{अथाशीत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गीतासारः
अग्निर् उवाच
गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमं ।
कृष्णो ऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदं1 ॥००१॥
मूलम्

श्रीभगवानुवाच
गतासुरगतासुर्वा न शोच्यो देहवानजः ।
आत्माजरो ऽमरो ऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ॥००२॥

:न्
[[३४५]]
विश्वास-प्रस्तुतिः
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ॥००३॥

अम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति ।
दुःसङ्गहानिः सत्सङ्गान्मोक्षकाभी च कामनुत् ॥००४॥

कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते ।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥००५॥

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥००६॥

नैव तस्य कृते नार्थो नाकृते नेह कश् चनः ।
तत्त्ववित्तु महावहो गुणकर्मविभागयोः ॥००७॥

गुणा गुनेषु वर्तन्ते इति मत्वा न सज्जते ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ॥००८॥

ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ऽर्जुन ।
ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः ॥००९॥

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥०१०॥

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते ॥०११॥

न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।
देवी ह्य् एषा गुणमयी मम माया दुरत्यया ॥०१२॥

मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते ।
आर्तो जिज्ञासुरर्थार्थो ज्ञानी च भरतर्षभ ॥०१३॥

[[३४६]]
विश्वास-प्रस्तुतिः
अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्ममुच्यते ॥०१४॥

भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ।
अधिभूतं क्षरोभावः पुरुषश्चाधिदैवतं ॥०१५॥

अधियज्ञोहमेवात्र देहे देहभृतां वर ।
अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ॥०१६॥

यं यं भावं स्मरन्नन्ते त्यजेद्देहन्तमाप्नुयात् ।
प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ॥०१७॥

ओमित्येकाक्षरं ब्रह्मवदन् देहं त्यजन्तथा ।
ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः ॥०१८॥

श्रीमन्तश्चोर्जिताः सर्वे ममांशाः2 प्राणिनः
स्मृताः ।
अहमेको विश्वरूप इति ज्ञात्वा विमुच्यते ॥०१९॥

क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकोर्तितः ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥०२०॥

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रयाणि देशैकञ्च पञ्च चेन्द्रियगोचराः ॥०२१॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतं ॥०२२॥

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥०२३॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं ॥०२४॥

[[३४७]]
विश्वास-प्रस्तुतिः
नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ॥०२५॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥०२६॥
मूलम्
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥०२६॥
विश्वास-प्रस्तुतिः
अध्यात्मज्ञाननिष्ठत्वन्तत्त्वज्ञानानुदर्शनं ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतो ऽन्यथा ॥०२७॥

ज्ञेयं यत्तत् प्रवक्ष्यामि यं ज्ञात्वामृतमश्नुते ।
अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ॥०२८॥

सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥०२९॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥०३०॥

वहिरन्तश् च भूतानामचरञ्चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थञ्चान्तिके ऽपि यत् ॥०३१॥

अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥०३२॥

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितं ॥०३३॥

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥०३४॥

अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते ।
तेपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ॥०३५॥

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतो ज्ञानमेव च ॥०३६॥

[[३४८]]
विश्वास-प्रस्तुतिः
गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ।
मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ॥०३७॥

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययं ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥०३८॥

द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च ।
अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणां ॥०३९॥

न शौचं नापि वाचारो ह्य् आसुरीसम्पदोद्धवः ।
नरकत्वात् क्रोधलोभकामस्तस्मात्त्रयं त्यजेत् ॥०४०॥

यज्ञस्तपस् तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् ।
आयुः सत्त्वं बलारोग्यसुखायान्नन्तु सात्त्विकं ॥०४१॥

दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसं ।
अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकं ॥०४२॥

यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः ।
यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ॥०४३॥

श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते ।
देवादिपूजाहिंसादि वाङ्मयं तप उच्यते ॥०४४॥

अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः ।
मानसं चित्तसंशुद्धेर्सौनमात्सविनिग्रहः ॥०४५॥

सात्त्विकञ्च तपो ऽकामं फलाद्यर्थन्तु राजसं ।
तामसं परपीडायै सात्त्विकं दानमुच्यते ॥०४६॥

देशादौ चैव दातव्यमुपकाराय राजसं ।
आदेशादाववज्ञातं तामसं दानमीरितं ॥०४७॥
मूलम्
देशादौ चैव दातव्यमुपकाराय राजसं ।
आदेशादाववज्ञातं तामसं दानमीरितं ॥०४७॥
[[३४९]]
विश्वास-प्रस्तुतिः
ओन्तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
यज्ञदानादिक कर्म बुक्तिमुक्तिप्रदं नृणां ॥०४८॥

अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलं ।
भवत्यत्यागिनां2 प्रेत्य न तु सन्न्यासिनां क्वचित् ॥०४९॥

तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् ।
राजसः सात्त्विको ऽकामात् पञ्चैते कर्महेतवः ॥०५०॥

अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् ।
त्रिविधाश् च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमं ॥०५१॥

एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञानन्तु राजसं ।
अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकं ॥०५२॥

कामाय राजसं कर्म मोहात् कर्म तु तामसं ।
सीध्यसिद्ध्योः समः कर्ता सात्त्विको राजसो ऽत्यपि ॥०५३॥

शठो ऽलसस्तामसः स्यात् कार्यादिधीश् च सात्त्विकी ।
कार्यार्थं सा राजसी स्याद्विपरीता तु तामसी ॥०५४॥

मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी ।
तामसी तु प्रशोकादौ मुखं सत्त्वात्तदन्तगं ॥०५५॥

सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसं ।
अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततं ॥०५६॥

स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति ।
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥०५७॥

[[३५०]]
विश्वास-प्रस्तुतिः
ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः ।
सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवं ॥०५८॥

{इत्य् आग्नेये महापुराणे गीतासारो नामाशीत्यधिकत्रिशततमो ऽध्यायः ॥ }