[[चारुचरितावली Source: EB]]
[
Please dont Edit this page (Blank Page)
[TABLE]
[TABLE]
[TABLE]
विषय-सूची
<MISSING_FIG href="../books_images/U-IMG-1732615458j1.png"/>
| विषयनाम |
| पूर्वाभाषणम् |
| महात्मा बुद्धदेवः |
| श्रीशङ्कराचार्यः |
| स्त्रीष्टयीशुप्रभुः |
| मोहम्मदमहोदयः |
| श्रीकबीरदासः |
| गुरुनानकदेवः |
| श्रीमद्दयानन्दसरस्वती |
<MISSING_FIG href="../books_images/U-IMG-1732779288j0.png"/>
अगण्यगुणागारं सर्वगौरवास्पदं या गीर्वाणवाणी वेदब्राह्मणोपनिषद्दर्शन-स्मृतिपुराणेतिहासकाव्यादिषु विविधाभि नवमनोहरच्छविभिः सहृदयानां मनांस्यावर्जयन्ती, नानाशास्त्र ज्ञानविज्ञानकलासाहित्यैः समस्तसंसारे बोधरश्मीन् प्रसारयन्ती, भिन्नभिन्न भाषारूपान्तरैः सर्वमानवनिवहे वाक्सामर्थ्यमर्पयन्ती, जपहोमसंस्काराद्यखिलकर्मकाण्डेषु व्यवहृतास्मत्सकलधर्मकार्याणि संसाधयन्ती, व्यापकतया स्थिरतया सर्वभावप्रदर्शनशक्त्या च सर्वदेशीयेषु मनुष्येषु विचारविनिमयसंबंधं स्थापयन्ती, वर्धिष्ठाप्यजरा, पुराण्यप्यभिनवा, सान्ताप्यनन्ता सर्वलोकानुरञ्जनसमर्था, सर्वोपकारक्षमा, जगन्मान्या, स्मरणातीतसमयाज्जगतीतले विराजते। यस्यां पुरुषोत्तमस्य निःश्वसिता अपौरुषेयाः वेदाः प्रादुरभवन्, यस्यां ब्राह्मणोपनिषत्कल्पगाथानाराशंसीप्रभृतिवैदिकसाहित्यजातस्यादिमं धर्मस्रोतो वसुधायामसुस्रुवत्, यस्यां कपिलकणादगौतम पतञ्जलि जैमिनिवादायणादयो दीर्घदर्शिनो दार्शनिका आत्म
तत्वविचारं सूत्रयामासुः, यस्यां स्वशोकमपि श्लोकं कृतवत आदिकवेर्वाल्मीकेरादिकविता रामायणामृतमवर्षत्, यस्यां गुरुत्वान्महत्वाच्च पञ्चमो वेदः श्रीकृष्णद्वैपायनस्य महाभारतं भारतं भारतमकरोत्, यस्यां योगिराजयादवेन्द्रानन्दकन्दनन्दनन्दनश्रीकृष्णस्य कर्मयोगायोगा श्रीमद्भगवद्गीता गीता, यस्यां कविकुलगुरुः कालिदासो रम्याणि रूपकाणि कमनीयानि काव्यानि च कृत्वा भारतं वर्षं प्रमोदवर्षं व्यधात्; यस्यां भासभारविभवभूतिप्रभृतयो बहवः सिद्धसारस्वता वाणीवरपुत्राः सुधासारनिष्यन्दिनीः कवितामंदाकिनीः प्रवाहयामासुः, यस्यां धन्वन्तरिसुश्रुतचरकवाग्भट्टहारीताश्चिकित्सा- शास्त्राणि, पाराशरगर्गार्यभट्टवराहमिहिरभास्कराज्यौतिषतन्त्राणि, अन्ये चाचार्या विविधविद्याप्रबंधरत्नानि प्रणिन्युः; सा सुरभारती सांप्रतमपि सर्वातिशायि प्राक्तनसाहित्यसंदोहं धारयन्ती नाधुना तथा नित्यं प्रत्युपचीयमानावयवा श्रियं पुष्णाति यथा पञ्चमाद्विक्रमशतकात्पूर्वम्। तत्समयं यावद्यथा साहित्यसेविनो नवनवान् नाना विषयान्नधिकृत्य ग्रन्थान् जग्रन्थुर्नतथा पश्चात्तनाः।
अतिनिर्मलो विशालोऽपि जलाशयो निरुद्धनवप्रवाहागम आविलो विरसश्च भवति।
“क्षणे चणे यन्नवतामुपैति,
तदेव रूपं रमणीयतायाः।”
इति माघमहाकवेः सूक्तेर्नवनयोन्मेषशाली पदार्थो रम्यः प्रतीयते। विक्रमस्य पञ्चमशतकादूर्ध्वं नवनवविषयाणां प्रवाहः संस्कृतसाहित्यसरोवरे प्रायो रुद्ध एव।
संसारे पण्डितानां प्रतिभा आविष्कारकाणाञ्चाविष्कारिणी मतिर्न कदापि कुण्ठिता निगडिता च तिष्ठति सा सततं कार्यकारणनिरीक्षणनाभिनवानि तत्वान्युद्घाटयति, महाशक्तिशालिनां महाभूतानां भूतियोगाच्च विस्मयावहं नवनवं वस्तुजातमाविष्करोति। पञ्चदशवैक्रमशतकात्परं तत्त्वज्ञैः समाजशास्त्र1संपत्तिशास्त्र2प्राणिशास्त्र3वनस्पतिशास्त्रा4भिजननशा-स्त्राद्यनेकानि5 शास्त्राणि पुरातत्वविज्ञान6भाषातारतम्यविज्ञान6कीटाणुविज्ञाना7 दिबहुविज्ञानानि रसायन8भौतिकी9वैद्युत्प्र10भृतयो विविधा विद्याश्च प्राकाश्यन्त, रयलशकटी11धूम्रपोतपाद12चक्रिका13 विमानादीनि14 यानानि विद्युद्वार्ता15वहच्छायाचित्रणा16क्षरमुद्रण17स्वनग्राहादीनि18 यन्त्राणि मतिमद्भिराविष्कारकैर्वसुधायामावि-
ष्कृतानि। एभिरतिविस्तीर्णं भूमण्डलं पुररूपंणेकत्र संकोचमिवावापत्। येषां पातालादिदूरस्थभूभागानां नामान्यपि भारतीया भारतयुद्धादूर्ध्वं व्यस्मरन्, तेऽद्य प्राचुर्येण पर्यट्यन्ते। न चापि भूतलस्य रूपं सवदेवैकाकारमवतिष्ठते।
“पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरितां,
विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदम्,
निवेशः शैलानां तदिति बुद्धिं द्रढयति ॥”
इत्युत्तररामचरिते श्रीरामचन्द्रस्योक्तिः सर्वदा भूपृष्ठे सञ्जाघटीति। “विलक्षणोऽयं भगवान् सकलकलाकलापकलनः सकलकालनः करालः कालः। स एव कदाचित् पयःपूरितान्यकूपारतलानि मरूकरोति, सिंहव्याघ्रभल्लूकगण्डकफेरुशशसहस्रव्याप्तान्यरण्यानि जनपदीकरोति, मंदिरप्रासादहर्म्य- शृङ्गाटकचत्वरोद्यानतडागगोष्ठमयानि नगराणि च कान-नीकराति।” तेनैवाद्य पुराणेषु वर्णितानां जंबूप्लक्षक्रौञ्चशाकशाल्मली कुशद्वीपानां क्षीरदधीक्षुमधुसागराणाञ्चाकारपरिमाणे न क्वापि वसुधायामुपलभ्येते राज्यानां परिवर्तनैश्च द्वीपानां देशानां प्रान्तानाञ्च सोमानो नामधेयानि च परिवृत्यन्ते, वस्तुतस्तु भूगोलविद्या समये समयेऽभिनवं रूपं धारयति।
इतिवृत्तशास्त्रञ्च कालक्रमेण नवीनघटनावलीं गृहीत्वा वृद्धिं विपुलताञ्च समुपैति। सर्वाण्येतानि नवाविर्भूतानि शास्त्रजातानि, नूतनाविष्कारान् भुगोलमितिवृत्तञ्चार्वाचीनभाषासाहित्यसेविनस्तासु तासु भाषासु निवेशयामासुः निवेशयन्ति च। सुरगिरामुपासका अपि सुरभाषाभण्डारं वैक्रमपञ्चमशतकात्पूर्वं तथैवाभिनवै र्विज्ञानैर्महोपकारक नवकलाभिश्चानवरतं पूरयामासुः कृष्णद्वैपायनो यथा सृष्टिमारभ्य युधिष्ठिराभिषेकान्तमितिहासं विज्ञानञ्च महाभारते न्यबध्नात्, महाभारतमार्याणां धर्मस्य दर्शनस्य समासेन सर्वविधविज्ञानानाञ्च विश्वकोषः, तस्मिंस्तेषां धर्मशास्त्रमर्थशास्त्रमिनिवृत्तं ज्यौतिषं गणितमित्यादि सर्वमेकत्र निहितमस्ति तदेव तेभ्यो धर्मार्थकाममोक्षाणां साधनानि ददाति, तेन भारतं पञ्चमो वेद उच्यते,
“न तदस्ति हि लोकेऽस्मिन्, भारते यन्न दृश्यत”
इति लोकोक्तिश्च भारतीयेषु प्रचरति; यथा च वराहमिहिरो बृहत्संहितायामनेकाः कला अवर्णयत्। परन्तु पश्चात्सा सरणी साहित्यसेविभिरत्यज्यत ! ततः संस्कृतकवयः प्रायः शृङ्गारैकरसप्रणयिनः कामकेलिवर्णनायामेव स्वलेखनीं व्यापारयामासुः, दार्शनिकाश्चावच्छेदकावच्छिन्नभाषणपटवो वाग्जालमात्रवितंडाभिः स्वसमयमतिवाहयामासु, श्छात्राणाञ्च बहुमूल्यं समयं खण्डयामासुः। तेनैवाद्यतनाः संस्कृताध्येतारोऽध्यापयितारश्च नवप्रचारितशास्त्राणां भूगोलखगोलेतिवृत्तगणितादिमहावश्य-
कविद्यानाञ्चापि तथानभिज्ञाः सन्ति यथाते सांप्रतिकसंसारे वर्तमाना अपि समानां द्विसहस्र्या पूर्ववर्त्तिनि काले शरीरयात्रां कुर्वाणाः प्रतीयन्ते। अधीतमेघदूतः काव्यज्ञ एकः
“तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां।
जन्होः कन्यांसगरतनयस्वर्गसोपान पङ्क्तिम्।”
इति पद्ये कथितं कनखलनगरं दक्षिणस्यामाशायां निर्दिशन्मयादर्शि। अनेके पण्डितंमन्याः स्वर्णलंकां रक्षोभिरध्युषितामद्यापि विभीषणोऽधिशास्तीति विश्वसंति, पातालञ्च भुजंगपिहितद्वारं जानंति। कविकुलगुरो रघुवंशमहाकाव्ये महाराजरघोर्दिग्विजययात्रामधीयानास्तद्वर्णितस्थानानामभिज्ञा विरला एव। व्यवहारज्ञानोद्दिष्टानि काव्यानि पठन्तोऽपि तेष्वागतेषु वनस्पतीनां प्राणिनाञ्च वर्णनेषु ‘वृक्षविशेष’ इति ‘जीवविशेष’ इति ज्ञात्वैव संतोषं लभंते। “उष्ट्रः कश्चित्पक्षिविशेष” इति टीकाकारविशेषस्य टिप्पणी वर्तमानसंस्कृतज्ञानां प्राणिशास्त्रज्ञानं प्रमाणयति। एको व्याकरणकेशरी पञ्चाङ्गस्य तिथ्यङ्कानामनभिज्ञो लेखकेनानेन दृष्टः। यत्र भोजप्रबंधसदृश कमनीयकाव्यस्य प्रणेता श्रीवल्लालपंडितोऽपि भिन्नभिन्नसमयेषु वर्षाणां शतं पूर्ववर्तिनः परवर्तिनश्च कवयितॄन् वैक्रमद्वादशशताब्द्यां वर्तमानस्य परमारवंशावतंसस्य श्रीभोजराजस्य सभायामेकत्र समाहूय शास्त्रार्थे नियोजयति, तत्र तद्विधान्
निबंधाननुशीलयतामितिवृत्तज्ञानस्य कथैव का। सुरभारत्यामितिवृत्तप्रबंधानामीदृशं दुष्कालं दृष्ट्वा पाश्चात्याः प्राक्तनान् भारतीयान् इतिहासविद्याविरहितान् कथयन्ति। तेनैवाद्य संस्कृतमात्राध्यायिनो विविधविद्याविशारदैः संसारस्यायोग्या भिक्षामात्रेणोदरदरीभरणक्षमाः परमुखापेक्षिणः कथ्यन्ते। हा हन्त! या देवभाषैकदा सर्वभावव्यञ्जकत्वात्सर्वव्यवहारसाधिका सर्वत्र लब्धप्रसरा सर्वविद्यानिधान ञ्चासीत् सेदानीं स्वसेवकानां प्रमादेनेदृशीं हीनां दशमगमत् यत्साद्य परावलंबिनां देवलानां भिक्षुकाणाञ्च कार्यनिर्वाहिका भूगोलेतिहासादिसदृशीभिर्नित्योपयोगिसामान्यविद्याभिर्विरहिता दरीदृश्यते।
भूगोलानभिज्ञः कश्चित्तेन पुरुषेणैव तुलामधिरोहति, यः कस्मिंश्चिन्नगरे निवसन्नपि तस्य रथ्याश्चत्वराणि विपणीर्निवेशविशेषान् प्रसिद्धप्रशस्त प्रासादान् सभागृहाणि देवालयान् तडागान्नारामान् कारून् सहवासिनश्च न जानाति, यो वा कमपि महाप्रासादमधिष्ठितोऽपि तस्य द्वाराणि वातायनानि गवाज्ञान् कक्षा अन्तर्गृहाण्यंगणानि वितर्दिकाः स्नानागारं पाकशालां शौचालयं वा न वेत्ति। इतिवृत्तज्ञानशून्यश्च पूर्वपुरुषाणां गौरवविवर्जितः परानुभवशिक्षारहितः स्वाभ्युदयोत्साहहीनः पदे पदे बाधाविघ्नैराहन्यमानो महाकार्याणि साधयितु राजनीतौ पदमाधातुञ्च समर्थो न भवतीति नाविदितं शेमुषीजुषां विविधविद्यावताम्। एतस्य ज्वलदुदाहरणमद्यतना वराकाः
संस्कृतज्ञा ये सांप्रतिक सभ्यसमाजस्याङ्गीभूतानां समाचारपत्राणामपि रसमास्वादयितुं न प्रभवन्ति। तेष्वागतानि विविधस्थलानां सागराणां राष्ट्राणां प्राचीनानामर्वाचीनानां राज्यानाञ्च नामानि राजनीतितत्वानि संपत्तिशास्त्रप्रश्नाश्च तेभ्यः प्रहेलिकामात्राणि मन्त्रबीजकानि वा भवन्ति।
आसमञ्जस्यमिदमपाकर्तुं सुरभारतीभाण्डारञ्च पूर्ववत्पूरयितुं संस्कृतज्ञानपि राष्ट्रस्य सभ्यसमाजस्य चाङ्गानि राजनीतिनिपुणांश्च विधातुमितरभाषारिववास्यां सर्वभाषाणामादिजनन्यामपि भूगोलेतिवृत्त निबंधानां परमावश्यकता वर्तते। यथांगलभाषायां ‘कारलाइलप्रणीतवीराः’ (Heroes of Carlisle) ‘भारतीयशासकमालिका’ (Rulers of India Series) राष्ट्रनिर्मातारः’ (Nation Builders) इत्यादीनीतिवृत्तमयानि, ‘अनेकेषु देशेषु दृष्टिपातः’ (Peeps at many lands) विविधपर्यटनवृत्तान्तप्रभृतीनि च भूगोलविषयाणि मनोरञ्जकानि पुस्तकानि सन्ति। तथाविधान्येव सरलया प्रसादगुणसपन्नया मनोहरया वैदर्भीरीतिरम्यया गद्यमय्या सुरगिरा गुफ्येरन्। एवंविधानां प्रबंधानां भाषागौड़ीरीत्यातिरञ्जिता दुर्भरालंकारभारावसन्ना सुदीर्घसमासबहुला दुर्बोधा भवितुं नार्हति। यतो निसर्गसुंदरी सुरभारतीवधृरतिरञ्जनामलंकारभारं वा नापेक्षते। अपरञ्च कालगतिमेवानुसृत्यास्माभिरपि गन्तव्यम्। गतोऽधुना कालो ज्यौ-
तिषवैद्यकदर्शनादिगहनविज्ञानविषयेष्वपि पद्यप्रयोगस्यालंकारभारारोपणस्य महादीर्घसमास-स्थापनस्यौजःप्रदर्शनस्य दुर्बोधभाषापाण्डित्यप्रदर्शनस्य च। अद्य तु सारमय्याः सरलाया अलंकारभारं विनापि निसर्गमधुराया गद्यभाषाया आदरो भवति। तस्मात्सम्प्रति सुरभारत्या अभिनवसाहित्येऽपि तथा विधैव भाषा प्रयोक्तव्या। सैव मनुष्याणां मनांस्यावर्जयिष्यति, प्रकृतविषये च तान् प्रवेशयिष्यति।
एनादृशसंस्कृतसाहित्यसृष्टौ सिद्धसरस्वताः प्रतिभावन्तः कृतविद्या एव प्रभवः। प्रार्थ्यन्तच सप्रश्रयं मयानेके पण्डितप्रकाण्डास्तादृशः प्रबन्धान् प्रणेतुम्। परं मादृशसाधारणजनवचनमश्रद्दधाना ब्रह्मानन्दसहोदराक्षरब्रह्मानन्दनिमग्ना वा दार्शनिकगहनविषयचिन्तादत्तचित्ता वा ते मत्प्रार्थनां, नाद्रिषत।
“सुरवाणी साधारणविषयवर्णनाय नोद्दिष्टा। तस्यां कमनीयानि काव्यानि दार्शनिकविषयाश्च शोभन्ते। लौकिकविद्यया गीर्वाणवाण्या अपकर्षकारका’ इति च केचिदभाणिषुः। तेषां प्रत्याख्यानपापमकुर्वतापि मयेदं वक्तव्यमेव यज्जनसाधारणैरव्यवहृता परमसमान्या अवीवोत्कृष्टा सनातनादागतापि कापि भाषा जगतीतले स्थातुं न शक्नाति, साधारणजनाश्च काव्यानां दर्शनानाञ्चापेक्षया स्वोपयोगविषयाने- वाधिकतरमनुशीलयन्ति। लौकिक साधारविषयाश्च सुरभारत्यां पूर्वैराचार्यैर्बहुधा
निबद्धा इत्युपरि वर्णितमेव। तेनोपयोगितावादयुगेऽस्मिन् यदि देववाण्या रक्षा स्थितिश्चास्मदभिमता, तदाधुनिकलौकिकव्यवहार्यसाहित्य मस्या मस्माभिः स्रष्टव्यमेव।
स्वाभीष्टविषये विद्यादिग्गजानां कृपाकटाक्षसौभाग्यवञ्चितोऽयं जनः पूर्वपुरुषाणामादिभाषाया देवभाषाया अनन्यभक्त्या निजसामर्थ्येन सर्वथा दुर्गमे मार्गे प्रवृत्तिचापलाय प्रणुदयत। धर्मभाषाशुश्रूषैवेमं साधारणजनं पुरुषोत्तमप्रियायाः प्रीतिमपाकृत्य भवान्याः19 प्रसादाय प्रालोभयत्। तेनायं पाश्चात्यभाषोपासनायामतिवाहितशिक्षासमुचितवाल्यकालोऽप्यपरस्मिन् वयसिधनागमव्यापारविमुखः संस्कृतानुशीलनतत्परोभवति गच्छतीत्यादि कतिचित् पदान्यवागच्छत्। स्वतनयाँश्च गजकीयविद्यामंदिरेष्वप्रवेश्य संस्कृतसाहित्यमेवाभ्यासयाञ्चके। परं सर्वेणानेन प्रयत्नेन निजायोग्यतामज्ञताञ्चैव सम्यगजानात्। यद्यपि मम चपलतायाः परिणामः किञ्चित्परिवर्तितैः कविकुलगुरोः कालिदासस्य प्रियाक्षरैः-
“मन्दः सिसेविषुर्वाणीं, गमिष्याम्युपहास्यताम्।
प्रांशुलभ्ये फले लोभा, दुद्बाहुरिव वामनः ॥”
१ “अतो विद्याशब्दवाच्या भवानी, तदुपासनेन चित्तशुद्धौ जातायां लिङ्गशरीरभङ्गद्वारा मोक्ष” इति श्रीमदानन्दगिरिकृतौ शंकरविजय श्रीजीवानन्दविद्यासागरेण १८८१ तमे ख्रीष्ठादे मुद्रापिते १९ प्रकरणे ९९ पृष्ठे
इति सुनिश्चितमेष, तथापि “अकरणान्मन्दकरणं श्रेय” इति लोकोक्तिं गृहीत्वास्मिन् संस्कृतप्रबंधरचनारूपदुष्करकृत्ये प्रवर्ते।
यथामानिशाया निबिडनमसि आकाशे तारावली मधुराभया पथभ्रष्टान् पान्थान् मार्गं दर्शयति प्रमोदयति च तथैव प्रातः स्मरणीयानां धर्मसंस्थापकानां महात्मनां कोविदानां कविनां महावीराणां राष्ट्रनिर्मातॄणाञ्च चारुचरितावली संसारकान्तारे बंभ्रम्यमाणान् पुरुषान् सत्पथं निदिशत्यानन्दयति च। अनेनैवेतिवृत्तविद्यायां सदाचारशिक्षायै मनोरञ्जनायच सर्वप्रथममियं चारुचरितावली ग्रथ्यते, तस्याञ्च धर्मस्य सर्वप्रधानत्वात्प्रथमप्रकरणरूपेण धर्मसंस्थापकसप्तकं निवध्यते। द्वितीयप्रकरणे भक्ताष्टकं, तृतीये सम्राट्सप्तकं, चतुर्थे कविरत्नं पञ्चमे वीरमातरः, षष्ठे वीरबालकाः, सप्तमे कोविदमणिमाला, अष्टमे राष्ट्रनिर्मातारः प्रकाशमेष्यन्ति। सर्वाणीमानि प्रकरणानि सचित्राणि मुद्रापयिष्यन्ते। धर्मसंस्थापकसप्तके मोहम्मदमहोदयस्य चित्रं मोहम्मदीयमते चित्रनिर्माणस्य निषिधत्वान्न मुद्रापितम्। विषयेऽस्मिन् मुसल्मानधर्मश स्त्रिणो लखनऊनगरवास्तव्यस्य मौलानाअब्दुलबारीमहाशयस्य व्यवस्थां गृहीत्वास्माच्चित्रलेखनव्यापाराद्व्यरमम्।
इयं चारुचरितावली प्रियपुत्रस्य श्रीसिद्धगोपालस्य सततसहोद्योगेन प्रबलप्रयत्नेन च वर्तमानरूपं प्रापत् तेन तत्प्रणयने तस्य प्रधानांशोऽस्ति। अन्ये च ये कृपालवः कार्येऽस्मिन् मम
सहाया अभवन् तेषामपि पूतनामधेयानि सप्रश्रयं सानेकधन्यवादमत्र लिख्यन्ते।
परमपूजनीयास्तत्रभवन्तः सांख्यवेदान्ततीर्थोपाधिकाः कांगड़ीगुरुकुल विश्वविद्यालयमहोपाध्यायाः श्री पं० कन्हैयालालशास्त्रिणोऽस्याः संशोधने प्रबलं प्रायतिषत, तदर्थं तेभ्यो बहुकृतज्ञतां धारयामि।
श्री काशीस्थकवीरचौराख्यश्रीकबीरमठाधीशाः श्रीरामविलासदास महान्तः श्रीकबीरस्यच्छायाचित्रदानेन मम सहाया आसन्।
अधोलिखितेभ्यो ग्रन्थेभ्योऽपि धर्मसंस्थापकसप्तके सहायता लब्धा। अतस्तेषां प्रणेतृमहाशयेभ्यः कोटिशो धन्यवादाः समर्प्यन्ते।
(१) महाकविश्रीमदश्वघोषविरचितबुद्धचरितम्।
( २ ) श्रीजगन्मोहनवर्मकृतबुद्धदेवः।
( ३ ) श्रीचित्सुखाचार्यकृतबृहच्छकरदिग्विजयः।
( ४ ) श्रीमदानन्दगिरिकृतशंकरविजयः।
(५ ) श्रीमाधवाचार्यप्रणीतत्वेन प्रसिद्धः शंकरदिग्विजयः।
(६) स्थण्डिलाग्रहारिकश्रीशंकरनारायणशास्त्रिप्रणीतः श्री शङ्कराचार्य समयः( ‘The Age of Sankara’ by Pt. T. S. Narayan Sastri B. A. B. L. Vakil High Court Madras ) अस्माद्बहुमूल्यग्रन्थाच्छीबुद्धदेव शंकराचा
र्ययोः समयविषयकमपूर्वज्ञानं लब्धम्। तदर्थं श्री नारायण शास्त्रिणो विशेषकृतज्ञोऽस्मि।
(७) सी. एन. कृष्णस्वाम्यार्य एम. ए. एल. टी. कृतांगलभाषामयः श्रीशङ्कराचार्यः।
(८) श्रीमद्वाइबिलाख्यख्रीष्टीयधर्मग्रन्थः।
(९) ‘The King of Truth’ by Mr. W. E. Tomlinson.
(१०) ‘Child’s Life of Jesus Christ’ by Mr. C. M. Steedman.
( ११ ) Life of Mohomet’ by Mr. Irving Washington.
(१२) महाकविमौलवीहालीकृतं ‘मद्द-ओ जज़र इस्लाम’।
(१३) श्री पं० द्वारकाप्रसादचतुर्वेदिकृत आदर्शमहात्मागणः’।
(१४) श्रीरामविलासशारदकृत ‘मार्यधर्मेन्द्रजीवनम्’।
(१५) श्रीदेवेन्द्रनाथमुखोपाध्यायकृतं’ दयानन्दचरितम्’। धर्मसंस्थापकसप्तके धर्मसंस्थापकानां चरितानि तेषामाविर्भावकालक्रममवलंब्यात्र संस्थापितानि, न तु केषाञ्चित्प्राधान्यगौणभावनया।
यद्यपि देवगिरा ग्रन्थरचना नाम घोरस्वार्थपरायणे समयेऽस्मिन् नार्थलाभाय, न यशसे, न च जननिवहेषु महाप्रचाराय
भवितुमर्हति। प्रयत्नोऽयमधस्तादगिरिशिखरोपरि जलप्रवाहानयनतुल्य एव। तथापि महाकविभवभूतेः,
“ये नाम केचिदिह नः प्रथयन्त्यवज्ञां,
जानन्ति ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा,
कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥ “
इति प्रसिद्धपदयं मनसि निधाय पाश्चात्यमिलमुनिप्रभृतीनामधुना परमसंमानितानां बहुमूल्यग्रन्थानामादिमावस्थाञ्च संस्मृत्य श्रमोऽयं स्वीक्रियते। यदि केचिन्महाशया गुणग्रहणानुग्रहोदारतामदर्शयन्तोऽपिदोषदर्शनदृष्ट्यैवास्याश्चर्चां करिष्यन्ति तेनैव धन्यमात्मानं मंस्यते सर्वथानुग्राहयोऽयं विनम्रो जनः।
संयुक्तप्रान्तस्थ बिजनौरमण्डलान्तर्गत
हल्दौरग्रामे
माघसुदि वसन्तपञ्चम्यां
सं० १९७६ विक्रमाब्दे
विदुषां वशंवदः—
भवानी प्रसादः
<MISSING_FIG href=”../books_images/U-IMG-1732584157g7.png”/>
चारु चरितावली
<MISSING_FIG href=”../books_images/U-IMG-1732584260g8.png”/>
काश्यां धर्मचक्रं प्रवर्तक
श्रीगौतम बुद्धदेवः
*ॐ*
<MISSING_FIG href="../books_images/U-IMG-1732584603g11.png"/>
<MISSING_FIG href="../books_images/U-IMG-1732584511g10.png"/>
धराबद्धपद्मासनस्थांघ्रियष्टिः,
नियम्यानिलं न्यस्तनासाग्रदृष्टिः।
य आस्ते कलौ योगिनां चक्रवर्ती,
स बुद्धः प्रबुद्धोऽस्तु वश्चित्तवर्ती॥
प्राचीनसाहित्यस्येतिहासस्य चानुशीलनेनसम्यग्ज्ञायते यद्भारते वर्षे वैदिकार्याणां प्राचीनाध्यात्मवादः कर्मकाण्डवादश्चोभौ पक्षौ समये समये चक्रनेमिक्रमेण प्राबल्यं ह्रासञ्चापतुः। अन्तिमे चावसरे कौरवपाण्डवीय महाभारतयुद्धात्परं यदा वैदिकशुद्धाध्यात्मवादो मर्यादातिक्रान्ततान्त्रिककर्मकाण्डस्य कृष्णमेघेष्वन्तरलीयत, यदा " मित्रस्य चक्षुषा सर्वाणि भूतानि समीक्षन्ताम्" “मा हिंस्यात्सर्वाभूतानि” चेतिश्रुतिमूला, अहिंसापरमधर्ममयी, वैदिकयुगारम्भे पूर्वैराचायैर्महर्षिभिश्चसंस्थापिता, वैदि-
कार्याणां प्राचीनसभ्यता कालचक्रेण दूषिता संजाता,यदा कर्मकाण्डप्राधान्ये युगेऽस्मिन्नुत्तरीयभारतस्यायो -ध्याकाशीन्द्रप्रस्थादिमहानगर्योऽश्वमेधादियज्ञेषु हूयमानानां पशूनां मांसवपादिदुर्गन्धेन नित्यं पर्यपूर्यन्त, यदा स्वर्गतोलुपा यजमानास्स्वर्गाय पृथिवीं पशुरुधिरेण क्षेत्रमिव सिषिचुः, श्रीमन्तः पशुहिंसायुतानां यज्ञानां करणं स्वेतिकर्तव्यत्वेनेश्वरत्वेन च मेनिरे, तदा “परित्राणाय साधूनां, विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय” चेतीश्वरीयसनातन व्यवस्थानुसारं प्राकृतनियमानुकूलञ्च कस्यचिन्महापुरुष- स्यावतरणमासुरीमायाया निरसनं शुद्धसनातनदयामूलकार्यधर्मस्य च संस्थापनमनिवार्यमेवाभूत्। तदनुसृत्यैव महात्मा बुद्धो लोकानां बोधनार्थं संसारेऽस्मिन्निक्ष्वावकुदिलीपरघुरामादिजन्मजाज्वल्यमानस्य सूर्यवंशस्यान्तर्गते शाक्यान्वये कपिलवस्तुनगर्यां प्रादुर्बभूव। भूगोलज्ञानां नयपालदेशस्य नाम नाविदितम्। नयपालराज्यान्तर्गतमेव बुद्धजन्मकालेऽचिरावती (आधुनिकनाम राप्ती) रोहिणीनामनद्योर्मध्यवर्तिन्यां हिमाद्रेरुपत्यकायां लघुकपिलवस्तु राज्यमासीत्। शाक्यवंशसम्भूतश्शुद्धोदनो नाम राजा तदा तद्राज्यं शशास। तस्य राजधान्यपि कपिलवस्तुनाम्न्येव बाणगङ्गायाः दक्षिणे तटे संस्थिताऽभूत्। महात्मा बुद्धदेवो महाराजशुद्धोदनस्य महिष्यां मायादेव्यां
वीरविक्रमात्त्रिंशत्युत्तराष्टादशशत वर्ष [१] पूर्वं वैशास्वपूर्णिमायां जन्म लेभे। आसीत्तस्य जन्मस्थानं कपिलवस्तुराज्यमध्यवर्ति लुम्बिनीकाननं, यत्र पितुरालयं गच्छन्ती माया
१ टिप्पणी—भगवतो बुद्धदेवस्याविर्भावसमयो भारतीयानामस्माकं दैवदुर्विपाकेन भारतीयेतिवृत्तस्य घोरतिमिराच्छन्नत्वाद्विवादास्पदमेव। पाश्चात्यैतिहासिकास्तं विक्रमात्पञ्चशत वर्षपूर्व (५०० वि० पू०) मन्यन्ते। परं बौद्धा जैना बौदकाः सर्वे पौरस्त्याः पाश्चात्याश्चेतिवृत्तकोविदा बुद्धदेवं मगधराजाजातशत्रोः समकालिकं वदन्ति मगधराजोजातशत्रुश्च सर्वेषां पुराणानां कलियुगराजवृत्तान्तस्य च नृपवंशावली- वर्षगणनाक्रमेण विक्रमादष्टपञ्चाशदुत्तर सप्तदशशतवर्षपूर्वं (१७५८ वि०पू०) सिंहासनमधिरुरोह, यतस्ते सर्वे ग्रन्था एकस्वरेण तृतीयपाण्डवार्जुन पौत्रस्य परीक्षितो जन्मनोमहापद्मनन्दाभिषेकं यावत्पञ्चशतोत्तरं वर्षसहस्रं (१५००) गणयन्ति। मत्स्य, वायु, ब्रह्माण्ड, विष्णुपुराणेषु
“महापद्माभिषेकात्तु, यावज्जन्म परीक्षितः।
एकं वर्षसहस्रं तु ज्ञेयं पञ्चशतोत्तरम्॥”
इति पद्यं स्वल्पपाठान्तरेण वर्तते राजा परीक्षिच्च महाभारतयुद्धानन्तरं धर्मराजयुधिष्ठिरसिंहासनारोहण समये जन्म लेभे महाभारतयुद्धस्य समयस्तु सर्वेषामैकमत्येन तदा-
देवी मध्ये मार्गं महामहिमान्वितं पुत्रमसूत। तत्स्थानमधुना नैपालराज्ये भगवानपुरग्रामसमीपस्थं रोमिनदेवीति
—————————————————————————————————
नीतनगृहस्थितिगणनया च कलियुगारम्भात्सप्तत्रिंशतिवर्ष (३० कलि पू०) पूर्वमवधारितोऽस्ति। वर्तमानकलिश्च सर्वेषां मतेन विक्रमात्पञ्चचत्वारिंशदुत्तरत्रिंशच्छतवर्ष (३०४५ वि० पू०) पूर्वं चैत्र बदि प्रतिपदि प्रावर्तत। तेन राजा परीक्षित् विक्रमाद्व्यशीत्युत्तरत्रिंशच्छतवर्ष ( ३०८२ वि० पू० ; पूर्वं कलियुगारम्भात्सप्तत्रिंशद्वर्ष (३७ कति पू०) पूर्वं जन्म लेभे। तस्मात्पञ्चशतोत्तरवर्षं सहस्रमतिवाह्य (१५००) विक्रमाद्द्व्यशीत्युतरपञ्चदशशतवर्ष पूर्वं (१५८२वि०पू०) महापद्मनन्दोऽभ्यषिव्यत। मगधराजाजातशत्रुस्तु नृपवंशावलीगणना क्रमेण महापद्मनन्दात् षट्सप्तत्युत्तशतरर्षवपूर्वं (१७६) राजसिंहासनस्थो बभूव। भगवान् बुद्धदेवोऽजातशत्रोर्मगधाधिपस्य राज्यस्याष्टमे (८) वर्षेऽशीतिवर्षवयसि (८०) निर्वाणमाप। तेन तस्य निर्वाणसमयोऽजातशत्रोः सिंहासनारोहणकालादष्टपञ्चाशदुत्तरसप्तदशशतविक्रमपूर्वात् (१७५८ वि० पू०) अष्टवर्षानन्तरं (८) विक्रमात् पञ्चाशदुत्तरसप्तदशशतवर्षपूर्व (१७५० वि० पू०) मायाति। तस्मात्तदायुर्मानाशीति वर्ष पूर्वं (८० पू०) विक्रमात् त्रिंशत्युतराष्टादशशतवर्ष पूर्वं (१८३० वि पू०) तस्य जन्मसमयः संसिध्यति। पाश्चात्यैः प्रदर्शितो विक्रमात् पञ्चशतवर्ष पूर्वं (५०० वि० पू० ) तस्याविर्भावसमयो
व्यवह्रियते। सांप्रतं च पुरातत्वविशारदैर्ममहता परिश्रमेणोद्धाटितम्। तत्र भग्नावशिष्टः प्रशस्तियुक्तः सम्राडशोकस्य स्तम्भोवर्तते। बुद्धश्च पितुर्गृहे कुमारसिद्धार्थेत्याख्यां प्राप। कुमारसिद्धार्थं सप्तदिवसीयमेव विहाय मातरि दिवंगतायां तस्य विमाता महाप्रजावती तं सस्नेहं सुतनिर्विशेषं संवर्धयामास, राजोचितञ्च शिक्षयामास। कुमारो बाल्यादेवातिगंभीरश्शान्तो दयालुश्च। स यदा कदा निभृतं किमपि चिन्तयमानस्सततमेकान्तदेशंसिषेवे। एकदा शाक्यवंशिना कुमारेण देवदत्तेन बाणेन विद्धं भुतलपतितं पक्षिणं वीक्ष्य तं गृहीतुमन्ये कुमारा दुद्रुवुः। परं सिद्धार्थस्सर्वप्रथमं धावँस्तं पक्षिणं गृहीत्वा तच्छरीराकृष्टवाणः पीडांपरीक्षितुं तेन वाणेन स्वपादमविध्यत्। पीडामनुभवन् कुमारः पक्षिणं स्वाङ्कमारोप्यैतन्नैरोग्यं यावन्न मुमुचे। सिद्धार्थो यथाकालं विश्वामित्रस्य गुरोर्गृहं गतो ब्रह्मचर्य
विचारं न सहते। सविस्तरोऽयं विषयः श्रीस्थण्डिलाग्रहारिकशङ्करनारायणशास्त्रिप्रणीते श्रीशङ्कराचार्यसमयाख्यग्रन्थस्य परिशिष्टरूपं मगधराजवंशाभिधे निवन्धे परिशीलनीयः। (Vide “The kings of Magadh Appendix I to The Age of Sankara” by Pt. T.S. Narayan Sastri of Madras )
मनुपालयन्नदीमुखेन समुद्रमिव लिपिग्रहणेन सर्वं वाङ्मयमविशत्। सकल्पं सरहस्यं वेदवेदाङ्गं क्षत्रियोचितां धनुर्विद्याञ्चाधिजगे। द्वितीयं गृहस्थाश्रमं संक्रमितुं संप्राप्तकालस्सिद्धार्थस्समावर्तनसंस्कारानन्तरं पित्रा महता समारोहेण गुरुगृहात्स्वगृहमानिन्ये। यथानियमं सुलक्षणां कुलजां गोपां भार्यां परिणीयापि कुमारो यौवनोचिते राजार्हे विषयभोगे मनो न दधौ, नापि समाजेषूत्सवेषु च प्रीतिं लेभे। स सदैव “त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ” इत्यनुध्यायन् मृत्युवरणेन निर्वाणलाभोपायं निभृतं चिन्तयामास। कुमारं तथा वैराग्यप्रवणमानसन्दृष्ट्वा शुद्धोदनो राजा मनोविनोदार्थं सर्वर्तु सुखाश्रयं कामोद्दीपक समग्रसामग्रीसज्जितप्रभिराममारामं कारयामास। निवासयामास च तत्र राजोचितसम्भोगसंवेष्टिते दासदासीकुलसंकुले महाप्रासादे सभार्यं पुत्रम्। तथास्थितोऽप्यनासक्त एक गृहस्थसुखमनुभवन् राजकुमारः स्वधर्मपत्न्यां राहुलनामानं पुत्रमुत्पादयामास, परं परमार्थचिन्तां द कदापि जहौ।
एकदा राजकुमारो मनोविनोदयितुं नगराद्बहिर्यात्रायां मनश्चक्रे, पितुराज्ञया चालङ्कृतैश्चतुर्भिस्तुरङ्गैर्युक्तं हिरण्मयं स्यन्दनमारुह्य पूर्वद्वारा नगराद्बहिर्जगाम। तत्र कुमारोऽन्येभ्यो नरेभ्यः पृथगाकृतिं सितैः केशैरभ्युपेतं
भ्रूसंवृताक्षं शिथिलानताङ्गं यष्टिविषक्तहस्तं कमपि जरठपुरुषं ददर्श। तस्मिन्निष्कम्पनिविष्टदृष्टिः कुमार “एष कः, एषा विक्रिया किम्प्रकृतिर्यदृच्छा वे”ति सारथिं पप्रच्छ। सारथी, “रूपस्य हर्त्री, बलस्य व्यसनं, शोकस्य योनी, रतीनां विघ्नः, स्मृतीनां नाश, इन्द्रियाणां रिपु र्जरैषा ययायं पुरुषोऽभिभूत” इति निवेदयामास।
