{अथ सप्तसप्तत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
ब्रह्मज्ञानं
अग्निर् उवाच
अहं ब्रह्म परं ज्योतिः पृथिव्यवनलोज्झितं ।
अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितं ॥००१॥
मूलम्

अहं ब्रह्म परं ज्योतिरादिकार्यविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्विराडात्मविवर्जितं ॥००२॥

अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम् ॥००३॥

अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितं ।
अहं ब्रह्म परं ज्योतिर्वाक्पाण्यङ्घ्रिविवर्जितम् ॥००४॥

[[३३३]]
विश्वास-प्रस्तुतिः
अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितं ।
अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्चक्षुरुज्झितं ॥००५॥

अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितम् ॥००६॥

अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितं ।
अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितं ॥००७॥

अहं ब्रह्म परं ज्योतिर्मनोबुद्धिविवर्जितं ।
अहं ब्रह्म परं ज्योतिश्चित्ताहङ्कारवर्जितं ॥००८॥

अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितं ।
अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितं ॥००९॥

अहं ब्रह्म परं ज्योतिः समानपरिवर्जितं ।
अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितं ॥०१०॥

अहं ब्रह्म परं ज्योतिः शोकमोहविवर्जितं ।
अहं ब्रह्म परं ज्योतिः क्षुत्पिपासाविवर्जितं ॥०११॥

अहं ब्रह्म परं ज्योतिः शब्दोद्भूतादिवर्जितं ।
अहं ब्रह्म परं ज्योतिर्हिरण्यगर्भवर्जितं ॥०१२॥

अहं ब्रह्म परं ज्योतिः स्वप्नावस्थाविवर्जितं ।
अहं ब्रह्म परं ज्योतिस्तैजसादिविवर्जितं ॥०१३॥

अहं ब्रह्म परं ज्योतिरपकारादिवर्जितं ।
अहं ब्रह्म परं ज्योतिः सभाज्ञानविवर्जितं ॥०१४॥

अहं ब्रह्म परं ज्योतिरध्याहृतविवर्जितं ।
अहं ब्रह्म परं ज्योतिः सत्त्वादिगुणवर्जितं ॥०१५॥

[[३३४]]
विश्वास-प्रस्तुतिः
अहं ब्रह्म परं ज्योतिः सर्वावयववर्जितं ॥०१६॥

अहं ब्रह्म परं ज्योतिर्भेदाभेदविवर्जितं ।
अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवर्जितम् ॥०१७॥

अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्मकारादिविवर्जितम् ॥०१८॥

अहं ब्रह्म परं ज्योतिर्मानमेयविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्मितिमाहृविवर्जितम् ॥०१९॥

अहं ब्रह्म परं ज्योतिः साक्षित्वादिविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः कार्यकारणवर्जितम् ॥०२०॥

देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ।
जाग्रत् सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं ॥०२१॥

नित्यशुद्धबुद्धमुक्तं सत्यमानन्दमद्वयम् ।
ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ॐ ।०२२।
अहं ब्रह्म परं ज्योतिः समाधिर्मोक्षदः परः ॥०२२॥

{इत्य् आग्नेये महापुराणे समाधिर्नाम सप्तसप्तत्यधिकत्रिशततमो ऽध्यायः ॥ }
[[३३५]]