्रादुर्बभूवुप्रकटीबभूवु। तत्र तावत्‌ अनुक्रमेण चतुर्दश कुलानिकथयति—

प्रथम तावत्‌ खलकुल दुर्जनकुलकालकूटात्‌ हालाहलविषात् प्रादुरासीत्‌ प्रादुर्बभूव। कथभूतात्‌ कालकूटात्‌। प्रमथनाथकण्ठालकारनिकटात्‌ प्रमथाना पिशाचानानाथ स्वामी प्रमथनाथो रुद्र तस्यकण्ठालकारे निकटस्तस्मात्। द्वितीय खलकुल द्विजिह्वेभ्य सर्पेभ्य प्रादुरासीत्‌। तृतीय खलकुलतृक्षात्मजतुण्डचण्डताया तृक्षस्य गरुडस्यात्मजोऽपत्य

र्थीचन्द्रात्, पञ्चम पञ्चतानुचरेभ्य, षष्ठ षट्प्रज्ञपादरागात्, सप्तम सप्ताशो, अष्टममनिष्टविष्टपात्, नवम नरकारिमायाया, दशम दशलोचनदष्ट्राङ्कुरात्,एकादशमेकान्ताकृत्येभ्य, द्वादश द्वापराभिप्रायपातकात्, त्रयोदश त्रपोत्तप्ते, चतुर्दश च चक्रिकाचक्रेभ्य। अन्यत्पुनस्तमस, यत समभून्नभसि कुम्भिना केसरीवाकारणवैरी ग्रहाणा राहु। पर खण्डपरश्वधायुधस्य साधनसमृद्धिसमये द्रुहिणदामोदरकन्दलात्, यस्मादजायत विद्वेषभेषजवज्जगद्विप्रीतिरतिदोहदो नारद। पर वज्रविधुन्निर्मन्थनात्, यतोऽभवदम्भोधिषु सलिलसत्त्वसहारप्रबलो वडवानल। तथैक दिते, यत समुदपादि निखिलेष्वपि भुवनेषु स्वयभुवो वरप्रदानात्सद्धर्मकर्मोत्सेकाना लोकाना प्रतारकस्तारको नामा-

——————

तार्क्ष्य तस्य तुण्डस्य चण्डताया प्रादुरासीत्। चतुर्थ खलकुल चतुर्थीचन्द्रात्। चतुर्थीचन्द्र कलहप्रियो भवति। पञ्चम खलकुल पञ्चतानुचरेभ्यो यमकिकरेभ्य प्रादुरासीत्। षष्ठ खलकुल षट्प्रज्ञपादपरागात् षट्प्रज्ञो विटस्तस्य पादौ तयो परागश्चरणरेणुस्तस्मात् षट्प्रज्ञपादपरागात्। सप्तम खलकुल सप्ताशोर्वैश्वानरात् प्रादुरासीत्। अष्टम खलकुल अनिष्टविष्टपात् नरकात् प्रादुरासीत्। नवम खलकुल नरकारिमायाया श्रीनारायणमायाया प्रादुरासीत्। दशम खलकुल दशलोचनदष्ट्राङ्कुरात् यमदाढाभिनवोद्भिद। एकादश खलकुल एकान्ताकृत्येभ्य एकान्तमतपातकेभ्य। द्वादश खलकुल द्वापराभिप्राय पातकात् सशयमिथ्यात्वपातकात्। त्रयोदश खलकुल त्रपोत्तप्ते लज्जाप्रज्वलनात्। चतुर्दश खलकुल चक्रिकाचकेभ्य परवञ्चनोपायसमूहेभ्य। अन्यत् पुन तमसोऽन्ध कारात् राहो पञ्चदश कुल सजातम्, यतो यस्मात् कारणात् नभसि आकाशे अन्ध कारोत्पन्नदुर्जनकुलात राहु समभूत् प्रादुरासीत्। कथभूतो राहु। ग्रहाणा सूर्यचन्द्र मसादीना अकारणवैरी निष्कारणशत्रु। केषा क इव। कुम्भिना गजाना केसरीव। परमन्यत्कुल षोडश खण्डपरश्वधायुधस्य साधनसमृद्धिसमये खण्डपरशोवशीकरणावसरें द्रुहिणदामोदरकन्दलात् ब्रह्मविष्णुयुद्धात् खलकुल प्रादुरासीत्, यस्मात् षोडशात् कुलात् अजायत सजात। कोऽसौ। नारद। कथभूतो नारद। जगद्विप्रीतिरतिदोहद जगत पृथ्वीमण्डलस्य या विप्रीतिर्द्वेष सग्रामस्तत्र रतिदोहदो अनुरागमनोरथो यस्य स। किवत्। विद्वेषभेषजवत् विद्वेषोत्पादने यद्भेषज मूलादिक तत्सदृशो नारद। परं अपर कुल सप्तदश वज्रद्युन्निर्मथनात् अशनिपातविद्युत्पाततटभेदकात् यत यस्माद्वज्रविद्युन्निर्मथनात् अम्भोधिषु समुद्रेषु वडवानल और्वानलोऽभवद्बभूव। कथभूतो वडवानल। सलिलसत्त्वसहारप्रबल जलचरजीवप्रलयकालसामर्थ्य। तथा तेनैव प्रकारेण एकदुर्जनकुल दिते राक्षसीविशेषात् प्रादुरासीत्, यतो यस्मात् कुलात् तारको नाम असुरो दैत्य समुदपादि सजात। कथभूतस्तारक। लोकानां प्रतारको बञ्चक। कस्माद्वञ्चक

सुर। सप्रति तु भवादृशैर्महामहीशै कलिकालस्यातीवतुच्छीकृतत्वादनुत्तमसत्त्वतयायमेक एवामीषामष्टादशानामपि खलकुलाना भारमाचार च बिभर्ति। तत कथ नाम स्वप्नेऽप्यस्य साधुता सभाव्येत। अपि च।

असुरमयस्तिमिरमय स्तेनाकारोऽपि कौणपाकार।
देव दिवापि प्रभवति सचिवजनो यत्तदाश्चर्यम्॥ १९२॥

दूराद्दीर्घमवेक्षण सरभस प्रीतिक्रम सभ्रम
प्रत्यासन्नमथासन प्रियकथाचारे महानादर।
बाह्योऽय सचिवेषु चेष्टितविधि काम न क मोदये-
च्चित्तेहा तु न जातु मार्दवमयी मन्ये जनन्यामपि॥ १९३॥

हे त्रैलोक्यनिकेतवास भुवनोदन्ते त्वमेवादृत-
स्तत्सत्य कथयेदमेष भवत पादप्रणाम कृत।

———————

निखिलेष्वपि भुवनेषु स्वयभुवो ब्रह्मणो वरप्रदानात् वरदानात्। कथभूताना लोकानाम्। सद्धमकर्मोत्सेकाना समीचीन धर्मकार्योद्यतानाम्। सप्रति इदानी तु भवादृशैर्युष्मत्सदृशैर्महा महीशैर्महद्भि राजभि कलिकालस्य अतीव अतिशयेन तुच्छीकृतत्वात् अनुत्तमसत्त्व तथा अनुत्कृष्टबलवत्वेन अय पामरोदारनामा मन्त्री एक एवासहाय एव अमीषा पूर्वोक्ताना अष्टादशानामपि द्विर्नवानामपि खलकुलाना भार आचार च बिभति धरति। तत कथ केन प्रकारेण। नामेति सभावनायाम्। खप्नेऽपि। अपिशब्दात् जाग्रदवस्थायामपि। साधुता परोपकारिता सभाव्येत घटेत। अपि तु न कथमपि साधुता घटते।

** अपि च। असुरमय इत्यादि**। हे देव, सचिवजनो भवन्मन्त्रिलोको असुरमय दैत्यमय, तिमिरमयोऽन्धकारमय, स्तेनाकारोऽपि चौरमूर्ति, कौणपाकारो राक्षसमूर्ति, एवविधोऽपि यत् दिवापि प्रभवति दिवसेऽपि छलयति तत् आश्चर्यमद्भुतमिदम्। असुरस्तिमिर स्तेन कौणपश्च रात्रौ प्रभवति, अय तु दिवापि प्रभवति। व्यतिरेकोपमालंकार॥

दूरादित्यादि। हे राजन् दूरात् दीर्घ अवेक्षण विलोकनम्, सरभस वेगवत्तर प्रीतिक्रम रागानुक्रम, सभ्रमो अत्यादर, अथानन्तर प्रत्यासन्न निकटतर आसनदानम्, प्रियकथाचारे प्रियवार्ताकरणे महान् गुरुतर आदर प्रतिपत्ति, अय प्रत्यक्षीभूत सचिवेषु मन्त्रिषु बाह्याकारश्चेष्टितविधि क्रियाविधानै काम यथेष्ट क पुरुष न मोद येत् न प्रमोदमुत्पादयेत्। अपि तु सवमपि मोदयेत्। चित्तेहा तु हृदयचेष्टा तु मन्ये जानामि जनन्यामपि मन्त्रिणो मातर्यपि जातु कदाचित् मार्दवमयी न वर्तते। आक्षेपालकार समुच्चयश्च॥

शङ्खनको वासुदेव पृच्छति**—**

हे त्रैलोक्येत्यादि। त्रैलोक्यस्य निकेत

कै काठिन्यकणैर्विधि प्रविदधे दुश्चारिणो मन्त्रिणो
येनैतन्मृदुताकृतौ विधिवह प्रह्लाद्य तानाश्रये॥ १९४॥

चातुर्य वञ्चनोदञ्चे लञ्चालुञ्चे च मन्त्रिणाम्।
राज्ञोऽन्य एव ते भृत्या समरे विधुरे च ये॥ १९५॥

सचिवचरित तत्रैवैतत्प्रशाम्यति भूपतौ
भवति य इह न्यायान्यायप्रतर्कणकर्कश।
सदयहृदये मन्दोद्योगे तदात्वसुखोन्मुखे
स्त्रिय इव नृपे दृप्ता भृत्या कथ न विकुर्वते॥ १९६॥

तथा च।

प्रकृतिविकृति कोशोत्क्रान्ति प्रजाप्रलयागति
स्वजनविरतिर्मित्राप्रीति कुलीनजनास्थिति।

——————

स्थानमाधार स चासौ वास स तस्य सबोधन हे त्रैलोक्यनिकेतवास हे जगदाधार, भुवनोदन्ते त्रैलोक्यवार्ताया त्वमेव भवानेव आदृत आदरपरो वतसे। तत्तस्मात् कारणात् इद एक वचन सत्य कथय सत्य ब्रूहि। भवतस्तव एष प्रत्यक्षीभूत पादप्रणाम कृतो मया विहित। कि सत्य वदामि एतन्मया तु पूज्यते। कै। काठिन्यकणै निदयपर माणुभि दुश्चारिणो दुराचारान् मन्त्रिण सचिवान् विधिविधाता प्रविदधे सृष्टवान् येन कारणेन एतन्मृदुताकृतौ मन्त्रिणा कोमलताकरणे अह विधिं सृष्टिकर्तार प्रहाद्य आनन्दमुत्पाद्य तान् मन्त्रिण अह आश्रये यजामि। प्रश्नोत्तरालंकार॥

चातुर्यमित्यादि। वञ्चनोदञ्चे प्रतारणोत्कर्षे लुञ्चालुञ्चे च यष्टिमासभक्षणे च मन्त्रिणा चातुर्य वतते। राज्ञो नृपस्य ते जगत्प्रसिद्धा अ ये एव अपरे एव भृत्या वर्तन्ते। ते के। ये समरे सग्रामे विधुरे च कष्टोपनिपाते वतन्ते। जात्यलकार॥

सचिवचरितमित्यादि। एतत् सचिवचरित मन्त्रिणामाचार तन्त्रेव तस्मिन्नेव भूपतौ प्रशाम्यति सशाम्यति शान्तिं याति। तत्र कस्मिन्। य राजा इह एषु मन्त्रिषुन्यायान्यायप्रतर्कणकर्कशो भवति न्यायश्चान्यायश्च न्यायान्यायौ तयो प्रतर्कण विचारस्तत्र कर्कश कठोर। सदयहृदये तथा मन्दोद्योगे अलसे तदालसुखोन्मुखे तत्कालसुखसत्कण्ठे नृपे दृप्ता गर्विता भृत्या। मन्त्रिण इत्यर्थ। कथ केन प्रकारेण न विकुर्वते न विक्रिया गच्छन्ति। अपि तु विकुवते एव। का इव। स्त्रिय इव। यथा दयावति अलसे तत्काल इव लम्पटे च नृपे ता स्त्रियो विकुवते। उपमालंकार॥

तथा च। प्रकृति विकृतिरित्यादि। कुसचिवरते राजनि ध्रुव निश्चयेन (तत् च हे ) एतत् ननु जायते उत्पद्यते। एतत् किमुत्पद्यते। प्रकृतिविकृति ‘अमात्याद्याश्च पौराश्च

कुसचिवरते राजन्येतद्ध्रुव ननु जायते
तदनु स परैर्दायादैर्वा बलादवलुप्यते॥१९७॥

देव, सजातराजसुतसमागमापीय लक्ष्मीर्व्याप्ताश्रयपादपा लतेव न जातु तदन्तरा विहितस्पृहावतिष्ठते। केवल प्रभुशक्तिपेशलत्व महत्त्वमेव महीपते सत्पुरुषसपद कारणम्। यत।

अधनस्यापि महीशो महीयसो भवति भृत्यसपत्ति।
शुष्कस्यापि हि सरस पालितले पादपविभूति॥ १९८॥

शास्त्रशस्त्रोचितोत्सेका सन्ति येषा न सेवका।
राज्यश्रीर्विजयश्रीश्च कुतस्तेषा महीभुजाम्॥ १९९॥

देव, विग्रहावग्रहाभ्या हीनाना दीनाना च प्रजानामवदानप्रदानाभ्या रक्षणमवेक्षण चान्तर्बहिरवान्तराटोपै कोपैर्दु स्थितावस्थितीना प्रकृतीना

——————

सद्भि प्रकृतय स्मृता’ तासा विकृतिर्विकारो जायते उत्पद्यते। तथा कोशोत्कान्तिर्भाण्डागारमुद्रीयते। तथा प्रजाप्रलयगति लोको म्रियते। तथा स्वजनविरति कुटुम्ब विरक्त भवति। तथा मित्राप्रीतिर्मित्राणि शत्रवो भवन्ति। तथा कुलीनजनास्थिति कुलीनजना देशान्तर गच्छन्ति। तदनु तत्पश्चात् स राजा परै शत्रुभिर्दायादैर्वा बलात् प्रसह्य अवलुप्यते विध्वस्यते दाय रिक्थमाददते दायादा ‘दायादौ सुतबान्धवौ’ इति वचनात्। बान्धव सपिण्ड इत्यर्थ। समुच्चयालकारो दीपक च॥

हे देव, सजातराजसुतसमागमापि समुत्पन्नराजपुत्रालिङ्गनापि इय लक्ष्मीर्व्याप्ताश्रय पादपा समाश्रितनिकटवर्तिवृक्षा लतेव वल्लीव जातु कदाचित् तदन्तरा विहितस्पृहा राजान्तरे अकृतवाञ्छा नावतिष्ठते न तिष्ठति। केवल प्रभुशक्तिपेशलवम्। ‘चारौ दत्ते च पेशल ’ इति वचनात्। महत्त्वमेव गुरुत्वमेव महीपतेर्नृपस्य सत्पुरुषसपद सत्पुरुषलक्ष्म्या कारण हेतुर्वर्तते। यत कारणात्।

अधनस्येत्यादि। अधनस्यापि महीशस्य नृपस्य महीयस गुरुतरस्य भृत्यसपत्तिर्भवति। शुष्कस्यापि सरस जलरहितस्यापि सरोवरस्य पालितले सेतुबन्धाधस्तन भागे पादपविभूतिभवति। कथम्। हि स्फुटमिति शेष। दृष्टान्तालकार॥

शास्त्रशस्त्रेत्यादि। हे राजन्, येषा महीभुजा शास्त्रशस्त्रोचितो योग्य उत्सेक उत्कृष्टता येषा ते शास्त्रशस्त्रोचितोत्सेका सेवका न सन्ति तेषा महीभुजा राज्यश्रीर्विजयश्रीश्च कुत। न कुतोऽपीत्यर्थ। आक्षेपालंकार॥

हे देव, प्रजाना रक्षण अवेक्षण अनादरण च, प्रकृतीनां अमात्यपौराणा एकमुखीकरण च सक्षेपेण समासेन मन्त्रिण कर्म तावद्भवति। कथंभूताना प्रजानाम्।

विरागकारण परिहारेणैकमुखीकरण च सक्षेपेण मन्त्रिण कर्म। तच्च देवेनानवधार्यान्यदेव किंचित्त सचिवापसद प्रति गुणोच्चारचापलमाचरितम्। यत।

तन्त्रमित्रार्पितप्रीतिदेशकोशोचितस्थिति।
यश्चात्मनि भवेद्भक्त सोऽमात्य पृथिवीपते॥ २००॥

कार्यार्थिनो हि लोकस्य किमन्याचारचिन्तया।
दुग्धार्थी क पुमान्नाम गवाचार विचारयेत्॥ २०१॥

व्रत भवतु वा मा वा भवेद्भक्ति परात्मनि।
तथापि चेद्व्रते प्रीतिर्यतीन्कुरु नियोगिन॥ २०२॥

अपि च देव, महाजङ्घाघ्रातचित्तस्य महालक्ष्मीराक्षसी विलासोल्लासित

——————

विग्रहावग्रहाभ्या हीनाना कायविग्रहेण युद्धेन हीनाना रक्षण क्रियते, अवग्रहेण स्वव्रतेन हीनाना अवेक्षण अनादरणम्। दीनाना व न्यक्कृताना प्रजाना अवदानप्रदानाभ्या अवदानात् साहसात् खण्डनात् रक्षणम्, प्रदानात् धनविश्राणनात् अवेक्षणम्, विरागकारणपरि हारेण यथा प्रकृतीना विरागो नोत्पद्यते। कथभूतानां प्रजाना प्रकृतीना च। मन्त्रिण कोपै कृत्वा कोपैर्दु स्थितावस्थितीना दुष्टावस्थितानाम्। कथभूतै कोपै। अन्तर्बहिरवान्तराटोपै अन्त कोपैर्बहिरलीकाटोपै। तच्च कर्म देवेन त्वया अनवधार्य अज्ञात्वा अन्यदेव किंचित् कर्म पत्रादि। अत्रोटनकर्म जलप्रासुकादिक च। त सचिवापसद मन्त्रिणा मध्ये निकृष्ट प्रति गुणोच्चारणचापल आचरित गुणवर्णनचपलत्व कृतम्। यत।

तन्त्रमित्रेत्यादि। पृथिवीपते सोऽमात्यो भवेत्। स क यस्तन्त्रमिनार्पितप्रीति तन्त्रस्य मित्र उत्पादितप्रीतिर्भवति। च अन्यत् देशकोशोचितस्थिति देशे च कोशे च योग्याचारो भवति। आत्मनि राजनि च भक्तो भवति। जात्यलंकार॥

कार्यार्थिन इत्यादि। कार्यार्थिनो लोकस्य अन्याचारचितया किम्। न किमपि। दुग्धार्थी पुमान्। नामेति सभावनायाम्। गवाचार को विचारयेत्। अपि तु न कश्चिद्विचारयेदित्यर्थ। कथम्। हि स्फुटम्। आक्षेपालंकार॥

व्रतमित्यादि। हे राजन् व्रत भवतु वा मा भवतु। चेद्यदि आत्मनि स्वामिनि परा उत्कृष्टा भक्तिर्भवेत्, तथापि तदपि चेत् व्रते प्रीतिर्वतते तर्हि यतीन् वनवासिनो भिक्षुकान् नियोगिनो अधिकारिण कुरु त्व विधेहि। आक्षेपालंकार॥

अपि च तथा च हे देव, महाजङ्घाघ्रातचित्तस्य स्त्रीभोग महातृष्णावासितहृदयस्य अस्य पामरोदारस्य। कथभूतस्य। महालक्ष्मीराक्षसीविलासोल्लासितवृत्तस्य च महालक्ष्मीरेव राक्षसी। लोकाना भक्षकत्वात्। तस्या विलासो भोगस्तेन उल्लासित प्रादुर्भूत वृत्त

वृत्तस्य च ब्रह्मचर्या चरणमाचूलमवस्करे निमग्नस्योर्ध्वबाहुतया हस्ताशुचिस्पर्शरक्षणमिव। यत।

चञ्चावेषा योषा परिवार शत्रुदर्शनाकार।
मृतमण्डनमिव च धन स्मरशरदूरे नरे नियतम्॥ २०३॥

तदस्य बाह्यप्रसिद्धिदुर्ललिते ब्रह्मचर्यव्रते खल्विदमैदपर्यमवधार्यम्। मनसिजरस रहस्यास्वादको विदस्य हि लोकस्य कलत्रपरिग्रह पुन पुन परिमलितविलासिनीसग्रहश्च बन्दीग्रहणमिव चर्वितचर्वणमिव च न चेत साधु प्रह्लादयितुमलम्। यत।

सुरतरहस्य पुसा यदि भवति स्वासु देव योषासु।
किमिति श्रीरतिमन्दो गोविन्दो बल्लवीलोल॥ २०४॥

———————

दुराचाराचरण यस्य स तथा तस्य ब्रह्मचर्याचरणम्। तस्य कीदृश वर्तते। आचूल आमस्तक अवस्करे गूथे निमग्नस्य छुपितस्य पुरुषस्य ऊर्ध्वबाहुतया ऊर्ध्वीकृतभुजद्वयतया हस्ताशुचि स्पर्शरक्षणमिव मम हस्तयोविष्ठा मा लगिता इति न्यत्रेदृश (२) वर्तते। यत।

चञ्चावेषेत्यादि। स्मरशरदूरे नरे यस्य कामबाणानलो लगति तस्य पुरुषस्य नियत निश्चित योषा स्त्री चञ्चावेषा तृणकामिनीव। परिवार कुटुम्बवग शत्रुदर्शनाकार।कुटुम्बवर्गे मोहो न भवतीत्यर्थ। धन च मृतमण्डनमिव शवशृङ्गार इव। धन न रोचते इत्यर्थ। उपमालंकार॥

तत्तस्मात् कारणात् अस्य सचिवस्य बाह्यप्रसिद्धिदुललिते बहि प्रशस्तिदुश्चरिते ब्रह्मचर्यव्रते परस्त्री परिहारनियमे खलु निश्चयेन इदमेतत् ऐदपर्य तात्पर्य अवधार्य त्वया ज्ञातव्य ज्ञानीयम्। मनसिजरसरहस्याखादकोविदस्य मनसिजस्य रसो रागस्तस्य रहस्य गोप्यतत्त्व तस्यास्वादे कोविदस्य हि निश्चयेन लोकस्य कलत्रपरिग्रहो विवाह पुन पुन परिमलित विलासिनीसग्रह पुन पुनर्वारवार परिमलिता कामुकलोकैर्मदिता या विलासिनी वेश्या तस्या सग्रहश्च अवधारण निजगृहे रक्षणे बन्दीग्रहणमिव कारागारे पतनमिव वर्वितचर्वणमिव च चेत प्रह्लादयितुमानन्दयितु साध्वल न भवति। यत।

सुरतरहस्यमित्यादि। अय मन्त्री एव कथयति जानाति च**—**

सुरतरहस्य सुरत सभोगगोप्यतत्त्व पुसा यदि चेत् देव राजन्, स्वासु निजासु योषासु भवति, तर्हि गोविन्द श्रीनारायण श्रीरतिमन्द लक्ष्मीभोगे निरादर सन् बल्लवीलोल गोपकन्यालम्पट किमिति किमर्थ वर्तते। आक्षेपालंकार॥

ततश्च।

पौता युवतिर्जरती तस्य सुता सोदरी सवित्रीति।
युक्तमिद यन्नार्य सारकुचा श्लथकुचाश्च रोचन्ते॥ २०५॥

अत एवायमित्थमाकथितोऽश्वत्थेन कविना**—**

परमहिला कुलमहिला परिजनवनिता विनोदवनिताश्च।
रतिरसभाण्ड रण्डास्तापस्यश्चास्य गृहदास्य॥ २०६॥

यस्य न तरुणी माता सुता स्वसा वा कुलाङ्गनारास्ति।
तस्य कथ ननु लक्ष्मीर्भवति मुहुस्तव नृपामात्यात्॥ २०७॥

भरतबालकविनाप्यत्र किंचित्प्रकाशितम्**—**

परवित्तरत परदाररत परवञ्चनवृत्तिचरित्ररत।
अधमध्वजवशभव सचिव समभूत्तव देव तम प्रभव॥ २०८॥

———————

ततश्च। पौतेत्यादि। तस्य मन्त्रिण पौता लघ्वी सुता वतते, युवतिर्योवनवती सोदरी भगिनी वर्तते, जरती वृद्धा स्त्री सवित्री माता वर्तते इति इदृश इद वचन युक्तमेव सगतमेव। यत् यस्मात् कारणात् सारकुचा पीवरोन्नतस्तन्यो नार्य श्लथकु चाश्च शिथिलकुचास्तस्य स्त्रियो रोचन्ते रुचिमायान्ति। सुतादिसबन्ध विना रुचि कथमिति। वक्रोक्त्यलकार॥

अत एव कारणात् अय तव सचिव इत्थममुना प्रकारेण आकथित आश्लाघित हास्येन स्तुत अश्वत्थेन अश्वत्थनाम्ना कविना कवीश्वरेण**—**

परमहिला इत्यादि। परमहिला अस्य कुलमहिला परिणीता स्त्रिय, परिजनवनिता भ्रातृजायापुत्रादिवध्वादय अस्य मन्त्रिणो विनोदवनिताश्च क्रीडास्त्रिय, रण्डा विश्वस्ता रतिरसभाण्ड सभोगरसभाजनम्, तापस्यो मासोपवासिन्य अस्य गृहदास्य। यथा गृहदास्यो भुज्यन्ते कोऽपि किमपि कथयति तथास्य लिङ्गिन्य तपस्विन्य। रूपकालकार॥

** यस्येत्यादि**। हे नृप, यस्य पामरोदरस्य तरुणी माता न आरास्ति न समीपवर्तिनी भवति। ब्रह्मचर्य भङ्गभयादित्यर्थ। तथा सुता पुत्री आरा न भवति, तथा त रणी स्वसा आरा न भवति, तथा कुलाङ्गना तरुणी लोकभार्या आरा न भवति, तस्य पामरोदरस्य तव लक्ष्मीर्नन्वहो राजन्, मुहुर्वारंवार आरा कथ भवति। तव लक्ष्मीकथ न भुक्ता इत्यर्थ। कस्मात्। अमात्यात् अमात्य स्वलक्ष्मी भुङ्क्त एव राज्यस्वामित्वात्। आक्षेपालंकार॥

भरतबालकविनापि भट्टेनापि अत्रास्मिंस्तवामात्येऽपि किंचिदल्प प्रकाशितम्**—**

परवित्तरत इत्यादि। हे देव, तव सचिव समभूत् सजात। कथभूत। परवित्तरत, पर-

देव,

दौर्जन्यहलैर्महता पारुष्यहलैश्च हृदयमनुगानाम्।
कृषति नितान्तं मन्त्री भुव तु नाङ्गुष्ठपरिमाणाम्॥ २०९॥

करितुरगरथनरोत्करविहारसहारिताखिलप्राणी।
सचरति राष्ट्रमध्ये नादत्ते पादुकायुगलम्॥ २१०॥

दलफुल्लफलानि तरोर्नोञ्छति किल तत्र जीवपीडेति।
यम इव सफलाश्च पुनर्देवद्विजतापसान्ग्रसते॥ २११॥

वाडव इव जलधिजलैस्तव विभवैर्देव सतत पुष्ट।
स यदि परत्रापेक्षा कुर्याज्जीवेन्न कोऽपीह॥ २१२॥

——————

दाररत। परवञ्चनवृत्तिचरित्ररत परवञ्चनवृत्तिराजीविका यस्य चरित्रस्य आचारस्य तत् परवञ्चनवृत्ति तच्चरित्र च परवञ्चनवृत्तिचरित्र तस्मिन् रत। अधमध्वजवशभव अधमो निकृष्टो योऽसौ ध्वजवश तिलतुदकुल तत्र भव उत्पत्तिर्यस्य स त- थोक्त। तम प्रभवस्तमस पापस्य प्रभव उत्पत्तिर्यस्मात् स तम प्रभव । दोधक छन्द। जात्यलकार॥

दौर्जन्यहलैरित्यादि। हे देव हे राजन्, दौर्जन्यहलै पिशुनत्वलाङ्गलै महता गुरुणा नितान्त हृदय कृषति कालखण्ड पारवर्यते ( १ )। पारुष्यहलैर्निर्दयलाङ्गलै अनु गाना भृत्यानाम्। ‘अनुकानाम्’ इति पाठे दीनानाम्। हृदय कृषति विदारयति। भुव पृथ्वी अङ्गुष्ठपरिमाणामपि न कृषति। रूपकालंकार॥

करीत्यादि। हे राजन्, करितुरगरथनरोत्करविहार सहारिताखिलप्राणी करिणश्च तुरगाश्च रथाश्च नराश्च करितुरगरथनरा तेषामुत्करा समूहास्तेषा विहारेण पर्यटनेन सहारिता प्रलय प्रापिता अखिला समग्रा प्राणिन पञ्चेन्द्रियजीवा येन स तथोक्त। एवगुणविशिष्ट सन् राष्ट्रमध्ये देशमध्ये सचरति स्वचकोपसर्ग करोति। सत्य हे देव, पादुकायुगल दारव पादत्राणयुग्म नादत्ते न गृह्णाति। वक्रोक्त्यलंकार॥

दलफुल्लेत्यादि। हे राजन्, दलानि च फुलानि च फलानि च सस्यानि दलफुल्लफलानि तरोर्वृक्षस्य नोञ्छति न चुण्टयति। किमिति नोञ्छति। किलेत्यरुचौ। तत्र तेषु दलादिषु जीवपीडा वर्तते इति कारणात्। पुन पश्चात् देवद्विजतापसान् सकलाश्च ग्रसते कवलयति। क इव। यम इव। उपमालंकार॥

वाडव इत्यादि। हे देव, विभवै सतत पुष्ट पुष्टिं गत। क इव। वाडव इव। यथा वडवानलो जलधिजलै पुष्टो भवति। स तव मन्त्री यदि चेत् परत्र शाकपुष्टौ यवतुष्टौ च अपेक्षा इच्छा कुर्यात् करोति तर्हि पुन इह अस्मिन् ससारे कोऽपि न जीवेत् न प्राणिति। उपमालंकार॥

व्रतग्लपितकायश्चेद्दुष्कर पुष्करो भवेत्।
पीनश्चेन्न दिवा भुङ्क्ते नक्त भुक्तिर्विभाव्यताम्॥ २१३॥

प्रत्यादिश्य प्रकट रहसि च सर्वकषोचितस्थितिषु।
जारेष्विव मातृजने मायाविषु पातकद्वितयम्॥ २१४॥

यदपरमपि बहुरूप बहिरीहितमस्य सुन्दराकारम्।
स्वाकर्तव्यकपाट पटुचेष्टैस्तदपि विज्ञेयम्॥ २१५॥

अत एव देव, देवस्यैव पुरस्तात्पुरुहूतेनैवायमुपश्लोकित**—**

मानवति मानदलनो गुणवति गुणगोपन स्वत परत।
कुलशीलशौर्यशालिषु विशेषतो नृषु च कीनाश॥ २१६॥

चाटुपटुकामधेनुर्नीचैश्चरकल्पपादप साक्षात्।
अणकेहितचिन्तामणिरधमनिधिस्तव नृपामात्य॥ २१७॥

———————

व्रतग्लपितेत्यादि। हे देव, चेत् व्रतग्लपितकाय उपवासादिभिर्नियमै यदि चेत् कृशशरीरस्तर्हि पुष्कर स्थूलो भवेत् इत्यर्थो दुष्कर दुर्घटम्। असौ पुमान् पीनश्चेत् दिवा दिवसे न भुङ्क्ते तर्हि नक्त भुक्तिर्विभाव्यता ज्ञायताम्। अनुमानालंकार॥

प्रत्यादिश्येत्यादि। प्रत्यादिश्य निराकृत्य। कि तत्। प्रकट लोकप्रत्यक्ष रहसि सर्वकषोचितस्थितिषु यमसमानोचिताचारेषु पुरुषेषु मायाविषु वञ्चकेषु पातकद्वितय भवति भक्षणपातक मायापातक चेति। केष्विव। मातृजने जारेष्विव यथा मातृगमन कारिणा पातकद्वितय भवति मातृगमन परस्त्रीगमन च भवति। उपमालंकार॥

यदपरमित्यादि। यत् अपरमपि अस्य बहुरूप अनेकभेद बहिरीहित वतते। कथभूतम्। सुन्दराकार लोकरञ्जकम्। तदपि च पटुचेष्टे विचक्षणलोकैर्विज्ञेय ज्ञात व्यम्। कीदृश विज्ञेयम्। स्वाकर्तव्यकपाट स्वकीयदुराचारस्य आच्छादने कपाट कपाटसदृश ज्ञातव्यम्। रूपकालंकार॥

अत एव कारणात् हे देव, देवस्यैव पुरस्तात् तवैजाग्रत पुरुहूतेन इन्द्रेण महाकविना एवेति निश्चयेन अय तव मन्त्री उपश्लोकित श्लोकैरुपस्तुत॥

मानवतीत्यादि। मानवति पुरुषे मानदलन मानमर्दक, गुणवति पुरुषे खत स्वयमेव परत परेण वा गुणगोपन गुणच्छादन, कुलशीलशौर्यशालिषु कुलेन शोभितेषु पुरुषेषु शीलेन शोभितेषु नरेषु शौर्येण शालिषु नृषु विशेषत अधिकतया कीनाशो यमो वर्तते। रूपकालंकार॥

चाद्वित्यादि। हे नृप, तव अमात्य। कथभूत। चाटुपटुकामधेनु चाटुपटुषु मिथ्यास्तुतिकारकेषु कामधेनुर्वाञ्छितप्रदायक। पुन कथभूत। नीचैश्चरकल्पपादप नी

क्षारोदधिरिव सुधिया चण्डालजलाशयोपमकृतिनाम्‌।
मरुमालकूपक

ल्पसता च तव देव साप्रत सचिव॥ २१८॥

नरोत्तम रमा रामा सग्रामे च जयागम।
पामरोदारनामाय यावत्तावत्कुतस्तव॥ २१९॥

नटा विटाकिराटाश्च पटुवाचाटतोत्कटा।
सचिवे तव चेष्टन्ता कटके प्रकटश्रिय॥ २२०॥

यत्रैष नृपतिपुत्रोमन्त्रीयत्रैष यत्र कविरेष।
यत्रैषोऽपि च विद्वासत्र कथ सुकृतिना वास॥ २२१॥

पण्डितवैतण्डिकेन च**—**

———————

चैश्चरेषु निकृष्टाचारेषु पुरुषेषु कल्पपादप। कथम्‌। साक्षात्‌ प्रत्यक्षनिश्चयेन वा। पुन कथभूत। अणकेहितचिन्तामणि अणकेहितेषु कुत्सिताचारेषु चिन्तामणि चिन्तारत्नम्‌। पुन कथभूत अधमनिधि अधमाना नीचाना पापिष्ठाना निधिरक्षयनिधानम्‌। रूपकालंकार॥

क्षारोदधिरित्यादि। हे देव, तव सचिव साप्रतमिदानीं सुधियाक्षारोदधिरिव वर्ततेलवणोदसागर इव वर्तते। कृतिना पुण्यवता चण्डालजलाशयोपम चाण्डालत डागसदृश। सता च मरुमालकुपकल्प मरो मरुस्थलदेशे मालकूपकल्प चाण्डालीकू पादीषदपरिसमाप्त। उपमालंकार॥

नरोत्तम इत्यादि। हे राजन्‌, यावत्कालमय प्रत्यक्षीभूतपामरोदारनामा मन्त्रीवर्तते, तावत्कालतव हे नरोत्तम, रमा लक्ष्मी, रामा स्त्रिय, संग्रामे च जयागम जयप्राप्तिकृत। न कुतोऽपि इत्यर्थ। आक्षेपालंकार॥

नटाइत्यादि। नटा नतका, विटा कामुका , किराटाश्च चतुष्पथचौरा, पटुवाचा टतोत्कटा वाग्ग्मिन वाचाटतया बहुगर्ह्यवाक्तया ये उत्कटा प्रव्यक्ता ते सर्वेऽपि तव सचिवे सति तव कटके स्कन्धावारे चेष्टन्ताप्रवर्तताम्‌। कथभूता नटविटादय॥ प्रकटश्रियप्रव्यक्तलक्ष्मीका। समुच्चयालंकार॥

यत्रेत्यादि। हे राजन्‌, यत्रयस्मिन्‌ तवराज्ये एष पामरोदारनामा नृपतिपुत्रोवर्तते, यत्रतव राज्येएष मन्त्रीवर्तते, यत्रतव राज्ये एष कविर्वर्तते, यत्रतवराज्ये एष विद्वान्वर्तते, हे राजन्‌, तत्रतव राज्ये सुकृतिना विद्वज्जनाना वास कथ वर्तते। न कथमपीति। आक्षेपालंकार॥

** पण्डितवैतण्डिकेनेति**। पण्डितवैतण्डिकेनचोपश्लोकित श्लोकैरुपस्तुत।

धर्मतरुधूमकेतुर्विद्वज्जनहसनीरदाराव।
स्वामिश्रीनलिनीन्दुर्मित्रोदयराहुरेष तव मन्त्री॥ २२२॥

तमसो मनुष्यरूप पापस्य नराकृति फलैर्नृत्वम्।
पुस्त्वमिव पातकस्य च भवनेऽभूत्तव नृपामात्य॥ २२३॥

हे वत्स दौर्जन्य किमम्ब माये क साप्रत नावुचितो निवास।
वदामि मात शृणु सोऽस्ति नून य पामरोदारगिराधराङ्क॥ २२४॥

सरस्वतीतुडगेनाप्यत्र मृतमारणमाचरितम्**—**

स्वय कर्ता स्वय हर्ता वय वक्ता स्वय कवि।
स्वय नट स्वय भण्डो मन्त्री विश्वाकृतिस्तव॥ २२५॥

आस्तिकहास्तिकसिंहो नास्तिकसौवस्तिकस्तम स्तूप।
दैष्टिकसृष्टिकृतान्तो नरदैत्यस्तव नृपामात्य॥ २२६॥

——————

धर्मतर्वित्यादि। हे राजन्, एष तव मन्त्री धर्मतरुधूमकेतु धर्मवृक्षभस्मीकरणे वैश्वानर, विद्वज्जनहसनीरदाराव पण्डितजनराजहसमेघध्वनि, स्वामिश्रीनलिनीदु तव लक्ष्मीपद्मिनीचद्र, मित्रोदयराहु सुहृत्सूर्यस्वर्भानु। रूपकालंकार॥

तमस इत्यादि। हे नृप, तव भवने अमात्योऽभूत्। कथभूत अमात्य। तमस अन्धकारस्याज्ञानस्य वा मनुष्यरूप मनुष्याकार। पुन कथभूत। पापस्य हिंसादे र्नराकृति मनुष्याकार। पुन कथभूत। कलेर्नृत्व कलिकालस्य मनुष्यरूपम्। पुन कथंभूत। पातकस्य ब्रह्महत्यादे ऋषिहत्यादेश्च पुस्त्व पुरुषरूपम्। रूपकालंकार॥

हे वत्सेत्यादि। हे दौर्जन्य खलत्व, वत्स पुत्र, अम्ब मात, माये परवञ्चनालक्षणे कि कथयसि। साप्रत नौ आवयो उचितो निवासो योग्यमास्पद को वर्तते। कथम्। निश्चितम्। क स। य कश्चित् पामरोदारगिरा पामरोदारनाम्ना अधराङ्क नीचचिह्नो वर्तते। प्रश्नोत्तरालंकार॥

सरस्वतीतुडगेनापि महाकविना अत्र अस्मिन् तव मन्त्रिणि मृतभारण मृतस्यापि विशेषेण मारण आचरित कृतम्॥

स्वयमित्यादि। हे राजन्, तव मन्त्री विश्वाकृति विश्व जगत् आकृतिराकारो यस्य स विश्वाकृति विश्वकुर्कुरस्तस्य आकृतिराकारो यस्य स तथा। कस्मात् विश्वाकृति। स्वय कर्ता स्वयमेव अकृत्य करोति। स्वय हर्ता धर्मकर्मसंहारक। स्वय वक्तास्वय तार्किक। स्वय कवि। स्वय नट नानाविधनाट्यकारक। स्वय भण्डो नर्मसचिव। काकुवक्रोक्त्यलंकार॥

आस्तिकेत्यादि। हे नृप, तव अमात्य। कथभूत। आस्तिकहास्तिकसिंह पुण्य

मनागपि नाभ्यसूयति, तत्किमिति मनीषापौरुषाभ्यामशेषशिष्टशौण्डीरशिखामणीयमानमतिसमीक्ष पुण्डरीकाक्षम्, सिन्धुरप्रधानो हि विजयो विशामीशानामिति तत्किमिति समस्तसामजैतिह्यगृह्यमन प्रभाव बन्धुजीवम्, महाकविसग्रहान्महीपतीनामाचन्द्रार्कावकाश यश इति तत्किमिति स भवत्कीर्तिलताललनालापामृतसेवकसार हारम्, ‘यासु सन्तो न तिष्ठन्ति ता वृथैव विभूतय’ इति, तत्किमिति स्वभावादेव देवस्य प्रसेदुषोऽपरानपि

——————

साधुलोक्समूह इव मनसि चित्ते मनागपि ईषदपि नाभ्यसूयति गुणेष्वपि दोषारोप न करोति। तदित्यादि। तत्तर्हि पुण्डरीकाक्ष नाम मन्त्रिण निर्वास्य किमिति किमर्थ स्वयमेव एकैश्वर्ये अद्वितीयप्रभुत्वे वर्तते। कथभूत पुण्डरीकाक्षम्। मनीषापौरुषाभ्या मनीषा बुद्धि पौरुष च सुभटत्व मनीषापौरुषे ताभ्या कृत्वा अशेषशिष्टशौण्डीरशिखामणी यमानमतिसमीक्ष अशेषा समस्ता ये शिष्टा विद्वास शौण्डीराश्च त्यागविक्रमाभ्या विश्रुता अशेषशिष्टशौण्डीरास्तेषु तेषा शिखामणीयमानौ शिरोरत्ने इवाचरन्त्यौ मतिबुद्धि समीक्षा च सौभव्य यस्य पुण्डरीकाक्षस्य स तथोक्तस्तम्। हे राजन्, विशामीशाना नरेन्द्राणा विजयो जय सिन्धुरप्रधानो भवति गजैरेव शत्रवो जीयन्ते इति चेत् वर्तते तर्हि बन्धुजीव नाम गजशास्त्रज्ञ निर्वास्य देशानि सार्य किमिति किमर्थं स्वय स्वयमेवैकैश्वर्ये अद्वितीयप्रभुत्वे वर्तते। कथभूत बन्धुजीवम्। यथोक्तविशिष्टम्। समस्तसामजैतिह्यगृह्यमन प्रभाव समस्तानि समग्राणि च तानि सामजैतिह्यानि गजशास्त्राणि तानि गृह्याणि गृहीतव्यानि मनस प्रभावे चित्तमाहात्म्ये यस्य स तथोक्तस्तम्। हे राजन्, महाकविसग्रहात् गुरुतरकवीश्वरस्वीकारात् महीपतीना नृपाणा किल आचन्द्रार्कावकाश आचन्द्रार्क यावत् यशो भवति इति चेत् वर्तते तत्तर्हि हार नाम महाकविं निर्वास्य देशान्नि सार्य स्वयमेव किमिति किमर्थं एकैश्वर्ये वर्तते। कथभूत हारम्। भवत्कीर्तिलताललनालापामृतसेवकसार भवतस्तव या कीर्ति पुण्यगुणानुकीर्तन सैव लता वल्ली स्वर्गफलदायिकत्वात् तस्या ये ललनालापा कोमलकवित्वानि तान्येव अमृत मरणनिवारकत्वात् तस्य सेवक सेवन तेन सार सामर्थ्यवान् बलवत्तरस्तम्। यासु विभूतिषु सन्तो न तिष्ठतीति ता विभूत्य वृथैव निरर्थका एव इति चेद्वतते तर्हि अपरान् विदुष पण्डितान् पुरुषान् निर्वास्य किमिति स्वयमेवैकैश्वर्ये वर्तते। कथभूतान् विदुष। स्वभावादेव निसर्गेणैव देवस्य तव प्रसेदुष प्रसनचित्तान्। सेवकानित्यर्थ। अय मन्त्री कि कुर्वन्। अमिषन् असहमान। क इव एकैश्वर्ये वर्तते। अगारान्त रापतित कपोत इव अगारस्य गृहस्य अन्तर्मध्ये आपतित आगत कपोत इव अरण्यपारापत इव। यस्मिन् गृहे अरण्यकपोत आगत तद्गृह उस भवति।

विदुष पुरुषानमिषन्नगारान्तरापतित कपोत इव निर्वास्य स्वयमेकैश्वर्ये वर्तते। तथा इति विचिन्त्य निवसता च सतामरुतुदवाक्प्रसरस्त्वचिसारहीर इव न ददाति सुखेनासितुम्।

अन्या स्थली न हरिताङ्कुरचारसारा
दृष्टेरुपैति विषय विषमाध्वरुद्ध।
यूथच्युतोऽपि खरकर्करकर्कशान्ता -
न्येण श्रयत्यवश एव मरुस्थलानि॥ २२९॥

ततश्च।

एकामात्ये महीपाले नाल लक्ष्मीर्विजृम्भते।
लतायास्तत्र का वृद्धि शाखैका यत्र शाखिनि॥ २३०॥

——————

तथेत्यादि। तथा तेनेव प्रकारेण इति विचिन्त्य इति पर्यालोच्य निवसता तव राज्ये तिष्ठता सता सत्पुरुषाणा सुखेन आसितु स्थान न ददाति। कथभूत अरुतुद वाक्प्रसर धर्मव्यर्थकवचनप्रवृत्ति। क इव सुखेन आसितु न ददाति। त्वचिसारहीर इव यथा त्वचिसारहीर वशशलाकानखादौ क्षुब्धा सती सुखेनासितु न ददाति। इतीति किम्।

अन्येत्यादि। एणो मृग अवश एव मरुस्थलानि मरुदेशसिकतासमुच्चयान् श्रयत्याश्रयति। एणो मृग किमिति मरुस्थलान्याश्रयतीत्याह— हरिताङ्कुरचारसारा दूर्वाभिनवोद्भिदाचारसारा अन्या स्थली अपरा भूमि दृष्टेर्लोचनस्य विषय गोचर न उपैति नागच्छति। कथभूत एण। विषमाध्वरुद्ध विषमो नीचोच्चो योऽसौ अध्वा मार्ग विषमाध्व तेन रुद्ध अनवाप्तावकाश। पुन कथभूत। यूथच्युतोऽपि निजवृन्दात् पतितोऽपि। कथभूतानि मरुस्थलानि। खरकर्करकर्कशान्तानि खरा कठिना ये कर्करा शर्करोपलास्तै कर्कशा स्वस्य वा अन्ता पर्यन्ता स्वभावा वा येषा मरुस्थलाना तानि तथोक्तानि। समासोक्त्यलंकार॥

ततश्च कारणात्। एकामात्येत्यादि। महीपाले राजनि एकामात्ये एकमन्त्रि के लक्ष्मीरलमतिशयेन विजृम्भते लताया वल्लयास्तत्र तस्मिन् शाखिनि वृक्षे का वृद्धि का स्फीतिरपि। न कदाचित् अपीत्यर्थ। तत्र कुत्र। यत्र शाखिनि एकासहाया शाखा लता वर्तते। दृष्टान्तालंकार॥

देव, लक्ष्मीलतावलयितगलश्छगल इव भवति प्रायेण सर्वोऽपि जन। यतो य एवात्मनो गल पादिकया लम्बितुमिच्छति तस्यैव मुखमवलोकते। किं च।

किं नास्ति पल सलिले येन तिमि सादरो गलाहारे।
प्रायेण हि देहभृता तत्रासक्तिर्यतो मृत्यु॥ २३१॥

देव, देवोऽस्य निस्त्रिंशता नास्तिकता च चेतन्नपि न चेतति। यतो जानन्नप्येष दुरात्मा मुधा भृत्यभावेन पाकोदकादिपरिचारकतया चिरकालश्वपचपञ्चक क्लेशयन्नेतज्ज्ञातिपूकारादुच्छलति दुरपवादे पुनर्दु प्रसिद्धिभयात्तन्निजनीडक्रोड एव निशि निबिडप्रमीड स्वयमेवावधीत्। विशिष्टैश्च प्रायश्चेतनचिन्तायामिदमवोचत्

———————

** देवेत्यादि**। हे देव, प्रायेण बाहुल्येन सर्वोऽपि जन लक्ष्मीलतावलयितगलो भवति लक्ष्मीवद्बद्धकण्ठो भवति। क इव। छगल इव छाग इव। यत कारणात् य एव पुमान् आत्मनो निजस्य गल कण्ठ पादिकया पादेन चम्पयित्वा लम्बितु इच्छति तस्यैव जनस्य मुख अवलोकते तस्यैव समुख तिष्ठति॥

कि चास्ति विशेष। किं नास्तीत्यादि। हे राजन्, सलिले कि पल नास्ति येन कारणेन तिमिर्मत्स्य गलाहारे वक्रकण्टकमासभक्षणे सादरो भवति। युक्तोऽयमर्थ— देहभृता जीवाना प्रायेण तत्र तस्मिन् पदार्थे आसक्तिरनुबन्धो भवति। तत्र कुत्र। यतो पदार्थात् मृत्युर्मरण भवति। कथम्। हि स्फुटमिति शेष। दृष्टान्तालंकार॥

देवेत्यादि। हे देव हे राजन्, अस्य मन्त्रिण निस्त्रिंशता निर्दयता नास्तिकता निभ्रान्तिता च देवो भवान् चेतन्नपि xनxपि न चेतति न जानाति। यतो यस्मात् कारणात् एष तव मन्त्री दुरात्मा पापिष्ठो जानन्नपि मुवा वृथैव भृत्यभावेन किकरतया पाकोदकादिपरिचारकतया चिरकाल दीघकाल श्वपञ्चपञ्चक चाण्डालपञ्चक क्लेशयन् विष्टिकारयन् एतज्ज्ञातिपूत्कारात् एतेषा पञ्चाना चाण्डलाना ज्ञातिपूत्कारात् बुम्बारबात दुरपवादे उच्छलति दुरपवादे निन्दाया प्रादुर्भवति सति पुन पश्चात् दुःप्रसिद्धिभयात् दुरपवादभयात् तच्चाण्डालपञ्चक निजनीडकोडे एव निजग्रहस्याने एव निशिरात्रौ निबिडप्रमीड अतिसुप्त स्वयमेव आत्मनैव अवधीत् जघान। विशिष्टैश्च पुरुषै धर्मिष्ठलोकै प्रायश्चेतनचिन्ताया प्रायश्चित्तकरणचिन्ताया इदमवोचत् एतदुक्तवान्। एतत् किम्।

रविरश्मिरत्नपावकमाहेयीवायवोऽन्त्यजै स्पृष्टा।
न हि दुष्टास्तद्वदह प्रकृति शुचिर्भालमध्येऽपि॥ २३२॥

आत्मा स्वभावशुद्ध काय पुनरशुचिरेष च निसर्गात्।
प्रायश्चित्तविधान कस्येति विचिन्त्यता जगति॥ २३३॥

वर्णाश्रमजातिकुलस्थितिरेषा देव सवृतेर्नान्या।
परमार्थतश्च नृपते को विप्र कश्च चाण्डाल॥ २३४॥

नास्तिकता चास्य किमिवोच्यते। य खलु

विक्रीय देव विदधाति यात्रा तद्गालनादेष पराश्च देवान्।
प्रमुष्य लोक ठकवृत्तिभावैर्ददाति दान द्विजपुगवेभ्य॥ २३५॥

———————

** रवीत्यादि**। रविरश्मयश्च सूर्यकिरणा, रत्नानि च माणिक्यानि, पावकश्च वैश्वानर, माहेयी च गौ, वायुश्च मारुत, रविरश्मिरत्नपावकमाहेयीवायव अन्त्यजैश्चाण्डालै स्पृष्टारछम्पिता दुष्टा न भवन्ति। कथम्। हि निश्चयेन। तद्वत्तथा अह पामरोदारनामा मन्त्री प्रकृतिशुचि स्वभावेन निर्मल भालमध्येऽपि चाण्डालमध्येऽपि दोषाय न भवामि। समुच्चयालंकार॥

आत्मेत्यादि। आत्मा जीवतत्त्व स्वभावशुद्ध स्वभावेन प्रकृत्या शुद्ध कर्म मल कलङ्करहित। एष प्रत्यक्षीभूत काय शरीर निसर्गात् स्वभावेन पुनरपि भूयोऽप्यशुचि अपवित्र। तेन कारणेन प्रायश्चित्तविधान पापशोधन जगति ससारे कस्य। न कस्यापीत्यर्थ। इति इदृशोऽर्थो विचिन्त्यता भवद्भिर्विचार्यताम्। जात्याक्षेपालकार॥

वर्णाश्रमेत्यादि। हे देव, एषा वर्णाश्रमजातिकुलस्थिति वर्णाश्च विप्रक्षत्रियविट्शूद्राश्चत्वार, आश्रमाश्च ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चेति चत्वार, जातिश्च मातृपक्ष, कुल च पितृपक्ष, वर्णाश्रमजातिकुलानि तेषा स्थितिर्मर्यादा वारणा सवृतेर्व्यवहाराद्भवति। न अन्या निश्चयभूता। हे नृपते, परमार्थतश्च निश्चयात् को विप्र कश्च चाण्डालश्च। अपि तु न कोऽपि ब्राह्मण, न कोऽपि चाण्डाल इत्यर्थ। आक्षेपालंकार॥

नास्तिकता चास्य किमिवोच्यते नास्तिकता निर्भ्रान्तिता अस्य तव मन्त्रिण कि कथ्यते। य खलु तव मन्त्री विक्रीयेत्यादि। हे देव, देव विक्रीय यात्रा विदधाति करोति। एष मन्त्री तगालनात् देवप्रतिमारसकरणात् पराश्च देवान् अपरान् क्षुद्रदेवान् विदधाति। इत्येव ठकवृत्तिभावैरौषधप्रयोगेण लोक प्रमुष्य मानवाना गलमोटन कृत्वा धन गृहीत्वा द्विजपुगवेभ्यो दान ददाति। परिवार्तालंकार॥

अग्रहारग्रह साक्षाद्देव भोगभुजगम।
शिष्टविष्टपसहारप्रलयानलमानस॥ २३६॥

कृतान्त इव चेष्टेत यो देवेषु निरङ्कुश।
कापेक्षा भक्षणे तस्य तापसेषु द्विजेषु च॥ २३७॥

देव,

यावद्भवान्न जातोऽत्र तावदन्ये कुलोद्गता।
जाते त्वयि महीपाल नृपा सर्वेऽपि निष्कुला॥ २३८॥

इति देव, देवमुपश्लोकयता कथकारमद्वैतत्वमात्मनो न द्योतितम्। यतो देव, देवोत्पादागता वशविशुद्धता वदतानेन साधु देवान्वयस्याविशुद्धता प्रकाशिता। न खलु पुत्रात्पित्रो कुलीनता, किं तु पितृभ्या पुत्रस्य। तदेव देव, देवस्यायमेव नितरा पक्षपाती। देव, देवस्यायमेव राज्य -

———————

अग्रहारग्रह इत्यादि। हे देव, साक्षात् प्रत्यक्षेण अग्रहारग्रह मुक्तग्राह्यग्राहक। हे देव, भोगभुजगम देवपूजार्थे यत् क्षेत्रादिक राजदत्त वर्तते तस्य भुजगमो भक्षक। पुन शिष्टविष्टपसहारप्रलयानलमानस शिष्टाना यद्विष्टप जगत् तस्य सहाराय विनाशाय प्रलयानलमानस कल्पान्तकालपावकमना। रूपकालंकार॥

कृतान्त इत्यादि। हे देव, यस्तव मन्त्री देवेषु निरङ्कुशो निरर्गल सन् कृतान्त इव चेष्टेत प्रवतेत तस्य तव मन्त्रिण तापसेषु मुनिषु द्विजेषु च भक्षणे का अपेक्षा का वाञ्छा। अपि तु न काचिदपेक्षा इत्यर्थ। उपमाक्षेपालकार॥

** देव, यावद्भवानित्यादि**। हे देव, इति अमुना प्रकारेण देव भवन्तमुपश्लोकयता श्लोकरुपस्तुवता कथकार केन प्रकारेण आत्मन स्वस्य अद्वैतत्व एकान्तत्व न द्योतित न प्रकाशितम्। अपि तु प्रकाशितमेव। इतीति किम्। हे देव, यावत्काल भवास्त्वमत्र न जातो नोत्पन्नस्तावत्काल अये यशोबन्धुरयशोर्घादयस्तव पूर्वजा कुलोद्गता कुलीना वर्तते। हे महीपाल हे राजन्, त्वयि जाते सति सर्वेऽपि नृपा भवद्वशोद्भवा राजान निष्कुला कुलरहिता सगता।

यत इत्यादि। यतो हे देव, देवोत्पादागता वशविशुद्धता तब जन्मसजाता कुलविशुद्धता अनेन मन्त्रिणा वदता कथयता साधु यथा भवत्येव देवान्वयस्य तव कुलस्य अविशुद्धताऽनिर्मलता प्रकाशिता प्रकटीकृता। न खलु पुत्रात् पित्रो मातृपित्रो जननीजनकयो कुलीनता भवति, कि तु पितृभ्या पुत्रस्य कुलीनता भवति। तत्तस्मात् कारणात् एव सति हे देव, देवस्य तव अयमेव नान्य कोऽपि नितरामतिशयेन पक्षपाती पक्षच्छेदक, न तु पक्षावलम्बी विपरीतार्थ -

लक्ष्मीवल्लीवर्धन। देव, देवस्यायमेव मङ्गलपरम्परासपादनः। देव, देवस्यायमेव प्रतापप्रदीपनन्दन’। देव, देवस्यायमेव समरेषु जयविभूति कारणम्। देव, देवस्यायमेव बान्धवेषु हारावरुद्ध कण्ठताहेतु। देव, देवस्यायमेव मित्रेषु श्रीफलोपलालनायतनम्।देव, देवस्यायमेवाश्रितेषु चिन्तामणिनिदानम्। अत एव

वृत्तिच्छेदस्त्रिदशविदुष कोहलस्यार्थहानि-
र्मानग्लानिर्गणपतिकवे शकरस्याशु नाश।
धर्मध्वस कुमुदकृतिन केकटेश्च प्रवास
पापादस्मादिति समभवद्देव देशे प्रसिद्धि॥ २३९॥

———————

ग्राह्य। हे देव हे राजन्, देवस्य तव अयमेव मन्त्री राज्यलक्ष्मीवल्लीवधन राज्यस्य लक्ष्मी सपत् सैव वल्ली वल्लरी तस्या वर्धन छेदन खण्डन, न तु वधनो वृद्धिकारको भवतीत्यथ। हे देव हे राजन्, देवस्य तव अयमेव मन्त्री मङ्गलपरम्परासपादन मङ्गलाना कपराणा कुम्भभेदनाना परम्पराया श्रेण्या सपादन कारक, न तु शुभकल्याणकारक। हे देव देवस्य तव अयमेव मन्त्री प्रतापप्रदीपनन्दन प्रतापप्रदीपस्य नन्दनो विधायक, न तु प्रबोधक। हे देव, देवस्य तव अयमेव मन्त्री समरेषु जयविभूति कारण भस्मकारणम्, न तु ऐश्वर्यकारणम्। हे देव, देवस्य तव अयमेव मन्त्री बान्धवेषु कुटुम्बेषु हारावरुद्धकण्ठताहेतु। ’ इष्टिकानिचयो हारो हारो मुक्तागण स्मृत। हारो मापविशेष स्याद्धारो रजतमुच्यते॥’ तदत्रावसरवशाद्धारशब्देन इष्टिकाग्रहावरुद्धाक्रन्दन। हा इति स्थिते हा इति रावेण शब्देन रुद्धकण्ठताहेतु कारणम्, न तु हाराणा मुक्ताफलमालाना कण्ठाभरणहेतु। हे देव, देवस्य तव अयमेव मन्त्री मित्रेषु अभीष्टेषु श्रीफलोपलालनायतन श्रीफलाना शिरोबिल्वबन्धनाना उपलाना पाषाणाना आलनायतन ताडनमन्दिरम्, न तु लक्ष्मीफलाभोगायतनम्। हे देव, देवस्य तव अयमेव मन्त्री आश्रितेषु सेवकेषु चिन्तामणिनिदान चिन्ताया अन्तर्ध्यानस्य कथनकारणम्, न तु शोणरत्नकारणम्।

अत एव कारणात्। वृत्तिच्छेद इत्यादि। हे देव, अस्मात् पापात् पापिष्ठात् इति इदृशी देशे देशमध्ये प्रसिद्धि प्रघोष समभवत्। इतीति किम्। त्रिदशविदुष त्रिदशनाम्न कवे वृत्तिच्छेद व्रीहिकोद्दालन सजातम्। कोहलस्य कोहलकवेरथहानि निर्धनत्व सजातम्। गणपतिनाम्न कवेर्मान ग्लानिर्मानभङ्ग सजात। शकरस्य शकर नामविदुष आशु सत्वर नाश सजात। कुमुदकृतिनामविदुष धर्मध्वस धर्मविनाशो बभूव। केक्टेश्च केकटिनाम्न कवीश्वरस्य प्रवास परदेशगमन बभूव। समुच्चयालंकार॥

मूर्खं बृहस्पतिमय वृषल कुलीन
व्रात्य महान्तमधम पुनरुत्तम च।
तुष्ट करोति कुपितश्च विपर्ययेण
मन्त्रीति देव विषये सुमहान्प्रवाद॥ २४०॥

अलमतिविस्तरेण। देव, समस्तस्याप्यस्य भाषितस्येद कैपर्यम्**—**

य कार्यार्थिनि भूपतावसमधी कार्याय धत्ते धुर
यश्चार्थार्थिनि सनयोचितमतिश्चिन्तामणिर्जायते।
भक्तौ भर्तरि मन्त्रिणामिदमहो दिव्य द्वय कीर्तित
न क्षोणीश महीयसा निरसन राज्यस्य वा ध्वसनम्॥ २४१॥

तथा च श्रुति**—**

दुर्योधन समर्थोऽपि दुर्मन्त्री प्रलय गत।
राज्यमेकशरोऽप्याप सन्मन्त्री चन्द्रगुप्तक॥२४२॥

——————

मूर्खमित्यादि। हे देव विषये अवन्तिमण्डले इति ईदृश सुमहान् अतिगुरु प्रवाद प्रघोष वर्तते। इतीति किम्। अय मन्त्री तुष्ट सन् मूर्खमज्ञानिन बृहस्पतिं करोति सुराचार्यं विदधाति, वृषल चाण्डालात् ब्राह्मण्या जात पुन कुलीन करोति, व्रात्य व्रतभ्रष्ट पुरुष नष्टव्रत महान्त गुरु करोति, पुन अधम नीच उत्तम करोति। कुपितसन् विपर्ययेण विपरीतत्वेन करोति, बृहस्पति मूर्ख करोति, कुलीन वृषल करोति, महान्त व्रात्य करोति, उत्तम अधम करोति। दीपकालकार॥

अलमति विस्तरेण पूर्णम्। हे देव राजन्, समस्तस्यापि अस्य पूर्वोक्तस्य भाषितस्य वचनस्य इदमेतत् कैपर्य तात्पर्यं वर्तते**—**

य कार्यार्थिनीत्यादि। इद किम्। अहो क्षोणाश हे पृथ्वीश, मन्त्रिणा भर्तरि राजनि भक्तौ सेवाया इदमेतत् द्वय दिव्य कीर्तित कथितम्। इद किम्। यो मन्त्री भूपतौ राजनि कार्यार्थिनि सति असमधी अद्वितीयबुद्धि सन् कार्याय कार्य करणे धुर धत्ते भारमुच्चलति। यश्च मन्त्री अर्थार्थिनि धनार्थिनि नृपतौ चिन्तामणिजयते वाञ्छित ददाति। कथभूत सन्। सनयोचितमति अन्यायेन लक्ष्मी न ददाति कि तु न्यायेन। एक इद दिव्य महीयसा विद्वज्जनाना निरसन निषेधनम्, राज्यस्य ध्वसन वा न भवतीति द्वितीय दिव्यम्। रूपकालंकार॥

तथा तेनैव प्रकारेण श्रुतिश्च शास्त्रान्तरम्**—**

दुर्योधन इत्यादि। हे राजन्,दुर्योधनो राजा समर्थो दुःशासन दुर्धर्षणादिभ्रातृशतसयुक्तोऽपि दुर्मन्त्री दुष्टशकुनिमन्त्रिसयुक्त सन् प्रलय गत भ्रातृशतसयुक्तोऽपि एकेन भीमसेनेन मारित। चन्द्रगुप्तको नाम राजा सन्मन्त्री सन् चाणक्यमण्डित एकशरोऽपि एकबाणोऽपि राज्यमाप प्राप्तवान्। जात्यलंकार॥

पुण्योदय क्षितिपतेर्नियत तदैव
काम महोत्सवसमागमन सुहृत्सु।
मोदागमश्च परमो ननु सेवकाना
जायेत दुष्टसचिवापचितिर्यदैव॥२४३॥

कदाचिद्दिशादण्डमादिदिक्षुराकारितसमस्तसामन्तलोक सकलसैन्यसमालोकनोत्तुङ्गतमङ्गसगतिकरेषु बलदर्शनावसरेषु निटिलतटपट्टिकाप्रतानघटितोद्भटजूटम्, उत्कोश किंशुकप्रसूनमञ्जरीजालजटिलविषाणविकटमेकशृङ्गमृगमण्डलमिव, कर्तरीमुख चुम्बितामूलश्मश्रुबालम्, उद्भिद्यमानमदतिल-

——————

पुण्योदय इत्यादि। क्षितिपतेर्नरेन्द्रस्य नियत निश्चित तदैव तस्मिन्नेव काले पुण्योदयो भवति। कथम्। काममतिशयेन क्षितिपते सुहृत्सु कुटुम्बवर्गेषु तदैव तस्मिन्नेव काले महोत्सवसमागमन उद्धर्षागमन भवति। अपर च सेवकाना ननु परमो मोदागमो भवति। तदा कदा। यदैव यस्मिन्नेव काले दुष्टसचिवापचितिर्दुर्मन्त्रिविनाशो जायेत उत्पद्येत। दीपकम्॥ इति मन्त्रयविकार सपूर्ण॥

कदाचित् कस्मिंश्चिदवसरे बलाधिकृतीना सेनापतीना इति ईदृशीविज्ञप्ती विज्ञापनानि अशृणव श्रुतवानहम्। कथभूतोऽहम्। दिशादण्ड आदिदिक्षु दिग्मण्डलाना सबन्धित्वेन दण्डधनमादिदिक्षुरादातुमिच्छु। ग्रहीतुमिच्छुरित्यर्थ। पुन कथभूतोऽहम्। आकारितसमस्त सामन्तलोक आकारिता आहूता समस्ता सर्वेऽपि सामन्तलोका सेवकनृपसमूहा येन स तथोक्त। बलाधिकृतीना विज्ञप्तीरशृणवम्। कदाह श्रुतवान्। बलदर्शनावसरेषु सैन्यावलोकनप्रस्तावेषु। कथभूतेषु बलदर्शनावसरेषु। सकलसैन्यसमालोकनोत्तुङ्गतमङ्गसगतिकरेषु सकलाना समस्ताना सैन्याना चमूना समालोकनाय अवलोकननिमित्त उत्तुङ्गतमङ्गस्य उन्नतप्रासादस्य सगति समारोहण कुर्वन्तीति सकलसैन्यसमालोकनोत्तुङ्गतमङ्गसगतिकरास्तेषु। बलाधिकृतीना इति विज्ञतीरशृणवम्। इतीति किम्। हे देव, इद प्रत्यक्षीभूत दाक्षिणात्य बल दक्षिणस्या दिश आगत दाक्षिणात्यम्। ‘दक्षिणापश्चात्पुरसस्त्यक्’ इत्यनेन त्यक्प्रत्यय। बल सैन्य त्व पश्येति क्रियाकारक्सबन्ध। कथभूत दाक्षिणात्य बलम्। निटिलतटपट्टिकाप्रतानघटितोद्भटजूटम् निटिलतटे ललाटोपरितनभागे पट्टिकाप्रतानेन वस्त्रपट्टिकासमूहेन घटित कृतो बद्ध उद्भट उत्कट जूट केशशिखण्डकलापो येन तत्तथोक्तम्। त्व तत्पश्य। पुन कथभूत बलम्। एकशृङ्गमृगमण्डलमिव गण्डकसमूहमिव। कथभूत एकशृङ्गमृगमण्डलम्। उत्कोशकिंशुकप्रसूनमञ्जरीजालजटिलविषाणविकटम् उत्कोशानि विकसितानियानि किशुकप्रसूनानि पलाशपुष्पाणि तेषा मञ्जरीजालेन वलरीसमूहेन जटिल वेष्टित यद्विषाण शृङ्गाणि चतुर्विशेषस्तेन विकट विषम प्रकट वा तत्। पुन कथभूत बलम्।

क्तिकपोल पीलुकुलमिव, किर्मीरमणिविनिर्मितत्रिशरकण्ठिकम्, महामण्डलावगुण्ठितगलनालमान्यमीशानसैन्यमिव, आकुफणिकृतकालायसव- लयकरालकराभोगम्, बालबिलेशयवेष्टितविटपभाग भद्रश्रियानोकहगहनमिव, आनाभिदेशोत्तम्भितासिधेनुकम्, अहीश्वरानुबद्धमध्यमेखल मन्थानकाचलमिव, आवड्क्षणोत्क्षिप्तनिबिडनिवसन सकौपीन वैखानसवृन्दमिव, अनेकाङ्कनामसभावनोद्भीवाननम्, आत्मस्तवाडम्बरोड्डमरमागधोत्कर्णितवद-

———————

कर्तरीमुखचुम्बितामूलश्मश्रुबालम् कर्तरीमुखेन नापितोपकरणवक्त्रेण चुम्बिता आ ईषत् मूलसबन्धिनो निर्मूल वा यथा भवत्येव श्मश्रु तस्य अधरोपरिरोमरेखयोबाला केशा यस्य तत्तथोक्तम्। पुन कथभूत बलम्। पीलुकुलमिव गजवृन्दमिव। कथभूत पीलुकुलम्। उद्भिद्यमानमदतिलकितक्पोलम् उद्भिद्यमान उत्पद्यमानो योऽसौ मदो दान तेन तिलकितौ तिलकसयुक्तौ कपोलौ गण्डस्थलौ यस्य तत्तथोक्तम्। पुन कथभूत बलम्। किर्मीरमणिविनिमितत्रिशरकण्ठिकम् किर्मीरा विचित्रा ये मणयस्तैर्विनिर्मिता रचिता बद्धा त्रिशरा त्रिगुणा कण्ठिका कण्ठाभरण यस्य तत्तथोक्तम्। पुन कथभूत बलम्। ईशानसैन्यमिव श्रीमहादेवकटकमिव। कथभूत ईशानसैन्यम्।महामण्डलावगुण्ठितगल नालमान्यम् महामण्डलै सर्पविशेषैरवगुण्ठित यद्गलनाल कण्ठकन्दली तेन मान्य मान नीयम्। पुन कथभूत बलम्। आकुफणिकृतकालायसवलयकरालकाराभोगम् आकुफणिकूर्पस्पर्शवर्जितानि कृतानि चेष्टितानि यानि कालायसवलयानि लोहकटकानितै कराल उन्नत कराभोगो बाहुविस्तारो यस्य तत्तथोक्तम्। पुन कथभूत बलम्। भद्रश्रियानोकहगहनमिव। ‘भद्रश्रिय चन्दनम्’ इति पञ्जिकाभारो जिनदेव। चन्दनत रुवनमिव। क्थभूत भद्रश्रियानोक्हगहनम्। बालबिलेशयवेष्टितविटपभागम् बालबिले शया शिशुसर्पा सर्पशिशवस्तैर्वेष्टितोऽवगुण्ठितो विपटभाग कटप्रभागो यस्य तत्तथो क्तम्। उक्त च— ‘विस्तारो विटपोऽस्त्रियाम्।’ तथा च— ‘स्कन्धादूर्ध्वतरो शाखाक्टप्रो विटपो मत।’ शाखाना कटप्र शाखाकटप्र। पुन कथभूत बलम्। आनाभिदेशोत्तम्भितासिधेनुकम् आनाभिदेश नाभिदेशपर्यन्त उत्तम्भिता वेष्टिता अवष्टब्धा असिधेनुका छुरिका येन यस्य वा तत्तथोक्तम्। पुन कथभूत बलम्। मन्थानकाचलमिव मेरुपर्वतमिव। कथभूत मन्थानकाचलम्। अहीश्वरानुबद्धमध्यमेखलम् अहीश्वरेण शेषनागेन अनुबद्धा सयता मध्यमेखला कटिनी यस्य तत्तथोक्तम्। पुन कथभूत बलम्। आवड्क्षणोत्क्षिप्तनि बिडनिवसनम् आवड्क्षण उरुसधिपर्यन्त उत्क्षिप्त मुक्त निबिड दृढ निवसन वस्त्र येन यस्य वा तत्तथोक्तम्। किमिव। वैखानसवृन्दमिव। कथभूत वैखानसवृन्दम्। सकौपीन कक्षाप टसहितम्। पुन कथभून बलम्। अनेकाङ्कनामसभावनोद्भीवाननम् अनेकेषा नानाविधाना अङ्कनाम्ना बिरुदावल्यविधेयाना सभावने आकर्णने उद्भीव उन्नतशिरोधर आनन मुख

नम्, ऊर्ध्वनखरेखालिखितदेहप्रासाद देव, इद विहितविविधायुधवर्तनौचित्य दाक्षिणात्य बलम्

चण्डाशुरश्मिसपर्कज्वलत्कुन्ताग्रमण्डलम्।
त्वत्प्रतापानलव्याप्त विदधानमिवाम्बरम्॥२४४॥

इतश्च पर्यन्तखर्वितकुन्तलतयार्धमुष्टिमितमस्तकमध्यकेशम्, अतिप्रलम्बश्रवणदेशदोलायमानस्फारसुवर्णकर्णिकाकिरणकोटिकमनीयमुखमण्डलया कपोलस्थलीपरिकल्पितप्रफुल्लकर्णिकारकाननमिव, समुत्कर्षितसृक्कचिबुकज- ड्घाग्रभागरोमलोमशम्, अहरह प्रमार्जितदशनप्रकाशपेशलवदनतया प्रद-

——————

यस्य तत्तथोक्तम्। पुन कथभूत बलम्। आत्मस्तवाडम्बरोड्डमरमागधोत्कर्णितवदनम् आत्मन स्तवाडम्बर स्तवनाटोपस्तेन उड्डमरा उत्कटा मागधा स्तुतिपाठकास्तेषु उत्कर्णितमूर्ध्वीकृत वदन येन यस्य वा तत्तथोक्तम्। पुन कथभूत बलम्। ऊर्ध्वनखरेखालिखितनि खिलदेहप्रासादम् ऊर्ध्वाभिरुन्नताभिनखरेखाभिरालिखितश्चित्रितो निखिलो देहप्रासाद शरीरमन्दिर यस्य तत्तथोक्तम्। हे देव, इद प्रत्यक्षीभूत दाक्षिणात्य बलम्। पुन कथभूत बलम्। विहितविविधायुधवर्तनौचित्यम् विहित विविधेषु नानाप्रकारेषु आयुधेषु शस्त्रेषु वर्तनौचित्य असहाययोग्यता येन तत्तथोक्तम्।

चण्डेत्यादि। दाक्षिणात्यबल कथभूतम्। चण्डाशुरश्मिसपर्कज्वलत्कुन्ताग्रमण्डलम् चण्डाशो श्रीसूर्यस्य ये रश्मय किरणास्तेषा सपर्केण स्पर्शेन ज्वलत् जाज्वल्यमान कुन्ताग्रमण्डल प्राप्तपर्यन्तवलय यस्य तत्तथोक्तम्। बल कि कुर्वाणम्। अम्बरमाकाश खत्प्रतापानलव्याप्त विदधानमिव। उत्प्रेक्षालकार॥

इतश्च देव, इद द्रामिल बल पश्य। कथभूत द्रामिल बलम्। पर्यन्तखर्वितकुन्तलत यार्वमुष्टिमितमस्तकमध्यकेशम् पर्यते शिरोध पार्श्वे

खर्विता कर्तरिता ये कुन्तला पर्यन्तखर्वितकु तलास्तेषा भावस्तत्ता तया अर्धमुष्टिना मिता मापिता मस्तकस्य मध्यकेशा यस्य तत्तथोक्तम्। पुन कथभूत बलम्। अतिप्रलम्बश्रवणदेशदोलायमानस्फार सुवर्णकणिका किरणकोटिकमनीयसुखमण्डलतया कपोलस्थलीपरिकल्पितप्रफुल्लकर्णिकारकाननमिव अतिप्रलम्ब अविदीघ योऽसौ श्रवणदेश तत्रदोलायमाना प्रड्खेन्ती स्फारा प्रचुरा या सुवर्णकर्णिका कनकवर्णभूषण तस्या किरणकोटिभी रश्म्यग्रैकम नीय यन्मुखमण्डल तस्य भाव तत्ता तया कपोलस्थलीषु परिकल्पित रचित प्रफुल्लकर्णिकाराणा परिव्याधतरूणा काननमिव। पुन कथभूत बलम्। समुत्कर्षितसृक्कचिवुकजङ्घाग्रभागरोमलोमशम्। समुत्कर्षितानि वृद्धिं प्राप्तानि सृक्काणा ओष्ठपर्यन्ताना चिबुका ना अधराधरभागाना जङ्घाना जान्वधोभागाना अग्रभागेषु रोमाणि तैर्लोमश रोमव्याप्तम्। आकुलमित्यथ। पुन कथभूत बलम्। अहरह प्रमार्जितदशनप्रकाशपेशलवदन-

र्शितस्वकीययश प्रसूतिक्षेत्रमिव, अनङ्गग्रहपरिवेषवर्तुलदन्तक्षतक्षपितभुजशिखरम्, अनवरतक्षरत्क्षपारसरागरक्तशितिशरीरतया कजकिंजल्ककलुषकालिन्दीकल्लोलकुलमिव, मायूरबर्हातपत्रप्रभाश्यामिकासपादितगगनगारुडोपलकुट्टिमच्छायम्, दरदद्रवापाटलफल- कान्तिकुटिलकटितटोल्लासलालसकरम्, सध्याभ्रगर्भविभ्रान्ताभ्रियसदर्भनिर्भर नभ इव, देव, इदमनेकदोलिकाविल द्रामिल बलम्।

** इतश्चोत्तप्तकाञ्चनकान्तकायपरिकरम्, करोत्तम्भितकर्तरीकणयकृपाण-**

———————

तया प्रदर्शितस्वकीययश प्रसूतिक्षेत्रमिव अहरहदिन दिन प्रति प्रभाजिता वर्जिता घषणमापिता ये दशना दन्तास्तेपा प्रकाश