कुमारः पुनः पृच्छति “किमेषा जरा ममापि भविता”।
ततस्सारथिः वदति “आयुष्मतोऽपि वयोऽपकर्ष एप कालवशेन निःसंशयं भावी एव। एष लोको रूपविनाशयित्रीं जरां जानाति वाञ्छत्येव च।”
ततो जरां श्रुत्वोद्विग्नचेताः कुमारस्सविषादं ब्रूते “एवं जरा स्मृतिश्च रूपञ्च पराक्रमञ्च निर्विशेषं हन्तीति प्रत्यक्षत ईक्षमाणोऽपि जनो न चैव चोद्वेगमुपैति। हे सूत, गते निवर्तयाश्वान् शीघ्रं गृहाण्येव भवान्प्रयातु जराभये चेतसि वर्तमाने मे यात्रायां रतिर्नास्ति।”
अथ भर्तृसुतस्याज्ञया नियन्ता रथं निवर्तयामास। तश्चिन्तापरवशः कुमारस्तदेव भवनंशून्यमिव प्रपेदे। जरा जरेति चिन्तयन् यदा तु तत्रैव शर्म न लेभे तदा नरेन्द्रानुमतस्स भूयस्तेनैव क्रमेणान्येद्यु र्दक्षिणद्वारेण बहिर्जगाम।
नियतिवशात्स तत्र कमप्यसाध्यरोगिणं ददर्श। तद्गतदृष्टिश्च सारथिमाबभाषे ‘स्थूलोदरश्श्वासोच्छा- सचलच्छरीरस्त्रस्तांसबाहुः कुशपाण्डुरगात्रः परं समाश्लिष्य “अम्ब” इति करुणां वाचं ब्रुवाण एष नरःकः " ततस्सारथिर्ब्रूते, " सौम्य, अस्य रोगः प्रवृद्धः। एष रोगाभिधानस्सुमहाननर्थो येन शक्रोऽप्यस्वतंत्रः कृतः।”
तच्छ्रुत्वा स राजसुतस्तं नरं सानुकम्पमीक्षमाणो भूय ऊचिवान्” अस्यैव दोष एष पृथग्जातोऽथवा प्रजानां सामान्यतो रोगभयं किम्।”
ततःक्षत्ता बभाषे “कुमार, एष दोषस्साधारण, एवं रोगैः प्रपीड्यमानोऽपिलोको रोगावहेषु विषयेषु सुखमनुभवतीति", श्रुतार्थो विषण्णचेतास्स कुमारोऽम्बुगर्भितशशीव प्रावेपत। करुणान्वितस्सन् किञ्चिन्मृदुना स्वरेण वाक्यमिदं प्रोवाच
“इदञ्च प्रजानां रोगव्यसनं पश्यन् लोको विश्रम्भमुपैति यद्रोगभयैरमुक्ता अपि हसन्तीति नराणामहोविस्तीर्णज्ञानम्। हे सूत, बहिः प्रयाणाद्रथो निवर्तताम्। राजसद्म एव प्रयातु। रोगभयञ्च श्रुत्वा नमे चंतसे यात्रा रोचते।”
सन्निवृत्तं निवृत्तहर्षं प्रध्यानयुक्तं सुतं राजापरेद्युः पुनः विहारयात्रायै प्रेरयामास। ततस्स्वलंकृतेन राजमा-
र्गेण पश्चिमद्वारेण गच्छन् कुमारो जनैश्श्मशानं प्रत्युह्यमानं कमपि शवं ददर्श। तद्दृष्ट्वा स राजसुतस्सूतमब्रवीत्
दीनैर्मनुष्यैरनुगम्यमानो यो भूषितोऽश्वासी अवरुध्यते च स नरैश्चतुर्भिर्ह्रियते एषकः"
सूतो निवेदयति—“बुद्धीन्द्रियप्राणगुणैः वियुक्तस्तृणकाष्ठभूतो विसंज्ञः सुप्त एष कोऽपि यत्नवद्भिः प्रियाप्रियैः संबध्य संरक्ष्य च त्यज्यते’
इति यन्तुर्वाक्यं निशम्य स चुक्षुभे, एनञ्च स किञ्चिदुवाच “किमेकाकिन एवास्य जनस्यायं नाशोऽथवा सर्वप्रजानामीदृशोन्तः।"
ततस्सूतस्तं वदति स्म “सर्वप्रजानामयमन्तकर्त्ता। लोके हीनस्य मध्यमस्य महात्मनो वा सर्वस्य नियतो विनाशः।”
ततस्स धीरोऽपि नरेन्द्रसूनुर्मृत्युं श्रुत्वैव सद्यो विषसाद, निर्ह्रादवता स्वरेण च प्रोवाच
इयञ्च प्रजानां निष्ठा ( विश्वासो ) नियतं प्रमाद्यति, लोकश्च त्यक्तभयोऽस्ति, नृणां मनांसि कठिनानि सञ्जातानीति शंके, तथाहि अध्वनि स्वस्था वर्तमानाः। तस्माद्धे सूत, रथो निवर्ततां, देशकालौ नो विहारयोग्यौ नहि, विनाशं जानन्नपि आर्तिकाले सचेतनः, कथं हि इह विहारे प्रसक्तस्स्यात्। "
राजप्रासादमागतो बहुविधचिन्तासन्तानसमाकुलोऽपि शान्तिमप्राप्य पुनस्यन्दनेन मनोविनोदार्थं नगरस्योत्तरद्वारेण बहिर्गन्तुं प्राचलत्। उत्तरद्वारेण बहिर्गच्छत्येव तस्मिन् स धृतकाषायवस्त्रं कमण्डलुहस्तं शान्तचित्तं संन्यासिनं ददर्श। तं दृष्ट्वा कुमारस्सारथिमुवाच
“सारथे, शान्तः प्रशान्तचित्त एष पुरुषः कः नोत्क्षिप्तचक्षुः काषायवस्त्रासनस्सुप्रशान्तचारी पात्रं गृहीत्वा न चाद्धतोऽवनतो वा व्रजति।”
कुमारस्येदं वचश्श्रुत्वा सारथिः प्रत्यूचे—“ देव, एष पुरुषो भिक्षुनामास्ति। एष कामरतिमपहाय सुविनीतचारी प्रव्रज्यात्मनस्शापमिच्छन् रागद्वेषविवर्जितः पिंडचर्यां जीवति।"
सिद्धार्थः सारथेर्वचनमिदं श्रुत्वा भृशं प्रससाद। स गगाद्विरक्तं सत्यसुखे प्रसक्तं पुरुष जज्ञे। संन्यासाश्रमस्य महत्वञ्च बुबोध। स सारथिमुवाच—
“त्वया साधु भाषितं, ते कथनं मेरोचते। प्रव्रज्या नाम बहुभिः सततं प्रशस्ता यत्रात्मनः परस्य च हितं सुखजीवितं सुमधुरममृतञ्च फलमस्ति। यथोपनिषत्सूक्तम्-
“वेदान्तविज्ञानसुनिश्चितार्थाः,
संन्यासयोगाद्यतयः शुद्धसत्वाः।
ते ब्रह्मलोकेषु परान्तकाले,
परामृता परिमुञ्चन्ति सर्वे॥”
एवं संप्राप्तवैराग्यः प्रव्रज्याकृतनिश्चयस्सिद्धार्थो गृहं त्यक्तुं चिन्तयामास। याममात्रशेषायां त्रियामायां राजकुमार स्सिद्धार्थस्स्वशय्यां हित्वा भार्याया गोपायाः पर्यङ्कसमीपं निभृतपादचारं ययौ। दुग्धफेनाभायां पुष्पकोमलायां शय्यायां निद्रामग्नां गोपां तदन्तिके सुप्तं शिशुं राहुलञ्च ददर्श। मुहूर्तमात्रमनिमेषाभ्यां लोचनाभ्यां तथाविधयो र्भार्यापुत्रयोर्मुखं निभाल्य क्षणमुदीयमानं मोहमपाकृत्य मनसि पितरौ प्रणम्यान्तःपुरद्वान्निश्चक्राम। निजाश्वं कठकमारुह्य विश्रब्धेन सेवकेन च्छन्दकेनानुगम्यमान एकोनत्रिं-शद्वर्षीयो राजकुमारोऽनित्यं संसारमिमं त्यक्त्वा नित्यमन्वेष्टुं गृहात्परिव्रजितुं प्रचक्रमे। शर्वर्यामेव सघनानि वनानि निर्जनानि क्षेत्राणि गण्डशैलानि सरितश्चातिवाह्यामानद्याः पारं प्राप्याश्वादवततार। अत्र स स्वशरीराद्वस्त्राभूषणा-न्यपनीयाश्वसहितानि तानि स्वानुचरायच्छन्दकाय समर्प्योवाच “छन्दक, कण्ठकसहितानीमानि वस्त्राभूषणानि कपिलवस्तु प्रति प्रतिनीय मत्कृते पित्रे सप्रश्रयं प्रणम्येदं निवेदनीयम् “यदत्रभवान् मद्गृहत्यागं माशुचः। अहं बुद्धत्वं लब्ध्वा कपिलवस्त्वागत्य भवच्चरणयोर्वन्दिष्ये। छन्दको बहु विलपन् गृहप्रतिनिवर्तनानिच्छुकोऽपि कुमारानुरोधा-
द्राजधानीं प्रतिययौ। छन्दकनिवर्तनस्थानं वटपादपमूले स्थितमधुनापिच्छन्दकनिवर्तकं कथ्यते। सप्तपञ्चाशत्तमेवैक्रमाब्दे चीनदेशीयपर्यटकेन फाहियानेन स्वपर्यटनवृत्तान्ते सघनकान्तारस्थितस्य स्तम्भेनोपलक्षितस्य तस्य स्थानस्योल्लेखो व्यधायि। छन्दके प्रतिनिवृत्ते स्वाधीनः कुमारस्स्वासिधेनुकया भ्रमरमेचकान् स्वकुश्चितकेशान् कर्तयित्वा मार्गे मिलितस्य व्याधस्य धूसरवस्त्रैस्स्वोज्ज्वलवस्त्राणि परिवर्त्य भैक्षचर्यामनुचरन् वैशालिमार्गमनुससार। वैशालीं नदा महाविद्वान् पण्डितप्रकाण्ड श्रीराडकालामनामको निजवासेन भूषयामास। तस्य महाविदुष आचार्यकुले ब्रह्मचारिणां त्रिशतं विद्यामभ्यस्यतिस्म। सिद्धार्थ आचार्यराङकालामात् “आकिञ्चायतन” धर्मस्य शिक्षां जग्राह। तच्छिक्षया सन्तोषमनुप्राप्नुवन्स महाराजजरासन्धस्य प्राचीनराजधानीं गिरिव्रजापरनाम्नीं राजगृहनगरीं गतस्तत्रत्यस्य राजपुत्रस्य रुद्रकनामकस्य महादार्शनिकस्य सप्तशतशिष्ययुते गुरुकुले “नैव संज्ञा नासंज्ञायत” नेति सिद्धान्तमधीतवान्। राजगृहे भैक्षं चरन्सोऽपूर्वै राजलक्षणैरूपलावण्यैरुप लक्षितस्तन्नगरराजाय बिंबिसाराय (१)नागरिकैर्वि-
—————————————————————————————————————————
१ महाराजबिंबिसारश्चतुरूनाष्टादशशतविक्रमपूर्वादष्टपञ्चाशदुत्तरसप्तदशशतविक्रमपूर्वं यावन्मगधराज्यसिंहासनम- लञ्चकार॥
निवेदितः। महाराजबिंबिसारेण भिक्षाग्रहणाय स्वराजप्रासादे निमंत्रितस्स तस्मै राज्ञे बहुविधानि वैराग्यमयानि वाक्यान्युपदिदेश। तदाप्रभृत्येव महाराजबिंबिसारस्तद्भक्तिप्रवणमानसो बभूव। रुद्रकाचार्यस्य कुले वसन् सिद्धार्थस्तेन दार्शनिकेषु बहुसूक्ष्मविषयेषु विवदमानस्समाधानश्चालभमानः आचार्यस्य पञ्चानां ब्रह्मचारिणां ‘कौण्डिन’ ‘व’ ‘भद्रीय’ ‘महानामा’ ‘श्वजिन्ना’ म्नां हृत्सु महाप्रभावमस्थापयत्। ते ब्रह्मचारिणो बौद्धसाहित्ये “पञ्च भद्रवर्गीयब्रह्मचारिण” इति संज्ञामलभन्त। रुद्रककुलात्सिद्धार्थस्य प्रस्थानकाले तन्महिमाभिभूतचेतसस्तेऽपितेन सार्धं ययुः। तपसा शरीरशुद्धिमन्तरा प्रज्ञालाभोऽशक्य इति मन्वानस्सिद्धार्थः पञ्चभद्रवर्गीयब्रह्मचारिभिस्सह गयशीर्षं पर्वतं (अधुना गयानाम्ना प्रसिद्धं ) तपस्तप्तुं जगाम। गयशीर्षे पर्वते स निरञ्जनानदीतटस्थमुरुबिल्वग्रामसमीपस्थं नानापादपैस्समाच्छादितम् तपस्समुचितं स्थानमलभत। अत्र स भैक्षचर्यामपि त्यजन् कृच्छ्रचान्द्रायणादिपञ्चाग्निसंतपनपर्यन्तानि नानाघोरतपांसि तप्त्वा स्वदेहं शुष्ककाष्टसमं व्यदधात् तस्य देहदशैवं वर्णिता
शुष्कमांसरुधिरचर्म,
स्नाय्वस्थिकाश्चा वशिष्टाः।
उदरञ्च पृष्ठिवंशे,
विनिदृश्यतेवर्तिता यथावेणी॥
एवं कठोरानशनव्रतेनातिकृशस्य बलहीनस्य च सिद्धार्थस्य हृदये सत्यमिदमुदियाय यद्देहकर्षणमात्रेण समाधिसिद्धिर्न भवति। अशक्तः पुरुषो बल्ववन्मनः कथं वशं नयेत्। श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णनोक्तम्—
“नात्यश्नतस्तु योगोऽस्ति, नचैकान्तमनश्नतः।
न चातिस्वप्नशीलस्य, जाग्रतो नैव चार्जुन॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य, योगो भवति दुःखहा॥”
तथा कृतनिश्चय आद्यं धर्मसाधनं शरीरं रक्षितुं सोऽल्पाहारग्रहणे वसनाच्छादने च मनश्चक्रे। तेन तत्स्थानं त्यक्त्वा स भैक्षचर्यायै वसनगवेषणायै च प्रातिष्ठत। राजगृहादागताः पञ्चभद्रवर्गीयब्रह्मचारिणस्सिद्धार्थस्य द्वन्द्वसहनभीरुतां शङ्कमानास्तं तत्रैव त्यक्त्वा काशीं तपश्चरणाय जम्मुः। अचिरेणैव भैक्षचर्यया स्वस्थशरीरस्सिद्धार्थो योगाभ्यासोचितं स्थानं मार्गमाणो निरञ्जनानदीतीरस्थमश्वत्थवृत्तं प्राप। तेन प्रहृष्टमानसस्स तस्य वृक्षस्याधस्ता-
देव ध्यानसमाधिमाकलयत्। तस्यामवस्थायामेवाषाढपुर्णिमायां स कामक्रोधमोहलोभजनित-नानाविकारान् विजित्य प्रज्ञां प्राप्तवान्। इयमेव प्रज्ञाप्राप्तिर्बौद्धसाहित्ये बोधित्वलाभपदेन व्यवह्रियते। अनेनैव कालेन कुमारसिद्धार्थो बुद्धेति संज्ञां लब्धवान्। तस्मादेव कालात्स गौतमबुद्धेति नाम्नापि प्रसिद्धो जातः। अनयैव घटनया स वृक्षोऽपि बोधिवृक्षेत्याख्यामगमत्।
निजप्रथमोद्देशं बोधित्वंप्राप्य जीवन्मुक्तश्च भूत्वा बुद्धदेवस्स्वीयापरोद्देशसाधनायां प्रववृते। धर्मोपदेशेनाज्ञानिनां मोक्षप्राप्तिस्तस्य द्वितीयमुद्देश्यमासीत्। बौद्धधर्मे मोक्षस्य “निर्वाणेति" संज्ञा। बुद्धदेवोऽपि सत्यसनातनधर्मानुसारं निर्वाणप्राप्तिं मनुष्यस्य चरमं पुरुषार्थं मनुतेस्म। तत्साधनानां तु सनातनादेव समयात् भेदः प्रचलति। स स्वधर्मसंस्थापनाय प्रथमं भारतस्य प्राचीनां धर्मराजधानीं काशीं ययौ। काशीसमीपस्थे मृगदाववने ( आधुनिक काले सारनाथ नाम्ना प्रसिद्ध स्थाने ) तपस्तपतः पूर्वं
१ पश्चादुबौद्धधर्मानुयायिनासम्राडशोकेनान्यैश्च महाराजैरभ्रङ्कषाविहाराः प्रासादाश्च सारनाथस्थाने निरमीयन्त ये च कालक्रमेण भग्ना जीर्णाश्च भूगर्भे व्यलीयन्त आधुनिककाले गौराङ्गपुरातत्त्वविदस्तत्स्थानं खनित्वा भूमिस्थान् प्रतिमादीन् प्रचुरप्राचीनपदार्थान् वहिरादाय तत्रैवेतिवृत्तज्ञानय समस्था-
गयायां तं त्यक्तवतः पञ्च भद्रवर्गीयब्रह्मचारिणस्स्वप्राप्तबोधमुपदिश्य निजधर्मे दिदीक्षे। बौद्धधर्मेतिवृत्ते घटनैषा धर्मचक्रप्रवर्तनं कथ्यते। काश्यामेव पञ्चभद्रवर्गीयब्रह्मचारिणां बौद्धधर्मदीक्षामनुकुर्वाणा यशः प्रभृतयस्समृद्धास्संभ्रान्ता अन्ये एकषष्टिपुरुषा बौद्धधर्मे दीक्षां जगृहिरे। आदावेव निजधर्मदीक्षितां समधिकां शिष्यसंख्यां दृष्ट्वा शिष्यानाज्ञापयामास स्वधर्मप्रचाराय।
“प्रपूरय धर्मशंखं, प्रताडय धर्मदुंदुभिम्।
प्रसारय धर्मध्वजां, धर्मं कुरु धर्मं कुरु॥”
इत्यादिदेश। अकारि चात्र भगवता बुद्धेन धर्मप्रचाराय धर्मप्रचारकारणांभिक्षूणां “सङ्घस्य" स्थापना। एवं बौद्धधर्मस्यत्रीण्यङ्गानि बुद्धश्च धर्मश्चसङ्घश्चेति प्रपूर्णतां ययुः। एतान्येव बौद्धधर्मे रत्नत्रयमित्युच्यते। स्वशिष्यान् धर्मप्रचारमाज्ञाप्याययौ च बुद्धदेवो राजगृहे स्वपूर्वभक्तं राजानं बिंबिसारम्। बिंबिसारोऽपि तदकाठ्यतर्काणां वशंवदो बौद्धधर्मदीक्षामग्रहीत्। नवीनधर्मार्पितपदं नृपं दृष्ट्वा तद्राज्यनिवासिनां सहस्रं बौद्धधर्ममङ्गीचकार। एवमनेकैरनुगृह्यमाणोऽपरैश्च कोपभाजनं क्रियमाणो बुद्धदेवो महोत्साहेन।
——————————————————————
पयन्। इतिहासविद्यानुपतिभिरवश्यमेवावलोकनीयमिदं स्थानम्।
नवीनधर्मं प्रचारयितुं प्रारेभे। स चात्यवाहयदवर्षस्याष्टमासान् यत्र तत्र—
विशेषतो मगधकपिलवस्तुराज्ययोः- धर्मप्रचाराय प्रचरन्, वर्षर्तोश्चतुर्मासीन्तु यत्र कुत्रचिद्विहारेतिख्याते बौद्धमठे न्युष्य सङघेष्वागतश्रोतृगणेषु च ज्ञानचर्चाञ्चकार। एवं तस्य राजगृहादिनानाप्रसिद्धस्थानेषु वसतः पञ्चचत्वारिंशच्चतुर्मासी धर्मचर्चयात्यगात्। आसां चतुर्मासीनां बुद्धजीवनचरितेषु सविस्तरं सक्रमं वर्णनमायाति।
एकदा श्रुतस्वपुत्रदिव्यज्ञानप्राप्तिर्महात्मनो बुद्धस्य पिता महाराजशुद्धोदनस्तं कपिलवस्त्वानेतुमष्टौ दूतान् प्रेषयामास। परं बुद्धोपदेशेन मुग्धास्ते सर्वेऽपि तस्य शिष्यतामयान्। तेषां कतिचिद्बुद्धेन सहैव जग्मुरन्ये च कपिलवस्तु प्रति न्यवर्तन्त। आसीच्च तेषु महाराजशुद्धो दनस्य चर्कनामा मंत्री, स च मगधमार्गेण महाराजमुपासदत्। कृतप्रणामो विनिवेदितसुतकुशलसंवादश्च “महाराज, नाधुना सिद्धार्थो राजभवने निवत्स्यति, तन्निवासाय मठं निर्मापयतु भवान्। स द्वित्रमासेष्वेवात्रागमिष्यती।" ति महाराजमाचचक्षे। श्रुतसचिववचनो महाराजो नगराभ्यासे न्यग्रोधसमीपे सुरम्यं मठं निरमापयत्।
बुद्धदेवो मगधे धर्मं प्रचार्य कपिलवस्तु जगाम। स्वदेशं प्राप्ते तस्मिन् तद्दर्शनाय जनसहस्रं समियाय। महाराशुद्धोदनश्च चिरात्स्वतनयाननं निर्वर्ण्य भृशं जहर्ष।
सिद्धार्थः पितू राजधानीमागत्यापि राजभवनं न प्रविवेश, परं पितृनिर्मितं मठमध्युवास, भिक्षया च जीवनयात्राञ्चकार। कपिलवस्तु निवसन् बुद्धदेवस्स्वभार्यया पुत्रबान्धवैश्च सह बहून् स्वजातीयान् नगरनिवासिनश्च स्वधर्मे प्रवेशयामास।
एवं पञ्चचत्वारिंशद्वर्षाणि धर्मप्रचारं विधायैकोनाशीतिवर्षीयो बुद्धदेवः पञ्चाशदुत्तरसप्तदशशतवर्षाणि (१७५० वि० पू०) वैक्रमाब्दात्प्रागुदरामयरोगेण कुशीनगरे आधुनिकगोरखपुरजिलान्तर्गतक सियाग्रामसमीपस्थे स्थाने शालवृक्षस्याधस्तान्महानिर्वाणं प्राप। महानिर्वाणप्राप्तेः प्राक् राजगृहात्कुशीनगरं सशिष्यो गच्छन् स मार्गेऽकस्मादेवोदरामयेणाक्रान्तस्तञ्चासाध्यं मन्यमानोऽग्रे गच्छतस्स्वशिष्यान्न्यवारयत्। शिष्याश्च गुरोर्गिरमाकर्ण्य शालतरोस्तले शय्यायामारोप्य यथोचितमुपचेरुः। परं तस्य देह उल्लाघतां न प्राप।शनैश्शनैश्च निर्वलतरो बभूव। बुद्धदेवोऽन्तकाले स्वशिष्यानाहूयेदमुपादिशत्—
( १ ) वत्सा, इन्द्रियग्रामं स्ववशं नयथ। जितेन्द्रिया यूयं शीघ्रमेव निर्वाणराज्यं प्राप्स्यथ।
(२) भिक्षुका, आत्मनस्स्वयं प्रबोधयत। स्वयमेवात्मानं परीक्षध्वम्। एवं सावधानाः कर्तव्यपरायणाश्च यूयं सर्वदा सुखमवाप्स्यथ। पापेभ्यस्सदैव दूरं
स्थिताः, सत्कर्मणि रतिं कुरुतापरेषाञ्च हृदयानि संशोधयत।
(३) यथा जलीयपङ्कंजलेनैवापनीयते तथैव मानसं पापं मनसैव विनश्यति।
(४) मनसा वाचा कर्मणा शुद्धं जनं शर्म शान्तिश्च छाया शरीरमित्र कदापि न जहीतः।
स्वशिष्यानेवमुपदिश्य बुद्धदेवो योगेन तनुमत्यजत्। शिष्याश्चन्दनचितां विरचय्य तस्यां गुरुशरीरं निधाय त्रिः परिक्रम्य महाकाश्यपस्यानुमतिं लब्ध्वा तदग्निदेवाय समर्पयामासुः। यो राजकुले जातोऽपि बोधलाभाय राज्यं पदं सांसारिकैश्वर्यञ्च तृणमिव मेने, तस्य महामहिमशरीरं भस्मनि पर्यणम्यत। भिक्षुकास्तद्भस्म सुवर्णपात्रे निधाय राजगृहं, वैशालीं, कपिलवस्तु, शमग्राममलकामुष्यदीपं पावां, कुशीनगरञ्च नीत्वा भूमौ स्थापयित्वा तदुपरि स्तूपान् निर्मापयामासुः।
सम्भ्रान्तभूभृद्वंशावतंसोऽपि बुद्धदेवस्तरुतले जननीगर्भात्प्रथमं पृथिवीं पस्पर्श, तरुतले एव तपस्तेपे, तरुतले एवोद्बोधनालोकं ददर्श, तरुतले एव च तनुं तत्याज। बाल्यादानिर्वाणं बुद्धदेवः क्रमेण पितृभक्तो, वैराग्यवान्, अतुलराजविभवत्यागी, तपस्वी, निःस्वार्थपरोपकारपरा-
यणोऽलौकिकक्षमताशाली, सद्गुणानां रक्षको भूत्वा मर्त्यान् मुक्तिपथे प्रवर्तयितुं सयत्नो वभूव।
भगवान् बुद्धदेवोऽपि प्राचीनार्य धर्मशास्त्रानुसारमेव गृहस्थेभ्यो दशलक्षणात्मकं धर्ममुपदिदेश। स शीलं प्रियभाषणमहिंसामप्रमादञ्च विशेषेण शिक्षयामास। स सत्यं सदाचारञ्च प्रतिपदमुपदिदेश। यथा
" बहु सत्यञ्च शिल्पश्च विनयश्च सुशिक्षितः।
सुभाषितं च यद्वाचा, एतन्मंगलमुत्तमम्
अरतिर्विरतिः पापा, न्मद्यपानाच्च संयमः।
अप्रमादश्च धर्मेषु एतन्मंगलमुत्तमम्॥
क्षान्तिश्च सुवर्चस्त्वम्, श्रमणानाञ्च दर्शनम्।
कालेन धर्मश्रवण, मेतन्मंगलमुत्तमम्॥
तपश्च ब्रह्मचर्या च आर्यसत्यानुसेवनम्।
निर्वाणसाक्षात्कारश्च, एतन्मंगलमुत्तमम्॥”
तस्मिन् काले तस्य धर्मस्तथा मनोग्राह्यासीद्यथा तदानीन्तना अपरे सर्वेऽपि धर्मास्तस्याग्रे निस्तेजस्का बभूवुः। अद्य बुद्धस्य निर्वाणं गतस्य वर्षाणां पादोनत्रिसहस्रं व्यतीयाय, परमधुनापि कोटिशो मनुष्यास्तद्धर्मानुयायिनस्सन्ति।
षड्विंशत्युत्तरद्विशतवर्षाणि वैक्रमाब्दात्पूर्वं (२२६ वि० पु०) मगधाधिपस्य सम्राजः प्रियदर्शिनोऽशोकस्यमहोद्योगेन पञ्चत्रिंशदुत्तरैकशतमिते वैक्रमाब्दे (१३५वि०) च महाराजकनिष्कस्य प्रयत्नेन बौद्धधर्मस्तमस्तैशियामहाद्वीपे परिपोषं विस्तारञ्च लेभे। सम्राडशोको बौद्धधर्मप्रचारकाणां भिक्षुकाणां चतुःषष्टिसहस्रमन्नादिदानेन पोषयामास, चतुरशीतिसहस्रं स्तूपानाञ्च निर्माप्य बौद्धधर्मस्य महिमानं विस्तारयामास। तेन प्रस्तरस्तम्भेषु शिलासु च समस्ते भारते वर्षे काबुलादिदेशेषु च ब्राह्मीखरोष्ठीलिपिभ्यां तदा प्रचलितायां पालीभाषायां बौद्धधर्मप्रचाराय बौद्धधर्मस्यासंख्याः प्रशस्तय उत्कारिताः। एताः प्रशस्तयः परमविदुषा
——————————————————————————————————
१ टिप्पणी—अशोकस्य समयो राजधानी च विवादवर्जिते न स्तः। केचित् कल्हणकृतराजतरंगिण्यां वर्णितं प्रथमगोमन्दवंशावतंसं धर्माशोकं बौद्धधर्मप्रचारकं वर्णयन्ति।
२ टिप्पणी—महाराजकनिष्कमयोऽपि महाविवादविषयः। श्रीकल्हणकृतराजतरंगिण्यां वर्णितां कश्मीरराजवंशावलीमनुसृत्य पञ्चोत्तरद्वादशशततमे वैक्रमाब्दे (१२०५ वि०) वर्तमानाद्राजतरगिणीप्रणेतुः कल्हणान्महाराजकनिष्काभिषेकं यावद्विषष्ट्युत्तरत्रयोविंशच्छतं समा (२३६२ वर्ष) गण्यन्ते, तेन महाराजकनिष्कस्य समयो विक्रमात्सप्तपञ्चाशदुत्तरैकादशशत वर्षपूर्व (११५७ वि० पू०) मायाति।
साहित्याचार्येण एम. ए. उपाधिधारिणा पं० रामावतारशर्मणा संगृह्य संस्कृताङ्गलानुवादाभ्याञ्च समलंकृत्य “प्रियदर्शिप्रशस्तय" इति नाम्ना प्रकाशं नीताः। बहूमूल्यो ग्रन्थोऽयं प्रशंसितात्साहित्याचार्यात् सुलभमूल्येन प्राप्यते ! अशोको निम्नलिखितैः पञ्चभिरुपायैर्बौद्धधर्मस्य प्रसारे सफलो बभूव।
(१) धर्ममतभेदमीमांसायै धर्मपरिपदं स्थापयामास।
(२) अनुशासनपत्रेण धर्मनीतिं व्याचख्ये।
(३) धर्मविशुद्धयै राजकीयं धर्मविभागं स्थापयामास।
(४) दूरदेशेषु प्रचारकान् प्रेष्य बौद्धधर्मं प्रचारयामास।
(५) स्वप्रबन्धेन स्वनिरीक्षणेन च विद्वद्भिर्बौद्धभिक्षुभिर्बौद्धग्रन्थान् परिशोधयामास।
अशोकशासन एव बौद्धधर्मो लङ्काद्वीपे लब्धप्रसरो बभूव। पञ्चनवत्युत्तरशतमिते वैक्रमाब्दे श्यामदेशवासिनो बौद्धधर्मं स्वीचक्रुः। इतश्च किञ्चित्प्राक्कले बौद्धधर्मप्रचारका यवद्वीपं ( जावां ) गत्वा बौद्धधर्मस्य जयपताकां निचखनुः। शनैः शनैरिमे धर्मप्रचारकास्त्रिविष्टपं ( तिब्बतं ) मध्येशियामहाद्वीपस्य दक्षिणं भागं चीनञ्च ययुः। एकोनत्रिंशदुत्तर चतुश्शततमे वैक्रमाब्दे कोरियानि -
वासिनो धर्ममिमं जगृहुः। नवोत्तरषड्शतमिते वैक्रमान्दे कोरियानिवासिनो धर्मप्रचारका जापानं गत्वा तत्रत्यान्स्वधर्मे (बौद्धधर्मे ) ऽदीक्षिषत। योरुपमहाद्वीपेऽपि एलेकजेण्ड्रियायां पैलेस्टाइने ग्रीसे रोमे च बौद्धधर्मस्य दुंदुभिर्नादित इत्यपि श्रूयते।
अधुनापि सर्वस्मिन्संसारे बौद्धधर्मानुयायिनस्सर्वेतरधर्मावलंबिनस्संख्ययातिशेरते। परमद्यतनीनो बौद्धधर्मो निजादिस्वरूपाद्बहु भिद्यते। “अहिंसा परमो धर्म” इति मूलमन्त्रं गृहीत्वोपक्रान्तस्य धर्मस्यानुयायिनस्संप्रति सर्वेषां जन्तूनां मांसानि भक्षयन्तीत्यहो कालचक्रस्य परिवर्तनशीलत्वम्। वस्तुतस्तु सर्व एव धर्मा गङ्गोत्तरीजलं गङ्गासागरे यथा सुदीर्घं कालमतिवाह्य स्वादिमाचार्यात्प्राप्तं निजस्वरूपं परिवर्तयन्त्येव। तेन नात्र विशेषेण बौद्धधर्मस्य वचनीयतेति।
<MISSING_FIG href="../books_images/U-IMG-1732584789h1.png"/>
यत्र च्छागतुरङ्गमारणविधिर्वेदेऽपि तं निन्दसि,
प्रेम्णा प्राणभृतामतः सकरुणस्त्वत्तो महान् नापरः।
एवं ते गुणसंपदो न विषया, बुद्धेरसूयात्मनां,
ते मूढाः प्रलपन्ति हन्त सुगतो, मद्वेदनिन्दीत्ययम्॥
(भक्तिशतकात् ९६ तमः श्लोकः)
इति बुद्धचरितम्
चारु-चरितावली
<MISSING_FIG href="../books_images/U-IMG-1732584881h2.png"/>
निजोद्दण्डप्रतापेन, हरन्मायां निशामयीम्।
जीवब्रह्मकतापादी, श्रीमाञ्जयति शंकरः॥
<MISSING_FIG href="../books_images/U-IMG-1732584991h3.png"/>
<MISSING_FIG href="../books_images/U-IMG-1732585070h4.png"/>
अभेदोऽभेदो वै भवति जगतां ब्रह्मणि परे,
प्रजाया जायाया, जनिमृतिमयं शाम्यति जगत्।
अजाया मायाया, विरमति यतोऽयं कलकलः,
यतेर्ब्रह्मज्ञानं, विलसति सदा शङ्करगुरोः॥
निवृत्तिमार्गमूलकोऽहिंसापरमधर्माधारः, प्राणिनां परमोपकारको बौद्धधर्मो बहुशताब्दीव्यापिकाल- क्रमेणानुयाविनामनयेन परिवर्तमानोऽनेकदोषदूषितस्त्रुटितश्चाभवत्। धर्मरक्षणार्थं बुद्धदेवेन संस्थापितो भिक्षुकाणां सङ्घः प्रथमं पतितावस्थां प्रापत्।
धर्मरक्षकाश्रमणा एव धर्मभक्षका भूत्वा पापपङ्के न्यमज्जन्। परमं धर्ममहिंसामपहाय सर्वविधानि मांसान्य-
बभक्षन्। भिक्षुकाणां विहारा विलासानां विहारास्समपद्यन्त।
क्षुद्रातिक्षुद्रान् विषयानधिकृत्य परस्परं विवदमानास्ते हीनयानमहायानाद्यनेकोपसंप्रदायान् प्रवर्तयामासुः। ततस्तदनुयायिनो बौद्धा अपि बुद्धदेवेनैकमात्रकर्तव्यत्वेनोपदिष्टं सदाचारं त्यक्त्वा शुष्कविवादनिरता निरीश्वरवादिनो बभूवुः। निरीश्वरवादस्तेषां धर्मस्य प्रधानराद्धान्तोऽजायत। सर्वव्यापकसर्वेशैकदेवविश्वासविवर्जिता अपि ते दुर्बलहृदयाः कमपि देवं विना स्थातुमशक्नुवन्तो, बुद्धदेवमेव निजेष्टदेवम्मानयन्तस्तस्य प्रतिमाः पूजयन्तः क्रमेण नानादेवोपासनरता जडद्रव्योपासकाः प्रेतपूजकाश्चाभवन्। विविधानि जघन्यानि विधानानि च तेषां कर्मकाण्डपदवीमधिरुरुहुः।
बौद्धानामिमां दुर्दशां संवीक्ष्य तेषां पुरातनपरिपन्थिनः प्राचीनपथपक्षपातिनः कर्मकाण्डिनो ब्राह्मणास्तेषामेव विवादात्मकैश्शस्त्रैस्तान् प्रबलमवरुरुधुः। बहुषु स्थानेषु च तान् दुर्भेद्यतर्कैः संजित्य कर्मकाण्डस्य श्रेष्ठतां संस्थापयामासुः। पुनरपि सर्वत्र पशुबधात्मका यज्ञाः प्राचीचलन्। त्रय्या ज्ञानकाण्डं सर्वथा व्यलुप्यत। श्रुतयो विनियोगमात्रोद्देश्या अमन्यन्त।तासामर्थविचारचर्चा नितरां व्यलीयत।
कर्मकाण्डिनां संप्रदायेन साकमेव नानादेवोपासकास्स्वस्य स्वस्याराध्यदेवं सर्वोत्कृष्टं मन्यमानाः, परेष्टदेवताञ्च विगर्हमाणाः, परस्परविरुद्धपूजापद्धतीः परिचरन्तः, शैव-शाक्त-पाशुपत-क्षपणक कापालिक-भैरव-सौर-गाणपत्यादिनानामतानि सर्वतः प्रासीसरन्। तेषु कौलभैरवादयः कतिपये सम्प्रदाया ब्रह्महत्यासुरापानादिमहापातकान्यपि निजधर्माङ्गत्वेनाङ्गीकृत्य निजनिरययानं विस्तारयामासुः। पुण्या भारतभूमिस्सर्वत्र कदाचारैः पातकैश्च पर्यपूर्यत।
धर्मसंकटोऽयं सनातनशङ्करस्य शङ्करीङ्करुणामुदबोधयत्। धरां पापभराक्रान्तां दृष्ट्वा, स्वामृतपुत्राँश्च पापपङ्कनिमग्नान्निरीक्ष्य, परमशिवो भूभारं लघुञ्चिकीर्षुः प्रजाश्च कुकर्मकर्दमादुद्धर्तुकामो, निजनित्यनियमानुसारं स्वविभूतिं श्रीशङ्कराचार्य-रूपेणोर्व्यामवतारयामास। यथादिसृष्टेस्समये समये पापस्य प्रवृद्धौ महात्मानो महापूरुषा विशिष्टं ज्योतिरादाय संसारेऽस्मिन् प्रादुर्भवन्ति तथैव जगदुद्धार- कश्श्रीशङ्कराचार्योऽपि संसारभूत्या ऐशं तेजः संधार्य्य धरामिमां स्वजन्मनालञ्चकार।
पुरा किल न्यवसद्दाक्षिण्याधिरूढे दक्षिणापथे मनोज्ञे केरलदेशे परमपूते परशुरामक्षेत्रे पूर्णाभिधायाश्चुरनीत्यपरनाम्न्याः( सांप्रतमैलेबोईति ख्यातायाः ) निम्नगाः
यास्तटे श्रीगोविंदनाथस्य श्रीवृषाद्रिनाथस्य च मन्दिराभ्यामलङ्कते कालटीनाम्नि प्राचीनेऽग्रहारे वेदवेदाङ्गपारगः, कर्मठस्सदाचाररतो, धर्मैकप्राणो विद्याधिराजनामा भूसुरः। अभूच्च तस्य शिवगुरुनाना तनयः।
स च यथाशास्त्रमधीतसाङ्गोपाङ्गवेदविद्यो गुरोराज्ञया गृहमागतो गुरोः पित्रोश्चाग्रहेणानुरूपां सुलक्षणामार्याम्बानाम्नीं विदुषीं वधूं परिणिनाय। न लेभाते सर्वगुणालङ्कृतौ सर्वविधसम्पत्समेतावपि दम्पती चिराय सन्ततिम्। सन्तानमनोरथेनानेन कालं नयन् शिवगुरुस्सत्पुत्रोत्पादकामनया भक्त्या शिवं पूजयाञ्चक्रे। ततः कदाचिन्निद्रागतस्स्वप्ने महेश्वरेण “वत्स वरं वृणीष्वेत्युक्तश्शिवगुरु “रेकं भवन्तमिव सर्वज्ञं सर्वशक्तिञ्चपुत्रं मे देही “ति वरं वव्रे। तदाकर्ण्य " तथास्त्विति” महेश्वरेणाज्ञप्तस्तस्यां रात्रौ स शम्भुतेजसा युक्तस्तस्यां धर्मपत्न्यां कुलभूत्यै गर्भमाधत्त।
दशमे मासि कुलवधूवरिष्ठार्याम्बा निजेष्टदेवताया वृषाद्रिनाथस्य कृपाकटाक्षेण त्रिनवत्युत्तरपञ्चविंशतिशततमे कलिसंवत्सर, एकत्रिंशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्दे, शुभे मुहूर्त्ते, भानुवासरयुदगयने, वैशाखशुक्लपञ्चम्यां, मध्यान्हे, पुनर्वसुनक्षत्रे, कर्कटलग्ने सुलक्षणोपेतं सुतमसूत। महातेजसस्तस्य बालस्य जन्मपत्रिकाऽधो लिख्यते।
<MISSING_FIG href=”../books_images/U-IMG-1732779447j2.png”/>
सुतजन्मद्दर्षितश्शिवगुरुर्नवजाततनयं कैलासनाथं शङ्करमिव मस्तके चन्द्रलेखाकारया रेखया भूषितमंसयोश्च त्रिशूलचिन्हाभ्यां पित्राभ्यामुपशोभितं दृष्ट्वा तस्य शङ्करनाम चक्रे। स शिशुश्शङ्करस्यानुग्रहेण प्रादुर्भूतो जनानां शङ्करोऽन्वर्थशङ्करोऽभूत्।
