३७९ अद्वैतब्रह्मज्ञानं

{अथोनाशीत्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अद्वैतब्रह्मविज्ञानं

अग्निर् उवाच
अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतो ऽगदत् ।
शालग्राने तपश् चक्रे वासुदेवार्चनादिकृत् ॥००१॥

मूलम्

मृगसङ्गाम्मृगो भूत्वा ह्य् अन्तकाले स्मरन् मृगं ।
जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतो ऽभवत् ॥००२॥

अद्वैतब्रह्मभूतश् च जडवल्लोकमाचरत् ।
क्षत्तासौ वीरराजस्य विष्टियोगममन्यत ॥००३॥

उवाह शिविक्रामस्य क्षत्तुर्वचनचोदितः ।
गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं ॥००४॥

ययौ जडगतिः पश्चात् ये त्वन्ये त्वरितं ययुः ।
शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपो
ऽब्रवीत् ॥००५॥

राजोवाच
किं श्रान्तो ऽस्यल्पमध्वानं त्वयोढा शिविका मम ।
किमायाससहो न त्वं पीवानसि निरीक्ष्यसे ॥००६॥

ब्राह्मण उवाच
नाहं पीवान्न वैषोढा शिविका भवतो मया ।
न श्रान्तो ऽस्मि न वायासो वोढव्यो ऽसि महीपते ॥००७॥

भूमौ पादयुगन्तस्थौ जङ्घे पादद्वये स्थिते ।
उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥००८॥

वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ ।
स्कन्धस्थितेयं शिविका मम भावो ऽत्र किं कृतः ॥००९॥

[[३३९]]

विश्वास-प्रस्तुतिः

शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं ।
तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ॥०१०॥

अहं त्वञ्च तथान्ये च भूतैरुह्याम1 पार्थिव ।
गुणप्रवाहपतितो गुणवर्गो हि यात्ययं ॥०११॥

कर्मवश्या गुणाश् चैते सत्त्वाद्याः पृथिवीपते ।
अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥०१२॥

आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।
प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥०१३॥

यदा नोपचयस्तस्य यदा नापचयो नृप ।
तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं ॥०१४॥

भूजङ्घापादकट्यूरुजठरादिषु संस्थिता ।
शिविकेयं तथा स्कन्धे तदा भावःसमस्त्वया ॥०१५॥

तदन्यजन्तुभिर्भूप शिविकोत्थानकर्मणा ।
शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा ॥०१६॥

यथा पुंसः पृथग्भावः प्राकृतैः करणैर् नृप ।
सोढव्यः स महाभारः कतरो नृपते मया ॥०१७॥

यद्द्रव्या शिविका चेयं तद्द्रव्यो भूतसङ्ग्रहः ।
भवतो मे ऽखिलस्यास्य समत्वेनोपवृंहितः ॥०१८॥

तच्छ्रुत्वोवाच राजा तं गृहीत्वाङ्घ्री क्षमाप्य च ।
प्रसादं कुरु त्यक्त्वेमां शिविकां ब्रूहि शृण्वते ।०१९।
यो भवान् यन्निमित्तं वा यदागमनकारणम् ॥०१९॥

श्रूयतां कोहमित्येतद्वक्तुं नैव च शक्यते ।

:न्

[[३४०]]

विश्वास-प्रस्तुतिः

उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया ॥०२०॥

मूलम्

उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया ॥०२०॥

विश्वास-प्रस्तुतिः

सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ ।
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति ॥०२१॥

रजोवाच
यो ऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते ।
आत्मन्येषु न दोषाय शब्दोहमिति यो द्विज ॥०२२॥

शब्दोहमिति दोषाय नात्मन्येष तथैव तत् ।
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥०२३॥

यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान् कोहमित्येतद्विफलं वचः ॥०२४॥

त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः ।
अयञ्च भवतो लोको न सदेतन्नृपोच्यते ॥०२५॥

वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठिता ।
का वृक्षसञ्ज्ञा जातस्य दारुसञ्ज्ञाथ वा नृप ॥०२६॥

वृक्षारूढो महाराजो नायं वदति चेतनः ।
न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं ॥०२७॥

शिविकादारुसङ्घातो रचनास्थितिसंस्थितः ।
अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिविका त्वया ॥०२८॥

पुमान् स्त्री गौरयं वाजी कुञ्चरो विहगस्तरुः ।
देहेषु लोकसञ्ज्ञेयं विज्ञेया कर्महेतुषु ॥०२९॥

जिह्वा ब्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप ।
एते नाहं यतः सर्वे वाङ्निपादनहेतवः ॥०३०॥

किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं ।
तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते ॥०३१॥

[[३४१]]

विश्वास-प्रस्तुतिः

पिण्डः पृथग् यतः पुंसः शिरःपाय्वादिलक्षणः ।
ततो ऽहमिति कुत्रैतां सञ्ज्ञां राजन् करोम्यहं ॥०३२॥

यदन्यो ऽस्ति परः कोपि मत्तः पार्थिवसत्तम ।
तदेषोहमयं चान्यो वक्तुम् एवमपीष्यते ॥०३३॥

परमार्थभेदो न नगो न पशुर्नच पादपः ।
शरीराश् च विभेदाश् च य एते कर्मयोनयः ॥०३४॥

यस्तु राजेति यल्लोके यच्च राजभटात्मकम् ।
तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं ॥०३५॥

त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः।
पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं ॥०३६॥

त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं ।
किमु पादादिकं त्वं वै तवैतत् किं महीपते ॥०३७॥