उद्दयाेतस्तेन पेशल यद्वदन तस्य भावस्तत्ता तया प्रदर्शित प्रकटीकृत स्वकीयस्य यशस प्रसूतिक्षेत्रमिव उत्पत्तिसस्याधिकरणमिव। पुन कथभूत बलम्। अनङ्गग्रहपरिवेषवर्तुलदन्तक्षतक्षपितभुजशिखरम् अनङ्ग स एव ग्रहस्तस्य परिवेषो मण्डल तद्वत् वर्तुलानि यानि दन्तक्षतानि दन्तवर्तितपदानि तै क्षपितानि भुक्तानि शोभितानि भुजशिखराणि यस्य तत्तथोक्तम्। पुन कथभूत बलम्। अनवरतक्षरत्क्षपारसरागरत्त्कशितिशरीरतया कजकिंजल्ककलुषकालिन्दीकल्लोलकुलमिव अनवरत निरन्तर क्षरन् प्रोद्गरन् योऽसौ क्षपारसो हरिद्राद्रवस्तस्य रागेण रक्तशिति कालवर्ण यच्छरीर तस्य भावस्तत्ता तया कजाना पद्मपुष्पाणा योऽसौ किंजल्कस्तेन कलुष मिश्रित कालिन्द्यायमुनाया कल्लोलाना कुलमिव वृन्दमिव।पुन कथभूत बलम्। मायूरबर्हातपत्रप्रभाश्यामिकासपादितगगनगारुडोपलकुट्टिमच्छायम् मायूरबर्हाणा यानि आतपत्राणि श्रीछत्रकर्यस्तेषा प्रभाणा या श्यामिका श्यामलत्वतया सपादिता गगने गारुडोपलाना गारुडोद्गाररत्नाना कुट्टिमस्य बद्धभूमेश्छाया शोभा येन तत्तथोक्तम्। पुन कथभूत बलम्। दरदद्रवापाटलफलकान्तिकुटिलकटितटोल्लासलालसकरम् दरदद्रवेण हिङ्गुलुकरसेन आपाटल रक्तयत्फल फलक खेटकस्तस्य कात्यातेजसोपलक्षित कुटिल वक्रीकृत यत् कटितट श्रोणिप्रदेशस्तस्योल्लासे उच्छ्वासने लालस साकाड्क्षकरो हस्तो यस्य तत्तथोक्तम्। पुन कथभूत बलम्। सध्याभ्रगर्भविभ्रान्ताभ्रियसदर्भनिर्भर नभ इव सध्याभ्राणा गर्भेविभ्रान्ता भ्रमन्तो ये अभ्रिया वज्राग्नयस्तेषा सदर्भैसमूहैनिर्भर सयुत्त्कनभ इव आकाशमिव। पुन कथभूत बलम्। अनेकदोलिकाविल नानाझम्पानसयुक्तम्॥

** **हे देव, इतश्च एकस्मिन् पार्श्वे औत्तरपथ उत्तरपथादागत बल त्व पश्य । कथ भूतमौत्तरपथ बलम् । उत्तप्तकाञ्चनकातकायपरिकरम् उत्तप्तमुत्कालित यत् काञ्चन काञ्चनवत् कान्तो योऽसौ कायस्तस्य परिकर प्रारम्भो यस्य तत्तथोक्तम् । उक्तच— ‘परिकर पर्यङ्कपरिवारयो प्रगाढ गात्रिकाबन्धे च’। पुन कथभूत बलम् । करोत्तम्भित

प्रासपट्टिशबाणासनम्, आसनविशेषवशातिविद्रुतमितद्रवखुरक्षोभितकुम्भिनीभागम्, भागभागार्पितानेकवर्णवसनवेष्टितोष्णीषम्, अनवधिप्रकारप्रसवस्तबकचुम्बितशिखम्, विजयश्रीनिवासवनमिवेद देव, तुरगवेगवर्णनोदीर्ण यथायथकथमौत्तरपथ बलम्।


इतश्च जयलक्ष्मीवक्षोजमुखमण्डलश्यामशरीरप्रभापटलकुवलयितनभसरोभिर्द्रवद्दानासवासार-सौरभागमगण्डूषिताशेषदिग्विलासिनीवदनै कद-

———————

कर्तरीकणयकृपाणप्रासपट्टिशबाणासनम् करेषु उत्तम्भितानि ऊर्ध्वीकृतानि उद्गामितानि वा कर्तरी च छेदनिकर, कणयश्च लोहबाणविशेष, कृपाणश्च खङ्ग, प्रासश्च कुन्त, पट्टि शश्च यदूस, बाणासन च धनु, कर्तरीकणयकृपाणप्रासपट्टिशबाणासनानि करेषूत्तम्भि तानि कतरीकणयकृपाणप्रासपट्टिशबाणासनानि येन तत्तथोक्तम्। पुन कथभूत बलम्। आसनविशेषवशातिविद्रुतमितद्रवखुरक्षोभितकुम्भिनीभागम् आसनविशेषस्य उभयोरुपी डनविशेषस्य वशा अतिविद्रुता अतिधाविता ये मितद्रवा अश्वास्तेषाखुरै शफै क्षो भित सचालित कुम्भिनीभागो येन तत्तथोक्तम्। पुन कथभूत बलम्। भागभागार्पिता नेकवर्णवसनवेष्टितोष्णीषम् भागभागेषु मध्यमध्येषु अर्पितानि वेष्टितानि यानि अनेक वर्णानि श्वेतपीतहरितारुणकृष्णानि वसनानि वस्त्राणि वेष्टितो बद्ध उष्णीष केशपाशो येन तत्तथोक्तम्। पुन कथभूत बलम्। अनवधिप्रकारप्रसवस्तबकचुम्बितशिखम् अनवधिप्रका रप्रसवस्तबका पुष्पगुलुञ्छास्तैश्चुम्बिता स्पृष्टा शिखा शिरोग्रभागो यस्य तत्तथोक्तम्। पुन कथभूत बलम्। विजयश्रीनिवासमिव विजयलक्ष्मीनिवासस्य काननमिव। यथा वन अनेकपुष्पस्तबकसयुक्त भवति। पुन कथभूत बलम्। तुरगवेगवर्णनोदीर्णेतुरगाणा वेगस्य वर्णने प्रशसने उदीर्णमुद्रिक्त उत्कटम्। यथायथकथ सत्यवचनकथनशीलम्॥

इतश्चेत्यादि। हे देव, इतश्चैकस्मिन् पार्श्वे इद प्रत्यक्षीभूत तैरभुक्त यमुनातटबल यमुनपुरसैन्य त्व पश्य। कथभूत तैरभुक्त बलम्। करिवरैस्तमालिताखिलाशावलयम् तमालित तमालवृक्षवत् श्यामलित अखिल समस्त आशावलय येन तत्तथोक्तम्। कथभूतै करिवरै। जयलक्ष्मीवक्षोजमुखमण्डलश्यामशरीरप्रभापलकुवलयितनभ सरोभि जयलक्ष्म्या यौ वक्षोजौ तयो मुखमण्डल चूचुकप्रदेशस्तद्वत् श्याम कृष्ण यच्छरीर तस्य प्रभापटलै कृष्णतेज समूहै कुवलयित उत्पलविशेषसहित कृत नभ सरो यै करिवरैस्ते तथोक्तास्तै। उक्त च— ‘स्यादुत्पल कुवलयमथ नीलाम्बुजम च। इन्दी वर च नीलेऽस्मिन्सिते कुमुदकैरवे॥’ इति वचनात् अत्र कुवलयशब्देन नीलोत्पल ग्राह्यम्। पुन कथभूतै करिवरै। द्रवद्दानासवासारसौरभागमगण्डूषितादिशेषदिग्विलासि नीवद‌नै द्रवत् निर्गलत् यद्दान मदस्तदेवासवो मद्यतस्य आसारो वेगवद्वर्षस्तस्य सौरभागमेन सौगन्ध्यागमनेन गण्डूषितानि अशेषाणा दिग्विलासिनीना वदनानि यैस्ते

लिकाग्रलग्नभुजगाशनबर्हवित्रासितसावित्रस्यन्दनोरगरज्जभि पवमानबलचल- त्पताकाञ्चलाचरितविरोचनचामरोपचारै

करिवरैस्तमालिताखिलाशावलयम्, अनवरतचिपिटचर्वणदीर्णदशनाग्रदेशैर्गुवाकफलकषायितवदनवृत्तिभि स्वभावादेवा- तिकोपनहृदयैराप्रपदीनचोलकस्खलितगतिवैलक्ष्योत्क्षिप्तपर्यन्तजनदुर्वाग्विधिभि प्रका- मायामलोमचूडैर्गै -डैराकुलितसकलसैनिकम्, विचित्रसूत्र- गुम्फितस्फारफरत्कोत्करकर्बुरितसर्वदाक्षायणीदेशम्, उत्खातखङ्गव-

————————

तथोक्तास्तै। पुन कथभूतै करिवरै। कदलिकाग्रलग्नभुजगाशनबर्हवित्रासितसावित्रस्य न्दनोरगरज्जुभि कदलिका ध्वजास्तासामग्रेषु लग्ना लिखिता ये भुजगाशनबर्हा मयूर पिच्छास्तैर्वित्रासिता भय प्रापिता सावित्रस्यन्दनस्य श्रीसूर्यरथस्य उरगरज्जव सर्पब न्धनानि यैस्ते तथोक्तास्तै। पुन कथभूतै करिवरै। पवमानबलचलत्पताकाञ्चलाचरित विरोचनचामरोपचारै पवमानस्य मारुतस्य बलेन सामर्थ्येन चलन्ति उत्पतन्ति यानि पताकाञ्चलानि ध्वजप्रान्तास्तैराचरित कृतो विरोचनस्य श्रीसूर्यस्य चामरोपचार प्रकीर्णकपूजन यैस्ते तथोक्तास्तै। पुन कथभूतैस्तैरभुक्त बलम्। गौडै गौडदेशसैनिकै आकुलितसकलसैनिकम् आकुलिता किकर्तव्यतामूढीकृता सकला समस्ता सैनिका सेनाया समवेता सेनाना सबन्धिन पुरुषा यस्य तत्तथोक्तम्। उक्त च— ‘सेनाया समवेता ये सैन्यास्ते सैनिकाश्चते।’ कथभूतैर्गौडै। अनवरतचिपिटचर्वणदीर्णदशनाग्र देशै अनवरत चिपिटाना पृथुकाना चर्वणेन खादनेन दीर्णा विदारिता क्षरिता द शनाग्रदेशा दन्तप्रान्तप्रदेशा येषा गौडाना ते तथोक्तास्तै। उक्त च— ‘पृथुकस्याच्चि पिटको धान्यभ्रष्टयवे स्त्रिय’। पुन कथभूतै गौडै।गुवाकफलकषायितवदनवृत्तिभि गुवाकफलै पूगीफलै कषायिता रञ्जिता वदनवृत्तिर्येषा ते तथा तै। पुन कथभूतै गौडै। स्वभावादेवातिकोपनहृदयै स्वभावादेव प्रकृत्यैव अतिकोपनहृद‌यैरतिशयेन कोपनमनोभि। पुन कथभूतै गौडै। आप्रपदीनचोलकस्खलितगतिवैलक्ष्योत्क्षिप्तपयन्तजनदुर्वाग्विधिभि आप्रपदीन पादाग्रप्राप्तो योऽसौ चोलक कूर्पासक (एव सनायिका इति देशात्) तेन स्खलिता भग्नाया गतिर्गमन तया जात यद्वैलक्ष्य विप्रतीपस्तेन उत्क्षिप्ता दत्ता पर्यन्तजनेभ्य पुरस्ताल्लाेकेभ्यो दुर्वाग्विधयो दुर्वचनानि यैस्ते तथा तै। पुन कथभूतैर्गौडे। प्रकामायामलोमचूडै प्रकाममतिशयेन आयामो दैर्ध्य लोमचूडाना शिखाना केशपाशाना येषा ते तथा तै। पुन कथभूतै तैस्भुक्त बलम्। विचित्रसूत्रगुम्फि तस्फारफरत्कोत्करकर्बुरितसर्वदाक्षायणीदेशम् विचित्राणि पञ्चवर्णानि यानि सूत्राणि तैर्गुफ्फिता ग्रन्थित्ता स्फारा प्रचुरा ये फरत्कोत्करा खेटकसमूहास्तै कर्बुरितो विचित्रवर्णीकृतः सर्व समस्तो दाक्षायणीदेशो गगनमण्डल येन तत्तथोक्तम्। उक्त च—‘दा क्षायिण्यश्चद्रद्रारास्तारास्युस्तारकासु या। विधुश्चद्राक्षायणीरमण’ इति हलायु

लानविसारिधाराकरनिकरतरङ्गितगगनभागम्, आहवैकानुराग देव, इद जलयुद्धबद्धक्रियाविशेषासक्त तैरमुक्त बलम्।

** इतश्चाजानुलम्बमाननिवसनम्, माहिषविषाणघटितमुष्टिकटारकोत्कटकटीभागम्, निरन्तरघनदीर्घदेहलोमकलापकल्पितसर्वाङ्गीणकङ्कटम्, अधस्तिर्यक्प्रबन्धप्रवृद्धकूर्च केशतया क्रियानुमेयनाभिनासानयनश्रवणदेशम्, उभयासोत्तम्भितभूरिभस्त्रतया त्रिशिरोनिशाचरानीकमिव, लघुदृढदुष्करदूरलक्ष्यादिपातादिपाटवापहसितकृपकृ पधर्मकर्णार्जुनद्रोणद्रुपदभर्गभार्गवम्, घृताधिज्याजकाव देव, इद गौर्जर बलम्।**

———————

घ। पुन कथभूतैस्तैरभुक्त बलम्। उत्खातखड्गवलानविसारिधाराकरनिकरतरङ्गितगगनभागम् उत्खाता उपरि प्रहारा ये खङ्गा निस्त्रिंशास्तेषा वलानविसारिणी उच्छलनप्र सरणशीला या धारा अग्रभागस्तस्या ये करा किरणास्तेषा निकरै समूहैस्तरड्गित उत्कल्लोलीकृतो गगनभाग आकाशप्रदेशो येन तत्तथोक्तम्। पुन कथभूत तैरभुक्तबलम्। आहवैकानुराग सभामैकप्रीतिकम्। पुन कथभूतम्। जलयुद्धबद्धक्रियाविशेषासक्तम् जलयुद्धे बद्धो योऽसौ क्रियाविशेषस्तत्र आसक्त रक्तम्॥

इतश्चेत्यादि। हे देव, इतश्च एकस्मिन् पार्श्वे इद प्रत्यक्षीभूत गौर्जरं बलत्वपश्य। कथभूत गौर्जर बलम्। आजानुलम्बमाननिवसनम् आजानु जङ्घोरुसधिपर्यन्त लम्बमान दीर्घेनिवसन चेलनक वस्त्र यस्य तत्तथोक्तम्। पुन कथभूतम्। माहिषविषाणघटितमुष्टिकटारकोत्कटकटीभागम् महिषस्येद माहिष तच्च विषाण शृङ्ग तेन घटितो निर्मितो योऽसौ मुष्टि सग्राह स्वाहवस्थान स चासौ कटारकश्छुरिकाविशेषस्तेन उत्कट उद्रिक्त कटीभाग श्रोणीप्रदेशो यस्य तत्तथोक्तम्। पुन कथभूतम्। निरन्तरघनदीर्घदेहलोम कलापकल्पितसर्वाङ्गीणकङ्कटम् निरन्तराणि अविच्छिन्नानि घनानि निबिडानि दीर्घाणि अहस्वानि यानि देहलोमानि शरीररोमाणि तेषा कलाप सघात तेन कल्पितो रचित सर्वाङ्गीण सर्वशरीरे कङ्कट कवचो यस्य तत्तथोक्तम्।पुन कथभूतम्। अधस्तिर्यक्प्रबन्धप्रवृद्धकूचकेशतया क्रियानुमेयनाभिनासानयनश्रवणदेशम् अधोऽधस्तनभागे तिर्यक् वामदक्षिणपार्श्वयो प्रबन्धेन निबिडतया प्रवृद्धा वृद्धिं गता ये कूर्चकेशा मुखरोमाणि तेषा भावस्तत्ता तया कृत्वा क्रियानुमेया क्रियोपमाना नाभिनासनयनश्रवणदेशा यस्य तत्तथोक्तम्। अधस्तात् कूर्च नाभिदेश गत तिर्यकू नासानयनयो श्रवणयोश्च देश प्राप्त इत्यर्थ। दीर्घविचारपूर्वकमित्यर्थ। पुन कथभूतम्। उभयासोत्तम्भितभूरिभस्रतया त्रिशिरोनिशाचरानीकमिव उभयोरसयोर्भुजशिखरयोस्त्तम्भिते बद्धे भूरि बृहद्भस्त्रा बाणधी तयो भावस्तत्ता तया कृत्वा त्रिमस्तकराक्षसवृन्दमिव। पुन कथभूतम्। लघुदृढदुष्करदूरलक्ष्यादिपातादिपाटवापहसितकृपकृपधर्मकर्णार्जुनद्रोणद्रुपदभर्ग भार्गवम् लघु लघुसधान दृढ प्रहारादि दुष्करो

एवमेतान्यपराण्यपि हिमालयमलयमगधमध्यदेशमाहिष्मतीपतिप्रभृतीनामवनीपतीना बलानि देवस्य विजययात्रोद्योगमाकर्ण्यागतानि पश्येति बलाधिकृतीना विज्ञप्तीरश्रृणवम्।

शूरोऽर्थशास्त्रनिपुण कृतशस्त्रकर्मा
सग्रामकेलिचतुरश्चतुरङ्गयुक्त।
भर्तुर्निदेशवशगोऽभिमत स्वतन्त्रे
सेनापतिर्नरपतेर्विजयागमाय॥२8५॥

** कदाचित्पुराणपुरुषस्तवनबादिबन्दिवागुह्या(द्ध)वेषु सर्वसेवाप्रस्तावेषु**

———————

दु साध्यो दूरलक्ष्यादिपातादि उड्डीयगमन इत्यादौ यत्पाटव पटुत्व तेन अपहसित तिरस्कृत कृपश्च कृपाचार्य, कृपधर्मश्च कृपधर्माचार्य, कर्णश्च पूर्वकौन्तेय, अजुनश्चतृतीयपाण्डव, द्रोणश्चकौरवपाण्डवगुरु, द्रुपदश्च पाञ्चालीपिता, भर्गश्च भर्गनामा सुभट शुक्रो वा, भार्गवश्चशुद्धो येन तत्तथोक्तम्। पुन कथभूतम्। धृताधिज्याजकावम् धृत हस्ते कृत अधिज्यमारोपितप्रत्यश्च आजकाव धनुर्येन तत्तथोक्तम्॥

हे देव, एव अमुना प्रकारेण एतानि प्रत्यक्षीभूतानि उक्तप्रकाराणि बलानि अपरा ण्यपि अन्यान्यपि बलानि त्व पश्य। केषा बलानि। हिमालयमलयमगधमध्यदेशमा हिष्मतीपतिप्रभृतीना अवनिपतीना राज्ञा बलानि पश्य। पतिशब्द प्रत्येकमभिसबध्यते। हिमालयपतिश्च हिमालयनृप, मलयपति चन्दनाचलस्वामी, मगधपतिश्चमगधदेशस्यराजा, मध्यदेशपतिश्च अयोध्याधिपति, माहिष्मतीपतिश्चमाहिष्मतीदेशनगरस्य राजा, ते प्रभृतिरादिर्येषा जालधरादीना तेषा तथोक्तानाम्। कथभूतानि बलानि। देवस्य भवत विजययात्रोद्योग दिग्विजयगमनोद्यम आकर्ण्य श्रुत्वा आगतानि। दीपकप्रायालकार॥

अत्र सेनापत्यवसरे सेनापतेर्वर्णनवृत्तम्—शूर इत्यादि। नरपतेर्नरेन्द्रस्य ईदृग्विध सेनापतिर्विजयागमाय भवति। कथभूत सेनापति। शूर सुभट, अर्थशास्त्रनिपुण नीतिशास्त्रकुशल, कृतशस्त्रकर्मा अभ्यस्तसर्वायुधविधि, सग्रामकेलिचतुर रणक्रीडाकोविद, चतुरड्गयुक्त हस्त्यश्वरथपदातिसपन्न, भर्तु स्वामिनो निदेशवशग आदेशवश, स्वतन्त्रे निजसैन्ये अभिमतो अभीष्ट। जात्यलकार॥

कदाचित् कस्मिंश्चिदवसरे सर्वसेवाप्रस्तावेषु अनिषिद्धद्वारावसरेषु सधिविग्रहिणा महादूताना इति ईदृशी गीतिर्वचनानि आकर्णयामास आकर्णितवानहम्। कथभूतेषु सर्वसेवाप्रस्तावेषु। पुराणपुरुषस्तवनवादिबन्दिवागुह्य। वेषु पुराणपुरुषाणा यशोर्धादीना स्तवनवादिनां स्तुत्युद्भावकाना बन्दिना खुतिपाठकाना वागुह्या(द्ध)वो वाचामुत्सवो येषु सर्वसेवाप्रस्तावेषु ते तथोक्तास्तेषु।

त्वद्दण्डचण्डवेतण्डशुण्डाखण्डितमण्डला।
कण्ठोत्कण्ठकुठारास्ते देवैता द्विषता घटा॥२8६॥

दूता केरलचोलसिंहलशकश्रीमालपञ्चालकै-
रन्यैश्चाङ्गकलिङ्गवङ्गपतिभि प्रस्थापिता प्राङ्गणे।

तिष्ठन्त्यात्मकुलागताखिलमहीसार गृहीत्वा करे
देवस्यापि जगत्पतेरवसर किं विद्यते वा न वा॥२8७॥

अवलगति कलिङ्गाधीश्वरस्त्वा करीन्दै-
स्तुरगनिवह एष प्रेषित सैन्धवैस्ते।
अयमपि च समास्ते पाण्ड्यदेशाधिनाथ-
स्तरलगुलिकहारप्राभृतव्यग्रहस्त॥२8८॥

—————————

इतीति किम्। त्वद्दण्डेत्यादि। हे देव, ते तव द्विषता शत्रूणा एता प्रत्यक्षीभूता घटा श्रेणय वर्तन्ते। कथभूता द्विषता घटा। त्वद्दण्डचण्डवेतण्डशुण्डाखण्डित मण्डला त्वद्दण्डस्य भवत्सैन्यस्य चण्डा प्रचण्डा ये वेतण्डा गजा तेषा शुण्डाभि करै खण्डितानि विध्वसितानि मण्डलानि भूमिभागा यासा तास्तथोक्ता। उक्त च—‘आवर्तुलवृन्दभूभागेषु मण्डला।’ पुन कथभूता। कण्ठोत्कण्ठकुठारा कण्ठेषु ग्रीवासु उत्कण्ठा बद्धा कुठारा परशवो यासा याभिर्वा तास्तथोक्ता। अतिशयालकार॥

दूता इत्यादि। हे देवेति सबोधनपद पूर्वोक्तमेव ग्राह्यम्। हे देव, दूता देवस्य प्राङ्गणे तव चत्वरे तिष्ठन्ति आत्मकुलागताखिलमहीसार करे हस्ते गृहीत्वा आत्मकुलेषु निजान्वयेषु आगता आयाता या अखिला समग्रामह्य पृथिव्यस्तासा सारं धन प्राभृत गृहीत्वा। कथभूता दूता। केरलचोलसिंहलशकश्रीमालपञ्चालकै प्रस्थापिता प्रेषिता केरलश्चदक्षिणदेशस्वामी, चोलश्च मञ्जिष्ठादेशभूप, सिंहलश्च लङ्काद्वीपभूपति, शकश्चखुराशानदेशनरेद्र, श्रीमालश्च श्रीमालवणिगुत्पत्तिदेशराजा, पञ्चालकश्च द्रुपदनृपदेशाधिपस्ते तथोक्तास्तै। न केवलमेतै प्रस्थापिता। अन्यैश्च गौडगुर्जरास्तैर मुक्तादिभिनृपैश्चान्यै अङ्गकलिङ्गवङ्गपतिभि प्रस्थापिता अङ्गश्चचम्पापुराधीश, कलिङ्गश्च कोटिशिलादेशदन्तपुरस्वामी, वङ्गश्च पूर्वसमुद्रतटदेशस्वामी, ते तथा तै। देवस्यापि भवत अवसर प्रस्ताव किं वा विद्यते अस्ति, न वा विद्यते नास्ति। कथभूतस्य देवस्य। जगत्पते पृथ्वीपते समुच्चयालकार॥

अवलगतीत्यादि। हे राजन्, अवलगति कलिङ्गाधीश्वर सेवते। कोसौ कलिङ्गाधीश्वर दन्तपुरपत्तनपति अवलगति। त्वा भवन्तम्। कै कृत्वा अवलगति। करीन्दै शुण्डालाधीश्वरै। हे राजन्, सैन्धवै सिन्धुनदीतटदेशराजभि ते तव प्रेषित एष प्रत्यक्षीभूत तुरगनिवहो जात्यश्वसमूह। हे राजन्, अयमपि च एषोऽपि च पाण्ड्य

काश्मीरै कीरनाथ क्षितिप मृगमदैरेष नेपालपाल
कौशेयै कौशलेन्द्र शिशिरगिरिपतिर्ग्रन्थिपर्णैरुदीर्णै।
श्रीचन्द्रश्चन्द्रकान्तैर्विविधकुलधनैर्मागध प्राभृतैस्त्वा
द्रष्टु द्वारे समास्ते यदिह समुचित देव तन्मा प्रशाधि॥२8९॥

** इति सधिविग्रहिणा गीतीराकर्णयामास।**

वाचयति लिखति कवते गमयति सर्वा लिपीश्चभाषाश्च।
आत्मपरस्थितिकुशल सप्रतिभ सधिविग्रही कार्य॥२५०॥

———————

देशाधिनाथ समास्ते द्वारे तिष्ठति। कथभूत। पाण्ड्यदेशाधिनाथ। तरलगुलिकहारप्राभृतव्यग्रहस्त। उक्त च—‘हारमध्ये स्थित रत्न नायक तरल विदु।’ तरलाना स्थूलाना गुलिकाना मुक्ताफलाना ये हारा मुक्तामालास्तेषा प्राभृतेन उपायनेन व्यग्रौवासक्तौ वा हस्तौ यस्य स तथोक्त। समुच्चयालकार॥

काश्मीरैरित्यादि। हे देव, कीरनाथ शुकदेशस्वामी काश्मीरदेशाधिप काश्मीरै जात्यकुङ्कुमै प्राभृतै त्वा भवन्त द्रष्टुमवलोकितु द्वारे सिंहद्वारे समास्ते तिष्ठति। हेक्षितिप हे राजन्, एष प्रत्यक्षीभूतो नेपालपाल नेपालदेशस्वामी मृगमदै कस्तूरिकाभि प्राभृतै कृत्वा तिष्ठति। कोशलेन्द्र विनीतापुरपति कौशेयै पटीरवस्त्रेत्वा द्रष्टु द्वारे समास्ते। शिशिरगिरिपति हिमाचलपति उदीर्णैरुत्कटै ग्रन्थिपर्णैर्नगरवस्तुभि त्वा द्रष्टु द्वारे समास्ते। उक्त च—‘ग्रन्थिपर्णेशुक बर्हपुष्प स्थौणेयकुक्कुरे। शुकपर्ण चित्रचूड शुकगुच्छ शुकन्दगू (१)॥’ शीर्णलोमक विकवाख्य च गधद्रव्यविशेष। श्रीचन्द्र कैलासगिरिपति चन्द्रकान्तैश्चन्द्र कान्तमणिभि त्वा द्रष्टु द्वारे समास्ते। हे देव, मागध मगधदेशपति विविधकुलधनै नानाप्रकारान्वयागतस्वापतेयै प्राभृतैस्त्वा भवन्त द्रष्टु द्वारे समास्ते। यत् किमिपि इह अस्मिन्नर्थे समुचित योग्य तत् मा प्रशाधि आदिश। दीपकालकार॥

वाचयति लिखतीत्यादि। यो वाचयति परिभाषते वाचनविधौ इति विद्यानन्द। लिखति वर्णविन्यास करोति लेखने लिखतीति विद्यानन्द। कवते वर्णयति। ‘कवृ वर्णे’ ‘कृञ् शब्दे’ वा इति भीमसेन। गमयति स्वहृदयस्थमर्थमपरहृदये आरोपयति। सर्वा समस्ता लिपीरष्टादशलिपीर्भाषाश्चगौडगौर्जरलाटकर्णाटाधिपाश्च गमयति ज्ञापयति। आत्मपरस्थितिकुशल स मे स्वामी एतावच्छक्तिमान् पर शत्रुरेतावच्छक्ति मान् इति स्वपरमर्यादापरिज्ञाने कुशल सप्रतिभ धर्मार्थकामादिशास्त्रेषु चमत्कुर्वद्बुद्धि सधिविग्रही सधिविग्रहयो प्रमाणभूत। सधिविग्रही तु रामस्य हनुमानिव। कार्यः कर्तव्य त्वया। समुच्चयालकार॥

कदाचित्‌

येऽभ्यर्णा दूरास्ते ये दूरास्ते भवन्ति चाभ्यर्णा।
पथिकजनेषु निसर्गात्तरुवद्भृत्या क्षितीशेषु॥२५१॥

इति न्यायादवसरमलभमानस्य चिरसेवकसमाजस्य विज्ञप्तय इव नर्मसचिवोक्तय प्रतिपन्नकामचारव्यवहारेषु स्वैरविहारेषु मम गुरुशुक्रविशालाक्षपरीक्षित्पराशरभीम भीष्मभारद्वाजादिप्रणीतनीतिशास्त्रश्रवणसनाथ श्रुतिपथमभजन्त।

** तथा हि।**

नृपलक्ष्मी खलभोग्या न जातु गुणशालिभिर्महापुरुषै।
भिक्षोर्नहि नखवृद्धे फलमपर पुन्दकण्डूते॥२५२॥

——————

कदाचित् कस्मिंश्चिदवसरे नर्मसचिवोक्तय भण्डवचनानि मम मे स्वैरविहारेषु स्वे च्छया पर्यटनेषु श्रुतिपथ कर्णमार्ग अभजन्त आकर्णितवानह‌मित्यर्थ। कथभूतेषु स्वैर विहारेषु। प्रतिपन्नकामचारव्यवहारेषु स्वेच्छाचारस्य व्यवहार प्रवृत्तिर्येषु ते तथा तेषु। नर्मसचिवोक्तय कथभूता। चिरसेवकसमाजस्य विज्ञप्तय इव दीर्घकालकिंकरसमूहस्य विज्ञापनावसरे नर्मसचिववचनानामाकर्णेने कोऽल्पादराेनास्तीत्यर्थ। कथभूतस्य चिरसेवकसमाजस्य। इति न्यायात् इति दृष्टान्तेन अवसरं अलभमानस्य।

इतीति किम्। येऽभ्यर्णा इत्यादि। क्षितीशेषु राजसु निसर्गात् स्वभावेन पथिकजनेषु अङ्गलोकेषु तरुवद्वृक्षवत् ये भृत्या अभ्यर्णा समीपतरा भवन्ति ते दूरा विप्रकृष्टाभवन्ति। ये दूरास्तेऽभ्यर्णा निकटवर्तिनो भवन्ति। दृष्टान्त॥

कथभूत श्रुतिपथम्। गुरुशुक्रविशालाक्षपरीक्षित्पराशरभीम भीष्मभारद्वाजादिप्रणीतनीतिशास्त्रश्रवणसनाथम् गुरुश्च देवगुरु, शुक्रश्च दैत्यगुरु विशालाक्ष नीतिशास्त्रकर्तृविशेष, परीक्षित् एकस्तम्भप्रासादोपरि स्थितो यो बदरफलमध्यस्थितसर्पेण दष्ट, पराशरश्च मत्स्यगन्धावल्लभ ऋषि, भीमश्चभीमसेनकविर्मध्यमपाण्डवो वा, भीष्मश्च शान्तनुनृपतनूज, भारद्वाजश्च ब्राह्मणविशेष, ते आदिर्येषा वल्लभदेवव्यासनारदादीना तै प्रणीतानि नीतिशास्त्राणि तेषां श्रवणेन आकर्णनेन सनाथ सहितो य श्रुतिपथ स तथोक्तस्तम्॥

तथा हि। ता एव नर्मसचिवोक्तय उच्यन्ते। नृपलक्ष्मीरित्यादि। नृपलक्ष्मी राज्यश्री खलभोग्या खलाना दुर्जनाना भोग्या भवति। महापुरुषै सत्पुरुषै जातु कदाचित् भोग्या न भवति। कथभूतैर्महापुरुषै। गुणशालिभिर्गुणशीलै। युक्तोऽयमर्थ—भिक्षोर्थतिवरस्य भिक्षुशब्देन श्वेताम्बरस्य वा नखवृद्धे पुन्दकण्डूतेरासन्नकण्डूपतानात्, अपरमन्यत्फल लाभो न वर्तते। कथम्। हि स्फुटमिति शेष। अर्थान्तरन्यासालकार॥

ये क्लिश्यन्ते नृपतिषु तेषु न जायेत जातुचिल्लक्ष्मी।
दृष्टि पुरोऽभिधावति फलमुपभुड्क्तेनितम्बस्तु॥२५३॥

समरभर सुमटाना फलानि कर्णेजपैस्तु भोग्यानि।
करिदशना इव नृपतेर्बाह्या क्लेशाय खादनेऽन्तस्था॥२५४॥

स्रक्पुष्पमिव निसर्गाद्गुणेषु नृपति पराड्भख प्राय।
कोश इवात्मविदारिणि निस्त्रिंशे समुखो भवति॥२५५॥

स महत्त्वस्य हि दोषो यत्त्व नृप भजसि विरसता पश्चात्।
पत्यु सरितामारात्सरसत्व वारिणो न तद्भावे॥२५६॥

कृतक्लेशेषु भृत्येषु नोपकुर्वन्ति ये नृपा।
जन्मान्तरेऽधिकश्रीणा तेषा ते गृहकिंकरा॥२५७॥

——————

ये इत्यादि। ये पुरुषा नृपतिषु राजसु क्लिश्यन्ते क्लेश सहन्ते तेषु पुरुषेषु जातुचित् कदाचित् क्वचिल्लक्ष्मीर्न जायेत नोत्पद्यते। दृष्टिश्चक्षु पुरोऽग्रतोऽभिधावति शीघ्रगमन करोति। तस्य अभिधावनस्य तत्फल लाभ नितम्ब उपभुङ्क्ते। दृष्टान्तालकार॥

समरेत्यादि। समरभर सग्रामातिशय सुभटाना शूराणा भवति। समरभरफ लानि तु कर्णेजपै पिशुनैर्भेग्यानि आस्वादनीयानि भवन्ति। नृपतेर्नरेन्द्रस्य बाह्या सुभटा क्लेशाय भवन्ति। खादने आस्वादने अन्तस्था पिशुना भवन्ति। क इव। करिदशना इव हस्तिना दताइव। यथा बाह्या हस्तिना दन्ता क्लेशाय भवति खादन तु आभ्यन्तरदता कुर्वन्ति। दृष्टान्तालकार॥

स्रक्पुष्पमित्यादि। नृपति प्रायो बाहुल्येन गुणेषु शत्रुवधकारिषु राज्यस्थि रत्वकारकेषु च निसर्गात् स्वभावेन पराङ्मुखो भवति गुणवत्सु पृष्ठ ददाति। किमिव। स्रक्पुष्पमिव मालाप्रसव इव। यथा स्रक् माला गुणस्य तन्तो पराड्मुखी भवति। राजा निस्त्रिंशे निर्दये पुरुषे समुखो भवति। कथभूते निस्त्रिंशे। आत्मविदारिणि निजवि च्छेदकारिणि। क इव। कोश इव। दृष्टान्तालकार॥

स महत्त्वस्येत्यादि। हे नृप हे राजन्, यत् त्व भवान् पश्चात् विरस्रता भजसि प्राप्नोषि स महत्त्वस्यैव दोष। कथम्। हि निश्चयेन सरिता पत्यु समुद्रस्य आरात् समीपत वारिणो जलस्य सरसत्व भवति न तद्भावे समुद्रस्य एक वे सरसत्व भवति। दृष्टान्तालकार॥

कृतक्लेशेष्वित्यादि। ये नृपा कृतक्लेशेषु विहितश्रमेषु भृत्येषु सेवकेषु नोपकुर्वन्ति उपकार न कुर्वन्ति ते नृपा तेषा भृत्याना जमान्तरे अधिकश्रीणा अधिकलक्ष्मीणा गृहूकिंकरा सेवका भवन्ति। जात्युपमालकार॥

कदाचिदर्थशास्त्र विचारपल्लवकलोकप्रकाशितोपनिषत्यु परिषत्सु
नेमिमेकान्तरान्राज्ञ कृत्वा चानन्तरान्नरान्।
नाभिमात्मानमायच्छेन्नेता प्रकृतिमण्डले॥२५८॥

** इत्यत्र विषयविन्यासचिन्तनप्रस्तावागतम्**

अष्टशाख चतुर्मूल षष्टिपत्र द्वयेस्थितम्।
षट्पुष्प त्रिफल वृक्ष यो जानाति स नीतिवित्॥२५९॥

** इममखिलावापभागप्रवृत्तिहेतुक श्लोक व्यचीचरम्।**

——————

कदाचित् कस्मिंश्चिदवसरे परिषत्सु सभासु इम प्रत्यक्षीभूत श्लोक अनुष्टुभ व्यचीचरं विचारितवानहम्। कथभूतासु परिषत्सु। अर्थशास्त्रविचारपल्लवकलोकप्रकाशितोपनिषत्सु अर्थशास्त्राणा विचारे ये पल्लवकलोका पण्डितलोका तै प्रकाशिता प्रकटी कृता उपनिषत् रहस्य यासु परिषत्सु तास्तथोक्तास्तासु। कथभूत श्लोकम्। इत्यत्रास्मिन् लोके विषयविन्यासचि तनप्रस्तावागतम् विषयस्य मण्डलस्य योऽसौ विन्यासो रचना तस्य चिन्तन विचारण तस्य प्रस्तावे अवसरे आगत आयात विषयविन्यासचिन्तनप्रस्तावागतम्। इत्यत्र कुत्र।

नेमिमित्यादि। नेता जेता। वियोगिषु राज्ञेत्यर्थ। प्रकृतिमण्डले अरिमित्रादौ एकान्तरान् राज्ञ तृतीयदेशस्थितान् अनन्तरान् नराश्च निजमण्डलसमीपवर्तिन शत्रुभू तान् राज्ञश्चनेमिंचक्रधारा कृत्वा आत्मान स्वनाभिं प्रायच्छेत् कुर्यात्। रूपकालकार॥

इम श्लोक कथभूतम्। अखिलावापभागप्रवृत्तिहेतुकम् अखिलो योऽसौ आवाप परमण्डलचिन्ता तया भागप्रवृत्ते भागकरणस्य हेतुक हेतुभूतम्।

अष्टशाखमित्यादि। य पुमान् वृक्ष जानाति स पुमान् नीतिवित् नीतिशास्त्रज्ञो भवति। कथभूत वृक्षम्। अष्टशाखम् अरिविजिगीषुमध्यमोदासीनाना प्रत्येक अरिमित्राभ्या सबन्धात् अष्टशाखम्। पुन कथभूत वृक्षम्। चतुर्मूलम् चत्वारि सामदानभेददण्डलक्षणानि मूलानि यस्य स चतुर्मूलस्तम्। पुन कथभूत वृक्षम्। षष्टिपत्रम् षष्टिस्तिस्त्रो विंशतय पत्राणि पर्णानि यस्य स षष्टिपत्रस्तम्। अरि १ विजिगीषु २ स्वमित्रमित्रेण सह ३ अरिमित्रम् ४ स्वमित्रेण सह ५ अरिमित्र ६ आक्रन्दकेन सह ७ पार्ष्णिग्राहासारेण सह ९ आक्रन्दनाना सारं १० द्वौ मध्यस्थौ इति द्वादश ११ अमात्य १ राज्य २ दुर्ग ३ कोश ४ बल ५ एतै पञ्चभिर्गुणिता द्वादश इति षष्टि पत्र भवति ६०। पुन कथभूत वृक्षम्। द्वये स्थित दैवपौरुषयो स्थितम्। पुन कथभूत वृक्षम्। षट्पुष्प सधिविग्रह यान आसन सश्रय द्वैधीभाव इति षट्‌पुष्पम्। त्रिफल स्थान क्षयो वृद्धिरिति त्रिफलम्। रूपकालकार॥

विना जीवितमस्वस्थे यथौषधविधिर्वृथा।
तथा नीतिविहीनस्य वृथा विक्रमवृत्तय.॥२६०॥

** कदाचित्कामिनीजनचरणालक्तकरसरागरञ्जितरङ्गतलासु नाठ्यशालासु**

भाल लोचनचारु मूर्ध्नि विकट यस्या जटामण्डलं
बालेन्दु श्रवणावतसविषय. क्रीडा सर सभवा।
काय केतकपुष्पगर्भसुभग. स्थान सिते चाम्बुजे
सा व पातु सरस्वती स्मितमुखव्याकीर्णवर्णा

वलि॥२६१॥

——————

विना जीवितमित्यादि। अस्वस्थे रोगग्रस्ते पुरुषे जीवित विना आयुर्बल विना औषधविधिश्चिकित्साविधिर्यथा न भवति तथा तेन प्रकारेण नीतिविहीनस्य नीतिरहितस्य पुरुषस्य विक्रमवृत्तयो वृथा। दृष्टान्तालकार॥

कदाचित् कस्मिंश्चिदवसरे नाट्याशालासु नृत्यगेहेषु नृत्त भरतपुत्रै सत्रा नर्तकाचार्यै सम अह अवलोकयामास अह विलोकितवान्। कथभूतासु नाट्याशालासु।कामिनीजनचरणालक्तकरसरागरञ्जितरङ्गतलासु कामिनीजनाना वेश्याना चरणाना याेऽसावलक्तकरसो लाक्षारस। यावक इति यावत्। तस्य रागेण रञ्जित रक्तीकृत रङ्गस्य भूमिविशेषस्य तल पृष्ठ यासा नाट्यशालाना तास्तथोक्तास्तासु। उक्त च—‘अधस्वरूपयोरस्त्रीतल पृष्ठ च। पेटे वितस्तौ तलस्तालश्च।’ कथ भूतैर्भरतपुत्रै। नाट्यविद्याधरताण्डवचण्डीशप्रमुखनर्तकशिरोमणिभि नाट्यविद्याधरश्च ताण्डवचण्डीशश्च तौ प्रमुखौ मुरयौ येषा ते नाट्यविद्याधरताण्डवचण्डीशप्रमुखा ते च ते नर्तकाचार्या तेषा रोमणय शिरोरत्नानि तै। पुन कथभूतै। अन्तर्वाणिभि शास्त्रविद्भि। ‘अन्तर्वाणिस्तु शास्त्रवित्’ इति। पुन कथभूतै। प्रयोगभङ्गीविचित्राभिनयतन्त्रै प्रयोगा नृत्यप्रयुक्तयस्तेषा भङ्गी रचना तस्या विचित्रा नानाप्रकारा ये अभिनया वाचिकाङ्गिकाहार्यसात्त्विकारयभावसूत्रका तेषा तन्त्र शास्त्र येषु भरतपुत्रेषु ते तथा तै। कथभूत नृत्तम्। ते अमुना प्रकारेण पूर्वरङ्गपूजाप्रक्रमप्रवृत्त पूर्वरङ्गपूजाया नाट्यप्रारम्भपूजाया प्रकमेप्रारम्भे प्रवृत्त सजातम्। पुन कथभूतम्। सरस्वतीस्तुतिवृत्तम्।

इतीति किम्। भालमित्यादि। सा सरस्वती व युष्मान् पातु रक्षतु। सा का। यस्या सरस्वत्या भाल ललाटपट्ट लोचनचारु नेत्रतृतीयेन मनोहरम्। यस्या सरस्वत्या मूर्ध्नि मस्तके जटामण्डल वर्तते लग्नकचसघातोऽस्ति। कथभूत जटामण्डलम्। विकटमुन्नतम्। यस्या सरस्वत्या बालेन्दु द्वितीयाचन्द्र प्रतिपच्चन्द्रो वा श्रवणावतसविषय कर्णपूर गाेचर। यस्या सरस्वत्या क्रीडा क्रीडनानि जलमञ्चनानि सर सभवा सरोवरस मुत्पन्ना। यस्या काय शरीर केतकपुष्पगर्भसुभग केतक्या इद केतक तच्च तत्सुष्प तस्यगर्भो मध्यभाग तद्वत्सुभगो मनोहर। यस्या स्थान निवास सिते उज्ज्वले

एक ध्यानपरिग्रहप्रणयिन हस्त द्वितीय पुन-
र्लीलाङ्गुष्ठनिवेशिताक्षवलय पुस्तप्रशस्त परम्।

बिभ्राणा वरद तुरीयमुचिता देवी त्रिलोकस्तुते
पुष्याद्व कवितालतावलयित सकल्पकल्पद्रुमम्॥२६२॥

धृतधवलदुकूला चन्दनस्यन्दशीला
सितसरसिजलोला हारभूषासराला।
नमदमरनिरीटाप्रत्नरत्नप्रसर्प
त्किरणकुसुमकीर्णा वर्णिनी बोऽस्तु भूत्यै॥२६३॥

————————

अम्बुजे कमले वर्तते। कथभूता सरस्वती। स्मितमुखव्याकीर्णवर्णावलि स्मितमीषद्विक सितयन्मुख वदन तत्र व्याकीर्णा विक्षिप्ता वणावलिरक्षरपड्क्तिर्यस्या सा तथोक्ता। समुञ्चयालकार॥

एकमित्यादि। देवी प्रस्तावात् सरस्वती परमेश्वरी वो युष्माक संकल्पकल्पद्रुम वाञ्छित कल्पवृक्ष कवितालतावलयित कवितावल्लीवेष्टित पुष्यात् पुष्टिं नयतु। वाञ्छित पूरयत्वित्यर्थ। देवी कि कुर्वाणा। एक हस्त उपरितन वामहस्त ध्यानपरिग्रहयिन ध्यानस्वीकारत्नेहिनम्। अड्गुष्ठतर्जनीसयोगेन बद्धस्फटिक बिभ्राणा धरन्ती। पुनश्चकि कुर्वाणा। द्वितीय हस्त पुनरुपरितन दक्षिणकर लीलाङ्गुष्ठनिवेशिताक्षवलयम् लीलया अड्गुष्ठे निवेशित आरोपित अक्षवलय अर्ककान्तमणिजपमाला यस्मिन् हस्ते स तथा त बिभ्राणा घरं कुर्वाणा। पर हस्त अधस्तन द्वितीय वाम हस्त पुस्तप्रशस्त प्रशसनीय हस्त बिभ्राणा। देवी पुन किं कुर्वाणा। तुरीय चतुर्थ हस्त अधस्तन द्वितीय दक्षिणकर वरद वरदानसमुद्र बिभ्राणा। कथभूता देवी। त्रिलोकस्तुते त्रैलोक्यस्थितभक्तजनेन्द्रादिदेवतास्तवनस्य उचिता योग्या। दीपकालकार॥

** धृतधवलदुकूलेत्यादि।** वर्णा अक्षराणि विद्यन्ते यस्या सा वर्णिनी देवी सरस्वती वो युष्माक भूत्यै ऐश्वर्याय अस्तु भवतु। कथभूता वर्णिनी। धृतधवलदुकूला धृत स्वीकृत धवलमुज्ज्वल दुकूल पट्टवस्त्र यया सा घृतधवलदुकूला। स्वीकृतप्रावारराजो ज्ज्वलवस्नेत्यर्थ। पुन कथभूता वर्णिनी। चन्दनस्यन्दशीला चन्दनस्य हरिचन्दनस्य। परमाेत्तमचन्दनस्य द्रव चन्दनमुच्यते। तस्य स्यन्द क्षरण प्रच्यवन तस्मिन् शील स्वभावो यस्या सा चन्दनस्यन्दशीला। पुन कथभूता। सितसरसिजलोला सितसरसिजेषु उज्ज्वलकमलेषु लोला देवार्चनक्रीडाकरणार्थ साकाङ्क्षा। पुन कथभूता। हारभूषास न राला हारभूषाभिर्मुक्तामालाभिस्ततस्तस्या सराला अपर्यन्ता। पुन कथभूता। नमदमरनिरीठाप्रण..रत्नप्रसर्पत्किरणकुसुमकीर्णा नमन्त प्रह्रीभवन्तो ये अमरा इन्द्रादयो

स्वर्गेसदा वदनपद्मनिवासहसी
विद्याधरश्रवणमण्डनरत्नरेखा।

भूवासमानसविभूषणहारयष्टि
र्वाग्देवता नृप तवातनुता हितानि॥२६४॥

सध्यासु प्रतिवासर श्रुतिधृतिर्बद्धा प्रमाणाञ्जलिं
योगस्वापमुपेत्य दुग्धजलधौ शेषाश्रित श्रीपति।
शभुर्ध्यायति चाक्षसूत्रवलय कृत्वा करेऽनन्यधी
र्देवि त्वत्पदपङ्कजद्वयमिद सर्वार्थकामप्रदम्॥२६५॥

भावेन द्रुहिणै रसेन हरिभिर्नृत्येन कामारिभि-
र्वर्ण्यासिद्धजनैर्नभश्चरगणैर्वृत्त्या प्रवृत्त्या सुरै।

———————

देवास्तेषा निरीटानि त्रिशिखमुक्तानि प्रत्नानि यानि रत्नानि अप्रत्नानि तेभ्य प्रसर्पन्त प्रसरन्तो ये किरणा रश्मयस्त एव कुसुमानि पुष्पाणि तै कीर्णा व्याप्ता। अतिशयालकार॥

स्वर्गेसदामित्यादि। हे नृप हे राजन्, वाग्देवता सरस्वती तव भवत हितानि वाञ्छितानि आतनुता विदधातु। कथभूना वाग्देवता। स्वर्गेसदा वदनपद्मनिवासहसी स्वर्गेसदा देवाना वदनपद्माना मुखकमलाना निवासे बसतिकरणे हसी राजहसी वर्तते। पुन कथभूता वाग्देवता। विद्याधरश्रवणमण्डनरत्नरेखा विद्याधराणा वियद्गामिना श्रवणाना श्रुतीना मण्डने भूषणार्थेरत्नरेखा माणिक्यपड्लि। पुन कथभूता। भूवासमानसविभूषणहारयष्टि भूवासाना भूमिगोचराणा मानसविभूषणे हृदयमण्डने हारयष्टि मुक्तामाला वर्तते। रूपकालकार॥

सध्यास्वित्यादि। इद प्रत्यक्षीभूत त्वत्पदपङ्कजद्वय त्वच्चरणकमलयुगल प्रतिवासरं दिन दिन प्रति सध्यासु पूर्वासु पूर्वाह्नमध्याह्नसध्याकालेषु श्रुतिधृति ब्रह्मा प्रमाणाञ्जलि बद्धाकरपोटन कृत्वायोगस्वाप उपेत्य ध्याननिद्रा प्राप्य ध्यायति त्वाम्। श्रीपतिर्नारायण दुग्धजलधौ क्षीरसागरे शेषाश्रित शेषनागाश्रितो नागशय्यामारूढ ध्यायति। शभुर्महादेवश्चअक्षसूत्रवलय करे कृत्वाजपमाला हस्ते धृत्वा ध्यायति। कथभूत श्रुतिधृति श्रीपति शभुश्च। अनन्यधी एकाग्रचित्त। कथभूत त्वत्पदपङ्कज द्वयम्। सर्वार्थकामप्रदम् सर्वे च ते अर्था धनानि कामाश्च स्त्रीभोगा तान् प्रददाति प्रयच्छतीति सर्वार्थकामप्रदम्। समुच्चयदीपकरूपकातिशयालकार॥

भावेनेत्यादि। हे देवि हे सरस्वति, त्व भवती वर्ण्यावर्णनीया असि द्रुहिणैर्ब्रह्यकविविशेषैश्चभावेन एकोनपश्चाशद्भावसमूहेन। वर्ण्यभाव इत्यत्र जासपेक्षया एकवचन

सिध्द्या चारणमण्डलैर्मुनिकुलैस्त्व देवि सप्तस्वरै-
रातोद्येन च नन्दिभि कृतनुतिर्गानेन गन्धर्विभि॥२६६॥

नासावर्थो न तच्चित्त न ताश्चेष्टा शरीरिणाम्।
पदद्वयाङ्कित देव्या यन्नेह भुवनत्रये॥२६७॥

मानससरोविनिर्गतसितसरसिरुहस्थिते सरस्वत्या।
वरवर्णकीर्णकान्ति पुष्पाञ्जलिरस्तु रङ्गपूजायै॥२६८॥

इति पूर्वरङ्गपूजाप्रक्रमप्रवृत्त सरस्वतीस्तुतिवृत्त नृत्त नाट्यविद्याधरताण्डवचण्डीशप्रमुखनर्तकशिरोमणिभिरन्तर्वाणिभि प्रयोगभङ्गीविचि- त्राभिनयतन्त्रैर्भरतपुत्रै सत्रमवलोकयामास।

———————

ज्ञातव्यम्। हरिभिनारायणै कविविशेषैस्त्व वर्ण्या। केन। रसेन शृङ्गारादिना रसेन, कामारिभिरुद्रैकविविशेषैश्चनृत्येन शिरोभ्रूलोचनग्रीवादिसर्वाङ्गनृत्यविशेषेण वर्ण्यावर्णनीया। नभश्चरगणै सिद्धजनै देवविशेषसमूहै सिद्धनामकविसमूहैश्च त्व वर्ण्या। कया। वृत्त्या प्रवतनेन। तथा सुरैर्देवै सुरनामकविविशेषैश्च। प्रवर्तनेन त्व वर्ण्याप्रवृत्त्या चारणमण्डलै आकाशगामिभिश्चारणसमूहै सिद्ध्या मनोवाग्देवसिद्धिसमूहेन त्ववर्ण्या। मुनिकुलै ज्ञानिसमुहै मुनिकुलनामभि कविविशेषैश्च सप्तस्वरै ‘निषादर्षभगान्धारषड्जधैवतमध्यमा। पञ्चमश्चेतिसप्तैते तन्त्रीकण्ठोत्थिता स्वरा॥’ इति श्लोककथितै सप्तभि स्वरैस्त्व वर्ण्या। सारिगमपधनि इति सप्तभि स्वरैर्वा त्व वर्ण्यावर्णनीया। नन्दिभिरष्टाभि रुद्रगणै कविविशेषैश्व आतोद्येन ततविततघनसुषिरनामकेन चतुर्विधवादित्रेण त्व वर्ण्या। गन्ध र्विभि नारदतुम्बरुप्रभृतिभि कविविशेषैश्च गानेन गीतेन कृतनुतिर्विहितस्तुतिर्वर्तते। दीपकलकार। समुच्चयश्च॥

नासावित्यादि। असौ प्रत्यक्षीभूत अर्थ पदार्थ जीवादिक वस्तु न वर्तते। तज्जगत्प्रसिद्ध चित्त मनश्च न वर्तते। ता जगत्प्रसिद्धाश्चेष्टा शरीरिणा क्रिया न वर्तन्ते। तत् किम्। यत् इह अस्मिन् भुवनत्रये भूर्भुव स्वस्त्रये देव्या सरस्वत्या पदद्वयाङ्कित स्थेत्यादिलक्ष (१) चरणद्वयचिह्नित न वर्तते। अतिशयालकार॥

** मानससरोविनिर्गतेत्यादि।** सरस्वत्या भारतीदेव्या रङ्गपूजायै नर्तनस्थानपूजननिमित्त पुष्पाञ्जलिरस्तु भवतु। कथभूताया सरस्वत्या। मनससरोविनिर्गत सितसरसिरुह शुक्लकमल तस्मिन् स्थिति स्थान यस्या सा तथोक्ता तस्या। कथभूता पुष्पाञ्जलि। वरवर्णकीर्णकान्ति वरा मनोहरा वर्णा श्वेतपीतहरितरक्तादयस्तै कीर्णा व्याप्ता कान्ति यस्य स तथोक्त। रूपकालकार॥

आसाद्य लक्ष्मी श्रुतिदृष्टिभाजो न सन्ति येषा भरतप्रयोगा।
तेषामिय श्रीर्मृतकाङ्गशोभासमानवृत्तिश्च निरर्थिका च॥२६९॥

** कदाचिदुद्धाटितसरस्वतीरहस्यमुद्राकरण्डेषु महाकविकाव्यकथाकाण्डेषु**

ब्रह्माण्डमण्डपमहोत्सवपौरुषस्य
लक्ष्मी स्वयवरविधौ विहितादरा यत्।
चित्र न तत्कृतजगत्त्रयरक्षणस्य
कीर्तिप्रिया भ्रमति यत्तव तन्नु चित्रम्॥२७०॥

———————

आसाद्येत्यादि। येषा पुरुषाणा राज्ञा भरतप्रयोगा गीतनृत्यवादित्रोदाहरणानि श्रुतिदृष्टिभाज कर्णेन्द्रियलोचनेन्द्रियगोचरा सन्ति न भवन्ति। कि कृत्वा। पूर्व लक्ष्मीमासाद्य श्रिय प्राप्य। तेषा राज्ञा धनवता पुरुषाणा च इय प्रत्यक्षीभूता श्रीर्लक्ष्मीर्मृतकाङ्गशोभासमानवृत्तिश्रीर्भवति मृतकस्य जीवरहितकलेवरस्याङ्ग शरीर तस्य शोभा पुष्पचन्दनाभरणादिरचना तस्या समानवृत्तिर्भवति। न केवल मृतकाङ्गशोभासमानवृत्ति श्रीर्भवति, किंतु निरर्थका निष्फला च भवति। उपमालकार॥

कदाचित् कस्मिंश्चिदवसरे महाकविकाव्यकथाकाण्डेषु महाकवीना काव्यकथाकाण्डेषु काव्याना कथाप्रस्तावेषु पण्डितवैतण्डिकस्य कवे पण्डितवैतण्डिकनामविदुष अस्वर्वगवैपर्वतभार अखर्वो महान् योऽसौ गर्वोऽहकार स एव पर्वत काठिन्यप्रकृतित्वात् तस्य भारो भरस्त अखर्वगर्वपर्वतभार अवारुरुह अवरोहितवान्। अह उत्तारितवानि त्यर्थ। पण्डितवैतण्डिकगर्व भञ्जितवानहमित्यर्थ। कथभूतेषु महाकविकाव्यकथा काण्डेषु। उद्धाटितसरस्वतीरहस्यमुद्राकरण्डेषु उद्धाटित उन्मुद्रित सरस्वत्या सबन्धी रहस्यमुद्रोपलक्षित गोप्यतत्त्वचिह्नसहित करण्ड पेटिका येषु ते तथा तेषु। कि कुर्वत पण्डितवैतण्डिकस्य। प्रस्तावमविज्ञाय अवसरमज्ञात्वा इति ईदृशानि काव्यानि पठत उच्चारयत कृतावहेलस्य विहितानादरस्य।

इतीति किम् ब्रह्माण्डेत्यादि। हे राजन्, यत्तव भवतो लक्ष्मी श्री स्वयवरविधौ स्वयवरविधाने स्वयमेवागत्य वरणे विहितादरा कृतादरा वर्तते तच्चित्र आश्चर्य न वर्तते। कथभूतस्य तव। ब्रह्माण्डमण्डपमहोत्सवपौरुषस्य ब्रह्माण्डमण्डप परिणयनशाला। जनोऽर्थ इति यावत्। तस्य महोत्सवे महद्धर्षे पौरुष वरत्व यस्य स तथा तस्य। तच्चित्र न भवति, तर्हि किं चित्रम्। यत् तव कीर्तिप्रिया भ्रमति पर्यटति। नु इति वितर्के। तच्चित्र तदाश्चर्ये वर्तते। कथभूतस्य तव। कृतजगत्त्रयरक्षणस्य कृत विहित जगत्त्रयस्य त्रैलोक्यस्य रक्षण प्रतिपालन येन स तथा तस्य। हेत्वलकार॥

हरगिरयन्ति महीध्राक्षीरोदधयन्ति वार्धय सर्वे।
तव देव यशसि विसरति सौधन्ति जगन्ति च त्रीणि॥२७९॥

गिरिषु घृता भूमिभृत पृथ्वीभारश्च निजभुजे निहित।
को नाम बलेन नृप त्वया सम साप्रत भुवने॥२७२॥

** इति प्रस्तावमविज्ञाय पठत कृतावहेलस्य पण्डितवैतण्डिकस्य कवे**

सकलकविलोकचक्रप्रमर्दन ख्यात एव भुवनेऽस्मिन्।
कथमिह सप्रति भवता समागतो नावबुध्द्येऽहम्॥२७३॥

** इति कथचित्कट्वद वदत**

त्रिमूलक द्विधोत्थान पञ्चशाख चतुश्छदम्।
योऽग वेत्ति नवच्छाय दशभूमिं स (च) काव्यकृत्॥२७४॥

———————

** हरगिरयन्तीत्यादि।** हे राजन्, तव यशसि विसरति प्रसरति महीध्रापर्वता हरगिरयन्ति कृष्णा अपि पर्वता कैलासगिरिवदाचरन्ति उज्ज्वला भवन्ति। सर्वेऽपि वार्धय लवणोदकादय समुद्रा क्षीरोदधयन्ति क्षीरोदधिरिव आचरन्ति। कृष्णा अपि शुक्ला जायन्त इत्यथ। त्रीणि जगन्ति च त्रीणि भुवनानि च सौधन्ति सुधावलि तानिवाचरन्ति। क्रियोपमालकार॥

गिरिष्वित्यादि। हे नृप हे राजन्, भुवने जगति साप्रतमिदानीं बलेन त्वया सम को नाम वर्तते। अपि तु न कोऽपि। येन त्वया भूमिभृत पर्वता पक्षे राजान गिरिषु पर्वतेषु धृता आरोपिता, पृथ्वीभारश्च भूमिभारो निजभुजे स्वकीयदक्षिणकरे निहित आरोपित श्लेषाक्षेपालकार॥

पण्डितवैतण्डिकस्य कि कुर्वत। इति ईदृश कथचिन्महता कष्टेन कट्वद कटुवचन वदतो व्यक्त जल्पत।
इतीति किम् \। सकलेत्यादि। हे राजन्, इह अस्या सभाया सप्रतीदानीं समागत सप्राप्त भवता त्वया अह कथ केन प्रकारेण नावबुध्द्येकथ न जानीया। कथभूतोऽहम्। अस्मिन् भुवने पृथ्वीमण्डले ख्यात एव। पुन कथभूतोऽहम्। सकलकविलोकचक्रप्रमर्दन सकलाश्च ते कविलोका कविसमूहास्तेषा चक्र समूहस्तत्प्रमर्दयामि चूर्णीकरोमि इति सकलकविलोकचक्रप्रमर्दन। उपमारूपकमिदम्॥

केन कृत्वा अखर्वगर्वपर्वतभारमवारुरुहम् अखर्वगर्वपर्वतभारमवारितवान्। इति ईदृशस्य अस्य प्रत्यक्षीभूतस्य लोकस्य अर्थकथनानुनाथनाशयशयेन अर्थस्य वाच्यस्य कथन व्यावृतिर्व्यारयान तस्य आनुनाथन याचनम्। प्रश्न इत्यर्थ। तस्याशयोऽभिप्राय स एव शयो हस्तअर्थकथनानुनाथनाशयशयस्तेन।

इतीति किम्। त्रिमूलकमित्यादि। य पुमान् अग वृक्ष वेत्ति जानाति स पुमान्

इत्यस्यार्थकथनानुनाथनाशयशयेनाखर्वगर्वपर्वतभारमवारुरुहम्।

राजन्नशेषविषयातिशयप्रसूतौ
येषा महाकविकृतौ न मनीषितानि।
तेषा श्रुती च रसना च मनश्च मन्ये
वाग्देवताविहितशापमिवेश्वराणाम्॥२७५॥

**
कदाचिन्नियतवृत्तिवर्णपदप्रयोगानुबद्धशुद्धमिश्रिताशेषभाषाप्रकाशितप्रतिभेषु पण्डितप्रकाण्डमण्डलीमण्डनाडम्बरगीर्गुम्फसरम्भेषु जिनजैमिनिक-**

———————

काव्यकृत् कविरुच्यते। कथभूतमगम्। त्रिमूलकम्। पुन कथभूतमगम्। द्विधोत्थान श ब्दार्थलक्षणद्विधोत्थानम्। प्रचुरा प्रौढापरुषा ललिता भद्राभिवृत्तिभि पञ्चशाखम् चतुश्छद चत्वारश्छदा पर्णानि यस्य स चतुश्छदस्तम्। तथा हि—‘द्वित्रिपदा पाञ्चाली लाटीया पञ्च सप्त वा यावत्। शब्दा समासवतो भवति।’ ‘यथाशत्त्किगौडीया असमस्तपदा वैदर्भी रिति चतुश्छदम्। पुन कथभूतमगम्। नवच्छायम्। ‘शृङ्गारवीरकरुणहास्याद्भुतभयानका। रौद्रबीभत्सशान्ताश्चनवैते निश्चिता बुधै॥’ पुन कथभूतमगम्। दशभूमिम्। ‘औदार्यसमताकातिरर्थव्यक्तिप्रसन्नता। समाधि श्लेष ओजश्च माधुर्यसुकुमारता॥’ इति श्लोककथितै दशभिर्गुणै दशभूमिम्। समुच्चयालकार ॥

राजन्नित्यादि। हे राजन्, येषा नरेन्द्राणा महाकविकृतौ महाकविकाव्ये मनीषितानि मनोरथा न भवन्ति तेषा ईश्वराणा नरेन्द्राणा श्रुती द्वौ कर्णौ रसना च जिह्वा मनश्च चित्त वाग्देवताविहितशापम्। कथभूताया महाकविकृतौ। अशेषविषयातिशय प्रसूतौ अशेषाश्च ते विषया शब्दा रसा अस्फुटसुखादिलक्षणास्तेषा अतिशयो भरस्तस्य प्रसूतिरुत्पत्तिर्यस्या महाकविकृतौ सा तथोक्ता तस्याम्। उत्प्रेक्षालकार॥

कदाचित् कस्मिंश्चिदवसरे पण्डितप्रकाण्डमण्डलीमण्डनाडम्बरगीर्गुम्फसरम्भेषु प्रशस्ता पण्डिता पण्डितप्रकाण्डा तेषा मण्डली समूहस्तस्या मण्डन आभरणप्राय आडम्बरेण शब्दानामाटोपेन योऽसौ गीर्गुम्फ उपन्यासस्तस्य सरम्भेषु प्रारम्भेषु परस्परमसहनतया विवादेषु विदुष्विणो111 विद्वासो विद्यन्ते यासा परिषदा ता विदुष्विण्यस्तासा विदुष्विणीना परिषदा सभाना तार्किकसमूहाना चित्तभित्तिषु मनोवेदिकासु आत्मयश प्रशस्ती निजयश प्रसिद्धी उल्लिलेख उत्कीर्णितवानहम्। कथभूतेषु पण्डितप्रकाण्डमण्डलीमण्डनाडम्बरगीर्गुम्फसरम्भेषु। नियतवृत्तिवर्णपदप्रयोगानुबद्धशुद्धमिश्रिताशेषभाषांप्रकाशितप्रतिभेषु वृत्तिश्च समास, वर्णाश्च अक्षराणि, पदानि च सुप्तिडन्तादीनि प्रातिपदिकानि, नियतानि मर्यादीभूतानि यानि वृत्तिवर्णपदानि तेषा प्रयोगा उच्चार-

पिलकणचरचार्वाकशाक्यप्रणीतप्रमाणसवीणतया विदुष्विणीना परिषदा चित्तभित्तिष्वात्मयश प्रशस्तीरुल्लिलेख।

यथास्त्ररहिते पुसि वृथा शौर्यपरिग्रह।
तथोपन्यासहीनस्य वृथा शास्त्रपरिग्रह॥२७६॥

स्फुरन्त्यपि मन सिन्धौ शास्त्ररत्नान्यनेकश।
वचोगुणविहीनानि भूषयन्ति न सन्मन॥२७७॥

विद्याना स्फुरित प्रीत्यै स्त्रीणा लावण्यवद्बहि।
अन्तर्भवतु वामा वा किं विचारैरतीन्द्रियै॥२७८॥

———————

णानि तेषु अनुबद्धा गुम्फिता या शुद्धा केवला मिश्रिता परस्परमिलिता अशेषा समस्ता भाषा संस्कृत प्राकृत सूरसेनी मागधी पैशाची चूलिकापैशाची अपभ्रशलक्ष णास्ताभि प्रकाशिता प्रकटीकृता प्रतिभा बुद्धिर्येषु गीर्गुम्फसरम्भेषु ते तथोक्तास्तेषु। कया कृत्वा आत्मयश प्रशस्तीरुल्लिलेख। जिनजैमिनिकपिलकणचरचार्वाकशाक्यप्रणीतप्रमाणसवीणतया जिनश्च अर्हन्, जैमिनिश्च भट, कपिलश्च सारय, कणचर अक्षपाद शिवमतानुचारी, चार्वाकश्च नृवाकूशिष्यनास्तिक कौलिक। कुलाचार्य इति यावत्। शाक्यश्च बुद्ध, तै प्रणीतानि उपकथितानि यानि प्रमाणानि वस्तुसकलादेशास्तेषु सवीण प्रवीण। निपुण इति यावत्। जिनजैमिनिकपिलकणचरचार्वाकशाक्यप्रणीतप्रमाणसवीणस्तस्य भावस्तत्ता तया। एतेषा प्रमाणेषु निपुणत्वश्रीयशोधरमहाराजस्य वर्तते। कानि तानि जिनादीना प्रमाणानि इत्याह— जिनदर्शने प्रत्यक्ष परोक्ष चेति, प्रमाणद्वय, जैमिनिदर्शने प्रत्यक्षमनुमानमुपमानमागमोऽर्थापत्तिरभावश्चेति षट् प्रमाणानि, कपिलदर्शने प्रत्यक्षानुमानशब्दा इति त्रीणि प्रमाणानि, कणचरदर्शने वैशेषिकदर्शने च प्रत्यक्षमनुमानमागमश्चेति त्रीणि प्रमाणानि, चार्वाकदर्शने प्रत्यक्षमेकमेव प्रमाणम्, शाक्यदर्शने प्रत्यक्षमनुमान चेति द्वे प्रमाणे। तद्विस्तरस्तु न्यायकुमुदचन्द्रोदये ज्ञातव्य॥

** यथेत्यादि।** यथा येन प्रकारेण अस्त्ररहिते खड्गाद्यायुधवर्जिते पुसि सुभटपुरुषे शौर्यपरिग्रह शूरत्व वृथा निरर्थको भवति। तथा तेनैव प्रकारेण उपन्यासहीनस्य वाग्विन्यासविरहितस्य विदुष शास्त्रपरिग्रह अनेकशास्त्रेषु प्रवीणत्व वृथा निरर्थको भवति। दृष्टान्तालकार॥

** स्फुरन्तीत्यादि।** मन सिन्धौ मन समुद्रे अनेकश अनेकानि शास्त्राणि एव रत्नानि स्फुरन्त्यपि चमत्कुवन्त्यपि वचोगुणविहीनानि उपन्यासगुणरहितानि सन्मन सता हृदय न भूषयन्ति। रूपकालकार॥

** विद्यानामित्यादि।** स्त्रीणा बहिर्लावण्यवत् बाह्यकान्तिवत् यथा स्त्रीणा लावण्य कामिना प्रीतये भवति तथा विद्याना बहि स्फुरित विदुषा प्रीतये भवति। अन्तर्मध्ये

श्रीमान्विधे प्रसादेन य सत्सु न कृतादर।
अरण्यकुसुमानीव नीरर्थास्तस्य सपद॥२७९॥

आससार यश कर्तुं चतुर्वर्गंतु वेदितुम्।
येषु वाञ्छास्ति ते भूपा कुर्वन्ति कविसग्रहम्॥२८०॥

** कदाचिदनायासप्रवृत्तरथचरणनेमिषु करिविनयभूमिषु**

सम गात्रैस्तिष्ठ प्रतिहर कर छिद्ररहित
शिर पुत्रोन्नम्य स्ववहितमना स्वर्पय मुखम्।
तत कल्याणाङ्ग श्रवणयुगल हर्षय गज
ब्रुवे यावन्मात्राशतमिदमह वर्णविघये॥२८९॥

———————

विद्याना स्फुरित स्त्रीणा लावण्य च भवतु वा मा वा भवतु। अतीन्द्रियैश्चक्षुरादीनामगो चरैर्विचारै किम्। न किमपि। उपमाक्षेपालकार॥

** श्रीमानित्यादि।** विधे प्रसादेन पुण्यस्योदयेन य श्रीमान् लक्ष्मीवान् पुमान् सत्सु कृतादरो न भवति तस्य पुरुषस्य ता सपदो लक्ष्म्यो निरर्था निष्फला भवन्ति। किवत्। अरण्यकुसुमानीव अरण्यपुष्पाणीव। उपमालकार॥

** आससारमित्यादि।** येषु भूपेषु आससारं ससारपर्यन्त यश कर्तु कीर्ति विधातु वाञ्छा आकाङ्क्षा अस्ति विद्यते, न केवल यश कर्तुवाञ्छास्ति, कि तु पुन चतुर्वर्गधर्मार्थकाममोक्षलक्षण वेदितु ज्ञातु वाञ्छास्ति, ते भूपास्ते राजान कविसग्रह महाक विस्वीकार कुर्वन्ति विदधति। जात्यलकार॥

कदाचित् कस्मिंश्चिदवसरे इतिपाठपरायण ईदृशपाठतत्पर सन्नह स्वयमेव आत्मनैव गृहीतवेणु गृहीतवशयष्टि वारणान् अह विनिन्ये शिक्षितवानहम्। कासु (विषये)। करिविनयभूमिषु गजशिक्षाभूमिषु। कथभूतासु करिविनयभूमिषु। अनायासप्रवृत्तरथचरणनेमिषु अनायासेन सुखेन प्रवृत्ता सचलिता रथचरणाना स्यन्दनचक्राणा नेमयो धारा यासु तास्तथोत्त्कास्तासु।

इतीति किम्। कीदृशपाठपरायणोऽहम्। सम गात्रैरित्यादि। हे पुत्र। पुत्रेति कोमलालापे। हे गज हे गजेन्द्र, सम साधु यथा भवत्येव गात्रै तिष्ठ। उत्त्कच—द्वौ सम पश्चात् जङ्घादिदेशो गात्राचारक्रमात्,तथा च—‘गात्रमङ्गशरीरयो’। गजस्य अप्रदेशो गात्रमुच्यते। हे पुत्र, त्वकर शुण्डादण्ड प्रतिहर सकोचय वेष्टय। कथ भूत करम्। छिद्ररहित निश्छिद्रम। हे पुत्र, शिरो मस्तक उन्नम्य उन्नत कृत्वा स्ववहि तमना मुख स्वर्पय सुष्ठु शोभन यथा भवत्येव अर्पय शुण्डादण्ड प्रवेशय। ततस्तदनन्तर शुण्डादण्डस्य मुखप्रवेशादनन्तरं हे कल्याणाङ्गमङ्गलसुलक्षणशरीर हे गज हे गजनाथ, श्रवणयुगल कर्णद्वय हर्षय उत्तालय। ईदृशया अवस्थया त्व कियत्काल तिष्ठ यावत्काल

** एवमशेषक्रियासौष्ठव,प्रतिष्ठाधिष्ठानाया शुभस्थापनायाम्। स्थिरस्थितसमस्ताङ्गसगर्भ, शिक्षावेक्षणाक्षुण्णान्त करणगर्भ, मरीचिमतङ्गमृगशर्मादिमहामुनिसमानीतदर्शितावलो- कितगृहीतध्यातनिश्चिताण्डकपालाददितिसुतप्रसूतिपूतान्तरालादुपासितुमायातगणपतिविलोकनप्रहितनयनेन तद्वदनानुरूपवपु सपादनसमाहितहृदयेन सप्तसामान्यभिगायता पितामहेन विहित-**

——————

इद प्रत्यक्षीभूत मात्राशतमिति शब्द ब्रुवे तावत्त्व तिष्ठ। किमर्थ ब्रुवे। वर्णविधये तव स्तुतिविधानाय। जात्यलकार॥

कस्मात्त्व तिष्ठ। शुभस्थापनाया शुभविशेषणम्। कथभूताया शुभस्थापनायाम्। एवममुना प्रकारेण हे अशेषक्रियासौष्ठव अशेषासु सकलासु क्रियासु चेष्टासु सौष्ठव एव समी चीनत्वयस्य स तस्य सबोधन हे तथोत्त्क, प्रतिष्ठाधिष्ठानाया प्रतिष्ठाया स्थिते अधिष्ठान अध्यासन यस्या शुभस्थापनाया सा प्रतिष्ठाधिष्ठाना तस्याम्। हे स्थिरस्थितसमस्ताङ्गसगर्भ स्थिरो निश्चल स्थित समस्ताना अङ्गाना अवयवाना सगर्भो मध्यो यस्य स तथा तस्य सबोधन हे तथोत्त्क। हे शिक्षावेक्षणाक्षुण्णान्त करणगर्भ शिक्षाया विनयस्य यदवेक्षण अवलोकन तेन अक्षुण्ण सपूर्ण अन्त करणगर्भ मनोमध्यो यस्य स तथा तस्य सबोधन हे तथोत्त्क। हे गज, पितामहेन विहितसकलसत्त्वातिशायिदेह पितामहेन ब्रह्मणा विहितो निर्मित सकलसत्त्वेभ्य अतिशायी अतिशयवान् देह शरीरं यस्य स तथा तस्य सबोधन हे तथोत्त्क। पितामहेन कस्माद्विहितशरीर। मरीचिमत

ड्गमृगशर्मादिमहामुनिसमानीतदर्शितावलोकितगृहीतध्यातनिश्चि- ताण्डकपालात् मरीचिश्च ऋषिविशेष, मतङ्गश्च ऋषिविशेष, मृगशर्मा च ऋषिविशेष, मरीचिमतङ्गमृगशर्माण आदिर्येषा अत्र्यादीना ते मरीचिमतङ्गमृगशर्मादय, ते च ते महामुनय बृहदृषय तैसमानीत ब्रह्मण समुखमानीतम्, तच्च दर्शित ब्रह्मचक्षुर्गोचरीकृतम्, तच्चअवलोकित पितामहेन दृष्टम्, तच्च गृहीत ब्रह्मणा स्वीकृतम्, तच्चध्यात ब्रह्मणा चिन्तितम्, तच्चनिश्चित ब्रह्मणा निर्णीतम्। ‘एव षड्विशेषणविशिष्ट यत् अण्डकपाल ब्रह्माण्डस्य कपाल अर्धस्तस्मात्। कथभूतात् अण्डकपालात्। अदितिसुतप्रसूतिपूतान्तरालात् अदितिसुत श्रीभास्कर तस्य प्रसूतिरुत्पत्ति तया पूत पवित्र अन्तराल मध्य यस्य ब्रह्माण्डार्धस्य तत्तथोत्त्कतस्मात्। कथभूतेन पितामहेन। उपासितु सेवितु आयातगणपतिविलोकनप्रहितनयनेन आयात आगतो योऽसौ गणपतिर्विनायक तस्य विलोकने दर्शने प्रहिते प्रेरिते नयने लोचने येन पितामहेन। पुन कथभूतेन पितामहेन। तद्वदनानुरूपवपु सपादनसमाहितहृदयेन तस्य गणपतेर्वदन तद्वदन तद्वदनस्य अनुरूप गणपतिवदनानुसार वपु शरीर तस्य सपादने निष्पादने समाहित सावधानीकृत हृदय येन स तथा तेन। पितामहेन कि कुर्वता। सप्तसामानि सप्तसामवेदवाक्यानि अभिगायता मन्दतया गान कुर्वता। हे

सकलसत्त्वातिशायिदेह, त्रिलोचनाच्युतविरञ्चिविरोचनचन्द्रचित्रभानुप्रभृतिभिर्देवताभि सबहुविस्मयमुदीरितपरस्परस्वागताभिरधिष्ठितोदारशरीरगेहनिखिलापरप्राणिगणावार्यवीर्य, दिविजकुजकुञ्जवज्रापातशौर्य, द्विजदेवगन्धर्वयक्षमहीक्षितामन्यतमसत्त्वपद, क्षोणीशमहामात्रकुलकल्याणपरम्पराफलवरद, द्विरद, हे हल, दिव्यसमाज, मात्राशत तिष्ठ तिष्ठ।