बालश्शङ्करोऽलौकिकीं प्रतिभां चमत्कारकारिणीं शेमुषीश्च धारयामास। स प्रथमाब्दपूर्त्यामेवैतादृशं बुद्धिवैभवं प्रदर्शयामास, यत्पिता तृतीय एव वर्षे तं वर्णमालाभ्यासं कारयामास। श्रीशङ्करो बाल्यादेवैकश्रुतिपरो
बभूव, स यत्किञ्चिच्छब्दजातमेकदा शुश्राव तदेव श्रुतमात्रं कण्ठाग्रमकरोत्। प्रथमे वयसि श्रीशङ्कराचार्यस्य सतीर्थ्यस्य, पश्चात्तस्याविरतसहचरस्य, विश्रब्धशिष्यस्य च श्रीचित्सुखाचार्यस्य लेखानुसारं श्रीशङ्करः पञ्चमे वर्षे गुरुणोपनीतो वर्षयुग्माभ्यन्तर एव सव्याकरणं ससाहित्यं सर्वशास्त्रसमूहं सरहस्यं वेदञ्चाधिजगाम। बालश्शङ्करस्सहजप्रतिभया, विलक्षणविद्यया, मधुरस्वभावेन, दयालुहृदयेन च कालटीवास्तव्यानां तत्प्रान्तीयानाञ्च जनानां मनांस्याचकर्ष, तेषां प्रशंसाभाजनञ्च बभूव।
अनेनैव क्रमेण श्रीशङ्करोऽष्टमे वर्षे सर्वशास्त्राणां पारमगमत्। तस्य कुशाग्रबुद्धिरधीतायाश्श्रुतेः प्रत्येकांशे तेन पश्चात्प्रचारिताद्वैतवादस्याधारभूतं ब्रह्मैक्यसिद्धान्तस्य बीजमनायासं ददर्श।
दुर्दैवेन तस्य पिता तस्य विद्यासमाप्तिं द्रष्टुं सौभाग्यशाली नासीत्। वर्षीयान् शिवगुरुश्शङ्करस्याष्टमे वर्षारम्भ एवेहलोकलीलया विरराम। दुर्घटनैषा शङ्करस्य सहजां वैराग्यवृत्तिमुद्बोधयामास। स च संसारं त्यक्त्वा तुरीयाश्रमं प्रवेष्टुं मनश्चक्रे।
परं सर्वसम्मानास्पदस्य पतिवियोगकातराया मातुः प्रीतिपरवशो वर्षं यावत्स्वमनोग्थं पूरयितुं न शशाक। परलोकान्तरितपितुर्वार्षिकश्राद्धकर्म निर्वर्त्य सन्यासदी-
क्षायै मातरं निर्बध्नन्नपि स भर्तृवियुक्ताया यावज्जीवनमेकाकिताशोक संतप्तायास्तस्या अनुमतिं न लेभे।
अथैकदा श्रीशङ्करो मात्रा सह स्नानार्थं नद्यामवतीर्णो जलचारिणा ग्राहेण पदेऽध्रियत। “हा अम्ब विवृतोरुमुखेन बलवता ग्राहेण धृतोऽस्म्येकपदमपि चलितुं न पारये। अपूर्णसन्यासमनोरथस्यैव पञ्चत्वमाप्तस्य आत्मा परलोके शमं नैष्यती”ति सकरुणं मातरमवदत्। माता तस्य तां वाचं श्रुतवती तदवस्थं पुत्रं पश्यन्ती, तत्प्रतीकारमपश्यन्ती च तत्क्षणमेव तमापत्सन्यासग्रहणायानुमेने। शङ्करश्च सन्यासदीक्षां जग्राह, नक्रश्च तस्य पादं मुमुचे। ततस्स सन्यासी भूत्वा नक्रग्राहान्मुक्तस्सलिलादुत्तत्तार। एवं जलादुत्तीर्णो, मात्रे कृतमरणामो“ऽम्ब यदा त्वं मां स्मरिष्यसि तदा त्वत्सन्निधौ स्वदाज्ञापरिपालनाय सन्नद्धो भविष्यामी”ति मातरं सान्त्वयञ्, श्रीशङ्करोऽल्पे वयस्येव संसारं सन्यस्यन्नपि स्वकर्मक्षेत्रं निजावासग्रामस्य सङ्कीर्णावधेर्विश्वजनीनसमस्तवसुधायां विस्तारयन्, परमपावनं तुरीयाश्रमं प्राविशत्।
युवा सन्यासी स्वप्रतिज्ञां मात्रे पुनर्निवेद्य कर्मसन्यासदीक्षायै गुरुमन्वेष्टुमेकाक्येवोदचलत्। मार्गमनुसरन्, सागरस्य पश्चिमवेलायां स्थितां गोकर्णनामप्राचीननगरींं प्राप्तः, कालट्यामाचार्यकुलेऽधीयानेन निजपूर्वसतीर्थ्येन
विष्णुशर्मणा संगतस्तं चित्सुखनाम्ना स्वशिष्यत्वेनाङ्गीचकार। एष एव चित्सुखाचार्य एकनवत्युत्तरषडविंशतिशतततमे युधिष्ठिरशके (२६९१ यु०), चतुःपञ्चाशदुत्तरषविंशतिशततमे कल्यब्दे (२६५४ कलि) श्रीद्वार-कामठस्य पीठं श्रीब्रह्मस्वरूपाचार्यानन्तरं तृतीयाचार्यत्वेनाधिरुरोह, अशीतिवर्षवयसि च पञ्चदशोत्तरसप्तविंशतिशततमे युधिष्ठिराब्दे (२७१५ सु०) पौषशुक्लतृतीयायां ब्रह्मभावं प्रपेदे।
स स्वप्रणीते बृहच्छंकरविजये ग्रन्थे सन्यासाय मातुरनुमतिप्राप्तिपूर्वमेव शङ्करस्य वैदिकलौकिकविद्ययोर्विलक्षणं ज्ञानमत्युत्कृष्टांप्रतिभाञ्च प्रशंसन्, स्वयमेवात्मानं गोकर्णनिवासिनमाचार्यकुले पञ्चवर्षदेशीयेन शंकरेण संगतं, सन्यासदीक्षायै गुरुमन्वेष्टुं गतस्य शंकरस्य स्वानुसरणं, निजगृहगमनात्काञ्च्यां श्रीकामाक्षीदेवीमंदिरे श्री शङ्करस्य ब्रह्मभावाप्तिं यावत्तेन सततसहवासञ्च वर्णयति। वस्तुतस्तु स श्रीशङ्करस्याद्योपान्तचरितस्य साक्षी तस्मात्पञ्चवर्षाधिकवयास्तस्य शिष्यश्चासीत्। बृहदाकारत्वाद्बृहच्छंकरविजयेति गुरुशंकरविजयेति वा नाम्ना प्रसिद्धे तत्प्रणीते शंकरचरिते श्रीशंकरस्य सुरेश्वरस्य च समग्राणि चरितानि ताभ्यां कृता विविधा ग्रन्थाश्च वर्णिताः। भाष्याणि तु नाम्नैव निर्दिश्य श्रीशंकरस्य सर्व लघवो
निबंधास्तेषां निर्माणावसरनिर्देशपुरःसरमत्र संगृहीताः। ग्रन्थोऽयं ‘पूर्वाचार्य सत्पथ’, ‘शङ्कराचार्य सत्पथ’, ‘सुरेश्वराचार्यसत्पथे ‘ति प्रकरणत्रये विभक्तः। एतदुपादेयपुस्तकमद्यावधि मुद्रयित्वा प्रकाशतां न नीतमिति खेदावहम्। तत्कर्ता चित्सुखो वेदान्तभाष्यस्य चित्सुखीति नाम्ना प्रसिद्धस्य विवरणस्यापि प्रणेता प्रतीयते।
अनेनैव चित्सुखेन सहोत्तरभारतं परिभ्रमन् श्री शङ्कराचार्यश्चत्वारिंशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्दे (२६४० यु०) फाल्गुनशुक्लद्वितीयायां नर्मदातटस्थेऽ मरकण्टके श्रीगोविंदयोगिना समगच्छत।
गोविंदयोगी पूर्वं गृहस्थाश्रमे चन्द्रशर्मेति चन्द्राचार्येति वा नाम्ना प्रसिद्धो, विख्यातवैयाकरणः, प्राक्प्राच्यदेशाधिवासी, पश्चादुज्जयिन्यां वसन्, चातुर्वर्ण्यस्यैकैकाश्चतस्रो भार्याः परिणीय तासु क्रमशो भर्तृहरि-विक्र-मादित्य-भट्टि-वररुचिनाम्नः पुत्रानुत्पादयामास।
ब्राह्मण्याः पुत्रो भर्तृहरिरुज्जयिन्यां कञ्चित्कालं कृतराज्यो, राजमहिष्या दुराचारेण वैराग्यमुपगतोऽवरजाय क्षत्रियासूनवे विक्रमादित्याय दत्तराजसिंहासनो, गृहीततुरीयाश्रमः कण्वशाखाया बृहदारण्यकोपनिषद्भाष्यं, वाक्यपदीयव्याकरणकारिकाग्रन्थं, नीति-शृङ्गार-वैराग्य-
शतकत्रयात्मिकां सुभाषितावलीश्च प्रणिनाय। स प्रत्येक देवभाषानुरागिणा च परिचितः।
क्षत्रियाया उत्पन्नो द्वितीयः पुत्रो विक्रमादित्यः श्रीहर्षदलाञ्चनो राजतरङ्गिण्यां मातृगुप्तनाम्नाख्यातः विक्रमाच्चतुःशतीवर्षपूर्वम् (४०० वि० पू०) उज्जयिन्यां शशास। तस्मादेव समयादारभ्य तस्य हर्षाब्दो नयपालाद्युत्तरप्रान्तेष्वद्यावधि प्रचलितोऽल्बरूनीनाम्ना प्रसिद्धमुसल्मानपर्यटकेन निजयात्रावृत्तान्ते निर्दिष्टश्च। हर्षविक्रमादित्य एष सप्तपञ्चाशद्वर्षं स्त्रीष्टात्पूर्वं (५७ ईसा पूर्व) मालवाब्दप्रवर्तकाद्वीरविक्रमाद्विभिन्न एव।
वैश्याया जातो भट्टिश्च भट्टिकाव्यकर्ता प्रसिद्ध एव।
शुद्रातनयो वररुचिः कात्यायनापरनाम्नो वार्तिकविरचयितुर्वररुचेर्विभिन्न एव प्रतीयते, तस्याष्टाध्यायीप्रणेतुर्वर्षाचार्यशिष्यस्य व्याडीन्द्रदत्तादिसतीर्थ्यस्य शालातुरीयस्य दाक्षीपुत्रस्य पाणिनिमुनेस्समकालिकत्वात्। अत्र वर्णितो वररुचिः **प्राकृतप्रकाशिकानाम-**प्राकृतव्याकरणस्य कर्ता स्यात्।
यद्यपि गोविंदमगवत्पादो निजगुरुश्रीगौड़पादाचार्यसमो विद्याविभवेन संपन्नो ग्रन्थप्रणेता च नासीत्, तथापि स श्रीशुकयोगींद्रवत्सहजसिद्धो योगी च। तत्प्रणीतं “योगताराबली”, “अद्वैतानुभूतिः”, “ब्रह्मामृतव-
र्षिणी"ति ग्रंथत्रयं प्रसिद्धम्। श्रीशंकरो गोविंदयोगिनं सानंदं स्वसन्यासदीक्षकमाचार्यं वव्रे, श्रीगोविंदयोगी चातिशयेन मुदा तं स्वसुयोग्य शिष्यत्वेन जग्राह। एवं श्रीचित्सुखाचार्यवर्णनानुसारं श्रीशङ्करो वर्षद्वयं निजाचार्यस्य पावनं चरणारविंदं सेवमानो वेदान्तस्य तदानीं प्रचलितदर्शनानाञ्च समग्रान् ग्रन्थान् तस्मादधिजगाम।
गुरोरधीतेषु ग्रन्थेषु श्रीगौडपादाचार्यस्य कारिकाः शङ्करं बलवत्प्रभावयामासुः। तासु वटवीजवृक्षवन्निहितं पश्चान्निजशारीरकभाष्ये प्रपञ्चितमद्वैततत्वस्य मूलं माप्य स तासां भाष्यनिर्माणाय परमगुर्वनुमतिं प्राप्तु कामस्तं साक्षात्कर्तुमियेष। कामनयानया प्रीतो गोविंदभगवत्पादश्शंकरं हिमालये श्रीबदरिकाश्रमं वसतो निजगुरोर्गौडपादाचार्यस्य सामीप्यं प्रापयत्। शंकरो ब्रह्मनिष्ठारतं विंशत्युशरशतवर्षवर्षीयांसं (१२०) परमगुरुं संवीक्ष्य परमानन्दमविंदत, चत्वारि वर्षाणि च तस्मात्साक्षाच्छास्त्राण्यध्यैष्ट। तेष्वेव दिवसेष्वेकदा शंकरः परमगुरोःमाण्डक्योपनिषत्कारिकाणां भाष्यरचनायानुमतिं लब्ध्वा प्रस्थानत्रय्या भाष्यस्योपोद्धातरूपं तद्भाष्यं प्रणिनाय। कारिकाभाष्येण संतुष्टो गौडपादाचार्यः श्रीशङ्करं प्रस्थानत्रय्यास्तत्समानभाष्यं प्रणेतु तेन च संसारे वेदान्तदर्शनस्य प्राधान्यं संस्थापयितुमादिदेश। तेष्वंव चतुर्षु
वर्षेषु श्रीशंकरो वेदान्तमस्थानत्रय्याः प्रख्यातषोडशभाष्यनिर्माणेन विलक्षणां प्रतिभामलौकिकं कार्यसाधनसामर्थ्यञ्च प्रदर्शयामास।
ततः श्रीगौडपादाचार्यः श्रीगोविंदभगवत्पादश्च श्रीशंकरमद्वैतसिद्धान्तप्रचाराय वाराणसीं गन्तुं प्रेरयामासतुस्तस्यां यात्रायाञ्च तमाशीर्भिरनुयुङ्क्ताम्। तदङ्गीकृत्य चिरमित्रेण नवदीक्षित शिष्येण चित्सुखेन सह शङ्करे वाराणसीं प्रस्थातुं प्रस्तुते, तत्सगोत्रोऽग्निशर्मा, कालट्यां वसन्त्या वर्षिष्ठया तन्मात्रार्याम्बया स्वर्णरत्नानि दत्त्वा प्रेषित, आगतः, शंकराय तान्युपायनीकृत्य, वृद्धाया मातुरसाध्यरोगवृत्तेन तं निराशाहतं चकितं चाकरोत्। सहसैव स विश्रब्धेनानुचरेण शिष्येण चित्सुखेन सह कालटीमुदचलन्, वृद्धां मातरञ्च द्रष्टुमुत्सुकः पर्वतकाननान्यतिक्रामन् निजजन्मभूमिमवाप। कृशकलेवरातिदुर्बलापि तन्माता प्राङ्गणे परिभ्रमितुं समर्था निजान्तिमे क्षण एकाकिनं पुत्रं दृष्ट्वा परमां मुदमवाप। शंकरोऽपि सन्यासिनां नियमान् न्यक्कृत्य मातरं प्रति धावन्नत्यादरेण तच्चरणौ पस्पर्श, पुत्रोचितभक्तया च तामाशिश्लेष। पुत्रवत्सला माता पुत्रालिङ्गनेनात्मानं सर्वथा रोगनिर्मुक्तं पूर्णप्रसन्नमनुभवन्ती शंकरं तस्य महाकार्य आशिषा संयोज्य परमानन्देन योगीव तनुमत्यजत्।
श्रीशंकरस्सन्यासस्वीकारसमये मात्रा सह निजप्रतिज्ञानुसारं तस्या और्ध्वदेहिकक्रियां स्वयमकरोत्। केरलीयप्राचीनब्राह्मणानां प्रथाञ्चानुसृत्य निजावासपृष्ठाङ्गणे चितायां मातुर्देहं ददाह। दाहावसरे तेन कृतं मातृस्तुतिनाम पञ्चपद्यमयं लघुकाव्यं वृद्धाया मातुस्तस्यासीमभक्त्याः परमं प्रमाणम्। परमां मातृभक्तिं धारयतश्शंकरस्य कवितामया एत उद्गाराः स्वाभाविका एव। सन्यासिनापि तेन तदौर्ध्वदेहिकक्रियानिर्वर्तनं तदनुरूपमेव। मातृस्तुतिरनेन पद्येन प्रारभ्यते।
आस्तां तावदियं प्रसूतिसमये, दुर्वारशूलव्यथा,
नैरुच्येतनुशोषणं मलमयी, शय्या च सांवत्सरी।
एकस्यापि नगर्भभारभरण, क्लेशस्ययस्याः क्षमो,
दातुं निष्कृतिमुन्नतोऽपितनयस्तस्यैजनन्यै नमः॥
तदैव सनंदननामा युवा ब्राह्मणः कालटीमागतः श्रीशङ्कराय बदरिकाश्रमादमरकण्टके नर्मदातटस्थं स्वाश्रमं प्रतिनिवृतस्य प्रबलरुजार्तस्य तस्य सम्मान्यगुरोः श्रीगोविंदभगवत्पादस्य स्वपरलोकप्रयाणात्पूर्वं प्रियशिष्यशङ्करावलोकनोत्कण्ठात्मकं संदेशमुपाहरत्।
शङ्करचरितस्य प्राचीनलेखकौ चित्सुखानन्दगिरी सनन्दनं श्रीलक्ष्मीनरसिंहमंदिरेण प्रसिद्धाहोबलनगर-
निवासिनोर्लक्ष्मीमहादेवनाम्नोर्धनाढ्यधार्मिकदम्पत्योः पुत्रं वर्णयतः। शिववरेण प्राप्तस्य तस्य पितरौ बाल्य एव परलोकपान्थौ बभूवतुः, स च पूर्वमीमांसायाः प्रसिद्धाचार्यस्य प्रभाकरस्य शिष्येण निजमातुलेन दिवाकराध्वरिणा संवर्धितः शिक्षितोऽचिरेणैव लौकिकवैदिकसाहित्ययोः पारंगतोऽनिच्छन्नपि मातुलस्य दुहितुः पाणिं ग्राहितो मातुलस्य मीमांसामतमस्वीकुर्वंश्च नवोढया भार्यया जीवनं सुवविवर्जितमत्यवाहयत्, मातुलेन च कलहायमानस्तस्य गृहं धनञ्च त्यक्तध्यात्मज्ञानार्जनाय सद्गुरुमन्बेष्टुमुदचलत्, श्रीशङ्करस्य च कीर्त्याकृष्टस्तं वदरिकाश्रमस्थं श्रुत्वा तत्स्थानं गतो, रुग्णस्य तस्य गुरोर्गोविंदभगवत्पादस्य नर्म-दातटस्थाश्रमयात्रया, श्रीशंकरस्य च पूर्वमेव परलोकप्रयाणप्रस्तुताया मातुस्सकाशं गमनेनोद्विग्नचेता, अमरेश्वरं यावत् गोविंदभगवत्पादमनुसरन्, कालट्यां श्रीशंकरमायात्।
तस्यादन्तेन संतुष्टः श्रीशंकरस्तं प्रधानशिष्यत्वे गृहीत्वा, गुरुदर्शनानन्तरं तस्मै सन्यासदीक्षापर्वकं वेदान्तोपदेशं प्रतिशृण्वंस्तेन चित्सुखेन च सहामरेश्वरं प्रस्थितो, मासेन च गुरोराश्रमं प्राप्तो मध्येनर्मदं वैदूर्यपर्वते मान्धातृद्वीपेऽतिवृद्धं गतचेतनं गुरुं गोविंदभगवत्पादं निजपुत्रेण भर्तृहरिणा मुख्यैरन्यैशिष्यैश्चान्वासितं, प्राणोत्क्रमणं प्रतीक्षमाणं ददर्श। प्रियशिष्यशंकरस्य मधुरः
ध्वनिना लब्धचेतनो गोविंदभगवत्पादस्स्वस्थ इव शय्योत्थितः प्रेम्णा तं परिष्वजमानोऽद्वैतस्थापनाय भारते वर्षे दिग्विजययात्रामङ्गीकर्तुं तमादिदेश, स्वानशेषान् शिष्यांश्च शंकरराज्ञामनुवर्तितुमाज्ञापयामास। अन्तिमे क्षणे दिग्विजययात्रायां शंकरमाशिषा संयोजयन् प्रणवञ्चोच्चारयन् कार्तिकशुक्लपूर्णिमायां षट्चत्वारिंशदुत्तरषड्विंशतिशततमे यौधिष्ठिराब्दे (२६४६ यु०), वैक्रमाब्दाच्च षड्त्रिंशदुत्तरचतुःशत- वर्षपूर्वं ( ४३६ वि० पू० ) योगेन तनुमत्यजत्।
गोविंदभगवत्पादस्यौर्ध्वदेहिकसमाधिक्रियानन्तरं श्रीशङ्कराचार्यः सनंदनप्रार्थनया तं काषायप्रदानपूर्वकं सन्यासाश्रमे प्रवेश्य, पद्मपादनामानञ्च कृत्वा, तस्याद्वैततत्वोपदेशार्थमात्मबोधनामकं कवितामयं प्रसिद्धवेदान्तप्रकरणं कृत्वा तं स्वशिष्यत्वं गतान् गोविंदभगवत्पाद शिष्याँश्चापाठयत्।
ततः श्रीशङ्कराचार्यः सर्वशिष्यैस्सह दिग्विजययात्रायै प्रतस्थे। सर्वतः प्रथमं स सनातनविद्यापीठं, प्रसिद्धतीर्थगजं, प्रयागमागतश्शास्त्रार्थेर्वेदान्ततत्वोपदेशैश्च प्रसिद्धिं प्राप्तो नानादेशेभ्यो नवागतानसंख्यान् शिष्यान् प्रस्थानत्रयीभाष्यमध्यापयामास।
एकदा वेदान्तं प्रचारयन् श्रीशंकराचार्यः सशिष्यः
प्रयागाभ्यासे पारेगङ्गं स्थितां चन्द्रवंशिनां प्राचीनराजधानीं प्रतिष्ठानपुरीं तदा श्रीबल्लीनाम्ना प्रसिद्धं द्विजाग्रहारमगच्छत्। संप्रति स्थानमेतद्वह्निना भस्मसात्कृतं भग्नावशेषमेलाहाबाद-स्थाकबरदुर्गसंमुखं गंगाया अपरतटे झोंसीनाम्ना विख्यायते।
तत्र तस्य द्विजाग्रहारस्याग्रगण्य कुमारिलभट्टस्य प्रशस्त्यशिष्यः पूर्वमीमांसायाः प्रख्यातपक्षपोषकः, प्रथितानुभावः, प्रभाकराध्वरी प्रतिवसतिस्म। प्रभाकराध्वरी कर्ममीमांसापक्षे स्वस्माद्गरोरपि व्यशिष्यत। स वैदिकयज्ञादिकर्माकुर्वतस्सर्वान् विगर्हमाणो वेदोक्तकर्मकाण्डमेव सर्वशास्त्रेषु सर्वोपरि कर्तव्यत्वेनोपदिष्टं मेने। तन्मते संप्रदानकारकान्तेन पदेन द्योतिताद्देवात्परो देवो नास्ति। निजपक्षं सर्वोपरि मन्यमानः प्रभाकराध्वरी श्रीशंकराचार्यं स्वाग्रहारे सुशोभितं ज्ञात्वा तमपि निजानु यायिनं विधित्सुरसंख्यैरनुयायिभिः प्राप्तस्तस्मै स्वकर्मकाण्डपक्षस्य सर्वप्रधानत्वं निवेदयामास।
शंकराचार्यः शान्त्या तेन विवदमानो मुहूर्तमात्रेणैव तत्पक्षेणैव तं ब्रह्मज्ञानस्य सर्वोत्कृष्टत्वं, मोक्षप्राप्तेश्चरमसाधनत्वं, वेदोक्तकर्मकाण्डस्य च चित्तशुद्धेः पराभक्तेश्चोपायमात्रत्वं स्वीकारयामास। तस्यानिराकार्यकोटिक्रमेण प्रभाकराध्वरी ससर्वाग्रहारः श्रीशंकरस्यानुपायी समजा-
यत। श्रीशङ्कराचार्यस्य विधेयतामुपगतः प्रभाकरोऽनेडमूकमपरं स्थाणुं, निजपुत्रं, पृथ्वीधरं रुगपनोदनार्थमाचार्यचरणारविंदेषु न्यपातयत्।
बालः पृथ्वीधरो वयसः पञ्चमाद्वर्षाद्यथाजातवन्न किञ्चिदजिघ्रदभुङ्क्तापिबच्च, कृमिकीटादिदंशनेऽपि नास्पदत नावदच्च।पिता तं पिशाचग्रस्तं यक्षपीडितं ब्रह्मराक्षसाक्रान्तं वा मन्यमानोऽनेकमंत्रतंत्रविविधविधान’ तत्परोऽपि तं स्वस्थमलभमानः, प्रतीकारं मार्गमाणस्सततं चिन्तापरवशश्चिखेद, शङ्करभगवत्पादयोश्च प्रणिपत्य रोगमोचनं ययाचे। श्रीशंकराचार्यः प्रणिधानेन वालं सहजयोगिनं, बाल्यादेव ब्रह्मज्ञानिनं, पित्रा विधीयमानस्य विविधक्रियाकलापस्य परीहारार्थं धृतमूकवृत्तिमवेदीत्। प्रथितप्रभावः शंकरः पाणिना बालं स्पृशन् दृशा तमुद्बोधयन्
“कस्त्वं शिशो कस्य, कुतोऽसि गन्ता,
किन्नाम ते त्वं, कुत आगतोऽसि।
एतद्वद त्वं, मम सुप्रसिद्धम्,
मत्प्रीतये प्रीति, विवर्धनोऽसि “॥
इत्यपृच्छत्। बालः पृथ्वीधरश्च तदुत्तरे द्वादशपद्यमयं कमनीयं काव्यमश्रावयत्। तस्याद्यं पद्यमिदम्—
“निमित्तं मनश्चक्षुरादिप्रवृत्तौ,
निरस्ताखिलोपाधिराकाशकल्पः।
रविर्लोकचेष्टानिमित्तं यथा यः,
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥”
सर्वस्यास्य स्तोत्रस्य सारोऽस्मिन् पद्ये निबद्धोऽस्ति।
” नाहं मनुष्यो न च देवयक्षो,
न ब्राह्मणः क्षत्रियवैश्यशूद्रः।
न ब्रह्मचारी न गृही वनस्थो,
भिक्षुश्च नाहं निजबोधरूपः॥”
हस्तस्थामलकवच्चित्स्वरूपवर्णनेन संतुष्ट आचार्यस्तस्याः पद्यावल्यास्तत्प्रणेतुश्च हस्तामलकाख्या मकरोत्। बालस्य पद्यपाठेन सन्यासदीक्षाप्रार्थनया च प्रभावितः प्रभाकरोऽपि श्रीशङ्कराचार्यं तस्य तुरीयाश्रमप्रवेशमद्वैततत्वोपदेशञ्च प्रार्थयामास। आचार्योऽपि तदङ्गीकृत्य चतुःपञ्चाशदुत्तरषड्विं- शतिशततमे (२६५४ यु०) यौधिष्ठिराब्द अश्विनशुक्लैकादश्यां तं सन्यासे दीक्षयामास, तत्क्षण एव स्वरचितेन तत्वोपदेशनाम्ना पद्यप्रकरणेन च ब्रह्मज्ञानमुपदिदेश। ततः प्रभृति हस्तामलकः श्रीशङ्करस्य प्रधानशिष्योऽद्वैतपक्षस्य च प्रबलसमर्थकः समजायत।
प्रभाकरस्य श्रीशंकराचार्यपक्षग्रहणेन तदनेडमूकपुत्रस्य पृथ्वीधरस्य च तदनुग्रहाद्वाग्मिनां सिद्धहस्तहस्तामलकरूपधारणेन तस्य प्रभावः प्रतापश्च प्रयागे तदभ्यासे च सहसा व्यानशे, सहस्रशो जनाश्च तदनुयायितां प्रपेदिरे। देशिकेश्वरतां गत आचार्यः शिष्याणां सहस्रेण साधुवादेन जयघोषेण च सह भारद्वाजाश्रमं ययौ।
अन्येद्युः प्रत्युषसि त्रिवेणीतटे तमालतरुतले सशिप्यः स्नानमाचरन्नाचार्यः कर्ममार्गस्य प्रबलपोषकस्य जैनानां जेतुः कुमारिलभट्टस्याग्निप्रवेशसूचनां प्राप्य तदालयं त्वरमाणस्तं प्रज्वलिततुषानलमध्यासीनं, प्रायश्चित्तपरकमन्त्रोच्चारणरतैर्ब्राह्मणैरावृतं, गुरुद्रोहशोधनमाचरन्तं ददर्श।
दाक्षिणात्यब्राह्मणः कुमारिलभट्टो यथानियममाचार्यकुलवासेन वेदवेदाङ्गपारं गतो जैमिनेर्वेदोक्तकर्मकाण्डविधायिनीं पूर्वमीमांसां विशेषतोऽभ्यस्य, तस्याः शाबरभाष्योपरि टीकाञ्च प्रणीय, देशदेशान्तरे वेदोक्तकर्मकाण्डं प्रचारयन् सनतनावैदिकपथं, विक्रमात्पूर्वमष्टम्यां शताब्द्यां पार्श्वनाथप्रवर्तितेन पश्चात् षष्ठ्यां शताब्द्यां वर्धमानमहावीरेण पुष्टेन, जैनमतेनाक्रान्तं दृष्ट्वा, जैनान् विजिगीषुरुन्मुमूलयिषुश्च तन्मनरहस्यानि विजिज्ञासुर्जैनानां विश्वासायात्मानमब्राह्मणं नाटयञ्, जैनवेषतो वर्धमान- महावीरस्य शिष्यतां जग्राह तदन्तेवासिभिः समं कति-
चिद्धायनानि पठन् जैनसिद्धान्तानश्रौपीत्, तैस्सह वेदमार्गं दूषयन्नखिलेषु जैनरहस्येषु निष्णातश्चाभवत्। एकदा ब्रह्मद्वेषी वर्धमानमहावीरः शिष्यानध्यापयन् वेदान्, विप्रान्, यज्ञान्, देवाँश्चातीवादूषयत्। तद्विजल्पितं वेदविगर्हणं दुराकर्ण्यं समाकर्ण्य विदीर्णमनसः कुमारिलस्याक्षिभ्यां स्थूलमुक्ताफलाकृतयो जलबिंदो न्यपतन्। तद्दृष्ट्वा तत्सहाध्यायिषु महावीरशिष्येष्वश्रुबिंदुपातकारणं पृच्छत्सु कुमारिलः कपटेन" महावीरस्य युक्तयुक्ति-श्रवणेनानंदाश्रणि विनिर्गतानी"त्युवाच। जैनशिष्यास्तदुक्तावविश्वसन्तस्तं द्विजाग्रं मत्वा गुरवे वृत्तान्तमिमं निवेदितवन्तः कुमारिलं प्रासादात्पातयित्वा बहिश्चक्रुः।
“यदि वेदाःप्रमाणं स्युर्जीवेय"मिति चेतसि कृत्वा प्रासादात्पतितः कुमारिलो यदीति संशयोक्तेर्गुरुद्रोहाच्चेकस्य नेत्रस्य परिक्षतिं प्राप्याप्यक्षतगात्रस्तस्मात्प्रदेशान्निष्क्रम्य भुवि सर्वत्र जिनवादान् तदुक्ताभिर्युक्तिभिर्दूषयन् सौराष्ट्रनृपतेः सुधन्वनो राजसभायां तान् शास्त्रार्थेषु पराजित्य जैनमतं भारतादुन्मूलयामास, स्थिरतरं वेदोक्तकर्म काण्डञ्च पुनःस्थापयामास। परं कपटाचारेण गुरुद्रोहेण च प्राप्तविद्यया निजविजयेनापि ग्लानिं गतः कुमारिलभट्टस्तुषानले देहपातरूपेण प्रायश्चित्तेनात्मशोधनं विदधे। अन्तसमये श्रीशङ्कराचार्येण संगतो भस्मीभूतार्धाङ्गः कुमारिलभट्टः
“कर्मकाण्डज्ञानकाण्डयोः कः श्रेयानित्य”स्मिन् विषये तस्य शास्त्रार्थपिपासां प्रतीकतुमशक्नुवंस्तं कर्ममार्गस्य समानपक्षपोषकमात्मनस्समकक्षं मण्डन मिश्रं वादार्थं गंतुमादिशन् परलोकपथपान्थो बभूव।
कुमारिलभट्टस्य स्वसुः पाणिग्राहः कृतविद्यो मण्डनमिश्रः षड्दर्शनमधीयानेन शिष्यमण्डलेन मण्डितो दासीदाससेवितो विविधसंविधासंवेष्टितो “विद्यालये “ति प्रसिद्धं तद्देशवासिभिस्तु “विजिलबिंदु रिति नाम्ना ख्यातं स्थानं निवासेनालञ्चकार। श्रीशङ्कराचार्यः पद्मपादादिशिष्यवृंदैः परिवृतः कुमारिलभट्टादेशेन तदेव स्थानं प्रति प्रतस्थे। पुरोपकण्ठं प्राप्य कृताह्निकः किञ्चिद्विश्रमानन्तरं मण्डनमिश्रनिकेतनं मार्गयन्नगरान्तरालमुदचलत्। मार्गे कूपोपर्युदकमुदञ्चन्तीर्दासीर्दृष्ट्वा ता मण्डन-पण्डितावासं पप्रच्छ। तासामुत्तराणि माधवाचार्यकर्तृत्वेन पूनानगरानंदाश्रमप्रकाशिते परं शंकरसमयाख्यामूल्याङ्गलग्रन्थस्य प्रणेतुः स्थण्डिलाग्रहारिक श्रीशङ्करनारायशशास्त्रिणो गवेषणानुसारं माधवपर्यायाभिधेनाभिनव-कालिदासोपाधिकेन श्रीनारायणशास्त्रिणा गतशताब्द्यां प्रणीते श्रीशङ्करदिग्विजये मनोज्ञैः पद्यैर्निबद्धानि सन्ति। तद्यथा—
स्वतः प्रमाणं परतः प्रमाणं,
कीराङ्गना यत्र गिरो गिरन्ति।
द्वारस्थनीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनपण्डितौकः॥१॥
फलप्रदं कर्म फलप्रदोऽजः,
कीराङ्गना यत्र गिरो गिरन्ति।
द्वारस्थनीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनपण्डितौकः॥२॥
जगद्ध्रुवं स्याज्जगदध्रुवं स्यात्,
कीराङ्गना यत्र गिरो गिरन्ति।
द्वारस्थनीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनपण्डितौकः॥३॥
श्रीमदानंदगिरिविरचितशंकरविजये तानीत्थं मनोहराणां पद्यानां रूपमुपगतानि—
प्रत्यक्षशब्दान्तविधिप्रभेदैः,
शुकाङ्गना पत्र गिरं वदन्ति।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥१॥
जीवेश्वरैक्येन भिदाप्रभेदैः,
शुकाङ्गना यत्र गिरं वदन्ति।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥२॥
जैनोक्तिभिः कालविदुक्तिभेदैः,
शुकाङ्गना यत्र गिरं वदन्ति।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥३॥
कापालिकैर्भैरवपक्षपादैः,
शुकाङ्गना यत्र गिरं वदन्ति।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥४॥
भक्त्यादिभिः शैवमतप्रभेदैः,
शुकाङ्गना यत्र गिरं वदन्ति।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥५॥
गणेशविष्ण्वर्कपरामृतार्थैः,
शुकाङ्गना यत्र गिरं वदन्ति।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥६॥
काव्यादिभिर्नाटकसिद्धवादैः,
शुक्राङ्गना यत्र गिरं वदन्ति।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥७॥
आकर्षणोच्चाटनसिद्धमन्त्रैः,
शुकाङ्गना यत्र गिरं वदन्ति।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥८॥
इत्यादिकान् सकलशास्त्रसिद्धान्तसारसमायुतान् चमत्कृतिचणान् दासीवचनसमूहान् संश्रुत्य, सविस्मय आचार्यवर्यो विद्यावद्दारकदम्बकमतीत्य, तासामभिज्ञावचनैर्मण्डनमण्डितमभ्रङ्कषं प्रासादमभिज्ञाय, कपाटगुप्तं दुष्प्रवेशञ्च लभमानो, योगबलेन गगनमार्गेणान्तः प्रविष्टः, श्राद्धविधिं विदधतो मण्डनमिश्रस्याग्रे तूष्णीं तस्थौ।
वेदोक्तक्रियाकलापमेवेतिकर्तव्यं निश्चिन्वानः कर्मत्यागिनः सन्यासिनश्च सदा तिरस्कुर्वाणः, श्राद्धसमये मुण्डितमस्तकं संन्यासिनमुपलभमानः, कोपकषायितो मण्डनमिश्रोऽरुणनयनेनाचार्यं निपीय कर्कशस्वरेणोवाच—” कुतो मुण्डी” ति।
श्लेषदत्तः शब्दशास्त्रविशारदो यतिवर्यस्तद्वाक्यं श्लेषेणान्यथैव गृहीत्वा तम्– “आगलान्मुण्डी”ति प्रत्याह।
स्ववाक्यं स्पष्टयन् मण्डनो बभाषे— " मया ते पन्थाः पृच्छ्यते”।
वैयाकरणो वाग्मिवरस्तत्पुनरन्यथयति— " पन्थाः किमाह"।
क्रोधाविष्टो मण्डनोऽजल्पत्— " त्वन्माता मुण्डेत्याह ( पन्थाः ) “।
प्रतिवादी भयङ्करः श्रीशङ्करस्तमित्थं निरुत्तरयामास—“तथैव हि, त्वं पन्थानमपृच्छः, पन्थास्त्वां प्रत्याह हे मण्डन, त्वन्मातेत्यत्रायं शब्दोऽप्रच्छकं मां न ब्रूयात् ”।
मन्यून्मत्तचेता मण्डनो भर्त्सयन्नाचार्यमचकथत्— “अहो किमु सुरा पीता”।
परिहासपटुः परिव्राट् श्लेषेणोदतरत्— “सुरा श्वेता नैव पीता"॥
मण्डन आक्षेपपूर्वकं पुनरन्वयुङ्क्त— “किं त्वं तद्वर्णं जानासि”।
वावदूको दण्डी प्रतिवभाषे— " अहं वर्णमेव जानामि भवांस्तु रसमपि”।
ततो मण्डनः क्रोधवह्निना दहन् गालिप्रदानपर एवं प्रजल्पितुमारेभे। श्रीमदाचार्यस्तु दूषितमुद्रामिव तस्य गालीस्तद्रूपेणैव तस्मा एव प्रत्यर्पयामास। ता अपि उपर्युक्ते माधवीये शंकरदिग्विजय इत्थं पद्यैर्निबद्धाः।
मण्डनः—
“कलञ्जाशी मत्तो जातो विपरीतानि भाषते
( भवान् )"।
शंकरः—
“सत्यं ब्रवीति पितृवत्त्वत्तो कलञ्जभुग्जातः”
मण्डनः—
” कन्थां वहसि दुर्बुद्धे, गर्दभेनापि दुर्वहाम्।
शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति॥”
शङ्करः—
कन्थां वहामि दुर्बुद्धे, तव पित्रापि दुर्भराम्।
शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति॥”
मण्डनः—
“त्यक्त्वा पाणिग्रहीतीं स्वा, मशक्त्या परिरक्षणे।
शिष्यपुस्तकभारेच्छो, र्व्याख्याता ब्रह्मनिष्टता॥”
शंकरः—
“गुरुशुश्रूषणालस्यात्, परित्यज्य गुरोः कुलम्।
स्त्रियः शुश्रूषमाणस्य, व्याख्याता कर्मनिष्ठता। “
मण्डनः—
“स्थितोऽसि योषितां गर्भे, ताभिरेव विवर्धितः।
अहो कृतघ्नता मूर्ख, कथं ता एव निंदसि॥”
शङ्करः—
“यासांस्तन्यंत्वयापीतं, यासांजातोऽसियोनितः।
तासु मूर्खतम स्त्रीषु, पशुवद्रमसे कथम्॥”
मण्डनः—
“वीरहत्यामवाप्तोऽसि वन्हीनुद्वास्य यत्नतः।”
शंकरः—
” आत्महत्यामवाप्तस्त्व, मविदित्वा परं पदम्।”
मण्डनः—
“दौवारिकान् वञ्चयित्वा कथं स्तेनवदागतः॥”
शङ्करः—
“भिक्षुभ्योऽन्नमदत्त्वात्वं, स्तेनवद्भोक्ष्यसे कथम्।”
मण्डनः—
“कर्मकाले न संभाष्य, अहं मूर्खेण संप्रति।”
शंकरः—
“अहो प्रकटितं ज्ञानं, यतिभङ्गेन भाषिणा।”
मण्डनः—
यतिभङ्गे प्रवृत्तस्य यतिभङ्गो न दोषभाक्।”
शंकरः—
“यतिभङ्गे प्रवृत्तस्य पञ्चम्यन्तं समस्यताम्।”
मण्डनः—
“क्व ब्रह्म क्व च दुर्मेधाः, क्व संन्यासः क्व वा कलिः।
स्वाद्वन्नभक्षकामेण, वेषोऽयं योगिनां धृतः॥”
शंकरः—
“क्व स्वर्गः क्व दुराचारः, क्वाग्निहोत्रं क्व वा कलिः।
