३८१ यमगीता

{अथैकाशीत्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

यमगीता

अग्निर् उवाच
यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे ।
पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनां सतां ॥००१॥

मूलम्

यम उवाच
आसनं शयनं यानपरिधानगृहादिकम् ।
वाञ्छत्यहो ऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥००२॥

भोगेषु शक्तिः सततं तथैवात्मावलोकनं ।
श्रेयः परं मनुष्यानां कपिलोद्गीतमेव हि ॥००३॥

सर्वत्र समदर्शित्वं निर्मसत्वमसङ्गता ।
श्रेयः परम् मनुष्यानां गीतं पञ्चशिखेन हि ॥००४॥

आगर्भजन्मबाल्यादिवयो ऽवस्थादिवेदनं ।
श्रेयः परं मनुष्याणाम् गङ्गाविष्णुप्रगीतकं ॥००५॥

आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया ।
श्रेयः परं मन्ष्याणां जनकोद्गीतमेव च ॥००६॥

अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः ।
तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतं ॥००७॥

[[३५१]]

विश्वास-प्रस्तुतिः

कर्तव्यमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितं ।
कुरुते श्रेयसे सङ्गान् जैगीषव्येण गीयते ॥००८॥

हानिः सर्वविधित्सानामात्मनः सुखहैतुकी ।
श्रेयः परं मनुष्याणां देवलोद्गीतमीरितं ॥००९॥

कामत्यागात्तु विज्ञानं सुखं ब्रह्म परं पदं ।
कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ॥०१०॥

प्रवृत्तञ्च निवृत्तञ्च कार्यं कर्मपरो ऽब्रवीत् ।
श्रेयसां श्रेय एतद्धि नैष्कर्म्यं ब्रह्म तद्धरिः ॥०११॥

पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः ।
ब्रह्मणा विष्णुसञ्ज्ञेन परमेणाव्ययेन च ॥०१२॥

ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ।
तपसा लभ्यते सर्वं मनसा यद्यदिच्छति ॥०१३॥

नास्ति विष्णुसमन्ध्येयं तपो नानशनात्परं ।
नास्त्यारोग्यसमं धन्यं नास्ति गङ्गासमा सरित् ॥०१४॥

न सो ऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुं ।
अधश्चोर्धं हरिश्चाग्रे देहेन्द्रियमनोमुखे ॥०१५॥

इत्येवं संस्मरन् प्राणान् यस्त्यजेत्स हरिर्भवेत् ।
यत्तद् ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ॥०१६॥

अग्राह्यकमनिर्देश्यं सुप्रतिष्ठञ्च यत्परं ।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥०१७॥

यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परं ।
केचिद्विष्णुं हरं केचित् केचिद् ब्रह्माणमीश्वरं ॥०१८॥

इन्द्रादिनामभिः केचित् सूर्यं सोमञ्च कालकम् ।

[[३५२]]

विश्वास-प्रस्तुतिः

ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुं वदन्ति च ॥०१९॥

स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः ।
सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ॥०२०॥

ध्यानैर् व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् ।
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ॥०२१॥

बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ।
इन्द्रयाणि हयानाहुर्विषयांश्चेषुगोचरान् ॥०२२॥

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ॥०२३॥

न सत्पदमवाप्नोति संसारञ्चाधिगच्छति ।
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ॥०२४॥

स तत्पदमवाप्नोति यस्माद्भूयो न जायते ।
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ॥०२५॥

सो ऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् ।
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ॥०२६॥

मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥०२७॥

पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ।
एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥०२८॥

दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥०२९॥

ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ।
ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर् ब्रह्म सद्भवेत् ॥०३०॥

[[३५३]]

विश्वास-प्रस्तुतिः

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाश् च नियमाः पञ्च शौचं सन्तोषसत्तपः ॥०३१॥

स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकं ।
प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥०३२॥

शुभे ह्य् एकत्र विषये चेतसो यत् प्रधारणं ।
निश् चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥०३३॥

पौनःपुन्येन तत्रैव विषयेष्वेव धारणा ।
ध्यानं स्मृतं समाधिस्तु अहं ब्रह्मात्मसंस्थितिः ॥०३४॥

घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् ।
मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥०३५॥

आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा ।
जीवो ह्य् अज्ञानतत्कार्यमुक्तः स्यादजरामरः ॥०३६॥

वशिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा ।
आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥०३७॥

{इत्य् आग्नेये महापुराणे यमगीता नामैकाशीत्यधिकत्रिशततमो ऽध्यायः ॥ }

[[३५४]]