गात्रैस्तिष्ठ समै पुरोनखसम हस्त निघेहि क्षितौ
दृष्टिं देहि कराग्रत स्थिरमना कर्णौ गजाश्लेषय।

———————

देवताभिरधिष्ठितोदारशरीरगेह देवताभिर्देवविशेषै अधिष्ठित निवासीकृत उदारमतिशये न मनोहरमत्युन्नत वा शरीरगेह कायमन्दिर यस्य स तथा तस्य सबोधन हे तथोक्त। कथभूताभिर्देवताभि। त्रिलोचनाच्युतविरञ्चिविरोचनचन्द्रचित्रभानुप्रभृतिभि त्रिलोचनश्च श्री महादेव, अच्युतश्च श्रीनारायण, विरञ्चिश्च विधि, विरोचनश्च भास्कर, चन्द्रश्च रोहिणीकात, चित्रभानुश्च स्वाहावल्लभ, ते प्रभृतयो यासा यमराक्षसपवनादीना तास्तथोक्तास्ताभि। पुन कथभूताभिर्देवताभि। सबहुविस्मय बह्वाश्चर्येयथा भवत्येव उदीरि तपरस्परस्वागताभि उदीरित उक्तपरस्परं अन्योन्य स्वागत बहुमानो याभिस्तास्त थोक्तास्ताभि। हे निखिलापरप्राणिगणावार्यवीर्य निखिलै समस्तै अपरप्राणिगणै सहस्रभटलक्ष भटकोटिभटादिभि तुरगमहिषादिभिश्चअवार्येअनिवारणीय वीर्य शत्त्किर्यस्य स तथा तस्य सबोधन हे तथोक्त। हे दिविजकुजकुञ्जवज्रपातशौर्य दिविजकुजा कल्पवृक्षास्तेषा कुञ्जानि लतादिपिहितोदरास्तेषा वज्रपात अशनिपात तस्य सदृश शौर्य सौभठ्ययस्य स तथा तस्य सबोधन हे तथोक्त। हे द्विजदेवगन्धर्वयक्षमहीक्षितामन्य तमसत्त्वपद, द्विजाश्च परशुरामादय, देवाश्च इन्द्रादय, गन्धर्वाश्चहाहाहूहूप्रभृतय, यक्षाश्च धनदादय, महीक्षितश्च भीमभीष्मादयस्ते द्विजदेवगधर्वयक्षमहीक्षितस्तेषा द्विजदेवगन्धर्वयक्षमहीक्षिता सबन्धित्वेन अन्यतम कस्यचित् सबन्धि यञ्चसत्त्व साहस तस्य पद स्थान अन्यतमसत्त्वपद तस्य सबोधन हे तथोक्त। हे क्षोणीशमहामात्रकुलकल्याणपरम्पराफलवरद क्षोणीशाना महानरेन्द्राणा ये महामात्रा हस्तिपालास्तेषा कुलस्य अन्वयस्य कल्याणपरम्पराणा शुभश्रेणीना फलवर ददातीति तथोक्ततस्य सबोधनम्। हे द्विरद हे हस्तिन्, हे हे अहो अहो हे हल हे मित्र, हे दिव्यसमाज अमानुषगजेन्द्र मात्राशत बहुमात्रा यावत् तावत्त्व तिष्ठ तिष्ठ रह रह॥

** गात्रैरित्यादि।** हे गज, त्व समैरनिम्नोन्नतैर्गात्रै शरीरप्रतीकै तिष्ठ। पुरोनखसम अप्रनखसमान हस्त शुण्डादण्ड निधेहि स्थापय। कस्याम्। क्षितौ भूमौ। कराग्रत शुण्डाद ण्डाप्रत अङ्गुल्या दृष्टिं देहि। हे गज, स्थिरमना सन् कर्णौ त्वआश्लेषय निश्चलीकुरु। हे

वाल112 धारय वत्स यावदचिरान्मौन्यामह कल्पये
मात्राणा शतमास्वतावदचलस्त्व योगिकल्पाकृति॥२८२॥

** एव स्थापनाया यथास्थान गात्रापरकरनयनश्रवणवालदेशनिवेशेषु कुशल, समसमाहितनि स्पन्दसर्वदेशपेशल, समुन्मिषत्पूर्वजन्माभ्यस्तक्रियाकलापनैपुण्य, दमकलोकोपदिश्यमानविनयग्रहणप्रवण, निष्पन्नयोगीवावगणितोपान्ताहितकान्तवस्तुजात, महामुनिरिव रुचिरेतराहाराभ्यवहरणसुप्रसन्नस्वान्त, प्रातिशीन इवावधीरितोभयबन्धसबन्ध, दिव्यचक्षुरिवावितर्कितवि-**

———————

वत्स हे पुत्र, वाल पुच्छ धारय मा चालय। निश्चल कुर्वित्यर्थकियत्काल एव तिष्ठ। यावत् अह यशोधरमहाराज अचिरात् स्तोककालेन मौन्या स्थापन कल्पये पठामि। मात्राणा शत कालविशेषाणा सहस्रम्। बहुतरकालमित्यर्थ। तावत् त्व आस्वतिष्ठ। कथभूत सन् आस्व। अचलो निश्चल। पुन कथभूत सन्। योगिकल्पाकृति ध्यानस्थमुनिसदृशाकार। जात्यलकार, उपमालकारो वा॥

** एव स्थापनायामित्यादि।** एव स्थापनाया मौन्याया यथा स्थानानामनति क्रमेण हे गात्रापरकरनयनवालदेश [निवेशेषु ]

तेषा निवेशेषु स्थानेषु कुशल प्रवीण स तथा तस्य सबोधन हे तथोत्त्क। हे समसमाहितनि स्पन्दसर्वदेशपेशल समा अवक्रा समाहिता आरोपिता, नि स्पन्दा निश्चला ये सर्वदेशा शरीरावयवास्तै पेशलो मनोहर स तथा तस्य सबोधन हे तथोत्त्क। हे समुन्मिषत्पूर्वजन्माभ्यस्तक्रियाकलापनैपुण्य समुन्मिषन् प्रादु र्भवन् पूर्वजन्माभ्यस्त अतीतभवानुशीलितो योऽसौ क्रियाकलाप क्रियासमूहस्तत्र नैपुण्य यस्य स तथा तस्य सबोधनम्। हे दमकलोकोपदिश्यमानविनयग्रहणप्रवण दमकलोकेन शिक्षादायकलोकेन उपदिश्यमान शिक्ष्यमाणो योऽसौ विनय शिक्षा तस्य ग्रहणेऽङ्गीकारे प्रवण प्रवीणस्तस्य सबोधनम्। निष्पन्नयोगीव पूर्णध्यानवानिव हे अवगणितोपान्ताहितकान्तवस्तुजात अवगणितानि अवाहतानि उपान्तेषु समीपेषु आहितानि धृतानि कान्तानामतिमनोहराणा वस्तुजातानि इष्टवनितादिवृन्दानि येन स तथा तस्य सबोधनम्। महामुनिरिव दिगम्बराचार्य इव हे रुचिरेतराहाराभ्यव हरणसुप्रसन्नस्वान्त रुचिरो मनोज्ञ इतरोऽमनोज्ञो योऽसावाहारस्तस्याभ्यवहरणे आ स्वादने सुप्रसन्न निर्मल स्वान्त मनो यस्य स तथा तस्य सबोधनम्। प्रातिशीन इव कफवानिव हे अवधीरितोभयगन्धसबन्ध अवधीरितोऽवगणित उभयो सुरभ्य सुरभयोर्गन्ध परिमलस्तस्य सबन्ध सयोगो येन स तथा तस्य सबोधनम्। दिव्य चक्षुरिव अन्ध इव हे अवितर्कितविकृतप्राकृतसामाजिकसाप्रामिकालकारकलितसम-

कृतप्राकृतसामाजिकसाग्रामिकालकारकलितसमस्तसत्त्वप्रबन्ध, सन्नश्रोत इव मृदङ्गानकशङ्खक्ष्वेलितकाहलादिकोलाहलाविप्रलब्धबोध, तिमिरिवोपामर्शनावक्षोदनतोदनादिबाधासबाधक्षान्तशरीरसौध, अतिनिभृतसमस्ताङ्गतया महामहीधर इव शैलाटनितटीटङ्कघटित, चेष्टितावसर इव, लेपविनिर्मितावतार इव मेदिनीमध्यान्निरूढ इव च प्ररूढजनमनोविकल्प, द्विप हे हे हल, दिव्यसामज, मात्राशत तिष्ठ तिष्ठ।

सम स्थित्वा गात्रैरचलितवपु सूच्छ्रितशिरा
मुख स्वर्याङ्ग त्व श्रुतियुगमिद हर्षय गज।

———————

स्तसत्त्वप्रबन्ध। ‘विकृत सस्कृतो रोगी बीभत्सश्च प्रकीर्तित’। प्राकृता नीचलोकाश्च,जनादय सामाजिकाश्च (भृत्योचिता), साग्रामिकाश्चआयुधोचिता, अलकारकलि ताश्च शृङ्गारितास्ते च ते समस्ता सत्त्वा प्राणिनस्तेषा प्रबन्ध सबन्ध। न वितर्कितो नावगणितो विकृतप्राकृतसामाजिकसाग्रामिकालकारकलितसमस्तसत्त्वप्रबन्धो येन स तथा तस्य सबोधन हे तथोक्त। सन्नश्रोत्र इव बधिर इव हे मृदङ्गानकशङ्खक्ष्वे लितकाहलादिकोलाहलाविप्रलब्धबोध मृदङ्गाश्च मर्दला, आनकाश्च पटहा, शङ्खाश्च कम्बुका, क्ष्वेडितानि मुखहस्तसयोगजा ध्वनय, काहलाश्च वत्तूरपुष्पसदृशमुखा भेर्य, आदिशब्दाद्विविधतालादय, तेषा कोलाहलै कलकलशब्दैरविप्रलब्धोऽवञ्चितोस्खलितो बोधो ज्ञान यस्य स तथोक्तस्तस्य सबोधनम्। तिमिरिव महामत्स्य इव हे उपामर्शना वक्षोदनतोदनादिबाधासबाधक्षान्तशरीरसौध उपामर्शन च सस्पर्श, अवक्षोदन चाराड्कुशादिपीडनमित्यादय, आदिशब्दात्प्रासादिघात तेषा बाधा दुखम्। ‘बाधा दु खनिषेधयो’ इति वचनात्। तस्या सबाध पीडा तस्मिन् क्षान्त सहनशील शरीरसौधो देहप्रासादो यस्य स तथा तस्य सबोधनम्। अतिनिभृतसमस्ताङ्गतया अतिनिश्चलशरीरत्वेन महामहीधर इव मेरुरिव। शैलाटनितटीटङ्कघटितचेष्टितावसर इव शैलस्य पर्वतस्याटनिरग्रतस्य तटी प्रस्थ तस्य टङ्केन लोहटङ्केन घटित टङ्कच्छिन्न यञ्चेष्टितमवस्था तस्या अवसरो यस्य स तथा। लेपविनिर्मितावतार इव लेपेन पुस्तेन विनिर्मित कृतोऽवतारो यस्य स तथा। मेदिनीमध्यान्निरूढ इव पृथ्वीमध्यात्स्वयभूरुद्गत इव। हे प्ररूढजनमनोविकल्प प्ररूढा उत्पन्ना जनाना लोकाना विकल्पा मनोभिप्राया यत्र द्विपे स तथा तस्य सबोधनम्। हे द्विप हे गजेन्द्र। हे हे भो हल113 सखे, दिव्यसामज अमानुषगजेन्द्र मात्राशत तिष्ठ तिष्ठेति॥

सममित्यादि। अङ्ग अहो गजेन्द्र हस्तिन्, सम निम्नोन्नतत्वरहित यथा भव

उरस्तो निर्गत्य स्थितमिव कर धारय पुर
कुरूल्लोल वाल विहितसमवस्थापनविधि॥२८३॥

** एवमुरोविनिर्गत पुर प्रोत्कूणिताग्रहस्ततया प्रहृष्टकर्णतया च वाराहीमाकृतिमानीतनिजदेहवृत्त, गजैतिह्यकुशलोपदिश्यमानदम्यादिकर्मावहितचित्त, प्राजापत्यैन्द्ररौद्रकौबेरवारुणकौमारयाम्यसौम्यवायव्याग्नेयवैष्णवाश्विभगसूर्यदेवतेषु करिषु अन्यतमसबन्धिलक्षणोपेत, पृथिव्यप्तेजसामेकतमच्छा-**

——————

त्येव स्थित्वा स्थान कृत्वा उत्थितो भूत्वा। कै कृत्वा स्थित्वा। गात्रै शरीरप्रतीकै। अच लितवपुर्निश्चलशरीर सन् सूच्छ्रितशिरा उन्नतमस्तक सन् कर शुण्डादण्ड मुख स्वर्य अर्ध कर मुखसलग्न कृत्वा मुखे प्रवेश्य इद प्रत्यक्षीभूत श्रुतियुग कर्णयुगल त्वहर्षय चालय स्फुरित कुरु। पुर अग्रत कर शुण्डादण्ड धारय धर। किमिव। उरस्तो हृदयात् निर्गत्य स्थितमिव। वाल पुच्छमुल्लोलमूर्ध्वचलन कुरु विधेहि। कथभूतस्त्वम्। विहितसमवस्थापनविधि विहित कृत समवस्थापनस्य वराहाकारेण स्थापनविधियस्य स तथोत्त्क। उपमालकार॥

एवमित्यादि। एवममुना प्रकारेण उरोविनिर्गतपुर प्रोत्कूणिताग्रहस्ततया उरो विनिर्गतो वक्ष स्थलान्निर्गत पुरोऽग्रत प्रोत्कूणितो वक्रित स चासौ अग्रहस्त उरोविनिर्गतपुर प्रोत्कूणिताग्रहस्तस्तस्य भावस्तत्ता तया तथोक्तततया, प्रहृष्टकर्णतया च स्फुरितकर्णयुगलतया च। हे वाराहीमाकृतिमानीतनिजदेहवृत्त वराहस्यारण्यशूकर स्येय वाराही शिक्षाविशेषस्ता वाराहीमाकृतिमाकारमानीत निजदेहवृत्त स्वकीयशरीरप्रवर्तन येन स आनीतनिजदेहवृत्तस्तस्य सबोधन क्रियते हे तथोक्त। हे गजैतिह्यकुशलोपदिश्यमानदम्यादिकर्मावहितचित्त गजानामैतिह्य गजशास्त्र तत्र कुशला विचक्षणा ये पुरुषास्ते गजैतिह्यकुशलास्तैरुपदिश्यमान शिक्ष्यमाण यद्दम्यादिकर्म दम्यमादिर्यस्य सान्नह्योपवाह्यस्य च कर्मणस्तद्दम्यादि कर्म तत्रावहित सावधान चित्त मनो यस्य स तथा तस्य सबोधन हे तथोक्त। हे प्राजापत्यैन्द्ररौद्रकौबेरवारुणकौ मारयाम्यसौम्यवायव्याग्नेयवैष्णवाश्विभगसूर्यदेवतेषु करिषु अन्यतमसबन्धिलक्षणोपेत प्रजापतिर्देवता यस्य स प्राजापत्य, इन्द्रो देवता यस्य स ऐन्द्र, रुद्रो देवता यस्य स रौद्र, कुबेरो देवता यस्य स कौबेर, वरुणो देवता यस्य स वारुण कुमारो देवता यस्य स कौमार, यमो देवता यस्य स याम्य, सोमो देवता यस्य स सौम्य, वायुर्देवता यस्य स वायव्य, अग्निर्देवता यस्य स आग्नेय, विष्णुर्देवता यस्य स वैष्णव, अश्विनौ च भगश्च सूर्यश्च अश्विभगसूर्यास्ते देवता येषा करिणा तेऽश्विभगसूर्यदेवता, प्राजापत्यश्च ऐन्द्रश्च रौद्रश्च कौबेरश्च वारुणश्च कौमारश्च याम्यश्च सौम्यश्च वायव्यश्च आग्नेयश्च वैष्णवश्च अश्विभगसूर्यदेवताश्च ते तथोक्तास्तेषु ईदृग्विधेषु करिषु हस्तिषु अन्यतमस्य

यासमेत, अष्टादशक्रियाधार, तत्कर्मनिष्णाततया विदित, चतुस्त्रीकृतक्षान्तदान्तयोधविनीतसर्वज्ञादिनामप्रकार, महाबलप्रचण्ड, सकलसपत्नोर पुरकपाटस्फोटनाशनिदण्ड, परचक्रप्रमर्दनकर, गजबन्धुधराधीशविधुरबान्धवधुर, सिन्धुर, हे हे हल, दिव्यसामज, मात्राशत तिष्ठ तिष्ठ।

गात्राणा समता कुरु प्रतिहर त्व हस्तमुच्चै शिरा
स्वर्प्यास्य114 श्रुतिवालहर्षणपर पश्चान्निषीदार्धत।

———————

कस्यचिद्गजस्य सबन्धीनि यानि लक्षणानि तैरुपेताे मण्डितो हे तथोक्त। हे पृथिव्य प्तेजसामेकतमच्छायासमेत पृथिवी च आपश्च तेजश्च पृथिव्यप्तेजासि तेषा मध्ये एकतमस्य छाया दीप्तिस्तया समेत सयुक्तहे तथोक्त। हे अष्टादशक्रियाधार अष्ट भिरधिका दश अष्टादश। शाकपार्थिवादिदर्शनात् मध्यमपदलोपी समास। अष्टादशाना, क्रियाणामाधार स तथा तस्य सबोधन हे तथोक्त। उत्त्कच—‘दाम्य त्रिविधमिच्छन्ति सानह्यसप्तधा स्मृतम्। स्यादष्टवोपवाह्य चेत्येवमष्टादश क्रिया॥’ हे तत्कर्मनिष्णात तया विदित तज्जगत्प्रसिद्ध यत्कर्म तत्र निष्णाततया प्रवीणतया विदितो विख्यात। हे चतुरस्त्रीकृतक्षान्तदान्तयोधविनीतसर्वज्ञादिनामप्रकार चतुरस्त्रीकृतश्च पण्डित, क्षान्तश्च क्षमावान्, दान्तश्च जितेन्द्रिय, योधश्च सहस्रभटलक्ष भटकोटीभटविध्वसक, विनीतश्च शिक्षाग्राहक, सर्वज्ञश्च सज्ञाज्ञातस्त आदिर्येषा तेषा प्रकारा भेदा यस्य स चतुरस्त्रीकृतक्षान्तदातयोधविनीतसर्वज्ञादिनामप्रकारस्तस्य सबोधनम्। हे महाबलप्रचण्ड महाबलेन अतिबलेन प्रचण्ड महाबलप्रचण्ड। बृहद्बलेनात्यन्तकोपन इत्यर्थ। तस्य सबोधनम्। हे सकलसपत्नोर पुरकपाटस्फोटनाशनिदण्ड सकलाश्च ते सपत्ना शत्रवस्तेषामुरासि हृदयानि पुरकपाटानि च नगरगोपुरअरराणि तेषा स्फोटने चूर्णी करणे अशनिदण्डो वज्रपात स तथा तस्य सबोधनम्। हे परचक्रप्रमर्दनकर परेषा शत्रूणा चक्राणि सैन्यानि तेषा प्रमर्दन चूर्णीकरण करोतीति परचक्रप्रमर्दनकरस्तस्य सबोधनम्। हे गजबन्धुधराधीशविधुरबान्धववधुर गजा हस्तिनो बन्धवो दायादा येषा ते गजबान्धवा ते च ते धराधीशा राजानस्तेषा विधुरे सकटवेलाया बान्धव स्योपकारिणो धूर्यस्य स गजबन्धुधराधीशविधुरबान्धवधुरी115 तस्य सबोधनम्। हे सिन्धुर हे गजेन्द्र। हे हे हल भो सखे, हे दिव्यसामज अमानुषगज मात्राशत बहुमात्रापर्यन्त तिष्ठ तिष्ठ॥

गात्राणामित्यादि। हे करिन्, त्वभवान् गात्राणा शरीरावयवाना समता समत्वअनिम्नोन्नतत्व कुरु निधेहि। हस्त प्रतिहर सकोचय। कि कृत्वा। पूर्व आस्ये

वश निम्नय निर्भुजोरसि तत प्रोत्फुल्लनेत्रद्वय
सिंहस्थापनया युतो भव करिन्नुत्पित्सुसिंहोपम॥२८8॥

** एवमुपस्थापनायामुपात्तवपुश्चण्डिमाडम्बरतया हठाद्गृहीतकरिकु**

लाकार- णवैरिकण्ठीरवाकार, उत्पतिष्णुमहामहीधरप्रतिमतया सपादितोपकण्ठसत्त्वसा- ध्वसावतार, समस्तसपत्नग्रसनकामतयेव विस्फारितमहाभयानकव्यवसायकाय, सकलभूताभिभाविना चराचरतैजसाशजातजनितेन ज्वलज्ज्वाल-

——————

हस्त स्वशुण्डादण्ड मुखमध्ये प्रवेश्य। कथभूतस्त्वम्। उच्चै शिरा उन्नतमस्तक। पुन कथ भूतस्त्वम्। श्रुतिवालहर्षणपर कर्णपुच्छस्फुरणतत्पर। हे करिन्, पश्चाद्भागे अर्धतो निषीद साशमुपविश। हे करिन्, त्व वश पृष्ठमध्य निम्नय निम्न कुरु। हे करिन्, ततस्तदनन्तर उरसि हृदये निभुज निर्गच्छ। उरोऽग्रत कुर्वित्यर्थ। कथभूतस्त्वम्। प्रोत्फुल्लनेत्रद्वय विकसितलोचनयुगल। हे करिन्, त्व सिंहस्थापनया युतो युक्तोभव सिंहरूपेण तिष्ठ। कथभूतस्त्वम्। उत्पित्सुसिहोपम बद्धक्रमसिंहसदृशो भव। उपमालकार॥

** एवमित्यादि।** एवममुना प्रकारेण उपस्थापनाया सिंहाकारेण प्रतिष्ठापनाया हे उपात्तवपुश्चण्डिमाडम्बरतया हठाद्गृहीतकरिकुलाकारणवैरिकण्ठीरवाकार उपात्तो गृहीतो वपुष शरीरस्य यश्चण्डिमा प्रचण्डत्व तस्याडम्बर आटोपस्तस्य भाव उपात्तवपुश्चण्डिमाडम्बरता तथा हठात्कृत्वा हठात्प्रसह्य गृहीत स्वीकृत करिणा कुलाना समूहाना अकारणवैरी निष्कारणशत्रु स चासौ कण्ठीरव सिंहस्तस्याकारो येन स गृही तकरिकुलाकारणवैरिकण्ठीरवाकार तस्य सबोधन हे तथोक्त। हे उत्पतिष्णुमहामही धरप्रतिमतया सपादितोपकण्ठसत्त्वसाध्वसावतार उत्पतिष्णुरुत्पतनशीलो योऽसौ महामहीधरो महापर्वतस्तस्य प्रतिमतया तुल्यतया सपादित उपकण्ठसत्त्वाना समीप वर्तिप्राणिवर्गाणा साध्वसावतारो येन स तस्य सबोधन हे तथोक्त। हे समस्तसपत्नग्रस नकामतयेव विस्फारितमहाभयानकव्यवसायकांय समस्ताना सर्वेषा सपत्नाना शत्र्णाम्। प्रतिहस्तिनामित्यर्थ। ग्रसनकामतया इव भक्षणेच्छया इव विस्फारित प्रचुरीकृतो बृहत्कृतो महाभयानकोऽतिभीप्मो व्यवसाय उद्यमो यस्य स विस्फारितमहाभयानकव्य बसाय ईदृग्विध काय शरीर यस्य स तथोक्तस्तस्य सबोधन हे तथोक्त। हे मदपु रुषेणाधिष्ठिततया द्विगुणीभूतभीमसाहसनिकाय मदपुरुषेण राक्षसेन अधिष्ठिततया सक्रान्ततया द्विगुणीभूतो द्विरुक्तोभीमो भयानक साहसनिकाय अद्भुतकर्मसमूहो यस्य स द्विगुणीभूतभीमसाहसनिकायस्तस्य सबोधनम्। कथभूतेन भदपुरुषेण। सकलभूताभि भाविना सकलान् समस्तान् भूतान् प्राणिवर्गान् व्यन्तरविशेषान् वा अभिभवति पराभवति स सकलभूताभिभावी तेन। पुन कथभूतेन मदपुरुषेण। चराचरतैजसाशजातजनितेन चराचरस्य जगतो ये तैजसाशास्तेजोमयभागास्तेषा जात समूहस्तेन जनित

वज्रवैश्वानरकरालमूर्तिना मदपुरुषेणाधिष्ठिततया द्विगुणीभूतभीमसाहसनिकाय, अनेकश कदनमेदिनीषु नखरदविदारितारातिक- रितुरगरथतरीचरनरनिकरकीलालकेलिकृतमहायोगिनीबलि विधान, अव्याजाश्चर्यशौर्यप्रीतया वीरश्रिया स्वयमेव विहिताहितलोहितपञ्चाङ्गुलप्रपञ्चाधान, निरन्तरमविचारितमाचरितमृगायितै शत्रुभिश्चिर खिलीभूतामरपुरमार्गतया ज्वलदनङ्गाङ्गारचुम्बनच्युतचित्तप्रसत्तीनामप्सरसा दैवादाहवेष्वभीतायातहतपरेतसगतरमितसुभटप्रसूतसुरतसुखसुधासारवर्षप्रावृषेण्यपर्जन्य, दुर्जयजन्य, निजनि-

——————

उत्पादित चराचरतैजसाशजातजनितस्तेन। पुन कथभूतेन मदपुरुषेण। ज्वलज्ज्वालव ज्रवैश्वानरकरालमूर्तिना ज्वलन्त्यो जाज्वल्यमाना ज्वाला यस्य स ज्वलज्ज्वाल स चासौ वज्रवैश्वानरो वज्राग्निस्तद्वत्कराला रौद्रा मूर्तिर्यस्य मदपुरुषस्य स तथा तेन। उक्तचमदपुरुषलक्षणम्—‘मयूरग्रीवाभ चपलरसन रक्तनयन चतुर्दष्ट्राहिंस्र पृथुकरशिरोमेढ्रजठरम्। चलन्मुक्तशङ्कुश्रणमदमय षोडशभुज ज्वलत्केश वन्दे मदपुरुषमत्युग्रवद नम्॥’ अनेकशोऽनेकवारान् कदनमेदिनीषु सग्रामभूमिषु हे नखरदविदारितारातिकरि तुरगरयतरीचरनरनिकरकीलालकेलिकृतमहायोगिनीबलिविधान नखाश्च रदौ च नख रदास्तैर्विदारिताश्चूर्णीकृता ये अरातीना शत्रूणा करिणो हस्तिन तुरगाश्च हया रथाश्च स्यन्दना तरीचरनराश्च नौकास्थितसुभटास्तेषा निकरा समूहास्तेषा कीलालकेलयो रुधिरक्रीडास्ताभि कृत महायोगिनीना विद्यादेवताना बलिविधान पूजाविधिर्येन स तथोक्तस्तस्य सबोधन हे तथोक्त। अव्याज निष्कपट यत् आश्चर्य शौर्य अद्भुतशूरत्वतेन प्रीतया प्रीतिंप्राप्तया वीरश्रिया स्वयमेवोपदेशेन विहित अहिताना शत्रूणा लो हितेन रुधिरेण पञ्चाङ्गुल प्रपञ्चाधान स्थासकविस्तारकरण यस्य स तथा तस्य सबोधन स्वयमेव विहिताहितलोहितपञ्चाङ्गुलप्रपञ्चाधान। निरन्तरमविच्छिन्न अविचारित अपर्यालोचित यथा भवत्येव आचरितमृगायितै कृतपलायनै शत्रुभिर्वैरिभि कृत्वा चिर दीर्घकाल खिलीभूत उद्वसो जातो योऽसौ अमरपुरमार्ग तस्य भाव खिलीभू तामरपुरमार्गता तथा हेतुभूतया ज्वलन् जाज्वल्यमानो योऽसौ अनङ्ग स एवाङ्गारो अग्निखण्डस्तस्य चुम्बनेन च्युता नष्टा चित्तप्रसत्तिश्चित्तनिर्मलता यासा ता ज्वलदन ङ्गाङ्गारचुम्बनच्युतचित्तप्रसत्तय तासा मलिनीभूताना चित्तप्रसत्तीना ईद्दग्विधाना अप्सरसा देवाङ्गनाना दैवात् भाग्यात् आहवेषु सग्रामेषु। हे अभीतायातहतपरेतसगतरमितसुभटप्रसूतसुरतसुखसुधासारवर्षप्रावृषेण्यपर्जन्य अभीता न भय प्राप्ता सर्व पश्चादायाता सग्रामे मिलितास्ते च ते हता विध्वसितास्ते च ते परेता मृतास्तै सह सगता मिलिता पश्चान्मिलितास्तदनन्तर रमिता मैथुने भुक्तास्ते च ते सुभटास्तेभ्य प्रसूतमुत्पन्न यत् सुरतसुख सभोगसौरय तदेव सुधासारोऽमृतवृष्टिस्तस्य वर्षे वेगव-

यस्य जीवधन यावत्स तावत्स्वयमीक्षताम्।
अन्यथान्नादिवैगुण्यात्तद्दु खे पापभाग्भवेत्॥२८६॥

इत्यनुस्मृत्य कदाचित्कृतकरेणूरोहण
व्यूढोरस्क प्रभूतान्तरमणिरतनु सुप्रतिष्ठाङ्गबन्ध
स्वाचारोऽन्वर्थवेदी सुरभिमुखमरुद्दीर्घहस्त सुकोश।
आताम्रोष्ठ सुजात प्रतिरवमुदितश्चारुशीर्षोद्गमश्ची
क्षान्तस्तत्कान्तलक्ष्मी शमितवलिपद शोभते भूप

भद्र॥२८७॥

———————

** यस्येत्यादि।** यस्य पुरुषस्य नृपस्य वा यावत्परिमाण जीवधन गोमहिष्यादिक वर्तते स पुमान् तावत्परिमाण जीवधन स्वय ईक्षता स्वयमेव सभालन करोति। अन्यथा यदा रक्षण न कुरुते तदा अन्नादिवैगुण्यात् अन्नधासादीना हीनत्वात् तद्दुःखेसति स पुमान् पापभाग्भवेत् पापी स्यात्। जात्यलकारोऽगम्॥

कथभूतोऽहम्। कृतकरेणूरोहण [पुन कथभूतोऽहम्।] वेतण्डमण्डलीमवलेाकमान गजमण्डली विलोकमान यावदहमासे तिष्ठामि। कथभूता वेतण्डमण्डलीम्। महामात्रसमूहाम्नायमानवर्णाम्। [पुन कथभूताम्।] भद्रमन्दमृगसकीर्णविस्तीर्णाम् भद्रा भद्रजातिगजा, मन्दा मन्दजातिगजा, मृगा मृगजातिगजा, सकीर्णास्तन्मिश्रजातिगजा तैर्विस्तीर्णा प्रचुरभूताम्। इतीति किम्।

** ब्यूढोरस्क इत्यादि।** हे भूप, भद्रो भद्रजातीयो हस्ती शोभते। कथभूत। व्यूढोरस्क व्यूढ घन उरो हृदय यस्य स व्यूढोरस्क। उत्त्कच—‘व्यूढा न्यस्तोरुसहता’। विस्तीर्णहृदय इत्यर्थ। पुन कथभूत। प्रभूतान्तरमणि प्रभूता प्रचुरा अन्तरा विशिष्टा मणयो रत्नानि यस्य मस्तके मुक्ताफलानि यस्य स तथा। पुन कथभूत। अतनु अदुबल अकृश स्थूल इत्यर्थ। पुन कथभूत। सुप्रतिष्ठाङ्गबध सुप्रतिष्ठो निश्चलो वा शोभितो अङ्गबन्ध शरीरबन्धो यस्य स तथा। पुन कथभूत। स्वाचार शोभनाचार। पुन कथभूत। अवर्थवेदी सत्याथज्ञापक। पुन कथभूत। सुरभिमुख मरुत् सुरभि सुगन्ध मुखस्य मरुत् श्वासवायुर्यस्य स तथा। पुनकथभूत। दीर्घहस्त आयतशुण्डादण्ड। भूमिस्पृक्कर इत्यथ। पुन कथभूत। सुकोश शोभन आम्रपल्लवसकाश कोशो मे द्रियस्य स तथा। पुन कथभूत। आताम्रोष्ठ रक्ताधर। पुन कथभूत। सुजात सुनिष्पन्न रथेषाकृतिर्मर्दल कुलीनश्च। पुन कथभूत। प्रतिरवमुदित निजगर्जितस्य प्रमुदिति शब्देन हर्षवान्। पुन कथभूत। चा..शीर्षोद्गमश्री चारु मनोहरा शीर्षस्य मस्तकस्य उद्गमश्री उन्नतिशोभा यस्य स तथा। पुन कथभूत। क्षान्त क्षमावान् समर्थो वा। पुन कथभूत। तत्कान्तलक्ष्मी सा

योऽच्छिद्रस्त्वयि वीतभीरवनत पश्चात्प्रसादात्पुन’
किंचित्ते पुरत समुच्छ्रितशिरा कार्येषु भारक्षम।
सोऽत्यल्पश्रम एव मण्डलयुतो गम्भीरवेदी पृथु-
र्मन्देभानुकृतिर्बलीरितवपु स्यात्सान्द्रपर्वा नृप॥२८८॥

ये वीर त्वयि बह्वलीकमनस सेवासु दुर्मेधसो
ह्रस्वोरोमणय करेषु तनव स्थूलेक्षणा शत्रव।

———————

जगत्प्रसिद्धा कान्ता मनोहरा लक्ष्मी शोभा यस्य स तथा। पुन कथभूत। शमितवलिपद शमिता नष्टा वलयस्त्वक्सकोचास्त्वक्तरङ्गा पादेषु चरणेषु यस्य वलिनश्च येन स तथा। जात्यलकार॥

** योऽच्छिद्र इत्यादि।** स नृप स राजा सान्द्रपर्वा बहुमहोत्सव स्यात् भवेत्। स क। यो नृप त्वयि विषये अच्छिद्रमनन्वेषण116। स नृप कथभूत। वीतभी सर्वनिर्भय युष्नत्तो भय न करोति। पश्चात् ते तव प्रसादात् अवनतो नम्रीभूत किचिन्मनाक्। पुनरिवार्थे पादपूरणार्थे। पुन कथभूत। पुरत अग्रत समुच्छ्रितशिरा उन्नतमस्तक। पुन कथभूत। कार्येषु भारक्षम तव कार्यवेलाया कार्यकारक। पुन क्थभूत। अत्यल्पश्रमेणैव अल्पकष्टेनैव राज्यभोक्ता। पुन कथभूत। मण्डलयुत राष्ट्रसयुक्त। पुन कथभूत। गम्भीरवेदी तव गाम्भीयज्ञापक। पुन कथभूत। पृथुर्विस्तीर्णराज्य। पुन कथभूत। बलीरितवपु बलवद्भि प्रेरितशरीर। पुन कथभूत। मन्देभानु कृति मन्दजातीयहस्तिसदृश।कथभूतो मन्दजातीयो गज। अच्छिद्रो निबिडबन्ध। पुन कथभूत। त्वयि विषये वीतभी शत्रुभयरहित। पुन कथभूत। पश्चात् अवर गात्रे अवनत नम्रीभूत। ते प्रसादात् प्रसन्नतया। पुन कथभूत। पुनरपि किंचिन्मनाक् पुरतोऽग्रत समुच्छ्रितशिरा उन्नतमस्तक। पुन कथभूत। कार्येषु सग्रामादि वेलाया भारक्षम भारोच्चलनसमर्थ। पुन कथभूत। अत्यल्पश्रम एव भार वहमानोऽपि अत्यल्पश्रम। पुन कथभूत। मण्डलयुत हस्तिसमूहान्वित। पुन कथभूत। गम्भीरवेदी त्वग्भेदादाशोणितस्रवणादामास मथनादपि य सज्ञा न लभते स गम्भीरवेदी कथ्यते। पुन कथभूत। पृथुर्विस्तीर्णपृष्ठदेश। पुन कथभूत। बलीरितवपु बलिभि त्वक्तरङ्गै ईरित अनुगत वपु शरीर यस्य स तथा। पुन कथभूत। सान्द्रपर्वा सान्द्राणि पर्वाणि सधिप्रदेशा यस्य स सान्द्रपर्वा। श्लेषोपमालकार॥

** ये वीरेत्यादि।** हे वीर विक्रान्त, हे नाथ पृथ्वीपते ये शत्रवो अमन्त्रय117 त्वयि विषये बहु अलीकमनसो वर्तन्ते। कुटिलहृदया वर्तन्त इत्यर्थ। पुन कथभूता वर्तन्ते।

तैर्नाथाल्पतनुच्छविप्रभृतिभि शोकालुभिर्दुर्भरै
सक्षिप्तैरणुवशकैर्मृगसम प्राय समाचर्यते॥२८९॥

द्वारि तव देव बद्धा सकीर्णाश्चेतसा च वपुषा च।
शत्रव इव राजन्ते बहुभेदा कुञ्जराश्चैते॥२९०॥

** इति महामात्रसमूहाम्नाययानवर्णोभद्रमन्दमृगसकीर्णविस्तीर्णोवेतण्ड-**

———————

सेवासु दुर्मेधस रुचिरतया सेवा न कुर्वन्ति। पुन कथभूता शत्रव। ह्नस्वाेरोमणय ह्रस्वा अस्थूला उरोमणय मुक्ताफलादिहारमणयो येषा ते ह्रस्वोरोमणय। ये पुन कथ भूता। करेषु देयेषु तनव तुच्छा। पुन कथभूता। स्थूलेक्षणा असूक्ष्मबुद्धय। तै शत्रुभि प्रायो बाहुल्येन मृगजातिहस्तिसदृश यथा भवत्येव समाचर्यते व्यापृयते। कथभूतास्तेमृगजातय। बह्वलीकमनस हीनहृदया पुन सेवासु दुर्मेधस यथोक्तशि

क्षा न गृह्णन्ति। पुन ह्नस्वाेरोमणय अल्पहृदया करेषु शुण्डादण्डेषु तनव अभूमिलग्नदुर्बलशुण्डा दण्डा। पुन स्थूलेक्षणा स्थूल वस्तु पश्यन्ति सूक्ष्म न पश्यन्ति। तैर्मृगजातिभिर्गति मृगसम हरिणसदृश यथा भवत्येव प्रायो बाहुल्येन सम्यक्प्रकारेण आचर्यते व्यापृयते। कथभूतैस्तैर्मृगजातिगजै। अल्पतनुच्छविप्रभृतिभि अल्पा तनुच्छविप्रभृतयो येषा ते अल्पतनुच्छविप्रभृतय। शत्रुभि कथभूतै। अल्पप्रतापै। गजै कथभूतै। शोकालुभिविन्ध्यवनादिस्मरणशीलै। शत्रुभि कथभूतै। शोकालुभि पश्चात्तापकारिभि। गजै कथभूतै। दुर्भरै भारोद्वहने असमर्थै। शत्रुभि कथभूतै। दुर्भरै हीनातिशयै। गजै कथभूतै। सक्षिप्तै सर्वशरीरावयवेषु अल्पै। शत्रुभि कथभूतै। सक्षिप्तै अत्पधनै अल्पसैन्यै। गजै कथभूतै। अणुवशकै अविस्तीर्णपृथुप्रदेशै। शत्रुभि कथभूतै। अणुवशकै जातिकुलहीनै। श्लेषोपमालकार॥

** द्वारीत्यादि।** हे देव हे राजन्, तव द्वारि भवत सिंहद्वारे एते कुञ्जरा हस्तिनो बहुभेदा मिश्रजातयो बद्धा सन्तो राजन्ते शोभन्ते। कथभूता कुञ्जरा।चेतसा मनसा वपुषा शरीरेण च सकीर्णा। अबुद्ध्या मिश्रिता इत्यर्थ। ‘सकीर्णौ निचिताशुद्धौ’ इति वचनात्। कुञ्जरा कथभूता। शत्रव इव शत्रुसदृशा। यथा तव शत्रव सकीणा अल्पायतयो भवन्ति। केन चेतसा वपुषा च। बहुभेदा नानाप्रकाराश्च भवन्ति ते शत्रव तव द्वारे बद्धा शोभन्ते। श्लेषोपमासमुच्चय॥

** कि कृत्वा।** प्रधावधरणिषु गजविनयभूमिषु करिविनोदविलोकनदोहद नाम प्रासाद अध्यास्य आरुह्य। कथम्। सम सह। कया सह सोत्तालबृहणसचयव्यास्तारमुखव धनकटवर्धनकटशोधनप्रतिभेदनप्रवर्धनवर्णकरगन्धकरोद्दीपनह्नासनविनिवर्तनप्रभेदमदो पचारोपदेशविशारदाशयशङ्खाङ्कुशगुणाङ्कुशप्रमुखाचार्यपरिषदा सोत्ताल बृहण च वर्धनम्, सचय करणम्, व्यास्तारश्च विस्तारकरणम्, मुखवर्धन च मुखवृद्धि, कटवर्धन

मण्डलीमवलोकमान यावदहमासे तावद्देव, वसुमतीतिलक सजाततिलकायाम्, पट्टवर्धन आर्द्रकपोलिकायाम्, अधोनिबन्धिन्यामुद्धताङ्कुश, परचक्रप्रमर्दनो गन्धचारिण्याम्, अहितकुलकालानल क्रोधिन्याम्, अतिवर्तिन्या चर्चरीवतस, सभिन्नमदमर्यादाया च विजयशेखर इत्यनीकस्थेन विनिवेदितद्विरदमदावस्थ सोत्तालबृहणसचयव्यास्तारमुखवर्धनकटवर्धनकटशोधनप्रतिभेदनप्रवर्धन वर्णकर- गन्वकरोद्दीपनह्नासनविनिवर्तनप्रभेदमदोपचारोपदेशविशारदाशयशङ्खाङ्कुशगुणाङ्कुशप्रमुखाचार्यपरिषदा सम प्रधावधरणिषु करिविनोदविलोकनदोहद प्रासादमध्यास्य

———————

च गण्डवर्धनम्, कटशोधन कटयोमध्यप्रदेशप्रक्षालनम्, प्रतिभेदन च विदारणम्, प्रवर्धन कटकप्रदर्शनम्, वर्णकरश्च विलेपनम्, गन्धकरश्च चन्दनादिदानम्, उद्दीपन च दीप्तिकरणम्, ह्रासन, विनिवर्तन च पश्चात्करणम्, प्रभेदकरण ते च ते मदोपचारा मदनिवर्तनचिकित्सा तेषामुपदेशो गुरुगम्य तत्र विशारदो विचक्षण आशय श्चित्त तेषा च शङ्खाङ्कुशगुणाङ्कुशप्रमुखाचार्यास्तेषा परिषत् समूह तथा तथोक्तया सम प्रासादमारुह्य। कथभूतोऽहम्। इत्यमुना प्रकारेण अनीकस्थेन सेनापतिना विनिवेदितद्वि रदमदावस्थ विनिवेदिता विज्ञापिता द्विरदाना हस्तिना मदावस्था यस्य स तथोक्त। इतीति किम्। हे देव, वसुमतीतिलक वसुमतीतिलकनामा गजेन्द्र सजाततिलकाया मदावस्थाया वर्तते। पट्टवधनो नाम हस्ती आद्रकपोलिकाया मदावस्थाया वर्तते। उद्धताङ्कुशो नाम हस्ती अधोनिबन्धिन्या अधोनिबन्धिनीनाममदावस्थाया वर्तते। परचक्रप्रमर्दनो नाम हस्ती गन्धचारिण्या क्रोधिनीनाममदावस्थाया वर्तते। अहि तकुलकालानलो नाम हस्ती क्रोधिन्या क्रोधिनीनाममदावस्थाया वर्तते। चर्चरीवतस अतिवर्तिन्या। विजयशेखरो नाम हस्ती सभि..मदमर्यादाया सभि..मदमर्यादानाममदावस्थाया वर्तते। उक्त च—‘सजाततिलका पूर्वा द्वितीयार्द्रकपोलिका। तृतीयाधोनिबद्धा तु चतुर्थी गन्धचारिणी॥ पञ्चमी क्रोधिनी ज्ञेया षष्ठी चैव प्रवर्तिका। स्यात्सभिन्नकपोला च सप्तमी सर्वकालिका। प्राहु सप्त मदावस्था मदविज्ञानकोविदा॥’ इति। तथा च मदगुणा अष्ट भवन्ति—‘प्रहर्ष शीघ्रता गन्धो रतिर्देहस्य क्रातता। क्रोधोवीर्य गुणीचन्द्रे (?) अष्टौ मदगुणा स्मृता॥’ तथा मदस्य षड्दोषा भवन्ति—‘निद्राविघातो मृक्ता (?) प्रासद्वेषो बलक्षय। मूढता चाभिवर्तित्व षड्दोषा कीर्तिता मदे॥’ इत्यस्य यथा सभवमथमाह—ननु मदो गण्डस्थलाश्रयतया न वाच्य। यत—‘एतत्तालुकरणाक्षिकोशेभ्य चिबुकाभ्या करात्तथा। रोमकूपकटिभ्यश्च प्रभि..स्त्वष्टवा गज॥’ तत्र—‘कटात्स्रुतो भवेद्दान सिन्धुर्नेत्रस्रुतो मद। मद कोशस्रुतो ज्ञेय सीकर च कटसूत्रम्॥’

मदमृगमदलेखोल्लासिगण्डस्थलश्री-
र्मुहुरनिभृतजृम्भारम्भशुम्भद्विलास।
करिपतिरयमन्यामेव देवाद्य काचि-
च्छ्रियमवति रणान्ते त्व यथा जैत्रचाप॥२९१॥

करिणा बमथुर्मुक्त पुर पुर स्थूलबिन्दुसतान।
रचयति दिगङ्गनाना मुक्ताफलभूषणानीव॥२९२॥

उत्तम्भीकृतकर्णतालयुगल प्रत्यस्तपासुक्रिय
प्रत्यादिष्टकरेणुकेलिरमण प्रत्यर्पिताम्भोघट।

———————

इति विशेषवचनात्। एकमेवेति तत्। किं तु कविसमये दानमदैरविशेषेण प्रयोगा द्दोष। कथभूत सन् प्रभिन्नकरिकेलीरदर्शम्। इति पठता गजोपजीविलोकेन आनन्दितचेता। इतीति किम्।

** मदमृगमदलेखेत्यादि।** हे देव, अय करिपति गजेन्द्र अद्य इदानीं अन्यामेव अपूर्वामेव काचित् अनिर्वचनीया श्रिय शोभा अवति धारयति। क इव। त्वमिव यथात्व रणान्ते सग्रामातेअपूर्वा श्रियमवसि। कथभूतस्त्वम्। जैत्रचाप जयनशीलधनुर्धर। कथभूतोऽय करिपति। मदमृगमदलेखोल्लासिगण्डस्थलश्री मद एव मृगमद कस्तूरी तस्य लेखा राजय ताभिरुल्लासिनी उल्लसनशीला गण्डस्थलश्री कपोलस्थलशोभा यस्य स तथोक्त। कथभूतस्त्वम्। मदसदृशकस्तूरिकारेखोल्लसनशीलकपोलस्थलशोभ। कथ भूतोऽय करिपति। मुहुर्वारवार अनिभृतजृम्भारम्भशुम्भद्विलासअनिभृतमनिश्चल यथा भवत्येव जृम्भारम्भेण मुखविकारकरणेन शुम्भन्त शोभमाना विलासा लोचन चलनानि यस्य स तथा। त्व कथभूत। स एवार्थ। उपमालङ्कार॥

** करिणेत्यादि।** करिणा गजेन वमथु करशीकर मुक्त सन् पुरोऽग्रे स्थूलबिन्दुसतान पीवरबिन्दुसमूह दिगङ्गनाना मुक्ताफलभूषणानीव रचयति। क्रियोपमालङ्कार॥

** उत्तम्भीकृतेत्यादि।** हे राजन्, अय करिपतिरिति पूर्वोक्तमेव ग्राह्यम्। अय। करिपतिस्तिष्ठति ऊर्ध्व एव चरति। किं कृत्वा। पूर्व पातुर्मिवलस्य118 प्रार्थनया विधृतान् इक्षून् करे शुण्डादण्डे गृहीत्वा। कथभूतानिक्षून्। चिराय दीघकाल विधृतान्। कथभूतोऽय करिपति। उत्तम्भीकृतकर्णतालयुगल निश्चलीकृतकर्णतालयुगल। पुन कथभूत। प्रत्यस्तपासुक्रिय प्रत्यस्ता निराकृता पासुक्रिया धूलन येन स प्रत्यस्तपासुक्रिय। पुन

पातु प्रार्थनया चिराय विधृतानिक्षून्गृहीत्वा करे
तिष्ठत्यन्यकरीन्द्रसचरमना कोपव्यथाकीलित॥२९३॥

मम मदमदिराया सौरभेणैव सैन्य
व्युपरतमदलेखालक्ष्मि जात गजानाम्।
इति मनसि विचिन्त्येवैष हस्ती तनोति
त्वमिव सुरतचाद्बन्नाथ धेनुप्रियाणाम्॥२९४॥

रणकेलिसुखविलोपस्तव मम च सम परेभमदशमनात्।
इति भावयतीव गजस्त्याजनमिषतो जगन्नाथ॥२९५॥

धत्तेऽन्यस्य गजस्य गण्डमलतामेव प्रभेदोद्गम
शोभा त्वस्य गजस्य दानविभव पुष्णात्यवाग्गोचराम्।

————————

कथभूत। प्रत्यादिष्टकरेणुकेलिरमण प्रत्यादिष्ट निराकृत करेणोर्हस्तिन्या केलिरमण क्रिया विनोदो येन स तथा। पुन कथभूत। प्रत्यर्पिताम्भोघट प्रत्यर्पित पश्चाद्दत्त अम्भोघटो येन स तथा। अपर कथभूत। अन्यकरीन्द्रसचरमना अपरगजेन्द्रप्रवेशचित्त। पुन कथभूत। कोपव्यथाकीलित क्रोधपीडाकीलित इव। उत्प्रेक्षालङ्का

र॥

** मम मदमदिराया इत्यादि।** हे नाथ राजन्, एष हस्ती अय गजपति इतीदृश मनसि चित्ते विचिन्त्य विचार्य धेनुप्रियाणा हस्तिनीना सुरतचाटून् सभोगमिथ्यास्तवान् तनोति विस्तारयति इव। इतीति किम्। मम मे मदमदिराया दानमद्यस्य सौरभेणैव गजाना हस्तिना सैन्य गजघटा जात सजातम्। कीदृश जातम्। व्युपरतमदलेखालक्ष्मि व्युपरता नष्टा मदलेखाना दानराजीना लक्ष्मी शोभा यस्य सैन्यस्य तत्तथोक्तम्। क इव। त्वमिव भवानिव। यथा भवान् प्रियाणा वल्लभाना सुरतचाटून् मिथ्यास्तुती तनोति। उक्त च—‘अस्त्रचाटुचटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्’। उपमालङ्का

र॥

** रणकेलीत्यादि।** हे जगन्नाथ पृथिवीपते, गज अय करिपति (त्याजनमिषेण शिरस ऊर्ध्वावोनछानात्?) इतीदृश भावयतीव कथयतीव। इतीति किम्। हे राजन्, रणकेलिसुखविलोप सग्रामक्रीडासौरयविनाश तव भवतो मम च सम सदृश एव वर्तते। कस्मात्। परेभमदशमनात् परेभाना प्रतिगजाना शत्रुगजाना च मदविनाशात्। उत्प्रेक्षालङ्कार॥

** धत्ते इत्यादि।** हे राजन्, अन्यस्य गजस्य अपरस्य हस्तिन प्रभेदोद्गम मदप्रादुर्भाव गण्डमलतामेव कटयोर्मलिनत्वमेव धत्ते धरति। अस्य तु गजस्य तव हस्तिन दानविभवो मदलक्ष्मी शोभा पुष्णाति पुष्टिं नयति। कथभूता शोभाम्। अवाग्गोचरा

किं चारब्धमदेऽपि यत्र करिणा सैन्यानि सतन्वते
घण्टाटकृतिवर्जितानि विमदान्यस्तप्रचाराणि च॥२९६॥

आनय मदवशमधुकरविराव पुनरुक्तडिण्डिमान्करिण।
पश्य मम समरकेलीरिति मतिरिव बृहति द्विरद॥२९७॥

आघ्राय मत्तकारिणोऽस्य मदप्रवाह-
सौरभ्यमन्थरमुखानि दिगन्तराणि।
नून दिशारदनिनोऽपि दिगन्तरौला-
नध्यासते द्विरदनेष्वपरेषु कास्था॥२९८॥

मदगन्धावरणविधे प्रतिवारणसमरसगमो भवतु।
इति जातमति पड्कैरिव लिम्पति सिन्धुर कायम्॥२९९॥

———————

वक्तुमशक्याम्। कि च अस्ति कश्चिद्विशेष। यत्रयस्मिन् तव हस्तिनि आरब्धमदेऽपि मदस्य प्रथमारम्भेऽपि करिणा शत्रुगजाना सैन्यानि सतन्वते सभवन्ति। कीदृशानि भवन्ति। घण्टाटकृतिवर्जितानि घण्टाना नादिनीना टकृतयष्टकारास्ताभिर्वर्जितानि भवन्ति। पुन कथभूतानि सैन्यानि भवन्ति। विमदानि मदविरहितानि। पुन कथभूतानि भवन्ति। अस्तप्रचाराणि च परित्यक्तसग्रामप्रवेशानि इति। अतिशयसमुच्चयालङ्कार॥

अत एव आनय मदवशेत्यादि। हे राजन्, द्विरदस्तव हस्ती इति मतिरिव ईदृश बृहति गर्जति। इतीति किम्। करिणो शत्रुगजान् हे नृप, त्वआनय मम समुख उपढौकय। कथभूतान् करिण। मदवशमधुकरविरावपुनरक्तडिण्डिमान् मदवशेन मदा धीनतया ये ये मधुकराणा भ्रमराणा विरावाविविधशब्दास्तै पुनरुक्ता द्विगुणीकृता डिण्डिमा वादित्रविशेषा येषा करिणा ते तथा तान्। हे राजन्, मम समरकेली सग्रामक्रीडितानि त्व पश्य विलोकय। उत्प्रेक्षालङ्कार॥

आघ्रायेत्यादि। हे राजन्, अस्य तव मत्तकरिण मदप्रवाहसौरभ्यमन्थरमुखानि दिगन्तराणि आघ्राय मदस्य योऽसौ प्रवाहस्तस्य सौरभ्येण सुगन्धतया मन्थराणि मन्दगमनानि मुखानि वक्राणि येषा तानि तथोक्तानि ईदृग्विधानि दिगन्तराणि दिड्मण्डलानि आघ्राय गन्धमुपादाय नून निश्चयेन दिशारदनिनोऽपि ऐरावणादयोऽपि दिग्गजा अपि दिगन्तशैलान् अष्टदिक्प्रान्तपवतान् अध्यासते सेवन्ते। अपरेषु सामान्येषु द्विरदनेषु शत्रुगजेषु अस्य पुरत स्थातु का आस्था स्थिति कर्तुमिति। अपि तु न कदाचिदित्यर्थ। अतिशयालङ्कार॥

** मदगन्धावरणविधेरित्यादि।** हे राजन्, सिन्धुरस्तव गज इत्यमुना प्रकारेण जातमति उत्पन्नबुद्धि काय शरीर पड्कैकर्दमै लिम्पति उपदेहयति। इतीति किम्।

धेनुत्व व्रजताशु दिक्करटिन क्षोणि स्थिर स्थीयता
वायो सहर चापल शिखरिण खर्वत्वमागच्छत।
नो चेदद्य मदश्रिया विलसति स्वच्छन्दमस्मिन्निभे
क्वेभेन्द्रा क्व

धरा क्वगन्धवहन क्वैते च यूय नगा॥३००॥

उच्छ्वासितु धरणिदेवी शिथिलितभूगोलक फणीन्द्रश्च।
इति धरणिनाथ करटी विटपिस्कन्ध समाश्रयति॥३०१॥

स्तम्भे यत्र गजैर्बद्धैर्देव निष्यन्दमासिनम्।
कटकण्डूयनेऽप्यस्य स धत्ते नलदण्डताम्॥३०२॥

—————————

मदगन्धावरणविधे मम दानपरिमलविलोपनविधानस्य प्रतिवारणसमरसगम शत्रु गजे सह भटभेटको भवतु सजायताम्। उत्प्रेक्षालङ्कार

धेनुत्वमित्यादि। हे दिक्करटिन, आशु शीघ्र धेनुत्व हस्तिनीत्वयूय प्रापत। हे क्षोणि हे पृथिवि, स्थिर निश्चलत्व यथा भवत्येव त्वया स्थीयता स्थिति क्रियताम्। हे वायो हे चरणो(?), चापल सहर। हे शिखरिण, खर्वत्व ह्नस्वत्व आगच्छत आप्नुत। उन्नतिमागच्छत इत्यर्थ। नो चेत् यदि दिक्करटिनो व्रजिष्यन्ति, क्षोणी स्थिरा न भविष्यति, वायुश्चपलत्व न सहरिष्यति न त्यक्ष्यन्ति, पर्वता सर्वत्व नागमिष्यन्ति, तर्हि अद्य इदानीं अस्मिन्निभे अस्मिन् तव गजे मदश्रिया मदलक्ष्म्या सह स्वच्छन्द यथेष्ट विलसति क्रीडति सति इभेन्द्रा ऐरावतादय क्ववर्तन्ते। न क्वापि वर्तन्त इत्यर्थ। धरा पृथिवी न क्वापि वर्तते, गन्धवहनो वायु न क्वापि वर्तते, एते च प्रत्यक्षी भूता यूय भवन्त नगा पर्वता न क्वापि वर्तन्ते इत्यर्थ। सर्वान् चूर्णीकरिष्यतीति भाव। समुच्चयातिशयालङ्कार॥

उच्छ्वसितु इत्यादि। हे धरणिनाथ पृथ्वीपते, करटी तव गज इति एतस्मात् कारणात् विटपिस्कन्धतरुप्रकाण्ड समाश्रयति सम्यक् सेवते। इतीति किम्। धरणिदेवी भूमिदेवता उच्छ्वसितु उच्छ्वास गृह्णातु। आश्रयतामित्यर्थ। फणी द्रश्चशेषनाग शिथिलितभूगोलक शिथिलितभूमिपिण्डक सन् उच्छ्वसितु उच्छ्वास गृह्णातु। दीपकसमुच्चयोत्प्रेक्षालङ्कार॥

स्तम्भे इत्यादि। हे देव हे राजन्‚ यत्रस्तम्भे यस्मिन् आलाने गजैर्हस्तिभि बद्धै सद्भि निष्यन्द निश्चल यथा भवत्येव (असितेनस्थो(?)स स्तम्भ) स्तम्भे अस्य तव गजस्य कटकण्डूयनेऽपि गण्डस्थलखर्जनमात्रेऽपि। आस्तातावद्वलकरण इत्यपरोऽर्थ। स स्तम्भो नलदण्डता पोटगलतृणविशेषयष्टित्व धत्ते धरति। उपमालङ्कार॥

यत्र निसर्गमहत्त्व दानगुण स कथमित्थमिदमास्ते।
इति मत्वेव गजोऽय रज्जु बिसतन्तुता नयति॥३०३॥

तडत्तडिति बन्धन त्रुटति कन्धरोल्लासने
खणत्खणिति वल्लिका गलति विक्रमारम्भिणि।
मडन्मडिति भज्यते तरुगण कृताघट्टने
खडत्खडिति वारण पतति चात्र युद्धैषिणि॥३०8॥

कथमपि पुरोऽस्य करिभिर्यतयन्त्रितकन्धरै स्थित स्थास्रो।
अभिगच्छति पुनरस्मिन्नगणितवीतैर्यथायथ त्वरितम्॥३०५॥

मदनकृतो भवति सृणिर्भजन्ति तडिकार्गला मृणालत्वम्।
सीदति करेणुवर्ग प्रतिगजमभिहन्तुमत्र सवृत्ते॥३०६॥

————————

** यत्रेत्यादि।** हे राजन्, अय प्रत्यक्षीभूतस्तव गज इति मत्वेव रज्जु बन्धनविशेष बिसतन्तुता पद्मिनीकन्दसूत्रत्व नयति प्रापयति। इतीति किम्। यत्र यस्मिन् पुरुषे निसगमहत्त्व स्वभावेन गुरुत्व भवति। अनु च दानगुणो मदगुणो दातृत्व च भवति। स पुमान् इत्थममुना प्रकारेण रज्जुबन्धप्रकारेण कथ आस्ते। अपि न कथमपि तिष्ठतीत्यर्थ। उत्प्रेक्षालङ्कार

तडत्तडितीत्यादि। हे राजन्, अत्र अस्मिन् तव गजे क धरोल्लासने ग्रीवोन्न मने सति बन्धन रज्जुप्रभृतिक त्रुटति शतखण्डीभवति। कथम्। तडत्तडिति तडत डायमानम्। अत्र अस्मिन् गजे विक्रमारम्भिणि सति वल्लिका खलाबन्धन गलति शतखण्डीभवति। कथम्। खण..णिति खणखणायमाना। अत्र अस्मिन् गजे कृताघट्टने कपो लकण्डूविनोदनाय विहितघर्षणे सति तरुगणो भज्यते द्विखण्डीभवति। कथम्। मडन्मडिति मडमडायमानम्। अत्रगजे युद्धैषिणि योद्धुमनसि सति वारण प्रतिगज पतति उपविशति। कथम्। खडत्खडिति खडखडायमान। अतिशयालङ्कार॥

कथमपीत्यादि। हे राजन्, अस्य तव गजस्य स्थास्त्राेस्थितिशीलस्य पुरोऽप्रत करिभि यतयन्त्रितकन्धरै आरोहकबद्धग्रीवै कथमपि महता कष्टेन स्थित उज्झितम्। पुन पश्चात् अस्मिंस्तव गजे अभिगच्छति समुखमागच्छति सति यथायथ यथालब्धावकाश त्वरित पलायितम्। कथभूतै करिभि। अगणितवीतै न गणित वीत अङ्कुशकर्म यैस्ते तथा तै। अतिशयालङ्कार॥

मदनकृत इत्यादि। अत्र अस्मिन् तव गजे प्रतिगज शत्रुगज अभिहन्तु मारयितु सवृत्ते प्रवृत्ते सति सृणिरङ्कुश मदनकृत कन्दर्पविहितो भवति सजायते।

उपरि करविकीर्णा पासवोऽस्य प्रकाम
नभसि विततमार्गा कर्णतालानिलेन।
प्रतिगजपतिजैत्रानन्तर वीरलक्ष्मी-
धृतविजयपताकाडम्बर बिभ्रतीव॥३०७॥

वशोऽतीव महानय विरचितश्चारा पुनर्लोचन-
व्यापारादपि दूरतो विनिहिता कोऽय प्रधावक्रम।
इत्थ यावदमी जना कृतधियस्तावत्करी भूपते
वीर वीरमनेकतामवगतो गृह्णन्पर दृश्यते॥३०८॥

वीथीशीर्षत एव पञ्चमजवोत्थानस्य सातत्यत
स्वामिन्नस्य जव कथ करिपते कथ्येत चित्र यत।

———————————

तडिकार्गला अगडकाष्ठानि मृणालत्वपद्मिनीकन्दत्व भजन्ति प्राप्नुवति। करेणुवग हस्तिहस्तिनीवर्ग सीदति दुःखीभवति। उपमालकार॥

उपरीत्यादि। हे राजन्, अस्य तव गजस्य उपरि करविकीर्णा शुण्डादण्डेन विक्षिप्ता पासवो धुलय कर्णतालानिलेन कर्णतालवायुना प्रकाममतिशयेन नभसि आकाशे विततमार्गाप्रतिगजपतिजेत्रानन्तर शत्रुगजविजयानन्तर वीरलक्ष्मीधृतवि जयपताकाडम्बर बिभ्रतीव वीरलक्ष्म्या वीरश्रिया धृता मस्तकोपर्यारोपिता या विज यपताका जयध्वजा तस्या आडम्बर आटोपस्त वीरलक्ष्मीधृतविजयपताकाडम्बर बिभ्रतीव धरतीव। उत्प्रेक्षालकार॥

वशोऽतीवेत्यादि। हे भूपते, यावत्काल अमी जना लोका इत्थममुना प्रकारेण कृतधिय पर्यालोचयन्ति। इत्थ कथमिति चेत् अय वश प्रधावभूमि अतीव महान् गुरुतरो विरचित कृतश्चारा कुन्तादिकरा पुरुषा लोचनव्यापारादपि दृष्टेरगोचराद् अपि पुनर्दूरतो विनिहिता विप्रकृष्ट स्थापिता। कोऽय प्रधावक्रमो वर्तते। न कश्चित् प्रधावक्रम इत्यर्थ। तावत्काल करी तव गजेन्द्र वीर सुभट परं केवल गृह्णन् दृश्यते स्वीकुर्वन् विलोक्यते। कथभूत करी। अनेकतामवगत। एकोऽपि सन् अनेकत्व प्राप्त इत्यर्थ। उपमालकार॥

वीथीशीर्षत इत्यादि। हे स्वामिन्, अस्य प्रत्यक्षीभूतस्य करिपतेस्तव गजेन्द्रस्य जवो वेग कथ केन प्रकारेण कथ्यते उच्येत। यतो यस्मात् कारणात् चित्रमाश्चर्यं वर्तते। कथभूतस्यास्य करिपते। वीथीशीषत एव मार्गस्य मस्तके एव प्रारम्भे पञ्चमजवोत्थानस्य पञ्चम जवस्य उत्थान उत्था यस्य स पञ्चमजवोत्थानस्तस्य। भूतवेगोत्थितस्येत्यर्थ। उक्त च—‘आस्कन्दित वौरितिक रेचित वल्गित प्लुतम्’ इति अश्वाना पञ्च

पाश्चात्यैर्जवनैरपि व्यवसित स्थातु न पार्श्वे हयै
पार्श्वस्थैर्न पुर पुरश्च चलितैर्नेतस्ततोधावितुम्॥३०९॥

यस्याघातेन गजा व्रजन्ति यमपिशितकवलता कदने।
रथमनुजवाजिनिवह कतरोऽस्य गजस्य राजेन्द्र॥३१०॥

राजन्नूर्जितशौर्यशालिनि जने वीरश्रुतिर्विश्रुता
तामेषोऽद्य पलायितेऽपि कृतधीर्धत्ते न तच्चोचितम्।
हस्तीतीव119 निहन्ति विद्रुतमपि त्रासाच्चराणा गण
नैव चेत्कथमत्र विक्रमभरस्तुङ्गस्य शूरस्य च॥३११॥

———————————

गतय। प्लुतमुड्डीयगमनमित्यर्थ। पञ्जिकाकारस्तु—‘नीचैर्गतस्थूलोच्चयमध्यमोपजवापेक्षया पञ्चमजवोत्थानस्य’ इत्युक्तवान्। कथम्। सातत्यत मध्येऽपि प्रान्तेऽपि पाश्चात्यै अस्य गजस्य पश्चात्स्थितैर्हयैरश्वैर्जवनैर्वेगवद्भिरपि पार्श्वे वामदक्षिणपार्श्वे स्थातु स्थितिं कर्तु न व्यवसित न चेष्टितम्। पाश्वस्थैवामदक्षिणपार्श्वस्थैर्हयै जवनैरपि पुरोऽग्रत स्थातु न व्यवसितम्। पुनश्च चलितैरग्रतो धावितैरितस्ततो धावितु शीघ्र गन्तु न व्यवसि तम्। दीपकातिशयालकार॥

यस्याघातेनेत्यादि। हे राजेन्द्र, यस्य तव गजेन्द्रस्य कदने सग्रामे आघातेन निष्ठुरप्रहारेण गजा शत्रुकरिणो यमपिशितकवलता व्रजन्ति यमस्य मासग्रासत्व प्राप्नुवन्ति, तर्हि रथमनुजवाजिनिवह अस्य तव गजस्य कतर कियन्मात्राेवर्तते। रथाश्चमनुजाश्च वाजिनश्च तुरङ्गास्तेषा निवह समूह कतर। न कियन्मात्र इत्यर्थ। उपमा क्षेपालकार॥

राजन्नित्यादि। हे राजन् हे यशोधरमहाराज, ऊर्जितशौर्यशालिनि जने ऊजितम् अप्रतिहतव्यापार यत् शौर्य ऊर्जितशौर्य तेन शालते शोभते इत्येवशील ऊर्जितशौर्यशाली। ‘शालश्च शोभायाम्’ इति धातो प्रयोगात् पदमिदम्। ईदृग्विधे जने मनुष्ये वीरश्रु तिर्वीर इति नाम विश्रुता विख्यातता वर्तते। ता वीरश्रुतिं एष (नाग) हस्ती अय(नाग) हस्ती अद्य इदानीं पलायितेऽपि कृतधीर्विचक्षण न धत्ते न धरति तच्च उचित योग्यम्। अनुचितमप्युचितमित्यर्थ। उक्त च—‘भीरु पलायमानोऽपि नान्वेष्टव्यो बलीयसा। कदाचिच्छूरतामेति रमणे कृतनिश्चय॥’ अय (नाग) हस्ती अतीव अतिशयेन त्रासात्भयात् विद्रुतमपि पलायितमपि चराणा गण प्रतिचारकाणा समूह निहन्ति विध्व सयति। चेद्यदि एव न वतते तर्हि अत्र अस्मिन् गजे कथ केन प्रकारेण विक्रमभर

अस्मिन्महीपाल गजे सदाने जगत्यभूत्कस्य न दानभाव।
क्षिति सदानार्थिजन सदानस्तवारिवर्गश्च यत

सदान॥३९२॥

शतमख दहन काल गुह वरुण समीरण धनद चन्द्रम
प्रथितैकैककुम्भिविभवास्तदिभानवत प्रयत्नत।
इत्युपदेष्टुकाम इव हस्तमुदञ्चति वियति वारणो
नो चेदिभविहीनरचना भवता भविता पताकिनी॥३१३॥

दूराद्दृष्टिपथ गते विगलिता हसावलीकाञ्चिका
स्पर्शात्पङ्कजिनीदलाशुकमगादस्या सरस्या पुन।

———————————

शक्तिसपद। विज्ञायत इति शेष। कथभूतस्य। तुङ्गस्य उन्नतस्य शूरस्य सुभटस्य च न कथमपि विज्ञायत इत्यर्थ। व्यतिरेकाक्षेपालङ्का

र॥

अस्मिन्नित्यादि। हे महीपाल, अस्मिन् प्रत्यक्षीभूते गजे तव हस्तिनि सदाने मदवति सति जगति ससारे कस्य पुरुषस्य दानभाव दानत्व नाभूत्। अपि तु सर्वस्यापि दानभावो बभूव। कुत्र दानभावो बभूव। क्षिति सदाना अभूत् सक्षरणा बभूव। ‘देड् त्रैड् पालने’ इति धातो प्रयोगात्। अथिजनो याचकलोक सदान सधनो बभूव। यत तव भवतो अरिवर्ग सदान सखण्डनो अभूद्बभूव। समुच्चयश्लेषालङ्कार॥

शतमखेत्यादि। हे राजन्, वारणस्तव गजो वियति आकाशे हस्त शुण्डादण्ड उदञ्चति उत्क्षिपति। कथभूतो वारण। इत्यमुना प्रकारेण उपदेष्टुकाम इव उपदेशयितुमना इव। इतीति किम्। हे शतमख हे इन्द्र, हे दहन हे अग्ने, हे काल हे यम, हे गुह हे कार्तिकेय, हे वरुण हे पाशिन्, हे समीरण हे वायो, हे धनद हे मनुष्यधर्मन्, हे चन्द्रम हे रोहिणीपते, यूय सर्वेऽपि प्रथितैकैककुम्भिविभवा प्रथितो विख्यात एकैक एक एक एव कुम्भिभि. गजै विभवो धन येषा ते प्रथितैकैककुम्भिविभवा यूय वर्तन्ते। तत्तस्मात् कारणात् इभान् निजनिजगजान् प्रयत्नत सावधानतया अवत रक्षत। यूय नो चेत् यदि न रक्षयिष्यथो यूय तर्हि भवता युष्माक पताकिनी सेना इभविहीनरचना गजरहितप्रयत्ना भविता भविष्यति। उत्प्रेक्षालकार॥

दूरादित्यादि। हे सुभग श्रवणाद्दर्शनाद्वा सर्वेषा सुखोत्पादक, गजपतौ तव गजेन्द्रे अस्या सरस्या महासरोवरस्य दूरात् विप्रकर्षात् दृष्टिपथ लोचनमार्ग गते प्राप्ते सति हसावलीकाञ्चिका हसश्रेणीरसना विगलिता अध पतिता। स्पर्शात् शुण्डादण्डेन छुपिक्रियाया पङ्कजिनीदलाशुक पद्मिनीपत्त्रवस्त्र अगात् गलितम्। पुन पश्चात् गजपतौ

नाभिं प्राप्तवति त्वयीव सुभग प्रौढाङ्गनाविभ्रम
सोत्कम्पा न करोति क गजपतौ सा लोलवीचीभुजा॥३१४॥

विनिकीर्णकमलमाल्या पर्यस्ततरङ्गकुन्तला सरसी।
राजति गजपतिभुक्ता त्वदचिरभुक्ता पुरन्ध्रीव॥३१५॥

यदहमुपलोभ्य पूर्व बद्धस्तेनैव नाथ पर्याप्तम्।
इति सर्वत्राशङ्की गुल्मानपि दूरतस्त्यजति॥३१६॥

प्रत्युज्जीवितयेव देव धरणीदेव्या विनिश्वस्यते
भोगीन्द्र श्लथभू श्रम विनयते कृच्छ्रादिवापेतवान्।

——————————

नाभिंप्राप्तवति मध्यप्रदेश गतवति सति सोत्कम्पा सरसी क प्रोढाङ्गनाविभ्रम न करोति। अपि तु सर्वं नवयौवनस्त्रीशोभाविलास करोतीत्यर्थं। कथभूता रससी। लोलवीचीभुजा चलल्लहरीबाहुलतिका। गजपतौ कथभूते। त्वयीव भवतीव। यथा त्वयि प्रौढाङ्गनाया दूरात् दृष्टिपथ गते सति काञ्चिका विगलति, स्पर्शात् अधोवस्त्र गच्छति। नाभिं प्राप्तवति सोत्कम्पा सति क विभ्रम न करोति। अपि तु विभ्रमति भ्रूक्षेप करोत्येव। कथभूता सा। लोलवीचीभुजा चपलबाहुका। रूपकोपमाक्षेपालकार। सकर इत्यर्थ॥

विनिकीर्णकमलमाल्येत्यादि। हे राजन्, सरसी महत्सर गजपतिभुक्ता राजति शोभते। कथभूता सरसी। विनिकीर्णकमलमाल्या विनिकीर्णानि विक्षिप्तानि कमलमाल्यानि कमलपुष्पाणि यस्या सा तथोक्ता। पुन कथभूता। पर्यस्ततरङ्गकुन्तला पर्यस्ता मुक्ता तरङ्गा कल्लोलास्त एव कुन्तला केशा यस्या सा तथोक्ता। पुन कथभूता। पुरन्ध्रीव। कथभूता पुरन्ध्री। त्वदचिरभुक्ता त्वया भवता अचिरभुक्तातत्कालभुक्ता। यथा त्वदचिरभुक्ता पुरन्ध्री विनिकीर्णमाल्या भवति। पर्यस्तकुन्तला विक्षिप्तकेशा च भवति। उपमालङ्का

र॥

यदहमित्यादि। हे नाथ, इत्यमुना प्रकारेण इदृशाभिप्रायेण सर्वत्राशङ्की सर्वत्र सदेहवान् अय हस्ती गुल्मानपि वृक्षानपि दूरतो विप्रकृष्टत त्यजति मुञ्चति। इतीति किम्। हे नाथ, यत् अह उपलोभ्य हस्तिनीलोभ दर्शयित्वा पूर्व द्वारप्रवेशकाले बद्धो नियन्त्रित तेनैव पर्याप्त तेनैव बन्धनेन पर्याप्त परिपूर्णम्। हेत्वलङ्का

र॥

प्रत्युज्जीवितयेत्यादि। हे राजन्, यदा यस्मिन् काले ते तव स्तम्बेरमो गज अपास्तसगरभर परित्यक्तसग्रामभार सन् स्तम्भ आलानस्तम्भ प्राप्त आगत। हे देव, तदा काले धरणीदेव्या भूमिदेवतया विनिश्वस्यते निश्वासो गृह्यते। कथभूतया धरणीदेव्या। प्रत्युज्जीवितया इव पुनरपि जीवितया इव। हे देव, भोगीन्द्र शेषनाग श्लथभू शिथिलभूमि सन् श्रम खेद विनयते विनाशयति। ‘पूज्योक्ष्येपनामयनज्ञानभृतिविगणनव्ययेषु णीत्र’ इत्यधिकारे ‘कर्तृस्थाव्यूर्तकर्मकश्च’ इत्यनेन सूत्रेण उभ-

वायुर्बन्धनतो विमुक्त इव च स्वैर दिश सर्पति
प्राप्तस्तम्भमपास्तसगरभर स्तम्बेरमस्ते यदा॥३१७॥

इयमत्राद्भुतकारिणि मदपुरुषे नैव वर्णना वितथा।
वितथस्तु पर नियमो बुधोक्तजवबलपरीक्षाया॥३१८॥

इति पठता गजोपजीविलोकेनानन्दितचेता प्रभिन्नकरिकेलीरदर्शम्।
कदाचित्सैन्ययोगात्पूर्वमेव गुप्तिशोभा च वक्त्रस्य प्रहारसौष्ठव च या
करोति कुञ्जरेन्द्राणा कल्पना सा प्रशस्यते इति विहितकल्पनाविधि।
आरूढे त्वयि देव मा गजपतिं शौण्डीरचूडामणे
का सा कुञ्जरमण्डली मम पुरो या समुखीना भवेत्।

——————————

यपद्यपि ‘णीत्र’ धातुवादित्वात्। कथभूतो भोगीन्द्र। कृच्छ्रात् कष्टात् अपेतवानिव त्यक्त इव। हे राजन्, वायु मारुत स्वैर यथेष्ट दिशो हरित सर्पति प्रसरति। कथभूतो वायु। बन्धनतो विमुक्त इव बन्धनात् परित्यक्त इव। उत्प्रेक्षालङ्का

र॥

इयमित्यादि। हे राजन्, अत्र अस्मिन् मदपुरुषे पूर्वोक्तलक्षणप्राये गजे इय वर्णना वितथा असत्या नैव वर्तते। कथभूते गजे मदपुरुषे। अद्भुतकारिणि आश्चर्योत्पादके। यदि इय वर्णना वितथा न वर्तते तर्हि किं वितथ किमपि अपर सत्य वर्तते, पर निश्चयेन बुधोक्तजवबलपरीक्षाया बुधैर्विद्वद्भिरुक्ता गत्यागमे प्रतिपादिता या जवबलयो वेगशक्त्यो परीक्षा विचारणा बुधोक्तजवबलपरीक्षा तस्या नियमो निर्णय निश्चय निर्धार स तु वितथ। सत्य इत्यर्थ। अतिशयालङ्कार॥

कदाचित् कस्मिश्चिदवसरे सैन्ययोगात् पूर्वमेव सेनाया दिग्विजयकरणे योगात् प्रथममेव करिणा कोशारोपण कल्पाना लोहादीना दन्तवेष्टनादिक अकरव अह चकार। कथभूतोऽहम्। इत्यमुना प्रकारेण विहितकल्पनाविधि विहित कृतो गजाना कल्पनाविधि दन्तजटनादिविधान येन स विहितकल्पनाविधि। इतीति किम्। सा कल्पना प्रशस्यते श्लाध्यते। सा का। या कुञ्जरेन्द्राणा गुप्तिशोभा करोति। कस्य गुप्तिशोभाम्। वक्रस्य दन्तरक्षादिशोभाम्। न केवल गुप्तिशोभाम्, प्रहारेण दन्तपातेन दुर्गादिपातनपरीक्षा सौष्ठव दृढप्रहारादिक च या कल्पना करोति सा कल्पना प्रशस्यते। पुन कथभू तोऽहम्। तेन गजोपजीविना गृहीता स्वीकृत प्रसादपरम्परा हर्षदानश्रेणीर्यस्मात् स गृहीतप्रसादपरम्पर। कथभूतेन तेन। इति च अधीयानेन ईदृश पठता। इतीति किम्॥