मन्ये मैथुनकामेन, वेषोऽयं कर्मिणां धृतः॥”
एवमेव तौ परुषोक्तिपरौ दृष्ट्वा श्राद्धे निमन्त्रिता ब्राह्मणास्तयोः कलहं प्रियवचनैः शमयन्तो “गृहागतस्यातिथिरूपदेवताया अभ्यर्चनं गृहस्थस्य ते धर्म” इति च मण्डनमुपदिदिशुः। मण्डनमिश्रस्तेषामाज्ञां शिरसा वहन्नतिथियतिवर्याय पाद्यार्घ्यपरो बभूव। पाद्यप्राप्तिसमये “भवद्भिस्संवादार्थमागतोऽस्मीति” गुरुर्जगाद। मण्डनमिश्रोऽपि तत्सहर्षं स्वीकृत्यातिथ्यश्राद्धयोरनन्तरं वादो भवितेति प्रतिजज्ञे।
यथाविध्यातिथ्यं पितृकर्म च निर्वर्त्य वादार्थं सन्नद्धौ मण्डनमिश्रः श्रीशङ्कराचार्यश्च पणमेवं जगृहतुः। “गृहस्थोऽहमपि यदि पलायितः सन्यासी भवेयमिति” मण्डनमिश्रः, “अहमपि यदि वादे पराजितो गृहस्थो भवामी"ति श्रीशङ्कराचार्यश्च प्रतिज्ञातवन्तौ। उभयपक्षग्रहणसमर्थां मण्डनमिश्रपत्नीं ‘भारती’ ति
‘सरसवाणी‘ति विद्याधरी‘ति ‘सरस्वती‘ति विविधनामभिर्विविधैः कविभिराख्यातां मध्यस्थां विधाय वादे प्रववृताते। यावद्वादोऽभूत्तावत्मत्यहं भारती “भिक्षार्थमागच्छेत्याचार्यं “भोजनार्थमागच्छे” ति पतिञ्चाहूयोभाभ्यां भिक्षाशन अदात्।
एवं वेदादिसर्वविद्यासु वादे क्रियमाणे सप्तमाद्दिनात्परं कर्मकाण्डात्मकस्य पतिपक्षस्य स्खालित्यं श्रुत्वा, तस्य पराजयञ्च निश्चित्य, श्रीशङ्कराचार्यस्य ज्ञानकाण्डस्य सर्वश्रेष्ठत्वं स्थापितं मत्वा महानसात्पतिसमीपं गत्वा विदुषी भारती प्रतिदिनं शङ्कराचार्यमिव मण्डनं किलेदमब्रवीत्—“स्वामिन्नेहि भिक्षायै”। भारत्या भणितिभङ्गयानया विदितात्मपराजयो मण्डनमिश्रोऽपि श्रीशङ्कराचार्यचरणारविंदं नतः, “शरणं देही"ति ब्रुवाणोऽद्वैततत्वोपदेशपूर्वकं सन्यासदीक्षाप्रार्थनापरो बभूव।
अवसरेऽस्मिन् चिद्विलासादयः शङ्करचरितलेखका विविधशङ्करदिग्विजयेषु “मामनिर्जित्य कथं मत्पतिर्जित” इति भाषमाणाया भारत्या मध्य आगमनमाचार्येण सह तस्याः संवादप्रार्थनां वादे प्रवृत्ते तं प्रति तस्याः कामशास्त्रप्रश्नास्तदुत्तरासमर्थत्वात् कामशास्त्रज्ञानायाचार्यस्य योगबलेन स्वदेहत्यागपूर्वकं मृतामरुकनृपशवप्रवेशं पुनरुज्जीविते नामरु करूपेण कामशास्त्रोपलब्धिं, ततस्तेन स्वशरीरे पुनः
प्रविश्य कामशास्त्रेऽपि भारत्याः पराजयं, तेन मन्त्रबद्धाया भारत्याश्च शृङ्गपुरमानीय मठे स्थापनमित्यलौकिकाः कथा वर्णयन्ति। श्रीशङ्कराचार्याख्यस्याचार्यचरितस्य लेखको दाक्षिणात्य आर्योपाह्वयः श्रीकृष्णस्वामी गाथयानया मण्डनपराजयस्य तस्य सन्यासग्रहणस्य च पश्चादाचार्यप्रार्थनया भारत्यपि काषायाणि गृहीत्वा सन्यासिनी भूत्वा शृङ्गगिरिमठेऽवसदित्यनुमानं करोति, तत्राद्यापि भारतीपूजायाः प्रचलितत्वात्। यद्भवतु तद्भवतु विनिश्चितमेतद्यच्छ्रीमच्छंकराचार्यो मण्डनमिश्रं पराजित्य तत्प्रार्थनया तमेकोनपञ्चाशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्दे (२६४९ यु०), विक्रमात्त्रयस्त्रिंशदुत्तर- चतुःशतवर्षपूर्वं (४३३वि०पू०), चैत्रशुक्लनवम्यां सन्यासेन संदीक्ष्य, सुरेश्वरनामानं कृत्वा, शुद्धाद्वैतविद्यां सम्यगुपदिश्य, तमेकोनपञ्चाशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्द (२६४९ यु०), एकादशोत्तरषड्विंशतिशततमे कल्यब्दे (२६११ कलि) विक्रमात्त्रयस्त्रिंशदुत्तरचतुःशतवर्षपूर्वं (४३३ वि पू०), माघशुक्लसप्तम्यां द्वारावत्यां शारदामठं संस्थाप्य तस्मिन् प्रथमपीठाध्यक्षमभ्यषिचत्।
ततः परं स कदाचारान् कन्दयन्, सदाचारान् प्रचारयन्, शुद्धाद्वैतद्युतिं प्रद्योतयन्, महाराष्ट्रान् पर्याटत्। तत्र ब्राह्मणानां संप्रदायविशेषो रुद्रस्य मल्लारिरूपं तद्वाहनं
श्वानञ्च सर्वश्रेष्ठं मत्वापूपुजत्, मल्लारिणः सर्वप्रधानत्वे तद्वाहनस्य च वेदविहितत्वे वेदादपि “श्वभ्यः श्वपतिभ्यश्च वो नमो नम” इति श्रुतिं प्रामाण्येनोपन्यास, मल्लारिमूर्तिमेवानुदिनमर्चयँस्तद्वाहन रूपशुनकवेपयुक्तः, कण्ठधृतवराटिकामालिकाङ्कः, सर्वं जगन्मल्लारिगर्भकोटरान्तर्गतमिति ध्यानासक्तोऽन्यत्सर्वदेवतावृंदं ऽन्यगकरोत्। अधुनापि महाराष्ट्रदेशे केचिन्महराष्ट्राः मल्लारिणं ग्रामदेवतां कृत्वाराधयन्ति।
माल्लारिणाः श्रुतिमूलकाचारस्य दुर्निर्वार्यत्वात्त्वमपि सशिष्यः परं मुक्तिकारणमस्मदाचारग्रहणं कुरु, भवद्धारणयोग्यानि वराटकानि दास्याम” इति श्रीशङ्कराचार्यमूचुः। श्रीमदाचार्य एकाद्वितीयसर्वसाक्षि- सर्वकारणसर्वव्यापकपरमात्मन एव सर्वोपासनायोग्यत्वं संस्थाप्य, मल्लारिप्रभृतिक्षुद्रदेवतार्चनानर्हत्वं, शुनाञ्च निकृष्टजन्तुत्वात् पापरूपत्वाच्च तदीयस्पृष्ट्या स्नानस्य ब्राह्मणानां सिद्धत्वात् तद्वेपचिन्हस्याधार्यत्वं साधयामास। तस्य युक्तिप्रमाणैः पराजिता माल्लारिणाः परमगुरुचरणारविंदयोः कृतापराधिन इव किलापतन्। दयारसाभिषिक्ततनुराचार्यस्वामी समीक्ष्य तान् “तिष्ठते"त्युक्त्वा तेषां पापविशोधनं कर्तुमत्यन्तनिपुणानखिलज्ञान् स्वशिष्यान् पद्मपादहस्तामलकप्रमुखाना-
ज्ञापयामास। ते किल तेषां शिरोमुण्डनं महानद्यां स्नानादिप्रायश्चित्तं कारयित्वा तान् शुद्धाद्वैतवादिनो विदधुः।
एवं मल्लारिमतं निराकृत्य श्रीमदाचार्य उज्जयिन्याख्यं पुरमगच्छत्। तत्र तावदुन्मत्तभैरवनामा कश्चित् कापालिकश्चितिभस्मपूर्णकलेवरो, नरकपालमालावृतगलः, भालदेशरचितकज्जलरेखः सकलकेशरचित- जटाजूटो, व्याघ्रचर्मरचितकटिसूत्रकौपीनः, कपालयुतवामकरः, सनादघण्टाधृतदक्षिणकरः, “शम्भुभैरव अहो कालीश” इति मुहुर्मुहुर्जल्पन्नाचार्य-स्वामिनमिदमब्रवीत्—“स्वामिन्, किं कापालिकमते न्यूनतास्ति, तदन्यत्र किं फलमस्ति, न मे जात्या प्रयोजनं वर्तत, अविवेकस्यैव जातिः कारणं ब्रह्मादिपिपीलिकान्त- र्गतदेहस्य भौतिकत्वात् कस्य जातिर्वक्तव्या, शरीरस्य चर्ममांसास्थ्यादिसप्तधातुमयस्य समत्वेनैव सर्वप्राणिषु वर्तमानस्य विशेषाविशेषत्वं भवद्भिः कल्पितं, भैरवाज्ञया मातृयोनेरुत्पन्नस्य नीचोच्चवृत्तित्वं मंदा अपि नाङ्गीकुर्वन्ति; अतोऽस्माकं न हि प्रमाणं जातिः, किन्तु जातिद्वयं दृश्यते स्त्रीत्वं पुंस्त्वञ्चेति, तयोर्मध्ये स्त्रीजातिः श्रेष्ठा, कथमित्युक्ते, तत्संयोगेनानंदभैरवनंदनस्य विद्यमा नत्वात्”। तस्य प्रमाणशून्यं जल्पनं श्रुत्वाचार्यवर्यो विविध-श्रुतिस्मृतिभिस्तत्पक्षस्यासारत्वं संसाध्य, सदाचारस्य
वर्णाश्रमधर्मस्य चावश्यकर्तव्यत्वं संस्थाप्याद्वैततत्वस्योपदेशेन तमपि प्रायश्चित्तपूर्वकं शुद्धं व्यधात्।
एवमेव जैन-बौद्ध -चार्वाक-सौगत- क्षपणकादिविविधानि वेदविरुद्धानि मतमतान्तराणि दक्षिणापथे निराकृत्य तन्मतावलंबिनश्च यज्ञोपवीतधारणपूर्वकं वैदिकधर्मे संप्रवेश्य, निजपरमाचार्याश्रमं बदरिकाश्रमं पुनर्दिदृक्षुरुत्कृष्टभूखण्डमुत्तराखण्डमयात्। तत्रापि वेदविरुद्धमार्गदूषणदत्तदृष्टिः, सत्पथप्रचारपरो, ज्योतिर्मठं चतुःपञ्चाशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्दे (२६५४ यु०), षोडशोत्तरषड्विंशतिशततमे कल्यब्दे ( २६१६ कलि), विक्रमादष्टाविंशत्युत्तरचतुःशतवर्षपूर्वं (४२८ वि० पू०) पौषपूर्णिमायां समस्थापयदानन्दगिरीति पूर्वनामधारिणं श्रीतोटकाचार्यञ्च तदाचार्यञ्चक्रे।
ततः सशिष्यो यथापूर्वं दिग्विजयायैंद्रदिग्भागमुदचलत्। तत्र विविधविद्यापीठेषु राजधानीषु च यात्राङ्कुर्वन्, श्रुतिविमुखानाचारान् निरस्यन्, वेदप्रतिपादितांश्च प्रचारयन्नुकलानागतः, पुरुषोत्तमक्षेत्रं जगन्नाथपुरीं प्राप्तस्तस्यां वेदान्तगभस्तिप्रसाराय गोवर्धनं मठं पञ्चपञ्चाशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्दे (२६५५ यु०), सप्तदशोत्तरषड्विंशतिशततमे कल्यब्दे (२६१७ कलि), विक्रमात् सप्तविंशत्युत्तरचतुःशतवर्षपूर्वं (४२७ वि० पू० ) वैशाख-
सुदि दशम्यां निर्माय, सनन्दनेति पूर्वनामानं श्रीपद्मपादाचार्यं तस्य प्रधानपदे प्रत्यस्थापयत्।
ततः कामरूपेषु शाक्तं मतं प्रबलं प्राप्य तत्खण्डन उद्युञ्जान, आत्मना पराजितेनाभिनवगुप्तनाम्ना केनचिच्छाक्तमतावलंविनाभिचारितो, विषादिग्राहितो वा, भगंदररोगेणाक्रम्यत। मारकेण रोगेण तेन दैनंदिनं क्षीणकलेवरोऽपि कञ्चित्कालं किञ्चिल्लब्धोल्लाघो, वासवीककुभो धर्मराजदिशं निवर्तमानो, दक्षिणापथं प्राप्तः, श्रीशृङ्गेरीपुरमाययौ। तत्र शुद्धाद्वैतवैदिकसंप्रदायप्रवर्तनाय, प्रस्थानत्रयीभाष्याणां प्रचाराय च दक्षिणस्यां दिशि हस्तामलकनायकत्वे श्रीशृङ्गपुर्यां शृङ्गगिरिपीठं षट्पञ्चाशदुत्तर- षड्विंशतिशततमे (२६५६ यु०) युधिष्ठिराब्दे ऽष्टादशोत्तरषड्विंशतिशततमे कल्यब्दे (२६१८ कलि), विक्रमात् षड्विंशत्युत्तरचतुः शतवर्षपूर्वं (४२६ वि० पू०) पौषपूर्णिमायां समस्थापयत्।
एवं स सर्वत्र वेददुंदुभिमुद्धोषयन् वेदविगर्हितान् मंदमतानुन्मूलयन्, बेदवाह्यान् मुद्राङ्कणादिकदाचारान् कदर्थयन्नागमानुमोदिताचारान् विस्तारयन् दिग्दिगन्तरेष्वातुहिनभूधरमा च सेतो आपूर्वपश्चिमसागरं सर्वस्मिन् भारते वर्षे शुद्धाद्वैतद्युतिं प्रोद्योतयन् श्रीशङ्करभगवत्पादः श्रीकामाक्षीमंदिरमण्डितं, श्रीराजसेनराजधानीं, प्रसिद्ध-
विद्यापीठं, काञ्चीनगरमाजगाम। तत्रान्तिमं कामकोटिमठं त्रिंशत्युत्तरषड्विंशतिशततमे कल्यब्दे (२६२० कलि), विक्रमाच्चतुर्विंशत्युत्तरचतुःशतवर्षपूर्वं (४२४ वि० पू०)वैशाखपूर्णिमायां क्लृप्त्वा स्वयमेव पीठाध्यक्षासनमलङ्कुर्वन्, स्वदेहपातानन्तरञ्च सर्वज्ञसंज्ञं स्वशिष्यं तस्य भाविनमाचार्यं विधाय तत्रैव कञ्चित्कालं स्थितस्त्रिषष्टयुत्तरषड्विंशतिशततमे युधिष्ठिराब्दे (२६६३ यु०), पञ्चविंश त्युत्तरषड्विंशतिशततमे कल्यब्दे (२६२५ कलि), विक्रमादेकोनविंशत्युत्तर चतुःशतवर्षपूर्वं (४१९ वि० पू०) द्वात्रिंशद्वर्षवयसि (३२) स्वविनश्वरं तनुं त्यक्त्वा ब्रह्मभावमाप।
धार्मिकसंप्रदायानां दर्शनस्य च प्राचीनार्वाचीनेतिवृत्ते शङ्करभगवत्पादान्न कोऽप्युच्चतरं स्थानमर्हति, न च कोऽपि माहात्म्ये, शान्तौ दान्तौ, कुशाग्रमतौ वा तस्य समकक्षामवगाहते। कल्मषमलीमसे कलिकाले स एव स्व जीवनेनादित्यब्रह्मचर्यस्यादर्शं दर्शयामास। अभिनवविषयप्रवेशे, पाण्डित्ये, विचारगाम्भीर्ये, प्रबलतर्कणायां, दर्शनकल्पनायाञ्च तस्य शेमुषी परमोत्कृष्टा। स्वसमये प्रचलिनानां विविधसंप्रदायानां दर्शनानाञ्च समाधाने तस्याद्वितीयकौशलमपूर्वविचारशैलीं, प्राचीनप्रमाणवाक्यानां विभिन्नाशयानां तत्कृतसंगतिं, तत्प्रणीतभाष्याणां
वैशद्यं, सारल्यं, प्रगल्भवाक्यविन्यासं, कमनीयत्वमभेद्ययुक्तियुक्तत्वञ्च दर्शंदर्शं तदुत्तरवर्तिनो मनीषिणो दार्शनिकाः, कोविदाः, समालोचका, विचारकाश्चाश्चर्यचकिता भवन्ति। ‘एकस्य बहुषु गवेषण"मिति दर्शनस्य लक्षणं सनातनादायाति परं ‘बहुष्वेकस्यान्वेषण’ मिति जटिलप्रश्नो दर्शनस्य, संसारस्य, सदाचारस्य, धर्मस्य, समाजस्य, राजनीतेर्वा दृष्ट्याऽद्वैततत्वं व्याख्याय भगवता शंकरपादेनैव समुद्घाटितः। प्लेटो20 पंडितादारभ्य बेन21 मुनिपर्यन्ताः पाश्चात्यदार्शनिकाः पाश्चात्यदर्शनमपि श्रीशंकराचार्यप्रचारितेनाद्वैतसिद्धान्तेन प्रभावितं पश्यन्ति। “अद्वैतसिद्धान्त एव मानवजातेः परमेष्टस्यानन्दस्य, शमस्य च समुद्गमः, प्रत्येकराष्ट्रस्य जीवनस्य नियामकः, सर्वेषामाधीनामौषधिश्चे"ति पण्डितप्रकाण्डस्यैकस्य संमतिः। श्रीशङ्कराचार्यप्रचारिताद्वैतसिद्धन्तेन तात्कलिकक्रियाकलापे च तत्कृततत्प्रयोगेण भारतस्यात्मा नूनमेवैकतो मिथ्याविश्वासात्मक कर्मकाण्डादपरतश्च संदेहदोलाधिरूढात्स्याद्वादात् प्रकृतिवादाच्च संरक्षितः। अद्वैतसिद्धान्तसार्वभौमः सर्वाणि परस्परं विवदमानानि दर्शनानि विजित्य स्वप्रतापमेकाधिपत्यञ्च जगतीतले सर्वोपरिष्टात्संस्थाप्य
स्वसंस्थापकायाचार्यवर्याय श्रीशंकरभगवत्पादाय जगद्गुरुपदवीमद्वितीयगामित्वेन प्रायच्छत्। अद्वैतसिद्धान्तस्यातर्क्यकोटिक्रमं किमपि दर्शनं न सहते। तेनैव दार्शनिकानां मध्ये पद्यमिदं प्रायः पठ्यते—
तावद्गर्जन्ति शास्त्राणि, जंबुका विपिने यथा।
न गर्जति महाशक्ति, र्यावद्वेदान्तकेशरी॥
इति शंकरचरितम्
चारु चरितावली
<MISSING_FIG href=”../books_images/U-IMG-1732784402j3.png”/>
ख्रीष्ठ यीशुप्रभुः
<MISSING_FIG href="../books_images/U-IMG-1732784487j4.png"/>
<MISSING_FIG href="../books_images/U-IMG-1732784530j5.png"/>
यो घात्यमानोऽपि ह घातकानां,
पापापनुत्त्यै पितरं ववन्दे।
स ईशुरीशात्मजमानिमुख्यः,
सहिष्णुतामूर्तिरलंकरोतु॥
आवर्तयतीतिवृत्तमात्मानं पौनःपुन्येनेति गौराङ्गाङ्गलानामुक्तिर्दिक्कालानवच्छिनत्वेन सर्वत्र वसुधायां सदैव सञ्जाघटीति। कारणमन्तरा कार्यं न भवतीति सिद्धान्तमनुसृत्यैव सर्वा घटनाः संसारेऽस्मिन् संघटन्ते। घटनानां कारणञ्च पुरुषाणां प्रकृतिः परिस्थितिश्च। प्रकृतयो व्यष्ट्या विभिन्ना अपि समष्ट्या सर्वत्र समा एव। पुरुषप्रकृतिं पुरस्कृत्यैव परिस्थितिरपि तथाविधाविर्भवति। पुरुषप्रकृतेः प्रवृत्तिप्रवणत्वात् पुरुषाः सुखासक्ताः, परापहारेणापि स्वार्थसाधने प्रयतमानाः धर्मपथे स्स्वलन्ति।
पुनश्च पुरुषः काञ्चित्क्रियां मुहुर्मुहुरनुवर्तमानस्तस्यां जनिताभ्यासस्तदनुष्ठानेनानंदमनुभवति। तेनैव मनुष्यस्वभावो रूढीनामुपासकतां भजते, मनुजाश्च परम्परागतप्रथासु प्रबलास्थावन्तो भवन्ति। अनेनैव व्यापकनियमक्रमेण धर्मप्राणैर्धर्मप्रवर्तकैः प्रवर्तिता धर्मसंप्रदायाः कालमतीत्य मनुष्याणां स्वभावदोषैः दोषदुष्टाः संशोधनीयाश्च भवन्ति ! तेषां दोषापनोदनाय संशोधनाय च समये समये सर्वस्मिन् संसारे धर्मधौरेयाः धर्मव्यवस्थापकाः प्रादुर्भवन्ति।
काले काले विविधधर्माचार्याणां प्रादुर्भाव एव नानाधर्म संप्रदायानामुत्पत्तिहेतुः। घटनाचक्रमेतद्ध- र्मारणामितिवृत्ते सदैव जगतीतले प्रचलति। तथाविधमेव धर्मचक्रप्रवर्तनं पाश्चात्यप्रान्तेषु पैलेस्टाइन22 प्रदेशे वैक्रमाब्दस्य प्रथमशताब्द्यामेकदा समभवत्।
प्राचीन पैलेस्टाइनप्रदेश एशिया23महाद्वीपस्य पश्चिमे प्रान्ते भूमध्यसागरतीरे24 भारताङ्गलद्वीपयो25 मध्येमार्गं स्थितः।
तस्माद्दक्षिणस्यां दिशि मिश्रदेशो26ऽनतिदूर एव, उत्तरस्याञ्च सीरिया27देशो वर्तते। अनतिविस्तृतपैलेस्टाइनप्रदेशस्य भूरतीवोर्बरा मनोहरा च। तस्य विस्तारो दक्षिणदिग्वर्तिप्राचीनपवित्रजेरुसलम28राजधान्या उत्तरंप्रान्तगैलिलीं29 यावन्नवयोजनान्येव30। तस्य दक्षिणप्रान्तो जीवुदये31त्याख्यायते।
तत्प्रान्तवासिनस्तदा जीबुदयावास्तव्यपर्यायेण ‘जीवु32’ इति ‘यहूदी ‘ति वा पदेन व्यवह्रियन्ते स्म। त आत्मनो वंशविरुदम् इस्राइल33पुत्रवाचकम् ‘इस्राइलाइटे34ति’ ‘हिब्रू35’ इति वोपाधिं प्रतिष्ठास्पदममन्यन्त। उपाधी इमौ तेषां धर्मग्रन्थेषु बाहुल्येन प्रयुक्तौ। जीववः परमसंमान्यस्याब्राहीमस्य36 वंशजा, आत्मनोऽब्राहीमवंशावतंसत्वञ्च बहु मेनिरे।
विक्रमात्त्रिंशदुत्तरषोडशशतमितवर्षपूर्वं37 (१६३० वि० पू०) जीवूनां पूर्वपुरुषा मिश्राधिपेन पारवाहेन38 पराजित्य बंदिनो विधाय दासतां नीताः। मूसा39महात्मा विक्रमादष्टचत्वारिंशदुत्तरपञ्चदशशतवर्षपूर्वं (१५४८ वि० पू०) तान् दास्यान्मोचयित्वा मिश्रदेशाद्बहिरानीय पैलेस्टाइनप्रदेशे पुनः संस्थाप्य च धर्ममुपदिदेश। मूसामहात्मन उपदेशा ‘स्तौरायते ‘ति ‘ओल्ड टेस्टमेन्टे40ति’ वा महानिबंधे हिब्रूभाषया निबद्धाः सन्ति। जीववोऽन्ये सर्वे पाश्चात्यसंप्रदायाश्च मूसामहात्मानं परमेशदूतं प्रथमप्रधानधर्मप्रवर्तयितारं तदुपदेशपुस्तकं तौरायतञ्च परमेशप्रेरितं धर्मग्रन्थं मन्वते। तौरायतमेतत् ख्रीष्टीय41मतावलंबिनां बाइबिल42धर्मग्रन्थस्य पूर्वार्धमस्ति।
विक्रमाद्विनवत्युत्तरसहस्रवर्षपूर्वं ( १०९२ वि० पू० ) जीवुवंशोद्भवो धर्मिष्ठो महाराजो दैवविन्ना43मा
जीवूनां शासिताभूत्। जीवूनां मध्य ‘इलिजाह’44 इसाइआह45’ प्रभृतयो धर्मव्यवस्थापकाः समये समये प्रादुर्भूय धर्ममुपदिदिशुः। जीववो जगत्स्रष्टारमेकमेवाद्वितीयं ब्रह्म प्रतीकरहितमुपासिषत। परब्रह्मणोऽद्वितीयत्वद्योतनाय ते तस्यैकमेवोपासनागारं सर्वस्मिन् देशे प्रतिष्ठापितवन्तस्तच्च विशालेन महामंदिररूपेण जेरुसलममहानगर्यां स्थितमभूत्, तस्मिन्नेव ते परमेशमुद्दिश्य प्रतिदिनं पर्वसु च पशूनामन्यपदार्थानाञ्च बलिमर्पयामासुः।
परं पुरुषाणां प्रमादप्रवणप्रकृतिबलात् कालक्रमेण जीववः पापपङ्ककलङ्किता, अनाचाररता रूढीनामुपासकाः, परमाभिमानिनश्च समजायन्त।
विक्रमस्य परमशताब्द्यां पैलेस्टाइनप्रदेशो रोमकाणां46 महासाम्राज्यान्तर्गतोऽभूत्। तदा रोमका एशियाफ्रीका47योरप48महाद्वीपानां भूमध्यसागरतीरस्थान् सर्वान् देशान् देशान् शशासुः। कैसरोपाधिधारी49 रोमकराजधानीस्थोऽपि तेषां सम्राट् साम्राज्या
न्तर्गतान् सर्वान् प्रदेशान् करदीकृतभूपालैर्निजनियुक्तैः शासकैर्वाधिपालयामास। स पैलेस्टाइनप्रदेशमपि पराजित्य तस्य विविधप्रांतानां नृपानात्माधीनान् विधाय तानेव तत्र स्थापयामास। वैक्रमचतुर्विंशेऽब्दे (२४ वै०) हेरोड50नामा राजा रोमकसम्राजः सामंतरूपेण पैलेस्टाइनप्रदेशमधिशशास। तस्मिन्नुपरते तस्य पुत्राः पैलेस्टाइनप्रदेशस्य विविधप्रान्तेषु रोमकसम्राजा संस्थापिताः। तेषु जीवदयासमरिया51प्रान्तयोः सामन्तत्वेन नियुक्त आर्चीलासनामा राजा प्रजापीडनरतः प्रजाभिरेव हतः, पिलेटा52भिधः सजातीयो रोमकशासकश्च रोमकसम्राजा तत्स्थाने न्ययुज्यत। एवं तदा पैलेस्टाइनप्रदेशस्य शासनक्रमोऽधुना भारतवर्षे वर्तमानस्य शासनस्य काञ्चित्तुलामधिरुरोह। अधुना भारतस्य केचित्प्रदेशाः सम्राजा नियुक्तैः शासकैः शिष्यन्ते केचिच्च सम्राटसामन्तैर्भारतीयैर्नृपै रक्ष्यन्ते; तद्वदेव रोमकसाम्राज्यान्तर्गतस्य पैलेस्टाइनभूखण्डस्य केचित्प्रदेशा जीवुराजानां शासने स्थिताः, जीवुदयासमरियानामानौ द्वौ प्रान्तौ च रोमकशासकस्याधीनौ। भारतपैलेस्टाइनयो-
रेतदेव महदन्तरं यद्विशालं भारतवर्षमद्य यावत्प्रायो निर्भेद्यसीमाभिः शेषात्संसारात्पृथग्धृतम्, लघुः पैलेस्टाइनप्रदेशश्च संसारस्य राजमार्गेषु स्थितोऽन्येषां राष्ट्राणां प्रदेशानाश्च संसर्गेण संयुक्त आसीत्।
जीवव आत्मनः परमेशस्य पुत्रानमन्यन्त। निजजन्मभूम्यां परमानुरक्ताः स्वसनातन धर्मस्याभिमानिनस्तेऽन्यान् मनुजानवज्ञासिषुः। ते परदेशीयैः पुरुषै रोमकैरब्राहीमवंशजानामात्मनां शासनं लज्जावहं मन्यमाना रोमकराज्योन्मूलनार्थमवसरं प्रत्यैक्षिषत। ते रोमकशासनपाशात्स्वजातिं मोचयितारं वंशविवर्धकं, कमपि पुरुषर्षभं, स्ववंशे जनिष्यमाणं परमेशं प्रार्थयामासुस्तेषाञ्च देवदूतपदवाच्याः पूर्वे धर्माचार्याः, श्रीमद्भगवद्गीतासु योगिराजेन भगवता श्रीकृष्णेन गीतं
“यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥”
इति प्रसिद्धपद्यमनुसृत्य “धर्मग्लानिकालेऽनाचारप्रचारे च पापपङ्कपतितोत्थापको वसुधायां स्वर्गीयराज्यव्यवस्थापकः, परमेशांशावतीर्णो, धर्मोद्धारकः प्रादुर्भविष्यतीति पूर्वमाभाषिपत। तां भविष्यद्वाणीमेवापेक्षमाणा-
स्तद्देशीयाः, श्रद्धालवो धर्मधुरीणा धर्मोद्धारकदर्शनमाशासिषत।
आविर्भविष्यन्तं धर्मोद्धारकमेनं पैलेस्टाइनप्रदेशीयाः ग्रीका53भिधया स्वभाषया ख्रीष्टं54 जगदुः। ख्रीष्टपदं तस्यां भाषायामभिषिक्तार्थवाचकम्। तेन ते धर्मसंस्थापनार्थं परमेशेन प्रेषितोऽभिषिक्तश्चेत्यभिप्रेयुः। एवं तदा पैलेस्टाइनपदेशे द्विविधौ समुदायौ ख्रीष्टप्रादुर्भावं प्रतीक्षाश्चक्राते—एकः स्वदेशभक्तानां समूहो रोमकराज्यध्वंसकं पैलेस्टाइनप्रदेशस्य स्वतन्त्रराष्ट्रनिर्मातारं वीरपुरुषं समैहत, अपरश्च धार्मिकजीवूनां संघो धर्मोद्धारकं, धर्मरक्षकं, धर्मव्यवस्थापकं पुरुषर्षभमियेष।
तथास्थितस्य पैलेस्टाइनप्रदेशस्य जीवुदयाप्रान्ते जेरुसलममहानगर्याः समीपस्थे बैतुलहम55नाम्नि ग्रामे तद्देशीयानां तथाविधावस्थायां चतुर्विंशे वैक्रमाब्दे (२४ वै०) जीवुराजदैवविद्वंशजस्य निर्धनस्यापि धर्मात्मनस्तक्ष कर्मणा वृत्तिमाकलयतो यूसुफ़56महाशयस्य साध्व्यां जीवुवंशोद्भवायां मैर्या57ख्यायां धर्मपत्न्यां जीवूनां
चिराशासितः शिशुः समुदपद्यत। पितरौ तं यीशु58नामानञ्चक्रतुः। यीशुशब्दो जीससे58ति रक्षकवाचकस्य ग्रीकभाषापदस्य संस्कृतरूपान्तरं येन धर्मरक्षको लक्ष्यते। स्त्रीष्टधर्मीयाणां मतेन यीशुर्यूसुफ़ाय वाग्दत्तायां मैर्यां पुरुषसंसर्गं विना परमेशांशाहितेन गर्भेण जज्ञे।
रोमकाणां शासने जीवुदयाप्रन्ते, भारतवर्षे संप्रतीव, मनुष्यगणनाया नियम आसीत्। प्रत्येकपुरुषो राजनियमेन निजपूर्वपुरुषाणां ग्रामं गत्वात्मानं गणनापुस्तकेऽङ्कयामास। तेनैव मैरीयुसुफावपि स्वगणनार्थं निजकुलग्रामं बैतुलहममीयतुः। निर्धनतापरवशौ तौ ग्रामे वासार्थं भवनमपि न लेभाते। तेन दंपती पशुशालायां निवासञ्चक्रतुः। तस्यामेव शालायां निशि यीशुर्वैक्रमचतुर्विं शाब्दे (२४वै०) श्वैतद्वीपानां दिसंबरमासस्य पञ्चविंशदिवसे (२५) जन्म लेभे। तेन प्रत्येकवर्षं दिसंबरमासस्य पञ्चविंशदिवसे ख्रीष्टीयानां ख्रीष्टजन्मोत्सव दिवस. (Christmas day) नाम पर्व भवति। स्थानाभावान्मैरी तं वस्त्रखण्डावेष्टितं गवादन्यां निदधे। पशुशालास्थिताः पशुपाला एव संसारे भविष्यत्प्रधानधर्माचार्यस्य तस्य
शिशोर्जन्मसमाचारं सर्वप्रथमं प्रापुः। अयमेव शिशुरग्रे गत्वा ख्रीष्टोपाधिना संयुक्तः ‘ख्रीष्टेशु’रित्याख्यामगमत्, यस्य वाच्योऽभिषिक्तरक्षकोऽस्ति, येन च परमेशेन धर्मसंस्थापनार्थमभिषिच्य प्रेषितो धर्मरक्षको लक्षणया गृह्यते।
ततो यीशोः शैशवावस्थां स्त्रीष्टीयानां धर्मपुस्तकं बाइबिलमेवं वर्णयति। यीशुजन्मकाले जेरुसलमराजधान्यां परमश्रद्धालुर्नाम्ना श्रीमान्59 वृद्धजीवुः प्रतिवसतिस्म। श्रीमानपि धर्मिष्ठ जीवव इव धर्मसंस्थापनार्थं स्त्रीष्टयीशोराविर्भावं विश्वसितिस्म। “स यीशुमुखमदृष्ट्वा स्वनश्वरीं तनुं न त्यक्ष्यतीति" भविष्यद्वाणीं स्वप्नेऽशृणोत्। एकदा स मैरीयुसुफौ दंपती जेरुसलमस्थे परमेशमंदिरे शिशुयीशुं परमेशाय समर्पयन्तौ ददर्श, जीवूनां मध्ये नामकरणसंस्कारान्मासानन्तरं परमेशाय शिशोः समर्पणस्य प्रचारात्। परमेशं स्तुवन् छ्रीमान् यीशौ दृष्टिसंपातसमकालमेव तमाशासितं, परमेशप्रेषितं, स्त्रीष्टयीशुप्रभुमभ्यजानात्, तं वंदमानश्च सर्वेभ्यो जनेभ्यस्तस्याविर्भावमुद्घोषयामास।
स्त्रीष्टयीशुजन्मवार्तां बैतुलहमग्रामे तस्य स्थितिञ्च कर्णाकर्णिकया लभमानो, यीशुना चात्मपराभवं राज्य-
ध्वंसनञ्चाशंकमानस्तदानींननः पैलेस्टाइननृपो, हेरोडोबैतुलहमग्रामस्थानां सर्वेषामावर्षद्वयवयस्कानां शिशूनां वधं विदधे। शिशुनाशभीतौ मैरीयूसुफ़ौ दंपती तमादाय मिश्रदेशं पलायितौ हेरोडस्य राज्ञो मृत्युं यावतत्रैव न्यूषतुः। हेरोडे राज्ञि मृत्युवशं गते दंपती सशिशू पैलेस्टाइनप्रदेशस्योत्तरभागं गैलिलीप्रान्तं प्रत्यावृत्तौ, तत्रत्ये नज़ारथ60नाम्नि निजपूर्वावासग्रामे वसतिमकुरुताम्। अत्रैवैकान्तप्रशान्तग्रामस्थले यीशुशिशुः ख्रीष्ट ( धर्मरक्षक) कार्यसंपादनार्थं पितृभ्यां रक्षितो वर्धितः शिक्षितश्च। यीशोः प्रथमशिक्षिका तस्य माता धर्मप्राणा मैरी। दयामय्या मात्रैव यीशुः सर्वप्रथमं परमेशभक्तिं जीवुमुनीनां गाथाश्चावागच्छत्। ततः प्रेमाप्लुतपिता यूसुफः प्रियपुत्रं यीशुं तौरायतधर्मपुस्तकलिखितानि धर्मानुशासनानि वृत्तिनिर्वहणोपायं तक्षकर्म च शिक्षयामास। तत्पश्चाद्यीशुर्ग्रामपाठशालायामक्षराण्यधिगम्य तौरायधर्मपुस्तकमपठत्, पितुर्गृहे च तक्षकर्माभ्यस्यत्। एवं “मातृमान् पितृमानाचार्यवान् पुरुषो वेद” इत्यागमानुसारमेव यीशोः शिक्षाक्रमोऽभूत्।
तथाविधशिक्षितं द्वादशवर्षवयः प्राप्तं यीशुं पितरौ
कुलप्रथामनुसरन्तौ व्रतग्रहणार्थं जेरुसलमस्थं परमेशमंदिरमानिन्याते। मूसामहात्मनो धर्मानुसारं प्रत्येकजीवुर्वर्षमध्ये सकृद्ग्रीष्मर्तौ जेरुसलमस्थं परमेशमंदिरमागत्य सप्ताहं यावदुपोवास। अवसर एष जीवूनां महापर्वासीत्। तद्धि तेषां पूर्वपुरुषाणामिस्राईलानां मिश्रदेशे दास्यविमोचनस्य स्मरणार्थं प्रवर्तितम्। तेषु दिनेषु जीवूनां विश्वासेन परमेश्वर इस्राईलानां गृहोपरिष्टात्तेषां बंधनकर्तॄन् दण्डयन् निर्यातः। तेन तन्महापर्व तैर्निर्यातनदिन61मुच्यते। तस्मिन्महापर्वावसरे बालो यीशुरपि सप्तदिनानि पुण्यनगरे जेरुसलमे पूतपरमेशमंदिरमुषित्वोपवासव्रतं दधार, धर्मचर्चायाञ्च मनो न्यवेशयत् येन तस्य हृदये धर्माङ्कुरो बद्धमूलो बभूव। जेरुसलमतीर्थयात्रायाः प्रतिनिवृत्तस्तं धर्माङ्कुरं पोषयन् स्वतक्षवृत्तिश्चाकलयन्, नज़ारथग्राममधिवसन्नेव यीशुर्वयसोऽष्टादशं वर्षमतिक्रामन् वाल्येन यौवनं प्राविशत्।
यीशोश्चरितात्मकख्रीष्टीयधर्मपुस्तकेषु यीशोर्यौवनावस्थायाः शिक्षायाश्च वृत्तान्तो विस्तरेण नोपलभ्यते। तस्य तरुणावस्थाविषये रशिया62वास्तव्येन पर्यटकेन नोटोवि-
चनामधारिणा महाशयेन विलक्षणा घटनोद्घाटिता। तेन यीशोरज्ञातचरितनामकं पुस्तकमांगलभाषायां प्रकाशितम्। तस्मिन्स " त्रिविष्टप63देशे पर्यटन्नहं लामोपाह्वबौद्धगुरूणां पुस्तकालयेषु यीशोश्चरितवर्णनपरान् त्रिविष्टपदेशभाषया लिपिबद्धान् ग्रन्थानलभ" इति कथयति। तेषु ग्रन्थेष्वित्थं वर्णितमस्ति— शैशवमतिक्रान्तस्त्रयोदशवर्षदेशीयो यीशुः सार्थवाहेन सह पौरस्त्यान् देशान् प्रति प्रास्थित। तेषु भ्रामं भ्रामं स वर्षिष्ठं भारतवर्षमाययौ। तदात्र भारते वर्षे बौद्धजैनधर्मयोर्जयदुंदुभिर्यत्र तत्र नेदे। श्रीशंकरभगवत्पादेन निराकृता अपि बौद्धजैनधर्मा अनेकेषु स्थानेष्यवाशिष्यन्त। नालंदादयो बहवो बौद्धमठाः प्रतिष्ठिता आसन्। भारतमागत्य धर्मश्रद्धालुर्यीशुर्बौद्धश्र मणानां शिष्यत्वं गतो बौद्धधर्मसिद्धान्तपारंगतो बभूव। त्रिंशद्वर्षवयाश्च स्वदेशं प्रतिनिवृत्तस्तानेव सिद्धान्तानादाय मूसामहात्मनो धर्मेण च संमिश्र्य ख्रीष्टीयं धर्मं स्थापयामास। कतिपये ख्रीष्टधर्मीया आधुनिकाचार्या वृत्तान्तमिमं प्रत्यवादिषुः पर्यटकनोटोविचमहाशयञ्च मिथ्यावादेन दूषयामासुः परं नोटोविच-
महाशयस्त्रिविष्टपदेशे स्वयात्रायाः प्रबलप्रमाणानि समुद्धत्य तान्निराचक्रे।
