{अथ द्व्यशीत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
आग्नेयपुराणमाहात्म्यं
अग्निर् उवाच
आग्नेयं ब्रह्मरूपन्ते पुराणं कथतं मया ।
सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत् ॥००१॥
मूलम्

ऋग्यजुःसामाथर्वाख्या विद्या विष्णुर्जगज्जनिः ।
छन्दः शिक्षा व्याकरणं निघण्टुज्योतिराख्यकाः ॥००२॥

निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः ।
आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः ॥००३॥

विद्या सैवार्थशास्त्राख्या देवान्तान्या हरिर्महान् ।
इत्येषा चापरा विद्या परिविद्याक्षरं परं ॥००४॥

यस्य भावो ऽखिलं विष्णुस्तस्य नो बाधते कलिः ।
अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां ॥००५॥

कृष्णमभ्यर्चयन्भक्त्या नैनसो भाजनं भवेत् ।
सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति ॥००६॥

अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः ।
कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते ॥००७॥

तद्ध्यानं यत्र गोविन्दः स कथा यत्र केशवः ।
तत् कर्म यत्तदर्थीयं किमन्यैर् बहुभाषितैः ॥००८॥

न तत् पिता तु पुत्राय न शिष्याय गुरुर्द्विज ।
परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं ॥००९॥

[[३५५]]
विश्वास-प्रस्तुतिः
सुहृदश् च तथैवान्ये नोपदेशो द्विजेदृशः ॥०१०॥

किं पुत्रदारैर् मित्रैर् वा किं मित्रक्षेत्रवान्धवैः ।
उपदेशः परो वन्धुरीदृशो यो विमुक्तये ॥०११॥

द्विविधो भूतमार्गीयं दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस् तथासुरः ॥०१२॥

एतत् पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं ।
सुखप्रीतिकरं नॄणां मोक्षकृद्यत्तवेरितं ॥०१३॥

येषां गृहेषु लिखितमाग्नेयं हि पुराणकं ।
पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः ॥०१४॥

किं तीर्थैर् गोप्रदानैर् वा किं यज्ञैः किमुपोषितैः ।
आग्नेयं ये हि शृण्वन्ति अहन्यहनि मानवाः ॥०१५॥

ये ददाति तिलप्रस्थं सुवर्णस्य च माषकं ।
शृणोति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात् ॥०१६॥

अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते ।
अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति ॥०१७॥

कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे ।
तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात् ॥०१८॥

प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं ।
आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि ॥०१९॥

पठन्नाग्नेयकं नित्यं शृण्वन् वापि पुराणकं ।
भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते ॥०२०॥

नोपसर्गा न चानर्था न चौरारिभयं गृहे ।
तस्मन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं ॥०२१॥

[[३५६]]
विश्वास-प्रस्तुतिः
न गर्भहारिणीभीतिर्न च बालग्रहा गृहे ।
यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं ॥०२२॥

शृण्वन्विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः ।
ऋद्धिं प्राप्नोति वैश्यश् च शूद्रश्चारोग्यमृच्छति ॥०२३॥

यः पठेत्शृणुयान्नित्यं समदृग्विष्णुमानसः ।
ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः ॥०२४॥

दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः ।
यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः ॥०२५॥

पठतः शृण्वतः पुंसः पुस्तकं यजतो महत् ।
आग्नेयं श्रीपुराणं हि हेमन्ते यः शृणोति वै ॥०२६॥

प्रपूज्य गन्धपुष्पाध्यैर् अग्निष्टोमफलं लभेत् ।
शिशिरे पुण्डरीकस्य वसन्ते चाश्वमेधजम् ॥०२७॥

ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति ।
गोसहस्रस्य शरदि फलं तत्पठतो ह्य् ऋतौ ॥०२८॥

आग्नेयं हि पुराणं यो भक्त्याग्रे पठेते हरेः ।
सो ऽर्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम् ॥०२९॥

यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः ।
लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करे ऽस्ति हि ॥०३०॥

इति कालाग्निरूपेण गीतं मे हरिणा पुरा ।
आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् ।०३१।
विद्याद्वयं वसिष्ठेदं भक्तेभ्यः कथयिष्यसि ॥०३१॥

वसिष्ठ उवाच
व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं ।
कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा ॥०३२॥

[[३५७]]
विश्वास-प्रस्तुतिः
सार्धं देवैश् च मुनिभिर्मह्यं सर्वाथदर्शकं ।
पुराणमग्निना गौतमाग्नेयं ब्रह्मसन्मितं ॥०३३॥

यः पठेच्छृणुयाद्ध्यास लिखेद्वा लेखयेदपि ।
श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि ॥०३४॥

सर्वपापविनिर्मुक्तः प्राप्रकामो दिवं व्रजेत् ।
लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं ॥०३५॥

स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् ।
एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते ॥०३६॥

तस्माद्व्यास सदा श्राव्यं शिष्येभ्यः सर्वदर्शनं ।
शुकाद्यैर् मुनिभिः सर्धं श्रोतुकामैः पुराणकं ॥०३७॥

आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं ।
अग्नये तु नमस्तस्मै येन गीतं पुरानकं ॥०३८॥

व्यास उवाच
वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं ।
पराविद्यापराविद्यास्वरूपं परमं पदम् ॥०३९॥

आग्नेयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः ।
ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः ॥०४०॥

विद्यार्थिनस् तथा विद्यां राज्यं राज्यार्थिनो गताः ।
अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः ॥०४१॥

सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः ।
लिखन्तो लेखयन्तश् च निष्पापश् च श्रियं गताः ॥०४२॥

शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं ।
रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः ॥०४३॥

[[३५८]]
विश्वास-प्रस्तुतिः
सूत उवाच
व्यास प्रसादादाग्नेयं पुराणं श्रुतमादरात् ॥०४४॥

आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः ।
भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं ॥०४५॥

तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् ।
अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं ॥०४६॥

ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् ।
नास्मात्परतरः सारो नास्मात्परतरः सुहृत् ॥०४७॥

नास्मात्परतरो ग्रन्थो नास्मात्परतरो गतिः ।
नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः ॥०४८॥

नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः ।
नास्मात्परो ह्य् आगमो ऽस्ति नास्माद्विद्या परास्ति हि ॥०४९॥

नास्मात्परः स्यात्सिद्धन्तो नास्मात्परममङ्गलम् ।
नास्मात्परो ऽस्ति वेदान्तः पुराणं परमन्त्विदं ॥०५०॥

नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् ।
आग्नेये हि पुराणे ऽस्मिन् सर्वविद्याः प्रदर्शिताः ॥०५१॥

सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह ।
हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः ॥०५२॥

आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया ।
पवित्रारोहणादीनि प्रतिमालक्षणादिकं ॥०५३॥

प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिमुक्तिदाः ।
शैवागमस्तदर्थश् च शाक्तेयः सौर एव च ॥०५४॥

मण्डलानि च वास्तुश् च मन्ताणि विविधानि च ।
प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं ॥०५५॥

[[३५९]]
विश्वास-प्रस्तुतिः
गीतो भुवनकोषश् च द्वीपवर्षादिनिम्नगाः ।
गयागङ्गाप्रयागादि तीर्थमाहात्म्यमीरितं ॥०५६॥

ज्योतिश् चक्रं ज्योतिषादि गीतो युद्धजयार्णवः ।
मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च ॥०५७॥

अशौचं द्रव्यशुद्धिश् च प्रायश्चित्तं प्रदर्शितं ।
राजधर्मा दानधर्मा व्रतानि विविधानि च ॥०५८॥

व्यवहाराः शान्तयश् च ऋग्वेदादिविधानकं ।
सूर्यवंशः सोमवंशो धनुर्वेदश् च वैद्यकं ॥०५९॥

गान्धर्ववेदो ऽर्थशास्त्रं मीमांसा न्यायविस्तरः ।
पुराणसङ्ख्यामाहत्म्यं छन्दो व्यकरणं स्मृतं ॥०६०॥

अलङ्कारो विघण्डुश् च शिक्षाकल्प इहोदितः स्मृतः ।
नैमित्तिकः प्राकृतिको लय आत्यन्तिकः ॥०६१॥

वेदान्तं ब्रह्मविज्ञानं योगो ह्य् अष्टाङ्ग ईरितः ।
स्तोत्रं पुराणमाहात्म्यं विद्या ह्य् अष्टादश स्मृताः ॥०६२॥

ऋग्वेदाद्याः परा ह्य् अत्र पराविद्याक्षरं परं ।
सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं ॥०६३॥

इदं पञ्चदशसोहस्रं शतकोटिप्रविस्तरं ।
देवलोके दैवतैश् च पुराणं पठ्यते सदा ॥०६४॥

लोकानां हितकामेन सङ्क्षिप्योद्गीतमग्निना ।
सर्वं ब्रह्मेति जानीध्वं मुनयः शौनकादयः ॥०६५॥

शृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि ।
लिखेल्लेखापयेद्वापि युजयेत्कीर्तयेदपि ॥०६६॥

[[३६०]]
विश्वास-प्रस्तुतिः
गोभूहिरण्यदानाद्यैर् वस्त्रालङ्कारतर्पणैः ॥०६७॥

तं सम्पूज्य लभेच्चैव पुराणश्रवणात् फलं ।
पुराणान्ते च वै कुर्यादवश्यं द्विजभोजनं ॥०६८॥

निर्मलः प्राप्तसर्वार्थः सकुलः स्वर्गमाप्नुयात् ।
शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं ॥०६९॥

पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् ।
यो दद्याद्ब्रह्मलोकी स्यात् पुस्तकं यस्य वै गृहे ॥०७०॥

तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् ।
यूयं समरत चाग्नेयं पुराणं रूपमैश्वरं ।०७१।
सूतो गतः पुजितस्तैः शौनकाद्या हरिं यायः ॥०७१॥

{इत्य् आग्नेये महापुराणे आग्नेयपुराणमाहात्म्यं नाम द्व्यशीत्यधिकत्रिशततमो ऽध्यायः ॥}
समाप्तमाग्नेयं पुराणं
[[३६१]]