** आरूढेत्यादि।** हे देव, हे शौण्डीरचूडामणे हे सुभटशिरोरत्न, करी तब गजेन्द्र इति ईदृश चिन्तनपर विचारतत्पर इव वारवार पुन पुन नेत्रे द्वे लोचने पिधत्ते झम्पति। इतीति किम्। हे शौण्डीरचूडामणे, त्वयि भवति मातङ्ग गजपतिमारूढे सति

तत्पर्याप्तमनेन कोशविधिना भारक्लम कुर्वता
वारवारमितीवचिन्तनपरो नेत्रे पिधत्ते करी॥३१९॥

इति चाधीयानेन गृहीतप्रसादपरम्पर करिणा कोशारोपणमकरवम्।
येषा गजोत्तमाङ्गानि बलानि न महीभुजाम्।
उत्तमाङ्गविहीनानि तानि तेषा रणाङ्गणे॥३२०॥

** कदाचित्।**

———————

आरोहण कृतवति सति सा जगत्प्रसिद्धा कुञ्जरमण्डली गजघटा का कियन्मात्रा। न कापीत्यर्थं। सा का। या कुञ्जरमण्डली मम पुर ममाग्रत समुखीना समुखीभवेत् सजायेत्। ततस्तस्मात् कारणात् अनेन प्रत्यक्षीभूतेन कोशविधिना दन्तजटनादिविधा नेन पर्याप्त परिपूर्णम्। कथभूतेन कोशविधिना। भारक्लम भारखेद कुर्वता। आक्षे पालकार॥

येषामित्यादि। येषा महीभुजा महीपालाना बलानि सैन्यानि वर्तन्ते। कथभूतानि बलानि। गजोत्तमाङ्गानि गजा एव उत्तमाङ्गमुत्कृष्टमङ्ग चतुरङ्गसैन्य मध्ये येषा तानि। तेषा महीभुजा रणाङ्गणे तानि बलानि उत्तमाङ्गविहीनानि भवन्ति मस्तकरहितानि भवन्ति। श्लेषालङ्कार॥

कदाचित् कस्मिश्चिदवसरे प्रत्यवसान समाचरत भोजन अह आचरितवान्। कथभूत प्रत्यवसानम्। इत्यमुना प्रकारेण सज्जनभिषज सज्जननामवैद्यात् प्रसूतसूक्तामृ तपुनरुक्तोपदशदशन प्रसूतानि उत्पन्नानि यानि सूक्तामृतानि सुभाषितपीयूषाणि तै पुनरुक्त द्विगुणीकृत उपदशाना चवणाना दशन भक्षण यत्र प्रत्यवसाने तत्तथोक्तम्। उक्त च—‘अवदशस्तु भक्षण खरविद (?) समभ्यवहार्य चवणमुपदशश्च।’ कथभूतात्।

सज्जनभिषज। वैद्यविद्याविलासापरनामभाज वैद्यविद्याविलास इति ईदृश अपर द्वितीय नाम अभिधान भजते सेवते स तथा तस्मात्। पुन कथभूतात्। रसाना मधुराम्लकटुतिक्तकषायलवणाना षड्रसाना शुद्धससर्गभेदेन। भेदशब्द प्रत्येकमभिस बध्यते। तेनायमर्थ—शुद्धभेदेन ससर्गभेदेन च त्रिषष्टिव्यञ्जनोपदेशभाज त्रिषष्टि व्यञ्ज नानि येषा तेषामुपदेश भजते। तथाहि—मधुराम्लेन, कटुना तिक्तेन, कटुकेन च, कषायेण पृथक् सह तिक्तस्तु कटुना सार्धं कषायेण पृथक्। तथा ‘कटुकस्तु कषायेण सिद्धयोगा इति स्मृता’। अस्यायमर्थ—मधुराम्लम्, मधुरलवणम्, मधुरतिक्तम्‚ मधुरकटु क्रम् ‚मधुरकषायम्, आम्ललवणम्, आम्लतिक्तम्, आम्लकटुकम्, आम्लकषायम्, लवणतिक्तम्, लवणकटुकम्, लवणकषायम्, तिक्तकटुकम्, तिक्तकषायम्, कटुककषायम्‚ एव पञ्चदश। मधुराम्ललवणम्, मधुराम्लतिक्तम्‚ मधुराम्लकटुकम् मधुराम्ल कषायम्‚ मधुरलवणतिक्तम्‚ मधुरलवणकटुकम्‚ मधुरलवणकषायम्, मधुरतिक्तकटु-

अधिगतसुखनिद्र सुप्रसन्नेन्द्रियात्मा
सुलघुजठरवृत्तिर्भुक्तपक्तिं दधान।

श्रमभरपरिखिन्न स्नेहसमर्दिताङ्ग
सवनगृहमुपेयाद्भूपतिर्मज्जनाय॥३२१॥

स्थाल्या यथानावरणाननायामघट्टिताया च न साधुपाक।
अनाप्तनिद्रस्य तथा नरेन्द्र व्यायामहीनस्य च नान्नपाक॥३२२॥

———————

कम्, मधुरतिक्तकषायम्, मधुरकटुककषायम्, एव दश। आम्ललवणतिक्तम्, आम्ललवणकटुकम्, आम्ललवणकषायम्, आम्लतिक्तकटुकम्, आम्लतिक्तकषायम्, आम्लकटुककषायम्, एव षट्। लवणतिक्तकटुकम्, लवणतिक्तकषायम्, लवणकटुककषायम्, एव त्रय। तिक्तलवणकषायम्, एक। मधुराम्ललवणतिक्तम्, मधुराम्ललवणकटुकम्, मधुराम्ललवणकषायम्, मधुरलवणतिक्तकषायम्, मधुरलवणकटुककषायम्, मधुरतिक्तकटुककषायम्, मधुराम्लतिक्तकटुकम्, मधुराम्लतिक्तकषायम्, मधुराम्ललवणकटुककषायम्, मधुरलवणतिक्तकटुकम्, एव दश। आम्ललवणतिक्तकटुकम्, आम्ललवणतिक्तकषायम्, आम्ललवणकटुककषायम्, आम्लतिक्तकटुककषायम्, लवणतिक्तकटुककषायम्, एव पञ्च। आम्ललवणतिक्तकटुककषायम्, मधुरतिक्तलवणकषायम्, मधुराम्लतिक्तकटुकषायम्, मधुराम्लतिक्तकटुककषायम्, मधुराम्ललवणतिक्तकषायम्, एव पञ्च। मधुराम्ललवणतिक्तकटुकम्, एव एक। मधुराम्ललवणतिक्तकटुककषायम्, एव षट्। एव त्रिषष्टिव्यञ्जनभेद। इतीति किम्।

अधिगतसुखनिद्र इत्यादि। भूपती राजा सवनगृह स्नानमन्दिरमज्जनाय उपेयाद्गच्छेत्। भूपति कथभूत। अधिगतसुखनिद्र अधिगता प्राप्ता सुखनिद्रा येन स तथोक्त। पुन कथभूत। सुप्रसन्नेन्द्रियात्मा सुप्रसन्नानि अकलुषितानि इन्द्रियाणि स्पर्शनरसनघ्राणचक्षु श्रोत्राणि आत्मा च मनो यस्य स तथोक्त। पुन कथभूत। सुल घु..ठरवृत्ति सुष्ठु अतिशयेन लध्वी अगुर्वी जठरस्योदरस्य वृत्तिर्भोजन यस्य स तथाेक्त। भूपति कि कुर्वाण। भुक्तपक्तिं दधान भुक्तस्य भोजनस्य पक्तिंपचनता दधान कुर्वाण। अपर कथभूत। श्रमभरपरिखिन्न श्रमभरेण धनुर्विद्याश्ववाहनादिना परि समन्तात् खिन्न श्रान्त। पुन कथभूत। स्नेहसमर्दिताङ्ग स्नेहेन जातीचम्पकमुक्तबन्धनादिपुष्पावासितेन तैलेन घृतेन वा सम्यक्प्रकारेण समर्दिताङ्ग अभ्यक्तशरीर॥ जात्यलकार।

स्थाल्यामित्यादि। हे नरेन्द्र, यथा येन प्रकारेण अनावरणाननाया अपिधान रहितमुखाया अधट्टिताया च दर्व्योअचालिता..या च स्थाल्या उखाया साधुपाको न भवति, तथा तेन प्रकारेण अनाप्तनिद्रस्य अप्राप्तस्वापस्य व्यायामहीनस्य च श्रम हीनस्य च अन्नपाको न भवति। दृष्टान्तालकार॥

अभ्यङ्ग श्रमवातहा बलकर कायस्य दार्ढ्यावह
स्यादुद्वर्तनमङ्गकान्तिकरण मेद कफालस्यजित्।

आयुष्य हृदयप्रासदि वपुष कण्डूक्लमच्छेदि च
स्नान देव यथर्तुसेवितमिद शीतैरशीतैर्जलै॥३२३॥

श्रमधर्मार्तदेहानामाकुलेन्द्रियचेतसाम्।
तब देव द्विषा सन्तु स्नानपानादनक्रिया॥३२४॥

स्वय विरतधर्माम्बुर्निद्राविद्राणितश्रम।
शीतोपचारतृट्छेदाद्भवेत्पत्सलवत्सल॥३२५॥

————————

अभ्यङ्ग इत्यादि। हे राजन्, अभ्यङ्गस्तैलमर्दन श्रमवातहा श्रम खेद वात हन्ति निराकरोति श्रमवातहा। पुन कथभूत। कायस्य बलकर। पुन कथभूत। कायस्य दैर्घ्या(दार्ढ्या)वह शिथिलत्वनिवारक। हे देव, उद्वर्तन स्नानीयचूर्णेन विलेपन अङ्गकान्तिकरण स्यात्। कथभूत उद्वर्तनम्। मेद कफालस्यजित् मेदश्च वपा वसाशुद्ध मास स्नेह इति पाठत, कफश्चश्लेष्मा, आलस्य च अनुद्यम, मेद कफालस्यानि तानि जयति निराकरोति इति मेद कफालस्यजित्। हे देव, स्नान आयुष्य आयुषे हित आयुष्यम्। पुन कथभूतम्। हृदयप्रसादि मनस प्रसन्नताजनक कलुषितनिवारणम्। पुन कथभूतम्। वपुष शरीरस्य कण्डूक्लमच्छेदि कण्डूश्च खर्जू, क्लमश्च ग्लानि, तौ छेदयतीति कण्डूक्लमच्छेदि। पुन कथभूतम्। शीतैरशीतैजलैर्यथतुसेवित उष्णकाले शीतैजलै स्नान सेव्यते, शीतकाले वषासु च उष्णैर्जलै सेव्यते। समुच्चयालकार॥

** श्रमधर्मेत्यादि।** हे देव, तव द्विषा भवत शत्रूणा स्नानपानादनक्रिया सन्तु। क्रियाशब्द प्रत्येकमभिसबध्यते। स्नानक्रिया च पानक्रिया च अदनक्रिया च स्नानपानादनक्रिया भवन्तु। कथभूताना तब द्विषाम्। श्रमधर्मार्तदेहाना श्रमेण खेदेन धर्मणा उष्णेन आर्त पीडितो देह शरीर येषा ते श्रमधर्मार्तदेहास्तेषाम्। पुन कथभूतानाम्। आकुलेन्द्रियचेतसाम् आकुलानि विह्वलीभूतानि इन्द्रियाणि चेतश्चमनो येषा ते आकुलेन्द्रियचेतसस्तेषाम्। हेत्वलकार॥

स्वयमित्यादि। भवेत् सजायेत। कोऽसौ। पत्सलवत्सल भोजनस्नेहल। कथभूत। स्वयविरतधमाम्बुर्व्यजनादिना आस्फेटितप्रस्वेदजल। पुन कथभूत। निद्राविद्राणितश्रम निद्रया प्रलीलया विद्राणितो विनाशित श्रम खेदो येन स तथा। स कस्मात् पत्सलवत्सलो भवेत्। शीतोपचारतृट्छेदात्। द्राक्षाहरीतकी आमल्पान कादिना विनाशिततृष्णाच्छेदात्। न तु पानीयपानादित्यर्थ। जात्यलकार॥

दृड्मान्द्यभागातपितोऽम्बुसेवी श्रान्त कृताशोवमनज्वरार्ह।
भगन्दरी स्यन्दविबन्धकाले गुल्मीजिहत्सुर्विहिताशनश्च॥३२६॥

स्नान विधाय विधिवत्कृतदेवकार्य
सतर्पितातिथिजन सुमना सुवेष।
आप्तैर्वृताेरहसि भोजनकृत्तथा स्या-
त्साय यथा भवतिभुक्तिकरोऽभिलाष॥३२७॥

चारायणो निशि तिमि पुनरस्तकाले
मध्ये दिनस्यधिषणश्चरक प्रभाते।
भुक्तिंजगादनृपते मम चेैष सर्ग-
स्तस्या स एव समय क्षुधितो यदैव॥३२८॥

योऽक्षुध्यल्लाेलभावेन कुर्यादाकण्ठभोजनम्‌।
सुप्तान्व्यालानिव व्याधीन्साेऽनर्थाय प्रबोधयेत्‌॥३२९॥

————————

** दृड्मान्द्यभागित्यादि।** आतपितो धर्मपीडित आगतस्तथा सति यद्यम्बु सेवते जल पिबति तर्हिदृड्माद्यभाक्‌ मन्ददृष्टिभवति। श्रान्त मार्गश्रान्त आगत सन्‌ कृताशोयदि भोजन करोति तदा वमनज्वरार्हतस्यभोजनानतर वमन भवति ज्वरश्चोत्पद्यते। स्यदविबन्धकालेप्रस्त्रावबाधासहितो यदि भोजन करोति तदा भगन्दरीभगन्दररोगस्तस्य भवति। य पुमान्‌ जिहत्सुहदनबाधासहित सन्‌ विहिताशनो भोजन करोति सगुल्मी तस्यगुल्मानि उत्पद्यन्ते। जात्यलकार॥

** स्त्रानमित्यादि।**स्त्रान विधाय विधिवत्‌ शास्राेक्त्तप्रकारेण कृतदेवकार्यस्त्रापनार्चादिविधिंकृत्वासतर्पितातिथिजन सप्रीणितयात्रलाेक, सुमना अकलुषितचित्त, सुवेष रुचिराकल्पसयुक्त, आप्तैर्वृत हितजनैर्गुर्वादिभि सवेष्टितो रहसि एकान्ते भोजनकृत्‌ पुमान्‌ भोजन करोति स पुमान्‌ तथा स्यात्‌ तादृशाेभवति। तादृश कीदृशाेभवति। साय सध्याया सूर्यास्तमनवेलाया भुक्तिकरोऽभिलाषाेभोजनेच्छायथा भवति। जात्यलकार॥

चारायण इत्यादि। हे नृपते, चारायणो नाम वैद्यनिशिरात्रौ भुक्तिंभोजन जगाद उक्त्तवान्‌। तिमिर्नाम वैद्य पुन अस्तकाले सध्यासमये भुक्तिंजगाद।धिषणाेबृहस्पतिनाम वैद्य दिनस्य मध्ये मध्याह्नेभुक्तिंजगाद। चरको नाम वैद्यप्रभाते भुक्तिंजगाद। मम एष सर्गो वर्तते।एष क। तस्या भुक्ते स एवसमय स एवावसर। स क। यदैव यस्मिन्नेव कालेक्षुधितो भवति तदैव भोजन कुर्यादित्यर्थ। दीपकालकार॥

** योऽक्षुध्यन्निदत्यादि।** य पुमान्अक्षुध्यन्‌ बुभुक्षारहित सन्‌ लोलभावेन भो–

** अन्ये त्वेवमाहु—**

य कोकवद्दिवाकाम स नक्तभोक्तुमर्हति।
स भोक्तावासरे यश्च रात्रौ रन्ता चकोरवत्‌॥३३०॥

** परे त्वेवमाहु—**

हृन्नाभिपद्मसकोचश्चण्डरोचेरपायत।
अतो नक्तन भोक्तव्यंवैद्यविद्याविदा वरै॥३३१॥
देवार्चाेभोजन निद्रामाकाशेन प्रकल्पयेत्‌।
नान्धकारे न सध्याया नाविताने निकेतने॥३३२॥
सहभाेजिषु लोकेषु पुरैव परिवेषयेत्‌।
भुञ्जानस्यान्यथा पूर्वतद्दृष्टिविषसक्रम॥३३३॥

———————

जनलम्पटत्वेन आकण्ठ भाेजन कुर्यात्‌ परिपूर्णभुङ्क्तेस पुमान्‌ व्याधीन्‌ रोगान्‌ अनर्याय दुःखनिमित्त प्रबोधयेत्‌ जागरयति। कथभूतान्‌ व्याधीन्‌। सुप्तान्‌ व्यालानिव निद्रा प्राप्तान्‌ सर्पानिव। उपमालकार॥

अन्ये त्वेवमाहु। अन्येवैद्यास्तुएवमाहुर्ब्रुवन्ति। एव कथमिति चेत्—**य इत्यादि।**य पुमान्‌ कोकवत्‌ चक्रवाकवत्‌ दिवाकाम दिने मैथुन करोति स पुमान्‌ नक्तरात्रौ भोक्तुमर्हति भोजन कर्तुयोग्यो भवति। स पुमान्‌ वासरे दिवसे भोक्ताभोजन करोति। स क। य पुमान्‌ रात्राेरन्ता भेथुनकारक। किवत्‌। चकोरवत्‌ जीवजी वपक्षिवत्‌। उपमालकार॥

परे त्वेवमाहु। एव कथमिति चेत्—हृन्नाभीत्यादि। हत्पद्मच नाभिपद्मच हृन्नाभिपद्मेतयो सकोचो भवति मुकुलत्वस्यात्‌। कस्मात्‌। चण्डरोचेरपायत चण्डरोचिष श्रीसूर्यस्य अपायतोऽस्तमनात्‌। अत एतस्मात्‌ कारणात्‌ नक्तरात्रौन भोक्तव्य न भोजनीयम्‌। कै.. वैद्यविद्याविदा वरै। उत्तमवैद्यैरित्यर्थ। रूपकालकार॥

देवार्चामित्यादि। देवार्चादेवपूजन भोजन भुक्तिं निद्रा स्वाप एतानि त्रीणि कर्माणि आकाशे अभ्रावकाशे न प्रकत्पयेत्‌। तथा अन्धकारे न प्रकल्पयेत्‌। तथा सध्याया न प्रकल्पयेत्‌। तथा अविताने चन्द्रोपकरहिते निकेतने गृहे न प्रकल्पयेत्‌। दीपकालकार॥

सहभोजिष्वित्यादि। सहभोजिषु लाेकेषु ये सहैव भोजन कुर्वन्ति तेभ्य पुरैव पूर्वमेव परिवेषयेत्भोजन मोचयेत्‌। अन्यथा पूर्व भुञ्जानस्य दृष्टिविषसक्रम तेषा दृष्टिविषसक्रामति। रूपकालकार॥

भुक्तौस्वापे मलोत्सर्गेय सबाधसमाकुल।
नि शङ्कस्यात्ययात्तस्य के के न स्युर्महामया॥३३४॥

फेलाभुक्प्रतिकूल क्ररमना सामय क्षुधाक्रान्त।
न स्यात्समीपवर्तीभोजनकाले विनिन्द्यश्च॥३३५॥

विवर्णास्विन्नविक्लिन्नविगन्धिविरसस्थिति।
अतिजीर्णमसात्म्य च नाद्यादन्नन चाविलम्‌॥३३६॥

हित परिमित पक्वनेत्रनासारसाप्रियम्‌।
परीक्षित च भुञ्जीत न द्रुत म विलम्बितम्‌॥३३७॥

ध्वाङ्क्षस्वरान्विकुरुतेऽत्र पिकात्मजश्च
बभ्रु रिखण्डितनयश्च भवेत्प्रहृष्ट।

———————

** भुक्तावित्यादि।** य पुमान्‌ भुक्तौभोजने स्वापे निद्राया मलोत्सर्गेविड्विसर्जने सबाधसमाकुलो भवति बाधावान्‌ भवति तस्य पुरुषस्यके के महामया रोगानस्युर्न भवति। अपि तु सर्वे महामया स्फुरन्तीत्यर्थ। कस्मात्‌। नि शङ्कस्यात्ययात्‌ नि शङ्कत्वाभावात्‌। आक्षेपालकार॥

** फेलाभुगित्यादि।**भोजनकाले फेलाभुक्‌ उच्छिष्टभाेजी पुमान्‌ समीपवर्ती निकटवर्ती न स्यात्‌। तथा प्रतिकूलशत्रुसमीपवर्ती न स्यात्‌। तथा क्रूरमना हिंसक पुमान्‌ भोजनकाले समीपवर्ती न स्यात्‌। तथा सामयो रुग्ण पुरुष न स्यात्‌। तथा क्षुधाक्रान्त बुभुक्षापीडितो न स्यात्‌। तथा विनिन्द्यश्चनिन्दनीय पुमान्‌ न स्यात्‌। दीपकालकार॥

** विवर्णेत्यादि।** अन्नन अद्यात्‌ न भुञ्जीत। कथभूतमन्नम्‌। विवर्णास्विन्नविल्किन्न विगन्धिविरसस्थिति विवर्णच मलिनम्‌, अस्विन्न च अनिष्पन्नम्‌, विल्किन्न च, विगन्धि च विरूपकगन्धसहितम्‌, विरस च स्वादरहितम्‌, ईद्दशाना दोषाणा स्थिति स्थान यस्मि…तत्तथोक्तम्‌। पुन कथभूतम्‌। अतिजीर्णभूमिनिष्कासित विद्ध वा असात्म्य च अहित आविलमशुद्धम्। क्रियाक्षेपालकार॥

** हितमित्यादि।** अन्नमिति पूर्वोक्तमेव ग्राह्यम्‌, अन्न भुञ्जीत अश्नीयात्‌। कीद्दश अश्नीयात्‌। हित परिणामपथ्यम्‌, परिमितमनाकहीनम्‌, पक्वअग्निपक्वम्‌, नेत्रनासारसाप्रिय नेत्रे च लोचने नासा च घ्राणेन्द्रिय रसा जिह्वा तासा प्रिय वल्लभम्‌, परीक्षित च विषरहित तथा न भुञ्जीत नाश्नीयात्‌ द्रुत शीघ्रम्‌। तत्कालोत्कीर्णमित्यर्थ। विलम्बित अतिशीत भोजनमध्ये कालक्षेप कृत्वान भुञ्जीत। भुञ्जान एव पूर्णकुर्यादित्यर्थ। क्रियादीपकालकार॥

परीक्षितमित्यस्यपदस्य अर्थ विस्तारयति**—त्वाङ्क्षइत्यादि।** विषदर्शनात्‌ विषाव लोकनात्‌ ध्वाड्क्षकाक स्वरान्‌ शब्दान्‌ बिकुरुते विकृतान्शब्दानकरोति। ‘यश

क्रौञ्चप्रमाद्यति विरौति च ताम्रचूड-
श्छर्दिशुक प्रतनुते हदते कपिश्च॥३३८॥

विरज्येते चकोरस्य लोचने विषदर्शनात्‌।
गतौस्खलति हसोऽपि लीयन्तेऽन्ने न मक्षिका॥३३९॥

यथा लवणसपर्कात्स्फुट स्फुटति पावक।
विषदूष्यान्नसपर्कात्तथा वसुमतीपते॥३४०॥

पुनरुष्णीकृत त्याज्य सर्वेधान्य विरूढकम्‌।
दशरात्रोषिते नाद्यात्कसे च निहित घृतम्‌॥३४१॥

दधितक्राभ्या क्दलक्षीर लवणेन च शकुलि कलिना।
गुडपिप्पलिमधुमरिचैसार्धेसेव्या न काकमाची च॥३४२॥

भुञ्जीत माषसूप मूलकसहित न जातु हितकाम।
दधिवत्सक्तुन्नाद्यान्निशिनिखिलतिलविकार च॥३४३॥

————————

ब्दकर्मशक’इत्यनेन सूत्रेण उभयकर्मकोऽपि कृज्धातुरुवादित्वादात्मनेपदम्‌। अत्रअस्मिन्‌ विषान्ने द्दष्टेसति पिकामज कोकिल स्वरान्‌ विकुरुते। बभ्रुर्नकुलशिखण्डितनयश्च मयुर प्रहृष्टो भवेत्‌ आनन्दित स्यात्‌। क्रौञ्चकुटुपक्ष प्रमाद्यति द्दष्ट्वास्वपिति। ताम्रचूड कुक्कुट विरौति विरूपक शब्द करोति। शुक कीर छर्दिवमन प्रतनुते करोति। कपिहदते पुरीषोत्सर्गकरोति। चकोरस्य जीवजीवस्य लोचने नेत्रे विरज्येते विराग प्राप्नुत। हसो गतौ गमने स्खलति रचिरगमन न करोति। अन्नेमक्षिका न लीयन्ते नोपविशन्ति। युग्मम्‌। समुञ्चयालकार॥

** यथेत्यादि।** हेवसुमतीपते, यथा येन प्रकारेण लवणसपर्कात्‌ अक्षीवससर्गात्‌ स्फुट व्यक्तपावको वैश्वानर स्खटति तटतटायते तथा तेन प्रकारेण विषदूष्यान्न सपर्कात्‌ पावक स्फुटति। उपमालकार॥

** पुनरुष्णीकृतमित्यादि।** नाद्यात्न भुञ्जीत। किंतत्‌। सर्वमन्न सर्वभक्तसूपपूपादिक वा पुनरुष्णीकृतम्‌, तथा विरूढक अङ्कुरित धान्यम्‌, तथा कसे च निहित दशरात्रोषित दशदिवसस्थित घृत नाद्यात्‌। प्रदीपकालकार॥

दधितक्राभ्यामित्यादि। दधितक्राभ्या द्वाभ्या तृतीय कदलएकेन वा कदलीफल न सेव्यम्‌। लवणेन सह क्षीर न सेव्यम्‌। कलिना काञ्जिकेन सह शकुलि तिलमिश्रभक्ष्यविशेष न सेव्य। काकमाची वायसाध्वी क्षमामन्नशाकविशेष गुडपिप्पलिमधुमरिचैश्चतुर्भिसार्धन सेव्या न भोक्तव्या। दीपकालकार॥

** भुञ्जीतेत्यादि।** माषसूप शमीधान्यविशेषदाल्यन्न वटकानामुपादानकारण माष

ऋते घृताम्बुभक्ष्येभ्य सर्वंपर्युषित त्यजेत्।
केशकीटकससृष्ट पुनराद्ध च वर्जयेत्॥३४४॥

अत्यशन लघ्वशनंसमशनमध्यशनमत्र सत्याज्यम्।
कुर्याद्यथोक्तमशन बलजीवितपेशल कमश॥३४५॥

आदौ स्वादु स्निग्ध गुरु मध्ये लवणमम्लमुपसेव्यम्।
रूक्ष द्रव च पश्चान्न च भुक्त्वा भक्षयेत्किंचित्॥३४६॥

मन्दस्तीक्ष्णो विषम समश्च वह्निश्चतुर्विध पुसाम्।
लघु मन्दे गुरु तीक्ष्णे स्निग्ध विषमे सम समे चाद्यात्॥३४७॥


तस्या सूप मूलकसहित जातु कदाचित् हितकाम पुमान् न भुञ्जीत नाश्नीयात्। दधिवत् बद्धपिण्डान् सक्तून् न भुञ्जीत। शिथिलान् सक्कूनाद्यादित्यर्थ। निशि रात्रौ निखिल तिलविकार नाद्यात्। समुच्चयालकार॥

** ऋतेइत्यादि।** घृताम्बुभक्ष्येभ्य ऋते घृताम्बुभक्ष्यान्विना सर्व पर्युषित रात्रावुषित त्यजेत् परिहरेत्। पयुषिते घृते अम्बुनि पक्वान्नेच दोषो नास्तीत्यथ। केशकीटकस सृष्ट यस्मिन्नन्ने केशो निर्गत कीटकश्च निर्गत तदन वर्जयेत्। तथा पुनराद्ध पुनरुष्णीकृत वर्जयेत्। समुच्चयालकार॥

** अत्यशनमित्यादि।** अत्यशन प्रायेण केवल वस्तु सत्याज्यम्। लघ्वशन ओदनादिक न भुञ्जीत। समशन पथ्यापथ्य त्याज्यम्। अध्यशन भुक्तस्योपरि भोजनमध्यशनमुच्यते। तदुक्तम्—‘विद्यादध्यशन भूयो भुक्तस्योपरि भोजनम्’ इति। अत्र भोजने यथोक्तमशन कुर्यात् अनिकालवयोनुरूप यथोक्तम्। कथभूत यथोक्तमशनम्। बलजीवितपेशल बलकारक जीवितकारक च क्रमशोऽनुक्रमेण। तद्युक्तस्यान्नस्यायुक्त अग्रेतन्यामार्याया कथयिष्ये। समुच्चयालकार॥

आदावित्यादि। आदौ प्रथमत स्वादुगुडादिमिश्र तथा स्निग्ध घृतादिक उपसेव्य भोजनीयम्। गुरु मध्ये गुरूपसेव्य भक्तदात्यादिक लवण क्षार अम्ल मध्ये उपसेव्यम्। रूक्ष केवल भक्त द्रव तक्रादिक क्षीरान्न पश्चात् उपसेव्यम्। भुक्त्वा भोजन कृत्वा किंचित् नारिकेरखज्रभृष्टचणक वान्यादिक न भक्षयेत्। समुच्चयालकार॥

मन्द इत्यादि। पुसा पुरुषाणा वह्निर्बुभुक्षा क्षुधारय चतुविध चत्वारो विधा प्रकारा यस्य स चतुर्विध। के ते चत्वारो विधा। एकस्तावन्मन्द मन्दो वहिरल्पबुभुक्षा कफाधिकत्वात्, द्वितीयस्तीक्ष्ण पित्ताधिकत्वात् तृतीयो विषमो वाताधिकत्वात्, चतुर्थ सम कफपित्तानिलसाम्यात्। उदराभिश्चतुविधो भवति। उक्त च—‘मन्दस्तीक्ष्णोऽथ विषम समश्चेति चतुर्विध। कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरो

शिशिरसुरभिघर्मेष्वातपाम्भ शरत्सु
क्षितिप जलशरद्धेमन्तकालेषु चैते।
कफपवनहुताशा सचय च प्रकोप
प्रशममिह भजन्ते जन्मभाजा क्रमेण॥३४८॥

तदिह शरदि सेव्य स्वादु तिक्त कषाय
मधुरलवणमम्ल नीरनीहारकाले।
नृपवर मधुमासे तीक्ष्णतिक्ते कषाय
प्रशमरसमथान्न ग्रीष्मकालागमे च॥३४९॥

नवमशनमिहाद्यात्क्षीरमाषेक्षुभक्ष्या-
न्दधि च घृतविकारास्तैलमप्यत्र पथ्यम्।

  •            *
    

म्ऽनल॥ विषमो वातजान्रोगास्तीक्ष्ण पित्तसमुद्भवान्। करोत्यग्निस्तथा मन्दो विकारान्कफसभवान्॥’ तत्र चतुर्विधेष्वपि वह्निषु अदनमाह—लघु मन्दे लघुभोजन मन्देऽग्नौ अद्यात् भक्षयेत् भुञ्जीत। तीक्ष्णाग्नौ गुर्वन्नमद्यात्। विषमेऽग्नौ स्निग्धानमद्यात्। समेसममन्नमद्यात्। दीपकालकार॥

** शिशिरसुरभिघर्मेष्वित्यादि।** हे क्षितिप हे राजन्, कफपवनहुताशा श्लेष्मवायु पित्तानि सचय प्रकोप च प्रशम उपशमन इह अस्मिन् ससारेजन्मभाजा प्राणिना क्रमेण यथासख्येन भजन्ते। केषु। शिशिरसुरभिघर्मेषु। अस्यायमर्थ—शिशिरे माघफाल्गुनद्वये कफश्लेष्मा सचय भजते, सुरभौ वसन्ते चैनवैशाखे कफ प्रकोप भजते, घर्मेज्येष्ठाषाढे ग्रीष्मकाले कफ प्रशम भजते, आतपे ग्रीष्मकाले पवनो वायु सचय भजते, अम्भसि श्रावणभाद्रपदमासद्वये पवन प्रकोप भजते, शरदि आश्विनकार्तिकमासद्वये पवन प्रशम भजते, शरदि पित्त सचय भजते, मार्गशीर्षपौषमासद्वये पित्त प्रकोप भजते, माघफाल्गुनमासद्वये पित्त प्रशम च भजते इति तात्पर्यार्थ। यथासत्यालकार।

** तदिहेत्यादि। **हे नृपवर राजाधिराज, तत्तस्मात् कारणात् इह अस्या शरदि स्वाद्वन मिष्टान्न सेव्यम्, तिक्तकषाय च सेव्यम्, नीरनीहारकाले मधुर लवण अम्ल च सेव्यम् मधुमासे च वसन्तसमये तीक्ष्णति कषाय च सेव्यम्, अथानन्तरं ग्रीष्मकालागमे च प्रशमरस अन्न मिष्टान्न सेव्यम्। समुच्चयालकार॥

** नवमशनमित्यादि।** इह अस्मिन् शिशिरकाले नवमशन अद्यात् भुञ्जीत। पुनश्च कि अद्यात्। क्षीरमाषेक्षुभक्ष्यान् क्षीर च माषाश्च वृष्या इक्षुश्च इक्ष्वादिका पौण्ड्रके भक्ष्याश्च मोदकादय क्षीरमाषेक्षुभक्ष्यास्तान्। च अन्यत् शिशिरकाले दधि अद्यात् यथा

निशि च शिशिरकाले पीनवक्षोजभाजो
विपुलबहलकाया सेवनीया पुरध्य॥३५०॥

यवगोधूमप्राय रूक्षप्राय च भोजन कुर्यात्।
मदनविजृम्भणकाले गुरु शीत स्वादुच त्याज्यम्॥३५१॥

कलमसदकभक्त मुद्गसूप ससर्पि-
र्बिससलकियकन्दा सक्तव पानकानि।
क्षितिरमण रसाला नालिकेरीफलाम्भ-
स्तपदिवसनिषेव्य शर्कराढ्य पयश्च॥३५२॥

परिशुष्क लघु स्निग्धमुष्ण प्रावृषि भोजनम्।
पुराणशालिगोधूमयवप्राय समाचरेत्॥३५३॥


घृतविकारान् च अद्यात् तथा घनीभूत घृतमद्यात्। अत्र अस्मिन् शिशिरकाले तैलमपि पथ्य हित वर्तते। निशि च रात्रौ पुरध्य सेवनीया। कथभूता। पीनवक्षोजभाज पीवरस्तन्य। पुन कथभूता पुरध्य। विपुलबहलकाया स्थूलशरीरा। समुच्चयालकार॥

यवगोधूमप्रायमित्यादि। मदनविजृम्भणकाले वसन्तर्तौयवगोधूमप्राय रूक्ष प्राय अल्पघृतप्राय च भोजन कुर्यात् कुर्वन् गुरु माषादिक शीत शर्करादिक स्वादुच मधुरमन्नत्याज्यम्। समुच्चयालकार॥

कलमेत्यादि। हे क्षितिरमण, तपदिवसे निषेव्य ग्रीष्मकालदिनेषु सेव्य सेवनीयम्। किम्। कलमसदकभक्त सुगन्धशालितण्डुलकटो निषेव्य। मुद्गसूपो मुद्दालिर्निषेव्य। कथभूत। ससर्पिघृतप्रायम्। बिसकिसलयकन्दा बिस च पद्मिनीकन्द, किसल यानि च मधुरपल्लवा, कन्दा पिण्डकन्दा, सक्तव भ्रष्टपञ्चचूर्णविकारा, पानकानि शर्करागुडकुवरसादिक पानकमुच्यते, रसाला मञ्जिका इति देवपञ्जिकाया शिखरणीति शर्करादिकम्, नालिकेरीफलाम्भ लाङ्गलिनीफलजल च, अन्यत् शर्कराढ्य शर्करासहित यथोक्त पय दुग्ध जल वा। समुच्चयालकार॥

** परिशुष्कमित्यादि।** प्रावृषि भोजन समाचरेत् कुर्यात्। कीदृशम्। परिशुष्क अङ्गारमण्डूकस्वाद्यकर फेनिकादिकम्, लघु षाष्टिक तण्डुलभक्तादिकम्, स्निग्ध घृतादि पुराणशालिगोधूमयवप्राय पक्वान्नसुगन्वशालिभक्त गोधूमानामकम्भ्यूषादिक यवप्राय यवौदन समाचरेत्। समुचयालकार॥

घृत मुद्गाशालि समिधविकृति क्षीरविधय
पटोल मृद्वीका फलमिह च धात्र्या समुचितम्।

सिता शीतच्छाया मधुरसवश कन्दकुपल
शरत्काले सेव्य रजनिवदने चन्द्रकिरणा॥३५४॥

न्यूनाधिकविभागेन रसानृतुषु योजयेत्।
षड्रसाभ्यवहारस्तु सदा नृणा सुखावह॥३५५॥

वाल वृन्ताक कोहल कारवेल चिल्ली जीवन्ती वास्तुलस्तण्डुलीय।
सद्य सभृष्टा पर्पटाश्चिर्भटान्ता किं खर्लोकैश्चेत्फालयश्चार्द्रकस्य॥३५६॥

तुर्येणाशेन भोज्यस्य सर्वशाक समाचरेत्।
दना परिप्लुत नाद्याद्विशुष्क पयसा न च॥३५७॥

  •         *
    

** घृतमित्यादि।** शरत्काले आश्विनकार्तिकमासे घृत सेव्यम्, मुद्राश्चसेव्या, शालि सुगन्धशाल्योदनम्, समिवविकृतिर्गोवूधूमचूर्णलपनश्री सेव्या, क्षीरविवय परमान्न सेव्यम्, पटोल सव्यव्यञ्जनम्, मृद्वीका द्राक्षा सेव्या। इह अस्मिन् काले चकाराद्रीष्मान्तराले च धात्र्या फल आमलकीफल समुचित योग्यम्। सिता शर्करा सेव्या, शीतच्छाया आम्रवटचम्पकद्राक्षामण्डपादिषु छाया सेव्या, मधुरसवश मिष्टरसाधीन कन्दकुपल पिण्डालूकन्दमधुरपल्लव च सेव्य भवति। रजनिवदने पूर्वरात्रे चन्द्रकिरणा सेव्या भवन्ति। समुच्चयालकार॥

न्यूनाधिकेत्यादि। यूनाविकविभागेन ऋतुषु रसान् योजयेत्। उष्णकाले उष्णरस स्तोक शीतरस प्रचुरम्, शीतकाले शीतरस स्तोक उष्णरस प्रचुरम् एव न्यूनाधिकविभागेन रसान् सेवेत। विरुद्ध सर्वथा त्याज्यमित्यर्थ। षड्रसाभ्यवहारस्तु षड्सभोजन तु नृणा सदा सुखावह सुखक्रो भवति। जात्यलकार॥

वाल वार्ताकमित्यादि। वाल निष्पावकसालन परहसितमेव (?) न तु शुष्कम्। वृन्ताक कोमल नृन्ताकव्यञ्जनम्, कोहल पक्कककारुव्यञ्जनम्। उक्त च—‘वृन्ताक को मल पथ्य कूष्माड कोमल विषम्।’ कारवेल्ल कठिल्लकव्यञ्जनम्। सुखवीसानमित्यर्थ। चिल्लि पोइ पनभञ्जिका, जीवन्ती राजडोडिका, वास्तूल वास्तूलशाकम्। ‘वास्तूल शाकनायकम्’ इत्यर्थं। तण्डुलीय अल्पमारिषशाकम्, सद्य समृष्टा पर्पटास्तत्कालमग्नौसतापिता पर्पटा माषपर्पटा, चिर्भटान्ता पुष्पपार्श्वकर्कटीभेदा स्वलोकैस्वर्गलोकै कि न किमपि चेद्यदि आर्द्रकस्य फालय खण्डानिभवन्ति। आक्षेपसमुच्चयालकार॥

तुर्येणेत्यादि। तुर्येण चतुर्थेन अशेन भागेन भोज्यस्य भोजनस्य सर्वशाक समाचरेत् भुञ्जीत। दध्नापरिप्लुत दधिमध्ये तुडित व्यञ्जन नाद्यात् न भुञ्जीत। पयसा विशुष्क निर्जल व्यञ्जन तलिकोंत्तीर्णप्राय नायादित्यर्थ। जात्यलकार॥

अक्कथित दशघटिका कथित द्विगुणाश्च ता’ पय पथ्यम्।
रूपामोदरसाढ्य यावत्तावद्धि प्राश्यम्॥३५८॥

तावद्वर्गोऽत्र भक्ष्याणा स्वदते श्लाघ्यतेऽपि च।
उष्णोष्णा सपिषि स्नाता यावन्नाङ्गारपाचिता॥३५९॥

यद्वेदागमवेदिभिर्निगदित साक्षादिहायुर्नृणा
यद्वैद्येषु रसायनाय पठित सद्यो जरानाशनात्।
यत्सारखतकल्पकान्तमतिभि प्रोक्त धिय सिद्धये
तत्ते काञ्चनकेतकद्रुतिरसच्छाय मुदे स्ताद्धृतम्॥३६०॥

स्थौल्यं करोति हरतेऽनिलमेतदेक
यन्नोष्णतामुपगत दधि तत्कदाचित्।

  •        *
    

** अक्वथितमित्यादि।** अक्वथितमनुत्कालित दुग्ध दश घटिका यावत् तावत् पथ्य अधिककाले अपथ्यम्। क्वथितमुत्कालित यद्दुग्ध ता घटिका द्विगुणाश्च विंशतिघटि कापर्यन्त पथ्य पश्चादपथ्यमित्यर्थ। रूपामोदरसाढ्य यावत् उज्ज्वलत्व सुगन्धत्वअनम्लगुणसहित यावत्तावत्काल दधि प्राश्यमास्वादनीयम्। जात्यलकार॥

तावदित्यादि। अत्रअस्मिन् संसारे भक्ष्याणा पक्वाना वर्ग समूहस्तावत्काल स्वदते श्लाघ्यतेऽपि च प्रशस्यते च। तावत्कियत्। यावत्काल अगारपाचिता स्थूलाभ्यूर्णा उष्णोष्णा अशीतला सर्पिषि स्नाता घृतप्लुता यावन्नायान्ति यावन्न भक्ष्यन्ते इत्यर्थ। अतिशयालकार॥

** यदित्यादि।** हे राजन्, तद्धत ते तव मुदे हर्षाय स्ताद्भवतु। यत्किम्। यद्धृतवेदागमवेदिभि वेदशास्त्रज्ञापकै इह अस्मिन् ससारे साक्षात् प्रत्यक्षेण नृणा मनुष्याणा आयु जीवित निगदित प्रतिपादितम्। ‘आयुर्वै घृतम्’ इति वचनात्। यद्धृत वैद्येषु आयु र्वेदविज्ञापकेषु आयुर्वेदप्रतिपादकेषु शास्त्रेषु वा रसायनाय पठित मृगाङ्कादिरसायननिमित्त कथितम्। कस्मात्। सद्यस्तत्काल जरानाशनात् घृतपानात्। ‘वृद्धोऽपि तरुणायते’ इति वचनात्। यद्धृत सारस्वतक्ल्पका तमतिभि सारस्वतो नाम सरस्वतीमन्त्रस्तन्महिमप्रकाशाङ्क शास्त्र सारस्वतकल्प उच्यते तेन कान्ता अतिमनोहरा मतिर्येषा मन्त्रवादिना ते तथा तै धियो बुद्ध्या सिद्धये प्राप्त्यर्थ प्रोक्त प्रतिपादितम्। कथभूत घृतम्। काञ्च नकेत कद्रुतिरसच्छाय काञ्चन च केतक च सुवर्णकेतकीपुष्प तयोर्दुतिरसो द्रवस्तस्य छाया वर्णो यस्य घृतस्य तत्तथोक्तम्। उपमालकार॥

** स्थौल्यमित्यादि।** तद्दवि सेव्य आस्वादनीयम्। तत्किम्। यत् दधि। किं करोति। स्थौल्य पीवरत्व करोति। अनिल वात हरते। एतदेकमेव अन्यानि औषधाना सहस्रा

सर्पि सितामलकमुद्गकषाययुक्त
सेव्य वसन्तशरदातपकालवर्जम्॥३६१॥

नवनवनीतोद्धार मथित कथयन्ति समगुण सुधिय।
चिरमथित पुनरुत्पत्तिकर च न कस्य दोषस्य॥३६२॥

क्षीर साक्षाज्जीवन जन्मसात्म्यात्तद्धारोष्ण गव्यमायुष्यमुक्तम्।
प्रात साय साम्यधर्मावसाने भुक्ते पश्चादात्मसाम्येन सेव्यम्॥३६३॥

अतिमधुरनिषेवात्सतत वह्निसाद
समधिकलवणान्नप्राशनाद्दृष्टिमान्द्यम्।


ण्यपि य वात न हरति त वात इदमेकमपि हरति।

कथभूत दधि सेव्यम्। सर्पि सितामलक च शिवाफल मुद्द्रकषायश्च मुद्द्रजल तैयुक्तम्। पुन कथभूत दधि सेव्यम्। वसन्तशरदातपकालवर्ज वसन्तश्च चैत्रवैशाखमासद्वयम्, शरद् आश्विन कार्तिकमासयुगलम् आतपश्च ज्येष्ठाषाढमासद्वन्द्वम्, ते च ते काला तान् वर्ज यति इति वसन्तशरदातपकालवर्जम्। एतावता किमुक्त भवति। मार्गशीर्ष पौषमाघ फाल्गुनश्रावण भाद्रपदेषु षट्सु मासेषु यूनाधिकविभागेन सेव्यमित्यर्थ। समुच्चयालकार॥

नवनवनीतोद्धारमित्यादि। मथित तक्र सुधियो विद्वास समगुण वातपित्त श्लेष्महरमिति कथयन्ति प्रतिपादयन्ति। कथ मथितम्। नवनवनीतोद्धार तत्कालगृहीत नवनीतमित्यर्थ। चिरमथित ह्यस्तनदिवसादितक पुन कस्य दोषस्य वातपित्तश्लेष्मा देस्त्पत्तिकर न भवति। अपि तु सर्वस्य दोषस्योत्पत्तिकर भवतीत्यर्। तथा चोक्तम्—न तक्रदग्धा प्रभवन्ति व्याधय’ इत्यत्र ‘ईषत्स्पृष्टमन्तस्थानाम्’ इति वचनात् न छन्दोभङ्ग शङ्कनीय। आक्षेपालकार॥

क्षीरमित्यादि। क्षीरं दुग्ध सेव्य सेवनीयम्। कथभूत क्षीरम्। साक्षात् निश्चयेन जीवन आयु स्थिरीकरणम्। कस्मात्। जन्मसात्म्यात्। यतो जातमात्रोऽपि बालक क्षीर पीत्वा जीवति अत आजन्महितत्वात्। तत्क्षीरवारोष्ण गव्य गवि भव आयुष्य आयुषे हित उक्त च प्रतिपादितम्। अत्यनुष्णमतिशीत न सेव्यमित्यर्थं। कदा सेव्यम्। प्रात प्रभातकाले यदि शरीरे पित्त भवति। साय सध्याया सेव्य यदि शरीरे वातो भवति। साम्यधर्मावसाने मैथुनकर्मानन्तर भुक्ते पश्चाद्यतीनामपि योग्य आत्मसात्म्येन याव न्मात्र आत्मने पद भवति । अति बहु न सेव्यमित्यर्थ। पानीयसाम्योक्तत्वाम्। रूपकसमुच्चयालकार॥

अतिमधुरेत्यादि। सतत अतिमधुरनिषेवणात् गुरुशर्कराद्यास्वादनात् वह्निसाद बुभुक्षानाशो भवति। समधिकलवणान्नप्राशनात् अधिकाक्षीव सयुक्त भोजनात् स्वादनात्

जरयति वपुरेषात्यम्लतीक्ष्णोपयुक्ति-
र्बलविलयमसात्म्य भुक्तमात्र करोति॥३६४॥

उषणो देहदाहाय कषायोऽनिलकोपन।
निषेव्यमाण सातत्यादतिमात्रतया रस॥३६५॥ (युग्मम्)

यवसमिथविदाहिष्वम्बु शीत निषेव्य
क्वथितमिदमुपास्य दुर्जरेऽन्ने च पिष्टे।
भवति विदलकालेऽवन्तिसोमस्य पान
घृतविकृतिषु पेय कालशेय सदैव॥३६६॥

आदौ जल वह्निविनाशकार्श्येकुर्यात्तदन्ते कफबृहण च।
मध्ये तु पीत समता सुख च नास्यातियोगोऽभिमत सकृच्च॥३६७॥

अमृत विषमिति चैतत्सलिल निगदन्ति विदिततत्त्वार्था।
युक्त्या सेवितममृत विषमेतदयुक्तित पीतम्॥३६८॥

  •         *
    

दृष्टिमान्द्य चक्षुस्तेजोहीन भवति। कुडवमध्ये टङ्कद्वय लवण युक्तमधिक न युक्तमिति भाव। एषा प्रत्यक्षीभूता अत्यम्लतीक्ष्णोपयुक्ति अतिखाटमरिचादे उपयोग वपु जरयति शरीर जीर्ण करोति। तद्भुक्तमात्र असात्म्यमपथ्य बलविलय नाश करोति। उपणोदेहदाहाय उषण शुण्ठीमरिचपिप्पलिप्रभृतिरस शरीरपरितापाय भवति। कषायो हरीतक्यामलकविभीतकपूगफलादिको रस अनिलकोपनो वातकरो भवति। कोऽसौ।’ सातत्यात् निर तरास्वादनात् अतिमात्रतया निषेव्यमाण सन्। जात्यलकार॥

यवसमिथेत्यादि। यवसमिथविदाहिषु यवाना शितशूकाना समिथश्चूर्ण तस्य विदाहिषु अजीर्णेषु शीत अम्बुनिषेव्य अजीर्ण याति। अन्ने भोजने पिष्टे गोधूमसमिथे दुर्जरे सति इद अम्बु क्वथितमुत्कालित जल उपास्य पानीये पेयम्। विदलकाले दाल्य जीर्णकाले अवन्तिसोमस्य काञ्जिक्स्य पानमास्वादन भवति। घृतविकृतिषु सर्पिरजीर्णेषु कालशेय तक्रपेयम्। तक्रतु सदैव हितमिति भाव। ‘न तक्रदग्धा प्रभवन्ति रोगा ’ इत्यभिधानात्। समुच्चयालकार॥

आदावित्यादि। आदौ भोजनस्य पूर्वमेव पीत जल वह्निविनाशकार्श्येकुर्यात्। तदन्ते कफबृहण च श्लेष्मवृद्धिं कुर्यात्। मध्ये तु पीत जल समता सुख च कुर्यात्। अस्य जलस्य सकृत् एकवारमेव अतियोग अतिपान नाभिमतो नाभीष्ट। ‘पुन पुनर्वारि पिबेदभूरि’ इति वचनात्। समुच्चयालकार॥

** अमृतमित्यादि।** एतत् सलिल अमृत विषमिति च द्वे नामनी विदिततत्वार्था विज्ञातायुर्वेदशास्त्रा निगदति प्रतिपादयन्ति। ‘प्रोक्त प्राज्ञैर्भुवनममृत जीवनीय विष

कौप प्रास्रवण वसन्तसमये ग्रीष्मे तदेवोचित
काले चानभिवृष्टिदेशमथवा चौण्ढ्यघनाना पुन।
नीहारे सरसीतडागविषय सर्वं शरत्सगमे
सेव्य सूर्यसिताशुरश्मिपवनव्याधूतदोष पय॥३६९॥

अव्यक्तरसगन्ध यत्स्वच्छ वातातपाहतम्।
प्रकृत्यैवाम्बु तत्पथ्यमन्यत्र क्वथित पिबेत्॥३७०॥

वारि सूर्येन्दुससिद्धमहोरात्रात्पर त्यजेत्।
दिवासिद्ध निशि त्याज्य निशिसिद्ध दिवा त्यजेत्॥३७१॥


च’ इति हलायुधवचनात्। तत्राय भाव—युक्त्या सेवित जलममृत जीवनीयम्, विष चेति एतज्जलमयुक्तित पीत सत् विष भवति। रूपकमिदम् ॥

कौपमित्यादि। कौप पय कूपोदक प्रास्रवण पय निर्झरजल वसन्तसमये चैत्र वैशाखे सेव्यम्। ग्रीष्मे ज्येष्ठाषाढे तदेव कूपनिर्झरजल उचित योग्य भवति। पुन पुनरपि घनाना काले वर्षाकाले अनभिवृष्टिदेश झम्पिति (?) कूपस्य जल सेव्यम्। अथवा चौण्ढ्य चुरीसभूत120 त्रुटित जलम्। उदश्चितमिति यावत्। नीहारे शीतकाले सरसीतडाग विषय पय महासरोवरक्षुद्रसरोवरजल सेव्यम्।शरत्सगमे आश्विन कार्तिकमासे सर्व पय कूपप्रस्रवणसरसीतडागादिक सेव्यम्। कथभूत पय। सूर्यसिताशुरश्मिपवनव्या वूतदोष सूर्यश्चरवि सिताशुश्चद्रस्तयो रश्मय किरणा पवनश्च वायु तैर्व्याधूत स्फेटितो दोषो यस्य पयस तत्तयोक्तम्। दीपकालकार॥

** अव्यक्तेत्यादि।** यदम्बु जल अव्यक्तरसगन्धम्। रसोऽपि ज्ञातुं न शक्यते, गधोऽपि ज्ञातुं न शक्यते। स्वच्छ मूलादिजलैरमिश्रितम्, वातातपाहत वातधर्मताडितम्, तदम्बु प्रकृत्या स्वभावेनैव पथ्यमदोषकरम्। अन्यत्रैतद्गुणरहित क्वथितमुत्कालित पिबेदास्वादयेत्। जात्यलकार॥

वारीत्यादि। वारि जल सूर्येन्दुससिद्धम्। जलभृत घट प्रातरेव घर्मे ध्रियते चतुर प्रहरात् रात्रावपि अभ्रावकाशे तिष्ठति तद्वारि सूर्येन्दुससिद्धमुच्यते। अन्यस्मिन् तज्जल पीयते रात्रावपि पीयते तदनन्तर नास्वाद्यते। तेन कारणेन च अहोरात्रात्पर न तत् पिबेदित्यथ। दिवासिद्ध दिवसे उत्कालित दिवस एव पिबेत् तस्य दिवसस्य निशि रात्रौ न पिबेदित्यर्थ। निशिसिद्ध रात्रावुत्कालित रात्रौ एव पिबेत्, न तु दिवा दिवसे पिबेत्। अन्यथा दोष उत्पद्यत इत्यर्थ। जात्यलकार॥

वीरश्रीप्रणयगुरु कल्पद्रुमपल्लवोऽर्थिना साक्षात्।
ताम्बूलाय प्रसरतु करस्तव स्त्रीकपोलचित्रकर॥३७२॥

कामकोपातपायासयानवाहनवह्नय।
भोजनानन्तर सेव्या न जातु हितमिच्छता॥३७३॥

आनन्दसुन्दरविनोदविदा वचोभि
शृङ्गारसारसुभगैर्वनिताविनोदै121
आलापकेलिकरणे शुकसारिकाणा
भुक्त्वातिवाहय महीश दिनस्य मध्यम्॥३७४॥

इति वैद्या विद्याविलासापरनामभाजो रसाना शुद्धससर्गभेदेन त्रिषष्टिव्यञ्जनोपदेशभाज सज्जनभिषज प्रसूतसूक्तामृतपुनरुक्तोपदशदशन प्रत्यवसान समाचरत।

  •       *
    

** वीरश्रीत्यादि।** हे राजन् तव कर ताम्बूलाय प्रसरतु व्याप्रियताम्। कथभूत कर। वीरश्रीप्रणयगुरु वीरश्रियो वीरल्क्ष्म्या प्रणयस्य स्नेहोत्पादनशिक्षाया गुरुराचाय। पुन कथभूत।अर्थिना याचकाना साक्षात् प्रत्यक्षेण कल्पद्रुमपलव कल्पवृक्षप्रवाल। पुन कथभूत। स्त्रीकपोलचिनकर स्त्रीणा कपोलेषु पत्रावलीलेखने चित्रकर रङ्गाजीवक। रूपकालकार॥

** कामकोपेत्यादि।**कामश्च स्त्रीसेवा, कोपश्च क्रोधभाव, आतपश्च धर्म, आयासश्च श्रम, यान च गमनम्, वाहन च अश्वाद्यारोहणम्, वह्निश्चाग्निते कामको्पातपा यासयानवाहनवह्नय एते पदार्थाभोजनानन्तर जातु कदाचित् न सेव्या। किं कुर्वता। हितमिच्छता कायस्य गुण वाञ्छता। समुच्चयालकार

आनन्दसुन्दरेत्यादि। हे महीश हे राजन् भुक्त्वा भोजन कृत्वा दिनस्य मध्य मध्याह्नवेला अतिवाहय निर्गमय। कै कृत्वा अतिवाहय। आनन्दसुन्दरविनोदविदा वचोभि आनन्देन सुन्दरा मनोहरा ये विनोदा कीडनानि तान् विदन्ति जानन्ति आनन्दसुन्दरविनोदविदस्तेषा वचोभिर्वचनै। सुभाषितगोष्ठीभिरित्यथ। पुनश्च कै कृत्वा मध्याह्नमतिवाहय। वनिताविलासै वनिताना अत्यर्थरागोत्पादिकाना स्त्रीणा विलासैर्लोचनावलोकनै। कथभूतै। शृङ्गारसारसुभगै। सारशृङ्गारेण मनोहरैरित्यर्थ। पुनश्च कै कृत्वा मध्याह्नमतिवाहय। शुकसारिकाणा पीतपादकीरादिकाना आलापकेलिकरणै आभाषणक्रीडाविधानै। समुच्चयालकार॥

कदाचिदनवरतजलजडजलार्द्रान्दोलनस्यन्दिमन्दानिलविनोददोहदिनिसान्द्रनिद्रोद्रेक दुर्ललितमध्यदिनसमये धनधर्मजलोद्वेल्लनविगलन्मलयजरसप्रसरानुसारितसुन्दरीपयोधरवपुषि तीव्रातपातङ्कपावकसपर्कस्फुटन्मौक्तिकविरहिणीहृदयहारे स्थलकमलालवालायमानमहासरसि स्मरज्वरावेगसगताङ्गनाङ्गसङ्गसजातक्काथक्कथ्यमानजलकेलिदीर्घिकापङ्कजकानने मलयाचलमेखला-


कदाचित् कस्मिंश्चिदवसरे निदाघानेहसि ग्रीष्मकाले मदनमदविनोद नाम उद्यान वन प्रियतमाजनमिव अनुभूय पुनस्तत्र यन्त्रधारागृहे कृत्रिमवर्षाकरे प्रियतमाभि सह सक्रीडमान रममाण इत्यमुना प्रकारेण वैतालिकालाेपोल्लास्यमानमानस घर्मदिनेषु मध्याह्न समयान् अतिवाहयामास अह निगमितवान् इति क्रियाकारक्सबन्ध। क्थभूते निदाघानेहसि। अनवरतजलजडजलाद्रान्दोलनस्यन्दिमन्दानिलविनोददोहदिनि अनवरत जलेन जडा या जलार्द्रा जलार्द्रवस्त्र तस्य आन्दोलनेन चालनेन स्यन्दते ईषत् च्योतति इत्येवशीलो योऽसौ मन्दानिल तस्य विनोददोहद क्रीडाविनोदो विद्यते यस्मिन् निदाघानेहसि स तथोक्तस्तस्मिन्। पुन कथभूते। सान्द्रनिद्रोद्रेकदुर्ललितमध्यदिनसमये सान्द्र प्रचुरतरो योऽसौ निद्रोद्रेक प्रमीलाविक्य तेन दुर्ललितो दुर्नि चार्य मध्यदिनसमयो मध्याह्नवेला यस्मिन् स तथा तस्मिन्। पुन कथभूते। घनघर्म जलोद्वेलनविगलन्मलयजरसप्रसरानुसारितसुन्दरीपयोधरवपुषि घन प्रचुर यद्धर्मजल प्रस्वेदजल तस्य उद्वेल्लनेन प्रसरेण विगलन् विविध निर्गलन् योऽसौ मलयजरस चन्दनद्रव तस्य प्रसरेण अनुसारित सुन्दरीणा नवयौवनस्त्रीणा पयोवराणा वपु शरीर येन निदाघानेहसा स तथा तस्मिन्। पुन कथभूते। तीव्रातपातङ्कपावकसपक स्फुटन्मौक्तिकविरहिणीहृदयहारे तीव्रोऽमन्दो योऽसौ आतपो घर्म स एवातक सद्य प्राणहरव्याधि स एव पावक तस्य संपर्केण स्पर्शेनस्फुटन्ति द्विधा भवन्ति यानि मौक्तिकानि तैरुपलक्षित विरहिणीना विप्रलब्धवामिनीना हृदयहारो यत्र स तथा तस्मिन्। पुन कथभूते। स्थलकमलालवालायमानमहासरसि स्थलाना कमलाना आलवालायमानानि सेचनस्थानकसदृशानि महासरासि अखात सरोवराणि यस्मिन् स तथा तस्मिन्। पुन कथभूते। स्मरज्वरावेगसगताङ्गनाङ्गसङ्ग सजातकाथक्कथ्यमान जलकेलिदी र्घिकापङ्कजकानने122 स्मर कन्दर्पस्तस्य सबन्धी योऽसौ ज्वरो व्याधिविशेषस्तस्यावेगेन समन्ताज्जवेन सगतं सहित यत् अङ्गनाया अङ्ग तस्य सङ्गेन मेलापकेन सजातो योऽसौ क्वाथ अत्युष्ण जल तेन कथ्यमानानि रन्ध्यमानानि जलकेलिदीर्घिकाणा पङ्कजकाननानि122 कमलवनानि123 यस्मिन् स तथा तस्मिन्। पुन कथभूते। मलयाचलमेखलास्खलज्जलधिवे

स्खलज्जलधिवेलानिलनीहारसीकरस्यन्दसार्द्रचन्दनद्रुमाश्लेषलालसलेलिहानकामिनीमनसि शिशिरगिरिगु-हागृहोत्सङ्गासीनसीमन्तिनीकुचामृतकुम्भपरिरम्भनिर्भरनभश्चरनिकरे नगनिम्नावनीवर्नाविहारहरिणीवि-षाणकोणकण्डूयनसुखखापोन्मुखकुरङ्गपरिषदि तीरप्ररूढप्रौढपादपतलतरङ्गिणीसरोरुहकुहरविहरत्कल-हसनिवहे महावराहावगाहविग्राह्यमाणवाहिनीकहदासादियादसि नि शल्यतल्लचिरवल्लललल्लुलायलोके अविच्छिन्नच्छायावनीधरन्ध्रा

  •        *
    

लानिलनीहारसीकरस्यन्दसाद्रचदनद्रुमाश्लेषलालसलेलिहानकामिनीमनसि मलयाचलस्य चन्दनगिरेर्या मेखलाकटिनी तत्र स्खलन्ती आस्फालन प्राप्नुवन्ती या जलधिवेला समुद्र तीरविकृतिस्तस्या सबन्धिन अनिलनीहारसीकरा शीतलजलकणास्तेपा स्यन्देन क्षरणेन सार्द्रा जलक्लिन्ना ये चन्दनद्रुमा श्रीखण्डवृक्षास्तेषा आश्लेषे आलिङ्गने लालसमत्याकाङ्क्ष लेलिहानकामिनीना कालसर्पिणीना मनश्चित्त यस्मिन् निदाघानेहसि स तथा तस्मिन्। पुन कथभूते। शिशिरगिरिगुहागृहोत्सङ्गासीनसीमन्तिनीकुचामृतकुम्भपरिरम्भनिर्भरनभश्च रनिकरे शिशिरगिरिर्हिमाचलपर्वतस्तस्य गुहा कन्दराणि तान्येव गृहाणि उपवासितानि तेषा उत्सङ्गेषु अङ्केषु आसीना उपविष्टा या सीमन्तिन्य कमनीयकामिन्यस्तासा कुचास्त एव अमृतकुम्भा पीयूषकलशास्तेषा परिरम्भेषु आलिङ्गनेषु निर्भरा गाढतरा नभश्वर निक्रा विद्याधरसमूहा यस्मिन् स तथा तस्मिन्। पुन कथभूते। नगनिनावनी वनविहारहरिणीविषाणकोणकण्डूयनसुखखापोन्मुख कुरङ्गपरिषदि नगाना निम्नावन्यो नीचैस्तरभूमयस्तासा वनानि तेषां विहारेण पर्यटनेन उपलक्षिता या हरिण्यो मृगवनितास्तासा विषाणकोणाना शृङ्गाप्राणा कण्डूयनेन खर्जनेन सजातो योऽसौ सुखखाप सुसनिद्रा तस्मिन् उन्मुखा बद्धोत्कण्ठा या कुरङ्गपरिषत् मृगसमूहो यस्मिन् स तथा तस्मिन्। पुन कथभूते। तीरप्ररूढप्रौढपादपतलतरङ्गिणीसरोरुह कुहरवि हरत्कलह सनिवहे तीरयोस्तटयो प्ररूढा सजाता ये प्रौढपादपा महावृक्षास्तेषा तले अवोभागे या तरङ्गिणी नदी तस्या यानि सरोरुहाणि तेपा कुहरेषु बिलेषु विहरन्त कलहसाना निवहा यस्मिन् स तथोक्तस्तस्मिन्। पुन कथभूते। महावराहावगाहविग्राह्यमाणवाहिनी कहदासादियादसि महावराहा बृहदरण्यशूकरास्तेषामव गाहेन समन्ताद्विलोडनेन विग्राह्यमाणा स्वीक्रियमाणा ये वाहिनीका हदा नदीना विरेयास्तानासादयन्ति प्राप्नुवन्तीत्येवशीलानि यादासि जलजन्तवो यस्मिन् स तथा तस्मिन्। पुन कथभूते। नि शल्यतन्नचिरवल्लोलहलायलोके नि शल्या निर्व्रतिपक्षा तल्लचिरवलेषु तडागकर्दमेषु लोल तो लुठन्तो ये बुलाया महिषास्तेषा लोक समूहो यस्मिन् स तथा तस्मिन्। पुन कथभूते। अविच्छिन्नच्छायावनीध्ररन्ध्रा

राधनोद्धरसिन्धुरद्विष करपुष्करावशेषनदनिमग्नसामजसूत्कारसमीरसेव्यमानसलिलदेवतादेहे रोमन्थमन्थरमुखमाहेयीनिवहनिरुद्धबुघ्नाश्वत्थशाखिनि खरातपतपनताम्यन्मयमुक्तस्फीतफेनफुल्लो पहारित पलपलपालिपीलुपर्यन्ते नितान्तोत्तप्तायसचूर्णसमानमार्गरजसि निदाघानेहसि भवत प्रतापेष्विव च प्रचण्डीभवत्सु मार्तण्डमण्डलेषु यश प्रसरेष्विवातिदीर्घेषु दिवसेषु शत्रुसततिष्विव लघीयसीषु रात्रिषु वैरिमनोरथेष्विव शोषमभिलषत्सु


राधनोद्धुरसिन्धुरद्विषि अविच्छिन्ना निरन्तरा छाया येषु तानि अविच्छिन्नच्छा यानि यानि अवनीधरन्ध्राणि पर्वतविवराणि तेषामाराधने उद्धरो निवार्य सिन्धुरद्विद्र सिंहो यत्र निदाघानेहसि स तथा तस्मिन्। पुन कथभूते। करपुष्करावशेषनदनिमग्न सामजसूत्कारसमीरसेव्यमानसलिलदेवतादेहे करस्य शुण्डादण्डस्य पुष्कर शुण्डाग्रअवशेष उद्धरित यथा भवत्येव नदेषु निमग्ना ये सामजास्तेषां सूत्कारसमीरैरुच्छ्वासवातै सेव्यमाना सलिलदेवतानां जलदेवतानां देहा यस्मिन् स तथा तस्मिन्। पुन कथभूते। रोममन्थरमुखमाहेयी निवह निरुद्धबुधाश्वत्थशाखिनि रोमन्थश्चर्वितचवण तस्मिन् मन्थराणि मन्दक्रियाणि मुखानि यासा माहेयीना गवा निवहै निरुद्धबुध्नाआरतमूलाश्व अश्वत्थशाखिन पिप्पलवृक्षा यस्मिन् स तथा तस्मिन्। पुन कथभूते। खरातपतपनताम्यन्मयमुक्तस्फीतफेनफुलोप हारितपल्वलपालिपीलुपर्यन्ते खरस्तीव्रतरो योऽसावातपस्तेनोपलक्षितो योऽसौ तपन श्रीसूर्यस्तेन ताम्यन्तो दुखीभवन्तो मया उष्ट्रास्तैर्मुक्ता स्फीता प्रचुरा ये फेना अब्धिकफा सागरमलनामान। उक्त च—‘डिण्डीरोऽब्धिकफ फेन। तेषु फुलानि पुष्पाणि तैरुपहारित पूजित पल्वलस्य तलजस्य पालिपीलूना पालितरविशेषाणा पर्यन्त प्रान्तो यस्मिन् स तथा तस्मिन्। पुन कथभूते। नितान्तोत्तप्तायसचूर्णसमानमार्गरजसि नितान्तमुत्तप्त यत् आयसचूर्ण तेन समान मार्गरजो पथवूली124 यत्र निदाघानेहसि स तथा तस्मिन्। केषु सत्सु। धर्मदिनेषु मध्याह्नसमयानतिक्रमेण वाहयामासेति सबन्ध।मार्तण्डमण्डलेषु प्रचण्डीभवत्सु तीव्रतरेषु सजायमानेषु सत्सु। कथभूतेषु दिवसेषु। भवत प्रतापेष्विव यथा भवत प्रतापा शत्रुषु प्रचण्डा भवन्ति। पुन केषु सत्सु दिवसेषु। अतिदीर्घेषु सत्सु। कथभूतेषु दिवसेषु। भवतो यश प्रसरेष्विव यथा भवत यश प्रसरा अतिदीघा भवन्ति। पुन कासु सतीषु। रानीषु लघीयसीषु हस्वासु सतीषु। कास्विव। भवत शत्रुसततिष्विव यथा भवत शत्रसततयो लघीयस्यो भवति। पुनश्च केषु सत्सु।

जलाशयेषु सपत्नपक्षेष्विव श्रीयमाणकोशदण्डेषु पुण्डरीकिणीखण्डेषु, कुरुलालिकुलावलिह्यमा-नभ्रूलतान्तहृदयगमम् अनङ्गरसोत्तरङ्गापाङ्गावलोकसारणिसिच्यमानसहचरानोकहम् अरविन्दमकरन्दा-मोदसवादिमन्दस्यन्दमानाश्वासानिलासरालम् अधरदलगर्भाविर्भूतस्मितप्रसूनो पहारितनिखिलदिग्देशम् उन्मदपिकपाकपेशलोल्लापकृतकर्णामृतवर्षम् अभिनवोद्भिद्यमानकुचकुमलोल्बणभुजलतामध्यम् उल्लसल्लावण्यजलवलिवाहिनी विहितखातवलयम् उदीर्णतरनाभिसपादितजलकेलिवापिकम् अनन्य-भूविशिखपुङ्खाग्रभाग


जलाशयेषु शोष अभिलषत्सु सत्सु। केष्विव जलाशयेषु। भवतो वैरिमनोरथेष्विव यथा भवतो वैरिणो मनोरथा शोषमभिलषन्ति। पुनश्च केषु सत्सु। पुण्डरीकिणीखण्डेषु पद्मिनीदलेषु क्षीयमाणकोशदण्डेषु क्षय गच्छत्सु कमलमध्येषु कमलनालेषु। कथभूतेष्विव। सपत्नपक्षेष्विव शत्रुपरिवारेष्विव यथा सपत्नपक्षा क्षीयमाणभाण्डागारसेन्याश्च भवन्ति। कथभूत मदनमदविनोद नामोद्यानम्। प्रियतमाजनमिव। कथंभूतमुद्यान प्रियतमाजन च। कुरुलालिकुलावलिह्यमानभ्रूलतान्तहृदयगमम् कुरुला अलकास्त एव अलिकुलानि तैरवलिह्यमाना ये भ्रूलतान्ता प्रान्तास्तैर्हृदयगम मनोहरम्। उद्यानमपि भवति। पुन कथभूतम्। अनङ्गरसोत्तरङ्गापाङ्गावलोकसारणिसिच्यमानसहचरानो कहम् अनङ्ग रसेन कामरागेण उत्तरङ्गा उत्कण्ठा ये अपाङ्गा कटाक्षावलोकनानि तेषामवलोक स एव सारणि कृनिमनदी तथा सिच्यमाना नोकहम्। उद्यानमपिभवति। पुन कथभूतम्।अरविन्दमकरन्दामोदसवादिमन्दस्यन्दमानश्वासानिलासरालम् अरविन्दाना योऽसौ मकरन्द पुष्परसस्तस्यामोदे सवादी स्पर्द्धापर अनुकारक उपभोत्पादको मन्द शनै शनै स्यन्दमानश्चलन् योऽसौ श्वासानिल स्त्रीमुखमारुतस्तेन असराल अपर्यन्तस्तम्। उद्यानमपि लदिग्देशम् उद्यानमपि भवति। पुन कथभूतम्। अधरदलगर्भाविर्भूतस्मितप्रसूनोपहारितनिखिभवति। पुन कथभूतम्। उन्मदपिकपाकपेशलोल्लापकृतकर्णामृतवर्षम् उन्मदो योऽसौ पिकपाक पुस्कोकिलस्तद्वत् पेशला ये उल्लापा उद्वचनानि तै कृत कर्णाना अमृतवर्षो येन प्रियतमाजनेन स तथा तम्। उद्यानमपि कोकिलालापकर्णामृतवर्षे भवति। पुन कथभूतम्। अभिनवोद्भिद्यमानकुचकुम लोल्बणभुजलतामध्यम् अभिनवानि प्रत्यप्राणि उद्भिद्यमानानि उत्पाद्यमानानि यानि कुचकुमलानि स्तनमुकुलानि तैरुल्बण उद्विको भुजलतामध्यो बाहुवल्ली मध्यप्रदेशोयस्य प्रियतमाजनस्य स तथा तम्। उद्यानमपि कुड्मलसयुक्तलतामध्य भवति। पुन क्रथभूतम्। उल्लसल्लावण्यजलवलिवाहिनीविहितखातवलयम् उल्लसत् उत्क्रीडत् यत्

सुभगरोमराजिहरिताङ्कुरितकुल्योपकण्ठम् अगमाभ्यर्णप्रसाधितमरुरध्वजाराधनजघनवेदिकम् उच्छलदनवरतरतिकुसुमपरि मलोपलिप्यमानवनदेवताभवनम् उपारूढोरुकदलीकाण्डकाननरमणीयम् अलक्तकरक्तपादपल्लवनखपुष्पनिष्पादितविहारधराशोभम् अप्रतिमनिजदेहच्छायापनी ताखिलातपसता-पम् उड्डमरपुरुषरतश्रमसजातस्वेदजलमञ्जरी जालजनितयन्त्रधारागृह


लावण्यजल तेनोपलक्षिता या वलिस्त्रिवलीभङ्ग सैव वाहिनी नदी तया विहित रचित खातवलय खातकामण्डल येन स तथा तम्। उद्यानमपि जलभृतखातवलय भवति। पुन कथभूतम्। उदीर्णतरनाभिसपादितजलकेलिवापिकम् उदीर्णतरा अतिगम्भीरा या नाभि रुदरमध्यप्रदेशस्तस्या संपादिता उत्पादिता जलकेलिवापिका येन तथा तम्। उद्यानमपि जलकेलिवापिकासहित भवति। पुन कथभूतम्। अनन्यभूविशिखपुङ्खाप्रभागसुभगरोमराजिहरिताङ्कुरितकुल्योपकण्ठम् अनन्यभू कन्दर्पस्तस्य विशिखा बाणास्तेषा पुङ्खापत्राणि तेषामग्रभागास्तद्वत्सुभगा आनन्दकारिणी या रोमराजि सा एव हरिता दूर्वा तयाङ्कुरितमभिनवोद्भेदसहित कुल्योपकण्ठ स्मरमन्दिरसमीप येन तथा तम्। उद्यानमपि हरिताङ्कुरैरुपलक्षितकुल्योपकण्ठ कृत्रिमनदीसमीप भवति। पुन कथभूतम्। अगमाभ्यर्णप्रसाधितमकरध्वजाराधनजघनवेदिकम् अगमस्य अभ्यर्णे प्रसाधिता शृङ्गारिता मकरध्वजाराधनाय जघनवेदिका स्त्रीकट्यग्रभागो येन स तथा तम्। उद्यानमपि वृक्षसमीपकृ तकामाराधनवेदिक भवति। पुन कथभूतम्। उच्छलदनवरतरतिकुसुमपरिमलोपलिप्यमानवनदेवताभवनम् उच्छलन्ति अनवरत यानि रतिकुसुमानि प्रेमपुष्पाणि तेषा परिमलेन उपलिप्यमान सवास्यमान वनदेवताभवन येन स तथा तम्। उद्यानमपि पुष्पपरिमलवा सितदेवताभवन भवति। पुन कथभूतम्। उपारूढोरुकदलीकाण्डकाननरमणीयम् उपारुढ समीपे स्फुटीभूत यत् ऊरव एव कदलीकाण्डकानन मोचास्कन्धवन तेन रमणीय तम्। उद्यानमपि ऊरुकदलीकाण्डकाननमनोहर भवति। पुन कथभूतम्। अलक्तकरतपादपलवनखपुष्पनिष्पादित विहारधराशोभम् अलक्तको लाक्षारस। उक्त चराक्षा लाक्षाजतु क्लीबे यावोऽलको द्रुमामय।’ तेन रक्ता ये पादपल्लवा तैरुपलक्षितानि यानि नखपुष्पाणि कामाङ्कुशकुसुमानि तैर्निष्पादिता विहारधराया क्रीडाभूमे शोभा अभिख्या येन स तथा तम्। उद्यानमपि प्रवालपुष्पैनिष्पादित विहार घराशोभ भवति। पुन कथभूतम्। अप्रतिमनिजदेहच्छायापनीताखिलातपसतापम् अप्रतिमा अनुपमा या निजदेहच्छाया स्त्रीजनशरीरकान्तिस्तया अपनीतो दूरीकृत अखिल आतपसतापो धर्मपरितापो येन स तथा तम्। उद्यानमपि वृक्षच्छायानिवारितातपसताप भवति। पुन कथभूतम्। उड्डमरपुरुषरतश्रमसजा तस्वेदजलमञ्जरीजालजनितयन्त्रधारागृहम् उड्डमरं महाटोप यत् पुरुषरत अध पुरुषरत तस्य श्रमेण खेदेन सज्ञात यत् स्वेदजलमञ्जरीजाल वेन जनित

प्रियतमाजनमिव, चरणकिसलयप्रहारक्रीडाभि ऊरुरम्भास्तम्भपरिरम्भकेलिभि मेखलादेशदलजशय्यारोहणविनोदै तनूरुहराजितापिच्छमञ्जरीभि नाभिमण्डलालवालपरिसर्पणै वलिवल्लीवलयरतिभि कुचकुसुमस्तबकविकल्पै भुजलतालिङ्गनविधिभि बाहुतरुमूलदर्शनकुतूहलै बिम्बाधरफलास्वादनप्रीतिभि अपाङ्गप्रसवखेलितै भ्रूभङ्गपल्लवप्रसाधनलीलाभि अलकवल्लरीपरिमलमनोरथै कपोलपुलकप्रसाधनप्रसूनावचितिभि यौवनारण्यवनदेवताराधनवरप्रसादैरिवान्यैश्च तैस्तैर्विलासै मदनमदविनोदमुद्यानमतिचिरम