पर्यटकनोटोविचमहाशयेन त्रिविष्टपदेशे यीशुचरितमया ग्रन्थाः प्राप्ताः स्युर्नवा परं ख्रीष्टीयबौद्धधर्मयोः प्रधानांशेषु परं साम्यमेतदेव प्रमाणयति यदेकस्य सिद्धान्ता अपरात्संगृहीताः। तयोरर्वाचीनो धर्मः प्राचीनस्य सिद्धान्तान् ग्रहीतुं प्रभवति, बौद्धख्रीष्टधर्मयोः पूर्व एव पूर्ववर्ती परस्तु परवर्तीत्यस्मिन् विषये नास्ति विवादलेशोऽपि। तेन ‘ख्रीष्टधर्मेणैव बौद्धधर्मात्सिद्धान्ताः समगृह्यन्तेति सिद्ध्यत्येव। बौद्धधर्मख्रीष्टधर्मयोः सादृश्यदर्शका बहवो ग्रन्था लिलीमहोपाध्याय64प्रभृतिभिः पाश्चात्य गौराङ्गपण्डितैर्न्यबध्यन्त। तेषां सारमादाय एम. ए. उपाधिधारिणा श्रीगंगाप्रसाद पण्डितेन “धर्माणामादिमं स्रोत65” इत्याङ्गलभाषानिबंधे विषयोऽयं विशदीकृतः। सत्यार्थान्वेषणपरैः विचारकैरवलोकनीयोऽयं ग्रन्थः। तस्यार्यभाषानुवादोऽपि प्रकाशतां नीत आर्यभास्करयन्त्रालय प्रबन्धकर्तुस्सकाशादागरास्थानाद् रूप्यकैकेन स्वल्पमूल्येनोपलभ्यते।
दिनेषु गच्छत्सु यीशोर्मनस्यात्मनो धर्मसंस्थापकत्वं परमेशांशसंभूतत्वं परमपितुः पुत्रत्वं बोदियाय। स प्रायो विजने धर्मतत्वमनुध्यायन् सततमास्ते। तथा कालं नयन्तं तं धर्मप्रचारप्रेरणा जननाम्नो दीक्षकात्66 समागता। जनदीक्षकमहाशयः संसारं सन्यस्य धृतमुनिव्रतः, पैलेस्टाइन प्रदेशस्य दत्तिणदिग्भागे निर्जने वने जार्डन67तटिन्यास्तट उवास। स चिरकालं कंदमूलवृत्तिरूर्णवासाः प्रणिधानपरोऽभूत्। शिष्यैः सह तत्र स्थितः स आगतेभ्यः पुरुषेभ्यो धर्ममुपदिदेश, तेषां पूर्वपापानां प्रायश्चित्तार्थश्च तान् जार्डननद्यां कृतावगाहान् मन्त्रैरभ्युक्ष्य धर्मव्रतग्रहणे दीक्षयामास। तेनैव जनमुनिर्दीक्षकाख्यां जगाम। पैलेस्टाइनप्रदेशस्य चतुर्दिग्भ्यः पुरुषा धर्मदीक्षाग्रहणार्थं जनदीक्षकमाययुः। तेन यीशुरपि धर्मदीक्षायै तमगच्छत्। तद्दर्शनेन जनदीक्षकस्तं ख्रीष्टयीशुं परमेशाभिषिक्तं धर्मरक्षकं वाभिज्ञाय परमानंदितो यथाविधि च धर्मे तं संदीक्ष्य तं समेकत्रितजननिवहञ्च तस्य यीशुख्रीष्टत्वं (परमेशाभिषिक्तधर्मरक्षकत्वं) बोधयामास। जनदीक्षककृतोद्बोधनेन यीशुरात्मनो धर्मरक्षकत्वं सम्यगजानात्, समागताः प्रजाश्च तस्य तथाविधत्वे विशश्वसुः।
वृत्तान्तेऽस्मिन् वस्तुगत्येतिवृत्तदृष्ट्या वा अलौकिकतायाः संदेह आपातत आपतति, परं सम्यग्विवारे कृते न स आभासते। महाकार्यसंपादका महापुरुषाः सहजमेव विशिष्टं सामर्थ्यमादाय धरायां समुत्पद्यन्तेवतरन्ति वा। तदेव विशिष्टकार्यसंपादनसामर्थ्यं परमेशांशत्वेन लक्ष्यते। तेनैव ते पुरुषाः परमेशांशसंभूताः कथ्यन्त, आत्मनः सामर्थ्यश्च ते पूर्वत एवानुभवन्ति। दूरदर्शिनः प्रणिधानपराः, पुरुषपरीक्षकाः पुरुषास्तथाविधं सामर्थ्यमापाततः पुरुषविशेषेषु विज्ञाय तान् महाकार्येषु प्रयुञ्जते प्रेरयन्ति चा। ख्रीष्टयीशुजन दीक्षकमहाशययोर्मध्येऽप्येवंविध एव वृत्तान्तोऽवर्तत।
जनदीक्षकमहाशयेन धर्मरक्षायै प्रेरितः ख्रीष्टयीशुः प्रबलप्रणिधानं तपश्चर्याञ्चापेक्षाञ्चक्रे। तेन स जार्डननदीतटस्थाज्जनसंमर्दात्पृथग्भूत्वा तपस्तप्तुं निर्जनं वनं विवेश। तत्रैकान्ते स चत्वारिंशदहोरात्राणि (४०) यावदुपवासव्रतपरः समाधिमाकलय्य परब्रह्मसाक्षात्कारमकरोत्। समाधिदशायामेव स करिष्यमाणधर्मरक्षायाः कार्यक्रमं, धर्मसंस्थापनायां विघ्नान् कष्टानि च पूर्वमपश्यत् तदर्थमपेक्षितं बलञ्च बलपुञ्जात् परमात्मनोऽविंदत।
व्रतावस्थायां व्रतविघ्नो मनोविकारोऽपि यथानियभं ख्रीष्टयीशोर्व्रतं भङ्क्तुं समये समये तस्य मनस्याविर्बभूव।
एष एव मनोविकारः कुमार्गप्रवर्तकपुरुपरूपकेण ख्रीष्टी
यानां बाइबिलधर्मपुस्तके क्षयतनु68 (शैतान) नाम्ना वर्णितोऽस्ति। परं संयमी स्त्रीष्टयीशुस्तेन युद्धं कृत्वा तमदाम्यत्। बाइबिलधर्मपुस्तके क्षयतनुपुरुषेण यीशोर्युद्धस्य विजयस्य च विस्तृतवर्णनमस्ति।
तपश्चर्यां समाप्य स्त्रीष्टयीशुर्वर्मप्रचारार्थं पवित्रनगरीं जेरुसलमं ययौ। स तत्र जीवुदयाप्रान्तस्यान्येषु बहुषु स्थानेषु च धर्ममुपदिशन्, समरियाप्रदेशमार्गेण गैलिलोप्रान्तं प्राप्तो, रोगनिवर्तनाद्यनेकचमत्कारान् प्रदर्शयन्, नज़ारथं निजग्राममागमत्। तत्रापि स सहवासिषु धर्मं प्रचारयन् तेषामनाचारान् धिक्कुर्वन्नात्मनः परमेशप्रेषितधर्मरक्षकत्वं तेभ्यः ख्यापयामास। परिचितपुरुषस्य धर्मोपदेशमश्रद्दधाना, निजकुकर्मनिंदनेन ग्लानिं गताः, स्त्रीष्टयीशोः परमेशाभिषिक्तधर्मरक्षकत्वं तिरस्कुर्वन्तः, कोपकषायिता, ग्रामीणास्तं निजावासग्रामाद्विवासयामासुः।
निष्कासितश्चख्रीष्टयीशुर्गैलिलीसागराख्यमहाह्रदस्य वायव्यतटस्थं, व्यापारप्रधानं, समृद्धं, कैपर्नमनाम69 नगरं गतो “ऽनुतापेनात्मानं शोधयध्वं यतस्तूर्णमेव स्वर्गीयराज्यं विराजिष्यत” इति विषयमधिकृत्य तत्रत्येषु
सर्वसाधारणजनेषु व्याख्यानमकरोत्। श्रोतॄणां मध्येजनदीक्षकस्य पूर्वशिष्य एैन्द्र70नामाप्यभूत्। स यीशुं प्राग्जनदीक्षकेन तस्य धर्मदीक्षाकाले ददर्श, निजदीक्षकं जनदीक्षकञ्च तं परमेशाभिषिक्तधर्मरक्षकं ब्रुवाणं शुश्राव। तेन स ख्रीष्टयीशुमभिज्ञाय तन्निकटमागतस्तस्थौ, निजभ्रात्रे श्रीमन् पितरनाम्ने71ऽपि तं दर्शयन् तस्य परमेशाभिषिक्तधर्मरक्षकत्वं जगाद। भ्रातराविमौ जात्या मत्स्यजीवौनौकाभिर्गैलिलीमहाह्रदे मत्स्यव्यापारञ्चक्रतुः।यीशुरपि प्राप्ततत्परिचयस्तयोर्नौकायां गतस्तदारूढस्तटे समागतं जनसङ्घं धर्मं बभाषे। ख्रीष्टयीशोराशिषा तौ धीवरौतस्मिन् दिने प्रचुरान् मत्स्यान् लेभाते। तेन तस्य चमत्कारेण विस्मितौ,तदुपदेशेनाकुष्टौ च तौ तयोः सहभागिनौ जन72जयमसौ73 च तस्य शिष्यत्वं जग्मुः। सर्वसाधारणजननिवहेषु धर्मसंस्थापनार्थमुद्युञ्जानो यीशुख्रीष्टः साधारणजनान् नीचजातींश्चतुरो धीवरानिमान् सर्वप्रथमं शिष्यत्वेन गृहीत्वा सर्वसाधारणजनानां गौरवं वर्धयामास। तस्य प्रथमशिष्या ऐन्द्रः श्रीमनपितरो जनोजयमसश्चेत्येते चत्वारो निम्नवर्गीया धीवरा एवाभूवन्।
इमाँश्चतुरः शिष्यानादायख्रीष्टयीशुप्रभुः कैपर्नमनामनगराद्धर्मप्रचारयात्रायै प्रस्थितः, पुराद्बही राजमार्गपार्श्वस्थे करप्राप्तिभवने निषण्ण मथिनामानं74 राजकरग्राहकं दृष्टिपातेनैव भक्तिभरितमानसं विज्ञायानुगन्तुमादिदेश। ख्रीष्टयीशोः शिष्यतां गतः समृद्धः करग्राहको मथिस्तस्य दर्शनार्थमुपदेशश्रवणार्थञ्च स्वमित्राण्यन्यान् करग्राहकान् भोजनाय न्यमन्त्रयत्। मथिगृहे समाहूतैः करग्राहकैः सह यीशुरपि भोजनमकरोत्। जीवूनां मध्ये कर्मकाण्डिनां संप्रदायविशेषः, फै़रिसीनामा75, पवित्रंमन्यो, भोजनमर्यादायामतिनियमपरः, करग्राहानन्याँश्चराजपुरुषाँस्तेषां विदेशीयरोमकसम्राजः करदभूपालानां, तेन नियुक्तानां शासकानां वा सेवकत्वात्,करग्रहणात्याचाराच्च, जघन्यवृत्तीन्, तिरस्कारार्हानस्पृश्याँश्च मन्यमानस्तैः सहाभ्यवहारार्थं ख्रीष्टयीशुप्रभुं तच्छिष्यमण्डल्यां निनिन्द। ख्रीष्टयीशुप्रभुःश्रुततद्वचनोऽवोचत्— “व्याधिता एव वैद्यमपेक्षन्ते न नीरुजः, करग्राद्दप्रभृतयः पुरुषाधमा एव पापाधिना संपीडिता मदुपदेशागदमर्हन्ति। न परमपावित्र्याभिमानिनो, वरवंशगर्विताः, कर्मकाण्डिनो यूयम्।
परमेशाय युष्मद्बलयो न रोचन्ते, करुणावरुणालयः परमपिता प्रजासु करुणामेव सर्वोपरि गृहीत्वा प्रसीदति।” गाथयानया ख्रीष्टयीशुप्रभोःपापिनां सहायत्वं परमकारुणिकत्वञ्च संसिध्यति।
ख्रीष्टयीशुप्रभुः समथीनिमान् पञ्च शिष्यान् धर्मसंस्थापनार्थमपर्याप्तान् गणयन् सप्तान्यान् शिष्यसङ्घे प्रावेशयत्। स तान् सर्वान् सहसैव शिष्यत्वेन न स्वीचकार, सुशिष्यप्राप्तिप्रार्थनया च परमेशाराधनायां जागरणपरः समग्रां निशं निनाय। द्वादशानामेषां—श्रीमानैंद्रश्च भ्रातरौ, जयमसजनश्च जयवदसुतौ76, फ़िलिपो77, बार्थोलोमो78, मथिः, तामस79, ऐलफ़सपुत्रो80 द्वितीयो जयमसो, ज़ैलटापराभिधो81 द्वितीयः श्रीमान्, जूदसनामानौ82 पुरुषौ ययोरिस्केरातजूदसो83 गुरुद्रोहमाचरन् स्त्रीष्टयीशुप्रभुं शत्रूणां हस्तेष्वपातयत्—शिष्याणां सङ्घं गृहीत्वा ख्रीष्टयीशुप्रभुर्धर्मतत्त्वं तन्वन् यत्र तत्र पर्याटत्। अद्यावधि स पूर्वकर्मणां प्रायश्चित्तमेव व्याचख्ये। अधुना स “स्वर्गीय-
राज्यस्य वासिनां सदाचार"मधिकृत्य संभाषितुमारेभे। अस्यैव विषयस्य स गैलिलीसागरतीरस्थं गिरिमधिष्ठितः सुदीर्घां व्याख्यामकरोत्। तस्येतद्वयाख्यानमद्रौ संभाषणाद् “अद्रौधर्मसंभाषण84” मित्याख्यया प्रसिद्धं, तस्योपदेशानां प्राणभूतं सर्वोत्कृष्टश्चास्ति। तेन तस्य प्रधानांशो बाइबिलधर्मपुस्तकादुद्धृत्याधो लिख्यते।
“मानवनिवहान् दृष्ट्वा स गिरिमारुरोह। तत्र तस्मिन्नुपविष्टेशिष्यास्तस्य समीपमागमन्। तदा स वक्त्रमद्धाट्य तेभ्यः शिक्षां दातुं प्रवृत्तोऽब्रवीत्।
दीनात्मानो धन्याः, यतः स्वर्गराज्यं तेषामेव। शोकार्ता धन्याः, यतस्ते सांत्वयिष्यन्ते। मृदुशीला धन्याः, यतस्ते दायांशवत् क्षितिं लप्स्यन्ते। धार्मिकतां बुभुक्षवः पिपासवश्च धन्याः, यतस्ते परितर्प्स्यन्ति। कृपावन्तो धन्याः, यतस्ते कृपामवाप्स्यन्ति। शुविह्रदो धन्याः,यतस्त ईश्वरं द्रक्ष्यन्ति। सन्धिकारिणो धन्याः, यतस्त ईश्वरस्य पुत्रा इत्यभिधायिष्यन्ते। धर्महेतुनोपद्रुता धन्याः, यतः स्वर्गराज्यं तेषामेव।"।
“यूयं पृथिव्या लवणं। लवणं तु यदि विस्वादं जायते तर्हि केनोपायेन तत् स्वादयुक्तं कारिष्यते ? ततः परं तत्
कस्मिँश्चित्कार्ये न युज्यते, केवलं बहिर्निक्षेपणे मानवपदैर्मर्द्दने च युज्यते। यूयं जगतो दीपाः। पर्वतोपरि स्थितं नगरं प्रच्छन्नमवस्थातुं न शक्रोति। मनुष्याश्च दीपिकां प्रज्वाल्य न द्रोणस्याधस्ताद् अपि तु दीपाधारस्योपरि स्थापयन्ति, सा च गृहेवस्थितानां सर्वेषां राजते। तथैव युष्माकं दीप्तिर्मनुष्याणां समक्षं विराजता, तथा कृते युष्माकं सत्क्रिया दृष्ट्वा ते युष्माकं स्वर्गस्थं पितरं स्तोष्यन्ति।
व्यवस्थाया भाववादिनां वा मोचनायाहमागत इति मानुमिमीध्वं। न मोचनाय, प्रत्युत पूरणायाहमागतः, यतोऽहं युष्मान् सत्यं ब्रवीमि, यावद् व्योममेदिन्योरत्ययो न भविष्यति तावद्व्यवस्थाया एका मात्रैको बिंदुर्वा नैवात्येष्यति सर्वमेवहि सेत्स्यति। अतो यः कश्चिदेतासां क्षोदिष्ठानामाज्ञानामेकां मुञ्चति मनुष्याँश्च तदनुरूपं शिक्षयति, स स्वर्गराज्ये क्षोदिष्ठोऽभिधायिष्यते। यस्तु ता आचरति शिक्षयति च स स्वर्गराज्ये महानभिधायिष्यते। यतोऽहं युष्मान् ब्रवीमि, युष्माकं धार्मिकता यदि शास्त्राध्यापकानां फरीशिताञ्च धार्मिकतातोऽधिकं प्रभूता न स्यात्, तर्हि यूयं स्वर्गराज्यं नैव प्रवेक्ष्यथ।
त्वं नरहत्यां मा कार्षीः, यस्तु नरहत्यां करोति स धर्माधिकरणे शासनीयो भविष्यतीति प्राचीनेभ्यः कथित-
मासीत् युष्माभिस्तच्छ्रुतम्। अहन्तु युष्मान् ब्रवीमि, यः कश्चिदकारणं स्वभ्रात्रे कुप्यति स धर्माधिकरणे शासनीयो भविष्यति। यश्चस्वभ्रातरं निर्बोधस्त्वमिति वदति स सभायां शासनीयो भविष्यति। यश्च वदति मूढस्त्वमिति, सोऽग्निमये नरके शासनीयो भविष्यति। अतस्त्वया स्वकीयोपहारे यज्ञवेदिमानीते तत्रभ्रातुर्मनसि त्वद्विरुद्धा कथा विद्यत इति तत्र चेत् स्मरसि, तर्हि तत्र स्वकीयोपहारं यज्ञवेद्याः सम्मुखे विहाय याहि, प्रथमं स्वभ्रात्रा सम्मिलितो भव, ततः परमागत्य स्वकीयोपहारं निवेदय। स्वप्रतिपक्षेण सह यावन्मार्गे वर्तसे, तावत्, तस्यानुकूलो भव, नो चेत्प्रतिपक्षेण विचारयितुर्हस्ते समर्पितस्त्वं विचारयित्रा पदातिकस्य हस्तेसमर्पितः कारायां निक्षेप्स्यसे। त्वामहं सत्यं वदामि, शेषोऽपि कपर्दको यावत् त्वया न शोधितस्तावत् तत्स्थानान्न निर्गमिष्यसे।
त्वं व्यभिचारं मा कार्षीरिति प्राचीनेभ्यः कथितमासीत्, युष्माभिस्तच्छ्रुतम्। अहन्तु युष्मान् ब्रवीमि यः कश्चित् कामुकभावेन योषितं प्रति दृक्पातं करोति, स तावता स्वहृदये तयासह व्यभिचारं कृतवान्। यदि तु तवदक्षिणं नेत्रं तव स्खलनकारणं भवेत्, तर्हि तदुत्पाट्य दूरं निक्षिप।यवस्तवैकस्याङ्गस्य नाशः, न तु कृत्स्नशरी
रस्य नरके निपातस्तद्धि तत्र हितम्। यदि वा तव दक्षिणो हस्तस्तव स्खलनकारणं भवेत्, तर्हि तं छित्त्वा दूरं निक्षिप। यतस्तवैकस्याङ्गस्य नाशः, न तु कृत्स्नशरीरस्य नरके निपातस्तद्धि तव हितम्।”
“पुनस्त्वं मृषा शपथं मा कार्षीः, स्वशपथफलन्तु प्रभवे दास्यसीति प्राचीनेभ्यः कथितं, युष्माभिस्तच्छ्रुतम्। अहन्तु युष्मान् ब्रवीमि, यूयं सर्वथा मा शपध्वं ; न स्वर्गेण, यतः स ईश्वरस्य सिंहासनं ; न मेदिन्या, यतः सा तस्य पादपीठं ; न यिरूशालेमेन, यतस्तन्महतो राज्ञो नगरम्। निजशिरसा वा मा शपस्व, यतः शिरोरुह एकोऽपि सिताकर्तुम् असितीकर्तुं वा त्वया न शक्यते। युष्माकन्तु संलपने यत् तथा तत् तथैव यन्न तन्नैव भवतु; यदेतदधिकं तत् पापात्मतो जातम्।
चक्षुषो विनिमये चतुर्दन्तस्य विनिमये च दन्त इति कथितमासीत् युष्माभिस्तच्छ्रुतम्। अहन्तु युष्मान् ब्रवीमि, दुर्जनस्य प्रतिरोधो न कर्तव्यः, अपि तु यः कश्चित् तव दक्षिणकपोले चपेटाघातं करोति, तं प्रत्यन्यतरं कपोलमपि व्याघोटय। यश्च धर्माधिकरणेत्वया विवदमानस्तवाङ्गाच्छादकं जिहीर्षति, तस्य कृते प्रावारमपि त्यज। यश्च विना वतनं क्रोशमेकं गमनाय त्वां हरति, गच्छ तेन
क्रोशद्वयं। यश्च त्वत्तो याचते तस्मै देहि। यश्च त्वत्त ऋणमभिवाञ्छति तं प्रति विमुखो मा भव।
त्वं स्वनिकटस्थं प्रति प्रेम, स्वशत्रुंप्रति तु द्वेषं करिष्यसीति कथितमासीत् युष्माभिस्तच्छ्रुतम्।अहन्तु युष्मान् ब्रवीमि, यूयं स्वशत्रून् प्रति प्रेम कुरुत, ये युष्मान् शपन्ति तानाशिषं वदत, ये युष्मान् द्विषन्ति तेषां हितमाचरत, ये युष्मान् अपवदन्त्युपद्रवन्ति च तेषां कृते प्रार्थनां कुरुत। तथा कृते युष्माकं यः स्वर्गस्थः पिता दुर्जनानां सुजनानाश्चोपरि स्वसूर्यमुदाययति धार्मिकाणामधार्मिकाणाञ्चोपरि तोयं वर्षयति च, तस्य पुत्रा भविष्यथ। यतो यदि केवलं युष्मत्प्रेमकारिणः प्रति प्रेम कुरुथ तर्हि किं पारितोषिकं लप्स्यध्वे ?”
“यूयं स्वधर्मानुष्ठाने सावधाना भवत, जनावलोकनार्थाय तन्मानवानां समक्षं माकार्ष्ट। अन्यथा युष्माकं स्वर्गस्थपितृतो लभ्यं किमपि पारितोषिकं युष्माकं न भविष्यति। अतस्त्वं यदा भिक्षां ददासि तदा मनुष्येभ्यः प्रशंसालिप्सुकामेन समाजगृहेषु रथ्यासु च कपटिनो यथा कुर्वन्ति तथा आत्मनोऽग्रे तूर्यध्वनिं मा कुरु। अहं युष्मान् सत्यं वदामि ते स्वपारितोषिकं लब्धवन्तः। त्वयि तु भिक्षां ददति तव दक्षिणहस्तेन यत् क्रियते तत् तत्र वामहस्तेन मा ज्ञायताम्। तथानुष्ठिते तव भिक्षादानं निभृतं
भविष्यति, तत्र निभृतदर्शी पिता तु तत्फलं तुभ्यं प्रकाशं दास्यति।
यदा पुनः प्रार्थनां करोषि, तदा कपटिनां सदृशो मा भव, यतस्ते मनुष्याणां गोचरीभवितुकामाः समाजगृहेषु चत्वरास्रेषु च तिष्ठन्तः प्रार्थयितुमनुरक्ताः। युष्मानहं सत्यं ब्रवीमि, ते स्वपारितोषिकं लब्धवन्तः। त्वन्तु यदा प्रार्थयसे तदा स्वान्तरागारं प्रविश्य द्वारश्च रुद्ध्वा निभृतमुपस्थितं तव पितरमुद्दिश्य प्रार्थनां कुरु, निभृतदर्शी तव पिता तु तत्फलं तुभ्यं प्रकाशं दास्यति।”
“यदा चोपवासं कुरुथ, तदा कपटिन इव विषण्णवदना मा भवत, यतस्ते मनुष्याणाम् उपवासिनः प्रत्यक्षीभवितुकामाः स्ववदनानि मलिनीकुर्वते। युष्मानहं सत्यं ब्रवीमि ते स्वपारितोषिकं लब्धवन्तः। त्वन्तूपवासकाले स्वशिरसि तैलं सिञ्च स्ववदनं प्रक्षालय च। तथा कृते न मनुष्याणाम् अपि तु निभृतमास्थितस्य तव पितुस्त्वमुपोषितः प्रत्यक्षीभविष्यसि। निभृतदर्शी तव पिता च तत्फलं तुभ्यं प्रकाशं दास्यति।
यूयमात्मकृतेऽत्र मेदिन्यां धनानि मा सञ्चिनुत, यस्मादत्र कीटकलङ्कौ क्षयं नयतः, चौराश्चकुड्यंछित्त्वा मुष्णन्ति। स्वर्गे त्वात्मकृते धनानि सञ्चिनुत, तत्र कीटः कलङ्को वा क्षयं न नयति, चौराश्चनापि कुड्यं छिन्दन्ति
न वा मुष्णन्ति। यतो युष्माकं यत्र वित्तं तत्र युष्माकं चित्तमपि स्थास्यति। नयनं देहस्य दीपकम्,अतस्तव नयनं चेत् सरलं तर्हि तत्र कृत्स्नो देहो दीप्तिमयो भविष्यति। तव नयनं तु चेद् दुष्टं तर्हि तव कृत्स्नो देहस्तिमिरमयो भविष्यति। अतस्तवान्तर्ज्योतिश्चेत् तिमिरं भवेत्, तर्हि तत् तिमिरं कियन्महत्। द्वयोः स्वामिनोर्दास्यं कर्तुं केनापि न शक्यं, यतः स एकतरं द्विषन्नन्यतरस्मिन् प्रेष्यते, न चेदेकतरस्मिन्नासज्जमानोऽन्यतरमवमंस्यते। ईश्वरस्य धनस्य चोभयोर्दास्यं कर्तुं युष्माभिर्न शक्यते।
अतोऽहं युष्मान् ब्रवीमि, किं भक्षिष्यामः किं वा पास्याम इति विचिन्त्य स्वप्राणानधि, किं वसिष्यामह इति विचिन्त्य स्वदेहमधि वा माकुलीभवत। किं हि प्राणा न भक्ष्याच्छ्रेष्ठाः ? वसनाद् वा नापि देहः श्रेष्ठः ?विहायसो विहङ्गमान् निरीक्षध्वं, तैर्नोप्यते नापि कृत्यते न चापि कुशूलेषु सञ्चीयते, युष्माकं स्वर्गस्थः पिता च तान् पुष्णाति। किं यूयं तेभ्यो नाधिकं विशिष्यध्वे ? चिन्तयित्वा वा युष्माकं केन स्ववयो हस्तमेकं वर्द्धयितुं शक्यते ? कस्माद् वा वस्त्राण्यधि चिन्ताकुलीभवथ ? शूशनाख्यानि क्षेत्रपुष्पाणि पर्यालोचयत, कथं तानि वर्द्धन्ते?न तानि श्रमं कुर्वते नापि सूत्राणि तन्वन्ति।
युष्मान् त्वहं ब्रवीमि, शलोमापि85 स्वकृत्स्नप्रतापे तेषामेकमिव न पर्यधीयत। यदि त्वद्य वर्तमानं श्वश्चुल्ल्यां निक्षेप्तव्यं क्षेत्रस्थं तृणमीदृशमीश्वरः परिधापयति, तर्हि भोः स्तोकविश्वासिनः, स किं युष्मान् नाधिकप्रचुरं परिधापयिष्यति ? अतः किं भक्षिष्यामः किं वा पास्यामः किं वापि वसिष्यामह इति विचिन्त्य माकुलीभवत, यतः परजातीयजना86 हि सर्वाण्येतान्यनुसन्दधते। वास्तवं यदिमानि सर्वाणि युष्माकमावश्यकानि तद् युष्माकं स्वर्गस्थः पिता जानीते। प्रथमतस्त्वीश्वरस्य राज्यं धार्मिकताञ्चान्विच्छत, तथा कृतेसर्वाणीमान्यपि युष्मभ्यं प्रदायिष्यन्ते। अतः श्वः कृते चिन्ताकुला मा भवत, यतश्श्वस्तनं दिनमात्मनो विषयं चिन्तयिष्यति। दिनस्य निजकष्टं तस्य कृते पर्याप्तम्।
मा विचारं कुरुत, तेनैव युष्माकं विचारो न कारिष्यते। यतो यूयं यद्विचारेण परस्य दोषान् निर्णयथ, तद्विचारेणैव युष्माकं दोषा निर्णायिष्यन्ते। येन परिमाणेन च मिमीध्वे, तेनैव युष्मदर्थमपि मायिष्यते। कुतश्च त्वं स्वभ्रातुश्चक्षुःस्थं शुककणं निरीक्षसे, तव चक्षुःस्थन्तु गेहकाष्ठं नावधारयसि ? तत्र चक्षुषः शुककणस्य मयोद्धरणमनुमन्य-
स्वेति वा स्वभ्रातरं कथं गदिष्यसि ? तव चक्षुषि तु गेहकाष्ठमवतिष्ठते। कपटिन् प्रथमं स्वचक्षुषस्तद् गेहकाष्टमुद्धर, ततः स्वभ्रातुश्चक्षुषः शुककणस्योद्धरणार्थं स्पष्टं द्रक्ष्यसि। युष्माकं पवित्रं द्रव्यं सारमेयेभ्यो मा दत्त। मापि स्वमुत्ताः शूकरेभ्यो निक्षिपत, यतस्तेन ते चरणैस्ता मर्द्दिष्यन्ति परावृत्य च युष्मान् विदारयिष्यन्ति।
याचध्वं, तेन युष्मभ्यं दायिष्यते। अन्विच्छत, तेनासादयिष्यथ। द्वारमाहत तेन युष्मभ्यम् उद्धाटयिष्यते। यतो यः कश्चिद् याचते स लभते, यश्चान्विच्छति सा आसादयति, यश्च द्वारमादृन्ति तदर्थमुद्धाट्यते। युष्मत्सु तादृशः को वा मानवो विद्यते यः स्वपुत्रेण पूपं याचितस्तस्मै प्रस्तरं दास्यति, मीनं वा याचितः सर्पं दास्यति ? तद् दुर्जना अपि यूयं चेत् स्वसन्तानेभ्यो हितदानानि वितरितुं जानीथ, तर्हि किमधिकं युष्माकं स्वर्गस्थःपिता स्वयाचकेभ्यो हितानि वितरिष्यति। तत् सर्वस्मिन् विषये युष्मान् प्रति मनुष्यैर्यादृशमाचरितुंयूयमभिवाञ्छथ, यूयमपि तान् प्रति तादृशमेवाचरत। यद् एतदेव व्यवस्थाया भाववादिग्रन्थस्य च तत्त्वम्।”
अद्रौ यीशुप्रभोः धर्मसंभाषणसमाप्तौ श्रोतारस्तेन बलवत्प्रभाविताश्चित्रार्पिता इव विस्मितास्तस्थुः। सत्यबलेन तस्य मुखाद्बहिर्गताः शब्दाः श्रोतृणामात्मस्वेव
विश्रमं प्रापुः, यतः ख्रीष्टयीशोराचरणमपि निजवचनानुकूलमेव। स मनसि वचसि कर्मणि च एक एवासीत्। तस्य वाचि न केवलं सत्यस्य बलमासीदपि तु देवदुर्लभो मधुरिमा प्रेम चावरीवर्त्।
ख्रीष्टीयधर्मगाथका अन्यसर्वधर्मसंस्थापकानामिवख्रीष्टयीशुप्रभोरपि स्पर्शेन कुष्ठनिवारणमन्धेभ्यो दृष्टिदानं, मृतानां पुनरुज्जीवनं, पिशाचग्रस्तानां पिशाचापनोदनमित्यादीन् बहूँश्चमत्कारान् वर्णयन्ति। धर्मपुस्तकानां श्रीवर्धकानान्तेषां विस्तरेणोल्लेख इतिवृत्तदृष्ट्या निबद्धे निबंधेऽस्मिन् न तथा समुचितः शोभावहश्च, तेन तस्माद्विरम्यते।
चिराभ्यासेन मनुष्यो रूढीनामुपासकः संजायत इत्युक्तं प्रबंधमुखे। जीवुकर्मकाण्डिनां मध्येऽपि रूढीनां राज्यं विराजतेस्म। ते प्रयोजनमनुद्दिश्यैवान्धविश्वासेन रूढीननुययुः। उदाहरणार्थं—तेषु प्रत्येकसप्ताहे सप्तमः शनिवासरोविश्रमाय परमेशस्तवनाय च पवित्रत्वेन नियत आसीत्, तस्मिन्सर्वाणि सांसारिककार्याणि निषिद्धानि। परंतु रूढीनां दासतामुपगता जीववः शनिवासरे रोगिणां चिकित्सादीनि परोपकारकार्याण्यपि न्यषेधन्। शनिवासरे यदि कश्चिन्मनुष्य आर्द्रमृदा लिप्तगृहे काष्ठासन्दीसञ्चालनेन तस्याश्चतुर्भिः पादैर्भूमिमलिखज्जीववस्तस्योपरि पवित्रवि-
श्रमदिनेऽपि भूमिकर्षणपापमारोपयन्। ते मृद्वारिणा बाह्यशुद्धिमाचरतः पापपङ्कमलिनमनसोमहापातकिनोऽपि शुचीन् विविदुः, बाह्यशुद्ध्याडंबररद्दितान् पवित्रात्मनोऽप्यशुचीन् मेनिरे। येन केनाप्यधर्मेण प्राप्तभोजनं भुञ्जाना हस्तपादप्रक्षालनपराः पुरुषा धार्मिका अगण्यन्त, परं भोजनात्पूर्वं हस्तप्रक्षालने काञ्चिदप्यूनतां गताः शुद्धवृत्तयोऽपि धर्मनियमोल्लङ्घनेनादूष्यन्त।
एवं मूलोद्देश्यं विहायान्धविश्वासेन परंपरागताः प्रथा अनुसरतां धार्मिकंमन्यानां प्रमादान् प्रदर्शयन्, सनातनसंप्रदायानाञ्च वास्तविकतत्वमुद्घाटयन्, दयाधर्मस्य सर्वोत्कृष्टत्वंस्थापयँश्च, ख्रीष्टयीशुप्रभुः बाह्याडंबरप्रियाणां, धर्मध्वजिनां, बकवृत्तीनां, कर्मठबुवाणां जीवूनां कोपभाजनं द्वेष्यश्चबभूव। ते सनातनमर्यादाभङ्गाय तं वध्यं व्यवस्थापयामासुः। सर्वो देशस्तस्य विरोधेन व्यक्षुभ्यत। गैलिलीप्रान्तप्रभुर्हेरोडैन्तिपसनामापि87 शत्रुभिरुत्तेजितः ख्रीष्टयीशो रुधिरमपिपासत। एष एव हेरोडैन्तिपसो दुष्टया स्त्रियोपजापितो धर्मोपदेष्टारं जनदीक्षकमहाशयं कारायां बद्ध्वावधीत्। ख्रीष्टयीशुप्रभुरपि धर्मरक्षायामात्मनो बलिदानं पूर्वत एवोत्पश्यन् तदर्थं बलधाम्नः परमात्मनो धैर्यवलं
लब्धुं गैलिलीसागरतीरस्थमेकान्तं वनान्तं विवेश, परमुपदेशार्थी जनसमूहस्तत्रापि तमनुययौ। तेन तत्स्थलं परित्यज्य स फ़िनीशियानामकं88 विदेशं सशिष्यो ययौ।
तत्र धर्मं प्रचारयन्, शिष्यसङ्घञ्च विविधैरुपदेशेर्धर्मसंस्थापनेऽपेक्षितासु सहिष्णुतादृढताविनम्रतासु द्रढयन्, देशदेशान्तरेषु सदाचारं संस्थापयन्, निर्यातनदिनमहापर्वावसरे जेरुसलममहानगरीमगच्छत्। निर्यातनमहापर्वणि जेरुसलममहातार्थस्य यात्रिणः सहस्रशो जना मध्येमार्गादेव ख्रीष्टयीशुप्रभोरनुयायिनो भूत्वा सङ्घेन तेन सह जेरुसलमं प्राप्य तस्य जयघोपादिस्वागतसमारोहेण नगरं तुमुलयाञ्चकुः। ख्रीष्टयीशोरुपदेशैः पूर्वमेवोद्वेजिताः कर्मठास्तस्य तादृशीं प्रतिष्ठां न विषेहिरे। अधुना जीवुधर्मग्रन्थपाठकाः89 जेरुसलममहामंदिरपुरोहिताश्च यीशोर्विरोधे तेषां सहायत्वं गताः। धर्मग्रन्थपाठका धर्मवाक्यानां तस्याभिनवया व्याख्यया चुकुपुः, पुरोहिताः प्रार्थनायायुद्दिष्टं महामंदिरस्य प्राङ्गणं बलिपशुविक्रेतुभ्यो मुद्राविनिमातृभ्यश्चभाटकमादाय तत्तत्कार्यार्थं प्रार्थनासमये दत्तवन्तः परमेशप्रार्थनां बबाधिरे, यीशुग्व्रीष्टश्च तैः स्थापितान् विक्रेतृृन् तस्मात्पवित्रस्थानादपाकृत्य तेषां रोषभाजनं बभूव।
परस्परं विवदमाना अपि ते सर्वे यीशुप्रभोर्वधार्थंसम्मिलिता बभूवुः।
यदा ते तस्य भाषणेषुच्छिद्रान्वेषणबुद्ध्या स्थले स्थले तद्वाचमवरुन्द्यन्तोऽपि दोषं न प्रापुस्तदोपायान्तरमलब्ध्वा तस्य शिष्यं जूडासइस्केरियातनामानं90 धनलोभेन गुरुद्रोहिणं विदधुः। गृध्नुरिस्केरियटस्त्रिंशन्मुद्रामात्रेण विलुब्धः ख्रीष्टयीशुंरजनीमुखे वैरिणां वशगमकरोत्। पुरोहितादयस्तद्विद्वेषिणस्तं विविधापराधारोपणपुरःसरैजीवूनां महाधिकरणेऽस्थापयन्। महाधिकरणस्याध्यक्षः पुरोहितानां नायकः कयाफ़सनामाभूत्91। स नियमविरुद्धं रात्र्यामेव महाधिकरणमाह्वयत्। विविधदोषानारोपयन् विपरीतसाक्षिणः श्रुत्वाऽगतिकः स तावद्गृहीतमौनं ख्रीष्टयीशुप्रभुं “परमेशप्रेषितोऽभिषिक्तो धर्मरक्षकोऽसी?“ति पप्रच्छ। ख्रीष्टयीशुप्रभौ “वाढ"मित्युक्तवति धर्माध्यक्षः कोपावेशास्त्राणि विपाटयन् जगर्ज—“परमेशप्रतिकूलवादी सः। तेन साक्षात्स्वयमेव परमेशप्रतिकूलमुक्तेकिमस्माकं साक्षिभिः। प्रत्यक्षं परमेशप्रातिकूल्यपातकद्रष्टृृणावः काधुना धर्मव्यवस्था”। सर्वे महाधिकरणिका “वध्योऽसा"वित्येकस्वरेण जगदुः।
परं रोमकराज्ये जीवुदयाप्रान्ते रोमकशासितुराज्ञामन्तरा न कोऽप्यबध्यत। रोमकशासकः पिलेटाभिधो52 रोमकाणां विरोधं विना ख्रीष्टयीशुंन हनिष्यतीति महाधिकरणिका रोमकराज्यविद्रोहस्य मिथ्यारोपं कल्पयित्वा वधाज्ञाप्राप्त्यै ख्रीष्टयीशुंरोमकशासकस्यान्तिकं निन्युः। रोमकशासितान्तरात्मना यीशौदयापरोऽपि जीवुभिर्बाध्यमानो यीशुवधं विदधे।
रोमकसैनिकास्तस्यैव हस्ताभ्यां दारुमयीं दुर्भरां शूलां वाहयन्तो, निष्ठीवनादिनानानिकारैस्तं वधस्थलं नीतवन्तः, शूलायामारोप्यारुन्तुदयातनापूर्वकं निरपराधस्य तस्य प्राणानपाहरन्। ख्रीष्टयीशुप्रभुः प्रथमं किञ्चिद्विचलितधैर्योऽपि पश्चात् “ते बलीयसीच्छा पूर्तिमीया” दिति व्याहरन् परमपितुराज्ञां शिरसा वहन् परमधैर्येण वैक्रमसप्तपञ्चाशत्तमेऽब्दे (५७ वै०) ग्रीष्मर्तौ शुक्रवासरे त्रित्रिंशद्वर्षवयसि (३३) विनश्वरीं तनुं तत्याज। तेन प्रत्येकग्रीष्मर्तौ ख्रीष्टयीशुस्वर्गारोहणशुक्रवासरे ख्रीष्टीयानां शुमशुक्रवासर (Good Friday) नाम पर्व भवति। धर्माथ तस्य शूलायामारोपणात्तदनुयायिनः ख्रीष्टीयधर्मावलं-
बिनोऽधुनापि शूलाचिन्हं स्ववस्त्रेषु निजधर्ममंदिरेषु च धारयन्ति।
ततः ख्रीष्टीयानां विश्वासानुसारं भूमिस्थः ख्रीष्टयीशुप्रभुस्तृतीये दिने पुनरुज्जीवित, उत्थितश्च, शिष्येभ्यो दत्तदर्शनो, वियति विलीनः, परमपितुर्दक्षिणपार्श्वे सिंहासने न्यषीदत्, महाप्रलयात् पूर्वञ्च पुनर्धरायामवतरिष्यति, स्वर्गप्राप्नौ च स्वानुयायिनां सहायो भविष्यति।