समस्तावयेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।
कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ।०३८।
तच्छ्रत्वोवाच राजा तमवधूतं द्विजं हरिं ॥०३८॥

श्रेयो ऽर्थमुद्यतः प्रष्टुं कपिलर्षिमहं द्विज ।
तस्यांशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि ।०३९।
ज्ञानवीच्युदछेर्यस्माद्यच्छ्रेयस्तच्च मे वद ॥०३९॥

भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि ।
श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते ॥०४०॥

देवताराधनं कृत्वा धनसम्पत्तिमिच्छति ।
पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृप ॥०४१॥

विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः ।

[[३४२]]

विश्वास-प्रस्तुतिः

यज्ञादिका क्रिया न स्यात् नास्ति द्रव्योपपत्तिता ॥०४२॥

परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ॥०४३॥

जन्मवृद्ध्यादिरहित आत्मा सर्वगतो ऽव्ययः ।
परं ज्ञानमयो ऽसङ्गी गुणजात्यादिभिर्विभुः ॥०४४॥

निदाधऋतुसंवादं वदामि द्विज तं शृणु1
ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्यो ऽभूत् पुलस्त्यजः ॥०४५॥

निदाघः प्राप्तविद्यो ऽस्मान्नगरे वै पुरे स्थितः ।
देविकायास्तटे तञ्च तर्कयामास वै ऋतुः ॥०४६॥

दिव्ये वर्षसहस्रे ऽगान्निदाघमवलोकितुं ।
निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमब्रवीत् ।०४७।
भुक्तन्ते तृप्तिरुत्पन्ना तुष्टिदा साक्षया यतः ॥०४७॥

ऋतुर् उवाच
क्षुदस्ति यस्य भुते ऽन्ने तुष्टिर्ब्राह्मण जायते ।
न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि ॥०४८॥

क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ।
पृष्टोहं यत्त्वया ब्रूयां2 तृप्तिरस्त्ये व मे सदा ॥०४९॥

पुमान् सर्वगतो व्यापी आकाशवदयं यतः ।
अतो ऽहं प्रत्यगात्मास्मीत्येतदर्थे भवेत् कथं3 ॥०५०॥

सो ऽहं गन्ता4 न चागन्ता नैकदेशनिकेतनः ।
त्वं चान्यो न भवेन्नापि नान्यस्त्वत्तो ऽस्मि वा प्यहं ॥०५१॥

[[३४३]]

विश्वास-प्रस्तुतिः

मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभवेत् ।
पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः ॥०५२॥

ऋतुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।
इहागतो ऽहं यास्यामि परमार्थस्तवोदितः ॥०५३॥

एकमेवमिदं विद्धि न भेदः सकलं जगत् ।
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥०५४॥

ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ ।
निदाघं नगरप्रान्ते एकान्ते स्थितमब्रवीत् ।०५५।
एकान्ते स्थीयते कस्मान्निदाघं ऋतुरब्रवीत् ॥०५५॥

निदाघ उवाच
भो विप्र जनसंवादो महानेष नरेश्वर ।
प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया ॥०५६॥

नराधिपो ऽत्र कतमः कतमश्चेतरो जनः ।
कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम ॥०५७॥

यो ऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुत्थितं ।
अधिरूढो नरेन्द्रो ऽयं परिवारस्तथेतरः1 ॥०५८॥

गजो यो ऽयमधो ब्रह्मन्नुपर्येष स भूपतिः ।
ऋतुराह गजः को ऽत्र राजा चाह निदाघकः ॥०५९॥

ऋतुर्निदाघ आरूढो दृष्टान्तं पश्य वाहनं ।
उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा ॥०६०॥

ऋतुः2 प्राह निदाघन्तं कतमस्त्वामहं वदे ।
उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्ध्रुवम् ॥०६१॥

[[३४४]]

विश्वास-प्रस्तुतिः

नान्यस्माद्द्वैतसंस्कारसंस्कृतं मानसं तथा ।
ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः ।०६२।
परमार्थं सारभूतमद्वैतं दर्शितं मया ॥०६२॥

निदाघो ऽप्युपदेशेन तेनाद्वैतपरो ऽभवत् ।
सर्वभूतान्यभेदेन ददृशे स तदात्मनि ॥०६३॥

मूलम्

ब्राह्मण उवाच
निदाघो ऽप्युपदेशेन तेनाद्वैतपरो ऽभवत् ।
सर्वभूतान्यभेदेन ददृशे स तदात्मनि ॥०६३॥

विश्वास-प्रस्तुतिः

अवाप मुक्तिं ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि ।
एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः ॥०६४॥

पीतनीलादिभेदेन यथैकं दृश्यते नभः ।
भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक् ॥०६५॥

मूलम्

पीतनीलादिभेदेन यथैकं दृश्यते नभः ।
भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक् ॥०६५॥

विश्वास-प्रस्तुतिः

अग्निर् उवाच
मुक्तिं ह्य् अवाप भवतो ज्ञानसारेण भूपतिः1
संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय ॥०६६॥

{इत्य् आग्नेये महापुराणे अद्वैतव्रह्मविज्ञानं नमोनाशीत्यधिकत्रिशततमो ऽध्यायः }

  1. पाठो ऽयं न समीचीनः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. ततः क्षुत्सम्भवाभावादिति ख॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत् कथमिति ख॥ , ञ॥ च ↩︎ ↩︎

  4. भोक्तेति क॥ ↩︎ ↩︎