यन्त्रधारागृह उड्डमरकृत्रिममेघमन्दिरं येन प्रियतमाजनेन स तथोक्तस्तम्। उद्यानमपि यन्त्रधारागृहसयुक्त भवति। कै कै कृत्वा उद्यानमनुभूय मध्याह्नसमयानतिवाहयामास। चरणकिसलयप्रहारक्रीडाभि चरणान्येव किसलयानि तेषां प्रहारक्रीडाभि। पुनश्च काभि। ऊरुरम्भास्तम्भपरिरम्भकेलिभि
स्तम्भौ तयो परिरम्भकेलिभिरालिङ्गनक्रीडाभि। पुनश्च कै कृत्वा। मेखलादेशदलजशय्यारोहणविनोदै मेखलादेश स्मरमन्दिरप्रदेश स एव दलजशय्या पल्लवशयनीय तस्या आरोहण विनोदै। पुन काभि कृत्वा। तनूरुहराजितापिच्छमञ्जरीभि तनूरुहराजयस्ता एव तापिच्छमञ्जर्य कृष्णकाहलीकतरुवर्यस्ताभि। पुन कैकृत्वा। नाभिमण्डलालवालपरिसर्पणै नाभिमण्डलमेव आलवाल तस्य परिसर्पणै आरुह्य समुलसनै। पुनश्च काभि। वलिवल्लीवलयरतिभि वलय उदररेखास्ता एव वल्लय प्रतानिन्यस्तासा वलयरतिभि मण्डलक्रीडाभि। पुनश्च कै कृत्वा। कुचकुसुमस्तबकविकल्पै कुचा एव कुसुमस्तबका पुष्पसघाता तेषा विकल्पैर्भेदै। पुन कै कृत्वा। भुजलता लिङ्गन विधिभि भुजा एव लतास्तासामा लिङ्गन विधिभि। पुन कै कृत्वा। बाहुतरुमूलदर्शनकुतूहलै बाहव एव तरव तेषा मूलदर्शनकुतूहलै। पुनश्च काभि कृत्वा। बिम्बाधरफलास्वादनप्रीतिभि बिम्बाधरा एव फलानि तेषामास्वादनप्रीतिभि। पुनश्च कै कृत्वा। अपाङ्गप्रसवखेलितै अपाङ्गा एव प्रसवा पुष्पाणि तेषा खेलितै। पुनश्च काभि। भ्रूभङ्गपल्लवप्रसाधन लीलाभि भ्रूभङ्गा भ्रुकुटयस्त एव पल्लवास्तेषा प्रसाधनलीलाभि परिकर्मक्रीडाभि। पुनश्च कै कृत्वा। अलकवल्लरीपरिमलमनोरथै अलकानावल्लर्यस्तासां परिमलमनोरथै परिमर्दनदोहदै। पुनश्च काभि। कपोलपुलकप्रसाधनप्रसूनावचितिभि कपोलेषु यानि पुलकप्रसाधनानि पञ्चनखप्रदानानि त एव प्रसूनानि तेषा अवचितिभि चुण्टनै। न केवलमेतै कृत्वा उद्यानमनुभूय मध्याह्नसमयानतिवाहयामास। अन्यैश्चापरैस्तैस्तै कामुकजनप्रसिद्धैर्विलासै क्रीडनै। कथभूतैरन्यैर्विलासै। यौवनारण्यवनदेवताराधनवरप्रसादै यौवनमेवारण्य वन वेडवन तस्य

नुभूय, पुनर्यत्समतादुत्तरलतरसरत्सारणीसलिलसेकसुकुमारोशीरसारकटगर्भाविर्भवद्दूर्वादलश्यामलि-तदिग्वलय नवाग्रनागवल्लीपल्लवोल्लासभराभुग्नपूगनगाभोगभर्त्सितभानुप्रभाप्रसर हरितमणिप्र-काशपलाशपेशलप्रतानचितमोचमेचकरुचिरचिताम्बरापगापरकालिन्दीसगम बालबकुलकुरबकतिल-कचम्पकाशोकसहकारकिसलयकुलखेलद्वाचालशुकसारिक विकचविचकिलाति


सबन्धिन्यो या देवता वनितावनयस्तासामाराधनस्य वरप्रदानैरिव। कथभूतोऽहम्। तत्र यन्त्रधारागृहे प्रियतमाभि सह सक्रीडमान अनुपरिचिक्रीड। ‘समोडकूजने’ इति सूत्रेण रुचादित्वात्क्रीडधातोरात्मनेपदम्। कूजने तु आत्मनेपद न भवति। यथा सक्रीडन्ति शकटानि शब्द कुर्वन्तीत्यर्थं। तत्र यन्त्रधारागृहे प्रियतमाभि सह सक्रीडमानो रममाण धर्मदिवसेषु मध्याह्नसमयानतिवाहयामासेति सबन्ध। तत्र कुत्र पुनरिति उद्यानानुभवनादनन्तरम्। यत् यन्त्रधारागृह कथभूतम्। समन्तात् सर्वत्र उत्तरलतरसरत्सारणीसलिलसेकसुकुमारोशीरसारकटगर्भाविर्भवद्दूर्वादलश्यामलितदिग्वलयम् उत्कर्षेण तरलतरा वेगवत्तरा सरन्ती गच्छन्ती या सारणी जलनी (?) कस्तस्या सलिल तस्य सेकेन सेचनेन सुकुमारोऽतिकोमलो योऽसौ उशीरसारकट वीरणमूल अतिमनोहर कटो भित्तिस्तस्य गर्भे आविर्भवन्ति यानि दूर्वादलानि शतपर्वापल्लवानि तै श्यामलित दिग्वलय यत्र यन्त्रधारागृहे तत्तथोक्तम्। यत् यन्त्र धारागृह पुन कथभूतम्। नवाग्रनागवल्लीपल्लवोल्लासभराभुनपूगनगाभोगभत्सितभानुप्रभाप्रसरम् नवाग्रा प्रत्यग्रा या नागवल्लयस्तासा पल्लवास्तेषा उल्लास प्रादुर्भावस्तस्य भरेण भारेण अभुग्ना मोटिता वक्रीकृता थे पूगनगा क्रमुकवृक्षास्तेषामाभोगेन आटोपेन परिपूर्णतया वा भत्रिर्तोनिराकृतो भानुप्रभाप्रकारो यत्र तत्तथोक्तम्। पुन कथभूतम्। हरितमणिप्रकाशपलाशपेशलाप्रतानचितमोचमेचकरुचिरचिताम्बरापगापर कालिन्दीसगमम् हरितमणिरश्मगर्भरत्नम्। उक्त च—‘गारुडात्मजमरकतमश्मगर्भ हरिन्मणि। शोणरत्न लोहितक पद्मरागोऽथ मौक्तिकम्॥’ मुक्ताहरितमणिर्मरकतमणिरित्यर्थस्तस्य प्रकाश उद्योतस्तत्सदृशानि यानि पलाशानि पत्राणि कदलीदलानि तै पेशलोऽतिमनोहरो योऽसौ प्रतानो विस्तारस्तेन चिता जटिता या मोचा कदल्य। ‘आ कारौ स्त्रीकृतौ ह्रस्वौक्वचित्’ इति वचनात् मोचाशब्दस्य ह्रस्वत्वम्। तासा मेचकरुचयो नीलदीप्तयस्ताभी रचित अम्बरापगाया अपरकालिन्दीसगमो द्वितीययमुनामेलापको तत्र तत्तथोक्तम्। पुन कथभूतम्। बालबकुलकुरबकतिलकचम्पकाशोकसहकारकिसलयकुलखेलद्वाचालशुकसारिकम् अभिनवाश्च ते बकुला केशरतरव, कुरबकाश्च रक्ताम्लानवृक्षा। उक्त च—‘अम्लानस्तु महासह। तत्र शोणे कुरबकस्तत्र पीते कुरण्टक॥’ तिलकाश्च क्षुरकवृक्षा। उक्त च—‘तिलक क्षुरक श्रीमान् पुरुषश्छन्नपुष्पक।’ तिलपुष्प इत्यर्थ । चम्पकाश्च हेमपुष्पका, अशोकाश्च

नाभिकर्पूरपरिमलोद्वाहिवारिपूर पर्यन्तयन्त्रजलधरवर्षाभिषिच्यमानस्थलकमलिनीकेदार विविधव्या-लवदनविनिर्गलज्जलधाराध्वनितलयलास्यमानभवनाङ्गणबर्हिण चन्द्रकान्तमयमृणालबिलस्रवत्स्रोत सतर्प्यमाणविनोदवारल करटिकरविकीर्यमाणसीकरासारसूत्रिताङ्गनालकमुक्ताफलाभरण मकरमुख-मुक्तनिर्झरनीहारोल्लास्यमानकामिनीकुचकुम्भचन्दनस्थासक विलासवल्लरीवनवानराननोद्गीर्णपानी-यापनीयमानमानिनीकपोलतलतिलकपत्र जलदेव


हिवारिपूरम्। शयनस्य शय्याया अभ्यर्णानि अवतीर्णानि मण्डितानि सुवर्णभाजनानि मणिभाजनानि रजतभाजनानि तेषु विन्यस्यमाना ध्रियमाणा ये मलयजानामगुरूणा मृगनाभीना कर्पूराणा च परिमला विमर्दोत्थगन्धा तान् वहन्तीत्येवशीला वारिपूरा यत्र तत्तथोक्तम्। पुन कथभूतम्। पर्यन्तयन्त्रजलधरवर्षाभिषिच्यमानस्थलकमलिनीकेदारम् पर्यन्तेषु प्रातेषु यन्त्रजलधरा यन्त्रकृतकमेघास्तेषा वर्षेण अभिषिच्यमाना स्थलकमलिनीकेदारा स्थलक्मलिनीना केदारा जलभृतक्षेत्राणि यत्र तत्तथोक्तम्। पुन कथभूतम्। विविधव्यालवदनविनिर्गलज्जलधाराध्वनितलयलास्यमानभवनाङ्गणबर्हिणम् विविधा नानाप्रकारा ये व्याला कृत्रिमगजसर्पसिंहव्याघ्रचित्रकादयस्तेषा वदनेभ्यो विनिर्गलन्त्यो या जलधारा अपूछटा तासा ध्वनि तस्य लयेन साम्यतया लास्यमाना भवनाङ्गणस्य बर्हिण मयूरा यत्र तत्तथोक्तम्। पुन कथभूतम्। चन्द्रकान्तमयमृणालबिलस्रवत्स्रोत सतर्प्यमाणविनोदवारलम् चन्द्रकान्ताश्चन्द्रकान्तमणयस्तैर्निर्वृताश्चद्रकान्तमया ये मृणाला पद्मनालानि तेषा बिलेभ्यश्छिद्रेभ्य स्रवन्ति क्षरन्ति यानि स्रोतासि स्रोतोऽम्बु सरणानि तै सतर्प्यमाणा प्रीयमाणा विनोदवारला क्रीडाहसवनिता यत्र तत्तथोक्तम्। पुन कथभूतम्। करटिकर विकीर्यमाणसीकरासारसूत्रिताङ्गनालकमुक्ताफलाभरणम् करटिन कृत्रिमगजास्तेषा करै शुण्डादण्डै विकीर्यमाणा विक्षिप्यमाना ये सीकरास्तेषामासारेण वेगवद्वर्षेण सूत्रितानि रचितानि अङ्गनाना अलकेषु चूर्णकुन्तलेषु मुक्ताफलाना आभरणानि यत्र यत्रधारागृहे तत्तथोक्तम्। पुन कथभूतम्। मकरमुखमुक्ता निर्झरनी हारोल्लास्यमान कामिनी कुचकुम्भ चन्दनस्थास कम् पुन कथभूतम्। विलासवल्लरी वनवानराननोद्गीर्णपानीयापनीयमानमानिनीकपोलतलतिलकपत्रम् विलासवल्लरी वनेषु कृत्रिमक्रीडावल्ली वनेषु ये वानरा कृत्रिममर्कटास्तेषामान नैरुद्गीर्णानि उद्वान्तानि यानि पानीयानि तैरपनीयमानानि प्रक्षाल्यमानानि मानिनीना कपोलताना तिलकपत्राणि पत्रवल्यो यत्र यन्त्रधारागृहे तत्तथोक्तम्। पुन कथभूतम्।

तातुमुलजलकेलिकलहावलोकनोन्मदनारदोत्तालताण्डवाडम्बरितशिखण्डिमण्डलीनिष्ठ्यूतनिबिडनीरप्रवाह-विडम्ब्यमानविलासिनीजघन कृतकनाकानोकहस्कन्धासीनसुरसुन्दरीहस्तोदस्तोदकापाद्यमानव-ल्लभावतसकिसलयाश्वास पवनकन्यकोड्डमरचामरानिलविनोद्यमानसुरतश्रान्तसीमन्तिनीमानसम् इतस्तत पयोधरपुरधिकास्तनकलशविधीयमानमज्जनावसर शैशिर्यनिर्जितनीहारमहीधरम्

अपि च।

हस्ते स्पृष्टा नखान्तै कुचकलशतटे चूचुकप्रक्रमेण
वक्रेनेत्रान्तराभ्या शिरसि कुवलयेनावतसार्पितेन।


जलदेवतातुमुलजलकेलिकलहावलोकनोन्मदनारदोत्तालताण्डवाडम्बरितशिखण्डिमण्ड लीनिष्ठयूतनिबिड नीरप्रवाहविडम्ब्यमानविलासिनीजघनम् जलदेवताना तुमुलो रौद्रो योऽसौ जलकेलिकलहस्तस्यावलोकनेन उन्मद सहर्ष योऽसौनारदस्तस्योत्तालमुत्कयत्ताण्डव नृत्य तेन आडम्बरिता अवलोकनमागता या शिखण्डिमण्डली मरीच्यादिसप्तर्षिसमूहस्तया निष्ठय्त उद्गीर्ण योऽसौ निबिडनीरप्रवाह पाटलजलप्रवाह तेन विडम्ब्यमानानि खलीक्रियमाणानि विलासिनीना जघनानि कव्यप्रभागा यत्र तत्तथोक्तम्। पुन कथभूतम्। कृतकनाकानोकहस्कन्धासीनसुरसुन्दरीहस्तोदस्तोदकापाद्यमानवल्लभावतसकिसलयाश्वासम् कृतका ये नाकानोकहा कल्पवृक्षास्तेषां स्कन्धेषु शाखामूलेषु आसीना या सुरसुन्दर्यस्तासा हस्तैरुदस्तानि उत्क्षिप्तानि यान्युदकानि तैरापाद्यमान उत्पाद्यमानो वल्लभाना प्रियतमस्त्रीणामवतसाना कर्णपूराणा किसलयाना आश्वास जीवन यत्र तत्तथोक्तम्। पुन कथभूतम्। पवनकन्यकोड्डमरचामरानिल विनोद्यमान सुरतश्रान्तसीमन्तिनी मानसम् पवनकन्यका कृत्रिमचमरधारिण्य पुत्तलिकास्तासामुडुमर उत्कटो योऽसौ चामरानिल तेन विनोद्यमानानि आश्चर्यपूर्वकमाहाद्यमानानि सुरतश्रान्ताना सभोगखेदवतीना सीमन्तिनीना मानसानि यत्र तत्तथोक्तम्। पुन कथभूतम्। इतस्ततपयोधरपुरधिकास्तन कलश विधीयमानमज्जनावसरम् इतस्ततो यत्र तत्र पयोधरपुरधिकाणा कृत्रिममेघपुत्तलिकाना स्तनकलशैर्विधीयमान क्रियमाणो मज्जनावसरो यत्र तत्तथोक्तम्। पुन कथभूतम्। शैशिर्यनिर्जितनीहारमहीधरम् शैशिर्येण शीतत्वेन निर्जितो नीहारमहीधरो हिमाचलो येन यन्त्रधारागृहेण तत्तथोक्तम्॥

अपि च विशेषव्यावर्णन करोति—हस्ते स्पृष्टेत्यादि। तत्रकुत्र। यत्र यन्त्रधारागृहे यत्रस्त्री कृत्रिमस्त्री चन्दनस्यन्दधारा गन्धसाराश्च्योतच्छटा शिशिरा विकिरति विक्षिपति।चित्रमाश्चर्यमेतत्। हस्ते स्पृष्टा सती नखान्तै कामाङ्कुशप्रान्तै चन्दनस्यन्दधारा

श्रोण्या काञ्चीगुणाग्रैस्त्रिवलिषु च पुनर्नाभिरन्ध्रेण धीरा
यन्त्रस्त्री यत्र चित्र विकिरति शिशिराश्चन्दनस्यन्दधारा॥३७५॥

तत्र यन्त्रधारागृहे, शिरीषकुसुमदामसदानितकुन्तलकलापाभि विचकिलमुकुलपरिकल्पितहारयष्टिभि पाटलीप्रसवसुरभितधम्मिल्लमध्याभि कर्णपुरमरुबकोद्भेदसुन्दरगण्डमण्डलाभि मृणालवलयालकृतकलाचीदेशाभि अमन्दचन्दनस्यन्ददुर्दिनस्तनतटाभि निबिडजलक्रीडामाञ्जिष्ठदृष्टिभि वल्लभ-

  •               *
    

विकिरति, कुचकलशतटे स्तनकलशमूले स्पृष्टा सती चूचुकप्रक्रमेण कुचाग्रावसरेण चन्दनस्यन्दधारा विकिरति, वक्रेस्पृष्टा सती नेत्रान्तराभ्या लोचनमध्याभ्या चन्दनस्यन्दधारा विकिरति, शिरसि मस्तके स्पृष्टा सती अवतसार्पितेन कर्णपूरेण कुवलयेन चन्दनस्यन्दधारा विकिरति, श्रोण्या कट्या स्पृष्टा सती काञ्चीगुणाग्रैकटिमेखलादोरकप्रान्तै चन्दनस्यन्दधारा विकिरति, त्रिवलिषु उदररेखासु स्पृष्टा सती पुनश्च पुनरपि नाभिरन्ध्रेण तुन्दिकाछिद्रेण चन्दनस्यन्दधारा विकिरति। यन्त्रस्त्री कथभूता। धीरा अनाविला निर्मला।दीपकसमुच्चयालकार॥

कि कुवाणोऽहम्। प्रियतमाभि सह सक्रीडमान। कथभूताभि प्रियतमाभि। शिरीषकुसुमदामसदामितकुन्तलकलापाभि शिरीषकुसुमदामभि शिरीषपुष्पमालाभि सदानिता ग्रथिता कुन्तलकलापा केशहस्ता याभिस्तास्तथोक्तास्ताभि। उक्त च—‘शिरीषस्तु कपीतन भण्डिलो मृदुपुष्पश्च भण्डीर शङ्खिनीफल शुकतनुश्यामककल्कशुप्रिय भडीवेति (?) यावत्। पुन कथभूताभि। विचकिल मुकुलपरिकल्पितहारयष्टिभि विचकिलो मोगरकस्तस्य मुकुलै कलिकाभि परिकल्पिता रचिता हारयष्टयो मुक्ताफलमाला याभिस्तास्तथोक्तास्ताभि। पुन कथभूताभि। पाटलीप्रसवसुरभितधम्मिल्लमध्याभि पाटली वसन्तदूती तस्या प्रसवै सुरभित धम्मिल्लसयता कचास्तस्य मध्यो गर्भो याभिस्तास्तथा ताभि। पुन कथभूताभि। कर्णपूरमरुबकोद्भेदसुन्दरगण्डमण्डलाभि कर्णपूरस्य सबन्धी योऽसौ मरुबक पत्रपुष्पविशेष तस्योद्भेदैर्मञ्जरीभि सुन्दराणि गण्डमण्डलानि यासा ता तथा ताभि। पुन कथभूताभि। मृणालवलयालकृत कलाचीदेशाभि मृणालाना वलयै कटकै अलकृता कलाचीदेशा प्रकोष्ठभागा याभिस्तास्तथा ताभि। पुन कथभूताभि। अमन्दचन्दनस्यन्ददुर्दिनस्तनतटाभि अमन्द प्रचुरतरो योऽसौ चन्दनस्यन्द गन्धसारद्रवस्तेन दुर्दिनानि विलिप्तानि स्तनतटानि यासा तास्तथा ताभि। पुन कथभूताभि। निबिडजलक्रीडामाशिष्ठदृष्टिभि निबिडा गाढा या जलक्रीडा तया माजिष्ठा पाटला दृष्टयो यासा तास्तथा ताभि। पुन कथभूताभि। वल्लभलोकहस्तयन्त्रोदस्तजलजडाशुकव्यक्तनिम्नोन्नतप्रदेशाभि वल्लभलोकस्य प्रियजनस्य हस्तस्य सबन्धि यत् यन्त्र जलो,

लोकहस्तयन्त्रोदस्तजलजडाशुकव्यक्तनिम्नोन्नतप्रदेशाभि अमर्यादालापविलासहासोल्लासाभिरामाभि प्रियतमाभि सह सक्रीडमान

विवशबिसिनीकन्दच्छेदैर्मृणालविभूषणै-
र्मलयजरसस्यन्दार्द्रार्द्रैरशोकदलोच्चयै।
युवतिहृदयैर्हारोत्तारस्तनैश्च विलासिना
समधिकरतिर्जातकाम निदाघसमागम॥३७६॥

भास्वद्भास्वतिदाहवाहिमरुति ज्वालोल्बणाशाकृति
शुष्यद्भूभृति दीप्यमानवियति प्रेङ्खन्मुखाम्भोद्युति।

त्क्षेपयन्त्र तेन उदस्तमुत्क्षिप्त यज्जल तेन जडानि आर्द्राणि यान्यशुकानि तेषु व्यक्तास्फुटीभूता निम्नोन्नतप्रदेशा जघनस्तनादिस्थानानि यासा तास्तथोक्तास्ताभि। पुन कथभूताभि।अमर्यादालापविला सहा सोल्लासाभिरामाभि अमर्यादा प्रचुरा ये आलापा परस्परभाषणानि तथा अमर्यादा ये विलासा लोचनोत्क्षेपास्तथा अमर्यादा ये हासा च कारवचनानि मुखविकासा वा तेषामुहासै प्रादुर्भावैरभिरामा अतिमनोहरा या प्रियतमास्ताभि॥

कथभूत सन्नह घर्मदिनेषु मध्याह्नसमयानतिवाहयामास। इत्यमुना प्रकारेण वैतालिकालापोल्लास्यमानमानस वैतालिकाना बोधकराणा आलापै उल्लास्यमान आह्नाद्यमान मानस यस्य स तथोक्त। इतीति किम्—विवशबिसिनीत्यादि। निदाघसमागमो ग्रीष्मकालागमो विलासिना कामिना काम यथेष्ट समधिकरतिर्जात सम्यक्प्रकारेण अधिकरतिदायको बभूव। कै कृत्वा निदाघसमागम समधिकरतिर्जात। विवशबिसिनीकन्दच्छेदै विवशा अवशात्मानो ये बिसिनीना कन्दच्छेदा मूलखण्डानि तै। उक्त च—‘विवश स्यादवश्यात्मानिष्टपुष्टविनिश्चय125।’ पुन कै कृत्वा। मृणालविभूषणै मृणालानामुत्पलाना विभूषणै। पुनश्च कै कृत्वा। अशोकदलोच्चयै अशोकपल्लवशय्याभि। कथभूतैरशोकदलोच्चयै। मलयजरस स्यन्दाद्री मलयजरसस्यन्दमानद्रवस्य स्यन्द नवस्तदुपलक्षिता या आर्द्रा जलक्लिन्नवस्त्र तया आर्द्रा क्लिन्ना ये अशोकदलोच्चयास्तै। पुनश्च कै कृत्वा। युवतिहृदयै वनिताना हृदयालिङ्गनै। कथभूतै युवतिहृदयै। हारोत्तारस्तनै हारै उत्तरा उत्कृष्टोज्वला स्तना येषु तानि तथा तै। समुच्चयदीपकालकार॥

** भास्वदित्यादि।** अस्मिन् ग्रीष्मे एतस्मिन् घर्मकाले देशान्तरं गच्छन् पुमान्मृतिं पञ्चत्व गच्छति। कथभूते ग्रीष्मे। भास्वद्भास्वति तेजस्वीभास्वान् श्रीसूर्यो यस्मिन् ग्रीष्मे स भास्वद्भास्वान् तस्मिन्। पुन कथभूते। दाहवाहिमरुति दाहवाही

सशुष्यत्सरिति क्वथत्तनुमति स्वान्तोद्भवोर्जाहृति
ग्रीष्मेऽस्मिन्महति क्षयामयचिति प्राञ्चन्मृतिं गच्छति॥३७७॥

कृतकिसलयशय्या प्रान्तचूतप्रताना
स्तबकरचितकुड्यास्तत्प्रसूनोपहारा।
जलसरणिसमीरासारसारा प्रियाणा
कुचकलशविलासैर्निर्विशोद्यानभूमी॥३७८॥

विकचविचकिलालीकीर्णलोलालकाना
कुरबकमुकुलस्रक्तारहारस्तनीनाम्।


सतापकारी मरुत् यत्र स तथा तस्मिन्। पुन कथभूते। ज्वालोल्बणाशाकृतिज्वालावत् अर्चिवत् उल्बणास्तीव्राआशा दिश करोतीति ज्वालोल्बणाशाकृत् तस्मिन्। पुन कथभूते। शुष्यद्भूभृति शुष्यतो दह्यमाना भूभृत पर्वता यस्मिन् स तस्मिन्। पुन कथभूते। दीप्यमानवियति दीप्यमान जाज्वल्यमान वियद्विष्णुपद यस्मिन् स तस्मिन्। पुन कथभूते। प्रेङ्खन्मुखाम्भोद्युति प्रेङ्खन्ती चलती मुखाम्भस मुखप्रस्वेदजलस्य द्युति दीप्तिर्यत्र स तथा तस्मिन्। पुन कथभूते। सशुष्यत्सरिति सम्यक्प्रकारेण शुष्यत्य सरितो यत्र तस्मिन्। पुन कथभूते। कथत्तनुमति कथन्त काथीभवन्तस्तनुमन्त प्राणिनो यस्मिन् स तस्मिन्। पुन कथभूते। स्वान्तोद्भवोर्जाहृति स्वान्तोद्भवस्य कन्दर्पस्य ऊर्जा बल हरतीति स तस्मिन्। ग्रीष्मे कामबल न भवतीत्यर्थं। पुन कथभूते। महति गुरुतरे। ज्येष्ठाषाढीये इत्यर्थ। पुन कथभूते। क्षयामयचिति क्षयामय यक्ष्माण राजरोग चिनोति पुष्णातीति स तस्मिन्। जात्यलकार॥

** कृतकिसलयेत्यादि।** हे राजन् त्व उद्यानभूमीर्वनभूमी निर्विश अनुभव।कै कृत्वा। प्रियाणा वल्लभस्त्रीणा कुचकलशविलासै स्तनघटालिङ्गनै। क्थभूता उद्यानभूमी। कृत किसलयशय्या कृता किसलयै तरुपल्लवै शय्या शयनीयानि यासु तास्तथोक्तास्ता। पुन कथभूता। प्रान्तचूतप्रताना प्रान्तेषु चूताना प्रताना समूहा यासु तथा ता। पुन कथभूता। स्तबकरचितकुड्या स्तबका पुष्पगुच्छास्तै रचिता निर्मिता कुड्या भित्तयो यासु तास्तथा ता। पुन कथभूता। तत्प्रसूनोपहारा तेषामुद्यानाना प्रसूनानि तेषामुपहारा प्रकरा यासु तास्तथा ता। पुन कथभूता। जलसरणिसमीरा सारसारा जलसरणय कृत्रिमजलनद्यस्तासा समीरासारैर्वायुसमूहै सास मनोहरास्तास्तथा ता। समुच्चयालकार॥

** विकचेत्यादि।** हे नृप, योषिता किमपि अपूर्व कषाय कषाययुक्त वक्र चुम्बास्वादय। कथभूताना योषिताम्। विकचविचकिलालीकीर्णलोलालकानाम् विकचानि विचकि-

दरजरठदलाग्रैपल्लवैश्चूतजातै-
र्नृप किमपि कषाय योषिता चुम्ब वक्रम्॥३७९॥

अलककिसलयाना भ्रूलताश्लाघिनीना
नयनमधुलिहाना चारुगण्डस्थलीनाम्।
कुचकुसुमचयाना स्त्रीवनश्रेणिकाना-
मवनिषु कुरु केली किं नृपान्यैर्वनान्तै॥३८०॥

लसदलकतरङ्गा कान्तनेत्रारविन्दा
प्रचलभुजलतान्ता पीनवक्षोजकोका।
अतनुजघनकूलाश्चारुलावण्यवार-
स्तव नृप जलकेलिं कुर्वत स्त्रीसरस्य॥३८१॥


लानि मोगरकपुष्पाणि तेषा आल्य आवल्यस्ताभि कीर्णा व्याप्ता लोला अलका यासां तास्तथोक्तास्तासाम्। पुन कथभूतानाम्। कुरबकमुकुलनक्तारहारस्तनीनाम् कुरबका शोणाम्लानवृक्षास्तेषा मुकुलाना स्त्रजोमालास्तथा तारा उज्ज्वला हारास्तैरुपलक्षिता स्तना यासा तास्तथा तासाम्। कै कृत्वा योषिता वक्र कषाय जातमिति चेत्। चूतजातै पल्लवै आम्रोद्भवै प्रवालै। कथभूतै पल्लवै। दरजरठदलामै दरमीषज्जरठानि कठिनानि दलाना अग्राणि येषा ते तथा तै। समुच्चयालकार॥

अलककिसलयानामित्यादि। हे नृप, त्व स्त्रीवनश्रेणिकानामवनिषु केलिं कुरु। अन्यैर्वनान्तैरपरैर्वनमध्ये किम्। न किमपि। कथभूताना स्त्रीवनश्रेणिकानाम् अलक किसलयाना अलकास्त एव किसलयानि यासा तासाम्। पुन कथभूतानाम्। भ्रूलताश्वाधिनीनाम् भ्रुव एव लतास्ताभि श्लाघा स्तुतिर्विद्यते यासा तास्तासाम्। पुन कथभूनानाम्। नयनमधुलिहानाम् मधु पुष्पमकरन्द लिहत आस्वादयन्तीति मधुलिहा भ्रमरा। ‘नाभ्युपधात्रीकृदृश क।’ नयनानि एव मधुलिहा यासा तास्तासाम्। पुन कथभूतानाम्। चारुगण्डस्थलीनाम् चार्व्योअतिमनोहरा गण्डस्थल्य कपोला यासु तथा तासाम्। पुन कथभूतानाम्। कुचकुसुमचयाना कुवा एवं कुसुमचया. पुष्पप्रकरा यासु तास्तथा तासाम्। रूपकसमुच्चयाक्षेपालकार॥

** लसदलकेत्यादि।** हे नृप, स्त्रीसरस्य वनितासरोवराणि तव भवतो जलकेलिं कुर्वतो विदधातु। कथभूता स्त्रीसरस्य। लसदलकतरङ्गा लसन्त उल्लसन्तोऽलका एव तरङ्गा यासा ता। पुन कथभूता। कान्तनेपारविन्दा कान्तानि मनोहराणि नेत्राणि अरविन्दानि यासु ता। पुन कथभूता। प्रचलभुजलता ता प्रचला उल्लसन्तो भुजलतान्ता यासु ता। पुन कथभूता। पीनवक्षोजकोका पीनापीवरा नातिस्थूला नातिदीर्घा वर्तुलाकारा परस्परसलना उवतिभाजो वक्षोजा

ऊरुव्यासवशेन मन्दितरया126 रुद्धा नितम्बस्थलै
र्नाभीकन्दरदेशवारिवलनव्यालोलफेनावलि।
बाहूत्पीडनसगलल्लहरिका पीनस्तनोत्तम्भिता
जङ्घादनघ्नजलापि स्वेलदबला कूलकषा वाहिनी॥३८२॥

गम्भीरनाभीवलभिप्रवेशादल्पोदकाभूत्तटिनी मुहुर्या।
स्त्रीणा पुनसातिभृता निकाम प्रियापराधस्त्रवदश्रुपूरै॥३८३॥

  •            *
    

एव कोका यासु ता। पुन कथभूता। पुन कथभूता। अतनुजघनकूला अतनूनि महान्ति जघनान्येव कूलानि तटानि यासा ता। पुन कथभूता। चारुलावण्यवार चारूणि लावण्यानि कान्तयो वारीणि जलानि यासु ता। रूपकालकार॥

** ऊरुव्यासवशेनेत्यादि।** हे राजन्, खेलदबला खेलन्ती रममाणा अबला जङ्घा दघ्नजला। जङ्घादघ्नजला सा कूलकषा वाहिनी कथमिति विरुद्ध परिह्रियते। यत कूल कषा स्मरमन्दिरपीडावती तत एव जङ्घादघ्नजला जानुपर्यन्तप्राप्तशुक्रा इति सुस्थम्। कथभूता खेलदबला। ऊरुव्यासवशेन मन्दितरया ऊर्वो सकिघ्नो व्यास परस्परसमेलन तस्य वशेन परवशत्वेन मन्दितरया मन्दवेगा। पुनश्च कथभूता नितम्बस्थले रुद्धा नितम्बा एव स्थलानि उच्चतया तै रुद्धा अवष्टब्धा। पुन कथभूता। नाभीकन्दरदेशवारिवलनव्यालोलफेनावलि नाभ्येव कन्दरदेशो गुहास्थान तत्र वारिवलनेन प्रस्वेदजल व्याप्त्या व्यालोला विशेषेण चपला फेनावलि शुक्लडिण्डीरपिण्डराजिर्यस्या सा। पुन कथभूता। बाहूत्पीडनसगलल्लहरिका बाह्वोभुजयोरुत्पीडनेन गाढमालिङ्गनेन सगलन्त्य समुखमागच्छन्त्यो लहरिकास्त्वक्सकोचेक्षणवीचयो यस्या सा। पुन कथभूता। पीनस्तनोत्तम्भिता पीनौ पूर्वोक्तलक्षणौ यौ स्तनौ ताभ्यामुत्तम्भिता अवष्टब्धा सा तथोक्ता। रूपकविरोधालकार॥
गम्भीरनाभीत्यादि। या स्त्रीणा तटिनी त्रिवलीलक्षणा नदी गम्भीरनाभीवलभिप्रवेशात् अगाधतुन्दिकातलाधारवशपञ्जरसचारात् अल्पोदका अभूत्। प्रस्वेदजलरहिता बभूवेत्यर्थ। सा तटिनी प्रियापराधस्रवदश्रुपूरै प्रियस्य अपराध प्रियापराध भर्तृदोष तस्मात् स्रवन्ति क्षरन्ति यानि अश्रूणि तेषा पूरै निकाम पुन पश्चात् अतिभृता अभूत्। रूपकालकार॥

अलकेक्षणवदनकुचैरुन्मज्जन्त्या क्रमेण कान्ताया।
जम्बालकुवलयाम्बुजपुलिनश्रियमाश्रिता सिन्धु॥३८४॥

अहनि परिणतार्धेनाथ सीमन्तिनीना
पुरुषरतनियोगव्यग्रकाञ्चीगुणानाम्।
शिथिलयति कपोले मण्डन स्वेदबिन्दु-
र्निबिडकुचनिकुञ्जात्स्यन्दते वारिपूर॥३८५॥

उद्वेल्लन्ति कपोलपालिषु कुचस्तम्बेषु मन्दास्पदा
स्फायन्ते वलिवाहिनीषु पृथवो नाभीदरश्रेणिषु।
ग्रीष्मेऽपि स्मरकेलिलालसघिया स्त्रीणा श्रमाम्भ कणा
ख्यान्ति प्रावृष एव सपदममी नीवीलतोल्लासिन॥३८६॥

  •          *
    

अलकेक्षणेत्यादि। सिन्धुर्नदी भर्तुर्दृष्टिलक्षणा कान्ताया स्त्रिय अलकेक्षणवदन कुचै अलकाया जम्बालकुवलयाम्बु जपुलिनश्रिय आश्रिता बभूव। जम्बालानि शैवलानि। उक्त च—‘शैवले कर्दमे चैव जम्बालमिति चोच्यते। कुवलय च उत्पलम्, अम्बुज च कमलम्, पुलिन च तोयोत्थि तस्थलम्, जम्बालकुवलयाम्बुजपुलिनानि। ‘तोयोत्थित तत्पुलिनम्’ इति वचानात्। तेषांश्री शोभा ता जम्बालकुवलयाम्बुजपुलिनश्रिय आश्रिता प्राप्ता। यथासरयालकार॥

अहनीत्यादि। हे नाथ हे राजन्, अहनि दिवसे परिणतार्धेमध्याह्नवेलाया स्वेद बिन्दु प्रस्वेदजल सीमन्तिनीना कपोले मण्डन पत्रवल्लीं शिथिलयति श्लथकरोति। निबिडकुचनिकुञ्जात् निबिडौ परस्परसलग्नौयौ कुचौ तयोर्निकुञ्ज मध्यस्थान निबिडकुचनिकुञ्ज तस्मात्। उक्त च—‘निकुञ्जकुञ्जौवा क्लीबे लतादिपिहितोदरे।’ स्थाने इति विशेष। वारिपूरो जलप्रवाह स्यन्दते क्षरति। कथभूताना सीमन्तिनीनाम्। पुरुषर तनियोगव्यग्रकाञ्चीगुणानाम्। ‘उपरि स्त्री अध पुरुष इति रीत्या यत्सुरत तत्पुरुषरतमुच्यते विपरीतरतम्’ इति वचनात्। तस्य नियोगो निर्विशेषो योगो नियोगो व्यापारस्तत्र व्यम्रो व्याकुल। ‘व्यग्रे च प्रगुणाकुले’ इति वचनात्। काञ्चीगुणो कटिमेखला यासा तास्तथोक्तास्तासाम्। शृङ्गाररसप्रधान रूपकमिदम्॥

** उद्वेल्लन्तीत्यादि।** हे राजन्, स्त्रीणा श्रमाम्भ कणा सुरतश्रमसजातजलकणा ग्रीष्मेऽपि उष्णकालेऽपि प्रावृष एव वर्षतौरेव सपद शोभा अभी प्रत्यक्षीभूताख्यान्ति कथयन्ति। सूचयन्तीत्यर्थ। कथभूताना स्त्रीणाम्। स्मरकेलिलालसधियाम् स्मरकेलिषु कदर्पक्रीडासु लालसा अत्याकाङ्क्षा धीर्बुद्धिर्यासा तास्तथा तासाम्। श्रमाम्भ कणा कि कुर्वन्ति। कपोलपालिषु गण्डस्थलवारिवारणेषु उद्वेल्लन्ति उत्पतन्ति। उक्त

मन्दानिलेषु कदलीदलमण्डपेषु
हारेषु यन्त्रगृहकेलिषु चन्दनेषु।
बद्धस्पृहान्ननु दुनोति कथ स काल
कान्तासु चार्पितपयोधरमण्डलासु॥३८७॥

इति वैतालिकालापोल्लास्यमानमानस सकललोकलोचनघूर्णनेषु घर्मदिनेषु मदिरासमागमानिव मध्याह्नसमयानतिवाहयामास।

अकुर्वन्मनस प्रीतिं य स्त्रीषु विहितादर।
अन्यार्थंभारवोढेव स पर क्लेशभाजन127॥३८८॥


च विद्यानन्देन—‘चलने चलति प्रेङ्खति विकम्पते वेपते च वेल्लति च त्वङ्गति रङ्गति वल्गति दोलयति स्यन्दते स्फुरति॥’ कथभूता श्रमाम्भ कणा। कुचस्तम्बेषु स्तनप्र काण्डेषु मन्दास्पदा मन्दस्यन्दा। पुनञ्च कि कुर्वन्ति श्रमाम्भ कणा। वलिवाहिनीषु त्रिवलीनदीषु स्फायन्ते स्फारीभवति वृद्धिं गच्छन्ति। कथभूता। नाभीदर श्रेणिषु नाभिविवरसमूहेषु पृथव। पुन कथभूता। नीवीलतोल्लासिन नीवी कटीवस्त्रबन्धन सैव लता वल्ली तामुल्लासय तीत्येवशीला। उल्लसन कुर्वन्तीत्यर्थ। रूपकोपमालकार॥

मन्दानिलेष्वित्यादि। हे राजन्, स कालो ग्रीष्मकालो नन्वहो कथ केन प्रकारेण नरान् दुनोति सतापयति। कथभूतान् नरान्। वृद्धस्पृहान् साकाङ्क्षान्। केषु सत्सु दुनोति। मन्दानिलेषु अतीव्रवातेषु सत्सु। तथा कदलीदलमण्डपेषु अशुमत्फलपर्णगृहेषु सत्सु। तथा हारेषु तथा यन्त्रगृह केलिषु यन्त्रधारामन्दिरक्रीडासु सतीषु। तथा च दनेषु हरिच न्दनद्रवेषु सत्सु। तथा कान्तासु सतीषु। कथभूतासु कान्तासु। अर्पितपयोधरमण्डलासु। न कथमपि दुनोतीत्यर्थं। समुच्चयालकार॥ कथभूतेषु घर्मदिनेषु। सकललोकलोचनघूर्णनेषु सर्वलोकलोचननिद्रोत्पादकेषु। कथभूतान् मध्याहसमयान्। मदिरासमागमानिव यथा मदिरासमागमा सकललोकलोचनाना घूर्णन कुर्वन्ति॥

अकुर्वन्नित्यादि। य पुमान् स्त्रीषु वनितासु विषये मनस प्रीतिं हषमकुर्वन् स्त्रीषु विहितादरो न भवति कृतादरो न स्यात्। स पुमान् परं केवल क्लेशभाजनो भवति। क इव। अन्यार्थ भारवोढेव यथा भारवोढा पुमान् अन्यार्थ अपरेषा निमित्त भार वहति स्वय तु क्लेश सहते तत्समानो ज्ञातव्य। उपमालकार॥

कदाचिद्वियल्लक्ष्मीकुन्तलकलापकान्तिभि सुरसरिन्नीलिकाविलासहासै त्रिदिवस्त्रीनेत्राञ्जनविराजिभि अमृतकरकुरङ्गलोचनच्छायै तपनतुरगदूर्वाङ्कुरस्थलसृष्टिभि स्वर्देवताभिषेकमरकतमयकलशमण्डलावलोकै विद्याधरपुराभिसारिकाविजृम्भणतिमिरवृत्तिभि सैहिकेयसैन्यसमसाहसव्यवसायै खेचरीचरणचाराचरितमेचकमणि-कुट्टिमाभोगभङ्गिभि गगनचरमिथुनरतिकेलितमालकाननकमनीयै अमरविमानमहानीलाधिष्ठानलिम्पिभि अम्बरसर

—————————

कदाचित् कस्मिंश्चिदवसरे अम्भोधरैर्मेधै कृत्वा प्रसवोन्मुखकामिनीकुचचूचुकाभासि नभसि सति प्रसवे प्रसूतौ उन्मुखा अवसरन्ती या कामिनी स्त्री तस्या कुचचूचुकवत् कृष्णवर्णतया आभा शोभा यस्य नभसस्तत्तथोक्त तस्मिन्। ईदृग्विधे नभसि सति वर्षर्तुश्रिय वर्षाकाल्लक्ष्मी अनुभवन् भुजानो यावत् यावत्काल अह यशोधर सप्रमोद सहर्ष आसाचक्रे तिष्ठामि स्म तावत्काल सविविग्रही यशोधरस्य महान् दूत इति विज्ञाप्य इति विज्ञापन कृत्वा दूत शासनहर प्रावेशयत् प्रवेशितवान्। इति क्रियाकारकसबन्ध। कथभूतैरम्भोधरै। वियलक्ष्मीकुन्तलकलापकान्तिभि वियल्लक्ष्म्या कुन्तलकलापकेशसमूहस्तद्वत् कान्ति कृष्णत्व येषा ते तथा तै। पुन कथभूतै। सुरसरिन्नीलि काविलासहासै सुरसरिदाकाशगङ्गा तस्या नीलिका शैवल तस्या विलासैर्हांसैरुल्लासप्रसरै। पुन कथभूतै। त्रिदिवत्रीनेत्राञ्जनविराजिभि त्रिदिवस्त्रीणा नेत्राणा अजनवत् विराजिभि विराजनशीलै। पुन कथभूतै। अमृतकरकुरङ्गलोचनच्छायै. अमृतकरकुरङ्गस्य लोचनयोरिव आसमन्तात् छाया कान्तिर्येषा ते तथा तै। पुन कथभूतै। तपनतुरगदूर्वाङ्कुरस्थलसृष्टिभि तपनस्य श्रीसूयस्य तुरगास्तेषा दूर्वाङ्कुरा हरिताङ्कुरास्तेषा स्थलसृष्टयो येषु ते तथा तै। पुन कथभूतै। स्वर्देवताभिषेकमरकत मयकलशमण्डलावलोकै स्वर्देवता स्वर्गदेवता तस्या अभिषेकाय ये मरकतमयक लशा हरिन्मणिमयघटास्तेषा मण्डल समूहस्तद्वदवलोक शोभा येषा ते तथा तै। पुन कथभूतै। विद्याधरपुराभिसारिकाविजृम्भणतिमिरवृत्तिभि विद्यावरपुराणा सबन्धिन्यो या अभिसारिका कामुकस्त्रिय। ‘कान्तार्थिनी तु या याति सकेत साभि सारिका’ इति वचनात्। तासा विजृम्भण प्रसरण तन्निमित्त तिमिरस्येव अन्धकारस्येव वृत्तिर्येषा ते तथा तै। पुन कथभूतै। सैहकेयसैन्यसम साहसव्यवसायै सैहिकेयो विधुतुदस्तस्य सैन्यसम साहसव्यवसाय उद्यमप्रवृत्तिर्येषा ते तथा तै। पुन कथभूते। सेचरीचरणचाराचरितमेचकमणिकुट्टिमाभोगभङ्गिभि खेचरीचरणाना चार सचरण तस्मै आचरिता मेचकमणीना कृष्णरत्नाना कुट्टिमाभोगवत् बद्धभूमिविस्तारवत् भङ्गी रचना येषा ते तथा तै। पुन कथभूतै। गगनचरमिथुनरतिकेलितमालकाननकमनीयैगगनचरमिथुनाना देवविद्याधरस्त्रीपुरुषयुगलाना रतिकेलये सभोगक्रीडानिमित्त तमाल

प्रसरत्पङ्कपेशलप्रकाशैव्योमगजगण्डमण्डनमदमनोहारिभि विडम्बितगारुडोपलशैलशिखरशोभैउपहसितशि-तिकण्ठकण्ठद्युतिभिसकर्षणवसनवानातानसुन्दरै द्युसदनदीर्घिकाविकासितकुवलयवनविकसद्धि अनङ्गना-रण्यप्ररूढतापिच्छगुच्छगहनावगाहिरामैअवहेलितहरिदेहदीप्तिसपत्तिभि शिखण्डिताण्डवप्रारम्भपूर्वरङ्गैअन-ङ्गनगपल्लवोल्लासव्यसनिभिप्रोषितपुरध्रिकाश्वासनप्रथमदूतै चातककुरलकेलिकारिभिकलहसनिर्वासघोषणाभि-

————————

काननवत्‌ कमनीया ये ते तथा तै। पुन कथभूतै। अमरविभानमहानीला

धिष्ठानलिम्पिभि अमरविमानाना सबन्धियत्‌ महानीलाधिष्ठान कष्णरत्नपटललिम्पन्ति तिरस्कुर्वन्तीत्येबशीलास्ते तथा तै। पुन कथभूतै। अम्बरसर प्रसत्ङ्कपेशलप्रकाशै अम्बरसरस आकाशसरोवरस्य भ्रसरत्‌ व्याप्नुवत्‌ यत्पङ्क कर्दमस्तद्वत्पेशल प्रकाशो दीप्तिर्येषा ते तथातै। पुन कथभूतै। व्योमगजगण्डमण्डनमदमनोहारिमि व्योमाकाश तदेव गजो हस्ती तस गण्डौ कटौ तयोमण्डन भूषण यो मदस्तद्वत्‌ मनो हरन्तीत्येवशीला ये ते तथा तै। पुन कथभूतै। विडम्बितगारुडोपलशैलशिखरशोभै विडम्बिता तिरस्कृता गारुडोपलशैलस्थ नालपर्वतस्यशिखर शोभा यैस्ते तथा ते।[पुन कथभूतै। उपहसितरितिकण्डकण्ठद्युतिभि]
पुन कथभूते। सकर्षणवसनवानातानसुन्दरैसकषणस्य बलभद्रस्ययद्वसन तस्य वानातानवत्‌ वननतननवत्‌ सुदरै। पुन कथभूतै। द्युसदनदीर्धिकाविकासितकुवलयवनविलसद्धि द्युसदनदीर्घिकाया विकासित यत्‌ कुवलयनीलोत्पल तद्वत्‌ विलसन्त्युल्लस तीत्येवशीलास्ते। पुन कथभूतै। अनङ्गनारण्यप्ररूढतापिच्छगुच्छगहनावगाहिरामै अनङ्गनमाकाश तदेवारण्य तन्न अरूढास्तापिच्छा काहलिकवृक्षास्तेषा गुच्छ पुष्पकम्बय तेषा गहनानि वनानि तद्वत्‌ अवगाहिरामैव्यापनमनोहरे। पुन कथभूतै। अवहेलितहरिदेहदीप्तिसपत्तिभि अवहेलिता विरस्कृता हरेर्नारायणस्य देहस्य दीप्तिसपत्ति कृष्णकान्तिसपत्‌ यैस्तेतथा तै। पुनकथभूते। रिखण्डिताण्डप्रारम्भपूर्वरङ्गैशिखण्डिना मयुराणा ताण्डवप्रारम्भे नृत्यपुर्वकाल पूर्वरङ्गैप्रथमरङ्गसदृशौ। पुन कथभूतै। अनङ्गनगपल्लवोल्लासव्यसनिमि अनङ्ग कदर्पस एव नगो वृक्ष तस्यपल्लवानामुल्लसे व्यसन निर्बन्धो विद्यते येषा तै। पुन कथभूतै। श्रोषितपुरध्रिकाश्वासनप्रथमदुतै प्रोषितपुरध्रिकाणा विरहिणीना स्त्रीणाआश्वासने घीरत्वदाने प्रथमदूतैपूर्वसदेशहरै। पुन कथभूतै। चातककुलके लिकारिभि चातकाना बप्पीहाना कुलानि तेषा केलिंक्रीडा कारयन्तीत्येवशीलास्ते तथा

नवपटहै कदलीदलश्यामलितदिग्भित्तिभिरम्भोघरै प्रसवोन्मुखकामिनीकुचचूचुकाभासि नभसि, नीलनेत्रवितानान्तरालावलम्बितनिरन्तरहारहारिणि समन्तात्पतति धारासारसलिले, वसुमतीतरुस्तनधयधात्र्यामिव पयपूर्णपयोधराभोगसुभगाया दिवि, चिरतरातपसतापदु स्थिताया क्षितेर्यन्त्रधारागारलीलामिव बिभ्रति गगनमण्डले, विततसितपताकाडम्बरेष्विव शरन्निर्झरनीरेषु गिरिषु, मुक्ताफलजालप्रसाधितेष्विव स्यन्दमानवारिसुन्दर-

——————

तै। पुन कथभूतै। कलहसनिर्वासघोषणाभिनवपटहै कलहसाना चञ्चुचरणचक्षुरक्ताना राजहसाना निर्वास उद्वासस्तस्य घोषणा उच्चैर्घुष्ट तस्या अभिनवपटहा अपूर्वानकास्ते तथा। तै। पुन कथभूतै। कदलीदलश्यामलितदिग्भित्तिभि कदलीना वारणबूसाना दलै श्यामलिता कृष्णीकृता दिग्भित्तय प्रशस्ता दिशो यैस्ते कदलीदलश्यामलित दिग्भित्तयस्तै। पुनश्च कस्मिन् सति वर्षर्तुश्रियमनुभवन् आसाचक्रे। धारासारसलिले धाराणा मासारो वेगवद्वर्षस्तस्य सलिले जले समन्तात् सर्वत पतति सति क्षरति सति। कथभूते वारासारसलिले। नीलनेत्रवितानान्तरालावलम्बितनिरन्तरहारहारिणि नीलनेत्र कृष्णाशुक तस्य वितान चन्द्रोपकस्तस्यान्तराले अधोभागे अवलम्बिता निरन्तरा अविच्छिन्ना ये हारा मुक्ताफलमालास्तद्वत् हारिणि मनोहरे। पुनश्च कस्या सत्या वर्षर्तुश्रियम नुभवन्नासाचके। दिवि सत्याम्। क्थभूताया दिवि। पय पूर्णपयोधराभोगसुभगायाम् पयोभिर्जलै पूर्णा भृता ये पयोधरा मेघास्तेषामाभोग परिपूर्णता तेन सुभगा सौभाग्यवती सा तथा तस्या तथोक्तायाम्। पुन कथभूतायाम्। वसुमतीतरुस्तनधयधात्र्यामिव वसुमती पृथ्वी तस्यास्तरव एव स्तन..या पुत्रास्तेषा धात्र्यामिव उपमातरीव। यथा उपमाता पयसा दुग्धेन पूर्णपयोवराभोगसुभगा परिपूर्णस्तनाटोपमनोहरा भवति। पुनश्च कस्मिन् सति वर्षर्तुश्रियमनुभवन्नासाचक्रे। गगनमण्डले सति। गगनमण्डलें कि कुर्वति सति। क्षिते पृथिव्या यन्त्रधारागारलीला बिभ्रतीव सति। कथभूताया क्षिते। चिरतरातपसतापदु स्थिताया चिरतर दीर्घकालमातपस्य धर्मस्य सतापेन सज्वरेण दु स्थिताया दुखवत्या। पुनश्च केषु सत्सु वषर्तुश्रियमनुभवन्नासाचक्रे। गिरिषु सत्सु। कथभूतेषु गिरिषु। क्षरन्निर्झरनीरेषु क्षरन्ति उपरिष्टादध पतन्ति निझराणा नीराणि कबन्धानि येभ्यस्ते तथा तेषु। पुन कथभूतेषु। विततसितपताकाडम्बरेष्विव वितता विस्तृता पताका ध्वजास्तासामाडम्बर कटको येषु ते तथा तेषु। इवोपमायाम्। पुनश्च केषु सत्सु वर्षर्तुश्रियमनुभवन्नासाचक्रे। सद्मसु गृहेषु सत्सु। कथभूतेषु सद्मसु। स्यन्दमानवारिसुन्दरपर्यन्तेषु स्यन्दमानानि क्षरन्ति यानि वारीणि तै सुन्दरा पर्यन्ता येषा तानि तेषु। पुन कथभूतेषु। मुक्ताफलजालप्रसाधितेष्विव मुक्ताफलजालैर्मौक्तिकमालाभि प्रसाधितेष्विव। पुनश्च कासु सतीषु वर्षर्तुश्रियम

पर्यन्तेषु सद्मसु, मैरेयातिलङ्घितासु सीमन्तिनीष्विव निर्मर्यादशब्दगमनासु वाहिनीषु, निदाघनिवापजलसरावेष्विव निर्भराम्भ सभृतेषु सर सु, समुद्रसलिलसह सेवितौर्वानलज्वालावभासिनीष्विव स्फुरन्तीषु तडित्सु, स्मरपुरदरार्पितचापव्यापारभार इव निवलाराधनधन्यधनुषि विजिगीषुलोके, किलिञ्चसचयोचितचञ्चुरोचमानमौकुलिकुलाकुलेषु शाखिशिफोद्गमदेशेषु, नीरन्ध्रशिलिन्ध्रबन्धुरेषु धराभागेषु, लाङ्गलीप्रसवपाटलिमधामनि ककुप्चक्र-

————————

नुभवन्नासाचक्रे। वाहिनीषु सतीषु। कथभूतासु वाहिनीषु। निर्मर्यादशब्दगमनासु निर्मर्यादा नि सीमान शब्दा कोलाहला गमनानि च वेगवद्धावनानि च यासु तास्तथा तासु। पुन कथभूतासु। सीमन्तिनीष्विव। कथभूतासु सीमन्तिनीषु। मैरेयातिलङ्घितासु मैरेयेण मिरानामदेशोत्पन्नगुडमद्येन अतिलङ्घिता मैरेयातिलङ्घिता स्तासु। अत्र हेत्वलकार। पुनश्च केषु सत्सु। सर सु सरोवरेषु सत्सु। कथभूतेषु सर सु। निर्भराम्भ सभृतेषु निर्भर गाढमम्भोभिर्जलै सभृतेषु परिपूर्णेषु। पुन कथभूतेषु। निदाघनिवापजलसरावेष्विव निदाघो ग्रीष्मकाल स तस्य निवाप मृतस्य कारटक तस्य सबन्धिषु जलसरावेष्विव उदकवर्वमानेष्विव। ‘पितृदान निवाप स्यात्’ इति वचनात्। पुनश्च कासु सतीषु। तडित्सु शतह्रदासु सतीषु। कथभूतासु तडित्सु। जलधरोदरेषु स्फुरन्तीषु चमत्कुर्वतीषु सतीषु। पुन कथभूतासु। समुद्रसलिलसहसेवितौर्वानलज्वालावभासिनीष्विव समुद्रसलिलै सरखज्जलै सहसेविता आस्वादिता या और्वानलज्वाला वडवानल्कीला तद्वदाभासन्ते चमत्कुर्वन्तीत्येवशीलास्तास्विव। पुनश्च कस्मिन् सति। विजिगीषुलोके शत्रूणा विजेतुमिच्छौ लोके सति। कथभूते विजिगीषुलोके। निवलारा वनव न्यधनुषि निवलाना धनुभस्त्रकाणा आराधनेन धन्यानि कृताथानि धनूषि यस्य स निवलारावनधन्य वनुस्तस्मिन्। पुन कथभूते। स्मरपुरदरार्पितचापव्यापारभार इव स्मर कदर्प स एव पुरदरस्तेन अर्पितो नियोगीकृतश्चापव्यापारभारो यस्य स तथा तस्मिन्। पुनश्च केषु सत्सु। शाखिशिफोद्गमदेशेषु शाखिना शिफा अप्राणि तेषा उद्गमदेशेषु उत्पादस्थानेषु। कथभूतेषु शाखिशिफोद्गमदेशेषु। किलिञ्च सचयोचितचञ्चुरोचमानमौकुलिकुलाकुलेषु किलिञ्चाना अपेशलाना रम्भाकाष्ठाना सचयेन सग्रहेण उचिता योग्या चञ्चवस्तुण्डायाणि ताभी रोचमाना शोभमाना ये मौकु लय काकास्तेषा कुलै समूहैराकुला व्याप्ता ये शाखिशिफोद्गमदेशास्ते तथा तेषु। पुनश्च क्रेषु सत्सु। धराभागेषु भूमिप्रदेशेषु सत्सु। कथभूतेषु घराभागेषु। नीरन्ध्रशिलीन्ध्रबन्धुरेषु नीरन्ध्राणि अविच्छिन्नानि शिली ध्राणि गोमयच्छन्नाकाराणि तै बन्धुरा ये वराभागास्ते तथा तेषु। पुनश्च कस्मिन् सति। ककुप्चक्रवाले सति दिग्मण्डले सति। कथभूते ककुप्चक्रवाले। लाङ्गलीप्रसवपाटलिमधामनि लाङ्गलीना जलपिप्पलीना

वाले, यूथिकाप्रसूनपरिमलविलासिषु शिलोच्चयशिलान्तरालपरिसरेषु, रत्नाङ्कुररोमाञ्चकञ्चुकिनि विदूरभूघरे, गिरिमल्लिकामुकुलमण्डितशिखण्डेषु गण्डशैलेषु, सुरगोपप्रचारशोणशोचिषि वसुधरावलये, सर्जार्जुनविजयिषु कुत्की लत्कुलकुञ्जेषु, मनोभवभल्लिकाकृतिषु च विजृम्भमाणेषु केतकीकुसुमपस्त्रेषु,

अपिच

उन्मार्गम्भसि मेघमन्दनभसि छन्नाशुमत्तेजसि
क्षुभ्यत्स्त्रोतसि रुद्धपान्थतरसि स्फूर्जत्तडिद्भूयसि।

——————

कलिकाना प्रसवा पुष्पाणि तेषा पाटलिम्नश्वेतरक्तत्वस्यधाम स्थान यत्‌ ककुप्च कवार तथा तस्मिन्‌। पुनश्च केषु सत्सु।शिलोच्चयशिलान्तरालपरिसरेषु शिरोञ्च याना शिलाना अ तरालाना मध्याना परिसरा पयन्तप्रदेशा प्राङ्गाणानि तेषु सत्यु। कथभूतेषु शिलोच्चयशिला तरालपरिसरेषु। यूयिका प्रसूनपरिमलविलासिषुयूयिकानाम म्बष्टाना प्रसूनाना परिमलाना विलासो विद्यते येषा ते तथा तेषु। पुनश्च कस्मिन्‌ सति। वैर्द्युरत्नोत्पत्तिहेतुविदूरभूधरे सति। कथभूते विदूरभुधरे। रत्नाङ्कररोमाञ्चकञ्चुकिनि रत्नानामङ्कुरास्तेषा रोमाञ्चकञ्चुको विद्यते यस्य स तथा तस्मिन्‌। पुनश्च केषु सत्सु। गण्डशैलेषु क्षुद्रपर्वतेषु सत्सु। कथभूतेषु गण्डशैलेषु। गिरिमल्लिकामुकलमण्डितदिखण्डेषु गिरिमल्लिकामुकुलैकुटजकुङ्गलेर्मण्डिता शिखण्डा शिखराणि येषा गण्डशैलाना ते तथा तेषु। पुनश्च कस्मिन्‌. सति। वसुधरावलयेसति। कथभूते वसुधरावलये। सुरगोपप्रचारशोणशोचिषि सुरगोपाना इन्द्रवयूटिकाना कीरविशेषाणा प्रचारेण प्रस रेण शोणा कोकनदप्रभाशोची रोचीर्यस्य स तथा तस्मिन्‌। पु

नश्च केषु सत्सु। कुत्की लकुजेषु कुत्कीलाना पर्वताना कुञ्जानि लतादिपिहितोदराणि कुत्कीलकुञ्जास्तेषु सत्सु। कथभूतेषु कुत्कीलकुञ्जेषु। सर्जार्जनविजयियु सर्जाश्चअसनवृक्षा अर्जुनाश्च मद्यहेतु त्वचो वृक्षास्तैविंजयन्ते शोभते इत्येवशीलास्ते तथा तेषु। पुनश्च केषु सत्सु। केतकी कुसुमपत्रेषु सत्सु। कथभूतेषु केतकीकुसुमपस्त्रेषु। विजृम्भमाणेषु सत्सु। पुन कथभूतेषु। मनोभवमल्लिकाकृतिषु च मनोभवस्य भल्लिका बाणाग्रफलतस्या आकृतिर्येषा तानि तथा तेषु ॥

अपि च असि कश्चिद्विशेरेष। कथभूतोऽह वर्षर्तुश्रियमनुभचन्नासाचक्रे। इत्यमुना प्रकारेण अकालजलदबन्दिविनोद्यमानमना अकालजलदनाम्नाबदिना स्तुतिपाठकेन विनोद्यमान क्रीड्यमान मनोयस्यस तथोक्त। इतीति किप्‌—

उन्मार्गाम्भसीत्यादि। हे नाथ, ईदृग्विधे वर्षाकाले पौढा नवयौवना प्रिया यत्त्व मुश्चसि परिहरसि। च अन्यत्‌ रूढवयसि प्रादुर्भूतनवयौबने सति त्वकथ यासिदेशान्तर गच्छसि। कथभूते काले। उन्मार्गाम्भति उन्मार्गाणि नदीनामुभयतरलङ्घीनि

कदर्पौकसि मत्तकेकिमनसि प्रेमोद्यते चेतसि
काले यासि कथ च रूढवयसि प्रौढा प्रिया मुञ्चसि॥३८९॥

उत्कूजच्छिखिन नटत्करटिन प्रादुर्भवच्छाखिन
क्रीडद्भेककुल पतद्बहुजल क्षुभ्यद्धरित्रीतलम्।
पुष्यत्काममद जयज्जनपद सोत्सर्गसिन्धुस्यद
दृष्ट्वेममिहिर जगत्प्रियकर काभ्येति न स्त्री नरम्॥३९०॥

——————

अम्भासि यस्मिन् काले उन्मार्गाम्भास्तस्मिन्। पुन कथभूते। मेघमन्दनभसि मेघेर्मन्द प्रचुर नभो यस्मिन् स तथा तस्मिन्। पुन कथभूते। छन्नाशुमत्ते जसि छन्नमाच्छादित अशुमत श्रीसूर्यस्य तेजो यस्मिन् स तथा तस्मिन्। पुन कथभूते। क्षुभ्यत्स्रोतसि क्षुभ्यन्ति सम्यक्चलन्ति उत्पतन्ति स्रोतासि जलप्रवाहा यस्मिन् तथा तस्मिन्। पुन कथभूते। रुद्धपान्थतरसि रुद्धमवष्टब्ध पान्थाना तरो वेगो यस्मिन् स तथा तस्मिन्। पुन कथभूते। स्फूर्जत्तडिद्भूयसि स्फूर्जन्त्यो अप्रतिहतव्यापारास्तडितस्ताभिर्भूयान् स्फूर्जत्तडिद्भूयान् तस्मिन्। पुन क्थभूते। कदर्पौकसि कदपस्य ओको गृह कदपाकस्तस्मिन्। पुन कथभूते। मत्तकेकिमनसि मत्तानि उत्कटानि केकिना मयूराणा मनासि चित्तानि यस्मिन् काले स तथा तस्मिन्। पुन कथभूते सति। भो पथिक, तव चेतसि प्रेमोद्यते सति सौहार्दे गते सति। समुच्चयालकार॥

उत्कूजदित्यादि। इम मिहिर मेघ दृष्ट्वा का स्त्री नर पुरुष न अभ्येति गच्छति। अपि तु सर्वापि स्त्री पुरुषगमन करोति इत्यर्थ। कथभूत मिहिरम्। उत्कूजच्छिखिनम् उत्कूजन्ति शब्द कुर्वन्ति केकाध्वनिं विदधति शिखिनो मयूरा यत्र स तथा तम्। पुन कथभूतम्। नटत्करटिनम् नटतिनृत्य कुर्वन्ति करटिनो यत्र स तथा तम्। पुन कथभूतम्। प्रादुर्भवच्छाखिन प्रादुर्भवन्ति प्रकटीभवति शाखिनो यत्र स तथा तम्। पुन कथभूतम्। क्रीडद्भेककुलम् क्रीडन्ति पर्यटन्ति भेकाना कुलानि यत्र स तथा तम्। पुन कथभूतम्। पतद्बहुजलम् पतन्ति निर्गलन्ति बहूनि जलानि यत्र स तथा तम्। पुन कथभूतम्। [क्षुभ्यद्धरित्रीतलम् पुन कथभूतम्।] पुष्यत्कममदम् पुष्यति पुष्टिं प्राप्नोति कामस्य कदर्पस्य मदो दर्पो यत्र स तथा तम्। पुन कथभूतम्। जयज्जनपदम् जयन्ति उत्कर्ष प्राप्नुवन्ति जनपदा देशा यत्र स तथा तम्। पुन कथभूतम्। सोत्सर्गसिन्धुस्यदम् सोत्सर्ग सोत्साह सिन्धूना नदीना स्यदो जवो यत्र स तथा तम्। पुन कथभूतम्। जगत्प्रियकरम् जगता सर्वलोकाना प्रिय हित करोतीति जगत्प्रियकरस्तम्। आक्षेपालकार॥

नवजलकणसेकाद्भूमिसौरभ्यसार
प्रविकसितफद्म्बामोदमन्दपरचार।
जनपदयुवतीना मानसोल्लासनायु
प्रथमजलदवायु प्रीतये स्तान्नृपस्य॥३९१॥

कुर्वाणा प्रचलाकिना कलरवैरुत्तालनृत्तक्रिया
न्यसन्तो निचुलेषु कन्दलदलोल्लासावकाशश्रिय।
एते चातकपोतपेयनिपतत्पाथ कणश्रेणयो
वाता वान्ति निदाघलङ्घनघनोल्लाघाप्रदीर्घागमा॥३९२॥

स्फुटितकुरजराजिर्मल्लिकोल्लासहारी
नवनिचुलविलास कन्दलानन्दकारी।

———————

नवजलकणसेकादित्यादि। अथमजलदवायु पूर्वमेघमारुत नृपस्य यशोधरस्य प्रीतये हर्षाय स्ताद्भवतु। कथभूत प्रथमजलदवायु। नवजलकणसेकात्‌ नूतनोदकबिन्दुक्षरणात्भूमिसौरभ्यसार भूमे सौरभ्येण सौगध्येन सारो मनोहर। पुन कथभूत। प्रविकसितकदम्बामोदमन्दप्रचार प्रविकसिता पुष्पिता ये कदम्बास्ते षामामोदेन मन्द अनुत्सुक प्रचारप्रवृत्तिर्यस्यस तथोक्त। पुन कथभूत। जनप द्युवतीना सर्वदेशस्त्रीणा मानसोल्लासनायु मानसस्य हृदयस्योल्लासने आयुर्जीवित व्य यश्य। जात्यलकार॥

कुर्वाणा इत्यादि। हे राजन्‌, एते स्पर्शनेन्दियख असक्षीभूता वाता मारुता वान्ति प्रवर्तन्ते। कि कुर्वाणा वाता। प्रचलाकिना मयूराणा कलरवैर्मधुरश्चब्दैसह उत्तालनृत्तक्रिया उत्सुकनटनचेष्टाकुर्बाणा विद- वाना। पुन कि कुर्वाणा। निचुलेषु बालकदम्भेषु कन्दलदलोल्लासावकाशश्रियोन्यस्यन्त कन्दङान्यङ्कुराणि दलानि पर्णानि तेषा उल्लासस्य उल्लसनस्यप्रादुर्भावस्यवर्धनस्य अवकाशस्यसमिते श्रियो लक्ष्म्यस्ता न्यस्यन्त आरोपयन्त। पुन कथभूता। चात्तकपोतपेयनिपतत्पाथ कणश्रेणय चातकपोताना बप्पीहबालकाना पेया पातव्या निपतन्त क्षरन्तो निर्गलत पाथ कणाना जलबिन्दूना श्रेणय समूहा येभ्यो वातेभ्यस्ते तथोक्ता। पुन कथभूता। निदाघलङ्घनघनोल्लाघा निदाधस्यउष्णर्तोर्लङ्घने अतिक्रमणे बिनाशे घन प्रचुर उल्लाघो नैपुण्य ग्रादुर्भावो येषु ते तथोक्ता। उक्त च—“अरुक्शुचिस्तथा दृष्टो निपुणश्रोल्लाघ इष्यते"। पुन कथभूता। प्रदीर्घागमा प्रदीर्घा दुरव्यापीआगम आगमन येषा ते प्रदीर्घागमा। जात्यलकार॥

स्फूटितकुटजराजिरित्यादि। घनसमीर सरत्रि प्रवर्तते। कथभूतो घनस

सरति घनसमीर सीकरासारधारी
कृतसमधिककान्ति केतकीकाननानाम्॥३९३॥
प्रोत्तालयन्करटिना करपुष्कराणि
रन्ध्रोद्धुरध्वनितकीचककाननान्त।
उद्गापयन्मधुकरीर्नवनीपलग्ना
बात प्रवाति शिखिताण्डवपूर्वरङ्ग॥३९४॥
दधदिव हिमरम्यै सीकरैरुत्प्रबोध
तपतपनवितापान्मूर्च्छितस्य स्मरस्य।
वियदचलधराणामङ्गनिर्वाणहेतु-
र्जलदविजयजन्मा जृम्भते वायुरेष॥३९५॥

——————

मीर। स्फुटितकुटजराजि स्फुटिता विकास प्राप्ता कुटजाना इन्द्रतरूणा राजयो यत्र स तथोक्त। पुन कथभूत। मल्लिकोल्लासहारी मल्लिकाना

मुक्तवबाना उल्लास हरतीत्येवशील स तथा। पुन कथभूत। नवनिचुलविलास पुन कथभूत। कन्दलान दकारी। पुन कथभूत सीकरासारधारी सीकराणा आसार समूह धरतीत्येवशील स तथा। पुन कथभूत। केतकीकाननाना कृतसमधिककाति। विकाशकारीत्यर्थ। जात्यलकार॥

प्रोत्तालयन्नित्यादि। वात प्रवाति प्रवर्तते। कि कुवन् वात। करटिना करपुष्कराणि शुण्डाग्राणि प्रोत्तालयन् त्वरितानि कुर्वन्। कथभूतो वायु। रन्ध्रोद्धुरध्वनितकीचककाननान्त रन्ध्रेषु उड्धुर ध्वनित कीचकाना सच्छिद्रवशाना काननाना अन्त मध्य यत्र येन वा स तथोक्त। पुनश्च कि कुवन्। नवनीपलग्ना नवकदम्बानामुपरि उपविष्टा मधुकरी भ्रमरभार्या उद्गापयन् उच्चैर्गान कारयन्। कथभूतो वात। शिखिताण्डवपूर्वरङ्ग शिखिना ताण्डवस्य पूर्वरङ्गो नृत्यप्रारम्भ।रूपकालकार।

दधदित्यादि। हे राजन्, एष वायुर्जृम्भते प्रसरति। कि कुर्वन्। तपतपनविता पात् ग्रीष्मकालसूर्यविशेषतापात् मूर्च्छितस्य प्रलयगतस्य स्मरस्य हिमरम्यै शीतलै सीकरैरुत्प्रबोधमुज्जीवन दधदिव कुर्वन्निव। वायु कथभूत। वियदचलधराणामङ्गनिर्वाणहेतु वियच्चाकाशमचलाश्व धराश्व धरा पृथ्वी च वियदचलधरास्तासा अङ्गस्य शरीरस्य निर्वाणहेतु सौख्यकारणम्। पुन कथभूत। जलदविजयजन्मा जलदाना विजये प्रकर्षे. जन्म उत्पत्तिर्यस्य स तथोक्त। उत्प्रेक्षालकार॥

घनमलिन कृतनिनद पतदशनिशर प्रचण्डसुरचापम्।
करिकुलमिव सनद्ध वीक्ष्य नभो नो भय कस्य॥३९६॥

कक्ष्येव गगनकरिण काञ्चीव नभ श्रियो वियद्देव्या।
मणिमालेव विराजति यष्टिरिय शक्रचापस्य॥३९७॥

जलधिजलै सह पीता ज्वाला इव वाडवस्य घनजठरात्।
निर्गच्छन्त्य प्राप्ता परिणतिमेतास्तडिल्लेखा॥३९८॥

विचकिलमुकुलश्री कुन्तलेषु स्थिताना
स्तनतटलुठिताना हारलीला च येषाम्।
नवजलधरधाराबिन्दवस्ते पतत-
स्तव दधतु विनोद योषिता केलिकारा॥३९९॥

———————

घनमलिनमित्यादि। नभो वीक्ष्य दृष्ट्वा कस्य पुरुषस्य भय न भवति। अपि तु सर्वस्यापि भय भवतीत्यर्थ। क्थभूत नभ। करिकुल सनद्धमिव गृहीतसनाहमिव। पुन कथभूतम्। घनमलिनम् घनैर्मेघेर्मलिन कृष्णवर्णम्। पुन कथभूतम्। कृतनिनद विहितगजनम्। पुन कथभूतम्। पतदशनिशरम् पतत अशनयो वज्राण्येव शरा वाणा यस्मात्। पुन कथभूतम्। प्रचण्डसुरचापम् प्रचण्डमुत्कट सुरचाप यत्र तत्तथोक्तम्। श्लेषोपमाक्षेपालकार॥

कक्ष्येत्यादि। इय प्रत्यक्षीभूता शक्रचापस्येन्द्रधनुषो यष्टि दण्ड विराजति। कथभूता यष्टि। गगनकरिण कक्ष्येव वरत्रेव। पुन कथभूता। नभ श्रिय काञ्चीव सिजिनीव। पुन कथभूता। वियद्देव्या आकाशदेवताया मणिमालेव। उपमालकार॥

जलधिजलैरित्यादि। एता प्रत्यक्षीभूतास्तडिल्लेखा विद्युद्राजय घननठरात् निर्गच्छन्त्य प्रादुर्भवन्त्य। शोभन्ते इति शेष। कथभूतास्तडिल्लेखा। जलविजलै सह पीता आस्वादिता वाडवस्य ज्वाला अर्चिष परिणतिं प्राप्ता इव। उत्प्रेक्षालकार॥

विचकिलमुकुलश्रीरित्यादि। हे राजन्, ते जगप्रसिद्धा नवजलधरधाराबिन्दव नवीनमेघोदकच्छटाना जलकणा पततसतस्तव भवतो विनोद हर्ष दधतु कुर्वन्तु। ते के बिन्दव। येषा बिन्दूना योषिता कुन्तलेषु स्थिताना विचकिलमुकुल श्रीर्मोगरकपुष्पकुड्मलशोभा वतते। पुनश्च ते के। येषा बिन्दूना योषिता स्तनतटेषु लुठिताना हारलीला हारशोभा वर्तते। कथभूतास्ते नवजलधरधाराविदव। योषिता केलिकारा क्रीडाविधायिन। उपमालकार॥

आशारुधि मदप्राये कमलानन्दनद्विषि।
घनागमे च कामे च चित्र यद्भुवनोत्सव॥४००॥

किं च

रामा कामप्रकामा सुकविकृतिकथादोहदा वाग्विवादा
सौधोत्सङ्गा सभोगास्तरुणतरुदलोल्लासकान्ता दिगन्ता।
यस्मिंश्चासारवारिस्रवदनणुकणश्रेणिसारा समीरा
सोऽय मोदाय राजन्न भवति समय कस्य पर्जन्यजन्य॥४०१॥

इत्यकालजलदबन्दिविनोद्यमानमना क्रीडाचलमेखलानिलयिनि दिग्वलयविलोकविलासनाम्नि धाम्नि सम सेवासमागतसमस्तसामन्तसमाजेन

———————

आशारुधीत्यादि। घनागमे च अन्यत् कामे च यत् भुवनोत्सवो लोकाना महोत्सवो वर्तते तच्चित्र आश्चर्यमेतत्। कथभूते घनागमे। आशारुधि दिग्मण्डलाना रोधके। पुन कथभूते। मदप्राये हर्षोत्पादके अहकारप्राये वा। पुन कथभूते। कमलानन्दनद्विषि कमलानन्दनस्य श्रीसूर्यस्य द्विषि शत्रुप्राये। अथवा कमलिनीतर्जके। कामे कथभूते। आशारुधि तृष्णोत्पादके। पुन कथभूते। मदप्राये रेत प्र चुरे। पुन कथभूते। कमलानन्दनद्विषि लक्ष्मीसमृद्धिद्वेषिणि। श्लेषोपमालकार॥

** किं च। रामा इत्यादि।** हे राजन् स जगत्प्रसिद्ध अय प्रत्यक्षीभूत पर्जन्यजन्य मेघोत्पादक समय काल कस्य पुरुषस्य मोदाय हर्षाय न भवति। अपि तु सर्वस्यापि मोदाय भवतीत्यर्थ। क्थभूत स पजन्यजन्य समय। यस्मिन् मेघसमये रामा स्त्रिय कामप्रकामा कदर्पपरिपूर्णा भवन्ति। यस्मिन् मेघसमये वाग्विवादा