ख्रीष्टयीशुप्रभोश्चरितस्य तदीयोपदेशानाञ्च समीक्षणेनेदमेव सिद्ध्यति यत्स दयाया, विनयस्य, सहिष्णुतातायाश्चमूर्तिरासीत्। स धर्मरक्षणार्थमेव जन्म लेभे, धर्मार्थमेव प्राणान् दधार, धर्मार्थमेव च स्वतनुमपि बलिमकरोत्। तस्य धर्मवेद्यां बलिदानेन तच्छिष्यासां धर्मप्रचारप्रयत्नेन चाधुना तदनुयायिनः संख्यया, विभूत्या, कीर्त्या च सर्वानितरधर्मिणोऽतिशेरते। ख्रीष्टीयधर्मप्रचारकाणामदम्योत्साहेन सततोद्योगेन च ख्रीष्टीयधर्मः समग्रं गौराङ्गमहाद्वीपं (योरपखण्डं48), पातालम् (अमेरिकामहाद्वीपम्92), एशिया93फ्ऱीकाखण्डयोः94 प्रचुरभूभागञ्चाभिव्याप। ख्रीष्टधर्मीयांगलानां प्रतापभानुरद्य वसुधायां
सर्वत्र प्रकाशते, तेषां साम्राज्ये च भास्करो न कदाप्यस्तमेति, यं येभूभागमुष्णदीधितेर्गभस्तयो गच्छन्ति तत्र तत्रांगलानां यः कोऽपि राज्यखण्डो नियतमेव विराजते।
इति यीशुचरितम्
<MISSING_FIG href=”../books_images/U-IMG-1733240358कककर.jpg”/>
<MISSING_FIG href=”../books_images/U-IMG-1733240493ppppp.jpg”/>
<MISSING_FIG href=”../books_images/U-IMG-1733240519uuuu.jpg”/>
मोहमंदाननेकेश-
वादग्रस्तान् स्वसाहसैः।
उददीधरदेकेश-
वादी मोहमदोऽस्ति सः॥
भारतीयमहासागरे निःसृतानामेशियामहाद्वीपस्य त्रयाणां प्रायद्वीपानां दक्षिणमरवेत्याख्यायते। अरबदेशस्य भूमिः प्रायशो जलाशयशून्या, तरुविवर्जिता, शस्यविरहिता, बालुकामयी, प्रस्तरमिश्रिता, मरुस्थली वर्तते, दृष्टिपातं यावच्च मृगतृष्णिकां नेत्रातिथिं करोति। यत्र तत्रैव कुत्रचित्खर्जूराणां कुञ्जानि कण्टकितझाटकानि च दृश्यन्ते। सर्वतश्शरीरशोषिका वात्या बालुकयाक्षीण्यन्धयन्ति।
अरबवास्तव्या अरबीभाषां भाषमाणा मोहम्मदमहोदयेन प्रवर्तितं मोहम्मदीयं धर्ममनुयान्ति। तस्मिन्देशे मोहम्मदमहोदयस्य प्रादुर्भावात्प्राक्वैक्रमसप्तमशताब्द्याः पूर्व तरानिवासिनोऽज्ञानान्धकारनिमग्ना बर्बराआसन्। तेऽजापालनेन वृत्तिं कलयन्तोगोचरगवेषणायै निजावासशिविररूपं गृहमुष्ट्रेष्वारोप्ययत्र तत्राभ्रमिषुः। गृहाणां स्कन्धेषु वहनेनैव ते पारसीभाषायां “खानाबदोषे“ति “स्कन्धोढगृहे“ति वा संज्ञां प्रापुः। ललितकलानभिज्ञानां, सुखसामग्रीविरहितानामसभ्यान्तेपामजानामुष्ट्राणाञ्च समूह एव सर्वस्वम्। उष्ट्राएव तेभ्यस्सर्वविधास्संविधास्समर्पयामासुः तेनैव त उष्ट्रंमरुस्थलीपोतंसंज्ञापयामासुः। कस्यचित्सार्वभौमनृपस्य शासनाद्विरहितास्तेषां प्रत्येकं परिवाराः पृथक् पृथक् प्रमुखपुरुषस्य शासने वर्तमाना, देशव्यापकधर्मव्यवस्थाया अभावात्सततं परस्परं कलहरता विग्रहपराश्च बभूवुः। धनधान्यभूसंपत्यभावेऽपि घोराज्ञानेन ते तुच्छातितुच्छविषयेष्वकलहायन्त। कुत्रचिद्गोचरभूमिमधिकृत्य, कुत्रचिच्चाश्वधावनेप्रथमाश्वचालनं विषयीकृत्य, कुत्रचिच्च जलाशयतटे पशूनां जलपानमादाय, ते प्रतिदिनं तथा युयुधिरे यथा वंशानुवंशं सपानां शतं यावत्तेषां संगराग्निः शान्तिं नियाय। दुराग्रहग्रहग्रहिलास्ते सकृदारब्धकलहाः कदापि शमं न भेजुः। वैरशोधनं ते धर्मवत्स्वकर्तव्यत्वेन
मेनिरे। कस्यचित्संबन्धिनो वधस्य वैरशोधनं स्वकर्तव्यं मत्वानेकानि कुलानि व्यतीत्यापि परिपन्थिनः कुलजा वैरिवंशजं जघ्नुः। एवं वैरनिर्यातनं परःशतानि वर्षाणि प्रासरत्।
ते तदवधि सभ्योन्नतदेशेभ्यस्सत्यविद्याया विज्ञानस्य चालोकं नाप्तवन्तः। ते तदा सर्वसंसारस्य परमपितुस्सर्वव्यापकस्यैकेश्वरम्य कल्पनामपि नाज्ञासिषुः। परमपितुः पूजायाः स्थाने मिथ्याविश्वासारूढास्ते नानाकपोलकल्पितभूतप्रेतपिशाचदेवीदेवतादीनां प्रतिमाः पूजयामासुः। दार्शनिकभारतीयानां मूर्तावीश्वरपूजायाश्चित्तैकाग्र्याय प्रतीकोपासनाया वा तेषां मूर्तिपूजा सर्वथा दुरापास्तासीत्। तेेमूतोरेवेष्टदेवता मत्वाराधयामासुः। तेषु प्रत्येककुलस्य पृथक देवता पृथक् नाम्ना पूज्यते स्म। एवं तेषु परःसहस्राणां देवतानां पूजनं प्रचलितमभूत्।
आसीच्च तेषां सर्वप्रधानं मूर्तिमंदिरं मक्कानाम्ना मक्कानगरे प्रतिष्ठितम्। परःशताभिर्मूर्तिभिः परिपूर्ण मक्कामंदिरमरबवासिनां सर्वश्रेष्ठं तीर्थं पर्यगण्यत। मध्ये वर्षं सततं विग्रहपरा अप्यरबवास्तव्याः कतिचिद्विशिष्टमासान् मक्कातीर्थयात्रायै पवित्रत्वेन पृथग्धृत्वा तेषु विरतयुद्ध- व्यापारा अजायन्त। एषु पवित्रमासेषु सर्वतस्तीर्थयात्रिणोमक्कानगरमागत्य, मक्कामंदिरं परिक्रम्य, तत्रस्थाः प्रतिमा
आनर्चुः। तत्र च ज़मज़मनामजलाशये स्नाताः पशुबलिमर्पयामासुः।
मोहम्मदमहोदयस्य पूर्वजा मक्कामंदिरस्य पुरोहिता रक्षकाश्चासन्। तदानीमरबीयबर्बरेषु दुहितृवधो द्यूतं, मदिरापानं, लाम्पट्यं, भगिनीपरिणयस्सर्वविधमांसभक्षणमित्येवंप्रभृतीनि परःशतानि महापातकानि प्राचलन्। तेषामिमां दुर्दशां पतितावस्थाञ्च पर्यालोच्य पतितपावनस्य परमपितुर्दया द्रवतामगच्छत् ; स चाधमोद्धारकस्तेषामुद्धरणाय तद्देशे मोहम्मदमहोदयं देवदूतत्वेनप्रेपयामास।
“मोहम्मदीये“ति “इस्लामे“ति वा धर्मस्य संस्थापको मोहम्मदमहोदयः षड्विंशत्युत्तरपड्शततमवैक्रमाब्दस्य (
६२६ वै०) ग्रीष्मर्तौमक्कानगरे क़ुरेशनामकं प्रसिद्धवीरवंशं स्वजन्मना पावयामास। मोहम्मदमहोदयस्य पूर्वपुरुषोहाशमो मक्कानगरस्य महोपकारमकार्षीत्। प्रस्तरमय्यामूषरभूम्यां स्थितं मक्कानगरं पुराकाले भोजनच्छादनसंविधाभावेन प्रायः पर्यपीड्यत। तदापन्निवारणार्थं हाशमः षष्ठशताब्द्यन्तिमे भागे वार्षिकौ सार्थौ स्थापयामास। तयोरेकश्शिशिरकाले दक्षिणारबस्य यमनप्रान्तं गत्वापरश्च ग्रीष्मकाले सीरियादेशं प्राप्य मक्कां प्रचुरधान्यं विविधभाण्डञ्चानिनाय। अनेन मक्कानगरं व्यापारस्य केन्द्रत्वं,सार्थेन व्यापारपरः कुरेशवंशश्च समृद्धिमभजताम्। तदा
हाशमोऽरबीयानां महातीर्थस्य मक्कामंदिरस्य संरक्षकपदे प्रत्यतिष्ठत्। मक्कामंदिरस्य संरक्षकपदे संभ्रान्ताः कुलीनाः पुरुषा एव न्ययुज्यन्त। वस्तुतस्तु मक्कामंदिरस्य संरक्षकस्तस्मिन्नगरे महाप्रतिष्ठया प्रचुराधिकारेण च समन्वितस्तस्य पवित्रनगरस्याधिपत्यं दधार। हाशम उपरते तत्पुत्रोऽब्दुलमतलबस्तदुत्तराधिकारी सर्वादरास्पदं पेदे। पितुस्सर्वगुणसंपन्नोऽब्दुलमतलबः कतिचित्सुतान्सुताश्च लेभे। तेषु कनीयानब्दुल्लाहः पितृवात्सल्यभाजनं, रूपराशिसंपन्नः, कामिनीनां प्रीतिपात्रमासीत्। स स्वान्वयसम्भूनामामनां परिणिनाय। सर्वसुन्दरेऽब्दुल्लाह आमनां विवाहबंधने स्वीकुर्वाणे, द्विशतंक़ुरेशकुमार्य ईर्ष्याकपायितास्तस्यां रात्रौ प्राणात् विससृजुरित्यरबीयेषु दन्तकथा प्रचलति। एवं शोकसमन्वितस्यैतस्य परिणयस्य मोहम्मदमहोदय एव प्रथममेकफलं समुदपद्यत। मोहम्मदाविर्भाव काले मुसल्मानगाथकाः नाना अलौकिकाः घटना वर्णयन्ति। तद्विधाश्चमत्कारास्सर्वेषां धर्मसंस्थापकानां जन्मकाले तदनुयायिभिर्वणितास्सन्ति। विस्तरभयेनात्र ताँस्त्यजामः। ज्योतिर्विन्मोहम्मदमहोदयस्य मातुलस्तस्य जन्मकुण्डलीमालिख्य तं भाविनं साम्राज्यसंस्थापकं नवधर्मप्रवर्तकञ्च समादिशत्। सप्तमे दिवसे तस्य पितामहोऽब्दु लमतलबस्स्वजातीयान् भोजं दत्त्वा नवशिशुं मोहम्मद-
(सर्वैः प्रशंसितमिति) नामानञ्चक्रे, तञ्च स्ववंशीयानामग्रे स्ववंशस्योदीयमानं महाज्योतिरुक्त्वा स्थापयामास।
मोहम्मदे द्विमासावस्थामतिक्रान्ते, तत्पिताब्दुलाहस्तस्मै पञ्चोष्ट्रान् कतिचिदवीः, कृष्णकायांबरकतनाम्नीं दासीञ्च रिक्थं त्यक्त्वा पञ्चत्वमवाप। पत्युर्मृत्योश्शोकसंतापेन मोहम्मदमातुरामनायास्स्तनयास्स्तन्यस्रोतोऽशुप्यत्। मक्काप्रदेशस्य सलिलानिलौ शिशूनां स्वास्थ्याय हितकरौ न स्तः। तेन च सा मोहम्मदं पोषयितुमसमर्था तत्पोषणायारबीयवर्बरसुंदरीणां मध्ये धात्रीं मार्गयामास। वर्बरधात्र्यो वर्षे द्विवारं वसन्तशिशिरयोः पोषणार्थं शिशून् गवेषयितुं मक्कानगरमागच्छन्त्यः, प्रचुरधनलाभाशया च समृद्धानामेव शिशून् पोषणार्थं गृह्णन्त्यो दीनशिशुं मोहम्मदं परिपालयितुं न्यषेधन्। परन्तासु सादकुलजाजापालस्य भार्या हलीमानाम्नी दयार्द्रहृदया असहायानाथशिशुंपोषणार्थं स्वगृहमनयत्। तस्या गृहं पर्वतोपत्यकासु गोचरेऽतिष्ठत्। तत्रैव शिशुर्मोहम्मदो हलीमाधात्र्या संवर्धितस्स्वमातुस्सकाशं मक्कानगरमानिन्ये। षड्वर्षावस्थां यावच्च शिशुं मोहम्मदं मक्कानगरे परिपाल्य तस्य माता, तं स्वसंबन्धिनां निवासं मदीनानगरं नयन्ती, मध्येमार्गं तनुमत्यजत्, मक्कामदीनानगरयोर्मध्येऽयवास्था-
ने च समाधिस्थाक्रियत। मोहम्मदमहोदयः प्राणोत्क्रमणं यावत्स्वमातुस्समाधिं वारं वारं गत्वा सकरुणं रुरोद।
अधुना मातृहीनं मोहम्मदं प्रभुभक्ता कृष्णकाया बरकतनाम्नी दासी सुतसदृशं पालयामास। शिशुर्मोहम्मदो बरकतदास्या द्वे वर्षे तस्य पितामहस्याब्दुलमतलवस्य संरक्षणे समवर्द्धत।अतिवृद्धोऽब्दुलमतलबस्स्वान्तिमं समयं समुपस्थितं मत्या, स्वज्येष्ठसुतमबूतालबमाहूय, तं मोहम्मदसंरक्षणे न्ययोजयत्। दयालुरबूनालबस्स्वभ्रातृजं वक्षसाश्लिष्यायुःपर्यन्तं सुतनिर्विशेषं मेने। स्वपितुरनन्तरमबूतालवोऽपि मक्कामंदिरस्य पौरोहित्यं संरक्षकपदञ्चाविन्दन। तेन बालकमोहम्मदो मक्कामंन्दिरस्य पूजापरे परिवारे परिपाल्यमानो बाल्यादेव मक्कामहातीर्थस्य महिमानं स्वमनसि धारयामास।
अन्येऽरबीयबर्बरवालका इव मोहम्मदोऽपि बाल्यावस्थायामक्षराभ्यासं नाकरोत्, तथापि स गभीराशयो, विशालबुद्धिः, प्रत्युत्पन्नमतिर्वाल आसीत्। सकृच्छ्रुतस्य विषयस्य बहु मननमकरोत्। मक्कानगरे तीर्थयात्रायै सुदुरात् सर्वदिशागतानां सर्वप्रकाराणां यात्रिणां बहुविधं भाषणं श्रुत्वा स सौत्सुक्यं तत्सर्वंस्वस्मृतौ निदधे। तेनायुर्बुद्धिसमं तस्यानुभूतिरपि वृद्विमगमत्।
नित्यमुपचीयमाना तस्य गवेषणावृत्तिः विशेषानुभ-
वलाभाय तस्मा अन्यमवसरं प्रायच्छत्। उपर्युक्तवर्णनानुसारं तस्य परिवारे पितृपर्यायागता सार्थेन व्यापारवृत्तिरप्यवर्तत। तस्य पितृव्योऽबूतालिबस्सार्थमादाय सार्थवाहरूपेण सीरियां यमनदेशञ्च प्रति प्रातिष्ठत। मक्कानगरस्य गोपुरे हृदयोल्लासपूर्वकं संमर्दं जनयतां सार्थानां यातायातं मोहम्मदस्य बालचेतस्युत्साहं पूरयामास, तस्य मनश्च विदेशान् प्रत्यनयत्। स विदेशयात्रोत्कण्ठां संवरीतुं न शशाक।
एकदा स सार्थमादाय सीरियां प्रतिष्ठमानं स्वपितृव्यमबूतालबमुष्ट्रारोहणकाले प्रसज्य तेन सह चलितुंसविनयमनुरुरोध। तस्य विनयमनुवर्तमानस्तञ्च विदेशयात्रावस्थं मन्यमानोऽवूतालिबस्तत्प्रार्थनामङ्गीकृत्य तं सहैवानयत्।अबूतालिबस्य सार्थः परम्परागतानेकदन्तकथाभिस्संबद्धेषु नगरेषु यात्रामकरोत्। सायं विश्रमकालेऽरबीयसार्थपुरुषा मिथस्तास्ता दन्तकथाः कथयन्तः प्रचुरानन्दमनुभवन्ति। अरबदेशीयमरुस्थलेऽनेकानि स्थानानि मिथ्याविश्वासरतैररयबदेशीयैः कपोलकल्पितभूतप्रेतपिशाचादिभिरधिष्ठितानि ज्ञायन्ते। तेषु स्थानेष्वपि सार्थ एवोऽयात्। ता विविधा दन्तकथा मिथ्याविश्वासाश्च संभूय मोहम्मदस्य बालहृदयं विशेषेण प्रभावयामासुः
किञ्चित्कालमतिवाह्य तत्प्रचारितमुसल्मानधर्मे प्रधानस्थानञ्चावापुः।
एवमेव सार्थैस्सहानेका यात्राः कुर्वन् युवा मोहम्मदो व्यापारप्रावीण्यं प्रापत्। तस्य व्यापारनिपुणतां संवीक्ष्यारबदेशस्यानेके सार्थवाहास्तं स्वकार्यनिर्वाहकप्रतिनिधिं कृत्वा बहुवारं यमनदेशं सीरियादेशञ्च व्यापाराय प्रेषयामासुः। आभिर्यात्राभिर्मोहम्मदमहोदयस्य बहुविषयकं ज्ञानं भृशं ववृधे। स अरबीयानां कविसमाजेषु, कथागोष्ठीपु, विविधसम्मेलनेषु च संगतस्स्ववाग्मितां कविताशक्तिञ्च व्यकासचत्। तस्मिन्नेव समये मक्कानगरवास्तव्या क़ुरेशान्वया, धनाढ्या, मृतद्विभर्तृका, चत्वारिंशद्वर्षीया, खदीजानाम्नो विधवा नारी व्यापाराय मोहम्मदं स्वकार्यनिर्वाहकप्रतिनिधिं नियुक्तवती, तस्य कार्येण रूपलावण्येन च विमोहिता तं स्वपतिमवृणात्।
ख़दीजाया भर्ता भूत्वा मोहम्मदमहोदयस्समृद्धिमुपागतो, व्यापारचिन्ताभिर्निवृत्तचेता अरबीयबर्बराणां दुष्कृतापनोदने धर्मसंशोधने च मनो निदधे। स समये समये हिरापर्वतं गत्वा, तत्र गुहायामेकान्ते निपद्य, धर्मस्य तत्त्वं संशोधनञ्च चिरमनुचिन्तयामास। अरबीयबर्बराणां पतितावस्थाः कुप्रथाश्च तस्य दयालुहृदयस्य मर्म तुतुदुः। विशेषतस्तेषु प्रचलिता घोराज्ञानान्धकारसूचिका प्रतिमापू-
जातं भृशं पीडयामास। स प्रसिद्धतीर्थं मक्कामन्दिरं परःशताभिः प्रतिमाभिराकीर्णं दृष्ट्वाऽतीव खिन्नमानसः परमपितुः परमेश्वरस्य पूजायाः प्रचारस्य परामपेक्षामन्वभूत्। तेन स निजायुवश्चत्वारिंशत्तमे वर्ष आत्मानं परमेशाप्रपितं देवदूतमुद्धोप्येस्लामधर्मं समस्थापयत्।
सर्वप्रथमं मोहम्मदमहोदयस्य परमानुरक्ता पत्नी ख़दीजा तत्पवर्तितं धर्ममङ्गीकार। ततस्तस्य प्रियो दासो ज़ैदनामकः, ख़दीजायाः पितृव्यपुत्रः ख्रीष्टीयधर्मग्रन्थस्य बाइबिलत्यारबीयभाषायामनुवादको मोहम्मदस्यान्तरङ्गमित्रं वरक़ानामा तद्धर्मंस्वीचक्रतुः। त्रीणि वर्षाणि याबन्मोहम्मदमहोदयस्स्वधर्मं शनैश्शनैः गुप्तं प्रचारयामास। तेषु त्रिषु वर्षषु प्रायो विदेशीयानां यूनां दासानाञ्च मध्ये चत्वारिंशत्पुरुषास्तस्य धर्मानुयायिनो बभूवुः।
अतीतेषु त्रिषु वर्षेषु मोहम्मदमहोदयः प्रकाशं स्वधर्मप्रचारमारेभे। स सर्वान् क़ुरेशकुलजानाहूय सभामध्ये तानिस्लामधर्मं स्वीकर्तुं प्रेरयामास। परन्तेषु युवानमलीमृते, कोऽपि तस्योपदेशं न श्रद्दधौ। परस्ताच्चाली मोहम्मदस्य दुहितरं फ़ातमां परिणीय, तस्य जामाता भूत्वा, मुसलमानधर्मस्य प्रसारे मोहम्मदस्य प्रधानसहायक आसीत्। अन्ये सर्वे कुरेशास्तमनादृत्य जहसुः। अनेन
दुर्व्यवहारेणाप्यत्यक्तोत्साहो मोहम्मदोयथावसरं सततं स्वधर्मप्रचारनिरतो बभूव।
तस्य धर्मप्रचारेण प्रकुपितास्तद्वंशीयाः क़ुरेशास्तत्पितृव्यमबूतालिबं गत्वा निजभ्रातृजं मोहम्मदमस्माद्दुर्व्यवहारान्निवारयितुं प्रार्थयामासुः, नवीनधर्मप्रचाराग्रहे प्रवृत्ते मोहम्मदस्य प्राणसंकटमपि च तस्मै निवेदयामासुः। तेषामनुरोधेणाबूतालिबो मोहम्मदं बहुवारं बोधयन्नपि तं स्वसिद्धान्तेषु सुदृढन्दृष्ट्वा, स्वयमपि तस्य सहायको बभूव। अबूतालिप्रेरिताः केचिदन्ये क़ुरेशवंशीया अपि तस्य सहायत्वं गताः।
ततो दैवदुर्विपाकान्मोहम्मदस्य परमानुरक्ता भार्या ख़दीजा, परमसहायकः पितृव्योऽबूतालिबश्च पञ्चत्वमवापतुः। अनयोस्सहायकयोर्नाशेन मोहम्मदो मक्कानगरे निःसहायावस्थामगमत्। अधुना विरोधिनां क़ुरेशवंशीयानामन्येषामरबीयबर्बराणाञ्च नानायातनाभिरनन्यगतिको मोहम्मदो मक्कानगरं त्यक्त्वा पञ्चत्रिंशदुत्तरशतक्रोशान्तरे (१३५) मदीनानगरे शरणं गृहीतुं वाधितो बभूव।
मोहम्मदीयैर्मोहम्मदमहोदयस्य मक्कानगरत्यागो महती घटना मन्यते। इमामेव घटनाञ्चावलंब्य तेषु हिजरीसंवन्नान्ना वियोगाब्दः प्रचलति। घटनैषैकोनाशीत्युत्तरषड्शतमिते वैक्रमाब्दे (६७९वै०) समघटत। मदीना-
नगरमुषित्वा मोहम्मदमहोदयस्तन्नगरनिवासिनां प्रचुरां संख्यां स्वमते दिदीक्षे। संख्यैषा मक्कादिनगरेभ्य आगतैरन्यैस्तदनुयायिभिस्संगत्य प्रबलसेनायां पर्यणम्यत। अनया सेनया मोहम्मदमहोदयो मक्कानगरमभ्यपेणयत्। तस्य सेना क़ुरेशादिनो विरोधिनोऽनेकेषु युद्धेषु विजिग्ये। तेषु युद्धेषु प्रधानतमं युद्धं बदरयुद्धाख्ययारबीयेतिवृत्ते प्रसिद्धम्। पराजितास्सर्वे विरोधिनो विरोधं त्यक्त्वा, मोहम्मदानुयायिनो भूत्वा मुसल्मानधर्मं स्वीचक्रुः। क्षमाशीलो मोहम्मदमहोदय आत्मानं प्रति तेषां सर्वान् पूर्वा पराधान् चक्षमे। स मक्कामंदिरस्य सर्वाः प्रतिमा बभञ्ज, परन्तस्य तीर्थत्वं पवित्रत्वञ्च स्वमुसल्मानमतेऽप्यक्षुण्णं ररक्ष।
एवं मोहम्मदमहोदयस्य जीवनसमय एव सर्वोऽरबदेशो मुसल्मानधर्मदीक्षां जग्राह। मोहम्मदमहोदयश्शेषं सर्वजीवनं मूर्तिपूजानिराकरणे मूर्तिमंदिरभञ्जने च यापयामास। स सीरियां, मिश्रं, पारसं, ग्रीसदेशञ्चाक्रम्य तत्र तत्र स्वमतं खड्गबलेन प्रचारयामास। मुसल्मानवाहिनीवात्या यां दिशं प्रसरतिस्म, तामेवाभिव्याप्य स्वशक्त्या तत्रस्थितौ प्राचीनसभ्यताधर्मावपजहार। मोहम्मदमहोदयस्य प्रतापवह्नौ प्राचानमिश्रपारसादीनां धर्माः शलभायिताः। तेषां प्राचीनसभ्यताया इतिवृत्तमप्यद्य कृच्छ्रेणोपलभ्यते।
अधुना ते देशास्साकल्येन मोहम्मदीयमतमनुयान्ति। तेषु तेषु देशेषु प्राचीनधर्ममनुवर्तमानः कोऽपि न दृश्यते श्रूयते वा।
मोहम्मदीयधर्मोऽन्यदेशीयानां धर्माणां येन केनापि रूपेणोपकारकोऽपकारको वाभूत्परमत्र संदेहो नास्ति यत्सोऽशरबीयबर्बराणां महाभ्युदायकः कल्याणकारकश्चाजायत। मोहम्मदमहोदयोनित्यमन्योन्यरक्तपिपासूनां, घोरान्धकारतिमग्नानां, सर्वपातकग्रस्तानां सर्वप्रकाशेन्नतिविमुखानां परमपितुर्नामाप्यजानतां, प्रस्तरपूजकानामनेकमतावलंबिनामरबीयबर्बराणां समूहं स्वजीवनसमय एवाल्पेनैव कालेन भ्रातृभावभरितानां, ज्ञानालोकालोकितचित्तानां, दुरितदूराणामुन्नतिपथे धावमानानामेकमन्त्रदीक्षितानां, निरुपाधिकैकेश्वरोपासकानामेकधर्मावलंबिनां, सुसंगठितसमाजे पर्यणमयत्। स्वजीवनयात्रान्तकाले मोहम्मदमहोदयस्तादृशानामनुयायिनां नैकधर्माचार्य एव, प्रत्युतोन्नतारबदेशेन सहैव पारसमिश्रादिप्राचीनदेशानामसीमशक्तिशाली, सर्वसांसारिकसुख सामग्रीसमेतस्सम्राडपि समजायत। यथा भक्तिभावेन श्रद्धया च तस्य प्रजास्तं सिषेविरे, न तथा कदापि कस्मिन्नपि देशे कमपि चक्रवर्तिनमपि जना अनुवर्तयामासुः। मोहम्मदानुयायिनस्तस्य स्वेदस्थाने स्वरक्तं पातयितुं सर्वदोद्यता आसन्, ते तस्य ,
पृथ्वीपतितं स्नानजलमपि पवित्रं दुर्लभञ्च मत्वाचेमुस्तस्य पतितान् केशानपि गृहीत्वा सभक्ति निपुणं ररक्षुः। मोहम्मदमहोदयोनिजानुयायिभ्यो धर्मार्थदानरूपेण विविधकरानग्रहीत्ते तस्मै धर्मयुद्धव्ययार्थं करातिरिक्तमपि यथेष्टं धनं ददुः।
मोहम्मदमहोदयस्समये समये निजहृदये परमेश्वरेणोद्भाविता विचारपरम्पराः परमेशात्प्राप्ता आज्ञा उद्धोष्यारबीभाषापद्येर्निजानुयायिषु प्रचारयामास। तस्य मृत्योरनन्तरं तदनुयायिनस्तानीमानि पद्यानि संगृह्य पुस्तकरूपं ददुस्तदेतत्पुस्तकं मोहम्मदीयेष्वीश्वरवाक्यत्वेन क़ुराननाम्ना प्रख्यायते।
मोहम्मदमहोदयस्स्वदशमे वियोगाब्दे मुसल्मानधर्ममस्वीकुर्वता सर्वेषां विरुद्धं जहादनामकं सामान्यं धर्मयुद्धमुद्धीपयामास। तस्यासंख्यसेनाया आक्रमणेन भीताः परस्सहस्राः जनास्सङ्घशो मदीनामागत्य तद्धर्मे दीक्षां जगृहुः।
तस्मिन्नेव काले मोहम्मदस्य दास्या गर्भजस्तस्यैकाकी पुत्र इब्राहीमो बाल्य एव पञ्चत्वमवाप। तस्य दारुणशाकोमोहम्मदस्य मर्मान्तां वेदनामजनयत्। कालक्रमेण वार्द्धक्यप्रवणस्य मोहम्मदमहोदयस्य शारीरिकसामर्थ्यं ह्रासमुपागमत्। तेन स स्वावशिष्टं सामर्थ्यं निजानुयायि-
भ्य आदर्शस्थापनार्थं तैस्सहमक्कामहातीर्थस्य यात्रायां व्ययितुं मनश्चक्रे। स सर्वदिग्भ्यस्स्वानुयायिन आहूय महता समारोहेण मक्कामहातीर्थयात्रायै प्रातिष्ठत।अरबीयदन्तकथानुसारं तेन सह शिबिकारूढा तस्य नवा भार्या मक्कामहातीर्थ यात्रिणां चतुर्दशसहस्रोत्तरैकलक्षश्च बलिदानार्थमसंख्यान् पुष्पाद्यलंकृतानुष्ट्रानादाय, मक्कातीर्थमुदचलत्। मक्कामुपागतो रोगेण क्षीणतनुर्मोहम्मदमहोदयःपादचारं मक्कामहातीर्थपरिक्रमां कर्तुमशक्त उष्ट्रमारुह्य तत्पुण्यकृत्यं व्यदधात्। स मक्कामंदिरे स्वायुषः प्रत्येकवर्षमुद्दिश्य षष्टिरुष्ट्राणां बलिमार्पयद्, उष्ट्रमारुह्य सर्वयात्रिभ्य ओजस्विन्यां भाषायां महोपदेशञ्च ददौ।
मक्कामहातीर्थयात्राया महाकर्तव्यं विधाय मोहम्मदमहोदयस्य जन्मभूमेर्मक्कानगरादन्तिमं वारं मदीनां प्रतिनिववृते। मदीनामागत्य मोहम्मदस्य रोगो वृद्धिमुपागमत्। ज्वरार्तः क्रमशो हीनशरीरस्स त्रिषष्टिवर्षीयो नवाशीत्युत्तरषड्शतमिते वैक्रमाब्द (६८९) एकादशवियोगाब्देच विनश्वरं देहं तत्यान। तस्य शरीरं मदीनानगर एव तस्य परमप्रेयस्यास्तस्य भार्याया आईशाया भवने समाधिं प्राप।
मोहम्मदमहोदयः समकालीनपुरुषाणां कथनानुसारं, शरीरेण मध्यमाकारस्समाङ्गश्शक्तिशाली, दीर्घबाहुश्चासीत्।
तारुण्य उरुविक्रमो, लघुकायोऽपि, सः परिणते वयसि गुरुतां स्थूलताञ्च भेजे। तस्योन्नतमुत्तमाङ्गं व्यूढोरसः स्तम्भवदुच्छ्रितां तस्य ग्रीवां प्रवर्धितश्रियमकरोत्। प्रान्तयोर्विशालस्तस्यायतोन्नतललाटपदृको भ्रूचुम्बिता दृश्यमानाः नाडीरेखा धारयामास, या मन्यूत्साहाविर्भावकाले स्फीततामगमन्।तस्य मुखमण्डलं सुव्यवस्थितं वर्तुलं, शुकसदृशीं नासां, विशालनीललोचने, परस्परसंसक्तधनुराकारभ्रूयुगलं, स्फटिकाभां विरलदन्तपङ्क्तिश्च दधार। तस्य मधुकरमेचकः कुन्तलकलापः स्कन्धयोरवललंबे, श्मश्रूश्चसुदीर्घा सघना चासीत्। स साधारणतश्शान्तिमयीं, प्रभावशालिनीमेकरसां मुद्रां दधार।हास्यरसप्रवणोऽपि स गम्भीरतां कदापि न जहौ। तस्य मुखच्छबिर्माधुर्यवर्षिणी, नराणां वशीकारिणी, विमोहिका चासीत्। स वर्णेन साधारणारबीयेभ्यस्ताम्रतरोऽभूत्; उत्साहविक्षोभयोस्तस्य मुखमण्डलं सविशेषां कान्तिमारक्तद्युतिश्च पुपोष, यां तदनुयायिनो देवद्युतिं मेनिरे।
तस्य मानसिकसामर्थ्यमतीव विलक्षणं, तस्य बुद्धिस्तीक्ष्णा, स्मृतिश्च प्रबला, कल्पना च विशाला, मतिश्चाविष्कारिणी विवेकशीला च। अक्षरैश्शून्योऽपि मोहम्मदमहोदयस्स्वहृदयमन्वेषणैस्सूक्ष्मेक्षणैश्च ज्ञानालोकितं व्यदधात्। स स्वमानसमरवदेशे प्रचलितानां धार्मिककृत्यानां प्रथानां
परम्परागतानां दन्तकथानाञ्च कोषमकरोत्। तस्य वाणी गम्भीरा, सरसा, सालंकारा, सर्वप्रिया च। जनान् प्रति संभाषणसमये तस्य गीर्विशेषेण प्रभावशालिनी, चित्ताकर्षिका चाजायत। तद्विधावसरेषु तस्य वाग्मिता विशेषेण व्यद्योतिष्ट।
मोहम्मदमहोदय आहारेऽतीव संयमी सावधानश्चाभूत्। व्रतधारणे स दृढनियमपरो बभूव। आच्छादनेऽपि स नितरां सरल आडंबररहितश्चासीत्। तस्य सिद्धान्तेन क्षुद्रप्रकृतयस्तुच्छपुरुषा ह्याडम्बरप्रिया भवन्ति। स स्वभावेनैवैतादृशैर्निकृष्टसाधनैस्स्वप्रभावं महिमानं वा स्थापयितुं कदापि नैच्छत्। स कदाचिच्चोर्णवस्त्राणि धारयामास, कदाचन कन्थामप्यामुमोच। स सर्वदा शिरोवेष्टनमुष्णीषं वा परिदधे, तन्मतेन देवदूता देवा वा नित्यमुष्णीषं परिदधति। स रक्तांबरं सुवर्णांगुलीयकञ्च न्यषेधत्।
स देहस्य स्वच्छतायां पवित्रतायाञ्च कदापि न प्रामाद्यत्; नित्यमेव च पञ्चवारमरबीयेषु वज़ूनाम्ना प्रसिद्धं मुखाद्यङ्गप्रक्षालनमकरोत्। कतिपुचिद्विषयेषु स विलासितामाशिश्रिये। संसारेऽस्मिन् प्रमदास्सुगन्धाश्चमामतिशयं प्रमोदयन्तीति सोऽचकथत्। एतेनैव स सर्वदा गन्धद्रव्याणि प्रायुङ्क्त, पञ्चदश भार्याश्च परिणिन्ये। त्रुटिभि-
मामपहाय मोहम्मदमहोदयस्याचारस्सर्वप्रकारेण संयतस्सरलश्श्लाघ्यश्चासीत्।
मोहम्मदमहोदयस्य चरित्रेण सहैव मोहम्मदीयधर्मस्य विषयेऽपि किञ्चिद्वक्तव्यमस्ति। मोहम्मदीयधर्म इस्लामधर्मो मुसलमानधर्मो वाप्याख्यायते। अत्र सभासेनेस्लामधर्मस्य राद्धान्तानुपन्यस्यामः। मोहम्मदीयधर्म ईमान-दीनयोरर्थाद्विश्वासकर्तव्ययोर्भागद्वये विभज्यते।
ईमानपदवाच्यो विश्वासः षड्विधोऽर्थात्परमेशे (अल्लाहे), परमेशदूतेषु (पैरांबरेषु), परमेशपुस्तके (क़ुराने), परमेशप्रभुत्वे, देवेषु (फ़रिश्ताहेषु), न्यायान्तिमे दिने (क़यामते) च विश्वासः कर्तव्यः। दीनाह्वयः कर्तव्यश्चतुरङ्गः। मोहम्मदीयधर्मानुसारं यः कोऽपि मनुष्यश्चत्वारि कर्तव्यानि—नमाज़ (मुसल्मानधर्मीयपञ्चकालिकनैत्यिकमार्थनां, रोज़ां (प्रतिवर्षं रमज़ाननामकेऽरबीयमासे व्रतधारणं), ज़कातं (यथासामर्थ्यं दानं), हजं (जीवनयात्रायामेकवारं मक्कामहातीर्थयात्राम्)—अप्रमत्तः पालयति स एव यथार्थो मुसल्मानो—धार्मिको
भवितुमर्हति। मुसल्मानपदं “मुस्लिमे“ती “माने"ति यथासंख्यमखण्डितेति धर्मेति वाचकाभ्यां पदाभ्यां निर्मितं समस्तं पदं; बहुब्रीहौ तस्यार्थोऽखण्डितधर्मो भवति। मोहम्मदीयधर्मेतिशब्दो मोहम्मदमहोदयप्रवर्तितत्वादायाति। एतद्धर्मवाचकमिस्लामेत्यपरपदमरवीयभाषायां परमेशाज्ञानुवर्तनमित्यर्थमावहति। इस्लामधर्मस्य कलमाभिधमूलमन्त्रोऽरबीभाषायां “ला इलाह इल्लल्लाह, मोहम्मदुर्रसूलिल्लाह” इति वाक्यद्वयगर्भितोऽस्ति। देवगिरास्यानुवादो यथा “एकं ब्रह्मद्वितीयं नास्ति” मोहम्मदः परमेशदूतोऽस्ति। कलमानाममूलमन्त्रस्य प्रथमवाक्यघटक एकेश्वरवाद एवेस्लामधर्मस्य सर्वोत्कृष्टसिद्धान्तोऽस्ति। द्वितीयवाक्यसिद्धान्ते मोहम्मदमहोदयस्य देवदूतत्वे विप्रतिपत्तावप्येकेश्वरवादसिद्धान्त एष मूलतस्सर्वधर्मसिद्धान्तैसंवदति।
मोहम्मदमहोदयः कदाप्यात्मानं नवधर्मप्रवर्तयितारं नोद्धोषयामास। “अहमादिसृष्टौ परमेशात्प्राप्तं विविधदेवदूतैस्संसारे प्रवर्तितं धर्मं पुष्याम्यनुमोदे चे"ति तस्योक्तिः। परमेशपुस्तकत्वेन तेन प्रचारिते क़ुराने ख्रीष्टधर्मावलंबिनां”बाइबिल” नामपुस्तकस्यैव गाथा विशेषेण वर्णितास्सन्ति। क़ुराने धर्मव्यवस्थापि बाइबिलमूलैव।इस्लामधर्मस्य नमाज़ाभिधा परमेशप्रार्थना, वज़ूनामको मुखादि
प्रक्षालनप्रकारो, रोज़ाह्वोव्रतविधिर्मक्कामहातीर्थस्य यात्रामहिमा च पुरस्तादेवारबीयेषु प्रचलिता आसन्। दानन्तु सर्वधर्मसिद्धान्तसम्मतमेव। मोहम्मदमहोदयस्तेषु केवलं समुचितानि संशोधनानि विधाय तानि कर्तव्यानि विशेषेण प्रचारयामास। तेन वस्तुगत्या मोहम्मदमहोदयस्स्वकथनानुसारं धर्मस्य संशोधकः प्रतिष्ठापकश्चैवासीत्। तस्य पुरुषर्षभस्य महासंशोधनन्तु पूर्वोक्तप्रकारेण छिन्नभिन्नानामरबीयबर्बराणामेक-जातिनिर्माणमेव। एष तु मोहम्मदमहोदयस्य महामहिमा प्रबलप्रतापश्च यज्जगतीतले प्रत्येकान्तवास्तव्यास्तद्धर्ममनुयान्ति संसारस्येतिवृत्तञ्च पुष्कलपरिमाणेन तस्य महापुरुषस्य यशोराशिं विस्तारयति।
इति मोहम्मदचरितम्
<MISSING_FIG href=”../books_images/U-IMG-1733499273ससससससससससस.jpg”/>
चारु-चरितावली
<MISSING_FIG href=”../books_images/U-IMG-1733589527परुरपर.jpg”/>
महात्मा श्रीकबीरः
<MISSING_FIG href=”../books_images/U-IMG-1733499631गगगगगगगगगग.jpg”/>
<MISSING_FIG href=”../books_images/U-IMG-1733499671ैैैै.jpg”/>
ब्रह्मरूपं जगत्सर्वं,मन्यमानोऽखिलेषु यः।
साम्यं वाञ्छति धर्मस्य, स वै वीरः कवीरभाक्॥
श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेनोक्तं—
“यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य, तदात्मानं सृजाम्यहम्॥”
