३७८ ब्रह्मज्ञानं

{अथाष्टसप्तत्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

ब्रह्मज्ञानं

अग्निर् उवाच
यज्ञैश् च देवानाप्नोति वैराजं तपसा पदं ।
ब्रह्मणः कर्मसन्न्यासाद्वैराग्यात् प्रकृतौ लयं ॥००१॥

मूलम्

ज्ञानात् प्राप्नोति कैवल्यं पञ्चैता गतयःस्मृताः ।
प्रीतितापविषादादेर्विनिवृत्तिर्विरक्तता ॥००२॥

सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह ।
अव्यक्तादौ विशेषान्ते विकारो ऽस्मिन्निवर्तते ॥००३॥

चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ।
परमात्मा च सर्वेषामाधारः परमेश्वरः ॥००४॥

विष्णुनाम्ना च देवेषु वेदान्तेषु च गीयते ।
यज्ञेश्वरो यज्ञपुमान् प्रवृत्तैर् इज्यते ह्य् असौ ॥००५॥

निवृत्तैर् ज्ञानयोगेन ज्ञानमूर्तिः स चेक्ष्यते ।
ह्रस्वदीर्घप्लुताद्यन्तु वचस्तत्पुरुषोत्तमः ॥००६॥

तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं महामुने ।
आगमोक्तं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥००७॥

शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ।
द्वे ब्रह्मणी वेदितव्ये ब्रह्मशब्दपरञ्च यत् ॥००८॥

वेदादिविद्या ह्य् अपरमक्षरं ब्रह्मसत्परम् ।
तदेतद्भगवद्वाच्यमुपचारे ऽर्चने ऽन्यतः ॥००९॥

सम्भर्तेति तथा भर्ता भकारो ऽर्थद्वयान्वितः ।
नेता गमयिता स्रष्टा गकारो ऽयं महमुने ॥०१०॥

[[३३६]]

विश्वास-प्रस्तुतिः

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश् चैव षणां भग इतीङ्गना ॥०११॥

वसन्ति विष्णौ भुतानि स च धातुस्त्रिधात्मकः ।
एवं हरौ हि भगवान् शब्दो ऽन्यत्रोपचारतः ॥०१२॥

उत्पत्तिं प्रलयश् चैव भूतानामगतिं गतिं ।
वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥०१३॥

ज्ञानशक्तिः परैश्वर्यं वीर्यं तेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः ॥०१४॥

खाण्डिक्यजनकायाह योगं केशिध्वजः पुरा ।
अनात्मन्यात्मबुद्धिर्या आत्मस्वमिति या मतिः ॥०१५॥

अविद्याभवम्भूतिर्वीजमेतद्द्विधा स्थिरम् ।
पञ्चभूतात्मके देहे देही मोहतमाश्रितः ॥०१६॥

अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिं ।
इत्थञ्च पुत्रपौत्रेषु तद्देहोत्पातितेषु च ॥०१७॥

करोति पण्डितः साम्यमनात्मनि कलेवरे ।
सर्वदेहोपकाराय कुरुते कर्म मानवः ॥०१८॥

मूलम्

करोति पण्डितः साम्यमनात्मनि कलेवरे ।
सर्वदेहोपकाराय कुरुते कर्म मानवः ॥०१८॥

विश्वास-प्रस्तुतिः

देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परं ।
निर्वाणमय एवायमात्मा ज्ञानमयो ऽमलः ॥०१९॥

दुःखज्ञानमयो ऽधर्मः प्रकृतेः स तु नात्मनः ।
जलस्य नाग्निना सङ्गः स्थालीसङ्गात्तथापि हि ॥०२०॥

शब्दास्ते कादिका धर्मास्तत् कृता वै महामुने ।
तथात्मा प्रकृतौ सङ्गादहम्मानादिभूषितः ॥०२१॥

भजते प्राकृतान्धर्मान् अन्यस्तेभ्यो हि सो ऽव्ययः ।

[[३३७]]

विश्वास-प्रस्तुतिः

वन्धाय विषयासङ्गं मनो निर्विषयं धिये ॥०२२॥

विषयात्तत्समाकृष्य ब्रह्मभूतं हरिं स्मरेत् ।
आत्मभावं नयत्येनं तद्ब्रह्मध्यायिनं मुने ॥०२३॥

विचार्य स्वात्मनः शक्त्या लौहमाकर्षको यथा ।
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ॥०२४॥

तस्या ब्रह्मणि संयोगो योग इत्य् अभिधीयते ।
विनिष्पन्दः समाधिस्थः परं ब्रह्माधिगच्छति ॥०२५॥

यमैः सन्नियमैः स्थित्या प्रत्याहृत्या मरुज्जयैः ।
प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः ॥०२६॥

वशीकृतैस्ततः कुर्यात् स्थितं चेतः शुभाश्रये ।
आश्रयश्चेतसो ब्रह्म मूर्तञ्चामूर्तकं द्विधा ॥०२७॥

सनन्दनादयो ब्रह्मभावभावनया युताः ।
कर्मभावनया चान्ये देवाद्याः स्थावरान्तकाः ॥०२८॥

हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा ।
त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते ॥०२९॥

प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरं ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म सञ्ज्ञितम् ॥०३०॥

तच्च विष्णोः परं रूपमरूपस्याजमक्षरं ।
अशक्यं प्रथमं ध्यातुमतो मूर्तादि चिन्तयेत् ॥०३१॥

सद्भावभावमापन्नस्ततो ऽसौ परमात्मना ।
भवत्यभेदी भेदश् च तस्याज्ञानकृतो भवेत् ॥०३२॥

{इत्य् आग्नेये महापुराणे ब्रह्मज्ञानं नामाष्टसप्तत्यधिकत्रिशततमो ऽध्यायः ॥ }

[[३३८]]