सुकविकृतिकथादोहदा भवति सुकवीना वा जिनसेनगुणभद्रपुष्पदन्तादीना कृतय काव्यानि तासु या कथा रामायणादिचरित्राणि तासु दोहदा मनोरथा वर्तन्ते। यस्मिन् मेघसमये सौधोत्सङ्गा राजमन्दिरोपरितनभूमय सभोगा इष्टस्रग्वनितादिसहिता भवन्ति। यस्मिन् मेघसमये दिगन्ता दिग्मण्डलानि तरुणतरुदलोल्लासकान्ता तरुणा प्रत्यग्रा ये तरवो वृक्षास्तेषा दलानि तेषामुल्लासे प्रादुर्भावै कान्ता मनोहरा भवन्ति। यस्मिन् मेघसमये समीरा स्पर्शना आसारवारिस्रवदनणुकणश्रेणिसारा आसारो वेगवद्वर्षस्तस्य वारीणि तेभ्य स्रवन्त क्षरन्त प्रसरन्तोऽनणव स्थूला ये कणा जलचूर्णानि तेषा श्रेणिभि सारा समग्रा ॥

वषर्तुश्रिय अनुभवन् कस्मिन् आसाचक्रे स्थितिं चकार। धाम्नि गृहे। कथभूते धाम्नि। क्रीडाचलमेखलानिलयिनि क्रीडाचल क्रीडापर्वतस्तस्य मेखला तटतस्या निलीयते तिष्ठतीत्येवशील यद्धाम तत्तथा तस्मिन्। पुन कथभूते। दिग्वलयविलोकविलासनाम्निं

प्रवीरपुरुषपरिषत्परिवारित पुष्करावर्तप्रमुखमेघमाननीया वर्षर्तुश्रिय या-वदहमनुभवन्सप्रमोदमासाचक्रे, तावत्सधिविग्रही ‘देव, पञ्चालमण्डलपतेरचलस्य दुकूलनामा दूत समागत, तिष्ठति च प्रतीहारभूमौ’ इति विज्ञाप्य आवेशयत्। उपावेशयच्च यथानिबन्धमाचरितोपचार तदुचिते देशे। ‘दूत, प्रदर्श्यतामस्मै प्रभवे ते प्रभुप्रहित प्राभृतम्। शासनहर, समर्प्यता शासनम्।’ उभौ तथा कुरुत। सधिविग्रही दूतदर्शनात्प्रत्यभिज्ञाय तन्नगरनिवासिना तापसव्यञ्जनेन जाबालनाम्ना ‘अय हि राजा गजबलप्रधानत्वादचिरादेव

——————

दिग्वलयविलोकविलास इति नामाभिधान यस्य धाम्नस्तत्तथा तस्मिन्। अह कथमासाचक्रे। सम सार्धम्। केन समम्। सेवासमागतसमस्तसामन्तसमाजेन सेवाया पर्यु पासनाया समागता उपढौकिता ये समस्ता सामन्ता देशपतयो राजानस्तेषा समाज समूहस्तेन तथोक्तेन। कथभूतोऽहम्। प्रवीरपुरुषपरिषत्परिवारित प्रवीरा प्रकर्षेण वीरा सहस्रभटलक्षभटकोटिभटा ये पुरुषा पतयस्तेषा परिषत् सभा तया परिवारितो वेष्टित। कथभूता वर्षर्तुश्रियम्। पुष्करावतप्रमुखमेघमाननीयाम् पुष्करावर्तनामा मेघविशेष स प्रमुख आदिर्येषा द्रोणमेघावर्तमेघसवर्तमेघाना ते पुष्करावर्तप्रमुखास्ते च ते मेघा जलमुचस्तैर्माननीया पूजनीया पुष्करावर्तप्रमुखमेघमाननीया ताम्। तथा चोक्तम्—‘मेघाश्चतुर्विधास्तेषा द्रोणाह्न प्रथमो मत। आवर्तपुष्करावर्तस्तुर्य सवर्तकस्तथा ॥’ कथ आसाचक्रे। सप्रमोदम् सहर्ष हर्षसहित यथा भवत्येवम्।
इतीति किम्। हे देव यशोधरमहाराज, पञ्चालमण्डलपते द्रौपदीसमुत्पत्तिस्थानदेशखामिनोऽचलस्य अचलनाम्नो नरेन्द्रस्य दुकूलनामा दूत समागतो वर्तते। न केवल समागत, अपि तु प्रतिहारभूमौ सिंहद्वारे तिष्ठति च। न केवल दूत प्रावे- शयेत्, उपावेशयच्च स्थापयामास। क्व उपावेशयत्। तदुचिते देशे। कथमुपावेशयत्। यथानिबन्ध राजादेश यथा भवत्येवम्। कथभूत दूतम्। आचरितोपचारम् आचरित उपचार पादपतनादिक येन दुकूलेन स आचरितोपचारस्तम्। सविविग्रही प्राह—हे दूत, अस्मै प्रभवे यशोधरमहाराजाय ते प्रभुप्रहित तव स्वामिना प्रेषित प्राभृत सार वस्तु प्रदर्श्यता प्रकटीक्रियताम्। हे शासनहर हे लेखसमानायक, शासन लेख समर्प्यता दीयताम्। उभौ दूतशासनहारौ तथा कुरुत सधिविग्रहिणो वचन तथैव चक्रतु। अतीतकालसमीपवर्ती वर्तमानोऽतीतवद्भवति। सधिविग्रही यशोधरप्रधा नदूतस्त दुकूल नाम दूत एव वक्ष्यमाणप्रकारेण अवादीज्जगाद। कि कृत्वा। पूर्व दूत दशनात् इति प्रत्यभिज्ञाय इति स्मृत्वा। कि स्मृत्वा। तन्नगरनिवासिना अचलनगरनिवासिना तापसव्यञ्जनेन तापसवेषधारकेण जाबालनाम्ना हैरिकेण यत्सूचित तत् स्मृत्वा।

भवद्भि सह विजिघृक्षुव्यापारोवर्तते। तदत्र यदुचित तदाचरितव्यम्’ इति, प्रहित गोलकार्थ निर्वर्ण्य च, पुरस्तान्निवेशित प्रादेशन शासन च, ‘अये, विग्रहाग्रहग्रहिल एव स महीपाल प्राभृततन्त्रमेतत्पत्र च प्राहिणोत्। तथाह्यनयोर्मण्डलाग्रमुद्राङ्कितो वेष्टनचतुष्टयनिष्टङ्कितश्च बहि प्रकाश सनिवेश। तदलमनेन विषमविषदोषकालुष्य वितर्ककर्कशा वेशेनोपायनेन, शत्रुयश प्रकाशपिशुनेन चानेन विलोकितेन लेखेन। श्रूयते हि क्लि—मणिकरण्डकविन्यस्तवपुषा कृत्रिमेणाशीविषविषधरेण धिषणो दुर्धर्षम्, देवा-

——————

इतीति किम्। अय अचलनामको राजा हि निश्चयेन भवद्भि सह विजिघृक्षुव्यापारो वर्तते विग्रह कर्तुमिच्छति। कस्मात् (कदा)। अचिरादेव शीघ्रमेव। कस्मात्। गजबलप्रधानत्वात् हस्तिसैन्यबहुलवात्। तत्तस्मात् कारणात् अत्र अस्मिन् दूते पञ्चालपतौ वा यत् उचित तद् आचरितव्यम्। न केवल जाबालकथित प्रत्यभिज्ञाय, अपि तु प्रहित गोलकार्थ लोहगोलकहेतु निर्वण्य पर्यालोच्य च। न केवल गोलकार्थ निर्वण्य अवादीत् किं तु पुरस्तादग्रत निवेशितमुपढौकित प्रादेशन प्राभृत शासन च लेख च निवर्ण्य। अये क्रोधे विषादे च। खेद कृत्वा ब्रूते। सधिविग्रही किं ब्रूते—स महीपाल अचलनामक एतत्प्रत्यक्षीभूत प्राभृततन्त्र प्रधान प्राभृत पत्र च यत् प्राहिणोत् प्रेषितवान् तेनैव मया ज्ञायते विग्रहाग्रहग्रहिल एव सग्रामकरणनिर्बं धेन ग्रथिल एव वर्तते। तथाहि अनयोर्लेखप्राभृतयोर्मध्ये लेख कीदृशो वतते। मण्डलाग्रमुद्राङ्कित खङ्गमुद्रया सहित। पुन कथभूतो लेख। वेष्टनचतुष्टयनिष्टङ्कितश्च चतुर्भिर्वेष्टनैरुपन्यस्त। वेष्टित इत्यर्थं। चतुरङ्गसैन्येन त्वामह वेष्टयामीत्यभिप्राय। खङ्गेन च शिरश्छेद करिष्यामि इत्यभिप्राय।पुन क्थभूतो लेख। वहि प्रकाश बाह्ये अर्थसूचक। पुन कथभूतो लेख। सनिवेश सन् विद्यमानो वेश स्थितिर्यस्य स सनिवेश। सधिविग्रही कि कृत्वा पूर्वमवादीत्। इति ईदृशमर्थमनुध्याय चिन्तयित्वा। इतीति किम्। तत्तस्मात् कारणात् अनेन उपायनेन प्रामृतेन अल पूर्णम्। कथभूतेन उपायनेन। विषमविषदोषकालुष्यवितर्ककर्कशावेशेन विषम अप्रीतिकर यद्विष हालाहल तस्य दोष तेन कालुष्यवितर्क कर्कश कलुषताविचार कठिन आवेशोऽभिप्रायो यस्मिन्नुपायने तेनालम्। अनेन प्रत्यक्षीभूतेन लेखेन विलोकितेन वाचितेनापि अलम्। कथभूतेन लेखेन। शत्रुयश प्रकाशपिशुनेन शत्रोरचलमहाराजस्य यशस पुण्यगुणानुकीर्तनस्य प्रकाशपिशुनेन उद्भावकथनेन। हि यस्मात् कारणात्। क्लेिति लोकोक्तावरुचौ वा। श्रूयते आकर्ण्यते। धिषणोनाम राजा आशीविषविषधरेण दष्ट्राविषसर्पेण दुर्धर्षे नाम राजान जघान हतवान्। कथभूतेन आशीविषविषधरेण। मणिकरण्डकविन्यस्तवपुषा मणिकरण्डके विन्यस्तमारोपित वपु शरीर येन स तथा तेन। न कथभूतेन। कृत्रिमेण विज्ञानोत्पादितेन। तथा श्रूयते—कणपो नाम राजा कृपाणनाम

ङ्गवस्त्रवासनिषेकेण च स्पर्शविषेण कणप कृपाण राजान जघान’ इत्यनुध्याय, ’ को हि नाम धीमाञ्शस्त्रव्यापारसमाधौ द्विषद्व्याधौ मृदुनोपायेन भिषज्येत्’ इति च विचिन्त्य ससौष्ठव त दूतमेवमवादीत्—

‘नासोद्वासनमार्गमुण्डनशिखामालूरबन्धक्रम
कण्ठे शीर्णशरावदामकलन कात्रेयकारोहणम्।
दूतान्यश्च न ते निकारपरुष कोऽप्यत्र कार्यो विधि-
स्तत्स्वस्थो वद वाचिक निजपतेर्लेखस्त्वय तिष्ठतु’॥४०२॥

अपि च—को नु खलु विचारचतुरचेता पर्याप्तशौर्यस्रोता वा

——————

राजान

स्पर्शविष तत् देवाङ्गवस्त्रवासनिषेक परिमलमोचन यस्य यस्मिन् वा स्पशविषे तत् देवाङ्गवस्त्रवासनिषेक् तेन जघान हतवान्। पुनश्च कि कृत्वा पूर्व सधिविग्रही दूतमवादीत्। इति च विचिन्त्य। इतीति किम्। हि यस्मात् कारणात्। नामेति सभावनायाम्। को धीमान् द्विषद्व्याधौ शत्रुव्याधौ मृदुना कोमलेन लेपादिना उपायेन भिषज्येत् प्रतिकुर्यात्। चिकित्सेत् इत्यय। कथभूते द्विषद्व्याधौ। शस्त्रव्यापारसमाधौ शस्त्रव्यापारेण शस्त्रपातेन समाधिरुपशमो यस्य द्विषव्याघे स तथा तस्मिन्। सधिविग्रही कथम वादीत्। ससौष्ठवम् व्यक्तवचन यथा भवत्येवमवादीदित्यथ॥

नासोद्वासनेत्यादि। हे दूत, अन्य कोऽपि विधिनिकारपरुष परिभवकर्कश ते तवात्र न कार्य। तत्तस्मात् कारणात् स्वस्थ निशङ्क सन् निजपते वाचिक सदेश वद कथय। अय लेखस्तु तिष्ठतु आस्ताम्। चेदन्यो विधिन कार्य। तर्हि को विधि कार्य। एकस्तावत् नासोद्वासनमार्गमुण्डनशिखामालूरबन्धक्रम नासोद्वासन नासिकाच्छेदनम्, मार्गमुण्डन च क्षुरप्रेण पट्टिकारक्षणपूर्वक मुण्डन वपनम्, शिखामालूरबन्धश्च शिखाना चूडाना बिल्वफलबन्धनम्, एतेषा त्रयाणा कर्मणा क्रम अनुक्रमस्तथोक्त कण्ठे ग्रीवाया शीर्णशरावदामकलन शीर्णांना शटिताना शरावाणा मृत्तिकाकपालाना दाम्नो मालाया कलन बन्धन तें च भविष्यन्ति। तथा कात्रेयकारोहण तव करणीयम्। अन्यश्च निकारपरुषो विधिरस्माभिर्न कर्तव्य। समुच्चयालकार॥

कदाचिदिति पूर्वोक्त प्राह्यम्। कदाचित् वीराणा सुभटाना वचासि वचनानि

आकर्णयाचकार\। आकर्णितवानित्यर्थ। कथभूताना वीराणाम्। इति अमुना प्रकारेण सविविग्रहिण यशोधरस्य मुख्यदूतस्यैतद्ववचनात् तथा तेनैव प्रकारेण विदितदूतहृदयाना विज्ञातदूताभिप्रायाणाम्। इतीति किम्। अपि च पुनरर्थे। क पुमान्। नु इति वितर्के। खलु वाक्या

यथार्थवादोचिते दूते विकुर्वीत। यतो दूतोदितसूत्राणि खलु महीपतीना व्यवहारतन्त्राणि प्रवर्तन्ते, दूतायत्तप्रभवाश्च सधिविग्रहयानासनसश्रयद्वैधीभावा। पर्याप्तमथवात्र पर्यनुयोगा

नुसारेण। विदित एव तवेङ्गिताकाराभ्या भवद्भर्तुरभिप्राय। देवश्चैष यदियन्ति दिनानि तस्मिन्समाचरितबहुचापलेऽप्यचले गजोन्मीलनवृत्तिं बिभराबभूव किल। तत्र तदीयाम्नायजन्मभिर्भूमिपतिभिश्चिराय पुराचरितातीतपरमेश्वरचरणाराधनानिबन्धनम्। इदानी च यदि स्वयमेव देवस्य प्रतापानलज्वालासु शलभशालिनीं श्रियमाश्रयितुमिच्छति, तदासौ सिंहसटाचामरैरिव विलसितुम् आशीविष-

——————

लकारे निश्चये वा। विचारचतुरचेता विचारेण पर्यालोचनेन चतुर विचक्षण चेतो मनो यस्य स तथाभूतो दृते विकुर्वीत वितथी कुर्यात्। न केवल विचारचतुरचेता अपि तु पर्याप्त परिपूर्ण शौर्यस्य स्रोत प्रवाहो यस्य स तथा। परिपूर्णसुभटतासहित इत्यथ। कथभूते दूते। यथार्थवादोचिते यथार्थवादेन सत्यवचनेन उचितो योग्य स तथा तस्मिन्। को विकुर्वीत। अपि तु न कोऽपि। यतो यस्मात् कारणात् दूतोदित- सूत्राणि दूतैरुदितानि सूत्राणि सूचनवचनानि येषु व्यवहारतन्त्रेषु तानि व्यवहारतन्त्राणि व्यवहारप्रवर्तनानि खलुमहीपतीना प्रवतन्ते। सधिविप्रद्यानासनसश्रयद्वैधीभावा दूतायत्तप्रभवा दूताधीनोत्पत्तयो भवन्ति। सधिश्च मेलापक, विग्रहश्च संग्राम यान च सेनयाभिगमनम्, आसन च दुर्गसवेष्टनस्थिति, सश्रयश्च दुर्गाश्रयविधानम्, द्वैधीभावश्च सविविग्रहद्वयम्, ते तथा। अथ वा पर्यनुयोगानुसारेण शत्रुवचनपृच्छाकरणेन अत्र पर्याप्त परिपूर्णम्। किमिति पयाप्तम्। यतो विदित एव मया ज्ञात एव। काभ्या ज्ञात। तवेङ्गिताकाराभ्याम् इङ्गित च अन्यथाकृति, आकारश्च नेत्रवऋविकारादिलक्षण इङ्गिताकारौ ताभ्या भवद्भर्तुरभिप्रायश्छन्द मया ज्ञात एव। देवश्च यशोधरमहाराज एष तव प्रत्यक्षीभूत यत् इयन्ति एतत्परिमाणानि दिनानि तस्मिन् अचले तव राजनि। कथभूते। समाचरितबहुचापलेऽपि सविहितबह्नपराधेऽपि गजोन्मीलनवृत्तिं अवधीरणा बिभराबभूव धारितवान्। किल हेतौ। तत्रतस्या गजो मीलनवृत्तौ तदीयाम्नायजन्मभिरचलस्य आम्नाये वशे जन्म येषा ते तदीयाम्नायजन्मानस्तै भूमिपतिभिरचलपूर्वैश्च नृपतिभिश्चिराय दीर्घकाल पुरा आचरित कृत अतीतपरमेश्वरस्य यशोर्धयशोबन्धुरादेर्नरेन्द्रस्य चरणाराधना चरणकमलसेवा निबन्धन कारणम्। इदानीं च यदि चेत् स्वयमेव देवस्य यशोधरमहाराजस्य प्रतापानलज्वालासु शलभशालिनी पतङ्गवत् शोभाशीला श्रिय राज्यलक्ष्मीं आश्रयितुमिच्छति, तदा तस्मिन् काले असौ अचल सिंहसटाचामरै विलसितु

विषधरशिरोमणिभिरिव मण्डन कर्तुम् मदान्धसिन्धुरदन्तवलयमिव नखैरुल्लेखितुम् प्रलयकालानलमिव पाणिपल्लवेन निवारयितुम् मकराकरमिव बाहुभ्या तरितुम् गगनमिव फालेन लङ्घयितुम् मन्दरमिव करतलेन तोलयितुम् महेश्वरपरशुमिवादर्शता नेतुम् आदिवराहदष्ट्रामुक्ताफलमिव चाभरणायाक्रष्टुमभिलषति। यतो निजराष्ट्रकण्टकोत्पाटनदुर्ललितबाहुबल सप्रत्यद्यापि न जानात्यसावचल परमेश्वरस्य विक्रमविलसितानि यान्येव स्वय विनोदत्याश्चर्यशौर्यसरम्भपुलकितवपुर्निजानु

जव्याजस्फुटितविदारितहिरण्यकशिपु सुरपतिर्वीरक्षत्रियकथावतारेषु। तथा हि—

वैकुण्ठ कुलकीर्तन कलमभूर्दर्भप्रगल्भाङ्गुलि-
र्न स्त्री नैव पुमानुमापतिरय चन्द्रो निशासेवक।

चमरवीजनानि कारयितुमिवाभिलषति। आशीविषविषवरशिरोमणिभिर्दष्ट्राविषसर्पफणारत्नैर्मण्डन भूषण कर्तुमिवाभिलषति। मदान्धगन्धसिन्धुरदन्तवलय मदोमत्तगधेभरदनमण्डल नखैरुल्लेखितुमुत्पाटयितुमिवाभिलषति। प्रलयकालानल कल्पान्तकालवैश्वानर पाणिपल्लवेन करकिसलयेन निवारयितुमिवाभिलषति। मकराकर महासमुद्र बाहुभ्या तरितु तरित कर्तुमिवाभिलषति। गगन फालेन प्लुत्यगमनेन लङ्घयितुमिवाभिलषति। मन्दर करतलेन तोलयितु कलयितुमिवाभिलषति। महेश्वरपरशु महादेवकुठार आदर्शता दर्पणता नेतु प्रापयितुमिवाभिलषति। आदिवराहदष्ट्रामुक्ताफल मौक्ति कमाभरणाय आक्रष्टुमाकर्षण कर्तुमिवाभिलषति। यतो यस्मात् कारणात् निजराष्ट्र कण्टकोत्पाटनदुर्ललितबाहुबल स्वकीयराष्ट्रक्षुद्रशत्रुनिर्मूलननिर्वीर्यभुजबलस्तव स्वामी अचल सप्रति वर्तमानकाले परमेश्वरस्य श्रीयशोधरमहाराजस्य विक्रमविलसितानि पराक्रमस्फुरितानि असौ अद्यापि इदानीमपि न जानाति, यानि श्रीयशोधरमहा राजविक्रमविलसितानि एवममुना प्रकारेण पुरपतिर्देवेन्द्र स्वय निजश्रीमुखेन विनोदति प्रशसति। केषु विनोदति। वीरक्षत्रियकथावतारेषु सग्रामादनिवर्तकराजपुत्रवार्ताप्रस्तावेषु। कथभूत सुरपति। आश्चर्यशौर्यसरम्भपुलकितवपु आश्चर्य त्रैलोक्ये चमत्कारक यच्छौर्य सौभव्य तस्य सरम्भेण आरम्भेण पुलकित रोमाञ्चकञ्चुकित वपु शरीर यस्य स तथोक्त। पुन कथभूत सुरपति। निजानुजव्याजस्फुटितविदारितहिरण्यकशिपु निजानुजेन श्रीनारायणेन व्याजेन छलेन स्फुटितेन स्तम्भनिर्गमनेन विदारितो नखैर्द्विधाकृतो हिरण्यकशिपुनामा दैत्यविशेष प्रह्लादजनक स तथोक्त॥

तथा हि। तदेव निरूपयति—वैकुण्ठ इत्यादि। अरे दूत, यस्य यशोधरमहारा-

हेलि केलिसरोजबन्धुरनिल क्रीडाश्रमे चाटुमा-
न्यस्येत्थ गणनामरेषु विजयी तस्याहवे कोऽपर॥४०३॥

अपि च।

या पूर्वंरणरङ्गसगमभुवो यस्यासिधारापय-
पातप्रेतसपत्नसततिशिर श्रेणिश्रिता क्षीणताम्।
याता क्लृप्तकपालिभूषणभरारम्भा पुनस्ता मुहु-
र्जयन्ता

त्वदनीककीकसजुष पूर्वश्रियोऽस्याहवे’\।\।४०४॥

इति सधिविग्रहिण, तथैतद्वचनाद्विदितदूतहृदयानाम् अपरिमितकोपप्रसरावधीरिताप्तपुरुषालापार्गलानाम् ससरम्भमन्योन्यसघट्टत्रुटत्कोटीरकोटिघ-

——————

जस्य इत्थममुना प्रकारेण अमरेषु देवेषु गणना मान्यता वर्तते, तस्य यशोधरस्य आहवे सग्रामे कपुमान् अपरो अन्यो विजयी जयवान् वतते। इत्थ कथमिति चेत्–वैकुण्ठ श्रीनारायण कुलकीर्तन भट्टो वर्तते। कमलभूर्ब्रह्मा दर्भप्रगल्भाङ्गुलि। पुरोहितो वर्तत इत्यथ। उमापति न स्त्री नव पुमान्। नपुसक इत्यर्थं। अय चन्द्रो निशासेवको रात्रौ सेवा करोति। हेलि श्रीसूर्य केलिसरोजबन्धुर्वर्तते क्रीडाकमलविकाशको भवति। अनिलो वायुदेवता क्रीडाश्रमे वनिताना रमणखेदे चाटुमान् प्रिय कृत्वा स्तुति करोति खेद विनाशयति। अतिशयालकार॥

अपि च। या पूर्वमित्यादि। या रणरङ्गसगमभुव सग्रामाङ्गणसगमभूमय पूर्व पूर्वस्मिन् काले यस्य यशोवरस्य असिधारापय पातप्रेतसपत्नसततिशिर श्रेणि श्रिता असे खड्गस्य धारा अग्रभाग तस्या यत्पयो जल तस्य पात तत्र निमज्जन प्रेताना मृताना सपत्नाना शत्रूणा सततय समूहास्तासा शिर श्रेणयो मस्तकाना आवलयस्ताभि श्रिता सयुक्ता जातास्ता रणरङ्गसगमभुव क्षीणता शून्यता याता रिक्ता बभूवु। कस्मात् शून्यता याता तत्कारणगर्भित विशेषणमाह—कथभूता रणरङ्गसगमभुव। मुहु पुनरपि अस्य यशोधरस्य आहवे सग्रामे तदनीककीकसजुष अच लसेनामृताना वीराणा कीकसजुष अस्थिमव्य सत्य पूर्वश्रिय शिर श्रेणिश्रिता जायन्ता भवन्तु। हेत्वलकार॥

न केवल सधिविग्रहिणो वचास्याकर्णयाबभूव, तथा तेनैव प्रकारेण सधिविग्रहिणो वचनाकर्णनप्रकारेण वीराणा वचास्याकर्णयाबभूवाहमाकर्णितवान्। कथभूताना वीराणाम्। एतद्वचनात् सधिविग्रहिवचनात् विदितदूतहृदयाना विदित ज्ञात दूतस्य दुकूलनाम्न हृद यमभिप्रायो यैस्ते तथा तेषाम्। पुन कथभूताना वीराणाम्। अपरिमितकोपप्रसराव-

टितमाणिक्यनिकरकीर्णतया स्वकीयावलेपानलस्फुलिङ्गज्वलितमिव कुट्टिमतल कुर्वताम् इतस्तत समुच्छलितापतन्मुक्ताफलप्रकराभिरारसनहारयष्टिभिरागामिजन्यजयसमयाव सरसुरसुन्दरीकर विकीर्णकुसुमवर्षमिव शयता वीराणा चान्योन्यालापालोकनव्याजेन वचास्याकर्णयाबभूव। तथा हि— तत्र तावत्कोदण्डमार्तण्डःसाटोप सपत्नवशविनाशपिशुनभ्रुकुटिभङ्गनिर्भर भालस्वेदजलेन ज्या मार्जयन् हस्तग्राह त दूतमेवमभाषिष्ट—

‘श्रीपद मित्त्रपक्षाणा खरदण्ड च विद्विषाम्।
देवस्यास्य पदाम्भोजद्वय शिरसि धार्यताम्॥४०५॥

——————

धीरिताप्तपुरुषालापार्गलानाम् अपरिमितोऽपर्यन्तो योऽसो कोपप्रसर क्रोधव्याप्तिस्तेन अवधीरितमवगणित आप्तपुरुषालापार्गला गुरुवचनाना निषेधवचनपरिधा यैस्ते तथा तेषाम्। कि कुर्वता वीराणाम्। ससरम्भ सक्रोध अन्योन्यसघट्टत्रुट कोटीरकोटिघटितमाणिक्यनिकरकीर्णतया स्वकीयावलेपानलस्फुलिङ्गज्वलितमिव कुट्टिमतल कुर्वताम् ससरम्भमन्योन्य सघट्टेन सचलनेन त्रुटन्ति छिन्नानि भवन्ति यानि कोटीरकोटिघटितमाणिक्यानि तेषा निकर समूह तस्य कीर्णतया विक्षिप्ततया स्वकीयो निजो योऽसाववलेपो मद कोपो वा स एवानलस्तस्य स्फुलिङ्गास्तैर्ज्वलितमिव कुट्टिमतल बद्धभूमिं कुर्वता विदधताम्। पुनश्च कि कारयता वीराणाम्। इतस्तत समुच्छलितापतन्मुक्ताफलप्रक- राभिरारसनहारयष्टिभिरागामिजन्यजयसमयावसरसुरसुन्दरीकरविकीर्णकुसुमवर्षमिव प्रकाशयताम् इतस्ततो यत्र तत्र समुच्छलिता उत्पतिता आपतन्त आगच्छन्तो मुक्ताफलप्रकरा यासा तास्तथा ताभि ईदृग्विधाभिरारसनहारयष्टिभि आरसना आगुल्फलम्बा या हारयष्टयस्ताभि कृत्वा आगामी आगमिष्यन् योऽसौ जन्यजयसमय सग्रामज यसमयस्तस्यावसरेषु सुरसुन्दरीकरै विकीर्णो विक्षिप्तो योऽसौ कुसुमवर्ष वतते त प्रकाशयतामिव। केन कृत्वा वीराणा वचास्याकर्णयाबभूव। अन्योन्यालापालोकनव्याजेन अन्योन्यस्य परस्परस्य ये वीराणामालापा आभाषणानि तेषा आलोकनव्याजेन विलोक्नमिषेण। तथा हि तान्येव वचासि निरूपयति—तत्र तेषु वीरेषु मध्ये तावत्पूर्वमे वानुक्रमेण कोदण्डमार्तण्डो नाम सुभट साटोप साडम्बर यथा भवत्येव त दूत सदेशहर हस्तग्राह हस्तेन गृहीत्वा। हस्तार्थग्रहवनिता (?) कार्ये णम्। एव वक्ष्यमाणप्रकारेण अभाषिष्ट भाषते स्म। कोदण्डमार्तण्ड कि कुर्वन्। सपत्नवशविनाशपिशुनभ्रुकुटिभङ्गनिर्भर भालस्वेदजलेन ज्या मार्जयन् सपत्नाना शत्रणा वशस्य विनाशो मोटन तेन पिशुनभ्रुकुटिभङ्ग यथा स्यात्तथा निर्भर गाढ यद्भाल ललाट अलिकम्। अलिक गोविरिति यावत्। तस्य स्वेदजलेन प्रस्वेदोदकेन ज्या धनुष प्रत्यञ्चा चापसिञ्जिनी मार्जयन् शोवयन्। उल्लासयनित्यर्थ॥

श्रीपदमित्यादि। हे दुकूल, अस्य देवस्य पदाम्भोजद्वय शिरसि धार्यता

नो चेत्कोदण्डमार्तण्डकाण्डखण्डितमस्तक।
यास्यत्याजौ स ते स्वामी रुण्डताण्डवडम्बरम्’॥४०६॥

परशुपराक्रमः

सावख्य पाणिना परश्वघ निर्नेनिजानस्तथैव—

‘हठविलुठितमौलि पादपीठोपकण्ठे
न भवति शठवृत्त्या मत्पतेर्य सपत्न।
जयजरठितमूर्तिर्मामकस्तस्य तूर्णं
रणशिरसि कुठार कण्ठपीठी छिनत्ति’॥४०७॥

मुद्गरप्रहारः सावष्टम्भ करतलेन मुद्गरमुत्सञ्जयन्—‘अहो दूत, निवेदयेय मद्वचन तस्य सकलदुराचारलोकहेठस्य प्रक्षरल्लक्ष्मीसमागमोत्कण्ठस्य।

——————

ध्रियताम्। कथभूत पदाम्भोजद्वयम्। मित्रपक्षाणा सुहृदा श्रीपद लक्ष्मीमन्दिरम् विद्विषा शत्रूणा खरदण्ड खरस्तीत्रो दण्डो यत्र तत् खरदण्ड च। नो चेत् यद्यचल शिरसि न वारयिष्यति तर्हि स जगत्प्रसिद्धस्ते तव स्वामी अचल आजो सग्रामे रुण्डताण्डवडम्बर यास्यति क्बन्धबाहुदण्डनर्तनाटोप प्राप्स्यति। कथभूत सन्। कोदण्डमार्तण्डकाण्डख ण्डितमस्तक कोदण्डमार्तण्डनाम सुभटस्य काण्डेन बाणेन खण्डितमस्तक छिन्नोत्तमाङ्ग सन्। वीररसप्रधानो जात्यलकार॥

परशुपराक्रम परशुपराक्रमनामा सुभट सावरय सासूय तथैव तेनैव कोदण्डमार्तण्डप्रकारेण हस्तग्राह हस्तग्रहणपूर्वक दुकूलनामान दूत अभाषिष्ट। पाणिना परश्वध कुठार निर्नेनिजान परिमार्जयन्। किं अभाषिष्ट इत्याह—हठविलुठितेत्यादि। य सपत्न मत्पतेर्यशोधरस्य पादपीठोपकण्ठे सिंहासनसमीपे शठवृत्या हठविलुठितमौलिर्भूमौ नमितमस्तको न भवति, तस्य सपत्नस्य मामको मदीय कुठार रणशिरसि सग्राममस्तके कण्ठपीठी प्रशस्ता ग्रीवा छिनत्ति द्विधा करोति। कथभूतो मम कुठार। जयजरठितमूर्ति जयेन सग्रामविजयेन जरठिता कठिना मूर्ति स्वरूप यस्य स तथोक्त। जात्यलकार\।\।

मुद्गरप्रहार सुभट सावष्टम्भ सक्रोध यथा भवत्येव करतलेन मुद्गर लोहघन उत्सञ्जयन् उल्लासयन् एवमभाषिष्ट। एव कथमिति चेत्—अहो दूत, तस्य अचलस्येदमेतत् मद्वचन निवेदय व कथय। कथभूतस्याचलस्य। सकलदुराचारलोकहेठस्य सकलदुरा चारलोकाना पापाचारजनाना हेठस्य। पुन कथभूतस्य प्रक्षरल्लक्ष्मीसमागमोत्कण्ठस्य प्रक्षरन्ती प्रणश्यन्ती लक्ष्मीसमागमस्योत्कठा वाञ्छा यस्य स तथोक्तस्तस्य। कि निवे

कपटभटविभीषाचेष्टितैर्नो बिभीया
तदलमिह मुधोर्जावर्जनस्फूर्जितेन।
यदि सुभटघटाया त्व पटिष्ठप्रतिष्ठ
सपदि मम रणाग्रे मुद्गरस्याग्रत स्या’॥४०८॥

करवालवीरः सक्रोध करेण करवाल तरलयन्—‘अध्वग, साध्ववधार्यताम्।

अखर्वगर्वदुर्वारवीर्यपर्यस्तमानस।
मदीयस्वामिसेवासु य कोऽपि हतसाहस॥४०९॥

विपक्षपक्षक्षयपक्षदीक्ष कौक्षेयको मामक

एष तस्य।
रक्षासि वक्ष क्षतजै क्षरद्भि प्रतीक्षतेऽक्षुण्णतया रणेषु’॥४१०॥ (युग्मम्)

————

दयामीति चेत्—कपटभटेत्यादि। अहो दुकूल मन्त्रिन्, कपटभटविभीषाचेष्टितै मिथ्यासुभटघातकक्रियाभि नो बिभीया अह मुद्गरप्रहारो न बिभेमि। तत्तस्मात् कारणात् इह अस्मिन् मुद्गरप्रहारे मुधोर्जवर्जनस्फूर्जितेन मुधा अन्तर्गडुना ऊर्जाया बलस्य आवर्जनस्फूर्जितेन आदरस्फुरणेन अल पूर्णम्। यदि चेत् सुभटघटाया सुभटाना समूहे त्व भवानचल यदि पटिष्ठप्रतिष्ठ अतिशयेन पटुतरशोभो वर्तसे, तर्हि सपदि शीघ्र मम मुद्गरस्य लोहघनस्य अग्रतो मुखे रणाग्रेस्यास्त्व भव। वीररसप्रधानो जात्यलकार॥

करवालवीर सुभट सक्रोध करेण करवाल खड्ग तरलयन् कम्पयन् अभाषिष्ट—हे अध्वग हे दुकूल, साधु सावधानतया अवधार्यता श्रूयताम्—अखर्वगर्वेत्यादि। हे दूत, मदीयस्वामिसेवासु यशोवरचरणारा वनेषु य कोऽपि पुमान् हतसाहसो भग्नो द्यम। य क्थभूत। अखर्वगर्वदुर्वारवीर्यपर्यस्तमानस अखर्वो गुरुतरो योऽसौ गर्व दुर्वार च तद्वीर्य ताभ्या पर्यस्त पतित मानस चित्त यस्य स तथोक्त। तस्य पुरुषस्य एष प्रत्यक्षीभूतो मामको मदीयो कौक्षेयक खड्गेवक्ष क्षतजै हृदयरुधिरै क्षरद्भि प्रवहद्भि रणेषु अक्षुण्णतया परिपूर्णतया रक्षासि राक्षसान् प्रतीक्षते पूजयति। प्रीणा तीत्यर्थं। कथभूत कौक्षेयक। विपक्षपक्षक्षयदक्षदीक्ष विपक्षाणा शत्रूणा पक्षक्षये कुल क्षये दक्षा समर्था दीक्षा व्रतधारण यस्य स तथोक्त। वीररसप्रधानो जात्यलकार॥

नाराचवैरोचनः सावेग नाराचपञ्जरमवलोकमान—

‘पथिक कथय नाथस्यात्मनस्त्व सभाया-
मसमसमररङ्गे राक्षसोत्तालतालम्।
यदि तव विशिखाग्रैश्छिन्नमुण्ड न रुण्ड
नटनपटु विदध्या तत्कृशानु विशामि’॥४११॥

चक्रविक्रमः साक्षेप चक्र परिक्रमयन्—‘अहो वेदवैवधिक, शीघ्रमेव प्रशाधि पञ्चालाधिपतिम्—

दुर्गं मार्गय याहि वा जलनिधेरुत्तीर्य पार पर
पाताल विश खेचराश्रयवशस्त्व वा भव क्षिप्रत।
नो चेद्वैरिकरीन्द्रकुम्भदलनव्यासक्तरक्त मुहु-
र्मुक्त चक्रमकालचक्रमिव ते मूर्ध्नि प्रपाति ध्रुवम्’॥४१२॥

——————

नाराचवैरोचन सुभट सावेग सक्रोध नाराचपञ्जर लोहबाणभस्त्रमवलोकमानोऽभाषिष्ट। कि अभाषिष्ट—हे पथिक हे दुकूल दूत, कथय निरूपय। कस्य। आत्मनो नाथस्य त्व कथय। सभाया सभामध्ये। कि कथय। असमसमररङ्गे अद्वितीयसग्रामभूमौ विषमसग्रामभूमौ वा यदि चेत् तव अचलस्य रुण्ड कबन्ध शिरोरहितकाय नटनपटु नृत्यचतुर न विदध्याम् अह न करोमि, तत्तर्हि कृशानु वैश्वानर विशामि दहनप्रवेश करोमि। कथभूत तव रुण्डम्। विशिखाग्रैर्मम नाराचमुखैश्छिन्नमुण्ड पतितमस्तकम्। कथभूत रण्डम्। राक्षसोत्तालतालम्। राक्षसाना उत्ताला द्रुता ताला करताडनक्रियामानम्। जात्यलकार॥

चक्रविक्रमो वीर साक्षेप सनिर्भर्त्सन चक्र परिक्रमयन् भ्रमिल भ्रामयन् अभाषिष्ट—अहो वेदवैवधिक अविज्ञातवेदार्थस्वरूपत्वात् अहो वेदभारवाहक जडब्राह्मण, शीघ्रमाशु एव अमुना प्रकारेण पञ्चालाधिपतिम् अचल प्रशाधि त्व शिक्षय कथय। कि प्रशाधि—दुर्गमित्यादि। हे अचल, व दुर्ग मार्गय निजरक्षार्थ पर्वतजलवनादिक विषमस्थान विलोकय। वा अथवा जलनिधे समुद्रस्य पर पार तीर उत्तीर्य उल्लङ्घ्ययाहि त्व गच्छ। वा अथवा पाताल रसातल विश प्रवेश कुरु। वा अथवा क्षिप्रत शीघ्र खेचराश्रयवश विद्याधरलोकपराधीनस्त्व भवान् भव सजायस्व। चेद्यदि त्व एव नो करिष्यसि तहि मम चक्र अकालचक्रमिव ते तव मूर्ध्नि मस्तके ध्रुवमिति निश्चयेन प्रपाति प्रपतिष्यति। ‘भविष्यति गम्यादय ’ इन शब्दो भविष्यदर्थे। कथभूत चक्रम्। वैरिकरीन्द्रकुम्भदलनव्यासक्तरक्तम् वैरिणा करीन्द्राणा कुम्भदलनेन शिर पिण्डखण्डनेन

कुन्तप्रतापः सकोप कुन्तमुत्तोलयन्—‘द्विजापसद, सविशेष निशम्यताम्। य कोऽपि दौरात्म्याद्देवसेवासूयहृदय

ऋजु सुवशोऽपि मदीय एष कुन्त शकुन्तान्तकतर्पणाय।
निर्भिद्य वक्ष पिठरप्रतिष्ठा तस्यासृजाजन्यभुव बिभर्ति’॥४१३॥

लाङ्गलगरलःसोल्लुण्ठालाप लाङ्गलमुदानयमान— ‘हे धीरा, कृत भवता समरसरम्भेण। यस्मादिदमेकमेव

त्रुटदतनुशिरान्ता कीर्णकृतिप्रताना
क्षरदविरलरक्तस्फारधारासहस्रा।
स्फुटदटनिकठोरष्टाकृतास्थी समीके
मम रिपुहृदयालीर्लाङ्गल लेलिखीति’॥४१४॥

——————

व्यासक्त लग्न रक्त रुधिर यत्र चक्रे तत्तथोक्तम्। पुन कथभूत चक्रम् \। मुहुर्मुक्त वारवार प्रेरितम्। वीररसप्रधानो जात्यलकार। उपमा वा॥

कुतप्रतापनामा वीरोऽभाषिष्ट। कथम्। सकोप यथा भवत्येवम्। कि कुर्वन्। कुन्त प्रासमुत्तोलयन् कम्पयन्। कि अभाषिष्ट—हे द्विजापसद पतितब्राह्मण, सविशेष साव वानतया निशम्यता श्रूयताम्।

यकोऽपि य कश्चिनृपो दोरात्म्यात् दुष्टस्वभाव त्वात् देवसेवासूयहृदय देवस्य यशोधरस्य सेवाया असूयहृदय सक्रोधमना। ऋजुरित्यादि। ऋजु सरलोऽपि सुवशोऽपि शोभनवशतरूत्पन्नोऽपि मदीयो मम सबन्धी एष प्रत्यक्षीभूत कुत प्रास प्राप्त सन् शकुन्ता तकतर्पणाय शकुन्ताना गृध्रादिपक्षिणा अन्तकस्य च यमस्य तर्पणाय प्रीणनाय तस्य पुरुषस्य असृजा रुधिरेण जन्यभुव सग्रामभूमिं बिभर्ति पूरयति। कि कृत्वा। पूर्व वक्ष पिठरप्रतिष्ठा निर्भिद्य वक्षो जीवस्थान तदेव पिठर भाण्ड तस्य प्रतिष्ठा शोभा भक्षणम् (भङ्क्त्वा)। रूप कालकार॥

लाङ्गलगरलसुभट सोल्लुण्ठालाप सदर्पभाषण यथा भवत्येव लाङ्गल हल उदानयमान भ्रामयन् अभाषिष्ट। किमभाषिष्ट—हे धीरा हे सुभटा स्वामिभक्ता, भवता युष्माक समरसरम्भेण सग्रामारम्भेण कृत पर्याप्तम्। यस्मात् कारणादिदमेतलाङ्गलमेकमेव \। त्रुटदित्यादि। समीके सग्रामे रिपुहृदयाली शत्रुहृदयपङ्कीर्मम लाङ्गल लेलिखीति भृश खेदयति। कथभूता रिपुहृदयाली। त्रुटदतनुशिरान्ता त्रुटत अतनवो म हान्त शिराणा स्रसाना अन्ता प्रान्ता यासा तास्तथोक्तास्ता। पुन कथभूता। कीर्णकृत्तिप्रताना कीर्णा विक्षिप्ता कृत्तीना चर्मणा प्रताना विस्तारा यासा ता

कणयकोणपः सामर्षंविहस्य—‘अये दूत, सादर श्रूयताम्। यद्यसौ तव प्रभुरस्मत्समसभावनया देवसेवाया नानुकूलवृत्तिस्तदा नूनमेष

हस्त्यश्वरथपदातिव्यत्यासनवातघूर्णितक्षोणि।
यमपिशितकवलकरणिं कणय काय करिष्यते तस्य’॥४१५॥

त्रिशूलभैरवः सासूय त्रिशूल वल्गयन्—‘दूत, ब्रूहि मद्वचनादेवमचलम्—

इद त्रिशूल तिसृभि शिखाभिर्मार्गत्रय वक्षसि ते विधाय।
पातालमर्त्यत्रिदिवावतारा कर्ता रणे कीर्तिमिमा मदीयाम्’॥४१६॥

स्तथा ता। पुन कथभूता। क्षरदविरलरक्तस्फारधारासहस्रा क्षरन्तो वर्षन्त अविरला अविच्छिन्ना रक्तस्य स्फारा स्थूला धाराणा छटाना सहस्राणि यासा तास्तथा ता। पुन कथभूता। स्फुटदटनिकठोरष्टाकृतास्थी स्फुटन्ति शतखण्डी भवन्ति भटनिवत् धनु कोटिवत् कठोराणि स्तब्धानि ष्टाकृतैरुपलक्षितानि ष्टाशब्दसहि तानि अस्थीनि यासां तास्तथा ता। उपमालकार॥

कणयकोणपो नाम वीर सामर्ष सक्रोध विहस्य अभाषिष्ट। कि अभाषिष्ट—अये दूत। ‘अये क्रोधविषादयो’ इति वचनात्। हे दूत, सादर सावधानतया श्रूयता त्वया आकर्ण्यताम्। मद्वचन कर्मतापन्नमिति शेष। यदि चेत् असौ विप्रकर्षे स्थितस्तव प्रभु अस्मत्समसभावनया अस्माभि समानसघटनया। यथाह कणयकोणपो नाम यशोधरस्य सेवको वर्ते तथा अचलोऽपि देवस्य सेवको वर्तते इत्यथ। देवसेवाया श्रीयशोधरमहाराज सेवाया अनुकूलवृत्तिहिवृत्तिर्न भवति, तदा तस्मिन् काले नून निश्चयेन एष प्रत्यक्षी भूतो मम कणय भूषणनिबन्धनायुवविशेष तस्य पुरुषस्य काय शरीर यमपिशितकव लकरणिं यमस्य पिशितकवलो मासग्रास करणिं करण करिष्यते विधास्यति। ‘नञ्यन्या क्रोशे’ इति योगविभागान्नञविनापि आक्रोशे गम्यमाने अनिप्रत्यय पदरुजपादे सप्ता शीत सूत्र वर्तते। कणय कथभूत। हस्त्यश्वरथपदातिव्यत्यासनवातघूर्णितक्षोणि। हस्तिनश्च अश्वाश्च रथाश्च पदातयश्च तेषा व्यत्यासनेन परस्परक्षेपणेन समुत्पन्नो योऽसौ वातो व्यत्यासनवातस्तेन घूणिता भ्रामिता क्षोणि पृथिवी येन कणयेन स तथोक्त। जात्यलकार॥

त्रिशूलभैरवो वीर सासूय सक्रोध त्रिशूल वल्गयन् अभाषिष्ट। किमभाषिष्ट—अहो दुकूल दूत, मद्वचनात् अचल प्रत्येव ब्रूहि—इदमित्यादि। इद प्रत्यक्षीभूत मम त्रिशूल ते तव वक्षसि हृदये तिसृभिस्त्रिभि शिखाभिर्मार्गत्रय विधाय कृत्वा इमा मदीया कीर्ति रणे पातालमर्त्यत्रिदिवावतारा कर्ता करिष्यति। पाताल च मर्त्य च त्रिदिवश्चपातालमर्त्यत्रिदिवास्तेष्ववतारो यस्या मम कीर्ते सा तथा ताम्। यथासख्यालकार॥

असिधेनुधनजयः सेर्ष्यमसिमातृमुष्टौ पञ्चशाख निधाय—‘अहो ब्रह्मबन्धो, ममाप्येष एव सर्गोयस्मादज्ञातात्मस्थितेररातेर्न शस्त्रपातादन्यत्र प्रायश्चेतनमस्ति। तत

वष्टि वष्टोत्तर योऽत्र दौष्ट्यावष्टम्भचेष्टन।
तडत्तडिति तस्यैषा शस्त्री त्रोटयते शिर’॥४१७॥

प्रासप्रसरः ससौष्ठव प्रास परिवर्तयन्—‘पर्याप्तमत्रालापपरम्परया। तद्विप्र, एवमुच्यता स दुर्नयायतनम्—

सूत्कारवित्रासितदिक्करीन्द्र प्रासो मदीय समराङ्गणेषु।
सकङ्कट त्वा च हय च भित्त्वा यास्यत्यय दूत इवाहिलोके’॥४१८॥

————————

असिधेनुधनजयो नाम वीर सेष्य सक्रोध यथा भवत्येव असिमातृमुष्टौ छुरिकामुष्टौ पश्चशाख कर निधाय कृत्वा अभाषिष्ट। किमभाषिष्ट—अहो ब्रह्मबन्धो द्विजावम दूत, ममापि एष एव सर्ग इयमेव सृष्टि अचलस्य विध्वसलक्षण कर्तव्यम्। क्स्मात्कारणात्। यस्मात् अज्ञातात्मस्थिते अविज्ञातस्वकीयमर्यादस्य अराते शत्रो शस्त्रपातादन्यत्र शस्त्रपात विना अन्यत् प्रायश्चेतन पापशोधन नास्ति। ततस्तस्मात् कारणात्। वष्टी त्यादि। ते तव य शत्रु अन अस्मिन् ससारे दौष्ट्यावष्टम्भचेष्टन दुष्टत्वाधारक्रिय सन्। वेष्टन वेष्टम्। हिंसनमित्यर्थं। तदुत्तर वष्टोत्तर सग्रामकरणोत्तर वष्टि वाञ्छति कथयति तस्य पुरुषस्य एषा प्रत्यक्षीभूता शस्त्री असिमाता क्षुरिका शिरो मस्तक त्रोटयते। कथम्। तडत्तडिति तडतडायमानशब्देन। जात्यलकार॥

प्रासप्रसरो वीर ससौष्ठव पटुतया प्रास भल्ल परिवर्तयन् उच्छालयन् अभाषिष्ट। किमभाषिष्ट—अत्र अस्या सभाया आलापपरम्परया मुहुर्भाषणेन पर्याप्त पूर्णम्। तत्तस्मात् कारणात् हे विप्र ब्राह्मण, स जगत्प्रसिद्ध दुर्नयायतन पूर्णपापायतन अन्यायमन्दिरप्राय अचलो नाम राजा कर्मतापन्नस्त्वया एवमुच्यता कथ्यताम्—सूत्कारेत्यादि। हे दूत, अय मदीयो मामक प्रासो भल समराङ्गणेषु सग्रामभूमिषु सक्ङ्कट ससनाह त्वा अचल हय च तवाश्व भित्त्वा विदार्य अहिलोके पाताले यास्यति व्रजि ष्यति। क इव। दूत इव शासनहर इव। पाताललोकजनाय वार्ता ज्ञापयितु दूत इव यास्यति। कथभूत प्रास। सूत्कारवित्रासितदिक्करीन्द्र

।उपमालकार॥

गदाविद्याधरः सगर्वंगदामुत्तम्भयन्—

‘दूतैव विनिवेदयात्मविभवे द्वित्रैदिनैर्मत्प्रभु
पश्यागत्य यदि श्रियस्तव मता नो चेदिय दास्यति।भ्रान्त्यावृत्तिविजृम्भितानिलबलोत्तालीकृताशागजा
मूर्धान झटिति स्फुटद्दलकल त्वत्क मदीया गदा’॥४१९॥

असमसाहसः सदर्पोद्रेकम् ‘द्विजाते, त वदैवमासन्नशुचमसदाग्रहरुचम्—

तुलारणे द्वन्द्वरणे दिवारणे निशारणे कूटरणे परत्र वा।
यदि प्रवीरस्त्वमिहैधि मे पुरो न गर्जितै शौर्यकलेषु कीर्तय’॥४२०॥

——————————

गदाविद्याधरो नाम वीर सगर्व साहकार यथा भवत्येव गदा यष्ट्यायुधविशेष उत्तम्भयन् ऊर्ध्वीकुर्वन् अभाषिष्ट। किमभाषिष्ट—दूतैवमित्यादि। हे दूत हे वचोहर दुकूल, आत्मविभवे निजस्वामिने अचलाय राज्ञे एवममुना प्रकारेण विनि वेदय कथय त्वम्। एवं कथमिति चेत्—तवाचलस्य श्रियो यदि मता अभीष्टा वर्तन्ते, तर्हि द्वित्रैर्द्वाभ्या त्रिभिवा दिनैर्दिवसैर्मत्प्रभु श्रीयशोधरमहाराज आगत्य पश्य। नो चेत् यदि नागत्य पश्यसि, तर्हि इय मदीया गदा वत्क त्वदीय मूर्वान मस्तक दास्यति स्फोटयिष्यति। कथम्। झटिति शीघ्रम्। पुनश्च कथम्। स्फुटन्ति दलाना खण्डाना कला शेषा यस्मिन् कर्मणि तत् स्फुटद्दलकलम्। कथभूता गदा। भ्रान्त्यावृत्तिवि जृम्भितानिलबलोत्तालीकृताशागजा भ्रान्तेभ्रमणस्य आवृत्ति पुन पुनभ्रमण तया विजृ म्भित प्रसृतो योऽसावनिलो वातस्तस्य बलेन उत्तालीकृता पलायितु उत्सुकीकृता आशागजा दिग्गजेन्द्रा यया गदया सा तथोक्ता। अतिशयालकार॥

असमसाहसो नाम वीर सदर्पोद्रेक समदाधिक्य यथा भवत्येव अभाषिष्ट। किमभा षिष्ट—हे द्विजाते हे ब्राह्मण। श्लेषे तु द्वाभ्या पुरुषाभ्या जातिर्जन्म यस्य स द्विजा तिस्तस्य सबोधन हे द्विजात इत्यर्थ। त अचल एव त्व वद। कथभूत तम्। आस न्नशुच समीपशोकम्। पुन कथभूत तम्। असदाप्रहरूच असमीचीनहटमानसम्। एव कथमिति चेत्—तुलारण इत्यादि। हे अचल, तुलारणे बाहुयुद्धे, द्वन्द्वरणे मल्लसग्रामे, दिवारणे दिवससग्रामे, निशारणे रात्रिसग्रामे, कूटरणे मायायुद्धे, परत्र वा अन्यत्र कुत्रापि धनुर्वेदखङ्गादिसग्रामे यदि चेत् त्व भवान् प्रवीर प्रकृष्ट सुभटो वर्तसे, तर्हि इह अस्मिन् सग्रामे मे मम पुरोऽग्रत एधि भव। शौर्यकलेषु सौभव्य मनोहरेषु पुरुषेषु गर्जितै कृत्वा उनतशब्दै कृत्वा कीर्तयो यशासि न भवन्ति। अर्थान्तर न्यासालकार॥

चतुरङ्गमल्लः सभीमरभसमात्मान् निर्वर्ण्य ‘अहो द्विजवशपासन, किमेतत्कदाचिदपि तव स्वामी नाश्रौषीत् यथाजातजगत्रयप्रतिमल्लश्चतुरङ्गमल्ल। तथा हि।

दोर्दण्डसघट्टनतस्तुरङ्गान्पत्तीन्पुन पादतलप्रहारै।
उर स्थलस्थामविधेर्गजेन्द्रान्रथानथैकोऽपि निहन्ति युद्धे’॥४२१॥

एवमपरेऽपि रूढावलेपोत्तरङ्गभङ्गीभर्मिसभारभरितभारभज्यमानभोगायतनवृत्तयो यथास्वकीयाङ्काहकार शक्तिकार्तिकेय–शङ्कुशार्दूल–शतक्रतुविक्रम–शूरशिरोमणि–परबलप्रलयानल–प्रकटकन्दलादित्य–कपटकैटभाराति–सपत्नपुरधूमकेतु–सुभटघटाप्राकार समरसिंहप्रभावप्रभृतयस्तस्य व्यलीकैश्वर्यपर्यायपर्यस्तमर्यादस्य नृपयज्ञामन्त्रणाय सदिदिशु।

————————

चतुरङ्गमल्लो नाम वीर सभीमरभस भीमवेगसयुक्त यथा भवत्येव आत्मान निजकाय निर्वर्ण्य दृष्ट्वाअभाषिष्ट—अहो द्विजवशपासन अहो ब्राह्मणकुलमालिन्यकारिन्, तवस्वामी एतत् इद कि कदाचिदपि कस्मिंश्चिदवसरे प्रघट्टके न अश्रौषीत् न आकाणे तवान्। कि न आकर्णितवान्। यथा उदाहरणे चतुरङ्गमल्लो नाम वीर अजातजगत्र यप्रतिमल्लोन जातो जगत्रये प्रतिमल्लो यस्य स तथोक्त वर्तते। तदेव चतुरङ्गमल्लत्व वर्णयति—तथा हि। दोर्दण्डेति। दोर्दण्डसघट्टनतो बाहुदण्डघनत एकोऽपि तुरङ्गान् निहन्ति, पादतलप्रहारै पुन पत्तीन् पदातीन् पुरुषान् निहन्ति, उर स्थलस्था मविधे वक्ष स्थलबलविधानात् गजेन्द्रान् गजपतीन् निहन्ति। अथ अनन्तर रथान् एकोऽपि सन् युद्धे सग्रामे निहन्ति। क्रियाकारकद्वयदीपकालकार॥

एवमपरेऽपि वीरा तस्य अचलस्य नृपयज्ञामन्त्रणाय सग्रामाहानाय सदिदिशु सदेश ददु। कथभूता अपरेऽपि वीरा। रूढावलेपोत्तरङ्गभङ्गीभर्मिसभारभरितभारभज्यमानभोगायतनवृत्तय रूढ प्रसिद्धो योऽसाववलेपो गर्वस्तेन उत्तरङ्गभङ्गी उत्कटरचना तस्या भर्मिसभारो मायाडम्बरस्तस्य भरितभारेण भज्यमाना स्वयमेव भङ्गमाप्नुवन्तो भो गायतनस्य शरीरस्य वृत्तिर्येषा वीराणा ते तथोक्ता। कथम्। यथास्वकीयाङ्काहकार निजाङ्कनगर्वे यथा भवत्येव सदिदिशु। के ते अपरे वीरा। शक्तिकार्तिकेय सवलो हमयी शक्तिरायुधविशेषस्तस्या कार्तिकेयो रुद्रनन्दन शक्तिकार्तिकेयश्च शङ्कुशादूलश्च, शतक्रतुविक्रमश्च, शूरशिरोमणिश्च, परबलप्रलयानलश्च, प्रकटकन्दलादित्यश्च, कपटकैटभा रातिश्च, सपत्नपुरधूमकेतुश्च सुभटघटाप्राकारश्च, समरसिंहप्रभावश्च, ते प्रभृतयो मुख्या येषा भीष्मादीना ते तथोक्ता। तस्याचलस्य कथभूतस्य। व्यलीकैश्वर्यपयायपर्यस्तमर्या दस्य व्यलीकमन्तर्गडुर्यदैश्वर्य तस्य पयाय सगति तेन पर्यस्ता लुप्ता मर्यादा येन स तथा तस्य॥

सेनापतिस्तत्रावसरे पुनरेवमीहाचक्रे—‘अहो धीरा,

अजातोचितवृत्तीना पुसा किं गलगर्जितै।
शूराणा कातराणा च रणे व्यक्तिर्भविष्यति॥४२२॥

तद्यथाभागमुपसहृतसरम्भा प्रत्यावृत्तवाक्पारुष्यप्रारम्भस्तिष्ठन्तु। अहो स्वामिप्रतापवर्धनाग्रहिन्सधिविग्रहिन्, भवतोऽप्यलमावेगेन। लेखमेनमवधार्य लिख्यता प्रतिलेख। प्राभृतमिदमवलोक्य बध्यता प्रतिप्राभृतम्। विधीयता चास्य त्रयस्य यथार्हमर्हणा। यस्मादुद्यतेष्वपि शस्त्रेषु दूतमुखा वै राजान। तेषामन्तावसायिनोऽप्यनवमान्या, किं पुनरन्ये।

अपि च।

स्वासिद्धि परवृद्धिर्वा न दूतगलगर्जितै।
अवधव्याजकर्माणस्ते जल्पन्ति यथेष्टत’॥४२३॥

———————

सेनापति प्रतापववनो नाम चमूपतिस्तत्रावसरे तस्मिन् प्रस्तावे पुन पुनरपि एक वक्ष्यमाणप्रचारेण ईहाचक्रे चेष्टितवान्। एव कथमिति चेत्—अहो धीरा। अजातेत्यादि। अजातोचितवृत्तीना अजाता अनुत्पन्ना उचिता वृत्तिरात्मयोग्या प्रवृत्तिर्येषा ते तथा तेषाम् ईदृग्विधाना पुसा गलगर्जितै कण्ठशब्दितै किम्। न किमपि। कि तु शूराणा कातराणा च भीतमूर्तीना रणे व्यक्ति स्फुट भविष्यति जनिष्यते। आक्षेपालकार॥

तत्तस्मात् कारणात् यथाभाग यथैकदेश भवन्त तिष्ठन्तु। कथभूता सन्तो भवन्त तिष्ठन्तु। उपसहृतसरम्भा परित्यक्तकोपा सन्त। पुनश्च कथभूता भवन्त। प्रत्यावृत्तवाक्पारुष्यप्रारम्भा प्रत्यावृत्त सभूत वाक्पारुष्यस्य रूक्षताया प्रारम्भो यैस्ते तथोक्ता। अहो स्वामिप्रतापवर्धनाग्रहिन् यशोधरमहाराजप्रतापवर्धने आग्रहो विद्यते यस्य स तथा तस्य सबोधन हे तथोक्त, हे सधिविग्रहिन् प्रधानदूत, भवतोऽपि तवापि आवेगेन उत्सुकतया अल पूर्णम्। एन अचलस्य लेखम् (लिखिला) अक्षरविन्यास अवधार्य हृदयमानीय प्रतिलेखो लिख्यताम्। इद प्राभृत सारमवलोक्य दृष्ट्वा प्रतिप्राभृत बध्यता प्रत्युपढौकनिका बद्धा क्रियताम्। विधीयता क्रियता च अस्य त्रयस्य दूतलेखप्राभृतत्रितयस्य यथार्ह यथायोग्य अर्हणा पूजा विरच्यताम्। यस्मात् कारणात् उद्यतेष्वपि उद्यम प्राप्तेष्वपि शस्त्रेषु दूतमुखा दूतवका वै निश्चयेन राजानो भवन्ति। तेषा दूताना अन्तावसायिनो भृत्या अपि अनवमान्या न अपमाननीया भवन्ति। कि पुनरन्ये दूता अपमाननीया भवन्ति। अपि तु न भवन्तीत्यर्थ॥

अपि चास्ति कश्चिद्विशेष।स्वासिद्धिरित्यादि। स्वासिद्धि स्वस्य अप्राप्तिर-

सधिविग्रही ‘यथाज्ञापयति सेनापति’ इत्यवधार्य च यथादिष्टम्, ‘सेनापते, लिखितोऽय लेख। श्रूयताम्—स्वस्ति। समस्तमहासामन्तशिखण्डमण्डनीभवच्चरणकमल कमलाकरसरोजसेव्यमानपादपल्लव पल्लवपाण्ड्य- चोलचेरमहर्म्यनिर्माणप्रकाश्यमानदिग्विजयवाहिनीप्रचार चारचक्षु सहस्रसाक्षात्कृतसकलभूपालमण्डल मण्डलाग्रधाराजलनिमग्ननिखिलारातिस तान सताननमेरुमन्दारपारिजातवनदेवतागीतोदाहरणगुणप्रपञ्च पञ्चमो ,

———————

चलादेरसिद्धि परवृद्धिर्वा परस्य यशोधरादे वृद्धिर्वा। अथ वा यशोधरस्य असिद्धि, परस्य अचलस्य वृद्धिर्वा। दूतगलगर्जितैर्न भवति। यतस्ते दूता अवधव्याजकर्माण अवध शस्त्रव्यापाररहित व्याजकर्म मध्यस्थ क्रिया येषा ते तथोक्ता यथेष्टत यथेष्ट जल्पन्ति ब्रुवन्ति। न तु युध्यन्ते न तु विग्रह कुर्वन्ति यान्ति

सधिविग्रही रामस्य हनूमानिव दूत ब्रूते—यथाज्ञापयति सेनापतिर्यथा आदेश ददाति प्रतापवर्धन सेनापति। तथैव मया सधिविग्रहिणा क्रियत इत्यर्थं। अवधार्य च सम्यग्विचार्य च अववान कृत्वा। किं अववार्य। यथादिष्ट सेनापतिना यथा आज्ञातम्। सेनापते प्रतापवर्धन राजन्, लिखितोऽय लेख। त्वया श्रूयताम्। स्वस्ति। कल्याणमङ्गल शब्दोऽयम्। श्रीयशोधरमहाराज अचलमहीपति आदिशति। कथभूत श्रीयशो धरमहाराज। समस्त महासाम तशिखण्डमण्डनीभवच्चरणकमल समस्ताना महासामन्ताना देशाधिपतीना शिखण्डाना मस्तकाना मण्डनीभवत् भूषणीभवत् चरणकमल यस्य स तथोक्त। पुन कथभूत। कमलाकरसरोज सेव्यमानपादपल्लव कमलाया लक्ष्म्या करस्य पाणे सबन्धि यत् सरोज तेन सेव्यमान पादपक्व यस्य स तथोक्त। पुन कथभूत। पल्लवपाण्ड्यचोलचेर महर्म्यनिमाणप्रकाश्यमानदिग्विजयवाहिनीप्रचार पल्लवश्च देशविशेष, पाण्ड्यश्च नीवृद्विशेष, चोलश्च विषयविशेष,

चेरमश्च जनपदविशेष, तेषु हर्म्यनिर्माणन आवासकरणेन प्रकाश्यमान प्रकटीक्रियमाणो दिग्विजय सबन्धिन्या वाहिन्या सेनाया प्रचार प्रवर्तन यस्य स तथोक्त। पुन कथभूत। चारचक्षु सहस्रसाक्षात्कृतसकलभूपालमण्डल चारा प्रणिधयस्त एव चक्षूंषि तेषा सहस्रेण साक्षात्कृतानि प्रत्यक्षतया दृष्टानि सकलभूपालाना मण्डलानि येन स तथोक्त। पुन कथ भूत। मण्डलाग्रधाराजलनिमग्न निखिलारातिसतान मण्डलाग्रस्य खड्गस्य धाराजले छटापानीये निमग्ना ब्रुडिता निखिलाना अरातीना सताना यस्य स तथोक्त। पुन क्थभूत। सताननमेरुमन्दारपारिजातवनदेवतागीतोदाहरणगुणप्रपञ्च सतानश्च कल्पवृक्षविशेष, नमेरुश्व सुरतरुभेद, मन्दारश्चअमरागविशेष, पारिजातश्च नाकारोक हस्तेषा वनानि तेषा या देवतास्तासा गीते गम्भीरानन्दे उदाहरण दृष्टान्तवचन

लोकपाल’ पद्मावतीपुरपरमेश्वर कनकगिरिनाथ शिप्रासरिज्जलकेलिकुञ्जर समुद्रमुद्राङ्कितशासन कैलासलाञ्छन अवन्तिसीमन्तिनीकुचकुम्भमदनाङ्कुश प्रत्यक्षमकरध्वज याचकचिन्तामणि कनककङ्कणवर्ष सत्यपरमेष्ठी परलोककलत्रपुत्रक कविकामधेनु धर्मरत्नावतस नीतिलतावलम्बनतरु द्विष्टकैटभाराति आहवचतुर्भुज परहितमहाव्रत अहितकुलकालानल प्रतिपन्नजीवित पराक्रमालकार समरससहस्रबाहु प्रतापतपनोदय चातुरीचतु-

——————

गुणप्रपञ्चस्य गुणविस्तरस्य यस्य स तथोक्त। पुन कथभूत। पञ्चमो लोकपाल मध्यमलोकप्रतिपालक। पुन कथभूत। पद्मावतीपुरपरमेश्वर उज्जयिनीपुरीपरमप्रभु। पुन कथभूत। कनकगिरिनाथ सुवर्णगिरिनामपर्वतोपरि वसति यत् नगर तत् कन कगिरिरित्युच्यते, उज्जयिन्या समीपे गव्यूतिद्वय गत्वा कनकगिरि प्राप्यते, तस्य नाथ स्वामी। पुन कथभूत। शिप्रासरिज्जलकेलिकुञ्जर उज्जयिन्या समीपे शिप्रानाम नदी सरिद्वर्तते, तस्या जलकेलौ जलक्रीडाकरणे कुञ्जर। पुन कथभूत। समुद्रमुद्राङ्कित शासन समुद्राकारेण या मुद्रा अङ्गुलीयोर्मिंस्तयाङ्कित चिह्नित शासनमादेशलेखो यस्य स तथोक्त। पुन कथभूत। कैलासलाञ्छन कैलासपर्वतो लाञ्छन लेखोपरि यस्य स तथोक्त। पुनकथभूत। अवन्तिसीमन्तिनी कुचकुम्भमदनाङ्कुश अवन्तिसीमन्तिनी तस्या कुचकुम्भयो मदनाङ्कुशोऽनक (?) स तथोक्त। पुन कथभूत \। प्रत्यक्षमकरध्वज प्रत्यक्ष साक्षात् मकरध्वज कामदेव। पुन कथभूत। याचकचिन्तामणि याचकानामर्थिना चिन्तामणि। पुन कथभूत।कनककङ्कणवर्ष कनककङ्कणानि वर्षतीति स तथा। पुन कथभूत। सत्यपरमेष्ठी सत्यवचनप्रतिपालने परमेष्ठी ऋषभदेव। पुन कथभूत। परलोककलत्रपुत्रक परलोकानामपरपुरुषाणा यानि कलत्राणि तेषा पुत्रको बालक। पुन कथभूत। कविकामधेनु कवीना कामधेनु। नित्यमेव मनोरथपूरक इत्यर्थ। पुन कथभूत। धर्मरत्नावतस वर्म एव रत्न तदेवावतस शिरोरत्न यस्य स तथा। पुन कथभूत। नीतिलतावलम्बनतरु नीतिलताया न्यायवल्या अवलम्बने आधारे तरुर्महावृक्ष। पुन कथभूत। द्विष्टकैटभाराति द्विष्टाना शत्रूणा कैटभाराति श्रीनारायण। पुन कथभूत। आहवचतुर्भुज आहवे सग्रामे चत्वारो भुजा बाहवो यस्य स तथा। पुन कथभूत। परहितमहाव्रत परहित प्रजानेकहित महाव्रत प्रतिज्ञा यस्य स तथा। पुन कथभूत। अहितकुलकालानल अहिताना शत्रूणा कुलस्य वशस्य कालानल सवर्तकधनजय। पुन कथभूत। प्रविपन्नजीवित प्रतिपन्न यदञ्जीकृत तदेव जीवितमायुर्यस्य स तथोक्त। पुन कथभूत। पराक्रमालकार पराक्रमो बल अलकारो मण्डन यस्य स तथा। पुन कथभूत। समरसहस्रबाहु समरे सहस्र बाहवो यस्य स तथा। पुन कथभूत। प्रतापतपनोदय प्रताप एव तपन तस्य उदय

विलासदर्पण काञ्चिकामिनीकुचकलशकिसलय माहिष्मतीयुवतिरतिकुसुमचाप कौशाम्बीनितम्बिनीबिम्बाधरमण्डन दशार्णवर्णिनीकर्णपूर पाटलिपुत्रपण्याङ्गनाभुजङ्ग वलभिरम्भोरुविभ्रमभ्रमर पौरवपुरध्रोरोध्रतिलक सततवसुवितरणप्रीणितद्विजसमाज श्रीयशोधरमहाज सकलप्रशस्तिसहितमचलमहीपतिमादिशति। श्रेयोऽन्यत्। कार्ये चैतदेव—यदुत विजयवर्धन सेनापतिर्भवन्तमेवमामन्त्रयते—

——————

कुजवज्रानल यवनो नाम खुरासानदेशस्तस्य स्वाम्यपि यवन स एव कुजो वृक्षस्तस्य दाहने ज्वालने वज्रानल पविपावक। पुन कथभूत। चैद्यसुन्दरीविनोदकन्दल चैद्यो नाम डाहालदेशस्तस्य सुन्दर्य कमनीयकामिन्यस्तासा विनोदे क्रीडारणे कन्दलो युद्ध यस्य स तथोक्त। पुन कथभूत। मागधवधूविलासदर्पण मगवाना राजा स

मागधवधूना राजगृहस्त्रीणा विलासदर्पणो नेत्रशोभावलोकनादर्श। पुन कथभूत। काञ्चिकामिनीकुचकलशकिसलय काञ्चिनाम दक्षिणसमुद्रतटदेशस्तस्या कामिनीना कुचकलशेषु किसलय पल्लव।आरोपितकर इत्यर्थ। पुन कथभूत। माहिष्मतीयुवतिरतिकुसुमचाप माहिष्मतीनाम नगरी यमुनपुरदिशि पत्तन तस्या युव तय ता एव रतय तासु कुसुमचाप कामदेव। पुन कथभूत \। कौशाम्बीनितम्बिनी बिम्बाधरमण्डन कौशाम्बी नाम नगरी वत्सदेशे गोपाचलात् गव्यूति चतुश्चत्वारिंशति वर्तते, तस्या नितम्बिन्यस्तासा बिम्बाधराणा मण्डनो विभूषणप्राय। पुन कथभूत। दशार्णवर्णिनीकर्णपूर दशार्ण नाम नगर गोपाचलात् गव्यूतिचत्वारिंशति वर्तते, तस्य वर्णिनीना स्त्रीणा कर्णपुर कर्णावतस। पुन कथभूत। पाटलिपुत्रपण्याङ्गनाभुजङ्ग पाटलिपुत्र नाम नगर तैरभुक्तपुरदिशि वर्तते, तस्य पण्याङ्गना वेश्या तासा भुजङ्ग कामुक। पुन कथभूत। वलभिरम्भोरुविभ्रमभ्रमर वलभिनाम नगर गोपाचलदिशि वर्तते तस्य रम्भोरव स्त्रियस्तासा विभ्रमेषु भ्रूभङ्गेषु भ्रमर भ्रमन् रौतीति भ्रमर। पुन कथभूत। पौरवपुरधीरोघ्रतिलक पौरवपुर नाम अयोध्या नाम नगर तस्य पुरध्रीणा रोप्रतिलक गन्धद्रव्यविशेष। पुन कथभूत। सततवसुवितरणप्री णितद्विजसमाज सतत वसुवितरणेन धनदानेन प्रीणित प्रीतिमानीतस्तर्पितो द्विज समाजो ब्राह्मणसमूहो येन स तथा श्रीयशोधरमहाराजो यथोक्तविशेषणविशिष्ट। कथभूत अचलमहीपतिम्। सकलप्रशस्तिसहित परिपूर्णप्रसिद्धिसहित अचलमहीपतिमादिशति। श्रेय कल्याण अन्यत् अपर वर्तते। कार्ये च कर्तव्य च एतत् इद एव ईदृश वर्तते। एवं कथ इति चेत्—उत अहो विजयवर्धनो नाम सेनापति भवन्तम्

पश्यागत्य जगत्पतिं यदि वदे स्यात्ते तदानुग्रह
कुर्यास्त्व मृगचेष्टित यदि तदा क्षोणि समुद्रावधि।
सग्रामे भव समुखो यदि तदा क्षेम कुतस्ते पुन -
स्तत्पञ्चालपते किमत्र भवत सदिश्यता शासने॥४२४॥

कदाचिदवतीर्णाया परितोषितविजिगीषुपरिषदि शरदि सरसकाश्मीरकेसरोत्तसमासलेषु कीरकामिनीकुरलकुन्तलेषु, गर्भाविर्भवत्कणिशमञ्जरीसौरभोदारेषु कलमकेदारेषु, कुलकलत्रेष्विव समर्यादगतिषु महावाहिनी

——————

एवममुना प्रकारेण आमन्त्रयते। एव कथमिति चेत्—पश्येत्यादि। जगत्पतिं श्री यशोधर आगत्य पश्य उपढौकय सेवख। यदि चेत् अह ‘वदे’ कथयामि। अत्र ‘वद’ वातुरात्मनेपदी वर्तते। ‘ज्ञानयत्नच्छन्दनेषु वद’ इति रुचादिपाठात् भासनेऽपि वक्तव्यम्। यथा सभाया वदते दीप्यमानो वदतीत्यर्थं। अह दीप्यमानसभाया यदि वदे तर्हि त्व आगत्य सेवस्व। तथा च पञ्जिकाकारो जिनदेव। वदेरपोक्तावात्मनेपदम्। हे अचल, तदा तम्मिन् आगमनदशनकाले ते तव अनुग्रह उपकार स्यात् भवेत्। यदि चेत् त्व मृगचेष्टित पलायन कुर्या पुरुषेण तदा तस्मिन् काले समुद्रावधि आसमुद्र क्षोणी मेदिनी मन्यते वर्तते। क्व त्व पलायसे इत्यर्थ। यदि चेत् सग्रामे समरे समुसो भवसि त्व तदा ते तव पुन पुनरपि क्षेम कल्याण कुत। न कुतोऽपि इत्यर्थ। तत्तस्मात् कारणात् हे पञ्चालपते अचलमहाराज, अत्र अस्मिन् शासने लेखे तव भवत कि सदिश्यताम्। कि सदेशो दीयत इत्यर्थ। आक्षेपालकार॥

कदाचित् कस्मिंश्चिदवसरे शरदि शरत्काले अवतीर्णाया सत्याम्। कथभूताया शरदि। परितोषितविजिगीषुपरिषदि परितोषिता हर्षं प्रापिता विजिगीषूणा नरेन्द्राणा परिषत् सभा यस्या सा तथा तस्याम्। त विजयवर्धनसेनापतिं तस्य प्रसिद्धस्य पञ्चालपतेरचलम हाराजस्य प्रतापनोदनाय प्रतापविध्वसनार्थे अह प्राहिणव प्रस्थापितवान्। कथभूतो ऽहम्। इत्यमुना प्रकारेण चापेटिकपेटिकप्रकटितकटकप्रयाणप्रस्ताव चापेटिका बन्दिन तेषा पेटिक समूहस्तेन प्रकटित स्फुटीकृतो विज्ञापित कटकस्य सैन्यस्य प्रयाण प्रस्तावो दिग्विजयावसरो यस्य मम स तथोक्त। इतीति किम्। हे राजन् शरत् आगता। केषु सत्सु। कीरकामिनीकुरलकुन्तलेषु सत्सु कीरो नाम देशस्तस्य कामिन्यस्तासा कुरलकुन्तलेषु केशहस्तेषु। कथभूतेषु कुरलकुन्तलेषु। सरसकाश्मीर केसरोत्तसमासलेषु सरस प्रत्यग्र यत् काश्मीरकेसर बाह्वीकुङ्कुम तत्र उत्तसेन मुकुटेन मासला स्थूला मनोज्ञास्ते तथा तेषु। पुनश्च केषु सत्सु शरदागता। कलमकेदारेषु सुगन्धशालिक्षेत्रेषु सत्सु। कथभूतेषु कलमकेदारेषु। गर्भाविर्भवत्कणिशमञ्जरीसौरभोदारेषु गर्भेषु आविर्भवन्तो ये कणिशास्तेषा मञ्जरीणा सौरभ सौगन्ध्य तेन उदारेषु अतिमनोहरेषु। पुनश्च केषु सत्सु शरदागता। महा-

प्रवाहेषु, भवद्गुणेष्विव निर्मलावकाशेषु सर सु, नृपतिकोदण्डमण्डलेष्विव प्रवृत्तप्रचारेषु पथिषु, प्रचण्डमार्तण्डातपभीतेष्विव निरन्तरसस्याशुकपिहितपृष्ठेषु विश्वभराभागेषु, सलिलघरसङ्गसक्रान्तश्यामभावेष्विव हरितकान्तिषु शैलशिखरेषु, विघटितघनकपाटसपुटाखिव प्रकटासु दिक्षु, विजृम्भमाणेषु जितसरस्वतीहासप्रकाशेषु काशेषु, विजयमानेषु प्रकाशितकमलबन्धुजीवेषु बन्धुजीवेषु, विलसत्सु मकरन्दमधून्मादितकोकनदेषु कोकनदेषु, सप्रीतिषु