एष राद्धान्तः प्रायशस्सर्वमानवसमाजेषु वरीवर्ति। यदा यदा हि मनुष्याः कुसंस्कारैर्भ्रमैश्चावेष्टिता भवन्ति, तदा तदा ह्यज्ञानान्धकारमपाकर्तुं महातेजसः सत्यसनातनपुरुषस्य तेजोंऽशं प्राप्य धर्मसंस्कारका महापुरुषाः संसारेऽस्मिन्नाविर्भवन्ति।
भारते वर्षे बौद्धधर्मस्य ह्रासानन्तरं श्रीशंकराचार्यः शुद्धाद्वैतं प्रचारयामास, परं कालक्रमेण तस्य वास्तविकस्वरूपमहं ब्रह्ममन्यैः कदाचाररतैः पुरुषैःप्रायशो व्य-
स्मारि। ततः कपोलकल्पितमतमतान्तराणामाविर्भावसमये जनानामविद्याविनाशार्थं ये कतिपये महापुरुषाः समये समये प्रादुर्भूय,तेषां कुसंस्कारमपनीय, पवित्रधर्ममुपदिदिशुस्तेषु धर्मप्रतिष्ठापकेषु श्रीकबीरदासोऽपि प्रधानपुरुषः। संकीर्णचित्तैस्स्थापितं जातिभेदमपाकृत्योदारभावेनाद्वितीयसत्यस्वरूपपरब्रह्मोपासनाप्रचार एव तस्य महात्मनो जीवनोद्देशः। श्रीकबीरदासो भगवद्भक्तानां भारतीयभक्तकवीनाञ्च शिरोभूषणमित्यः नास्ति प्रौढाक्तिलेशोऽपि। तस्य मतं महोदारमद्वैतवादमूलकमेव, भगवद्भक्तिरेव तस्य प्रधानसिद्धान्तः।
श्रीकबीरदासःकाशीसमीपवर्तिन्याङ्कस्याञ्चिद्ग्रामटिकायां पञ्चपञ्चाशदुत्तरचतुर्दशशतमिते वैक्रमाब्दे(१४५५ वै०) ज्येष्ठपूर्णिमायां जन्म लेभे। अस्य जन्मविषय एषा दन्तकथा प्रचरति यदेका धार्मिका विधवा ब्राह्मणी बालिका कश्चित्साधुंपरिचचार। तस्याः परिचर्यया प्रसन्नः साधुस्तस्यै “पुत्रवती भवे” त्याशीर्वाद ददौ। तदाशीर्वादमाकर्ण्य कातरा ब्राह्मणी साधुमुवाच— “महात्मन्, यद्यहमधुना पुत्रं लभेय, समाजे निंदनीया भवेयं; अतो भवान् कमप्यन्यमाशीर्वाद ददातु।” साधुरुवाच—“यदहमब्रवं तन्नान्यथा भवितुमर्हति किन्तु पुत्रं लब्ध्वा त्वं समाजे निन्दास्पदं न भविष्यसि, सर्वे जनाश्च त्वयि
श्रद्धावन्तः भक्तिपराश्च भविष्यन्ति”।
कालक्रमेण सा ब्राह्मणी सर्वाङ्गसुन्दरं सुलक्षणयुक्तं पुत्रमसूत। ब्राह्मणगृहे विधवायामपत्योत्पत्तिं श्रुत्वा जना मां निन्देयुरिति लोकापवादभीता, लज्जिता च ब्राह्मणी तं नवप्रसूतं तनयं कस्यचित्तडागस्य तटे कुशेशयानामन्तः स्थापयामास। नीरूनामा कश्चिद्यवनतन्तुवायो दैवात्तस्य तडागस्य समीपे जगाम, तत्र च कस्यचिन्नवप्रसूतस्य बालकस्य क्रन्दनं शुश्राव। तच्छ्रुत्वा दयार्द्रहृदयस्स तं गृहीत्वा स्वगृहं निन्ये। नीरूरनपत्य आसीत्। तेन स तं बालकं नीमानाम्न्यै भार्यायै समर्पयामास। सा तं नवजातशिशुं सुतनिर्विशेषं संवर्धयामास, नाम्ना च तं कबीरञ्चक्रे।
बाल्यादेव कबीरमनसि भक्तिभावस्य धर्मस्य चाङ्कुरं प्रादुर्वभूव, यश्च वयसा वृद्धिमवाप। युवा कबीरस्स्ववृद्धैःसह स्वजातीयव्यवसायं वर्धयामास। तन्तुवायानां प्रथानुसारं परिणीतश्च कालक्रमेण कमालनामानं पुत्रमलभत। कमालस्तस्यौरसपुत्रो नासीत्।अस्मिन्विषये जनश्रुतिः प्रचरति।
एकदा कबीरो रात्रौ काश्यामनुगङ्गं जगाम, यावत्स शृगालानां रवं शुश्राव। कबीरो दैवीशक्तिबलेन शृगालानां रवस्य मर्म जज्ञे। शृगाला ऊचुः–यद्ययं शवो गंगाप्रवाहे सा
तटं प्राप्येत, वयं तस्य मांसेन परितृप्तिं लभेमहि। कबीरः शृगालमनोरथमवबुध्य दैवीशक्त्या तं शवं तटे प्रापयत्। शवे तटं प्राप्तेमत्स्या ऊचुः–“किमस्माद्ग्रासापहारो न्याय्यः।” तछ्रुत्वाकबीरोऽचिन्तयत्, “कस्मैचिदपि शवस्य दानमनुचितं, तमहं जीवयामीति"विचाय स तं शवं प्राणिणत्, तञ्च कमालनामानं कृत्वा पुत्रत्वेन स्वीचकार।
धर्मप्राणः कवीरो व्यवसायेन यदर्जयामास, तस्माद् गृहव्ययावशिष्टं दीन दुःखिभ्यो ददौ। तदा रामानन्दस्वामी महीमलञ्चकार। तस्माद्दीक्षाग्रहणार्थं कबीरस्तत्पार्श्वं जगाम; किन्तु रामानन्दस्वामी ब्राह्मणादृते कस्मैचिदपि दीक्षां न ददौ। तच्छ्रुत्वा कबीरोऽत्यर्थंविषसाद हतोत्साहश्च बभूव। रामानन्दस्वामी स्वेच्छया मह्यं दीक्षां न दास्यतीति निश्चित्य कबीरः स्वप्रयोजनसाधनार्थं कौशलमेकमाविश्चकार।
प्रहरशेषायां शर्वर्यां किल रामानन्दस्वामी नित्यं गङ्गास्नानार्थंगच्छति। यत्र रामानन्दस्वामी स्नानार्थं जगाम, तस्मिन् घट्ट कबीरो गत्वा शववत्तस्थौ। दैवात्तदा दुर्दिनं बभूव तमश्च प्रससार, निकटस्थमपि द्रव्यं दृष्टिपथातिथिर्न बभूव। यदा रामानन्दस्वामी स्नानान्निवृत्तः प्रतिनिववृते, तदा स्वचरणेन कबीरं पस्पर्श। तं
शवमवबुध्य रामानन्दो “राम राम” इत्युच्चचार। एवं कबीरोरामानन्दस्वामिमुखेन “राम” इति मूलमन्त्रदीक्षां जग्राहोवाच च—“गुरो, इयमेव मे दीक्षा”। इत्युक्त्वा स गुरुं प्रणनाम स्वगृहञ्च प्रत्याजगाम। गृहं गत्वा कवीरस्स्वशिरो मुण्डयित्वा मालां तिलकञ्च दधार। कबीरजननी तं हिन्दूवेषधारिणं दृष्ट्वोवाच–त्वमधुना प्रमत्त इव किं सज्जितोऽसि। कवीर उत्ततार–“नाह प्रमत्तः किन्तु रामानन्दस्वामिनः शिष्यत्वं गृहीतवानस्मि”। तदाकर्ण्य कवीरमाता रामानन्दवामी बालकं कबीरं वञ्चयित्वा हिन्दूंकृतवानिति मेने। तेन सा रामानन्दस्वामिनं स्वपुत्रकृते सिकन्दरशाहलोदीनामकस्य तत्कालीनदिल्लीपते राजसभायामभियोजयामास। बादशाहः कबीरमाकारयामास। कबीरस्तिलकं विरचय्य, तुलसीमालाश्च धृत्वा बादशाहमुपतस्थे। पारिपद्याः कबीरमूचुः, “भूमिं स्पृष्ट्वा बादशाहं प्रणमे"ति। किन्तु कबीरस्तदस्वीचकारोवाच च—“राममन्तरा कमपि न जानामि”। बादशाहःकबीरे चुकोप तञ्च कारायां पातयामास। ततः कवीरस्य धर्मभावमवबुध्य तस्य युक्तियुक्तेन तर्केण पराजितश्च तं धर्मप्रचाराय स्वतन्त्रं चकार।
रामानन्दो यवनं न स्पृशनीति सर्वे जानन्ति स्म, किन्त्वेतंवृत्तान्तं श्रुत्वा ते रामानन्दस्वामिनं ययुः, आ-
श्चर्यचकिताश्च तस्मै सर्वं कवीरोदन्तं निवेदयामासुः। सर्वं वृत्तान्तं श्रुत्वा रामानन्दः कबीरमाजुहाव। आगतं कबीरं रामानन्द उवाच–“रे कबीर कदाहं त्वां शिष्यमकार्षम्”। कबीर उवाच “प्रभो तस्मिन् दिने यदा स्नानावतीर्णस्य भवतश्चरणेन मदङ्गं स्पृष्टं, तदा भवान् राम राम इत्युदचारीत्। तदैवाहं भवतो दीक्षामग्रहीपम्”
| कबीरस्य तथाविधां भक्तिं दृष्ट्वा रामानन्दस्वामी तं स्वशिष्यमण्डल्यामभ्यन्तरीचकार|
रामानन्दस्वामिनो द्वादश प्रमुखाः शिष्या आसन्, तेषु कवीरः प्रधानतमः।
कबीरोऽतीव मेधावी। स आर्यशास्त्राण्यालुलोच।तानालोचमालोचं स महाज्ञानी संवृत्तः।यदि धर्मसंबन्धिनी कापि शङ्का तस्य मनसि प्रादुर्बभूव स तन्निवृत्त्यर्थं गुरोः सकाशं जगाम ; किन्तु विचारे प्रवृत्ते रामानन्दः कबीरात्परास्तोबभूवेति प्रसिद्धिः।
कबीरो बाह्याडम्बरपूर्णधर्माज्जुगुप्साञ्चक्रे। कमपि धर्मध्वजिनं सन्यासिनं दृष्ट्वा स “जटाजूटेन, शरीरे भस्मगुण्ठनेन च योगो न सिध्यति, शुद्धायाः भक्तेर्ऋृते नान्येन केनाप्युपायेन भगवानाराधयितुं शक्यत” इत्युवाच। कबीरस्यानेन कथनेनानेके दाम्भिकास्तस्य शत्रवस्संजाताः। स च तेषां हस्तैरनेकवारं कष्टं विषेहे।
किन्तु भक्तवत्सलस्य दयामयस्य भगवतः कृपया कोऽपि तस्यानिष्टं कर्तुं न शेके।
रामानन्दस्वामी किल कबीरतर्केण नित्यं जितः कबीरेण विमनायमानस्तस्मादुदासीनो जातः, कबीरश्च रामानन्दमतं परित्यज्य स्वनवीनसम्प्रदायमाविश्चकार, तञ्च समस्ते भारते वर्षे प्रचारयामास। रामानन्दो वर्णाश्रमे श्रद्दधे, कबीरस्तु प्रथमं तमेवाचक्रमे। स जातिं श्रेणीञ्च वर्जयित्वा सर्वान् स्वधर्ममुपदिदेश। कबीरमुखाद्धर्मस्य निगूढतत्वानि श्रुत्वासंख्याःजनास्तस्य शिष्यास्संवृत्ताः। कबीरः किल बिहारमुम्बईकटकोत्कलाद्विप्रान्तेषु स्वधर्मस्य बहून् मठान् स्थापयामास। अद्यावद्यि द्वादश कबीरमतमठास्सन्ति, तेषु सर्वेषु काशीस्थकबीरचौराख्यस्सर्वप्रधानः।
एकदा कबीरो राजमार्गे बभ्राम। तावत्स पेषणीभ्रमणेन चणकान् दलन्तं पुरुषं ददर्श। त द्रष्ट्वा कबीरमन उदात्त। “हा धिक् कालपेषण्यामेवमेव पिष्टाः सांसारिका नरकपथेऽग्रेसरा भवन्तीत्यचिचिन्तत्। तदा सएक पद्यमपठत्—तस्य भावार्थमयं पद्यमिदम्—
भ्राम्यन्तीं पेषणीं वीक्ष्य, कबीरोऽश्रुमुखोऽभवत्।
प्रस्तरान्तर्गतः कश्चि,त्संपूर्णाङ्गो न शिष्यते॥
पुनस्स उवाच—
पेषण्या मध्यवर्तिन्याः, कीलिकाया इतस्ततः।
पिष्यन्ते धान्यबीजानि, विकीर्णानि समन्ततः॥
किन्तु तत्सविधं प्राप्य, शिष्यन्ते सकलानि वा।
एवं ये कीलिकारूपं, भगवन्तं समाश्रिताः॥
सुरक्षिता भवन्त्यन्ये, धान्यबीजसमा नराः।
एकदा कौतूहलाक्रान्तः कबीरो भ्रमणार्थं नगरीं जगाम। भ्रमणनिवृत्तं स्वाश्रमं प्रतिनिवर्तमानं तं तत्सहचराः पप्रच्छुः।
सहचराः—महात्मन्, नगरीं गतेन भवता तत्र किमदर्शि।
कबीरः—नगर्या दुर्दशां किङ्कथयेयम्। वेदज्ञानां ब्राह्मणानां वंशजा वेदहीना ज्ञानहीनाश्च संवृत्ताः, शूद्राश्चब्राह्मणैरधिकृतानि गीतादिपुस्तकानि पठन्तो ज्ञानं मीमांसन्ते। धूर्तास्सानन्दं भोगान् भुञ्जते, साधवश्च मुष्टिमात्रायाप्यन्नाय त्रस्यन्ति। साध्व्यः पतिव्रताश्चोदनपूर्तियोग्यमप्यन्नं न प्राप्नुवन्ति ; व्यभिचारिण्यस्तु बहुमूल्यवस्त्राणि धारयन्त्यस्सुखमयं जीवनमतिवाहयन्ति। पण्डितानाप़ुपदेशं कोऽपि नानुसरति;धूर्ताः कपटिनश्चसमाजस्य।
नेतारस्संवृत्ताः। गोरसविक्रेतारो रथ्यायां रथ्यायामटन्तोरुयन्ते,तेषां गोरसश्च विक्रयाय प्रस्तुतोऽपि न विक्रीयते; किन्तु शौण्डिकापणेषूत्सव इव जनसंमर्दस्संजायते, मदिरा च सततं पण्यते।
कबीरप्रणीता अनेके ग्रन्था अपि सन्ति। तेषु ग्रन्थेषु श्रीबीजकः प्रधानतमस्तस्मिन् कबीरस्स्वधार्मिकराद्धान्तान् निबबन्ध। कबीरस्य गुरू रामानन्दश्शैवसंप्रदायस्थापको गोरक्षनाथश्च तस्य प्रतिद्वन्द्विनावास्ताम्। ताभ्यां सह कबीरस्य यो विचारोऽभूत्तं कबीरः पुस्तकरूपेण प्रकाशितवान्। तयोरेको **‘रामानन्दगोष्ठी’त्यपरश्च’गोरक्षनाथगोष्ठी’**ति प्रसिद्धः।
षोडशशतकस्य मध्यभागे कबीरो गोरखपुरसमीपे बस्तीज़िलान्तर्गतमगहरग्रामे पञ्चत्वमवाप। प्राणेषूर्ध्वं संक्रान्तेषु तच्छवो बस्त्रेणाच्छाद्यत। ततस्तच्छिष्येषु शवमधिकृत्य महान्विवादो जातः। हिन्दव ऊचुः—“शवो दाह्यः”; यवनशिष्यास्तु–“धर्माचार्यस्य शवो निखातव्य” इति। शनैः शनैरुपद्रवस्यावसरोऽभूत्। तावदेको जनोऽकस्मादुवाच–“वस्त्रस्याधस्ताच्छवो न प्रतीयते।” तदा सविस्मयं वस्त्रमुत्थापितम्, श्रीकबीरस्य मृतशरीरञ्चन ददृशे। सर्वोऽपि विवादस्स्वयमेव शशाम।हिन्दवोऽर्धं शवाच्छादनं विपाट्यादहन्, यवनाश्चापरार्द्धं मगहरग्रामे निचख्नुः।
अद्यापि भारतस्य भिन्नभिन्नप्रान्तेषु तस्य बहुसंख्यका मतावलंबिनस्सन्ति। तस्योपदेशमयानि भाषापद्यानि जनानां जिह्वाग्रेषु नृत्यन्ति।
श्रीमन्महात्मनः कबीरस्य संक्षिप्तचरितं काबीरमतग्रन्थानुसारं काबीरमतानुयायिना काशीधामकबीरचौरा-वास्तव्येन साधुशिरोमणिना श्रीविचारदासशास्त्रिणाधोलिखितैसस्त्रिभिः श्लोकैर्निबद्धंधन्यवादपुरःसरमत्रोद्ध्रियते—
आदौ फुल्लकुशेशयप्रविलसत्कासारमध्येऽभवच्छ्रीमच्छैशवरूपिणोऽवतरणं श्रीमत्कबीरस्य वै। लीलामानुषविग्रहस्य नयनं नीरूनिमाभ्यां कृतम् रामानन्द मनस्विनः पुनरभूच्छिष्यत्वमस्य प्रभोः पश्चाद्वादिकदम्बकुञ्जरहरेराश्चर्यमय्योऽभवन्, लीलाः शक्तिविकाशनञ्च पुरतो माहम्मदक्षोणिपः पश्चाज्जीवनमद्भुतं कृतमभूत्कम्मालिकम्मालयोः पश्चाद्देवलकस्य रक्षणमहो दूरात्कृतं वन्हिना॥ पारावारविघट्टनं मुररिपोरावाससंस्थापनम्, गोरक्षस्य ततः स्वयोगकलया दर्पोपसम्मर्दनम्। संसाराम्बुधिसेतुरूपमचलं संस्थाप्य धर्मं निज-,मन्तर्धानमजन्मनो हि भवनमेतच्चरित्रं गुरोः॥
इति कबीरचरितम्
चारु-चरितावली
<MISSING_FIG href=”../books_images/U-IMG-1733589003ीूूूू.jpg”/>
हिन्दूतुरुष्कयोर्धर्मा देकीकरणकौतुकी।
प्रभुभक्त्येकरसिको राजते नानको गुरुः॥
<MISSING_FIG href=”../books_images/U-IMG-1733577849ततततततत.jpg”/>
<MISSING_FIG href=”../books_images/U-IMG-1733577875ौौौ.jpg"/>
जितजेत्रोर्विरोधस्य, समाधानप्रचारकः।
शिष्यसङ्घसमुन्नेता, बभूव गुरुनानकः॥
भव्यभारते मोहम्मदीयानां दुर्दान्तशासने संस्थापिते वैक्रमाब्दे षोडशे शतके पराजितानां, प्रजाभूतानां,भारतवर्षीयाणां, सनातनवैदिकधर्मावलंबिनां, विजेतृृणां, विदेशीयानां शासकभूतानां, मोहम्मदीयानाञ्चधर्मविचारपरम्पराया विभिन्नसभ्यतायाश्च संघर्षेणास्यां पुण्यभूमौ महाविप्लवस्समजनि। विजितानां सभ्यता धर्मश्चविजेतृृणामाचारविचारेण निसर्गत एव पराभूयत। मोहम्मदीयशासकानामत्याचारेण बलप्रयोगेण चार्याणां सभ्यता धर्मश्चविशेषतो विनाशोन्मुखं जग्मतुः। सनातनधर्मानुयायिनो बलात्कारेण तथा त्वरितवेगेन मोहम्मदीयं धर्ममवललंबिरे यथा तूर्णमेव वैदिकधर्मस्य विलयश्शंक्यतेस्म।
धर्मसंकटेऽस्मिन् तथाविधस्य धर्मरक्षणसक्षणस्य धर्मोद्धारकस्याविर्भावोऽपेक्ष्यते, यश्शासकानां संक्षोभमजनयित्त्वैव द्वयोर्निन्नधर्मयो राद्धान्तानां विरोधपरिहारेण संधानेन च शान्तिं संस्थापयेत्। करुणावरुणालयस्य परमपितुः कृपाकटाक्षेण तथाभूतोधर्मोद्धारकस्सिक्स्वधर्मसंस्थापको गुरुनानकदेवस्तस्मिन् घोरधर्मविप्लवे प्रादुर्बभूव।
गुरुनानकदेवः षड्विंशत्युत्तरपञ्चदशशतमिते वैक्रमाब्दे (१५२६ वै०) कार्तिकशुक्लपूर्णिमायां प्रहरशेषायां शर्वर्यां ब्राह्मेमुहूर्त्ते पञ्चनददेशीये लाहौरज़िलान्तर्गते “तिलवण्डी” नामके ग्रामे वेदिवंशीयक्षत्रिय (स्वत्री) स्य कालूचंदस्य पुत्रो भूत्वा धरामिमां स्वजन्ममालञ्चकार। सुतजन्महर्षितः कालूचन्दो याचकेभ्यः प्रचुरं द्रव्यं दत्वा ज्योतिर्विदं हरिदयालुं नवजातशिशोः जन्मपत्रिकां लेखितुंप्रार्थयामास। ज्योतिर्विदा जन्मकुण्डल्यां ग्रहाणां स्थितिं विचार्य स शिशुर्यशस्वी, वर्चस्वी, मेधावी, धर्मिष्ठः, प्रतापी च समादिश्यत। तेन पितानन्दनिर्भरमानसो ज्योतिर्विदे यथोचितं दक्षिणां दत्त्वा तं विससर्ज। बालको नानकीति ज्येष्ठभगिन्याः नाम्नो नानकाख्यां जगाम। नानकश्चैकवर्षीय एवं पद्भ्यामतिष्ठत्सदन्तश्चाजायत। स सप्तवर्षीयो गोपालपण्डितान्नागरीवर्णमात्रिकां सैयदमोहम्मदहुसैनमौलवीयाच्च पारसीभाषामशिक्षत।
स बाल एवेश्वरभक्तो बभूव। बाल्यादेवैकेश्वरवादचर्चामकरोत्। सर्वेषां धर्माणाञ्च मूलमेकमद्वितीयं ब्रह्मैवामंस्त। प्राप्तकैशोरावस्थो नानकस्साधुसंगमे महानन्दमनुबभूव, तेषां संगतौ च स्वाधिकं कालं निनाय।
एकदा पित्रा लवणं क्रेतुमापणि प्रेषितस्सुपण्यमानेतुमादिष्टश्च नानको मार्गे संगतानां साधूनां भोजनशुश्रूषायां लवणार्थं दत्तं धनमव्ययीत्। लवणं विना रिक्तहस्तश्च गृहं प्रतिनिवृत्तः पित्रा निरीक्ष्यमाणां, भर्त्सितो, लवणानानयनकारणञ्च पृच्छ्यमानो ब्रूते—“भवदाज्ञानुसारं मया सुपण्यमेव क्रीतम्। साधुशुश्रूषाया उत्तमं पश्यं मया नाज्ञायि। तेन तद्धनं मया सुपण्यक्रीणन एवं व्ययितम्।” घटनयानया पिता तं संसारयात्राया अयोग्यमजानात्। अग्रेच वर्ण्यमाना घटना तस्य मतं सुदृढमकरोत्। एकदा नानकदेवः पित्रा पक्षिभ्यः परिपक्वशालिक्षेत्रस्य रक्षणे नियोजितः। नानकश्शालिपतितान् पक्षिणो दृष्ट्वा तानुद्दिश्य पद्यमिदमपठत्—
“राम दी चिड़िया रामदा खेत,
चुग चुग चिड़िया भरलो पेट।”
अर्था’द्रामस्यैव पक्षिणो रामस्यैव क्षेत्रमस्ति, तेन हे पक्षिणोऽन्नभक्षयित्वा स्वोदराणि पूरयत।" नानकस्य पिता क्षेत्रं पक्षिभिर्हृतसस्यन्दृष्ट्वा भृशं चुकोप, स्वपुत्रञ्च मूढं
धर्मशालां वा निर्मापयामास। तदेतदद्य यावदवशिष्यते, डेराबाबानानकनाम्ना चाख्यायते।
गुरुनानकदेवो धर्मप्रचारेणैव स्वसमयं निनाय। धर्मजिज्ञासवस्तत्समीपमागत्य, तदुपदेशामृतञ्च निपीय, परां शान्तिमुपाययुः। एकदा देवीदर्शनार्थं गच्छन् स्वत्रीकुलावतंसो लहनानामपुरुषो नानकोपदेशश्रवणार्थमाजगाम। तदुपदेशैस्स तस्य परमश्रद्धालुशिष्यतामवाप्य त्यक्तदेवीदर्शनवाञ्छस्तत्समीपमेवोवास। नानकदेवस्तं स्वधर्मे दीक्षितं प्रधानशिष्यत्वेनाङ्गीचकार। तञ्चानेकवारं बहुविधं परीक्ष्यापि स्वपुत्रेभ्योऽपि विशेषभक्तियुतं निरणैषीत्। स तमङ्गदनामानं कृत्वा स्वगुरुसिंहासनस्योत्तराधिकारिणमभ्यषिचत्।
नवत्युत्तरपञ्चदशशतमिते वैक्रमान्दे (१५९० वै०) कार्तिककृष्णैकादश्यां नानकदेवस्य जननी नश्वरदेहमहासीत्। विंशतिदिनेष्वतीतेषु तत्पितापि तामनुससार। पित्रोर्लोकान्तरयात्रायाः षड्वर्षेभ्यः परस्ताद् गुरुनानकदेवो द्विमासोनवर्षीयः षण्णवत्युतरपञ्चदशशतमिते वैक्रमाब्द (१५९६ वै० ) आश्विनकृष्णदशम्यां करतारपुरे दिवमारुरोह। शरीरात्प्राणोत्क्रमणं यावत्तस्य वाणी धर्मोपदेशनिरतासीत्।
गुरुनानकदेवो विनयावनतो भगवद्भक्त आसीत्त-
त्कृतानि पद्यानि भगवत्स्तुत्या विनयेन च परिपूरितानि सन्ति। तस्यैकं पद्यमेभिः पदैः प्रारभ्यते—
“तू है निरंकार, नानक बंदा तेरा।”
त्वं निराकारोऽसि, नानकस्तव दासोऽस्तीति। स हिंदूमोहम्मदीययोर्भेदबुद्धिं विहाय, मनुष्यमात्रं समममंस्त, तेन हिंदूमोहम्मदीयास्सर्वजातीयाः पुरुषास्तं समानं श्रद्दधिरे। स च समानरूपेणैव सर्वेषां धर्मारणामुत्कर्षापकर्षं प्रदर्शयामास। सर्वेषु धर्मेषु च सर्वव्यापकस्यैकस्य सत्यस्य प्रकाशं ददर्श। स वैदिकधर्मे प्रधानपक्षवेदान्तस्य “एकं ब्रह्म द्वितीयं नास्ती“ति सर्वाङ्गीणसिद्धान्तस्य, मोहम्मदीयधर्मस्य कलमाभिधमूलमन्त्रागतैकेश्वरवादेनैकवाक्यतां प्रदर्शयामास, “अहिंसा परमो धर्म” इति वैदिकधर्मराद्धान्तञ्चमोहम्मदीयानां प्रधानसम्प्रदायस्य सूफ़ीमतस्याहिंसावादेन संदधौ। सूफीसंप्रदायिनोऽप्यहिंसां परमं धर्मं मन्वते। तेषामेकं पारसी भाषापद्यं सुप्रसिद्धमेव।
“शुनीदं कि मर्दान-ए राह-ए ख़ुदा।
दिले दुश्मनाँहम न कर्दंद तंग॥”
एतत्पद्यस्यानुवादो यथा—
“परमात्मपथपान्थाः परिपन्थिनामपि चित्तं न पीटयन्तीति शृणोमि।” अहिंसाधर्मस्य विशेषानुरोधेनैव नानकदेवो मोहम्मदीयानां हिन्दूनाञ्च प्राणिहिंसनं सममेव न्यषेधत्।
मोहम्मदीयशासकानां महाविरोधस्य प्रधानकारणं, हिंदूनाञ्च नानामिथ्याविश्वासहेतुकं मूर्तिपूजनमपि प्रबलं निरस्य नानकदेवोनिराकारस्य निरञ्जनस्याकालपुरुषस्योपासनां प्राचीचरत्। स सर्वदेशीयान् सर्वजातीयाँश्च पुरुषान् तेषां परमपितुः परमात्मनः पुत्रत्वात्समानान् मत्वा स्वधर्मे स्वशिष्यत्वे च प्रवेशयामास। गुरुनानकदेवस्य शिक्षया नानादेवोपासकानामुच्चनीचभावेन परस्परं विवदमानानां, मोहम्मदीयात्याचारेणोत्पीडितानां पञ्चाम्बुदेशीयानां हिन्दूनां समूह एकेश्वरध्याननिरतानामन्योन्यं प्रति धृतभ्रातृभावानां, समानोद्देशेन प्रेरितानां, सम्मिलितानां, शिष्याणां समुदायोऽजायत। कालक्रमेणैष भक्तसमुदाय एव दशमगुरोर्गोविंदसिंहस्य नेतृत्वे तथा शक्तिशालिन्यां, क्षात्रधर्मावलंबिन्यां, प्रबलसेनायां पर्यणम्यत, यथा सा दुर्दान्तं मोहम्मदीयशासनं भारतेऽस्मिन्नुदमूलयत्। शिष्यसंप्रदायस्य वीरसाहसिककार्याणि भारतीयेतिवृत्ते च तत्कृतमहाविप्लवाः डॉक्टर गोकुलचंदनारंग (एम.ए., पी. एच. डी., बैरिस्टर-ऐट-लॉ) कृते “The Transformation of Sikhism” नामके ग्रन्थे सविस्तरं वर्णिताः। एतदुपादेयग्रन्थस्य हिंदीभाषान्तरं “सिक्खों का परिवर्तन” इति नाम्ना प्राकाश्यत। आङ्गलभाषायां मूलग्रन्थस्याध्ययनेन तदभावे भाषान्तरस्य पठनेन वा महता मनो-
विनोदेन सहैव तत्कालिकभारतीयेतिहासस्य सुविस्तृतं ज्ञानं लभ्येत।
गुरुनानकदेवेन शिष्येभ्य उपदिष्टानि पद्यानि ग्रन्थरूपेण संकलितान्यादिग्रन्थनाम्ना प्रसिद्धानि। सिक्खधर्मीयास्तं श्रुतिवत्प्रमाणीकुर्वन्ति। आदिग्रन्थस्यादिमो भागो “जपजी” ति कथ्यते। शिष्यैर्गायत्रीमन्त्रनिर्विशेषञ्चाद्रियते। “जपजी” आध्यात्मिकदिचारैः परिपूर्णोऽस्ति।
इति नानकचरितम्
<MISSING_FIG href=”../books_images/U-IMG-1733579929ििि.jpg”/>
<MISSING_FIG href="../books_images/U-IMG-1733580022yyyy.jpg"/>
“सुख दुख दोनोँसम कर जानैँ,
आउर मान अपमाना।
हरष शोक तेँरहैँअतीता,
तिन जग तत्व पछाना॥
अस्तुति निन्दा दोउ तियागै,
खोजैपद निरबाना।
जन नानक यह खेल कठिन है,
किनहू गुरुमुख जाना॥”
[ गुरुनानकः ]
(अस्यानुवादः)
<MISSING_FIG href="../books_images/U-IMG-1733580247yyyy.jpg"/>
संपत्तौ च विपत्तौ च, समा मानापमानयो,
र्हर्षशोकविनिर्मुक्ता, स्तत्त्वंवै यान्ति मानवाः।
निन्दां स्तुतिञ्च संत्यज्य, निर्वाणमभियान्ति ह,
पन्थास्तु दुर्गमो ह्येषः, समादिशति नानकः॥
<MISSING_FIG href="../books_images/U-IMG-1733580357yyyy.jpg"/>
चारु-चरितावली
<MISSING_FIG href="../books_images/U-IMG-1733589696ैैैतककतकरतपकर.jpg"/>
आर्यसमाजस्य प्रवर्तको दयानन्दर्षिः
<MISSING_FIG href="../books_images/U-IMG-1733580463ppp.jpg"/>
<MISSING_FIG href="../books_images/U-IMG-1733580525ll.jpg"/>
दयामयानन्दरसप्रसारी,
सरस्वतीस्वान्तविकासकारी।
अभूदवन्यां कलुषापहारी,
परोपकारी जगतो हिताय॥
वैक्रमैकोनविंशशताब्द्यां वर्षिष्ठे भारते वर्षे भारतीयधर्मः सभ्यता समाजश्च काञ्चित्कल्पनातीतामभूत-पूर्वांविलक्षणां विपरिणामावस्थां प्रत्यपद्यन्त। एकतश्शुद्धसनातनसरलवैदिकधर्मस्य मन्दाकिनी सुदीर्घमसंख्यं समयमतिवाह्यकपोलकल्पितनानानवीनमताडंबरैर्विस्तृतभूप्रदेशमतिक्रम्य मलिनतोयानेक-निम्नगाभिस्संगत्य गंगासागरे भागीरथी यथाविलाप्रयोज्या चाजायत। सनातनधर्मस्य ज्ञानकर्मोपासनाकाण्ड-त्रयस्य स्थानं मिथ्याविश्वासतान्त्रि-
काभिचारजडपूजाभिरध्यक्रियत। परमतत्वचिन्तनस्थाने मिथ्याविश्वासमूलका नानाधुनिकमतवादाः मनुष्याणां विचारपरम्परां व्यापुः। पुरुषा वैदिककर्मकाण्डसारभूतान् पञ्चमहायज्ञान् विहाय मारणमोहनोच्चाटनवशीकरणैस्स्वसमयं यापयामासुः। सर्वव्यापकपरमपितुरुपासनामपहायानेकाधुनिकदेवाराधने तत्परा बभूवुः। देवतायतनानि मादकद्रव्योन्मत्तैरनाचाररतैर्निरक्षरैः पूजारिभिः परिपूर्णानि। जना आचार्यादीनि सत्यतीर्थानि विस्मृत्य स्थलसलिलादिकमेव तीर्थानि मेनिरे। वैदिकवर्णव्यवस्था सर्वथा व्यलीयत। तत्स्थाने जन्ममात्रगर्विता, गुणकर्मरहिताः पुरुषापसदा ब्राह्मणाद्यभिमानितां जग्मुः। ब्रह्मचारिणस्संन्यासिनश्च नामत एवावाशिष्यन्त। तेषां वेषधारिणो, लक्षं, निरक्षरा, धराभारभूता, अकर्मण्या बकवृत्तयो बिडालवृत्तयश्चप्रजां लुलुण्ठुः। यथार्थयोगिनान्तु योगशास्त्र एव नामाश्रूयत। तेषामुपाधिमाक्षिप्य भिक्षणेनोदरदरीपूरकाणां जोगीनां पृथग्जातिरेवाविरासीत्। सर्वसम्मानासदाचार्यपदवी मृतकमुद्दिश्य दत्तं धनं गृह्णतो गता। समासतः प्रायस्सर्वे वैदिका आर्षाश्च प्रयोगा यथार्थतां त्यक्त्वा विपरीतत्वं गताः। सनातन वैदिकधर्मस्य स्वरूपमेव पर्यणम्यत।श्रुतवश्श्रुतावेव स्थितास्स्वरूपतस्तु विलयं गताः। तासां स्थाने नानाधुनिकनिबंधाः प्रमाणत्वेन
प्रचारमापुः। सर्वत्र रूढीनामेव राज्यं विराजते स्म।
अपरतस्तु योरपा95ख्यगौराङ्गमहाद्वीपादुत्थिता पाश्चात्यसभ्यतावात्या प्राचीनं पौरस्त्यं सर्वमेवावधूयास्तव्यस्तमकरोत्। “यथा राजा तथा प्रजा” इति न्यायेन विजिता जना गौराङ्गप्रभूणां सर्वाणि चरित्राणि निपुणमनुचक्रुः। भारताभिजना न केवलं सितकायानां वेशभूषां भाषामाहारं विहारञ्च प्रत्यवयवमङ्गीचक्रुः, प्रत्युत प्रत्येकस्मिन् विषये तेषां विचारसरणिमप्यनुसस्रुः। परस्सहस्रैर्ग्रन्थैस्संस्थापितमपि सत्यं पाश्चात्यपण्डितानां प्रमाणं विना सिद्धान्तकोटिं नारुरोह। भूगोल96-खगोल97-रसायन98-पदार्थविज्ञाना99दिसर्वासां विद्यानां संगीतशिल्पचित्रणादि-ललितकलानाञ्चाविष्कर्तारःपाश्चात्या एवमन्यन्त। पाश्चात्यसभ्यताया आलोकेनैव सर्वोविषयो निरीक्ष्यते स्म। तेषां हेतुवादेन च धर्माधर्मापि परीक्ष्यतेस्म। शिखासूत्राचमनमार्जनादीनि सर्वाणि धर्मकृत्यान्यपि कथं केन हेतुनेति निकर्षणाकष्यन्त। ऐहिकसुखमेव सर्वेषां धर्मकर्मणां निदानमबुद्ध्यत। यदा “अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनु"रिति
ब्राह्मणब्रुवाणामुक्तीश्श्रद्दधाना, रूढीनां परमोपासकाः, प्राचीना यस्य कस्यचिदपि देवगीर्ग्रन्थस्य वाक्यानि प्रत्येकप्रचलितकुप्रथाया मूर्खतायाश्च पोषकाणि प्रमाणानि मन्यन्ते स्म, तदा पाश्चात्यशिक्षादीक्षिता अर्वाचीना युवानो हेतुं विना साक्षाद् ब्रह्मणोऽपि वाक्यं न प्रतीयुः। परिणामतः प्रायोनवशिक्षितास्तरुणा निरीश्वरवादिनस्संदेहवादिनश्च सन्तः प्राचीन सभ्यतायास्सत्यसनातनधर्माच्च विमुखा अजायन्त, निजपूर्वपुरुषाँश्च वृद्धमूर्खा नाङ्गलभाषायामोल्डफ़ूल (Old fool) इति वा व्याहृत्योपाहसिषुः। अपरे केचित्पादरीणां प्रभावेण धनकलत्रादिप्रलोभिताः, केचित्पुराणानामसंवद्धकथाभिरुद्वेजिताः, केचिच्चोच्चकुलाभिमानिनामुच्चजातीयानामतितिरस्कारेण ग्लानिं गताः, ख्रीष्टीयमतदीक्षां गृहीत्वा प्रातःस्मरणीयानां श्रीरामकृष्णादीनां निन्दनेन निजजिह्वा दूषयामासुः। गोब्राह्मणरक्षकाणां समूहे ह्रासङ्गते गोभक्षकाणां संख्यावर्धत।
एवं दैनन्दिनं क्षीणकलेवरार्यजातिर्नाशोन्मुखा दधाव।प्राचीनभारतीयसभ्यता च प्रतिपदं तिरस्कारमनुभवन्ती निजप्राक्तनवैभवान्महिम्नश्च व्ययुज्यत। यार्या जातिर्वैदिकधर्मश्चाष्टशतवर्षाभिव्यापिना मोहम्मदीयशासकानां खड्गबलेनात्याचारेण च विलयं न प्रापतुस्तावधुना पाश्चात्यानां सम्मोहनास्त्रेण महानिद्रां गन्तुमुद्यतौ; परं
सर्वासां सभ्यतानामादिजनन्या आर्यसभ्यतायास्सर्वेषां धर्माणामादिगुरोर्वर्षिष्टस्य वैदिकधर्मस्य च तादृक्पशुमारं मरणं करुणावरुणालयस्य परमपितुस्सम्मतं नासीत्। तेन स दयामय आनन्दराशिर्दयानन्दार्षनिजव्यवस्थानुसारं धर्मसंरक्षणाय संसारे प्रादुरभावयत्।
श्रीमद्दयानन्दसरस्वतीमहोदय एकाशीत्युत्तराष्टादशशतमिते वैक्रमाब्दे (१८८१ वै०) गुर्जरौदीच्य सामवेदीय दालव्यगोत्रीय-ब्राह्मणकुलं जन्मनालञ्चकार। गुजरातप्रान्तान्तर्गतकाठियावाड़प्रदेशे मौर्वीराज्यस्थष्टङ्काराग्रामस्तस्य जन्मभूः। संप्रति टंकाराग्रामो बड़ौदाराज्यान्तर्गतोऽस्ति। तस्य पिता कर्सनजीलालजीत्रिबारीनामासीत्। तस्यपितुर्नाम कर्सनजी, पितामहश्च लालजीत्याख्यामभजत्। त्रिबारीतिपदं त्रिवेदीपदस्यापभ्रंशः। दयानन्दस्य पिता समृद्धो राज्यपदाधिकारी चासीत्, कुलक्रमागतं शैवमतञ्चावललंवा। स तावान्निष्ठावान् शिवोपासको यच्छिवपूजां विना जलमपि नाङ्गीचकार। समृद्धस्स कियत्सु स्थानेषु शिवमन्दिराण्यपि निर्मापयामास। दयानन्दजन्मसमये तत्पिता तं मूलशंकरनामानश्चक्रे।
मूलशङ्करोऽतीव मेधावी। पञ्चवर्षीय एव स वर्णपरिचयं प्राप्यानेकान् श्लोकान् स्तोत्राणि च कण्ठस्थान्यकरोत्। अष्टमे वर्षे तस्य मौञ्जीबन्धनं समजायत, तदा