———————

वाहिनीप्रवाहेषु सत्सु महावाहिनीना महानदीना पूरेषु सत्सु। कथभूतेषु महावाहिनी प्रवाहेषु। समर्यादगतिषु समर्यादा ससीमा गतिगमन येषा ते तथा तेषु। केष्विव। कुल कलत्रेष्विव कुलवतास्त्रीष्विव। पुनश्च केषु सत्सु शरदागता। सरसु सरोवरेषु सत्सु। कथभूतेषु सर सु। निमलावकाशेषु अकश्मलप्रवेशेषु सत्सु। केष्विव। भवद्गुणेष्विव यथा भवद्गुणा निर्मलावकाशा भवति। पुनश्च केषु सत्सु शरदागता। पथिषु मार्गेषु सत्सु कथभूतेषु पथिषु। प्रवृत्तप्रचारेषु प्रवृत्त सजात प्रचारो गमन येषु तथा तेषु। केष्विव। नृपतिकोदण्डमण्डलेष्विव यथा नृपतीना कोदण्डमण्डलानि धनुर्वलयानि प्रवृत्तप्रचाराणि भवन्ति। पुनश्च केषु सत्सु शरदागता। विश्वभराभागेषु भूमिभागेषु सत्सु। कथभूतेषु विश्वभ

राभागेषु। निरन्तरमस्याशुकपिहितपृष्ठेषु निरन्तरमविच्छिन्न सस्याशुकैर्वान्यवस्त्रै पिहितमाच्छादित पृष्ठ येषा ते तथा तेषु। केष्विव। प्रचण्ड मातण्डातपभीतेष्विव यथा प्रचण्डमार्तण्डातपभीता पिहितपृष्ठा भवन्ति। पुनश्च केषु सत्सु शरदागता। शैलशिखरेषु सत्सु। कथभूतेषु शैलशिखरेषु। हरितकान्तिषु नीलवर्णेषु। केष्विव। सलिलवरसङ्गसक्रान्तश्यामभावेष्विव सलिलधराणा मेघाना सङ्गेन सगत्या सक्रात प्रविष्ट श्यामभाव श्यामत्व येषु ते तथा तेषु। पुनश्च कासु सतीषु। दिक्षु सतीषु। कथभूतासु दिक्षु। प्रकटासु प्रव्यक्तासु। कास्विव। विघटितघनकपाटसपुटाखिव विघटितो दूरीकृतो घनकपाट सपुटो यासा तास्तथा तासु। पुनश्च केषु सत्सु। काशेषु विजम्भमाणेषु सत्सु। कथभूतेषु काशेषु। जितसरस्वतीहासप्रकाशेषु जित तिरस्कृत सरस्वत्या हासप्रकाश द्योतो यैस्ते तथा तेषु। पुन केषु सत्सु। बन्धुजीवेषु विजयमानेषु जयवत्सु सत्सु। कथभूतेषु बन्धुजी वेषु। प्रकाशितकमलबन्धुजीवेषु प्रकाशित प्रकटीकृत कमलबन्धो श्रीसूर्यस्य जीव स्वरूप येषु ते तथा तेषु। रक्तेष्विवेत्यथ। पुनश्च केषु सत्सु। कोकनदेषु रक्तकमलेषु सत्सु। कथभूतेषु कोकनदेषु। विलसत्सु शोभायमानेषु मकरन्दमवून्मादित कोकनदेषु मकरन्द, पुष्परस स एव मधु मद्य तेन उन्मादिता उन्मत्तीकृता ये कोकाश्चकवाकास्तैरुपलक्षिता नदा हृदा येषा तानि तथा तेषु। पुनश्च केषु सत्सु। कुवलयेषु भूमिभागेषु सत्सु। कथभूतेषु कुवलयेषु। सप्रीतिषु प्रीतिवत्सु परिमलोल्लासितकुवलयेषु परिमलोल्लासितानि विकास प्राप्तानि कुवलयानि उत्पलानि येषु तानि तेषु। पुनश्च केषु।

परिमलोल्लासितकुवलयेषु कुवलयेषु, सप्रमोदेषु सपादितकुमुदवनेषु कुमुदवनेषु, विराजमानेषु विधुदीधितिसदिग्धशुचिपक्षेषु शुचिपक्षेषु, अभिनवोल्लिखितेन्दुमणिदर्पण इवातीव प्रसन्नचिषि चन्द्रमण्डले, पञ्चमलोकपालपरिकल्पितयात्रावसर इव सहृतवति शरासनमाखण्डले, राजहसोत्सवसपादनपर इव जलदकलुषता मुक्तवति गगने, पयोधरविरहदु स्वित इव बिरसखरतामनुसृतवति प्रचलाकिलोके, त्वदरातिजन इव मन्दमुदि चातककुले, त्वत्कटकसुभटानीक इव रणरसोद्दृप्तहृदि नन्दिसदोहे,

——————

सत्सु।

कुमुदवनेषु श्वेतोत्पलखण्डेषु सत्सु। कथभूतेषु कुमुदवनेषु। सप्रमोदेषु विकाशेषु सपादितकुमुदवनेषु सपादितमुत्पादित को पृथिव्या मुदो हर्षस्य अवन रक्षण येषु कैरवेषु तानि तेषु। पुनश्च केषु सत्सु। शुचिपक्षेषु सत्सु। कि कुवाणेषु शुचिपक्षेषु। विराजमानेषु शोभमानेषु विधुदीधितिसदिग्ध शुचिपक्षेषु विधोश्चन्द्रस्य दीवितिभि किरणै सदिग्धा सदेह प्रापिता शुचिपक्षा शुक्लगरुमन्तो येषा ते तथा तेषु। पुनश्च कस्मिन्सति शरदागता। चन्द्रमण्डले चन्द्रबिम्बे सति। कथभूते च द्रमण्डले। अतीव प्रसन्नरोचिषि अतीवातिशयेन प्रसन्ना निर्मला रोचि प्रभा यस्य तत्तस्मिन्। कथभूते ष्विव। अभिनवोल्लिखितेन्दुमणिदर्पण इव अभिनव प्रत्यग्र उल्लिसित उत्कीर्णे घटित इन्दुमणेश्चन्द्रकान्तरत्नस्य दर्पणे इव। पुनश्च कस्मिन् सति। आखण्डले इन्द्रे सति। कि कुर्वति सति आखण्डले। शरासन चाप सहृतवति सति सकोचितवति सति। कस्मिन्निव। उत्प्रेक्षते—पञ्चम लोकपालपरिकल्पितयात्रावसर इव पश्चमलोकपालेन श्रीय शोधरमहाराजेन परिकल्पिता प्रारब्धा या यात्रा तस्या अवसरे समये इव। एतावता वर्षाकालो गतो दिग्विजयावसरो वर्तते। पुनश्च कस्मिन्सति। गगने सति। किंकृत वति सति गगने। जलदकलुषता मेघकालुष्य मुक्तवति सति। कथभूते। उत्प्रेक्षते—राजहसोत्सवसपादनपरे इव राजहसाना श्वेतगरुता उत्सवसपादन जनन तस्मिन् पर तत्पर तस्मिन्। पुनश्च कस्मिन् सति। प्रचलाकिलोके मयूरजने सति। कि कृतवति सति प्रचलाकिलोके। विरसस्वरता अनुसृतवति आश्रितवति सति। कथ भूते। उत्प्रेक्षते—पयोधरविरहदु खिते इव मेघवियोगेन दुख प्राप्ते इव। पुनश्च कस्मिन् सति। चातककुले बपीहवृदे सति। कथभूते चातककुले। मन्दमुदि हर्षरहिते। कस्मिन् इव। त्वदरातिकुले इव तव शत्रुलोके इव। पुनश्च कस्मिन् सति। नदिसदोहे वृषभसमूहे सति। कथभूते नदिसदोहे। रणरसोदृप्तहृदि रणरसेन सप्रामानुरागेण उद्दृप्त वित हृच्चित्त यस्य स तथा तस्मिन्। कस्मिन्निव। त्वत्कटक्सुभटानी के इव तव कटके सैन्य सुभटानीके इव त्वत्सैन्यसुभटसमूहे इव।

अनभ्रा शुभ्रचन्द्रार्का विपङ्कानिम्ननिम्नगा।
विजयाय जिगीषूणा शरदेषा समागता॥४२५॥

विलसत्सरोजनयना प्रसन्नचन्द्रानना विघनरागा।
हसप्रचारसुभगा स्त्रीव शरत्तव मुद कुरुतात्॥४२६॥

कुमुद करोति वर्धयति कुवलय विस्तृणोति मित्राशा।
भवत श्रीरिव शरदियमुल्लासितसत्पथद्विजेन्द्रा च॥४२७॥

विघटितघनकपाटदिशि निभृतपुरदरचापमण्डले
कमलामोदसुहृदि सतर्पितहसविलासिनीकुले।

——————

अनभ्रेत्यादि। एषा प्रत्यक्षीभूता शरत्। कथभूता। अनभ्रा अभ्रपटलरहिता। पुन कथभूता। शुभ्रचन्द्रार्का उज्ज्वलचद्रसूया। विपङ्का कर्दमरहिता। अनिम्ननिम्नगा अगम्भीरनदिका। किमर्थमागता। जिगीषूणा जेतुमिच्छूना विजयाय जयनिमित्तम्। जातिर्हेतुर्वालकार॥

विलसदित्यादि। हे राजन्, शरद्धनात्ययकालस्तव मुद कुरुतात् करोतु। कथभूता शरत्। विलसत्सरोजनयना उल्लसत्कमललोचना। पुन कथभूता। प्रसन्नचन्द्रानना प्रसन्नो निर्मलश्चन्द्र एव आनन मुख यस्या सा तथा। पुन कथभूता। विघनरागा विनष्टो घनस्य मेघस्य रागो यस्या सा तथा। पुन कथभूता। हसप्रचार सुभगा हसाना प्रचारेण सुभगा। पुन कथभूता। स्त्रीव स्त्रीसदृशा। कथभूता स्त्री। विलसन्ती शोभमाने सरोजवत् कमलवत् नयने यस्या स्त्रिय सा तथा। पुन कथभूता। निर्मलपरिपूर्णचन्द्रवदना। पुन कथभूता। विशेषेण घन प्रचुरो रागो यस्या सा। पुन कथभूता। नूपुरगमनेन सुभगा। श्लेषोपमालकार॥

कुमुदमित्यादि। हे राजन्, इय शरत् वर्तते। कि किं करोति। कुमुद क्रोति श्वेतोत्पल विकासयति। पुनश्च कि करोति। कुवलयमुत्पलवन वर्धयति स्फारीकरोति। मित्राशा मित्रे (पुत्र) सूर्ये आशाश्च दिशो विस्तृणोति विस्तारयति। कथभूता शरत्। उल्लासितसत्पथद्विजेद्रा उल्लासित सत्पथे आकाशे द्विजेन्द्रचन्द्रमा यया सा तथा। अपर कथभूता शरत्। भवत श्रीरिव। भवत श्री कि करोति। कुमुद करोति को पृथिव्या मुद हर्षंकरोति। कुवलय पृथ्वीमण्डल वर्धयति। मित्राणा सुहृदा आशा वाञ्छा विस्तृणोति। कथभूता। उल्लासिता आनन्द प्रापिता सत्पथा धर्ममार्गपरा द्विजेद्रा उत्तमब्राह्मणा यया सा। श्लेषोपमालकार। समुच्चयश्च॥

विघटितेत्यादि। हे राजन्, कार्तिके कृत्तिकानक्षत्रोपलक्षितपूर्णिमादिनमासे कस्य पुरुषस्य केलिर्न भवति। अपि तु सर्वस्यापि भवत्येव। कथभूते कार्तिके। विघटितघनकपाटदिशि विघटितानि दूरीकृतानि घनकपाटानि मेघारराणि दिशा हरिता येन स तथा तस्मिन्। पुन कथभूते। निभृतपुरदरचापमण्डले निभृत दूरीकृत

अभिनवकलमकणिशपरिमलिनि विकासितकाशकान्तिके
कुङ्कुमकुसुमसुभगभुवि भवति न केलि कस्य कार्तिके ॥४२८॥

प्रतपति रविर्निर्मर्याद भवानिव साप्रत
विधुरपि बुध प्रीतिं धत्ते प्रवृद्धसुधारस।
अरिकरिकुलक्रीडाध्वसे हरिध्वनितोद्धुर
त्वमपि च गुणारोपाच्चाप प्रपञ्चय भूपते॥४२९॥

जडमपि सलिल धत्ते खरदण्ड यत्र विगतविजिगीषु।
अजडविजिगीषुचेतास्तत्र कथ नो दधीत खरदण्डम्॥४३०॥

——————

पुरंदरचापमण्डलमिन्द्रधनुर्वलय यत्र स तथा तस्मिन्। पुन कथभूते। कमलामोदसुहृदि कमलाना पद्माना आमोद परिमलस्तेनोपलक्षित सुहृत् सूर्यो यत्र स तथा तस्मिन् (अथवा कमलानामामोददाने सुहृदुपकारस्तस्मिन्)। पुन कथभूते। सतर्पितहस विलासिनीकुले सतर्पित प्रीणित हसविलासिनीना वरटाना कुल येन स तस्मिन्। पुन कथभूते। अभिनवकलमकणिशपरिमलिनि अभिनव प्रत्यग्र कलमकणिशाना राजभोजनशालिमञ्जरीणा परिमल सौगन्ध्य विद्यते यस्य स तस्मिन्। पुन कथभूते। विकासितकाशकान्तिके विकासिता काशाना तृणविशेषपुष्पाणा कान्तिर्येन स तस्मिन्। पुन कथभूते। कुङ्कुमकुसुमसुभगभुवि कुङ्कुमाना काश्मीरजन्मकेसराणा कुसुमै सुभगा मनोहरा भूर्यत्र स तथा तस्मिन्। रूपकाक्षेपालकार॥

प्रतपतीत्यादि। हे भूपते, रवि सूर्य प्रतपति प्रकर्षेण ताप करोति। कथम्। निर्मर्याद निरवधि यथा भवत्येवम्। कदा प्रतपति। साप्रत शरदि। कइव। भवानिव त्व यथा प्रतपसि। हे बुध, विधुरपि प्रीतिं धत्ते प्रीणयति। कथभूतो विधु। प्रवृद्धसुधारस प्राप्तामृतरस। हे भूपते, त्वमपि चाप प्रपश्चय विस्तारय। कस्मात्। गुणारोपात् शिञ्जिन्यारोपणात्। कथम्। अरिकरिकुलक्रीडाध्वसे हरिध्वनितोद्धुरं अरीणां करिणस्तेषां कुल तस्य क्रीडाध्वसे केलिध्वसनिमित्तम्। निमित्तात् कर्मणि सप्तमी वाच्या। हरिध्वनितोद्धुरं सिंहनादोत्कट यथा भवत्येवम्। अवसरोपमालकार॥

जडमित्यादि। यत्र यस्या शरदि सलिल खरदण्ड कमल धत्ते। कथभूत सलिलम्। जडमपि अज्ञानमपि। पुन कथभूतम्। विगतविजिगीषु विजिगीषारहितम्। तत्र तस्यां शरदि अजडविजिगीषुचेता अज्ञानरहितविजिगीषासयुक्तमना कथ केन प्रकारेण खरदण्ड तीक्ष्णदण्ड नो दधीत न दध्यात् न धरति। अपि तु दधीतैव। श्लेषाक्षेपालकार॥

इति चापेटिकपेटिकप्रकटितकटकप्रयाणप्रस्तावस्त विजयवर्धनसेनापतिं तस्य पञ्चालपते प्रतापनोदनाय प्राहिणवम्।

कदाचित्तुषारगिरिनिर्झरनीहारनिष्पन्दिनि गन्धमादनवनविश्राजितभूर्जवल्कलोन्माथमन्थरे मानसह सविलासिनीशिखण्डमण्डलविडम्बिनि नेपालशैलमेखलामृगनाभिसौरभनिर्भरे कुलूतकुलकामिनीकपोललावण्यचा मिनि लम्पाकपुरपुरधिकाघरमाधुर्यपश्यतोहरे पाकपाण्डिमोड्डमरपुण्ड्रकाण्डकारिणि प्रालेयलवोल्लासपल्लवितनवयवाङ्कुरे कोशकारश्यामिकापरि-

——————

कदाचित् कस्मिंश्चिदवसरे निशि रात्रौ प्रत्यक्षतार्क्ष्यनामा हैरिकश्च प्रविश्य आगत्य मां प्रति एव वक्ष्यमाणलक्षणोपलक्षितप्रकारेण व्यजिज्ञपत् विज्ञापितवान्। कथभूताया निशि। प्रौढप्रदोषाया प्रौढ प्रचण्डतर परिणत प्रदोषो रजनीमुख यस्या निशि सा तथा तस्याम्। पूर्वरात्रे इत्यर्थं। कस्मिन् सति व्यजिज्ञपत्। हैमने मरुति हेमन्ते भवो हैमनस्तस्मिन् हैमने। ‘हेमन्तस्यापि णि’ इति तकारलोप \। मरुति वाते। शीतवाते इत्यर्थ। परिसर्पति प्रसरति। कुत प्रसरति सति। देवदिश। उत्तरदिग्मण्डला तू। कथभूते हैमने मरुति। तुषारगिरिनिर्झरनीहारनिष्पन्दिनि तुषारगिरिर्हिमाचलपर्वतस्तस्य ये निर्झरा जलझरणानि तेषा नीहार शीत निष्पन्दयति स तथा तस्मिन्। इति क्रियाकारकसबन्ध। पुन कथभूते। गन्धमादनवनविभ्राजितभूर्जवल्कलोमाथमन्थरे गन्धमादन नाम वन हिमाचलोपकण्ठे वर्तते तत्र विभ्राजन्ते शोभन्ते इत्येवशीला ये भूर्जवल्कला भूर्जवृक्षत्वच तेषामुन्माथमुत्कम्पन तेन मन्थर स तथा तस्मिन्। पुन कथभूते। मानसहसविलासिनीशिखण्डमण्डलविडम्बिनि।पुन कथभूते।

नेपालशैलमेखलामृगनाभिसौरभनिर्भरे नेपालो नाम शैलस्तस्य मेखला वनभूमिस्तत्र या मृगनाभि कस्तूरिका तस्या सौरभेण निर्भर गाढभूतो य स तथा तस्मिन्। पुन कथभूते। कुलूतकुलकामिनीकपोललावण्यचामिनि कुलूतो नाम मरवादेशस्तत्र या कुलकामिन्यस्तासा कपोललावण्य गण्डस्थलोदक चामति पिबतीत्येवशील स तथा तस्मिन्। पुन कथभूते। लम्पाकपुरपुरध्रिकाघरमाधुर्यपश्यतोहरे लम्पाकपुरपुरंध्रिकास्तासामधर माधुर्यस्य पश्यतोहरश्चोरस्तस्मिन्। पुन कथभूते। पाकपाण्डि मोड्डमरपुण्ड्रकाण्डकारिणि पाकेन पाचनतया य पाण्डिमा उज्ज्वलत्व तेनोड्डमरा उत्कटा ये पुण्ड्रकाण्डा श्वेतेक्षुपर्वाणि तान् करोतीत्येवशील स तथा तस्मिन्। पुन कथभूते। प्रालेयलवोल्लासपल्लवितनवयवाङ्कुरे प्रालेय मिहिका तस्य लवा अग्रजलकणास्तेषामुल्लासेन पल्लविता नवा यवाङ्कुरा सितशूकोद्भेदा येन स तथा तस्मिन्। पुन कथभूते। कोशकारश्यामिकापरिणामप्रणयिनि कोशकारा कृष्णेक्षवस्तेषा श्यामिका परिणाम कृष्ण-।

णामप्रणयिनि शिशिरसीकरासारतरङ्गिततरुणतरुकिसलयाग्रभागे रल्लकरो- मनिष्पन्नकम्बललोकलीलाविलासिनि शेफालिफुल्लाह्लादलालसे क्रौञ्चकुल- करालकेकारवस्फारिणि नीरन्धरोध्ररज प्रसरपाण्डुरितदिङ्मखे कुन्दकन्दलानन्दिनि लवलीलतारामरामणीयकनिकेतने कमलिनीदलदहनहिमवाहिनि जाह्नवी- जलमज्जनजातजडभावे तरणितीरिणीजलकेलिव्यसनिनि सरखतीसलिलोदवासतापसे नवयौवनाङ्गनास्तनकलशोष्मनिषेवणादेशिनि प्रियागुरुधूपधूमोद्गमनिवातवलभिगर्भे घनघुसृणरसरागद्विगुणरमणीमनसि बहल -

——————

खपर्याय प्रणयति करोतीति स तथा तस्मिन्। पुन कथभूते। शिशिरसीकरासारतर- ङ्गिततरुणतरुकिसलयाग्रभागे शिशिरा शीतला ये सीकरास्तेषामासार समूहस्तेन तरङ्गिता कम्पनशीला ये तरुणतरूणा किसलया अग्रभागा यत्र स तथा तस्मिन्। पुन कथभूते। रल्लकरोमनिष्पन्नकम्बललोकलीलाविलासिनि रल्लका मृगविशेषास्तेषा रो मनिष्पन्ना ये कम्बलास्तैरुपलक्षिता ये लोका महाशूद्रास्तेषा लीलाविलासो विदग्धचेष्टितक्रीडा यस्मिन् मरुति स तथा तस्मिन्। पुन कथभूते। शेफालिफुल्लाह्लादलालसे शेफालिफुल्लानि तेषामाह्लादलालसा आनन्दकाङ्क्षा यत्र स तथा तस्मिन्। पुन कथभूते क्रौञ्चकुलकरालकेकारवस्फारिणि कौञ्चा उत्कोशपक्षिणस्तेषा कुलाना समूहाना ये करालकेकारवा उन्नतशब्दास्तान् स्फारयति प्रचुरीकरोतीत्येवशील स तस्मिन्। पुनकथभूते। नीरन्ध्ररोध्ररज प्रसरपाण्डुरितदिङ्मुखे नीरन्ध्र अविच्छिन्न यत् रोध्ररज रोध्रवृक्षपुष्पपराग तस्य प्रसरेण व्याया पाण्डुरितानि शुक्लीकृतानि दिङ्मुखानि येन तस्मिन्। पुन कथभूते। कुन्दकन्दलानन्दिनि कुन्दाना माध्यपुष्पाणा कन्दलानि पल्लवानि आनन्दयति प्रीणयतीत्येवशील स तस्मिन्। पुन कथभूते। लवलीलतारामरामणीयकनिकेतने लवलीलताना चन्दनशाखाना आरामस्य रामणीयक तस्य निकेतन मन्दिरं तस्मिन्। पुन कथभूते। कमलिनीदलदहन हिमवाहिनि कमलिनीना दलानि पत्राणि तेषा दहन प्राय यद्धिम तद्वहतीत्येवशीलस्तस्मिन्। पुन कथभूते। जाह्नवीजलमज्जनजात जडभावे जाह्नवीजलमज्जनेन जात उत्पन्नो जडभावो मन्दोद्यमो यस्मिन् स तथा तस्मिन्। पुन कथभूते। तरणितीरिणीजलकेलिव्यसनिनि तरणितीरिणी यमुना नदी तस्या जलकेलौ व्यसन आग्रहो विद्यते यस्य स तस्मिन्। पुन कथभूते। सरस्वतीसलिलोदवासतापसे सरस्वती नाम नदी तस्या सलिल तत्र य उदवास उदवासो नाम तपस्तद्विधस्तापस स तस्मिन्। पुन कथभूते। नवयौवनाङ्गनास्तनकलशोष्मनिषेवणादेशिनि नवयौवनाङ्गनाना योऽसौ स्तनकलशोष्मा कुचकुम्भोष्णत्व तस्य निषेवणमालिङ्गन तत् आदिशति प्रयोजयतीत्येवशील स तस्मिन्। पुन कथभूते। प्रियागुरुधूपधूमोद्गमनिवातवलभिगर्भे प्रियो हृदयेष्टोऽगुरुधूप तस्य धूमस्योद्गम निवातवलभिगर्भश्च यत्र स तस्मिन्। पुन कथभूते। घनघुसृणरसरागद्विगुणरमणीमनसि घनः

प्रावारपरिचयप्रसाघिनि प्रवर्धितप्रवृद्धधूमध्वजाराधनानुबन्धे समस्तसत्त्वरोमाञ्चकञ्चुकाचारिणि मलयमेखलालतानर्तनकुतूहलित इव देवदिश परिसर्पति हैमने मरुति,

नलिनीवनदैन्यदु खित इव मन्दद्युति मार्तण्डमण्डले, शीतपातभयसकुचितेष्विव लघुषु, दिवसेषु जाड्यजातजडजानुष्विव मन्दप्रयाणदीर्घासु रात्रिषु, सरत्सुधासारसतर्पितनिलिम्पलोक इव क्षीणतेजसि तुषारकिरणे,

इक्षूल्लासिनि सस्यशालिनि स्वर शेफालितोत्फुल्लिनि
क्रौञ्चोन्मादिनि कुन्दनन्दिनि घनाश्लेषाङ्गनापादिनि।

——————

प्रचुरो योऽसौ घुसृणरसस्तस्य रागेण द्विगुणानि रमणीना मनासि यस्मिन्। पुन कथभूते। बहलप्रावारपरिचयप्रसाधिनि बहलो विस्तीर्णतरो योऽसौ प्रावारो हिमानिलनिवारणवस्त्रम्। ‘द्वौ प्रावारोत्तरासङ्गौ–हिमानिलनिवारणे’। तस्य परिचयस्त प्रसाधयति कारयती त्येवशील स तस्मिन्। पुन कथभूते। प्रवर्धितप्रवृद्धधूमध्वजाराधनानुबन्धे प्रवर्धित प्रवृद्ध प्रज्वलितो योऽसौ धूमध्वजोऽग्निस्तस्याराधने सेवाया अनुबन्ध प्रवृत्तानुवर्तन यत्र स तस्मिन्। पुन कथभूते। समस्तसत्त्वरोमाञ्चक्ञ्चकाचारिणि समस्ताना सत्त्वाना रोमाञ्चकञ्चुक रोमहर्षण आचारयति इत्येवशील स तस्मिन्। देवदिश उत्तरदिश सकाशात् किमर्थ परिसर्पति हैमनो मरुत् इत्याह। उत्प्रेक्षते—मलयमेखलालतानर्तनकुतूहलित इव मलयमेखला मलयाचलतटी तस्या या लता चन्दनशाखास्तासा नर्तन गात्रविक्षेप तस्मिन् कुतूहलित सजातमनोरथ तस्मिन्। इवोत्प्रेक्षायाम्

पुनश्च कस्मिन् सति प्रत्यक्षतार्क्ष्यनामा हैरिको मा प्रति एव व्यजिज्ञपत्। मार्तण्डम ण्डले सूर्यबिम्बे सति। कथभूते मार्तण्डमण्डले। मन्दद्युति भन्दा अतीव्रा द्युत् दीप्तिर्यस्य स मन्दद्युत् तस्मिन्। अल्पतेजसीत्यर्थ। पुन कथभूते। उत्प्रेक्षते—नलिनीवनदैन्यदुखिते इव नलिनीना वन तस्य यत् दैन्य शीतदाहदु ख तेन दुखितो दुख प्राप्तो नलिनीवनदैन्यदु खितस्तस्मिन्। इवशब्द उत्प्रेक्षाद्योतक। केषु सत्सु दिवसेषु। लघुषु हस्वेषु। पुन कथभूते। उत्प्रेक्षते—शीतपातभयसकुचितेष्विव शीतपातात् शीतागमात् यद्भय त्रासस्तस्मात् सकुचिता सकोच प्राप्तास्तेषु। कासु सतीषु। रात्रिषु सतीषु। कथभूतासु रात्रिषु। मदप्रयाणदीर्घासु मन्दप्रयाणेन दीर्घा आयतास्तासु। पुन कथभूतासु। उत्प्रेक्षते—जाड्यजातजडजानुष्विव जाड्येन शीतेन जाते जडे मन्दे जानुनी अष्ठीवन्तौ यासा तासु। पुनश्च कस्मिन् सति। तुषारकिरणे सति। कथभूते। क्षीणतेजसि। अपरं कथभूते। उत्प्रेक्षते—सरत्सुधासारसतर्पितनिलिम्पलोके इव सरन्ती निर्गलन्ती या सुधामृत तस्या आसार समूहस्तेन सतर्पित सम्यक्प्रीणितो निलिम्पलोकोऽमरसमूहो येन स तथा तस्मिन्। पुनश्च कस्मिन् सति। वन्दिवृन्दारकवृन्दे प्रधानस्तुतिपाठकसमूहे इत्येव पठति सति। इतीति किम्। इक्षुल्लासिनीत्यादि। हे कामिनि हे प्रिये, क

भास्वन्मन्दिनि वातवाहिनि हिमासारावसन्नाङ्गिनि
काले कामिनि दीर्घरात्रिघटिनि प्राटेत्कृती कोऽध्वनि॥४३१॥

यै पूर्वं गाढकण्ठग्रहवलितभुजाभोगनिर्भुग्नवक्त्रै
स्त्रीणा पीनस्तनाग्रस्थपुटितहृदयैर्वासगेहे प्रसुप्तम्।
तैरद्य त्वद्द्विषद्भि समरुति शिशिरेऽशायि शैलावकाशे
वक्रग्रावोपधानैरुरसि च निहिताष्ठीवदष्टीलबन्धै॥४३२॥

कृती विद्वान् तृतीये ईदृग्विधे काले शीतकाले अध्वनि मार्गे प्राटेत् प्रगच्छेत्। अपि तु न कश्चित् प्राटेदित्यर्थं। कथभूते काले। इक्षूल्लासिनि इक्षून् उल्लासयति पाचयती त्येवशील स तस्मिन्। पुन कथभूते। सस्यशालिनि सस्यैर्मुद्गमयुष्टयवचणकगो धूमादिभि शालते इत्येवशील स तस्मिन्। ‘शालृ श्लाघायाम्’ इति धातो प्रयोगात्। पुन कथभूते। खरमतिशयेन शेफालिता अतिशीतामुत्फुल्लयतीत्येवशील स तथा तस्मिन्। पुन कथभूते। क्रौञ्चोन्मादिनि क्रौञ्चानुत्क्रोशपक्षिण उभादयति मत्तान्करोतीत्येवशील स तस्मिन्। पुन कथभूते। कुन्दनन्दिनि कुन्दान् माध्यपुष्पविशेषान् नन्दयतीत्येवशील स तस्मिन्। पुन कथभूते। घनाश्लेषाङ्गनापा- दिनि घनाश्लेषा गाढालिङ्गना अङ्गना स्त्रीरापादयति निकारयतीति स तस्मिन्। पुन कथभूते। भाखन्मन्दिनि भाखन्त मन्दयति अतीव्र कारयतीति स तस्मिन्। पुन कथभूते। वातवाहिनि वात वाहयति प्रवर्तयतीत्येवशील स तस्मिन्। पुन कथभूते। हिमासारावसन्नाङ्गिनि हिमासारेण शिशिरसमूहेन अवसन्ना गतिभङ्गसहिता अङ्गिनो यस्मिन् स तस्मिन्। पुन कथभूते। दीर्घरात्रिघटिनि दीर्घा रात्रय त्रिंशद्भटिकाप्रमाणा रात्री रजनी घटयति करोतीत्येवशील स तस्मिन्। समुच्चयाक्षेपालकार॥

यैरित्यादि। हे राजन्, यैस्त्वद्द्विषद्भिर्वासगेहे धवलगेहे चित्रशालाया पूर्वे प्रसुप्त निद्रितम्। कथभूतैस्त्वद्द्विषद्भि। गाढकण्ठग्रहचलितभुजाभोग निर्भुग्नवक्त्रै। स्त्रीणामिति पद गाढादिना च पदेन सबन्धनीयम्। तेनायमर्थ—स्त्रीणा गाढ दृढ यथा योऽसौ कण्ठग्रहो बाहुना श्रीवाग्रहण तस्मिन् वलित कुण्डलीकृतो योऽसौ भुजाभोगो दोर्दण्डमण्डल तेन निर्भुग्न वक्रीकृत व येषा ते तथोक्तास्तै। पुन कथभूतै। स्त्रीणां पीनस्तनाप्रस्थपुटितहृदयै पीनस्तनाग्राभ्यामुन्नतकुचचूचुकाभ्या स्थपुटित निम्नोन्नतीकृत हृदय येषा द्विषता ते तथा तै। तैस्त्वद्द्विषद्भि अद्यास्मिन् शिशिरे शैलावकाशे पर्वतप्रदेशे अशायि शयितम्। कथभूते शैलावकाशे। समरुति शीतवातसहिते। कथभूतैस्वद्द्विषद्भि। वक्रग्रावोपधानै वका विषमा ये ग्रावाण पाषाणास्तेषा उपधाने शीर्षे येषा ते तथा तै। पुन कथभूतै। उरसि निहिताष्ठीवदष्टीलबन्धै उरसि विनिहितौ अष्ठीवतोर्जानुनोरष्टीलबन्धो यैस्ते तथा तै। परिवृत्तिरलकार ॥

यैर्नीता सौधमध्ये घनघुसृणरसालिप्तगात्रै प्रकाम
कान्तावक्षोजकुञ्जार्जनविजयिभुजैर्दीर्घयामास्त्रियामा।
विध्यातासन्नवह्निप्रसरितभसितापाण्डव पिण्डशेषा-
स्ते हेमन्ते नयन्ते तव नृप रिपव शर्वरीं पर्वतेषु॥४३३॥

अपि च।

कुर्वन्त कामिनीनामघरकिसलये सौकुमार्यप्रमाथ
विन्यस्यन्त कपोले सरसनखपदोल्लासभङ्गास्तरङ्गान्।
रोमाञ्चोदञ्चदक्षा स्तनकलशयुगे प्रीणितक्रौञ्चकान्ता
प्रालेयासारसान्द्रीकृतकमलवना हैमना वान्ति वाता॥४३४॥

——————

यैर्नीता इत्यादि। हे नृप, यैस्तव रिपुभि त्रियामा रात्रय सौधमध्ये निवातप्रासा दगर्भे नीता अतिक्रमिता। कथभूतै रिपुभि। घनघुसृणरसालिप्तगात्रै घन प्रचुरो योऽसौ घुसृणरस कश्मीरज मपीतनवद्रवस्तेनालिप्त अङ्ग येषा ते तथा तै। कथम्। प्रकाम यथेष्टम्। अपरं कथभूतैर्यैस्तव रिपुभि। कान्तावक्षोजकुञ्जर्जनविजयिभुजै काताना यौ वक्षोजौ तयो कुजार्जन मध्यप्रदेश स्वीकारस्तेन विजयिनौ जयवन्तौ भुजौ येषा ते तथा तै। कथभूतास्त्रियामा। दीर्घयामा प्रहरा। ते तव रिपवो हेमन्ते शीतकाले पर्वतेषु शर्वरीं रात्रिं नयन्ते निर्गमयन्ति। कथभूतास्ते रिपव। विध्यातासन्नवह्निप्रसरितभ सिता पाण्डव विध्यात क्षीणता नीत आसन्नो निकटतरो योऽसौ वहिरग्निस्तस्य प्रसरित व्याप्त यत् भसित भस्म तेन पाण्डव उज्ज्वलवर्णा। अपरं कथभूता। पिण्डशेषा उर्वरितशरीरा। मासवस्त्रादिरहिता इत्यर्थं। अयमपि परिवृत्तिर्नामालकार ॥

अपि च अस्ति कश्चिद्विशेष। कुर्वन्त इत्यादि। यत्रेतिपद वक्ष्यमाणवृत्तप्रोक्त अत्रापि ग्राह्यम्। तेनायमर्थ—यत्र यस्मिन् काले हैमना हेमन्ते भवा वाता वाति प्रवर्तन्ते। ‘हेमन्तस्यापि णि (?)’ इति तकारलोप। वाता किं कुर्वन्त \। कामिनीना अधरकिसलये सौकुमार्यप्रमाथ कोमलतालोप कार्कश्यजनन कुर्वन्तो विदधत। पुन कथभूता। कामिनीना कपोले तरङ्गान् वलिरेखा विन्यस्यन्त स्थापयन्त। कथभूतान् तरङ्गान्। सरसनखपदोल्लासभङ्गान् सरसानि तत्काल दत्तानि यानि नखपदानि नखक्षतानि तेषा उल्लासेन उल्लसनेन भङ्गो येषा ते तथा तान्। कथभूता वाता। स्त्रीणा स्तनकलशयुगे रोमाञ्चोदञ्चदक्षा रोमाञ्चो रोमहर्षण तस्योदश्च प्रादुर्भावस्तत्र दक्षाश्चतुरा। पुन कथभूता। प्रीणितक्रौञ्चकान्ता प्रीणिता हर्षे प्रापिता कौश्चानामुत्क्रोशपक्षिणा कान्ता यैस्ते तथोक्ता। पुन कथभूता। प्रालेयासारसान्द्रीकृतकमलवना प्रालेय मिहिका तस्यासारेण समूहेन सान्द्रीकृतानि क्लेदीकृतानि कमलवनानि यैस्ते तथोक्ता। रूपकालकार ॥

यत्रैतत्स्वयमेव कामिषु निशि स्त्रीणा घनालिङ्गन
यत्राय स्मरकेलिकामितसमायामस्त्रियामागम \।
यत्रार्द्रार्द्रकफालिभि परिचित सद्य स्रुतोऽसौ रस
प्रीत्यै कस्य न स क्षितीश्वरपते प्रालेयकालोऽधुना॥४३५॥

इति पठति बन्दिवृन्दारकवृन्दे, प्रविश्य प्रौढप्रदोषाया निशि प्रत्यक्षतार्क्ष्यनामा हैरिको मामेव व्यजिज्ञपत्—‘देव, विजयवर्धनसेनापतिविजयेन वर्धसे। पुनश्च

शुण्डालैर्घनघस्मरैर जगवैरिन्द्रायुधस्पर्धिभि
कुन्तै कैतकपत्त्रपद्धतिधरै खड्गैस्तडिड्डुम्बरे।

——————

यत्रैतदित्यादि। हे क्षितीश्वरपते राजाधिराज, स प्रालेयकाल शीतकाल अधुना कस्य पुरुषस्य प्रीत्यै न भवति हर्षाय न स्यात्, अपि तु सर्वस्य स्यात्। स क। यत्र यस्मिन् प्रालेयकाले निशि रात्रौएतत्प्रत्यक्षीभूत स्त्रीणा घनालिङ्गन कामिषु स्वयमेव भवति अयाचित स्यात्। यत्र अय प्रत्यक्षीभूत त्रियामागमो वर्तते। कथभूतस्त्रियामा गम। स्मरकेलिकामितसमायाम स्मरकेलीना कामितसमो वाञ्छितसदृश आयामो दैर्ध्य यस्य स तथोक्त। यत्र असौ प्रत्यक्षीभूत सद्य स्रुत तत्कालगलितो रस इक्षुरसो वर्तते। कथभूतो रस। आर्द्रार्द्रकफालिभि परिचित आई सरस यत् आर्द्रक शृङ्गवेर तस्य फालय खण्डानि आर्द्रार्द्रकफालयस्ताभि परिचित आद्रसरस उपविष्टम्। समुच्च यालकार॥

हे देव, विजयवर्धनसेनापतिविजयेन व वर्धसे। कस्मात्त्व वर्धसे। यस्मात् कारणात् अन्यतरेद्युरेव अन्यतरस्मिन्नेव दिवसे अहनि। ‘पूर्वान्यान्यतरेतराधरोत्तरेभ्य एद्युस्’ इति सूत्रेण एद्युस्प्रत्यय। अध्यह दिवसे न तु रात्रौ सग्रामस्तुमुल अज्ञातात्मपरजन रौद्रस्तत समभवत् सम्यग्बभूव।

** शुण्डालैरित्यादि।** कथभूत सग्राम। पर्जन्यकालक्रिय वर्षाकालसदृश। कै कृत्वा सग्राम समभवत्। शुण्डालैर्गजै। कथभूतै शुण्डालै। घनघस्मरे कालमेघतिरस्कारकारिभि। न केवल शुण्डालै, अजगवैरिन्द्रायुधस्पर्धिभि इन्द्रचापसदृशै। न केवल तै, अपि तु कुन्तैर्भल्लकैस्तोमरायुधै। कथभूतै कुन्तै। कैतकपत्त्रपद्धतिधरै केतक्या इमानि कैतकानि तानि पत्त्राणि तेषा पद्धतिं मार्गमुपधा घरन्तीति ते तथा वै। पुन -

क्षत्रच्छत्रशिलीन्ध्ररुद्धवसुधाबन्ध शरोग्रागम
सग्रामस्तुमुलस्तत समभवत्पर्जन्यकालक्रिय॥४३६॥

यस्मादन्यतरेद्युरेव दिवसे, रक्तचन्दनचितचण्डिकालपनमनोहारिणि सति पूर्वगिरिशिखरशेखरे सूरे, भवत्सु च सर्वसनाहाबहबहलकोलाहलेषु प्रतिबलेषु, सैन्यकमुख्योद्देशेनेश्वरनिर्दिश्यमानाभिधानेषु, वस्तुवस्त्रास्त्रकवचबाहनेषु, तारतर खनत्सु मुखरितनिखिलाशामुखेषु शङ्खेषु, घ्मायमानासु प्रतिशब्दनादितदिगन्तरगिरिगुहामण्डलासु काहलासु, ध्वनत्सु क्षोभिता -

——————

खड्गै । कथभूते। तडिड्डम्बरैस्तडिता इव डम्बर आटोपो येषा ते तथा तै। क्षत्त्रच्छत्त्रशिलीन्ध्ररुद्धवसुधाबन्ध क्षत्रा सामन्तास्तेषा छत्राणि तान्येव शिलीन्ध्राणि चौरच्छ त्त्राणि तै रुद्धो व्याप्तो वसुधाया बन्धो मण्डल यस्मिन् स तथोक्त। अपर कथभूत सग्राम। शरोग्रागम शराणामुत्र आगमों यत्र स तथोक्त। बाणजालवर्ष इत्यर्थं। कस्मिन् सति सग्रामोऽभवदित्याह—सूरे श्रीसूर्ये सति विद्यमाने सति। कथभूते सूरे रक्तचन्दनचितचण्डिकालपनमनोहारिणि रक्तचन्दनेन कुचन्दनेन चित यत् चण्डिकालपन भवानीमुख तद्वत् मनो हरतीति एवशील तस्मिन्। पुन कथभूते सूरे। पूर्वगिरिशिखरशेखरे पूर्वगिरिरुदयाचलस्तस्य शिखर मुत्कण्ठ तस्मिन्। पुनश्च केषु सत्सु सग्राम समभवत्। प्रतिबलेषु भवत्सु सजायमानेषु। कथभूतेषु। सर्वसनाहावहबहलकोलाहलेषु सर्वसनाहावह सर्वेषा प्रहारकारो बहल कोलाहलो येषु प्रतिबलेषु तानि तेषु। पुनश्च केषु सत्सु। सैन्यकमुख्योद्देशेन सैन्यकमुख्यानामुद्देश आदेश नामग्रहणपूर्वक योऽसावादेशस्तेन कृला ईश्वरेण सेना पतिना निर्दिश्यमानानि कथ्यमानानि अभिधानानि सुभटाना नामानि येषु तानि सैन्यकमुख्योद्देशेनेश्वर निर्दिश्यमानानि तेषु ईदृग्विधेषु। पुनश्च केषु सत्सु वस्तुवस्त्रास्त्रकवचवाहनेषु अमुकस्यामुक वस्तु दातव्यम्, अमुकस्य वस्त्र दातव्यम्, अमुकस्य अस्त्राणि दातव्यानि, अमुकस्य कवचानि कूर्पासका दातव्यानि, वाहनानि अश्वादीनि दातव्यानि तेषु। पुनश्च केषु सत्सु। शङ्खेषु वादित्रविशेषेषु। किंकुर्वत्सु शङ्खेषु। तारतरमत्युचैर्यथा भवत्येव खनत्सुशब्द कुर्वाणेषु। पुन कथभूतेषु शङ्खेषु। यथोक्तविशेषणविशिष्टेषु मुखरितनिखिलाशामुखेषु मुखरितानि वाचालीकृतानि निखिलाना पूर्वदक्षिणापरोत्तरदिकोणाकाशपाताललक्षणानामाशाना दिशा मुखानि मण्डलानि वदनानि यैस्ते तथा तेषु। कासु सतीषु। काहलासु धत्तूरपुष्पाकारमुखभेरीषु ध्यायमानासु। कथभूतासु। प्रतिशब्दनादितदिगन्तरगिरिगुहामण्डलासु प्रतिशब्देन प्रविध्वनिना नादितानि प्रस्तानि दिगन्तराणा गिरीणा गुहाना मण्डलानि समूहा याभिस्तास्तासु। पुनश्च केषु सत्सु। दुन्दुभिषु भेरीषु ध्वन-

म्भोनिधिनाभिषु दुन्दुभिषु, शब्दायमानेषु सुरसुन्दरीश्रवणारुष्करेषु पुष्करेषु, महतासु वित्रासितसैन्यसामजचिक्कासु ढक्कासु, वाद्यमानेषु सिद्धवधूबोधप्रघर्षकेषु महानकेषु, सर्जितासु विजृम्भितभुजगभामिनीसरम्भासु भम्भासु, प्रगुणितेषु भयोत्तम्भितामरकरिकर्णतालेषु तालेषु, प्रोचालितासु रणरसोत्साहितसुभटघटासु करटासु, विलसन्तीषु विलम्बलयप्रमोदितकदनदेवतावक्ष स्थलासु त्रिविलासु, प्रवर्तितेषु निरन्तरध्वानप्रवर्तिताहवचरराक्षसीकेषु डमरुकेषु, स्फारितासु प्रदीर्घकूजितजर्जरितवीरलक्ष्मीनिकेतनि-

——————

त्सु। किं कुर्वत्सु दुन्दुभिषु। क्षोभिताम्भोनिविनाभिषु क्षोभिता सचालिता अम्भोनि धीना नाभयो यैर्दुन्दुभिभिस्तेषु। पुनश्च केषु सत्सु। पुष्करेषु मर्दलेषु। कि कुर्वाणेषु पुष्करेषु। सुरसुन्दरीश्रवणारुष्करेषु सुरसुन्दरीणा श्रवणाना अरुष्कराणि व्याध्युत्पा दकानि व्रणकराणि वा तेषु शब्दायमानेषु। पुनश्च कासु सतीषु ढक्कासु ढोल्लवादित्रेषु। कथभूतासु। प्रहतासु कोणाघातैस्ताडितासु। पुन कथभूतासु। वित्रासितसैन्यसामजचिक्कासु वित्रासिता भय प्रापिता सैन्यसामजाना चिक्का कलभा याभिर्ढक्काभिस्तासु। पुनश्च केषु सत्सु। महानकेषु महापटहेषु। किं क्रियमाणेषु। वाद्यमानेषु शब्दान् कार्यमाणेषु। पुन कथभूतासु। सिद्धवधूबोधप्रघर्षकेषु सिद्धवधूना देवविशेषवनिताना बोधस्य चेतनाया प्रघर्षका विनाशकास्ते तथा तेषु। पुनश्च कासु सतीसु। भम्भासु वराङ्गासु शुषिरवादित्रविशेषेषु। रीरीतिनिष्पादिकेषु (कासु) हुदुकाष्वि (स्वि) त्यर्थ। कथभूतासु भम्भासु। सर्जितासु प्रगुणितासु। पुन कथभूतासु। विजृम्भितभुजगभामि

नीसरम्भासु विजृम्भितो भुजगभामिनीना पातालकन्याना सरम्भ क्रोधो याभि स्तासु। अपरं केषु सत्सु। तालेषु वशवादित्रेषु। कथभूतेषु। प्रगुणितेषु सर्जितेषु। पुन कथभूतेषु। भयोत्तम्भितामरकरिकर्णेतालेषु भयेन उत्तम्भिता टहरिता अमरकरिभिर्देवगजै कर्णताला श्रवणतालपत्राणि यैस्ते तेषु। पुनश्च कासु सतीषु। करटासु वादित्र विशेषेषु। कथभूतासु। प्रोत्तालितासु प्रचुरशब्दासु। अपर कथभूतासु। रणरसोत्साहित सुभटघटासु रणरसेन उत्साहिता उद्यम प्रापिता सुभटघटा रचना याभिस्तास्तासु। पुनश्च कासु सतीषु। त्रिविलासु राजकिटकिटीषु अवनद्धवादित्रेषु। कि कुर्वतीषु त्रिवि लासु। विलसन्तीषु उल्लसन्तीषु। पुन कथभूतासु। विलम्बलयप्रमोदितकदनदेवतावक्ष स्थलासु विलम्बलयेन द्रुतमध्येतरशब्देन साम्येन प्रमोदितानि हर्षे प्रापितानि कदनदेव ताना सग्रामदेवताना वक्ष स्थलानि याभिस्तास्तासु। पुनश्च केषु सत्सु। डमरुकेषु ढक्कावादित्रेषु। कथभूतेषु। प्रवर्तितेषु विजृम्भितेषु। कथभूतेषु डमरुकेषु। निरन्तरध्वानप्रवर्तिताहवचरराक्षसीकेषु निरन्तरध्वानै प्रवर्तिता अवतारिता आहवचरराक्षस्य सग्रामवर्तिरक्षोभार्या यैस्ते तथा तेषु। पुनश्च कासु सतीषु। रुञ्जासु वादित्रविशेषेषु।

कुञ्जसु रुञ्जासु, जयन्तीषु विद्विष्टकटकचेष्टितलुण्टासु जयघण्टासु, गायत्सु वेणुवीणाझल्लरीध्वनिसमानतानेषु गायनेषु, उदाहरत्सु मन्त्राशीर्वादनिपुणोच्चारणेषु ब्राह्मणेषु, पठत्सु समरोत्सुकवीरपुरुषहृदयानन्दिषु बन्दिषु, त्वरमाणेषु सपादितदधिदूर्वाचन्दनेषु नृपतिनन्दनेषु, प्रचलत्सु बुद्वुदार्धचन्द्रादर्शनिबिडगुडोड्डम-रडामरितभुवनाभोगेषु नागेषु, प्रधावमानेषु प्रवेगखुरखरमुखारब्धमेदिनीवादनविराजिषु वाजिषु, सचरत्सु चक्रधाराभरा-

——————

कथभूतासु। स्फारितासु प्रचुरीकृतासु। पुन कथभूतासु। प्रदीर्घकूजितजर्जरितवी रलक्ष्मीनिकेतनिकुञ्जासु प्रदीघकूजितैरायतशब्दै जर्जरितानि बधरीकृतानि वीरलक्ष्मी ना निकेतनिकुञ्जानि गृहमध्यप्रदेशा याभि रुञ्जाभिस्तासु। पुनश्च कासु सतीषु। जयघण्टासु स्थालिकासु कसपात्रीषु। कथभूतासु। जयन्तीषु जय कुर्वतीषु। पुन कथभूतासु। विद्विष्टकटकचेष्टितण्टासु। विद्विष्टस्य शत्रो प्रस्तावादचलस्य यत् कटक सैन्य तस्य चेष्टित प्रवर्तन तलुटन्ति लोपयन्ति तास्तासु। पुनश्च केषु सत्सु। गायनेषु

गन्धर्वेषु सत्सु। कि कुर्वत्सु गायनेषु। गान कुर्वत्सु। सग्राम समभवत् इति क्रियासबन्ध। कथभूतेषु गायनेषु। वेणुवीणाझल्लरीध्वनिसमानतानेषु वेणवश्च वशवीणाश्च वल्लका झल्लर्यश्च राजगृहधृतनालिकापरिज्ञानार्थ घटिकादिवादित्राणि तासा ध्वनीना समानस्तानो गानविशेषो येषु ते तथा तेषु। पुनश्च केषु सत्सु। ब्राह्मणेषु सत्सु। कि कुर्वत्सु। उदाहरत्सु पठत्सु। पुन कथभूतेषु। मन्त्राशीर्वादनिपुणोच्चारणेषु मन्त्रस्य वेदस्य ये आशीर्वादास्तेषा निपुणोश्चारण उदात्तानुदात्तस्वरितस्वरपूर्वकपठन येषु ते तथा तेषु। पुनश्च केषु सत्सु। बन्दिषु वाग्जीवेषु भट्टेषु। कि कुर्वत्सु बदिषु। पठत्सु षट्पदादिपाठानुच्चारयत्सु। कथभूतेषु। समरोत्सुकवीरपुरुषहृदयानन्दिषु सह मरेण वर्तत इति समर सग्रामस्तत्रोत्सुका उत्ताला ये वीरपुरुषा सुभटमानवास्तेषा हृदयानि चित्तानि आनन्दय तीत्येवशीलास्तेषु। पुनश्च केषु सत्सु। नृपतिनन्दनेषु सत्सु। किं कुर्वाणेषु। त्वरमाणेषु। पुन कथभूतेषु। सपादितदधिर्वाचन्दनेषु सपादितानि तिलकीकृतानि दधिदूर्वाचन्दनानि येषा ते तथा तेषु। पुनश्च केषु सत्सु। नागेषु सत्सु। कि कुर्वत्सु नागेषु। प्रचलत्सु चपलगतिं कुर्वत्सु। पुन कथभूतेषु। बुद्बुदार्धचन्द्रादर्शनिबिडगुडोड्डमरडामरितभुवनाभोगेषु बुद्बुदाश्च सुवर्णादिमयजलस्फोटका अर्धचन्द्राश्च सुवर्णादिघटिता अष्टमीचन्द्रा आदर्शाश्च दर्पणास्तैर्निबिडा जटिता गुडा गजप्रक्षरास्तेषा मुड्डमरेणोल्बणभयेन डामरितो भय प्रापितो भुवनाभोगो जगद्विस्तारो यैस्ते तथा तेषु। पुनश्च केषु सत्सु। वाजिषु सत्सु। कि कुर्वाणेषु वाजिषु। प्रधावमानेषु शीघ्रगतिं कुर्वाणेषु। पुन कथभूतेषु। प्रवेगखुरखरमुखारब्धमेदिनीवादनवि राजिषु प्रवेगेण उत्सुकतया प्रमुक्ता ये खुरा शफास्तेषा खराणि कर्कशानि यानि मुखानि अग्राणि लोहकण्टकसदृशानि तैरारब्ध मण्डित मेदिन्या पृथिव्या यद्वादन वादित्र तेन विराजन्ते इत्येवशीलास्तथा तेषु। पुनश्च केषु सत्सु। स्यन्दनेषु रथेषु। कि

भुग्नभोगिवदनेषु स्यन्दनेषु, प्रसर्पत्सु सग्रामानुरागनिर्भरक्रमाक्रान्तिषु पदातिषु, हर्षमानेषु चापलाल नोत्सारितसुरविमानसबाघेषु योघेषु, सनिदधानासु तुमुलकोलाहलालोकनोन्मत्तगतिषु नभश्चरसमितिषु, आसीदत्सु गगनगतिवेगश्रमश्वासस्फुरिताधरेषु विद्याधरेषु, नटति कृतकलहदोहदाह्रादनादे नारदे, सजायमाने नवीनवरवरणोत्कण्ठितमनसि देवदारिकासदसि, समुच्छलति विधूसरितामरीकुन्तलाभोगे परागे,

——————

कुर्वत्सु स्यन्दनेषु। सचरत्सु प्रवेश कुर्वत्सु। पुन कथभूतेषु। चक्रधाराभराभुग्नभोगिवदनेषु चक्राणा धारा अप्राणि तासा भरा भारास्तैराभुग्नानि कुटिलीकृतानि भोगिनो शेषनागस्य वदनानि सहस्रमुखानि यैस्ते तथा तेषु। पुनश्च केषु सत्सु। पदातिषु सत्सु। किं कुर्वत्सु पदातिषु। प्रसर्पत्सु प्रधावत्सु। पुन कथभूतेषु। सप्रामानुरागनिर्भरक्रमाक्रान्तिषु सग्रामानुरागेण समरप्रीत्या निर्भर गाढ क्रमाणामाक्रान्तयो व्याप्तयो येषा ते तथा तेषु। पुनश्च केषु सत्सु योधेषु सत्सु। कि कुर्वाणेषु। हर्षमानेषु। कथभूतेषु। चापलालनोत्सारितसुरवि मानसबाधेषु चापाना लालनेन मार्जनेनोत्सारिता दूरीकृता सुरविमानाना कौतुकागतदेवव्योमयानाना सबाधा सकीर्णता यैस्ते तेषु।पुनश्च कासु सतीषु। नभश्वरसमितिषु देवसमूहेषु। किं कुर्वत्सु। सनिदधानासु समीपतरं ढौकमानासु। पुन कथभूतेषु। तुमुल कोलाहलालोकनोन्मत्तगतिषु तुमुल अज्ञातात्मपरजनो योऽसौ कोलाहलस्तेनालोकनेन निरीक्षणेनोन्मत्ता प्रमादवती गतिर्यासा तास्तथा तासु। पुनश्च केषु सत्सु। विद्याधरेषु। कि कुर्वत्सु। आसीदत्सु आसनीभवत्सु। कथभूतेषु। गगनगतिवेगश्रमश्वास स्फुरिताधरेषु गगनगतिवेगेन गगने गमनोत्सुकतया श्रमश्वास खेदोच्छ्वासस्तेन स्फुरिता कम्पिता अधरा येषा ते तथा तेषु। पुनश्च कस्मिन् सति। नारदे कलहप्रिये सति। कि कुर्वति सति नारदे। नटति हर्षेण नर्तन कुर्वति सति। पुन कथभूते नारदे। कृतकलहदोहदाह्राद नादे कृतो विहित कलहदोहदेन युद्धमनोरथेन आह्लादनाद आनन्दशब्दो येन स तथा तस्मिन्। तथा चोकम्—‘कलहप्पिया कदाचिय धम्मरया वासुदेवसमकाला। भब्बा वियणि रयगई हिंसादोसेण गच्छन्ति॥’ ननु तत्र मुनिव्रततीर्थे विष्णोरसभवात् कुतो नारद आगत इत्याह—सत्य कुतश्चिद्विहायागतो भविष्यति। पुनश्च कस्मिन् सति। देवदारिकासदसि दिव्यवेश्यासमूहे। कि कुवाणे देवदारिकासदसि। सजायमाने उत्पद्यमाने सति। कथभूते। नवीनवरवरणोत्कण्ठितमनसि नवीनाना वराणा वरणे स्वीकारे उत्कण्ठितानि सुमनोरथानि मनासि यस्मिन् तत्तथा तस्मिन्। पुनश्च कस्मिन् सति। परागे धूल्याम्। कि कुर्वति परागे। समुच्छलति। कथभूते परागे। विधूसरितामरीकुन्त लाभोगे विशेषेण धूसरिता ईषत्पाण्डुरीकृता अमरीणा कुन्तलाना आभोगा परिपूर्णता येन परागेण स तथा तस्मिन्॥

क्रोधावेशप्रधावोद्भटसुभटघटाविर्भवन्मूलबन्ध-
स्तूर्णत्वङ्गत्तुरङ्गाननपवनवशावेशविस्तारसार।
आसीदत्स्यन्दनाग्रध्वजनिभृतभर पर्यटत्कुञ्जरेन्द्र-
स्फारव्यापारकर्णाहतिविततशिख पासुरूर्ध्वं व्यधावीत्॥४३७॥

तिरस्कृत्यैवैतद्भुवनमखिल जातरभस
कथ स्वर्गस्त्रीणाम्मलिनितमुख पांसुरभवत्।
इति प्राप्तामर्षैसुभटहृदयावाप्तजननै
स मूलोच्छिन्नोऽभूत्तदनु रुधिरै रागिरुचिभि॥४३८॥

यत्र च।

आकृष्टोन्मुक्तमौर्वीव्यतिकरविनमद्व्यस्यदिष्वासनिर्य-
ट्टकारस्फारसारत्रसदवशसुरश्रेणिशीर्णप्रचार।

——————

क्रोधावेशेत्यादि। हे राजन्, पासुरूर्ध्वं गगने व्यधावीत् उच्छलित। कथभूत पासु। क्रोधावेशप्रधावोद्भटसुभटघटाविर्भवन्मूलबन्ध क्रोधावेशेन कोपसक्रमणेन प्रधावोद्भटा शीघ्रगतिमहाडम्बरा ये सुभटास्तेषां घटाभ्यो घटनाभ्य आविर्भवन् प्रकटीभवन् मूलबन्ध प्रथमोत्थान यस्य पासो स तथोक्त। पुन कथभूत। तूर्णंत्वङ्गत्तुरङ्गाननपवनवशावेशविस्तारसार तूर्ण शीघ्र त्वङ्गन्तश्चलन्तो ये तुरङ्गास्तेषामाननाना पवनवशावेशेन उच्छ्वासवातेन विस्तारसार। अपर कथभूत। आसीदत्स्यन्दनाग्रध्वजनिभृतभर आसीदन्त आगच्छन्तो ये स्यन्दनाप्रध्वजा रथोपरिबद्धपताकास्तैर्निभृतो निश्चल प्रेरितुमशक्यो भर समूहो यस्य पासो स तथोक्त। पुन कथभूत। पर्यटत्कुञ्जरेन्द्रस्फारव्यापारकर्णाहतिविततशिख पर्यटन्तो गच्छन्तो ये कुञ्जरेन्द्रा गजनाथास्तेषा स्फारव्यापारा प्रचुरप्रवृत्तिर्या कर्णाहति श्रवणताडन तया वितता विस्तीर्णा शिखा अप्राणि यस्य पासो स तथोक्त।अर्थव्यक्तिरय गुण॥

तिरस्कृत्यैवैतदित्यादि। हे राजन्, तदनु तदनन्तर स पांसु रुधिरै कृत्वा मूलोच्छिन्नोऽभूत् मूलादपि छेदितो बभूव। कथभूतै रुधिरै। रागिरुचिभि। पुन कथभूतै। इत्येतस्मात् कारणात् प्राप्तामर्षैप्राप्तक्रोधै। कथभूतै। सुभटहृदयावाप्त जननै सुभटाना हृदयेभ्योऽवाप्त प्राप्त जनन जन्म यैस्तानि तै। इतीति किम्। पासु स्वर्गस्त्रीणा कथ मलिनितमुखोऽभवद्बभूव। किं कृत्वा। पूर्वं एतदखिल भवन मृत्युलोक तिरस्कृत्यैव। अध कृत्वैव। ‘एवे चानियोगे’ इति वचनात् न पूर्वलोप। कथभूत पासु। जातरभस। सजातवेग। हेतुरयमलकार॥

यत्र च यस्मिन् संग्रामे।आकृष्टेत्यादि। अय प्रत्यक्षीभूत पातङ्गस्यन्दन खे आ-

योधैर्युद्धप्रबन्धादनवरतशरासारशीर्यत्तुरङ्ग
पातङ्गस्यन्दनोऽय द्रवदरुणमद खे सखेद प्रयाति॥४३९॥

चक्रोत्कृत्तकठोरकण्ठविगलत्कीलालधारोद्धुर-
स्कन्धाबद्धसिराकरालकरणै रुण्डैर्भवत्ताण्डौ।
युद्धस्पर्धविवृद्धबुद्धिविधृतव्यापारघोरादरै-
स्तद्देव द्विषता मुहु पुनरभूत्सैन्य सदैन्य तव॥४४०॥

अपि च यत्र

सद्यश्छिन्नविकीर्णलग्नगरणप्रोत्तालमुक्तस्वर-
प्रत्यारब्धनियुद्धरुण्डरभसैर्जाताप्सर सगमै।

——————

काशे सखेद प्रयाति। कथभूत स्यन्दन। आकृष्टोन्मुक्तमौर्वीव्यतिक्रविनमध्यस्यदिष्वास निर्यट्टकारस्फारसारत्रसदवशसुरश्रेणिशीर्णप्रचार आकृष्टा कर्णान्तमानीता सा चासौ उन्मुक्ता ऊध्वमुक्ता सा चासौ मौर्वी प्रत्यञ्चा तस्या व्यतिकरेण प्रघट्टकेन विनमन्नम्नीभवन् व्यस्यन् बाणान् मुञ्चन् स चासौ इष्वासो धनुस्तस्मान्निर्यन्तो निर्गच्छन्तो ये टकारा शब्दास्तेषा स्फार प्रचुरतरो योऽसौ सारो बल तस्मात्त्रसन्त्यो बिभ्यत्योऽवशा परवशा ये सुराणा श्रेणय समूहास्तै शीर्णो मन्दीकृतो भग्नो वा प्रचारो व्यापारो यस्य स्यन्दनस्य स तथोक्त। पुन कथभूत स्यन्दन। योधै सुभटैर्युद्धप्रबन्धात्सग्राम प्रबन्धात् अनवरतशरासारशीर्यत्तुरङ्ग अनवरतै शरासा रैर्बाणवृष्टिभि शीर्यन्त शतखण्डीभवन्तस्तुरङ्गा यस्य स तथा। पुन कथभूत। द्रवदरुणमद द्रवन् नश्यन् अरुणस्य सूर्यस्य सारथे मदोऽहकारों यत्र स तथोक्त। गौडीया रीति। अतिशयालकार॥

चक्रोत्कृत्तेत्यादि। हे देव हे राजन्, तत्र भवतो द्विषता शत्रूणा तत्सैन्य तद्बल मुहुर्वारवार सदैन्यमकिचित्कर पुनरभूत् पुनरपि सजातम्। कै कृत्वासदैन्यमभूत्। रुण्डैकबन्धै। कथभूतै रुण्डै। चक्रेोत्कृत्तकठोरकण्ठविगलत्कीलालधारोद्धुरस्कन्धाबद्धसिराकरालकरणै चक्रैर्लोहभ्रमिलै उत्कृत्ताश्छिना कठोरा कर्कशा ये कण्ठा गला तेभ्यो विगलन्ति निर्गलन्ति यानि कीलालानि तेषा धाराभि प्रवाहै उद्धरा उत्कटा ये स्कन्धा ग्रीवाप्रदेशास्तत्र आबद्धा स्थिता या सिरा असुग्धारानाडिकास्ताभि करालानि करणानि अङ्गहारा येषा रुण्डाना तानि तथोक्तानि तै। पुन कथ भूतै रुण्डै। भवत्ताण्डवै सजायमाननर्तनै। पुन कथभूतै। युद्धस्पर्धविवृद्धबुद्धिविधृतव्यापारघोरादरै युद्धस्य य स्पर्ध क्रोधस्तेन विवृद्धा या बुद्धिस्तस्या विधृत आरोपितो योऽसौ व्यापारो नियोगस्तेन घोरो रौद्र आदर एकाग्रता येषा रुण्डाना तानि तै। अत्र रौद्रोऽय रस। गौडीया रीति। जातिरलकार॥

अपि च तथा च। यत्र इत्यय शब्दोऽव्यये वर्तते। तेनायमर्थं—यत्र यस्मिन्

भर्तु कार्यविधायिधैर्यधृतिभिधीरै रणप्राङ्गणे
स्वर्गेच त्रिदशस्तुतिव्यतिकराद्रोमाञ्चितै स्थीयते॥४४१॥

तत्र द्विपुष्करकरनालासरालवेतालकुलनिपीयमानशोणितासवे महाहवे देव, स्वयमेव विजयवर्धन सेनापतिना स्खलितबलोऽचल कृतमृगायितमतिर्विहितरणरङ्गापसृतिर्विघटितविद्विष्टकरटिघ टैर्भवदनीकसुभटैर्धृत समानीतश्च स्वकीयसैन्यजन्यजयाकर्णनोदञ्चद्रोमाञ्चस्फुटद्वीरवधूहस्तकटक टकम्।विजयकटकम्

——————

रणप्राङ्गणे धीरै सुभटै स्थीयते निश्चलीभूयते। कथभूतै वीरै। सद्यरिछन्नविकीर्णल ग्नगरणप्रोत्तालमुक्तखरप्रत्यारब्ध नियुद्धरुण्डरभसै सद्यस्तत्काल छिन्ना द्विधाकृता वि कीर्णा यत्र तत्र पतिता लग्ना रुधिरतया पुनरपि मिलिता ये गरणा गलनालानि तै प्रोत्ताला उत्सुका मुक्ता कृता ये स्वरा शब्दास्तै सह प्रत्यारब्धानि पुनरपि मण्डि तानि नियुद्धानि वा बाहुरणास्तैरुपलक्षितानि यानि रुण्डानि कबन्धानि। उक्त च—‘कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्’। तेषा रभसो वेगो येषु धीरेषु ते तथा तै अपरं कथभूतैधीरै। जाताप्सर सगमै जात उत्पन्नोऽप्सरोभि सगमो येषा ते तथा तै। पुन कथभूतै। भर्तु कार्यविधायिधैर्यधृतिभि भर्तु स्वामिन कार्यविधायिनी कर्तव्यकारिणी धैर्यधृतिर्धीरत्वसतोषो येषा ते तथा तै। पुन कथभूतै। रोमाञ्चितै ऊर्ध्वोभूतरोमकै। कस्मात्। त्रिदशस्तुतिव्यतिकरात् देवाना स्तवप्रघट्टकात्। कस्मिन् रोमाञ्चिते। स्वर्गे च स्वर्गलोके। चकारात् इह सग्रामकाले पूर्ववत्। रौद्ररसप्रधाना गौडीया रीति। समुच्चयालकार॥

हे देव हे राजन्, असावचलस्तत्र महाहवे विजयवर्धनसेनापतिना तव सेनान्या स्वयमेव स्खलितबलो भग्नसामर्थ्यं कृतमृगायितमति पलायितुमना सन् विहितरणरङ्गापसृतिश्च सन् कृतसग्रामघट्टनविघट्टन सन् भवदनीकसुभटै तव सेनासुभटैर्धृतो बद्ध। न केवल धृत, विजयकटक तव सता समानीतश्च। कथभूते तत्र महाहवे। द्विपुष्करकरनालासरालवेतालकुलनिपीय मानशोणितासवे द्विपुष्करा सग्राममृतहस्तिनस्तेषा करनालैशुण्डादण्डनालैरसरालवेतालकुलै दीर्घमृतकशरीराविष्टव्यन्तरवि शेषसमूहै निपीयमान शोणितासवो यत्र स तथा तस्मिन्। कथभूतैर्भवदनीकसुभटैविघटित विद्विष्टकरटिघटै विघटिता पलायन कारिता विद्विष्टाना करटिघटा यैस्ते तथा तै। कथभूत तव कटकम्। स्वकीयसैन्यजन्यजयाकर्णनोदञ्चद्रोमाञ्चस्फुटद्वीरवधूहस्तकटक स्वकीयस्य सैन्यजन्यजय सग्रामोत्थजयस्तस्याकर्णनेन उदञ्चत् उल्लसन् योऽसौ रोमाञ्चस्तेन स्फुटन्ति शतखण्डीभवन्ति वीरवधूना हस्ताना कटका वलयानि यस्मिन् विजयकटके तत्तथोक्तम्॥

कदाचित्कामिनीना मदिरामोदमेदुरमुखमरुत्सवादिसौरभासु विदलन्तीषु बकुलकलिकासु, दशनच्छदोद्देशदशप्रकाशपेशलासु विकसन्तीषु कङ्केल्लिवल्लरीषु, सुरतश्रमसजात जलजालकलिपिषु विलसन्तीषु माकन्दमअरीषु, दीर्घापाङ्गभङ्गिसुभगेषु स्फुटत्सु मल्लिकामुकुलेषु, कलगलालप्तिलीलेषु समुच्छलत्सु पिकपाककुल कोलाहलेषु, चिकुररुचिरुचिरचञ्चरीकचरणचापलचलितविकचविचकिलगलन्मकरन्दस्यन्दसार्द्रासु भवन्तीषु वनवसुघासु, विकटकुचाभोगशोभारम्भिषु विराजत्सु माधवी कुसुमस्तबकेषु, कपोलकान्तिमाधुर्यस्पर्धिषु प्रबोधत्सु मधूकपुष्पेषु, मृगमदरसच्छुरितैकदे-

——————

कदाचित् कस्मिंश्चिदवसरे मधौ वसन्ते ऋतौ मकरध्वज कन्दर्प आराधयामास आराधितवानहम्। कासु सतीषु। बकुलकलिकासु बकुलतरुमुकुलेषु सत्सु। कथभूतासु। मदिरामोदमेदुरमुखमरुत्सवादि सौरभासु किं कुर्व तीषु। विदलतीषु विकसन्तीषु। पुन कासु सतीषु। कङ्केलिवल्लरीषु अशोकतरुमञ्जरीषु सतीषु। कथभूतासु। दशनच्छदोद्देशदशप्रकाशपेशलासु दन्तच्छदस्योद्देश प्रदेशस्तत्र योऽसौ दशो दतच्छदस्तद्वत् प्रकाश शोभा तेन पेशला मनोहरास्तासु। कि कुर्वन्तीषु। विकसन्तीषु स्फुटन्तीषु। पुन कासु सतीषु। माकन्दमञ्जरीषु आम्रवल्लरीषु सतीषु। कथभूतासु। सुरतश्रमसजातजलजालकलिपिषु सुरतश्रमेण सजात यज्जलजालक स्वेदवृन्द तद्वल्लिपिरवयवो यासा तास्तासु। किं कुर्वन्तीषु। विलसन्तीषु उल्लसन्तीषु। पुन केषु सत्सु। मल्लिकामुकुलेषु नलिकवेलिकुड्मलेषु सत्सु। कथभूतेषु। दीघापाङ्गभङ्गिसुभगेषु दीघा आयता ये अपाङ्गा लोचनप्रान्तास्तषा भङ्गी रचना तथा सुभगानि तेषु। किं कुर्वत्सु। स्फुटत्सु विकसत्सु। पुनश्च केषु सत्सु। पिकपाककुलकोलाहलेषु पिकपाका पुस्कोकिलास्तेषा कुलानि तेषा कोलाहलास्ते तथा तेषु सत्सु। कथभूतेषु। कलगलालप्तिलीलेषु कला मधुरा या गलालप्तय कण्ठकूजितानि तासा लीला शोभा येषु किं कुर्वत्सु। समुच्छलत्सु उत्पद्यमानेषु। पुनश्च कासु सतीषु। वनवसुधासु सतीषु। कथभूतासु। चिकुररुचिरुचिरचञ्चरीकचरणचापलचलितविकचविचकिलगलन्मकरन्दस्यन्दसार्द्रासुचिकुरा केशास्तेषा रुचि दीप्तिस्तद्वत् रुचिरा मनोहरा ये चञ्चरीका भ्रमरास्तेषा चरणाना यच्चापल तेन चलितानि विकचानि विकसितानि विचकिलानि मुक्तबन्धपुष्पाणि तेभ्यो गलन् निर्गलन् योऽसौ मकरन्दस्तस्य स्यन्देन स्रवणेन साद्री सरसास्तासु। के कुर्वतीषु। भवन्तीषु सजायमानासु। पुनश्च केषु सत्सु \। माधवीकुसुमस्तबकेषु वसतवल्लीपुष्पगुच्छेषु सत्सु। उक्त च—‘माधवी मधुशर्करा। वासती कुट्टनी हला’। कथभूतेषु। विकटकुचाभोगशोभारम्भिषु विकटा उद्घटिता ये कुचाभोगास्तेषा शोभामारम्भन्ते इत्येवशीलास्तेषु। कि कुर्वत्सु। विराजत्सु शोभमानेषु। पुनश्च केषु सत्सु। मधूकपुष्पेषु बन्धुजीवकुसुमेषु सत्सु। कथभूतेषु। कपोलकान्तिमाधुर्यस्पर्धिषु क-

शार्धचन्द्राभिनयनवनखनिवेशप्रश्रयेषु चकासत्सु पलाशप्रसवकुड्भलेषु, घनघुसृणरसारुणितनाभिकुहरकान्तिष्वव-तरत्सु कर्णिकारप्रसूनेषु, विभ्रमोद्भटभ्रुप्रभावनिर्भरेण धनुषा सनह्यति वशीकृतजगत्त्रये कुसुमचापे, मलयोपशल्यवल्लीपल्लवोल्लासिनि माल्यवल्लतालतान्तामोदमासले किष्किन्धस्कन्धसबन्धसिन्धुरोद्धुरकरप्र-चारस्खलितरहसि दर्दुरदरीसर सरोजमकरन्दमधुस्वादमन्दसचारे कावेरीसरित्तरङ्गसीकरासारहारिणि केरलाङ्गनालकनृत्ता-

——————

पोलाना कान्तयस्तासा माधुर्य मनोहरत्व स्पर्धन्ते तिरस्कुर्वन्तीत्येवशीलानि तानि तेषु। कि कुर्वत्सु। प्रबोधत्सु विकसत्सु। पुनश्च केषु सत्सु। पलाशप्रसवकुङ्गलेषु पलाशाना किंशुकाना प्रसवा पुष्पाणि तेषा कुड्मलानि तेषु सत्सु। कथभूतेषु। मृगमदरसच्छुरितैकदेशार्थचन्द्राभिनयनवनखनिवेशप्रश्रयेषु मृगमदरस कस्तूरिकाद्रवस्तेन छुरित कर्बुरित एकदेश एकपाशो यस्य अर्धचन्द्रस्य तस्य अभिनयो व्यञ्जकत्व तेषा नवनखनिवेशाना प्रत्यग्रकामाङ्कुशक्षताना प्रश्रय सादृश्य येषा तानि तथोक्तानि तेषु। कि कुर्वत्सु। चकासत्सु शोभमानेषु। पुनश्च केषु सत्सु। कर्णिकारप्रसूनेषु द्रुमोत्पलपुष्पेषु सत्सु। कथभूतेषु। घनघुसृणरसारुणितनाभिकुहर कान्तिषु घन प्रचुर स चासौ घुसृणरसस्तेन अरुणितमव्यक्तरागीकृत यत् नाभिकुहरं तस्य कान्ति सादृश्य येषा तानि तथा तेषु किं कुर्वत्सु। अवतरत्सु प्रादुर्भवत्सु। पुनश्च कस्मिन् सति। कुसुमचापे धनुषा सनह्यति सति। कथभूते कुसुमचापे। वशीकृतजगत्रये आत्माधीनविहितत्रैलोक्ये। कथभूतेन धनुषा। विभ्रमोद्भटभ्रूप्रभावनिर्भरेण विभ्रमेण अपाङ्गनतनेन उद्भटा उन्नता या भ्रूस्तस्या प्रभावेण निर्भर गाढ सदृशमित्यर्थस्तेन तथोक्तेन। पुनश्च कस्मिन् सति। समीरे सति। कथभूते समीरे। मलयोपशल्यवल्लीपल्लवोल्लासिनि मलय श्चन्दनाचलस्तस्य उपशल्ये समीपे या वल्लयस्तासा पल्लवास्तान् उल्लास्यतीत्येवशील स तथा तस्मिन्। पुन कथभूते समीरे। माल्यवल्लतालतान्तामोदमासले माल्यवान् दक्षिणदिक्पर्वतस्तस्य लतास्तासा लतान्तानि पुष्पाणि तेषामामोदस्तेन मासल परि पुष्टस्तस्मिन्। पुन कथभूते। किष्किन्धस्कन्धसबन्ध सिन्धुरोद्धुरकरप्रचारस्खलितरं हसि किष्किन्ध सुग्रीवपर्वतस्तस्य स्कन्धा मूलास्तेषा सबन्धयो वृक्षप्रकाण्डास्तै सह सबन्ध आश्रयो येषा ते तथोक्तास्ते च ते सिन्धुरास्तेषामुद्धरा ये करास्तेषा प्रचारेण चेष्टया स्खलितमवष्टब्ध रहो यस्य स तथोक्तस्तस्मिन्। पुन क्थभूते। दर्दुरदरीसर सरोजमकरन्दमधुस्वादमन्दसचारे दर्दुरो नाम दक्षिणदिग्वर्ती मण्डूकपर्वतस्तस्य दरीषु गुहासु यानि सरासि तेषु यानि सरोजानि तेषा मकरन्दमधूना पुष्परसमधूना स्वादस्तेन मन्द सचारो यस्य स तथा तस्मिन्। पुन कथभूते। कावेरीसरित्तरङ्गसीकरासारहारिणि कावेरी नाम दक्षिणदिग्वर्तिनी सरित् नदी तस्यास्तरङ्गास्तेषा सीक रासार जलकणसमूह हरतीत्येवशील स तथा तस्मिन्। पुन कथभूते। केरलाङ्गनाल-

चरणचतुरे परिसरति भागीरथीपथिक इव दक्षिणास्या दिश समीरे,किंनरीगणगीतोन्मादितकुरङ्गेषु कुलशैलमेखलोत्सङ्गेषु,रतिरसोत्कण्ठाजरठचाटुकाराभ्यासिनीषु चारणावासविलासिनीषु, प्रियतमप्रसादनोपदेशविनोददोहदोत्सुकासु गन्धर्वनगराभिसारिकासु, सहचरीचरणचर्चोपचारप्रणयिनि विद्याधरपुरलोके, पौलोमीकपोलफलकोचितचित्रचातुर्येण विनोदयत्यैरावणमद पुरदरे, लक्ष्मीकुचकुम्भशोभारम्भेण सभावयति वनमाला-

——————

क्नृत्ताचरणचतुरे केरलो नाम दक्षिणदिग्वर्ती विषयविशेषस्तस्य अङ्गनास्तासा अलकास्तेषा नृत्ताचरण नर्तनविधान तत्र चतुर स तथा तस्मिन्। समीरे कि कुर्वति। दक्षिणस्या दिशो दक्षिणाया ककुभ सकाशात् परिसरति आगच्छति सति। पुन कथभूते। उत्प्रेक्षते—भागीरथीपथिक इव गङ्गातीर्थयात्रिको यथा। पुनश्च केषु सत्सु। फुलशैलमेखलोत्सङ्गेषु कुलशैलाना हिमवदादीना मेखलाना कटिनीनामुत्सङ्गेषु उपर्यङ्कभूमिषु। कथभूतेषु। किनरीगणगीतोन्मादितकुरङ्गेषु किनरीणा गणास्तेषा गीतानि तैरुन्मादिता हर्ष प्रापिता कुरङ्गा येषु ते तथा तेषु। पुनश्च कासु सतीषु। चारणा-वासविलासिनीषु चारणाना वाग्जीवनाना आवासास्तेषा विलासिनीषु। कथभूतासु। रतिरसोत्कण्ठाजरठचाटुकाराभ्यासिनीषु रतिरसस्योत्कण्ठा वाञ्छा तया जरठा कर्कशा ये चाटुकारा मिथ्यास्तुतयस्तेषामभ्यास पुन पुनरनुशीलन वर्तते यासा तास्तथा तासु। पुनश्च कासु सती। गन्धर्वनगराभिसारिकासु गन्धर्वा कलवाचो गायकास्तेषा नगराणा अभिसारिका वल्लभजन प्रति प्रस्थिता स्त्रियस्तासु। उक्त च—‘या दूतिकागमनकालमपारयन्ती सोढु स्मरज्वरभयार्तिपिपासितेव। निर्याति वल्लभ जनाधरपानलोभात्सा कथ्यते कविवरैरभिसारिकेति॥ कथभूतासु। प्रियतमप्रसादनो पदेशविनोददोहदोत्सुकासु प्रियतमस्य प्रसादनस्य उपदेश शिक्षा तस्य विनोददोहदेषु क्रीडामनोरथेषु उत्सुका उत्तालास्तासु। पुनश्च कस्मिन् सति। विद्याधरपुरलोकेसति विद्याधराणा पुरलोकस्तस्मिन् सति। कथभूते सति। सहचरीचरणचर्चोपचारप्रणयिनि सहचरीणा चरणाना चर्चा तस्या उपचारो व्यवहार तस्मिन् प्रणयो विद्यतेयस्य स तथा तस्मिन्। पुनश्च कस्मिन् सति। पुरंदरे सति। कि कुर्वति। ऐरावणमद विनोदयति उच्छलति सति। केन कृत्वा। पौलोमीकपोलफलकोचितचित्रचातुर्येण पौलोमी शची तस्या कपोलफलकौ तयोरुचित यचित्र आलेख्यतस्य चातुर्येण। पुनश्च कस्मिन् सति। मुकुन्दे सति। कि कुर्वति सति। वनमालाप्रसूनकिञ्जल्क वनमालाया वृन्दारिकावनस्य यानि प्रसूनानि तेषा किञ्जल्क केसरस्त सभावयति सति। केन कृत्वा। लक्ष्मीकुचकुम्भशोभारम्भेण लक्ष्मी निजभार्या तस्या कुचौ तावेव कुम्भौ

प्रसूनकिञ्जल्क मुकुन्दे, गिरिसुताधरदशनदशनव्यथापायवैदग्ध्येन विधुरयति सुधासूतिकला शकरे, भुजङ्गीशिखण्डमण्डनाडम्बरेण क्रीडायति निजफणामणीन्भुजगनाथे,

** अपि च।**

हसो यत्र मृणालिनीकिसलयैर्गण्डूपतोयैर्गज
कोक्श्चुम्बनचेष्टितै परिपतन्पारापत कूजितै।
एण शृङ्गविघर्षणर्मृगपतिर्गाढ पुन श्लेषणै
शृङ्गारप्रसरप्रसादिहृदय स्वा स्वा प्रिया सेवते॥४४२॥

यत्राशोकतरु पुरघ्रिचरणस्पर्शप्रवृद्धस्पृह
कान्तावक्रमधूनि वाञ्छति पुनर्यस्मिन्नय केसर।

तयो शोभारम्भो मण्डनविधिस्तेन। पुनश्च कस्मिन् सति। शकरे सति। कि कुर्वति। सुधासूतिकला निजमस्तकस्थितचन्द्रकला विधुरयति निश्चोतयति सति। केन कृत्वा। गिरिसुताधरदशनदशनव्यथापायवैदग्ध्येन गिरिसुताया पार्वत्या अधरस्य दशनद शनस्य दन्तचर्वणस्य या व्यथा तस्या अपायवैदग्ध्य विनाशचातुर्य तेन। पुनश्च कस्मिन् सति। भुजगनाथे शेषनागे सति। किं कुर्वति। निजफणामणीनिव क्रीडायति विहारयति सति। केन कृत्वा। भुजङ्गीशिखण्डमण्डनाडम्बरेण भुनङ्गी देवी पद्मावती तस्या शिखण्डो मस्तक तस्य मण्डनाडम्बरो भूषणाटोपस्तेन॥

अपि च तथा च कृतश्रवणामृतनिषक्ती कृता श्रवणाना अमृतनिषक्तय पीयूषवर्षणानि याभि सूक्तिभिस्तास्तथा ता। इतीति किम्—हसोयत्रेत्यादि। यत्र वसतसमये हसप्रियां सेवते। कै कृत्वा। मृणालिनीकिसलयै। यत्र वसन्ते गज प्रिया सेवते। कै कृत्वा। गण्डूषतोयै कुल्लकजलै। यत्र वसन्ते कोक प्रिया सेवते। कै कृत्वा। चुम्बनचेष्टितै। यत्र वसन्ते पारापत कलरव प्रिया सेवते। कै कृवा। कूजितै। पारापत किं कुर्वन्। परिपतन् समुखमागच्छन्। यत्रैण प्रिया सेवते। कै कृला। शृङ्गविघर्षणैशृङ्गाभ्या विविधलेखनै। यत्र मृगपति प्रिया सेवते। कै पुन श्लेषणै पूर्वोक्ता गुणा तै। कथभूत। शृङ्गारप्रसरप्रसादिहृदय शृङ्गारप्रसरेण रागव्याल्या प्रसादि प्रसन्न हृदय यस्य स तथोक्त। कथभूता प्रियाम्। स्वा।समुच्चयालकार॥ स्वा कृत्वा। स्वा। समुच्चयालकार॥

यत्राशोकतरुरित्यादि। हे क्षोणीश, स जगत्प्रसिद्ध एष प्रत्यक्षीभूतो भवतस्तव परामुत्कृष्टा प्रीतिं हर्ष पुष्यतु पुष्टिं नयतु। स क। यत्र वसन्ते अशोकतरु पुरंध्रिचरणस्पर्शप्रवृद्धस्पृहो वर्तते पुरध्रीणां चरणस्पर्शे पादताडने प्रवृद्धा स्पृहा

यत्राय विरहश्च पञ्चमरुचिश्चेतोभवस्कारण
स क्षोणीश वसन्त एष भवत प्रीतिं परा पुष्यतु॥४४३॥

भूत कोकिलकामिनीकलरवै कान्तप्रसूनान्तर
पुन्नाग शुकसुन्दरीकृतरतिर्यत्रोल्लसत्पल्लव।
पुष्यत्स्मेरदलाधर कुरुबक क्रीडद्द्विरेफाङ्गन
सुच्छायच्छदमाधवीपारचित सोऽय वसन्तोत्सव॥४४४॥

उत्फुल्लपल्लिवलनोल्लसदङ्गसङ्ग-
सजातका ततनवस्तरवोऽपि यत्र।
पुष्पोद्गमादिव वदन्ति विलासिलोका-
न्मान विमुच्य कुरुत स्मरसेवितानि॥४४५॥

ब्रह्मा कथ कथमपि प्रस्णद्धि चेत
शक्ता स्खलन्न मुनयोऽपि मनो निरोद्धुम्।

  •          *
    

यस्य स तथा। यस्मिन् वसन्ते अय क्सरो बकुलनृक्ष का तावकमधूनि पुनर्वाञ्छति। यत्रवसन्ते अय विरहवृक्ष पञ्चमरुचि पञ्चमरागाभिलाषी वर्तते। कथभूतो विरहवृक्ष। चेतोभवस्कारण कामाग्निसहकारी। जात्यलकार॥

** भूत इत्यादि।** हे राजन् सोऽय वसन्तोत्सवो वर्तते। सक। यत्र भूत कोकिलकामिनीकलरवै कान्तप्रसूनान्तर मनोहरपुष्पमध्य। यत्र पुनागस्तुङ्गतरु पुरुषवृक्ष शुकसुन्दरीकृतरति वर्तते शुकसुन्दरीभि कृता रतिर्यत्र स। कथभून पुन्नाग। उल्लसत्पल्लव प्रादुर्भवत्प्रवाल। यत्र कुरुबक। आम्लानतरु पुष्यन्स्मेरदलाधर विकसदीषस्फुरत्पर्णबिम्बोष्ठ। कथंभूत कुरुबक। क्रीडद्द्विरेफाङ्गनक्रीडन्तो रममाणा।द्विरेफाणा भ्रमराणा अङ्गना अलिन्यो यत्र वसन्तोत्सवे। कथभूत धवीपरिचित सुच्छाया कान्तिमन्तश्छदा पर्णानि यासा ता माधव्यो वसन्तवलयस्ताभि परिचित सयुक्त। हेवलकार॥

** उत्फुलवल्लीत्यादि।** हे राजन्, यत्रवसन्ते तरवो विलासिलोकान् कामुकजनान् वदन्तीव सूचयन्तीव। कथभूतास्तरव। पुष्पोद्गमात् पुष्पप्रादुर्भावात् सजातकान्ततनव उत्फुल्लवलिवलनोह्रसदङ्गसङ्गसजातकान्ततनव उत्फुला या वल्लयस्तासा वलनेन वेष्टनेन उल्लसन्ति उत्कण्टकितानि भवन्ति यानि अङ्गानि तेषा सङ्गेन सजाता सम्यगुत्पन्ना कान्तास्तनवो येषा ते तथा। तरव कि वदन्ति। मान विमुच्य स्मरसेवितानि कामसेवनानि कुरुत विदधत यूयम्। उत्प्रेक्षालकार॥

** ब्रह्मा कथमित्यादि।** ह राजन्, वसन्ते स्मरे स्मयविजृम्भितबाणवृत्तौ स्मयेन

यत्र स्मरे स्मयविजृम्भितबाणवृत्ता-
वुन्मादितत्रिभुवनोदरवर्तिलोके॥४४६॥

तद्देव, आदीयता वासन्तो नेपथ्यविधि। भवन्ति चात्र श्लोका—

कनककमलगर्भस्पर्धिसौन्दर्यसारे
युवतिजनविनोदव्याप्तहसावतारे।
परिसरतु तवाङ्गे कुड्कुमोद्वर्तनश्री
ररुणकिरणकान्ति कायवत्काञ्चनाद्रे॥४४७॥

त्व देव देहेऽभिनवे दधानो गोरोचनापिञ्जरिते दुकूले।
आभासि नीरेजरजोरुणाया श्रिया समानस्त्रिदशापगाया॥४४८॥

  •       *
    

विजृम्भिता बाणवृत्तिर्यस्य स तथा तस्मिन्। पुन कथभूतेस्मरे। उन्मादितत्रिभुवनोदरवर्तिलोके उन्मादिता त्रिभुवनोदरवर्तिन लोका येन स तथा तस्मिन्। यत्र वसन्ते ब्रह्मा सृष्टिकर्ता कथमपि महता कष्टेन चेत प्ररुणद्धि सवृणोति। यत्र वसन्ते मुनयो स्खलत् विघटमान सयमात् दूरीभवत् मनो निरोद्धु न शक्ता वर्तन्ते। अतिशयालकार॥

तत्तस्मात् कारणात् हे देव हे राजन्, वासन्तो नेपथ्यविधिराभरणविधानमादीयता गृह्यताम्। भवन्ति चात्र श्लोका अत्र अस्मिन् नेपथ्यविधाने श्लोकाश्च भवति।

** कनककमलेत्यादि।** हे राजन्, तव अङ्गेकुङ्कुमोद्वर्तनश्री काश्मीरजन्मकेसरद्रवविलेपनशोभा परिसरतु। कथभूते तवाङ्गे। कनककमलगर्भस्पर्धिसौन्दर्यसारे कनककमलगर्भेण सह स्पर्धत उपमा धरति यत्सौन्दर्य सुन्दरत्व तद्वत्सार तत्तथोक्तम्। पुन कथभूते तवाङ्गे। युवतिजनविनोदव्याप्तहसावतारे युवतीना जन समूहस्तस्य विनोदव्याप्त क्रीडाविस्तार स एव हसस्तस्यावतार प्रवेशो यस्मिन् तत्तथोक्त तस्मिन्। कुङ्कुमोद्वर्तनश्री किवत्। काञ्चनादेर्मेरुपर्वतस्य कायवत् शरीर इव। यथा काञ्चनाद्रिकाये अरुणकिरणकान्ति श्रीसूर्यतेज परिसरति। रूपकोपमालकार॥

** त्वमित्यादि।** हे देव त्व गोरोचनापिञ्जरिते गोरोचनया पीतरक्तीकृते अभिनवे द्वे दुकूले परिधानसव्याने दुह्येतेऽक्षुमाया आकृष्यते इति दुकूल क्षौमवस्त्र देहे शरीरे दधानो धरन् आभासि। कथभूतस्त्वम्। त्रिदशापगाया श्रिया शोभया समान। कथभूतायास्त्रिदशापगाया। नीरेजरजोरुणाया कमलपरागेण अव्यक्तरागाया उपमालकार॥

य श्रीनिरीक्षितसपक्षरुचिप्रपञ्च
कीर्ति स्वयवरणपुष्पशराभिराम।
वक्ष स्थले तव नृपापततात्स हार
कैलासदेश इव देवनदीप्रवाह॥४४९॥

लक्ष्मीलोचनकज्जलोचितरुचौ विद्यावधूचूचक-
श्लाध्यश्यामगुणे मधुव्रतगुलच्छायापहासिद्युति।
राजन्नीलमणिप्ररोहसुभगाभासे प्रसूनोच्चय-
स्त्वन्मौलावसिताम्बुदान्तरचरच्चन्द्रच्छवि शोभताम्॥४१०॥

य श्रीकण्ठग्रहणसुभगो वीरलक्ष्मीविलास
कीर्तिप्रादुर्भवनवसति कल्पवृक्षावतार।


य श्रीरित्यादि। हे नृप, स हारस्तव वक्ष स्थले आपततात् आगच्छतात्। स क। यो हार श्रीनिरीक्षितसपक्षरुचिप्रपञ्च श्रीनिरीक्षित लक्ष्मीविलोकित तस्य सपक्ष तिरस्कारको रुचेर्दीप्ते प्रपञ्चो यस्य स तयोक्त। पुन कथभूतो हार। कीर्ति स्वयवरण पुष्पशराभिराम कीर्तिसबन्धी योऽसौ स्वयवरणपुष्पशर स्वयवरपुष्पमाला तद्वदभिरामो मनोहर। अपर कथभूतो हार। कैलासदेशे हराचलपर्वते देवनदीप्रवाह इव। उपमालकार॥

लक्ष्मीलोचनेत्यादि। हे राजन् त्वन्मौलौ तव मूर्ध्नि प्रसूनोच्चय शोभता राजतु। कथभूते त्वन्मौलौ। लक्ष्मीलोचनकज्जलोचितरुचौ लक्ष्म्या सबन्धि लोचनकज्जज्लमषी तद्वदुचिता रुचिर्यत्र स तथा तस्मिन्। पुन कथभूते। विद्यावधूचूचश्लाघ्य श्यामगुणे विद्यावधू विद्याधरी तस्याश्चचुक स्तनाग्र तद्वत् श्लाघ्य प्रशसनीय श्याम गुणो यत्र मौलौ स तथा तस्मिन्। पुन क्थभूते। मधुत्रतकुलच्छायापहासिद्युति मधुव्रतकुलस्य छाया कृष्णकान्ति ताम् अपहसति तिरस्करोतीत्येवशीलो मधुत्रतकुलच्छायापहासिनी द्युति कान्तिर्यस्य स तथा तस्मिन्। पुन कथभूते। नीलमणिप्ररोह सुभगाभासे नीलमणीना कृष्णरत्नाना प्ररोहास्तद्वत् सुभगो मनोहर आभासो दीप्तिर्यस्य स तथा तस्मिन्। कथभूत प्रसूनोश्चय। असिताम्बुदातरचरच्चन्द्रच्छवि असि ताम्बुद कालमेघस्तस्य अ तरस्मिन् चरन् पर्यटन् योऽसौ चन्द्र पूर्णिमाशशाङ्कस्तद्वच्छवि शोभा यस्य स तथोक्त। उपमालकार॥

य श्रीकण्ठेत्यादि। हे राजन् स अय तव रत्नभूषाभिरामो हस्त विजयताम्। कथभूतो हस्त। श्रीकण्ठग्रहणसुभग। पुन कथभूत। वीरल क्ष्मीविलास वीरलक्ष्म्या विलासो विस्तारो यस्मिन् स तथा। पुन कथभूत। कीर्ति-

पृथ्वीभारोद्धरणसमये शेषसकल्पमूर्ति
सोऽय हस्तस्तव विजयता रत्नभूषाभिराम॥४५१॥

दोले वा श्रीसरस्वत्यो प्रचेत पाशपेशले।
तव भूषयतो भूप श्रुती माणिक्यकुण्डले॥४५२॥

भुजशिखरे हरिचन्दनलिखिता तव पत्रपद्धतिर्देव।
मकरध्वजविजयोत्थितविचित्रकेतुश्रिय धत्ते॥४५३॥

तव देव निटिलदेशे चन्दनरसनिर्मितच्छ विस्तिलक।
धत्तेऽष्टमीन्दुमभ्यस्थितगुरुशोभाश्रया लक्ष्मीम्॥४५४॥

प्रतिबिम्बमपि वहन्ते यस्या शिरसा महीश्वरा सा स्तात्।
मुद्रा तव देव करे समुद्रमुद्राङ्कितक्षितीशस्य॥४५५॥

  •          *
    

प्रादुर्भवनवसति कीर्ते प्रादुर्भवन तस्य वसति। पुन कथभूत। कल्पवृक्षावतारबाहुमिषेण कल्पवृक्ष। पुन कथभूत। पृथ्वीभारोद्धरणसमये शेषसकल्पमूर्ति भूमि भारोचलनावसरे शेषस्य सकल्पमूति द्वितीयमूर्ति। रूपकालकार॥

दोले इत्यादि। हे भूप, तव श्रुती कर्णौ कर्मतापन्नौ द्वे माणिक्ये कुण्डले कर्तृभूते भूषयतो मण्डयत। कथभूते तव श्रुती। श्रीसरस्वत्यो दोले वा द्वे प्रेङ्खेवा पुन कथभूते श्रुती। प्रचेत पाशपेशले प्रचेतसो वरुणस्य पाशवत् पेशले। उपमालकार॥

भुजशिखरे इत्यादि। तव भुजशिखरे भुजाशे हरिचन्दनलिखिता पत्रपद्धति परमोत्तमचन्दनलिखिता पत्र लिपङ्क्ति। मकरध्वजविजयोत्थितविचिनकेतुश्रिय धत्ते मकरध्वजस्य विजये जगद्वशीकरणे उत्थितो विचित्रोऽनेकवर्णो योऽसौ केतु ध्वजस्वस्य श्रिय शोभा धत्ते धरति। उपमालकार॥

तव देवेत्यादि। हे देव, तव निटिलदेशे ललाटपट्टकप्रदेशे तिलको लक्ष्मीं शोभा धत्ते। कथभूतस्तिलक।चन्दनरसनिर्मितच्छवि चन्दनरसेन निर्मिता छवि दीप्तिर्येन स तथोक्त। कथभूता लक्ष्मीम्। अष्टमीन्दुमध्यस्थितगुरुशोभाश्रयाम् अष्टमीन्दुस्तस्य मध्यस्थितो योऽसौ गुरु बृहस्पतिस्तस्य शोभाया आश्रयो यस्या लक्ष्म्या सा तथा ताम्। उपमालकार॥

प्रतिबिम्बमित्यादि। हे देव, तव करे सा मुद्रा स्ताद्भवतु। सा का। यस्या मुद्राया अङ्गुलीयस्य प्रतिबिम्बमपि महीश्वरा राजान शिरसा वहन्ते धारयन्ति। कथभूतस्य तव। समुद्रमुद्राङ्कितिक्षितीशस्य समुद्रमुद्रया अङ्किता क्षितीशा येन स तथा तस्य। अतिशयालकार॥

कामस्त्व रतिसगमे, सुरपति स्वर्गाङ्गनानन्दने,
भोगीन्द्रश्च भुजङ्गिकागमविधौ, लक्ष्मीप्रमोदे हरि।
वाग्देवीनयनोत्पलोत्सवरसप्राप्तौ सुधादीधिति-
र्जातसप्रति भूषणोचितवपुर्भूपालचूडामणे॥४५६॥

इतश्च स्मरमहोत्सवोल्लासरसवशविलासिनीजनोच्चार्यमाणमङ्गलपरम्परेऽन्त पुरे

नवकिसलयपूगीपादपस्तम्भशोभा
सिततरुफलकान्ताशोकवल्लिप्रताना।
मणिकुसुमदुकूलोल्लोचकेतुप्रकान्ता-
स्तव नृपवर दोला कुर्वता कामितानि॥४५७॥

कामस्त्वमित्यादि। हे भूपालचूडामणे सर्वभूपालाना शिरोरत्न, सप्रति भूषणोचितवपुस्त्व जात सपन्न। कथभूतस्त्वम्। रतिसगमे काम। पुन क्थभूत। स्वर्गाङ्गनानन्दने सुरपति। पुन कथभूत। भुजङ्गिका कामपीडिता स्त्रियस्तासामागम विधौ आकर्षणविधाने भोगी द्रकामदेव। यथा भुजङ्गीना नागकन्याना चित्ताह्नादने भोगीद्र शेषनागो भवति। पुन कथभूत। लक्ष्मीप्रमोदे लक्ष्म्या हषजनने हरि। पुन कथभूत। वाग्देवी नयनोत्पलोत्सवरसप्राप्तौ सुधादीधिति वाग्देवी सरस्वती तस्या नयनानि तान्येवोत्पलानि तेषामुत्सवरसप्राप्तौ आनन्दरसप्राप्त्यर्थं सुधादीधितिश्चन्द्र। रूपकालकार॥

इतश्चअस्मिन् प्रदेशे अन्त पुरे शुद्धान्ते हे नृपवर, दोला प्रेङ्खास्तव भवत कामितानि मनोरथान् कुर्वता पूरयन्तु। कथभूते अन्त पुरे। स्मरमहोत्सवोल्लासरसवशविलासिनीजनोश्चार्यमाणमङ्गलपरम्परे

विलासिनीजनास्तैरुच्चार्यमाणा पठ्यमाना मङ्गलपरम्परा धनधवल मङ्गलश्रेणिर्यत्र तत्तथोक्त तस्मिन्। कथभूता दोला। नवकिसलयपूगीपादपस्तम्भशोभा नवानि प्रत्यप्राणि किसलयानि कुम्पलानि येषा पूगीपादपाना क्रमुकवृक्षाणा तेषा स्तम्भशोभा स्थूणिकाशोभा यासा तास्तथोक्ता। पुन कथभूता। सिततरुफलकान्ताशोकवल्लिप्रताना सिततरूणा कर्पूरवृक्षाणा फलकानि षट्का अन्तेषु प्रान्तेषु यासामशोकवल्ल्लीना तासा प्रतानो रज्जुबन्धन तस्य रचना यासा ता। पुन कथभूता मणिकुसुमदुकुलोल्लोच केतुप्रकान्ता मणिकुसुमै रत्नपुष्पैरुपलक्षितानि यानि दुकूलानि पट्टकूलानि तेषामुलोचकेतवञ्चन्द्रोपकध्वजास्तै प्रकान्ता प्रकर्षेण मनोहरा। समुञ्चयालकार॥

वक्र वक्रमुपैति यत्र नयने नेत्रप्रतिस्पर्धिनी
वक्ष पीनपयोधराग्रकलनात्सोल्लासलीलान्तरम्।
हस्तौ हस्तसमीपवृत्तिवलितौ न च जङ्घाश्रिते
दोलान्दोलनमङ्गनार्पितभर तत्कस्य न प्रीतये॥४५८॥

इत्यनेकावसरसूक्तविशारदान्मदनमकरन्दानन्दितनिखिलजनात्मनो बन्दिनकृतश्रवणामृतनिषक्ती सूक्तीर्निशमयन्मधौ मकरध्वजमाराधयामास।

कदाचित्

खड्गेखड्गतनुस्थितिर्धनुषि च प्राप्ता धनु सहतिं
बाणे बाणवपुर्भुजे भुजमयी गात्रे तनुत्राकृति।
सग्रामेऽग्रजयाय चिन्तितविधौ चिन्तामणिर्भूभुजा
या सा स्यादपराजिता तब मुहुर्जैत्राय धान्रीपते॥४५९॥

** वक्रमित्यादि।** हे राजन्, तज्जगत्प्रसिद्ध दोलान्दोलन प्रेङ्खनं कस्य पुरुषस्य प्रीतये न भवति। अपि तु सर्वस्यापि प्रीतये भवति। कथभूत दोला दोलनम्। अङ्गनार्पितभर अङ्गनाभिरर्पितो भरोऽतिशयो यत्र तत्तथोक्तम्। तत्किम्। यत्र दोलान्दोलने वक्र मुख वक्रमुपैति मुखेन सह मिलति। यत्र नयने नेत्रप्रतिस्पर्धिनी लोचनविलो क्नशीले। यत्र वक्ष स्तनप्रदेश पीनपयोधराप्रकलनात् उन्नत स्तन शिखर सघट्टनात् सोहासलीला तर वर्तते आनन्दावस्थामध्यप्रदेश भवति। यत्र हस्तौ हस्तसमीपत्तिवलितौ वर्तेते हस्तयो समीपयो वृत्तिर्वर्तन तस्या वलितौ ग्रहणवन्तौ वर्तते। यत्र जङ्घे प्रसृते जङ्घाश्रिते प्रसिते मिलिते वर्तेते। समुच्चयालकार॥

कदाचित् कस्मिंश्चिदवसरे कोदण्डविद्या धनुर्वेद उपासाचक्रे सेवितवानह अभ्यासाचकार। कि कृत्वा पूर्वम्। महानवमी निर्वर्त्य निष्पाद्य। कथभूता महानवमीम्। इत्यमुना प्रकारेण विजयजैत्रायुध मागधावबोधितलक्ष्मी विजयजैत्रायुधो नाम मागधो भट्ट तेन अवबोधिता ज्ञापिता लक्ष्मी शोभा यस्या महानवम्या सा तथा ताम्। इतीति किम्—खड्गेइत्यादि। हे धात्रीपते, सा अपराजिता नाम देवी तव मुहुर्जैत्राय जयनाय स्यात् भवेत्। सा का। या अपराजिता भूभुजा खड्गे खड्गतनुस्थिति खड्गे तनो स्थितिर्यस्या सा तथोक्ता। खड्गरूपेण तिष्ठतीत्यर्थ। या अपराजिता च अन्यत् भूभुजा धनुषि धनु सहतिं प्राप्ता धनुराकार गता। या बाणे बाणवपु शरशरीरा वतते। या भूभुजा भुजमयी। दोर्दण्डरूपेण तिष्ठतीत्यर्थ। या भूभुजा गात्रे तनुत्राकृति कवचाकारेण तिष्ठति। या सप्रामे अप्रजयाय उत्तमजयनिमित्त वर्तते। कथभूता। चितितविधौ वाञ्छितप्रदाने चिन्तामणिर्वर्तते। दीपकसमुच्चयालकार॥

तारा कुन्तलमौक्तिकानि परुषप्रालेयरश्मी दृशौ
वास खर्गसरिद्दिशो भुजलता काञ्ची पयोराशय।
देहो देवगिरि फणीन्द्रमणयो जाता पदालकृति-
र्यस्या साद्भुतशक्तिरस्तु भवतो भूत्यै चिरायाम्बिका॥४६०॥

स्वर्गेभमेण्ठशितिकण्ठपयोजपीठ
वैकुण्ठपाठजठरस्तवनोचिताङ्घ्रि


या चावनीचरमरुच्चरखेचरार्च्या
सा व श्रिय प्रतनुतादपराजितेयम्॥४६१॥

** इति विजयजैत्रायुधमागधावबोधितलक्ष्मी महानवमी निर्वर्त्य।**

** तथा—**

हसावलीद्विगुणकेतुसिताशुकश्री
पद्मावतसरमणीरमणीयसार।


** तारा इत्यादि।** हे धात्रीपते, सा अम्बिका आम्रा देवी। कूष्माण्डिनीति यावत्। भवत चिराय भूत्यै अस्तु। कथभूताम्बिका। अद्भुतशक्ति अद्भुता विस्मयकारिणी शक्ति सामथ्य यस्या सा तथा। सा का। यस्या अम्बिकाया तारा कुन्तलमौक्तिकानि वर्तन्ते यस्या परुषप्रालेयरश्मी सूर्याचन्द्रमसौ दृशौ द्वे लोचने वर्तेते। यस्या स्वर्गसरिद्वासो वर्तते। यस्या दिशो दश ककुभो भुजलता सन्ति। यस्या पयोराशय काञ्ची कटिमेखला वर्तते। यस्या देह देवगिरि मेरुर्वर्तते। यस्या फणीद्रमणय शेषशि रोरत्नानि पदालकृतिश्चरणाभरण जाता। रूपकातिशयसमुच्चयालकार॥

** स्वर्गेमेत्यादि।** हे राजन्, सा इय अपराजिता वो युष्माक श्रिय प्रतनुतात् विस्तारयतु। सा का। या स्वर्गेभमेण्ठशितिकण्ठपयोजपीठवैकुण्ठपाठजठरस्तवनोचि ताङ्घ्रि स्वर्गेभमेण्ठश्च देवेन्द्र, शितिकण्ठश्च श्रीमहादेव, पयोजपीठश्च ब्रह्मा, वैकुण्ठश्च श्रीनारायण, तेषा पाठस्य पाठनस्य जठरे मध्ये यत् स्तवन तस्मिन्नुचितौ योग्यौ अङ्घ्रि पादौ यस्या सा तथा। पुनर्या कथभूता। चान्यत् अवनीचरमरुच्चरखेचरार्च्या अवनीचरा भूमिगोचरा, मरुच्चरा देवा, खेचरा विद्याधरा, तेषा अर्च्या पूजनीया। अतिशयसमुच्चयालकार॥

पुनश्च कि कृत्वा पूर्वं कोदण्डविद्यामुपासाचक्रे। तथा तेनैव महानवमीप्रकारेण दीपोत्सवश्रिय दीपोत्सवपर्वलक्ष्मी अनुभूय भुक्त्वा च। कथभूता दीपोत्सवश्रियम्। इत्यमुना प्रकारेण सूनासूक्तेन वाग्जीवनविशेषेण सूचितो ज्ञापितोऽवसर प्रस्तावो यस्या सा ताम्। इतीति किम्—हसावलीत्यादि। हे महीश, दीपोत्सवस्तव मुद तनोतु। कथभूतो

प्रासादसारितसुधाद्युतिदीप्तदिक्को
दीपोत्सवस्तव तनोतु मुद महीश॥४६२॥

द्यूतोन्मादितकामिनीजितधृतप्राणेशचाटूत्कट
क्रीडद्वारविलासिनीजनभवद्भूषाविकल्पोद्भट।
आतोद्यध्वनिमङ्गलारवभरव्याजृम्भिताशामुख
प्रीतिं पूर्णमनोरथस्य भवत पुण्यात्प्रदीपोत्सव॥४६३॥

आभान्त्यसर्वशिखराग्रविटङ्कपालि-
दीपावलीद्युतिधृत पुरसौधबन्धा।
प्रत्यङ्गसगतमहौषधिदीप्तदेहा-
स्त्वा सेवितु कुलनगा इव दत्तयात्रा॥४६४॥

  •          *
    

दीपोत्सव।हसावलीद्विगुणकेतुसिताशुकश्री हसाना या आवलिस्तया द्विगुणानि यानि केतूना सिताशुकानि तेषा श्रीर्यस्मिन् स तथोक्त। पुन कथभूत। पद्मावतसरमणीरमणीयसार पद्मानि अवतसानि यासा रमणीना ता पद्मावतसा ताश्चता रमण्यस्ताभी रमणीय सारो द्रव्य यस्मिन् स तथोक्त। पुन कथभूत। प्रासादसारितसुधाद्युतिदीप्तदिक्कप्रासादेषु तमङ्गेषु सारिता पङ्किता या सुधा चूर्ण तस्या विस्तया दीप्ता दीप्तिमत्यो दिशो यस्मिन् स तथोक्त। नदीरुदन्तात् शेषाद्वा बहुव्रीहौ क। जाति॥

द्यूतोन्मादितेत्यादि। हे महीश, स प्रदीपोत्सवो भवत प्रीतिं पुष्यात्। कथभूतस्य भवत। पूर्णमनोरथस्य। कथभूत। प्रदीपोत्सव द्यूतोन्मादितकामिनीजितधृतत्राणेशचाद्वत्क्ट द्यूतोन्मादिता मानोन्नतिं प्राप्ता या कामिन्यस्ताभि पूर्व जिता पश्चाद्धृता वस्त्रहस्तादौ गृहीता ये प्राणेशा निजनिजपतयस्तेषा चाटुभि मिथ्यास्तुतिभि उत्कट उत्कर्ष प्राप्त स तथा। पुन कथभूत। क्रीडद्वारविलासिनीजनभवद्भूषाविकल्पोद्भटक्रीडन्तो ये वारविलासिनीजनास्तेषु भवन्त सजायमाना ये भूषाविकल्पा शृङ्गारविशेषास्तै उद्भट उ मत्त। पुन कथभूत। आतोद्यध्वनिमङ्गलाखभरव्याजृम्भिताशामुख आतोद्या नाम ये ध्वनयस्तेषा मङ्गलरवास्तेषा भर समूहस्तेन व्याजृम्भितानि व्याप्तानि आशामुखानि यत्र सा तथा। हास्यरसप्रधानो जात्यलकार॥

आभान्तीत्यादि। हे राजन्, पुरसौधबन्धा नगरसबन्धिनो राजसदनसमूहा आभान्ति। कथभूता पुरसौधबन्धा। अखर्वशिखराप्रविटङ्कपालिदीपावलिद्युतिधृत अखर्वाणि उन्नतानि शिखराणि येषा तानि च तानि अग्रविटङ्कानि वरण्डकास्तेषा पालिषु भित्तिभागेषु या दीपावल्यस्तासा बुतिं धरन्तीति ते तथोक्ता। पुन कथभूता। त्वा भवन्त सेवितुमुपासित दत्तयात्रा कृतविहारा कुलनगा इव। कथभूता

इति सूनासूक्तसूचितावसरा दीपोत्सवश्रिय चानुभूय।

यावन्ति भुवि शस्त्राणि तेषा श्रेष्ठतर धनु।
धनुषा गोचरे तानि न तेषा गोचरो धनु॥४६५॥

इत्यायुधसिद्धान्तमध्यासादितसिंहनादाद्धनुर्वेदादुपश्रुत्य समाश्रितशराभ्यासभूमि।

कूर्म पातालमूल श्रयति फणिपति पिण्डते न्यञ्चदङ्ग
सर्वन्त्युर्वीधरन्ध्राण्यपि दधति ककुप्सिन्धुरा साध्वसानि।
गाधन्तेऽम्भोधयोऽपि क्षितितलविरसद्वीचयस्ते महीश
ज्यारोपासङ्गसीदद्धनुरटनिभरभ्रस्यभूगोलकाले॥४६६॥


कुलनगा। प्रत्यङ्गसगतमहौषधिदीप्तदेहा प्रत्यङ्गेषु प्रतिशरीरेषु सगता मिलिता या महौषध्योज्योतिष्मत्यादिवत्रयस्ताभिर्दीप्ता दीप्तिमन्तो देहा येषा ते तथोक्ता। उत्प्रेक्षालकार॥

पुन कथभूत सन् कोदण्डविद्यामुपासाचक्रे। समाश्रितशराभ्यासभूमि समाश्रिता शराभ्यासस्य खुरुल्लिकाया भूमि स्थान येन मया सोऽह तथोक्त। कि कृत्वा पूर्वम्। इत्यमुना प्रकारेण आयुर्धसिद्धान्तमध्यासादितसिंहनादात् आयुधसिद्धान्तस्य शस्त्र विद्याया मध्ये आसादित प्राप्त सिंहनादो गर्जना येन स तथोक्तस्तस्मात् नामकात् ईदृग्विधात् धनुर्वेदाद्धनुर्वेदोपाध्यायात् उपश्रुत्य समीपे आकर्ण्य। इतीति किम्—यावन्तीत्यादि। यावन्ति यावत्परिमाणानि भुवि भुवने शस्त्राणि वर्तन्ते तेषा शस्त्राणा श्रेष्ठतरमतिशयेन श्लाघ्य धनुर्वर्तते। धनुषा गोचरे गम्यताया तानि शस्त्राणि वर्तन्ते। तेषा शस्त्राणा गोचर विषये न धनुर्वर्तते। जात्यलकार॥

पुन कि कुर्वन् कोदण्डविद्यामुपासाचक्रे। इत्यमुना प्रकारेण मार्गणमलस्य एतनाम कस्य वाग्जीविनो भट्टस्य वृत्तानि शृण्वन् आकर्णयन्। इतीति किम्—कूर्म इत्यादि। हे महीश, ते तव ज्यारोपासङ्गसीदद्धनुरटनिभरभ्रस्यभूगोलकाले ज्याया प्रत्यञ्चाया आरोपश्चढायन तस्या सङ्ग सगतिस्तेन सीदन्ती विशीयमाणा या धनुषश्चापस्य अटनिरप्रभागस्तस्या भरेण भारेण अतिशयेन भ्रस्य अध पाती योऽसौ भूगोल भूमण्डल तस्य कालोऽवसर स तस्मिन्। कूर्म कूर्मराज पातालस्य पृथिव्या आधार मूल श्रयति गच्छति। फणिपति कूर्मराजोपरिस्थित शेषनाग पिण्डते सकुचति। कथभूत फणिपति। न्यञ्चदङ्ग नीचैर्भवत्फणामण्डलसहस्र। उवघ्ररन्ध्राण्यपि पवतछिद्राण्यपि खर्वन्ति ह्रस्वीभवति। कुकुप्सिन्धुरा साध्वसानि भयानि दधति धरन्ति। अम्भोधयोऽपि गाधन्ते। लोडन कुर्वन्तीत्यर्थं। कथभूता अम्भोधय। क्षितितलवि—रसद्वीचय क्षितितले विरसन्त्य शतखण्डीभवन्त्यो वीचय कल्लोला येषा ते तथोक्ता। अतिशयालकार॥

आनन्ददुन्दुभिरिव त्रिदशालयाना
देवद्रुहा हृदयनिर्दलनाभिघोष।
दूत समाह्वयविधौ धरणीश्वराणा
चापस्य ते ध्वनिरय जयतादुदार॥४६७॥

वामे करे किमु धनु किमु दक्षिणे वा
बाणावली सृजति कोऽत्र करोऽथवैताम्।
इत्थ क्रियाश्रममवेक्ष्य तवाद्भुतार्थ
शस्त्रप्रपञ्चखुरुली खलु क करोतु॥४६८॥

मौर्वीशरव्यान्तरलग्नमूर्ति शरावली देव भवत्प्रयुक्ता।
चापेन योग्या जगती प्रमातु प्रसारित सूत्रमिवावभाति॥४६९॥

लक्ष्य दृष्टिपथव्यतीतविषय पुङ्खानुपुङ्खक्रमा-
द्भित्त्वास्मात्परत प्रसर्पति गुणस्यूतेव बाणावली।

  •         *
    

** आनन्ददुन्दुभिरित्यादि।** हे राजन्, अय ते चापस्य ध्वनिर्जयतात्। कथभूतो ध्वनि। उदारोऽत्युन्नत। पुन कथभूत। त्रिदशालयाना स्वर्गाणामानन्ददुन्दुभिरिव हर्षपट इव। पुन कथभूत। देवद्रुहा असुराणा हृदयनिर्दलनाभिघोष हृदयानां निर्दलने भङ्गे अभिघोष शब्दो यस्य। अथवा हृदयभङ्गशब्द इव। पुन कथभूत। धरणीश्वराणा समाह्वयविधौ आह्वानविधाने दूतो वचोहर रूपकोपमालकार॥

वामे करे इत्यादि। हे राजन्, इत्थममुना प्रकारेण तव अद्भुतार्थ आश्चर्यकारक क्रियाश्रम बाणाभ्यास अवेक्ष्य दृष्ट्वा शस्त्रप्रपञ्चखुरुलीं आयुधविस्ताराभ्यास खलु निश्वयेन क पुमान् करोतु विदधातु। न कश्चित्करोत्वित्यर्थ। इत्थ कथमिति चेत्—उ इति सबाधने। धनु चाप वामेकरे सव्यहस्ते किं वर्तते। वा दक्षिणे करे अपसव्यहस्ते किमु वर्तते। अथवा एता बाणावलीं अत्र खुरुल्या क कर को हस्त सृजति करोति। तव हस्तलाघवेन न कश्चिद्वेत्ति। आक्षेपालकार॥

** मौर्वीत्यादि।** हे देव, भवत्प्रयुक्ता शरावली अवभाति शोभते। कथभूता अवभाति। जगतीं प्रमातु मापितु प्रसारित सूत्रमिव। कथभूता शरावली। मौर्वीशरव्यान्तरलग्नमूर्ति मौर्वी च ज्या शरव्य च वेध्यम्, तयोरन्तरे लग्ना मूर्ति यस्या सा तथोक्ता। पुन कथभूता। चापेन योग्या अभ्यस्ता। उपमालकार॥

** लक्ष्यमित्यादि।** हे राजन् भवतस्तव एवममुना प्रकारेण चापविजृम्भितानि धनुश्चेष्ठितानि वर्तन्ते। कस्मिन्। सद्गुण्ययोग्याविधौ सद्भिर्विद्वद्भि गण्यो गणनीयो योऽसौ

एव चापविजृम्भितानि भवतसद्गण्ययोग्याविधौ
धानुर्धर्यगुण विमुञ्चति मुहुर्धन्वीन बाण पुन॥४७०॥

कोदण्डाश्चनचातुरीं रचयत प्राक्पृष्ठपक्षद्वय-
प्रोर्ध्वाधोविषयेषु ते निरवधीन्दृष्ट्वाशराल्लक्ष्यगान्‌।
इत्थ नाथ वदन्ति देववनिता क्षोणीश्वरोऽय हले
किं प्रत्यङ्गविनिर्मितेक्षणभुज किं वेन्द्रजालक्रिय॥४७१॥

त्व कर्णकालपृष्ठे भवसिबलिरिपुस्त्व पुन साधु शार्ङ्गे
गाण्डीवेऽग्रस्त्वमिन्द्रक्षितिरमण हरसत्व पिनाके च साक्षात्।


योग्याविधिरभ्यास आस्रमन्तात्‌ विधान सद्गण्ययोग्याविधिस्तस्मिन् धनुर्वेदिभिप्रशंसनीये अभ्यासविधाने सति। धन्वी धनुधरोमुहुर्वारवारवानुर्वर्यगुण विमुञ्चति परिहरति। न पुनर्नच बाण विमुञ्चति। एव कथमिति चेत्—लक्ष्य वेध्यतावत्‌ दृष्टिपथ व्यतीतविषय वतते लोचनयोरगोचर वर्तते। बाणावली लक्ष्य भित्त्वा अस्मात्‌ लक्ष्यात्‌ परत प्रसर्पतिदूरतो गच्छति। कस्मात्‌। पुङ्खानुपुङ्खकमात्‌ बाणाना पुङ्खान्‌ अनुकृत्य(?) क्रमात्। कथभूता बाणावली। गुणस्यूतेव दरवकेण प्रोतेव। उपमालकार॥

** कोदण्डेत्यादि।** हे नाथ राजन्‌, ते तव निरवधीन्‌ बहून् शरान्‌ लक्ष्यगान्‌ वेध्यप्राप्तान्‌ दृष्ट्वादेववनिता अन्तरिक्षस्थिता देवाङ्गना इत्थममुना प्रकारेण वदन्ति जल्पन्ति। इत्थ कथमिति चेव—हे हलेहे सखि, अय क्षोणीश्वरो यशोघर किं प्रत्यङ्गनिर्मितेक्षणभुजो वर्ततेईक्षणे च भुजौ च ईक्षणभुजा प्रत्यङ्गमङ्गमङ्ग प्रतिप्रत्यङ्ग निर्मिता सृष्टाईक्षणभुजा यस्यस तथोक्त। वाथ वा कि इन्द्रजालक्रियोवर्तते इन्द्रजालस्यक्रिया यस्यस तथातेन। कि कुर्वत। प्राक्‌ मुखस्थाग्रे यृष्ठभागे पक्षद्वये च वामदक्षिणभागयो प्रोर्ध्वचान्तरिक्षे अधश्च पातालेतेषा विषया। सर्वादिश इदयर्थ। तेषु प्राक्पृष्ठद्वयपक्षद्वयप्रोर्ध्वाधोविषयेषु कोदण्डाश्चनचातुरीं कोदण्डस्य धनुष अञ्चनमाकर्षण तस्यचातुरी वैलक्षण्य ता धनुराकर्षणचतुरत्वरचयतो विदधत। सशयालकार॥

** त्व कर्णइत्यादि।** हे क्षितिरमण, त्वभवान्‌ कालपृष्ठेकर्णधनुषि साक्षात्‌ प्रत्यक्ष कर्ण अग्रकौन्तेयो भवसि। हे क्षितिरमण, शार्ङ्गे विष्णुचापे ल पुन बलिरिपु नारायणो भवसि। हे क्षितिरमण गाण्डीवे त अग्र इन्दरोऽर्जुनोभवसि। हे क्षितिरमण, पिनाके च रुद्रधनुषित्वसाक्षात्‌ प्रयक्ष॒ हर श्रीमहादेवो भवसि। एवविधस्यतव गाङ्गेयद्रोणरामार्जुननलनहुषक्ष्मापसाम्ये सति गाङ्गेयश्चभीष्म, द्रोणश्च, राम परशुराम सीतापतिर्वा, अर्जुनश्च, नलश्च दमयन्तीपति, नहुषश्च राघवदरूपविशेष, ते क्ष्मापा राजानस्तेषा साम्यसादृश्यतस्मिन्‌। कि श्लाघनीयप्रशंसावतेते। अपि तु न

बालास्त्रप्रायचापाञ्चनचतुरविधेस्तस्य किं श्लाघनीय
गाङ्गेयद्रोणरामार्जुननलनहुषक्ष्मापसाम्ये तव स्यात्॥४७२॥

इति

मार्गणमल्लस्य

वाग्जीविनो वृत्तानि शृण्वन्कोदण्डविद्यामुपासाचक्रे॥

कदाचित्सध्योपासनोत्सुकवैखानसमनसि प्रतिदिवानेहसि
अन्योन्यविषयभाव पश्यत यातेऽद्य शशिनि तपने च।
अरुणमणिकुण्डलश्रियमम्बरलक्ष्मीर्बिभर्तीव॥४७३॥

अपि चाखण्डलशुण्डालगण्डमण्डलीमण्डनमदमलिनरुचि, शिशिरकरकुरङ्गेक्षणच्छाये, जाह्नवीजलजम्बालमञ्जरीजालजयिनि, पुरदरपुरपुध्रीपयोधराभोगसगतमृगमदपत्रभङ्गसुभगे, किपुरुषकामिनीकुचचूचुकपटल


श्लाघ्यमेतत्। कथभूतस्य तव। बालास्त्रप्रायचापाञ्चनचतुरविधे बालाना शिशूना अस्त्र धनुस्तत्प्रायाणि तत्सदृशानि यानि चापानि तेषामश्ञ्चनमाकषण तद्वत् चतुरो विचक्षणो विधिर्विधान यस्य स तथा तस्य। रूपकोपमाक्षेपालकार॥

कदाचित्किस्मिंश्चिदवसरे कविकुरङ्गकण्ठीरवनामा सहाध्यायी सहपठितवान् माण्डलिको मित्र प्रविश्य प्रवेश कृत्वा समीपमागत्य इमानि प्रत्यक्षीभूतानि चन्द्रोदयवर्ण नानि शशाङ्कोदयवर्णनकराणि वृत्तानि श्लोकानि अधिजगे अपठत् पपाठ। कस्मिन् प्रस्तावे अधिजगे। प्रतिदिवाने हसि प्रतिदिवसस्तस्य अनेहसि काले सति। सायकाले इत्यर्थ। कथभूते प्रतिदिवाने हसि। सध्याया उपासन सध्यावन्दन तत्र उत्सुकानि उत्तालानि अपरकार्यपराङ्मुखानि वैखानसाना तपस्विना मनासि चित्तानि यस्मिन् स तथा तस्मिन्। पुन कस्मिन् सति अधिजगे। तमसि अन्धकारे विजृम्भमाणे प्रसरति। कथभूते तमसि। अन्योन्येति। अद्य इदानीं पश्यत अवलोकयत। शशिनि चन्द्रे तपने च भास्करे अन्योन्यविषयभाव परस्परगम्यत्व याते प्राप्ते सति अम्बरलक्ष्मी अरुणमणिकुण्डलश्रिय रक्तमाणिक्यताटङ्कशोभा बिभर्तीवधरतीव वर्तते। उपमालकार॥

अपि च तथा च। कथभूते तमसि। आखण्डलशुण्डालगण्डमण्डलीमण्डनमदमलिनरुचि आखण्डल इन्द्रस्तस्य शुण्डालो हस्ती तस्य गण्डमण्डली क्पोलस्थली तस्या मण्डन शोभाकरो योऽसौ मदस्तद्वत् मलिना कृष्णवर्णा रुक् दीप्तिर्यस्य तमसस्तत्तथोक्ततस्मिन्। पुन कथभूते तमसि। शिशिरककुरङ्गेक्षणच्छाये शिशिरकरश्चन्द्रस्तस्य कुरङ्गस्तस्य ईक्षणयोर्नयनयोरिव छाया कान्तिर्यस्य तत्तथोक्त तस्मिन्। पुन कथभूते तमसि। जाह्नवीजलजम्बालमञ्जरीजालजयिनि जाह्नवीजलस्य यज्जम्बाल शैवल तस्य मञ्जय वल्लर्यस्तासा जालानि जयतीत्येवशील तत्तथा तस्मिन्। पुन कथभूते तमसि। पुरदरपुरपुरध्रीपयोधराभोगसगतमृगमदपन्नभङ्गसुभगे पुरंदरस्य यत्पुरं तस्य सबन्धिन्यो

श्यामसपदि प्रत्यङ्गमम्बरतलाद्दिक्करटिपाशुप्रमाथपासुले, दिग्देवतानिकेतननीलोपलकलशप्रकाशभासिनि, दिक्कन्यकालकवल्लरीविलासप्रसरे, दिक्पालपुरप्रासादप्रचलाकिनीकुलकलापकेलिकले, दिगन्तरकान्तारमधुकरीनिकरश्यामले,प्रत्यन्तरालमाशावलयतटिनीतटतमालदलद्योतकान्ते, शिखरान्तरचरच्छबरसीमन्तिनीचिकुरचयरोचिषि, निकुञ्जकुञ्जरकायकान्तिकाले, गिरीशगलगरलकल्माषत्विषि, सानुसारसारङ्गाङ्गनापाङ्गकृष्णे,


या पुरध्र्योऽमराङ्गनास्तासा पयोधराभोगास्तेषु सगत सलग्नोयोऽसौ मृगमदस्तस्य पत्रभङ्गा पत्रवल्लथस्तद्वत् सुभग तत्तथा तस्मिन्। पुन कथभूते तमसि। किंपुरुषकामिनीकुचचूचुकपटलश्यामसपदि किपुरुषा अश्वमुखा देवास्तेषा कामिन्यस्तासा कुचचूचु कानि तेषा पटलवत् श्यामा सपत् शोभा यस्य तत्तथोक्त तस्मिन्। पुन कथभूते। प्रत्यङ्गमम्बरतलाद्दिक्करटिपाशुप्रमाथपासुले प्रत्यङ्ग प्रत्यवयव अम्बरतलात् आकाश मण्डलात् दिक्करटिना योऽसौ पाशुप्रमाथ रजस्ताडन तद्वत् पासुल रजोबहुल तस्मिन्। पुन कथभूते। दिग्देवतानिकेतननीलोपलकलशप्रकाशभासिनि दिग्देवताना दिक्कन्य काना निकेतनानि मन्दिराणि तेषु ये नीलोपलकलशा इन्द्रनीलमाणिक्यकुम्भास्तेषा प्रकाशस्तद्वत् भासते इत्येवशील तत्तथा तस्मिन्। पुन कथभूते दिक्कन्यकालकवल्लरीविलासप्रसरे दिक्कन्यकाना अलकवलर्यस्तासा विलासवत् प्रसरवत् प्रसरो यस्य तत्तथा तस्मिन्। पुन कथभूते। दिक्पालपुरप्रासादप्रचलाकिनीकुलकलापकेलिकलेदिक्पालपुराणा ये प्रासादा गृहास्तेषा प्रचलाकिनीकुलानि मयूरीसमूहा तेषा कलाप केलीना पक्षक्रीडाना कला शोभा विद्यते यस्य तत्तथा तस्मिन्। पुन कथभूते दिगन्तरकान्तारमधुकरीनिकरश्यामले दिगन्तरेषु यानि कान्ताराणि तेषा मधुकर्य स्वासा निकरास्तद्वत् श्यामल तस्मिन्। पुन कयभूते। प्रत्यन्तरालमाशावलयतटि नीतटतमालदलद्योतकान्ते प्रत्यन्तराले प्रत्याकाशमाशावलयात् यास्तटिन्यो नद्यखासा तटेषु ये तमालास्तेषा दलानि तेषा द्योतवत् प्रकाशवत् कान्त मनोहरं तस्मिन्। पुन कथभूते। शिखरान्तरचरच्छबरसीमन्तिनीचिकुरचयरोचिषि शिखरान्तरेषु पर्वतेषु चरन्त्यो या शबरसीमन्तिन्योऽरण्यवीवरवध्वस्तासा चिकुरा स्तेषा चयस्तद्वत् रोचि शोभा यस्य तत्तथोक्त तस्मिन्। पुन कथभूते। निकुञ्जकुजरकायकान्तिकाले निकुञ्ज लतादिपिहितोदरास्तेषा कुञ्जरास्तेषा कायकान्तिस्तद्वत् काल कृष्ण तस्मिन्। पुन कथभूते। गिरीशगलगरलकल्माषत्विषि गिरीश श्रीमहादेवस्तस्य गल कण्ठस्तत्र यद्गरल विष तद्वत् कल्माषा कृष्णा त्विट्दीप्तिर्यस्य तत्तथा तस्मिन्। पुनः कथभूते। सानुसारसारङ्गाङ्गनापाङ्गकृष्णे सानुसारास्तटगता ये सारङ्गास्तेषा अङ्गनामृग्यस्तासा अपाङ्गा नेत्रप्रान्तास्तद्वत् कृष्ण कालवर्ण तस्मिन्। पुन कथ

प्रतिप्रदेशमचलचक्रवालादभिसारिकाविजृम्भणान्घपटप्रतानतरले, धराधरिणीधम्मिल्लघामधाविनि, महीमहिलामौलिमेचकमणिमहोमान्ये, पार्थिवपतिपस्त्यप्रान्तप्रचारिचीनाशुकध्वजाडम्बरविडम्बिनि, स्मरेक्षुकोदण्डपलाशपेशले, प्रतिप्रतीक मिलाचक्राद्विजद्विजिह्वाश्रमहोमधूमोद्गमस्पर्धिनि, विरहवेगागतभुजङ्गीश्वासानिलमलीमसे, भोगिनगरोपवनपल्लवोल्लासलीलापहासिनि, लेलिहानानिलावलेहजिह्वाजिह्नकालुष्ये, कालियाहिप्रभाप्रभावपा-


भूते। प्रतिप्रदेशमचलचक्रवालादभिसारिकाविजृम्भणान्धपटप्रतानतरले प्रतिप्रदेश स्थाने स्थाने अचलचक्रवालात् मानुषोत्तरपर्वतमध्यात् या अभिसारिका कान्तार्थिन्य स्त्रिय। ‘का तार्थिनी तु या याति सकेत साभिसारिका’ इत्यभिधानात्। परपुरुष लम्पटा स्त्रियस्तासा विजृम्भणे प्रसरे योऽसौ अन्धपट कृष्णवस्त्र तस्य प्रतानो विस्ता रस्तद्वत्तरल चपल तस्मिन्। पुन कथभूते। धराधरिणीधम्मिल्लधामधाविनि धरा पृथिवी सैव अधरिणी अधरो विद्यते यस्या सा अधरिणी स्त्री तस्या धम्मिल्ल सयता कचास्तस्य धाम प्रभा तद्वत् धावतीत्येवशील तस्मिन्। पुन कथभूते। महीमहिलामौलिमेचकमणिमहोमान्ये महीमहिलाया पृथिवीस्त्रियो मौलिस्तस्य मेचकमणि कृष्ण रत्नतस्य महस्तेजस्तद्वन्मान्य तथा तस्मिन्। पुन कथभूते। पार्थिवपतिपस्त्यप्रान्तप्रवारिचीनाशुकध्वजाडम्बरविडम्बिनि पार्थिवाना पतिश्चक्रवर्ती तस्य पस्त्यप्रान्तप्रचारी चीनाशुकध्वजस्तस्याडम्बरस्त विडम्बयतीत्येवशील तस्मिन्। पुन कथभूते। स्मरेक्षुकोदण्डपलाशपेशले

पुन कथभूते। प्रतिप्रतीकमिलाचक्राद्विजद्विजिह्वाश्रममहोमधूमोद्गमस्पर्धिनि प्रतिप्रतीक अवयव प्रति इलाचक्रात् पृथ्वीमण्डलात् द्विजद्विजिह्वाश्रमे द्विजदन्तशकगृहे योऽसौ होमधूमस्तस्योद्गम प्रादुर्भावस्त स्पर्धते इत्येवशील तत्तथा तस्मिन्। पुन कथभूते। विरहवेगागतभुजङ्गीश्वासानिलमलीमसे विरहो विप्रलम्भस्तस्य वेग उत्सुकत्व तमागता प्राप्ता या भुजङ्गी नागकन्या तस्या श्वासानिलस्तद्वन्मलीमस तस्मिन्। पुन कथभूते। भोगिनगरोपवनपल्लवोल्लासलीला पहासिनि भोगिना नागदेवाना यन्नगर तस्योपवनानि आक्रीडवनानि तस्य यानि पल्लवानि प्रवालानि तेषा उल्लासलीला अपहसतीत्येवशील तस्मिन्। पुन कथभूते। लेलिहानानिलावलेहजिह्वाजिह्मकालुष्ये लेलिहाना नागास्तेषा अनिलावलेहा मरुदास्वादिनी या जिह्वा तद्वज्जिह्म गुरुतरं कालुष्य यस्मिन्। पुन कथभूते। कालियाहिप्रभाप्रभावपाटवस्फुटि कालियाहि नारायणनाम तस्य प्रभास्तस्या प्रभावपाटव माहात्म्यपटुत्व स्फोटयति तिरस्करोतीत्येवशील तस्मिन्।

प्रतिप्रदेशमचलचक्रवालादभिसारिकाविजृम्भणान्घपटप्रतानतरले, धराधरिणीधम्मिल्लघामधाविनि, महीमहिलामौलिमेचकमणिमहोमान्ये, पार्थिवपतिपस्त्यप्रान्तप्रचारिचीनाशुकध्वजाडम्बरविडम्बिनि, स्मरेक्षुकोदण्डपलाशपेशले, प्रतिप्रतीक मिलाचक्राद्विजद्विजिह्वाश्रमहोमधूमोद्गमस्पर्धिनि, विरहवेगागतभुजङ्गीश्वासानिलमलीमसे, भोगिनगरोपवनपल्लवोल्लासलीलापहासिनि, लेलिहानानिलावलेहजिह्वाजिह्नकालुष्ये, कालियाहिप्रभाप्रभावपा-


भूते। प्रतिप्रदेशमचलचक्रवालादभिसारिकाविजृम्भणान्धपटप्रतानतरले प्रतिप्रदेश स्थाने स्थाने अचलचक्रवालात् मानुषोत्तरपर्वतमध्यात् या अभिसारिका कान्तार्थिन्य स्त्रिय। ‘का तार्थिनी तु या याति सकेत साभिसारिका’ इत्यभिधानात्। परपुरुष लम्पटा स्त्रियस्तासा विजृम्भणे प्रसरे योऽसौ अन्धपट कृष्णवस्त्र तस्य प्रतानो विस्ता रस्तद्वत्तरल चपल तस्मिन्। पुन कथभूते। धराधरिणीधम्मिल्लधामधाविनि धरा पृथिवी सैव अधरिणी अधरो विद्यते यस्या सा अधरिणी स्त्री तस्या धम्मिल्ल सयता कचास्तस्य धाम प्रभा तद्वत् धावतीत्येवशील तस्मिन्। पुन कथभूते। महीमहिलामौलिमेचकमणिमहोमान्ये महीमहिलाया पृथिवीस्त्रियो मौलिस्तस्य मेचकमणि कृष्ण रत्नतस्य महस्तेजस्तद्वन्मान्य तथा तस्मिन्। पुन कथभूते। पार्थिवपतिपस्त्यप्रान्तप्रवारिचीनाशुकध्वजाडम्बरविडम्बिनि पार्थिवाना पतिश्चक्रवर्ती तस्य पस्त्यप्रान्तप्रचारी चीनाशुकध्वजस्तस्याडम्बरस्त विडम्बयतीत्येवशील तस्मिन्। पुन कथभूते। स्मरेक्षुकोदण्डपलाशपेशले

पुन कथभूते। प्रतिप्रतीकमिलाचक्राद्विजद्विजिह्वाश्रममहोमधूमोद्गमस्पर्धिनि प्रतिप्रतीक अवयव प्रति इलाचक्रात् पृथ्वीमण्डलात् द्विजद्विजिह्वाश्रमे द्विजदन्तशकगृहे योऽसौ होमधूमस्तस्योद्गम प्रादुर्भावस्त स्पर्धते इत्येवशील तत्तथा तस्मिन्। पुन कथभूते। विरहवेगागतभुजङ्गीश्वासानिलमलीमसे विरहो विप्रलम्भस्तस्य वेग उत्सुकत्व तमागता प्राप्ता या भुजङ्गी नागकन्या तस्या श्वासानिलस्तद्वन्मलीमस तस्मिन्। पुन कथभूते। भोगिनगरोपवनपल्लवोल्लासलीला पहासिनि भोगिना नागदेवाना यन्नगर तस्योपवनानि आक्रीडवनानि तस्य यानि पल्लवानि प्रवालानि तेषा उल्लासलीला अपहसतीत्येवशील तस्मिन्। पुन कथभूते। लेलिहानानिलावलेहजिह्वाजिह्मकालुष्ये लेलिहाना नागास्तेषा अनिलावलेहा मरुदास्वादिनी या जिह्वा तद्वज्जिह्म गुरुतरं कालुष्य यस्मिन्। पुन कथभूते। कालियाहिप्रभाप्रभावपाटवस्फुटि कालियाहि नारायणनाम तस्य प्रभास्तस्या प्रभावपाटव माहात्म्यपटुत्व स्फोटयति तिरस्करोतीत्येवशील तस्मिन्।

]

भ्रस्यदाशाकररिघटैः.प्रधावजवकम्पितधरणिदेवतैः, चरणन्यासनमद्भूगोलक [भार]दलितशेष फणावल्ये), प्रत्यक्पुरःपक्षभ्रमिप्रारम्भविजृम्भितप्रभञ्जनजनितकलुशैलशिखरविघटनैः, कटकण्डूयन विनोदभग्नमहामहीरुहनिवहैः, समस्तसत्त्वसंमर्दातुच्छोच्छलच्छोणितच्छटाविच्छिन्नोपहारसंतर्पित- मदपुरुषे, मनःसु धृतसंहारसमयैरिव, दृष्टिषु कृतकाराग्निरुद्रैरिव, दशनेषु विनिवेशितविशसन- कर्मभिरिव, करेषु निहितवधक्रियोपायैरिव, पादेषु संपादित-


  1. “मणिमू०” ↩︎

  2. “लोकनाकुलकलकेलिदिवौक. मूल०” ↩︎

  3. “पुरःसरपव मूल०” ↩︎

  4. " लापकलाप” मूल०" ↩︎

  5. “विनीयमान’ मूल०, " ↩︎

  6. ““महिलामण्डलमूल०,” ↩︎

  7. ““चण्डस्य * मूल०,” ↩︎

  8.  ↩︎
  9.  ↩︎
  10. “अस्यमूलंतु मूलपुस्तकेऽस्मदुपलब्धे नैबोपलभ्यते। टीकाया तु पुस्तकद्वयेऽxxxपलभ्यतेऽयं पाठः। एकस्मिन्सटीकपुस्तकेमूलमध्येऽसन्नेव त्रुटिचिह्नं. दत्त्वाभोमागे टीकासमानाकारएव पाठः पूरितः। नवीसकिखितसदीकपुसके तु दीशासमामाकार पव भोले मूलमध्य एव लिखित उपलम्भते,” ↩︎

  11. “‘खलतिकखेलनकतालयमूल०,” ↩︎

  12. ““विजुम्भमाण मूल०” ↩︎

  13. “तस्य अनुश्चिहृदयान्तरगतस्य’शत्रुक्षत्रिय इत्यत प्राभ्रक्पाठो योग्य” ↩︎

  14. “‘विलासिनी’ सटीकपुस्तकपाठ” ↩︎

  15. “निदानेषु’ मूल०” ↩︎

  16. “‘नाभिगर्तनिर्मत्सित इत्यपि पाठ कचिट्टीकापुस्तकेषूपलभ्यते” ↩︎

  17. “इमौ रत्नपरीक्षाश्लोकौयथादर्शमस्फुटार्थांवेव रक्षितौ” ↩︎

  18. “‘दुःखेन द्रष्टुं शक्य’ इत्येव व्याख्यानमत्रापि ज्ञातव्यम्” ↩︎

  19. “खट्वाङ्गं नरपक्षरम्” ↩︎

  20. " अस्मदुपलब्धटीकापुस्तके नेदं व्याख्यातम्..” ↩︎

  21. “‘उपलक्षित यदाचर्यमाचरणं तस्य’इत्यपि द्मुहुलकेन संभवति,” ↩︎

  22. “‘सुदत्या’ ख.” ↩︎

  23. “इत्यधिक ख पुस्तके पाठ” ↩︎

  24. “अत्र ‘कठिन’ इत्येव पाठ साधीयान्। आदावकार कनचित्प्रक्षिप्त इति बोध्यम्” ↩︎

  25. " ‘नियमितीकरण’ इति ख पुस्तकस्थ पाठ" ↩︎

  26. “अयं पाठ स पुस्तके नास्ति,” ↩︎

  27. “‘मता’ ख.” ↩︎

  28. “‘श्चित्कात्स्य’ ख” ↩︎

  29. “अस्य मूल तु नोपलब्धम्” ↩︎

  30. " ‘बिरेफो नदमात्रे’ इति शब्दार्थचिंतामणि" ↩︎

  31. “‘संहृट्ट’ इति सटीकपुस्तकस्थ पाठ” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  32. " ‘वराहवपु’ मूल०" ↩︎

  33. “‘सहसार्षिकेन्’ आदि पाठ” ↩︎

  34. " ‘नर्मदाद्यानर्मदारुद्ध’ इत्यादर्शेपाठ।" ↩︎

  35. “लेखकप्रमादपतित पाठ” ↩︎

  36. " ‘तरुणी’ टीकापाठ" ↩︎

  37. “इत प्रभृति ‘कुबेरपुर’ इत्यत प्राक्तनपाठे भूयान्व्यत्ययो लखकप्रमादज आदर्शपुस्तकेषु " ↩︎

  38. “कोष्ठका तरगतपाठो लेखकप्रमादेन अष्टोऽस्माभि पूरित .” ↩︎

  39. “अय पाठ सटीकपुस्तके नास्ति” ↩︎

  40. “आदर्शत्रयेऽप्येकविधौवानुपू वरफ्टाया” ↩︎

  41. “आदर्शपुस्तकेषु तु ‘मुनेर्मनीषेव बुद्धिरिव बुद्धिर्यथा’ इति पाठ आसीदिति त लेखकप्रमादज मत्वा योग्यतया पूरितोऽस्माभि” ↩︎

  42. “‘अनङ्गजाभोगैरिव’ इत्यपि क्वचित्पाठ” ↩︎

  43. “अत्र सवत्र ‘कैरिव’ इत्येव पाठ साधीया प्रतीयते” ↩︎ ↩︎ ↩︎ ↩︎

  44. " ‘विशेषणपञ्चको’ इत्यपि पाठ पुस्तकान्तरे” ↩︎

  45. “लेखकप्रमादपतितप्रतिभाति” ↩︎

  46. “‘ना रूपा ’ इत्यादर्श पाठ " ↩︎

  47. “व्याख्येयस्य गद्यत्वसूचकमेतत्.” ↩︎

  48. “‘साधकै’ इत्यादर्श पाठ” ↩︎

  49. “कस्मिंश्चित्पुस्तके नास्त्यय पाठ” ↩︎

  50. “‘कलिक(स ↩︎

  51. “‘ग्रहण’ पद टीकायामुपलभ्यते, नादर्शपुस्तकेषु” ↩︎

  52. “‘मसद्देशप्रवेशावेश’ इति टीकायांक्वचित्पाठ” ↩︎

  53. “‘विशेषार्थव्यावर्णने’इति सटीकमुस्तकपाठ” ↩︎

  54. “‘क इव’इति पाठ उचित” ↩︎

  55. “पुन कथभूतोभूप’ इति ‘प्रकटित’-इत्यत प्रागेवोचित” ↩︎

  56. “क इव’इत्युचित क्वचित्पुस्तके तु ‘क इव’इत्येव पाठ उपलभ्यते.” ↩︎

  57. “‘श्चगल’इति सटीकपुस्तके” ↩︎ ↩︎

  58. “समग्रोऽपि मूलश्लोकष्टीकादर्शद्वयेऽपि” ↩︎

  59. “‘तन्मुनिकृमारकयुगलविछोकनोत्तर खगतमेव चिन्तयति स” इत्येव सबन्धकेस्पना सौभ्या ‘डपावीविशत! इत्यनेन समम्ये मध्ये खगतचिन्तनक्रियावाचकरपदस्यापिखगतत्वे अध्याहारक्केश स्यात्‌ ^” ↩︎

  60. “अश्र ‘इत्येवचिन्तयति स’इति टीकानुकूछ कश्चित्पाठो गलितो भवेत्‌” ↩︎

  61. “‘क इव’ इत्युचित” ↩︎ ↩︎ ↩︎

  62. “‘धारैव्र जलम्’ इति व्यारमान तु रमणीयम्” ↩︎

  63. “‘वास्सितु शक्या’ इति पाठो भवेत्.” ↩︎

  64. “‘कुटिलगतिदुर्वचन विषसमृतमुख’ इति पाठो भवेत्” ↩︎

  65. “अस्यात्रसगतिर्ध्येया.” ↩︎

  66. “पाणिनीयव्याकरणे तु समासान्तोऽच्प्रत्यय” ↩︎

  67. “पुस्तकत्रयेऽपि समान एव पाठ, परंतु ‘के, तश्चरितचेतस श्व श्रेयसप्रवर्तनाय चेतो मनो येषाम्’ इत्यर्थकपाठो भवेत्, यद्वा कियान्पाठस्त्रुटितो भवेत्” ↩︎

  68. " बहुव्रीहौ समासान्तानुपपत्त्या संबोधनत्व सम्यक्” ↩︎

  69. “‘वर्णनमुच्यते’ इति सटीकपुस्तकपाठ” ↩︎

  70. “पुस्तकनयेऽप्युपलभ्यमानोऽयं पाठो न चमत्कारकारी, वस्तुतस्तु ‘धाम’ शब्दस्याजहल्लिङ्गत्वेन नपुसकत्वे नलोपविकल्प” ↩︎

  71. “‘गिरिसोपाननगरादिस्त्रीणाम्’ इत्यग्रेपाठ” ↩︎

  72. " ‘इत्यङ्कनाम’ इत्येव भवेत्” ↩︎

  73. “अय पाठो लेखकप्रमादजो भवेत्” ↩︎

  74. “‘घर’ मूल०” ↩︎

  75. “‘जन’ इति टीका०” ↩︎

  76. “‘वुधवन’ इति मूलोपलब्धप्राचीनपाठे ‘पल्लवितमुल्लासंप्रापिंतं बुधा एव बनम्’ इति बोध्यम्” ↩︎

  77. “मूलपाठोऽयम्.” ↩︎ ↩︎

  78. “मूलपाठोऽयम्” ↩︎ ↩︎

  79. “‘गङ्गापुर’ इति सठीक्पुस्तके” ↩︎

  80. “पथमाश्रित्य’.” ↩︎

  81. “‘प्रवाहमालापेषु, गम्भीरत्व नासयो’ इत्येव पाठष्टीकानुसारी” ↩︎

  82. “पुस्तकत्रयेऽप्यत्र पाठस्रुटित” ↩︎ ↩︎

  83. " पुस्तकत्रयेऽप्यत्र पाठस्रुटित" ↩︎

  84. " ‘दिशि’ इति पाठष्टीकानुसारी" ↩︎

  85. " ‘वदाना’ इति पाठ सटीकपुस्तके" ↩︎

  86. “स्यादस्त्यवाच्यम्। स्यान्नास्त्यवाच्यम्’ इति सटीकपुस्तकपाठ” ↩︎

  87. “अत्र कियान्प्रन्थस्त्रटित.” ↩︎

  88. “त्रुटितमिव भाति” ↩︎

  89. “श्युस्तद्गृह ’इति भवेत्‌” ↩︎

  90. “भृत्सद्भ्रमणात्’ इति पाठ” ↩︎

  91. “अय पाठ सटीकपुस्तके नोपलभ्यते” ↩︎

  92. “एतत्कोष्ठान्तर्गतपाठ सटीकपुस्तके त्रुटित।” ↩︎

  93. “अत्रकिचित्त्रुटित भाति” ↩︎

  94. " त्रुटिचिह्न पुस्तकत्रयेऽप्येवमेव" ↩︎

  95. “‘मुत्पादयन्ति’ इति सटीकपुस्तके” ↩︎

  96. " ‘भवसि’ इति भवेत्" ↩︎

  97. “वाहलि ख” ↩︎

  98. “‘अकम्पित’ सटीकपुस्तकपाठ” ↩︎

  99. “‘लग्नेव’ सटीकपुस्तकपाठ” ↩︎

  100. “‘नाज्झलौ’ इति सूत्रस्थभाष्यकैयटानुरोधेन टीकोपलभ्यमानेषु परश्शतादि शब्देषु सुट परादित्वेनापदान्ततया स्त्वोत्वविसर्गादीनामप्राप्त्या तद्घटितप्रयागाश्चिन्त्या” ↩︎

  101. “मूले टीकायां चोपलभ्यमान ‘इमै’ इति प्रयोगो व्याकरणविरुद्ध इति कथ महाकविना प्रयुक्त” ↩︎

  102. “‘वल्लरिर्मञ्जरि स्त्रियौ’ इति कोशवाक्याद्ध्रस्वान्तोऽपि मञ्जरिशब्द” ↩︎

  103. “आहो उताहो-शब्दवन्निपातसमुदायोऽयम्” ↩︎

  104. “अस्पृश्येति नञ्समासघटितप्रयोगे ‘अनञ्समासे’ इति व्याकृतिसूत्रस्थपर्युदा सत्वेन ल्यबादेशाप्राप्त्या तद्धटितप्रयोगोपादान महच्चित्रकरम्” ↩︎

  105. “टीकोपलभ्यमानेषु सर्व रात्र्यादिशब्देषु ’ अह सर्वैकदेश - ’ ( ५१४१८७ ↩︎

  106. “‘त्वाच्च’ सटीकपुस्तकपाठ” ↩︎

  107. “डलयोरैक्यात्सजल समुद्र इत्यर्थ” ↩︎

  108. " ‘विद्वत्सु’ इति भवेत्” ↩︎

  109. “‘भावनियतमन्त्रा’ इति सटीकपुस्तकस्थ पाठ” ↩︎

  110. “तां विभाषते’ सटीक पुस्तकस्थ पाठ” ↩︎

  111. “‘विदुध्विणीना’ इति मूलप्रतीक भवेत्” ↩︎

  112. “‘अर्शाद्यजन्तत्वेन पुच्छार्थकत्वम्’” ↩︎

  113. “कोशेषु तु सख्याह्वाने हलाशब्द समुपलभ्यते” ↩︎

  114. " ‘स्वर्प्यास्ये’ इति पाठो भवेत्" ↩︎

  115. " ‘धुरस्तस्य’ इति पाठो भवेत्" ↩︎

  116. “छिद्रा वेषणरहित पूर्णविश्वासी इत्यर्थ” ↩︎

  117. “‘अमित्रा’ इति भवेत्” ↩︎

  118. “‘कुम्भिपालस्य’ इति भवेत्” ↩︎

  119. “अत्रातिशब्दस्याकारस्य लोप विचार्य ‘हस्तीतीव’ इति पदोपादान ग्रन्थकर्तु प्रमाद ‘नागोतीव’ इति वाच्यश्च” ↩︎

  120. “‘क्षुद्रकूपे तु चूरी चूण्ढी तु चूतक’ इति हैमनाममाला कोशान्तरे तु ह्रस्वाद्योऽपि चुरीशब्दो दृश्यते” ↩︎

  121. “‘लासै’ इति सटीकपुस्तकस्थपाठ” ↩︎

  122. “’ पङ्कजाप्त’ इति सटीकपुस्तकपाठ” ↩︎ ↩︎

  123. “’ वदनानि’ इति सटीक पुस्तकपाठ,” ↩︎

  124. “‘वाट पथश्च माथश्च’ इति त्रिकाण्डशेषादकारान्तोऽपि पथशब्द साधु ‘पृथ्वीवूली’ इति सटीकपुस्तकपाठ” ↩︎

  125. " ‘मतिश्च य’ इति हैम" ↩︎

  126. “यद्यपि सर्वेषु पुस्तकेषु ‘मन्दिरतया’ इत्येवोपलभ्यते, तथापि सटीकपुस्तके टीकाया व्याख्योपक्रमे तकारोपरि प्रथमत्वबोधक्सख्याया रेफोपरि द्वितीयत्वबोधकसख्याया केनचिच्छोधकेन कृताया ‘मन्दवेगा’ इति पर्यायस्य च दर्शनेन पाठस्तथा कल्पित” ↩︎

  127. “मूलटीकयोरुभयोरपि ’भाजन’ इति पुस्त्वनिर्देश ’पात्रमत्रे च भाजनम्’ इति क्लीबनिर्देशविरुद्ध” ↩︎