प्रभृति स यथानियमं संध्यावन्दनादि कर्माकरोत्। तस्य पिता सामवेदीयब्राह्मणोऽपि शैवत्वात्तं यजुर्वेदसंहितामध्यापयामास, शैवसंप्रदायोचितं जपमन्त्रादिकं पार्थिवपूजनञ्चोपदिदेश।
चतुर्दशवर्षदेशीयो मूलशङ्करो वेदस्य प्रचुरं भागमध्यगच्छद्यजुःसंहिताञ्च कण्ठस्थामकरोत्। ततो घटनैका तस्य ज्ञानपिपासामत्यर्थं वर्धयामास। तस्य पिता शिवमन्त्रेण तस्य दीक्षां प्रतीक्षतेस्म। एतस्मिन्समये शिवरात्र्यागता। पिता पुत्रमुवाच “मूलशङ्कराद्य त्वां शिवमन्त्रेण दीक्षिष्ये। त्वं शिवमन्दिरे गत्वाद्य सर्वरात्रिं यावज्जागृही"ति। पितुराज्ञया मूलशङ्करो यावद्दिनमुपोवास, रात्रौ सत्यां पित्रा शिवालयं गतः। रात्रेर्द्वितीयस्य प्रहरस्य पूजां समाप्य पुरोहितो मन्दिरान्निरगच्छत्। जाग्रन्मूलशङ्करः। कियतो मूषकान् कैलासपतिं महादेवमारुह्य नैवेद्यं भक्षयतोऽपलीलया च विचरतो ददर्श। साधारणचित्तं न प्रभावयन्त्योऽपि क्षुद्राःघटना महात्मनां मनःसु दूरगामिनः प्रभावानुत्पादयन्ति। साधारणघटनाभिः। प्रभाविना महामनस आविष्कारकास्तडित्समाचार100–रयलयाना101–लोकचित्रणा102दिजगदुपकारकान् बहुविषयान् पुराविश्चक्रुरिति
नाविदितमितिवृत्तविदाम्। मूषकस्य शिवलिङ्गे विचरणात्मिका क्षुद्रा घटनापि मूलशङ्करस्य बालेऽपि विशाले हृदि महाप्रभावमजनयत्।
मूषकानेवमाचरतो दृष्ट्वा स पितरमपृच्छत्।
मूलशङ्करः—“किमेष एव देवादिदेवो महादेवः।”
पुत्रस्येमं विस्मापकं प्रश्नं श्रुत्वा पिता पप्रच्छ।
पिता—“मूलशङ्कर, किमिवैवं पृच्छसि।”
मूलशंकरः—“एषा मूर्तिस्सर्वशक्तिमतः परमेश्वरस्य चेदेते सर्वेऽपि मूषकास्तस्योपरि नैवं कदापि विचरेयुः।”
पिता तदुत्तरे स्वबुद्व्यनुसारं बहुविधानि समाधानानि ददौ, किन्तु मूलशंकरः पितुरुत्तरेण संतोषं न लेभे। एषैव घटना तस्यां रात्रौ मूर्तिपूजाविरोधमयस्य तद्धार्मिकपरिवर्तनस्य सूत्रपातमकरोद्यो न केवलं भारतं वर्षंकिन्तु समस्तशिक्षितसमाजमपि क्षोभयामास। तदैव मूलशंकरो व्रतं भक्त्वा स्वगृहं गतः।
कियद्दिनानन्तरं मूलशङ्करभगिनी रुजार्ता प्राणान् विससर्ज। भगिन्यामुपरतायां तस्य मनसि वैराग्यमुदियाय। “संसारेऽस्मिन् जीवमात्रं मृत्युना ग्रस्यत” इति स सम्यग्ज्ञातवान्। “तेनाद्यप्रभृत्येव तन्निवृत्तार्थं यतितव्यं।” तस्मिन्नेवं विचारयत्येव तस्यायुरेकोनविंशवर्षं (१९) व्यतीयाय। तदैव तस्य धर्मप्राणः, पण्डिताग्रगण्यः, पितृव्योऽपि
कालवशो बभूव। तस्य शोकसंतापो मूलशङ्करस्य मर्माण्याजघान। दारुणदुःखेनानेन तन्मनसि वैराग्यवन्हिर्दिदीपे। स च पितृव्यस्य मृतकशरीरसन्निधावेव यावज्जीवनं मृत्युञ्जयमहौषधिगवेषणामहाव्रतं स्वमनसि धारयामास।
तेन यत्नेन सङ्गोपितमपि वैराग्यवेगं तत्पिता प्रत्यक्षमकरोत्। पुत्रहृदये वैराग्यमुदितं दृष्ट्वा तत्पिता तं विवाहशृङ्खलया निगडितुमैच्छत्, किन्तु पितुस्सर्वा अपि चेष्टा विफलास्संजाताः। स स्वविवाहमस्वीकृत्य काशीङ्गत्वा विद्याध्ययनाय दृढं सङ्कल्पमकरोत्। तदर्थमेव पित्रेनिवेदयन्नपि तदनुमतिं न प्राप। तेन स द्व्युत्तरैकोनविंशशततमे वैक्रमाब्द (१९०२ वै०) एकस्मिन् दिवसेसायमेकविंशतिवर्षदेशीयः (२१) पित्रोर्बान्धवानाञ्च मोहं त्यक्त्वा गृहान्निर्जगाम।
बाल्यादेव योगसाधनानुरागी मूलशङ्करो गृहं त्यक्तेतस्ततः परिभ्रमन् सामलेनामग्रामं प्राप। एष ग्रामो मौर्वीरयलयानमार्गस्थान्मूलीनामस्टेशनाच्चतुःक्रोशोऽस्ति (४)। तत्र तदा लालाभक्तनामपुरुषस्य स्थाने बहवस्साधवस्संगताः। मूलशङ्करस्तत्र गत्वा तेषामन्यतमस्य कस्यचिद्ब्रह्मचारिणश्शिष्यात्वंस्वीचकार। शिष्यो भूत्वा मूलशंकरश्शुद्धचैतन्याख्यां जगाम। नाम्नि परिवर्तित एव तस्य वेशभूषापि परिववृते। स गृहस्थानां। वस्त्राणि त्यक्त्वा काषायवस्त्राणि धारयामास।
ततश्शुद्धचैतन्याख्यो मूलशङ्करो गुर्जर (गुजरात) देशेऽहमदाबादसमीपस्थं कोठगांगड़ानाम ग्रामं गत्वा तत्र च वैरागिनामधेयानां भिक्षुकाणां समूहेन संगतस्तेन चापहृतकौशेयशाटिकस्त्रिमासानि यावत्तत्रैवोषित्वा सिद्धपुरं प्राप। सिद्धपुरं राजपूतानामालवारयलयानस्य स्टेशनमस्ति, सरस्वतीनदीतीरे च वर्तते। अत्र प्रतिकार्तिकमासं सम्मेलनं भवति। यत्रौदीच्यब्राह्मणार्भकारणां मुण्डनसंस्कारो जायते। तत्र बहवस्साधवस्संन्यासिनो गच्छन्ति। धर्मपिपासुश्शुद्धचैतन्यस्स्वधर्मपिपासां प्रतिकर्तुंसिद्धपुरं समागतेषु साधुषु कमपि महात्मानमन्वियेष।
एकदा शुद्धचैतन्ये सिद्धपुरस्थनीलकण्ठदेवमंदिर आसीने तत्पिता कतिपयलगुडहस्तैस्सैनिकैस्समं तत्रागतः। तदनुज्ञां विना गृहात्पलायितं स्वपुत्रं गृहीतकाषायं दृष्ट्वा भृशं क्रुद्धस्तं स्वगृहं प्रतिनिवर्तितुमादिदेश। परवशः शुद्धचैतन्योऽनिच्छन्नपि पितुराज्ञया गृहं गन्तुं सन्नद्धोऽभूत्। पुनश्च पुत्रो मा पलायेतेति भिया पिता तं प्रहरिकाणां दृढरक्षायामस्थापयत्। शुद्धचैतन्यस्संसारसुखं परित्यज्य, योगिभिराकाङ्क्षितं शाश्वतं सुखमन्विष्यन्, निर्गतः, पितुर्बन्धान्मोक्षं लब्धुं सदैवावसरं मार्गयामास।
दैवेनैकदा सर्वप्रहरिका निद्रापरवशास्संजाताः। एतदवसरं लब्ध्वा शुद्धचैतन्यः पलायाञ्चक्रे। किन्तु जागृताःप्रहरिकाः पुनर्मा गृह्णीयुरिति भिया नेदीयांसं सघनं वटवृक्षमारुह्य तत्पल्लवानामन्तरलीयत। स द्वित्राणि दिनानि निराहारोऽवातिष्ठत। दिनावधि वृक्षारूढस्तिरोहितो रात्रौ मार्गमनुसरन्, निरापत्स्थानं प्राप्तः, रात्रिंदिवं प्रायात्। सोऽहमदाबादमार्गेण बड़ौदां प्राप। तत्र च कियद्दिनानि चैतन्यमठमुषित्वा तत्रस्थानां वेदान्तिनां सङ्गमेनाद्वैतवादमङ्गीचकार। ततश्च नर्मदातटस्थं चाणौदकल्याणीनामकस्थानमगच्छत्। तत्रोषित्वा स परमानन्दपरमहंसात् वेदान्तसारवेदान्तपरिभाषादीनि पुस्तकानि पपाठ। तदैव पूर्णानन्दसरस्वतीनामकः कश्चिद्दाक्षिणात्यदण्डी शृङ्गेरीमठादागत्य चाणौदादनतिदूरे चालोदरग्रामसमीपे विजन उषितुमारेभे। शुद्धचैतन्यः पूर्णानन्दं गत्वा युवावस्थायामेव तस्माद्यथाशास्त्रं संन्यासदीक्षां जग्राह। तुरीयाश्रमी सन्त्स दयानन्दसरखतीति संज्ञां लेभे। ततो दयानन्दो व्यासाश्रमं गत्वा श्रीयोगानन्दस्वामिनो योगशास्त्रमध्यैष्ट। ततश्छिन्नाड़ास्थाने कृष्णशास्त्रिणो व्याकरणमधिगम्य पुनश्च चाणौदकल्याणीं प्रतिनिवृत्त्य ज्वालानन्दपुरीशिवानन्दगिरिभ्यां योगक्रियामशिक्षत। ताभ्यां योगिभ्यां सार्धं दयानन्दोऽहमदा
बादं गत्वा दुग्धेश्वरमहादेवमंदिरे स्थितो विशेषेण योगसाधनाया अभ्यासमकरोत्। दयानन्दो यावज्जीवनं योगक्रियासिद्ध्यै तयोर्योगिनोः कृतज्ञतां मैने। अहमदाबादनगरात्सोऽर्बुदगिरिङ्गत्वा तत्र पर्वतशृङ्गेषु श्रीभवानीगिरियोगिनो विशेषयोगदक्षतां लेभे।
एवं त्रिंशद्वर्षायुपर्यन्तं (३०) दयानन्दो नानास्थानेषु परिभ्रमन्, विविधाश्चविद्या अभ्यस्यन्, हरिद्वारतीर्थमागच्छत्। द्वादशोत्तरैकोनविंशतिशततमे वैक्रमाब्दे (१९१२ वै०) हरिद्वारनगरे कुम्भसम्मेलनं संजातम्। हरिद्वारकुम्भसम्मेलने सदैव देशाद्देशादागत्य संन्यासिनस्साधवश्च संगच्छन्ते। दयानन्दः प्रागुक्तहरिद्वारकुम्भसम्मेलनं प्रथमवारं गत्वा बहुदर्शिनां ज्ञानिनां साधूनां सत्सङ्गलाभमविन्दत। दयानन्द आकुम्भसमाप्ति साधुसत्सङ्गातिरिक्तकाले चण्डीपर्वतस्योपत्यकायां विजने वने योगमभ्यस्यत्। कुम्भं समाप्य स हृषीकेशं ययौ। हृषीकेशतपोवने भागीरथीपुण्यतीरे बहवः कृतविद्या, वैखानसास्सिद्धा, योगिनश्च निवसन्ति। दयानन्दस्तेषां सङ्गतौ स्वतपोराशिं योगविद्याञ्चाभिवर्धयन् किञ्चित्कालं हृषीकेशमुषित्वोत्तराखण्डस्य नानाप्रसिद्धस्थानेषु केदारबदरीरुद्रप्रयागादिष्वभ्रमीत्। उत्तराखण्डे टोढ़ीनगरे
दयानन्दस्तान्त्रिकाणां तान्त्रिकक्रियाणाञ्च प्रथमं परिचयं प्राप्य जुगुप्सां खेदञ्चानुबभूव।
एवमेव स सततं यात्रां कुर्वन् हिमाद्रेरुपत्यकायां काशीपुरमार्गेण द्रोणसागरं प्राप्य शरदृतुं तत्रैव यापयामास। ततो मुरादावादनगरं संमलं गणमुक्तोश्वरञ्चाटित्वानुगङ्गं गच्छन् फ़र्रुख़ाबादं प्राप्य ततः काशीं गतस्तत्र गङ्गावरुणयोस्सङ्गमे गुहायां कञ्चित्कालमतिवाह्य मिर्ज़ापुरप्रान्ते नर्मदानदीतीरस्थं वनप्रदेशं प्रविवेश। नर्मदातटे त्रीणि वर्षाणि परिभ्रमन्ननेकसाधूनां सङ्गेन च ज्ञानर्मजयन् सप्तदशोत्तरैकोनविंशतिशततमे वैक्रमाब्दे (१९१७ वै०) कार्तिकसुदि यमद्वितीयायां मथुरामगच्छत्। मथुरागमनकाले दयानन्दः षट्त्रिंशद्वर्षीय (३६) आसीत्।
मथुरायां स आर्षग्रन्थानां परमश्रद्धालुना, पाणिनीयव्याकरणपारङ्गतेन, दण्डिना, विरजानन्देन संगतः। तदा दण्डी विरजानन्द एकाशीतिवर्षवयोऽत्यक्रामत्। पञ्चवर्षीयस्यैव (५) तस्य दृष्टिस्साङ्घातिकशीतलारोगेण प्राणश्यत्। किन्तु तस्य धारणा असाधारणा। स वेदादि सकलशास्त्राणि गुरुमुखाच्छ्रुत्वैव कण्ठाग्राण्यकरोज्जनसाधारणेषु च प्रज्ञाचक्षुरिति प्रसिद्धिं प्राप। दयानन्दस्तस्यैव महापण्डितदण्डिन-श्शिष्यतां जग्राह। स यदा विद्यार्थिरूपेण विरजानन्दं गतस्तदा विरजानन्दस्तमु-
वाच—“वत्स, त्वमद्यावधि प्रायो मनुष्यरचितग्रन्थानेव पठितवानसि। यावत्तव हृदि मनुष्यरचितग्रन्थप्रभावस्तिष्ठति तावत्तव मनस्यार्षग्रन्थानां मर्म प्रवेशं प्रतिष्ठाञ्च लब्धुं न शक्ष्यति। अतो मनुष्यकृतग्रन्थान्परित्यज्य मत्सविध आदित आर्षग्रन्थाध्ययनं कुरु।” विंशत्युत्तरैकोनविंशतिशततमवैक्रमाब्दस्य (१९२० वै०) वैशाखं यावत्सार्धवर्षयुग्मं दयानन्दो विरजानन्दसविध आर्षविद्यामधीत्य योगशिक्षाञ्च प्राप्य मथुराया गन्तुमाचार्यानुमतिं ययाचे, गुरुदक्षिणायै चादेष्टुं तं प्रार्थयामास। प्रसन्नो विरजानन्दोऽवदत्—“वत्स, यदि त्वं गुरुदक्षिणां दित्ससि तर्हि मदीप्सिता गुरुदक्षिणैवंरूपा। “संसाराद्वेदविद्या विलुप्ता जाता। सनातनवैदिकधर्मस्य स्थाने नवीनास्संप्रदायाः प्रचलन्ति। आर्षग्रन्थानां स्थानं मनुष्यकृतैः कपोलकल्पितैर्ग्रन्थैः गृहीतम्। त्वं संसारे गत्वा मत्तो। गृहीताया विद्यायाः प्रचारं कुरु। वेदस्यार्षग्रन्थानाञ्चाध्ययनाध्यापनशैलीं प्रवर्तय। नवीनमतमतान्तराणि निरस्य श्रुतिप्रतिपादितं सनातनधर्मं स्थापय”।”
दयानन्दो गुरोराज्ञां शिरसा गृहीत्वा तदनुमतिञ्च लब्ध्वा मथुराया आगरानगरञ्जगाम। तत्र च वर्षद्वयमुषित्वा सन्ध्यावन्दनादि धर्ममुपदिदेश \। दयानन्दस्य मुख्यधर्मोपदेशस्स्वगुरुदेवाज्ञानुसारं प्रतिमापूजानिरसनपूर्वकं
परमेशोपासनं वैदिकार्षग्रन्थानाञ्चाध्ययनाध्यापनप्रवर्तनमासीत्। स परमेशोपासनास्थाने मृर्तिपूजाया घोरविरोधञ्चक्रे, संसारे मूर्तिपूजानिराकरणमेव च स्वमुख्यकर्तव्यं मनुते स्म। स वेदादृतेऽन्यत्किञ्चिदपि न श्रद्दधे।
दयानन्दो मूर्तिपूजाया असारत्वं प्रतिपादयितुं प्रस्थितो, भारतवर्षस्य प्रायस्सर्वाणि प्रसिद्धानि नगराणि पर्यटन्, भारतस्य प्राचीनविद्यापीठं, सर्वधर्माणां केन्द्रं, सुप्रसिद्धां, काशीमाजगाम, तत्रस्थैश्चपण्डितैस्तद्विषयमधिकृत्य शास्त्रार्थमकरोत्। षड्विंशत्युतरैकोनविंशतिशतमिते वैक्रमाब्द ( १९२६ वै०), एकोनसप्तत्युत्तराष्टादशशतमिते ख्रीष्टाब्दे (१८६९ ई०), नवंबरमासस्य षोडशे दिवसे, तृतीयप्रहरे, त्रिवादनसमय, असीघट्टेदुर्गाकुण्डनिकटवर्तिन्यानन्दोद्याने, विचारसभाया अधिवेशनं संजातम्। काशीनरेशसहिता काशीस्थविद्वन्मण्डली कौपीनमात्रधारिणा, भस्मावगुण्ठितशरीरेणैकाकिना, दयानन्देन शास्त्रार्थे प्रववृते। प्रत्नकुमारनन्दिन्यास्संपादको निरुक्तालोचनादिबहुवैदिकग्रन्थानां प्रणेता, पण्डितप्रवरश्श्रीसत्यव्रतसामश्रमी तटस्थरूपेण तच्छास्त्रार्थसभां शोभयामास। स स्वस्याः पत्रिकायाः प्रत्नकुमारनन्दिन्या एकोनसप्तत्युत्तराष्टादशशतमितख्रीष्टाब्दीयदिसंबर मासस्याष्टाविंशेंऽके (दिसंबर १८६९ई०, अंक २८ ) स्वश्रवणविषयीकृतं स्वनेत्रातिथिभूतञ्च।
सर्वं वृत्तान्तं सविस्तरं लिलेख। धर्मशास्त्रचिन्ताचणैश्शास्त्रपर्यवेक्षकैः प्रेक्षणीयस्स विवादस्तस्यां पत्रिकायाम्।
दयानन्दः पौनःपुन्येन सप्तवारं काशीङ्गत्वा स्वधर्मं प्रचारयामास। एवमेव प्राच्यां प्रचारयात्राङ्कुर्वन्, बिहार प्रान्तस्य पाटलीपुत्रादिनगराणि परिभ्रमन्, एकोनत्रिंशदुत्तरकोनत्रिंशतिशतमिते वैक्रमाब्दे (१९२९वै०), द्विसप्तत्युत्तराष्टादशशतमिते ख्रीष्टाब्दे (१८७२ ई०), दिसम्बरमासस्य त्रिंशे दिवसे, दयानन्दः कलिकातानगरीमगमत्। तत्र च साधारणब्रह्मसमाजाचार्येण केशवचन्द्रसेनेनादिब्रह्मसमाजाध्यक्षेण महर्षिदेवेन्द्रनाथठक्कुरेण च धर्मचर्चामकरोत्। अद्यावधि दयानन्दो देवगिरायामेव भाषणमकरोत्कौपीनमात्रञ्च दधार, भस्मना च स्वशरीरमवागुण्ठयत्, प्रायेण चानुगङ्गमेव परिभ्रमन् धर्ममुपदिदेश। कलिकातायां श्रीकेशवचन्द्रसेनसंमत्या सोऽद्यप्रभृति वस्त्रधारणं, लोकभाषायां संभाषणं, रयलयानेन यात्रां, पुस्तकमुद्रापणं, पाश्चात्यसरण्या धर्मप्रचारञ्चोरेभे।
एवं भारतस्य नानानगरेषु धर्मप्रचारं विदधत्स्वचतुर्थाश्रमधर्ममनुपालयंश्चान्ते दयानन्दो हिंदूनरेशान्स्वधर्मे दीक्षितुं राजपुत्रदेशमायात्। सूर्यवंशदिवाकरं, हिंदुआसूर्यं, मर्यादापुरुषोत्तमश्रीरामचन्द्रपुत्रस्य लवस्य वंशावतं-
समुदयपुरनरेशं, श्रीसज्जनसिंहं स्वशिष्यं विधाय मरुदेशं (मेवाड़) जोधपुरमाययौ। मरुदेशाधिपतिं योधपुरनरेशं श्रीयशवन्तसिहं श्रीमद्दयानन्दोपदेशेन प्रभावितं दृष्ट्वातस्थास्स्वार्थैकपरायणा दुराचारिणस्स्वस्वार्थनाशेन परमं चुक्षुभिरे, स्वार्थसिद्धौ च श्रीमद्दयानन्दं कण्टकं परिकल्प्य तत्पाचकेनाभिसंदधानास्तं गरलं पाययामासुः। गरलेन रुजार्तो दयानन्दस्स्वास्थ्यलाभाय ततोऽर्बुदगिरिं गतः। तस्मिन्स्थाने विशेषं न प्राप्नुवन् चिकित्साया अजयमेरु (अजमेर) नगरमियाय। अन्तेऽअजमेरनगर एव चत्वारिंशदुत्तरैकोनविंशतिशतमिते वैक्रमाब्दे (१९४० वै०) त्र्यशीत्युत्तराष्टादशशतमिते ख्रीष्टाब्द (१८८३ ई०) अक्टूबरमासस्य त्रिंशे दिवसे, दीपमालिकायाममायां, सूर्येण सार्धं प्राचीनविद्यायास्सूर्यो दयानन्दो दिवमारुरोह। तदात्मा योगेन तनुं त्यक्त्वा परमानन्दमलभत परमानन्दे सच्चिदानन्दे। मृत्युसमये स एकोनषष्टिवर्षदेशीय (५९) आसीत्।
बहुस्थानपरिभ्रमणेनानेकसाधुसंगमेन च श्रीमद्दयानन्दो योगसमाधिगतान् बहूनभिनवविषयानध्यगच्छत्। आदिमवस्थायां योगक्रियाणां संसिद्धौ तपश्चर्यायाञ्च तस्याधिकांशसमयो यातिस्म। एकदा स योगविषयकं नाडीचक्रनामकं कञ्चिद्ग्रन्थमध्यगीष्ट। गङ्गातीरे परि-
भ्रमंश्च नद्योह्यमानं कञ्चिच्छवं दृष्ट्वा, मनुष्यशरीरे तद्ग्रन्थानुसारं नाडीचक्रमस्ति न वेति परीक्षितुं संजातकुतूहलस्सहसा नद्यामुत्सुत्य, शवञ्चाकृष्य, तटमानिनाय। शवञ्च छुरिकथा विदार्य, तस्मिन् पुस्तकलिखितानुसारनाडीचक्रमलब्ध्वा, तत्पुस्तकं नद्यां चिक्षेपैतत्तस्य सत्यपक्षपातस्योदाहरणम्।
मथुरायां श्रीविरजानन्दादध्ययनं समाप्य स स्वसमयं प्रायेण धर्मोपदेशेन शास्त्रार्थेन ग्रन्थप्रणयनेन च निनाय। सर्वप्रथमं स सत्यार्थप्रकाशनामकं हिंदीभाषामयं ग्रन्थं प्रणिनाय। तत्र स प्राचीनवैदिकपथं विशदीकृत्य देशीयविदेशीयानि मतमतान्तराणि संप्रदायांश्च सविस्तरं समालोचिष्टावसाने च स्वमन्तव्यामन्तव्यानि सविस्तरमुपसंजहार, तेषु मुख्यानां पद्यात्मकस्य सुरगिरानुवादस्य पण्डितप्रकाण्डेन श्रीभीमसेनशर्मणा प्रणीतस्य कतिचिन्मनोहराणि पद्यान्यत्र कृतज्ञतापूर्वकं लिख्यन्ते।
“गुणाः सत्या यस्यापि च सकलकर्माणि जगतः,
समुत्पत्यादीनि स्वनिहितविभुत्त्वादिकवतः।
निराकारः शुद्धः प्रिय इह सदाद्यन्तरहितः,
तमीशं मन्यन्तेऽहितहितकरं शोभनधियः॥ १ ॥
यश्चेतनोऽल्पज्ञतया च युक्तो,
द्वेषप्रयत्नादिगुणान्वितो यः।
नित्यो विभुः स्यादथ गौतमीये,
जीवो निरुक्तः श्रुतिशास्त्रसिद्धः॥ २ ॥
रूपस्य वैधर्म्यबलाद्वदन्ति,
जीवेशयोर्भेदमिह प्रवीणाः।
साधर्म्यरूपेणतयोरभेदं,
व्याप्यत्वसंव्यापनधर्महेतोः॥ ३ ॥
विभुरहो कुरुते जगतीगतम्,
जडपदार्थवशेन समन्ततः।
न हि जडे स्वत एव च संस्थितम्,
स्वरचनानिपुणत्वमितीरितम्॥ ४ ॥
यस्य स्वरूपं तु तदीयशिष्टेः,
संपालनं पक्षविपातशून्यम्।
न्याय्यं प्रमाणैश्च परीक्षितं यत्,
तं श्रेष्ठधर्मं प्रवदन्ति सन्तः॥ ५ ॥
योऽर्ज्यते धर्ममाश्रित्य, बुधैः सोऽर्थोऽभिधीयते।
अधर्मादर्थसंसिद्धा, वनर्थः परिकथ्यते॥ ६ ॥
सर्वां दुराचाररतिं विधूय,
जन्मादिदुःखस्य समुद्रमेतम्।
सर्वेश्वरं तं सुखरूपमाप्य,
भद्रे स्थितिः सा कथिता विमुक्तिः॥ ७ ॥
देवेति संज्ञा सुधियां यथेहा-,
सुरेति संज्ञाऽविदुषां तथैव।
पापे रतो राक्षस इत्यथो पि-,
शाचेति दुष्टाचरणे रतस्य॥ ८ ॥
संमाननं जगति यत्खलु विद्वदादे-,
स्तद्ददेवपूजनमिति प्रविचार्यते ज्ञैः।
तन्मूर्तिषु प्रकथितैव सुपूज्यबुद्धि,
स्तद्भिन्नके जडपदार्थगणे न कल्प्या॥ ९ ॥
विद्याप्रकाशो नितरां यया स्या-,
दज्ञाननाशोऽपि च सैव शिक्षा॥ १० ॥
देहात्मनोः कृत्यगणो विशुद्धयै,
निषेकतोऽन्त्येष्टिक्रियावधिश्च।
संस्कारनामा प्रथितः स एव,
मनूक्तशास्त्रेऽभिहितो निषेव्यः॥ ११ ॥”
सत्यार्थप्रकाशो जनानां धर्माभिमुखीकरणे तत्प्रदर्शितधर्मप्रसारे च प्रबलसाधनबभूव। तस्यानुवादो बङ्गाङ्गलगुर्जरतैलङ्गतामिलादिबहुभापास्वक्रियत, मूलग्रन्थस्य चाद्यावधि लक्षं पुस्तकानि प्राकाश्यन्त।
स श्रुतीनां विवेचने शब्दानां यौगिकार्थांप्राचीनामार्षशैलीं पुनः प्रवर्तयामास, तदनुसारञ्च ऋग्यजुर्वेदयोर्भाष्यमकरोत्। तत्पूर्वं स स्वीयां वेदभाष्यकरणशैलीं स्वानुमतवेदविषयञ्चाधिकृत्य वेदभाष्यभूमिकानामकं पुस्तकं देवगिरा रचयामास।
गोरक्षायां तस्य महाप्रयत्न आसीत्। स गोबधावरोधाय समस्तभारतीयलक्षाधिकजनैर्हस्ताक्षरितां प्रार्थनां भारतराजराजेश्वर्या विक्टोरियामहोदयायास्सेवायां प्रैषयत्। प्रश्नमेतं स धर्मदृष्ट्या सार्धमर्थदृष्ट्यापि विवेचयामास। स्वविवेचनाञ्च स्वप्रख्यातपुस्तके**“गोकरुणानिधि**“नामके निबबंध।
स स्वजीवनं सनातनवैदिकधर्मसंस्थापनायां नवीननानासंप्रदायैश्च तदुद्धारकरणे यापयामास। एतस्मिन्घोरकलिकालेवैदिकधर्मस्योद्धारणादेव तदनुयायिनस्तं वैदिकधर्मोद्धारकमृषिं कथयन्ति। श्रीमद्दयानन्दर्षिः पाश्चात्यानामेव प्रबलयुक्तिजालैर्न केवलं वेदानामनादित्वमपौरुषेयत्वं सर्वमान्यत्वं तथा वैदिकधर्मकृत्यानां सुसङ्गतत्वमपरिहार्यत्वञ्च स्थापयामास, प्रत्युत स भारतीयसभ्यतामपि सर्वासां विदेशीयसभ्यतानामादिजननीं, परिपोषिकां, शिक्षिकां वैदिकधर्मञ्च सर्वेषां धर्माणामादिमं स्रोतश्चाकाट्यप्रमाणैर्निरणैषीत्। स प्रगाढमोहनिद्रानिमग्नान् भारतीयानुद्बोध्येदमबोधयद्यत्तेषां प्राचीना, सरला, विलासविमुखा, मितव्ययसाध्या, सभ्यतैव तेषां कल्याणाय; अर्वाचीना, चपलाचाकचक्या, भौगैकपरायणा, बहुव्यया, विदेशीयसभ्यता तु परनारीव तेषां पातायैव। वैदिकरसनातनोधर्मस्तेषामैहिकामुष्मिकहितसाधको, नानादोषदूषितस्तर्कनिकषासहोऽसंबद्धः परधर्मस्तु परद्रव्यमिव भयावह एव। आधुनिकसंप्रदायिनो यैरस्त्रैस्सनातनवैदिकधर्ममाचक्रमुश्श्रीमद्दयानन्दस्तैरेव प्रबलायुधैस्तानभियुज्य तेषां निस्सारतां प्रत्यपादयत्।
स उन्मुखगामिनं संसारस्य प्रवाहमेव पर्यवर्तयत्। ये नवशिक्षिता निजसभ्यताधर्मौत्याज्यौमन्यमाना-
स्तौ जहसुर्जुगुप्साञ्चक्रुश्च, त एव दयानन्दर्षिप्रौढिवादविवशास्तयोरभिमानिनोभूत्वा तयोर्ग्रहणेनैव निजगौरवं मेनिरे। तेऽद्य दयानन्दर्षेः कृपाकटाक्षेणात्मनो वैदिकार्यान् ब्रुवाणास्स्वसभ्यतामाद्रियाणास्सुरभारतीञ्चाधीया-नास्स्वदेशभाषां, भूपां, वेशं व्यवहरमाणाः परां प्रतिष्ठां यान्ति। वेदस्यार्याणां प्राचीनसंस्थानाञ्च स एतावान् पक्षपाती बभूव, यत्कतिपये नवीनाः पाश्चात्यास्तं वेदस्योन्मादीति प्रख्यापयामासुः।
स विश्वव्यापकवैदिकधर्मं श्रद्दधानोऽपि, वसुधैव कुटुंबकमिति सिद्धान्तमनुसरन्नपि, स्वमातृभूमौ महास्थावानासीत्। भारतभूमेर्भाषायाः वेशभूषायाश्चपरमभक्त आसीत्। गुर्जरदेशीयोऽपि स स्वरचितानधिकांशान् ग्रन्थान् भारतदेशव्यापिकायां हिंदीभाषायां जग्रथे। तद्भाषाञ्चार्यभाषेति नाम्ना व्याजहार।
योरपद्वीपमगतोऽपि, तद्देशभाषानभिज्ञोऽपि, पाश्चात्यैस्संपर्करहितोऽपि, नानाभिनवाः प्रथाः प्रतिवदन्नपि, सोऽद्य प्रसारितानि विविधसंशोधनानि स्वजीवनसमय एव स्वग्रन्थेषु पुपोष। स्वराज्यस्य, सामाजिकसंशोधनानां, मातृभाषायाःस्वदेशीयवस्तुग्रहणस्य च पक्षपोषणमेतेषामुदाहरणम्।
स यावज्जीवनं ब्रह्मचर्यव्रतवारणेन विलासितामये
समयेऽस्मिन् ब्रह्मचर्यस्य महत्वं पुनरस्थापयद्, वैदिकवर्णाश्रमव्यवस्थाञ्च व्यवस्थापयत्। वैदिकधर्ममधिकृत्य विविधविषयमयास्तत्प्रणीताश्चत्वारिंशद्ग्रन्थाः विद्यन्ते। तेषां मुद्रणार्थं प्रकाशनार्थञ्च स वैदिकयन्त्रालयं निर्ममे, योऽद्यावध्यजमेरनगरे विद्यते।
निजसिद्धान्तानां प्रचारार्थं स आर्यसमाजं संस्थापयामास। आर्यसमाजस्योद्देश्यद्योतका दश नियमाश्च तेन व्यरच्यन्त। तेषां देववाणीमयः सुशोभनशिखरिणीबद्धोऽनुवादस्तस्य योग्यशिष्येण श्रीज्वालादत्तपण्डितप्रवरेण विरचितोऽधस्तादुद्ध्रियते।
“प्रपश्यन् देशस्यावनतिमतिदुःखेन मतिमान्,
दयानन्दस्वामी, सदयहृदयोऽभूद्यतिवरः।
कथञ्चिद्देशस्योन्नतिरिति विचिन्त्यार्यसमितेः,
सदुद्देश्यैर्दिग्भिर्निजसदुपदेशं द्रुतमदात्॥ १ ॥
तदुद्देश्यान् देशोन्नतिसुखकरान् संस्कृतगिरा,
ब्रवीम्येतान् विद्यारसिकजनमोदाय सकलान्।
अविद्याजन्यं यद्दुरितमपहन्तृृंश्चपठतां,
ग्रहीतृृणां मूलं सततमनुकूलं श्रुतिगिराम्॥ २ ॥
(१) प्रतीता या विद्या ऋृतमिति समस्ता परमतः,
प्रतीयन्ते ताभिः प्रियतमपदार्था इह च ये।
परं मूलन्तेषां प्रथममखिलानामविरतं,
परेशः सर्वेशः श्रुतिनिकर इत्थं प्रवदति॥ ३ ॥
(२) सदीशश्चित्पूतोऽतनुरनुपमानादनयकृत्,
स सर्वान्तर्यामी भयमृतिजराद्यन्तरहितः।
उपास्यः सर्वेषां धृतिरविकृतिः सृष्टिकृदजो,
दयालुः सर्वव्यापकनिखिलशक्तिर्ध्रुव इति॥४॥
(३)ऋतानां विद्यानां श्रुतिसमुदितिः पुस्तकमिति,
श्रुतीनां सर्वासामभिपठनमध्यापनमनु।
विधेयं सर्वैस्तच्छ्रवणमनिश श्रावणमथो,
अय सर्वार्याणां परमधर्मोऽस्ति व्यवसितः॥५॥
(४) समुद्यत्नैः सत्यग्रहणकरणे सम्यगुचितं,
सदा भाव्यं सर्वैरनृतपरिहानौ सुहृदयैः।
(५) अलं कार्याः कामा अनिशमभिधर्मानुसरणा,
विमृश्यैतत्सर्वं किमृतमनुतञ्चेह पुरतः॥६॥
(६) समाजस्यास्यैतज्जगदुपकृतेरेव करणं,
परोद्देश्यः सर्वैरनिशमवधेयो नरवरैः।
समुद्भाव्या भव्या त्रिषु समुचितासून्नतिरतः,
सुदक्षैः संलक्ष्यैः समितिवपुरात्मस्विति सखे॥७॥
(७) यथायोग्यं सर्वै सह सकलजातीयमनुजैः,
प्रवर्त्यं सत्प्रीत्या व्यवहृतिषु धर्मानुसरणम्।
(८) अविद्याया नाशः प्रियतम, विधेयो निजबलै,
रलं विद्यावृद्धि, सततमभिकार्या सुकृतिभिः॥८॥
(६) न वै संतोष्टव्यं निजनिजयथेष्टोन्नतिवशात्,
परं प्रत्येकेन प्रतिजनविधेयोन्नतिविधौ।
सुमन्तव्यं स्वीयोन्नतिरिति च सामाजिकजनाः,
समाजस्योद्दिष्टो नियमदशके ह्येष नवमः॥९॥
(१०) पराधीना वृत्तिः सकलमनुजैः सर्वसुहितं,
विधातुं संसेव्या प्रवरनियमस्यावनविधौ।
परं प्रत्येकेन प्रसभहितकारिण्यविरतं,
स्वतन्त्राः स्युः सर्वे नियमदशमप्रेरितजना॥१० ॥”
आर्यसमाजस्य परःशताः शाखास्समस्ते भारते वर्षे दीपान्तरेषु च संस्थितास्तनिर्दिष्टं धर्मं प्रचारयन्ति। आर्यसमाजेनानेनासंख्यानि गुरुकुलानि, कालिजाः, पाठशाला, अनाथालयाः, पुस्तकालयाश्च संस्थापिताः, संसारस्य च महोपकारो व्यधायि, भारतीयप्राचीनसभ्यताया वैदिक धर्मस्य च लुप्तप्रायं गौरवं पुनः प्रत्यष्ठापि।
कः पद्मिनीनां वद तिग्मदीधिति-,
र्धर्मः परः कः कविवाचि कः स्थितः।
का कण्ठ-भूषा न यमाद् बिभेति कः,
स्वामी दयानन्द सरस्वती यमी॥
इति श्रीमद्दयानन्दचरितम्
समाप्तञ्चैतद्
धर्मसंस्थापकसप्तकम्
प्रथमं प्रकरणम्
चारुचरितावल्याम्
शुभं भूयात्
———
विज्ञप्तिः
चारुचरितावलीयं निम्नलिखितस्थानस्थपुरुषेभ्यो मनीआर्डरप्रेषितेन नियतमूल्येनाथवा वी० पी० द्वारा प्राप्यते—
( १ ) (ग्रन्थप्रणेता) श्रीसिद्धगोपालकाव्यतीर्थः
हल्दौर, (ज़िला) बिजनौर
( २ ) श्रीजानकीप्रसाद जी, मैनेजर आर्यपुस्तकालय
हल्दौर, (ज़िला) बिजनौर
( ३ ) पुस्तकभाण्डारप्रबंधकर्त्ता
गुरुकुल कांगड़ी, (ज़िला) बिजनौर
( ४ ) प्रबन्धकर्त्ता, दीन बन्धु प्रेस
बिजनौर
]
-
“Sociology.” ↩︎
-
“Economics.” ↩︎
-
“Biology.” ↩︎
-
“Botany.” ↩︎
-
“Eugenics” ↩︎
-
“Bacteriology.” ↩︎
-
“Chemistry” ↩︎
-
“Physics” ↩︎
-
“Electricity” ↩︎
-
“Railway.” ↩︎
-
“Steamers” ↩︎
-
“Bicycle” ↩︎
-
“Aeroplane.” ↩︎
-
“Teligraph” ↩︎
-
“Photograph” ↩︎
-
“Printing Press.” ↩︎
-
“Phonograph.” ↩︎
- ↩︎
-
“Plato” ↩︎
-
“Bain.” ↩︎
-
“Palestinc” ↩︎
-
“Ashia.” ↩︎
-
“Mediterranean.” ↩︎
-
“England.” ↩︎
-
“Egypt.” ↩︎
-
“Cyria” ↩︎
-
" Jerusalem" ↩︎
-
“Galilee.” ↩︎
-
“About seventy miles.” ↩︎
-
“Juder.” ↩︎
-
“Jew.” ↩︎
-
“Israel " ↩︎
-
" Israelite” ↩︎
-
“Hebrew.” ↩︎
-
" Abrhain." ↩︎
-
“1573 B. C.” ↩︎
-
“Pharaoh.” ↩︎
-
" Moses." ↩︎
-
“Old Testament.” ↩︎
-
“Christian.” ↩︎
-
“Bible.” ↩︎
-
“David.” ↩︎
-
“Elijah " ↩︎
-
“Isaiah” ↩︎
-
“Romans” ↩︎
-
" Africa.” ↩︎
-
“Caesar or Kaisar.” ↩︎
-
“Herod” ↩︎
-
“Samaria " ↩︎
-
" Greak.” ↩︎
-
“Christ.” ↩︎
-
“Bethlehem.” ↩︎
-
“Joseph.” ↩︎
-
“Mary.” ↩︎
-
“Siemon.” ↩︎
-
“Nazareth.” ↩︎
-
“Passover day.” ↩︎
-
“Rushia.” ↩︎
-
“तिब्बत = Thibet” ↩︎
-
“Mr. Arthur Lillie.” ↩︎
-
" Fountain Head of Relijions." ↩︎
-
“John the Baptist.” ↩︎
-
" Jordon." ↩︎
-
“Satan or Devil.” ↩︎
-
“Capurnaum.” ↩︎
-
“Andrew.” ↩︎
-
“Siemon Peter.” ↩︎
-
“John.” ↩︎
-
“James.” ↩︎
-
“Mathew.” ↩︎
-
“Pharisee.” ↩︎
-
“Zeledee.” ↩︎
-
“Philip.” ↩︎
-
“Bartholomew.” ↩︎
-
“Thamas.” ↩︎
-
“Alphaeus.” ↩︎
-
“Zealot.” ↩︎
-
“Judas.” ↩︎
-
“Iscariot.” ↩︎
-
“Sermon on the Mount.” ↩︎
-
“Solomon” ↩︎
-
“Gentiles.” ↩︎
-
“Herod Antipas.” ↩︎
-
" Phoenicia." ↩︎
-
“Scribes.” ↩︎
-
“Judas Iscariot.” ↩︎
-
“Caiaphas.” ↩︎
-
“America.” ↩︎
-
“Ashia” ↩︎
-
“Africa.” ↩︎
-
" Europe." ↩︎
-
" Geography." ↩︎
-
“Astronomy.” ↩︎
-
“Chemistry.” ↩︎
-
“Physics.” ↩︎
-
“Telegraphy.” ↩︎
-
" Railway." ↩︎
-
“Photography.” ↩︎