{अथ षट्सप्तत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
ब्रह्मज्ञानं
अग्निर् उवाच
ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये ।
अयमात्मा पर्ं ब्रह्म अहमस्मीति मुच्यते ॥००१॥
मूलम्

देह आत्मा न भवति दृस्यत्वाच्च घटादिवत् ।
प्रसप्ते मरणे देहादात्मान्यो ज्ञायते ध्रुवं ॥००२॥

देहः स चेदव्यवहरेद्विकार्यादिसन्निभः ।
चक्षुरादीनीन्द्रियाणि नात्मा वै करणं त्वतः ॥००३॥

मनो धीरपि आत्मा न दीपवत् करणं त्वतः ।
प्राणो ऽप्यात्मा न भवति सुषुप्ते चित्प्रभावतः ॥००४॥

जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते ।
विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः ॥००५॥

अतो नात्मेन्द्रियं तस्मादिन्त्रियादिकमात्मनः ।
अहङ्कारो ऽपि नैवात्मा देहवद्व्यभिचारतः ॥००६॥

उक्तेभ्यो व्यतिरिक्तो ऽयमात्मा सर्वहृदि स्थितः ।
सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत् ॥००७॥

समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः ।
यतो ब्रह्मण आकाशं खाद्वायुर्वायुतो ऽनलः ॥००८॥

अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं ।
अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः ॥००९॥

[[३३१]]
विश्वास-प्रस्तुतिः
स्थूलं शरीरं ध्यात्वास्माल्लयं ब्रह्मणि चिन्तयेत् ।
पञ्चीकृतानि भूतानि तत्कार्यञ्च विराट्स्मृतम् ॥०१०॥

एतत् स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं ।
इन्द्रियैर् अथ विज्ञानं धीरा जागरितं विदुः ॥०११॥

विश्वस्तदभिमानी स्यात् त्रयमेतदकारकं ।
अपञ्चीकृतभूतानि तत्कार्यं लिङ्गमुच्यते ॥०१२॥

संयुक्तं सप्तदशभिर्हिरण्यगर्भसञ्ज्ञितं ।
शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते ॥०१३॥

जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः ।
आत्मा तदुपमानी स्त्यात्तैजसो ह्य् अप्रपञ्चतः ॥०१४॥

स्थूलसूक्ष्मशरीराख्यद्वयस्यैकं हि कारणं ।
आत्मा ज्ञानञ्च साभासं तदध्याहृतमुच्यते ॥०१५॥

न सन्नासन्न सदसदेतत्सावयवं न तत् ।
निर्गतावयवं नेति नाभिन्नं भिन्नमेव च ॥०१६॥

भिन्नाभिन्नं ह्य् अनिर्वाच्यं बन्धसंसारकारकं ।
एकं स ब्रह्म विज्ञानात् प्राप्तं नैव च कर्मभिः ॥०१७॥

सर्वात्मना हीन्द्रियाणां संहारः कारणात्मनां ।
बुद्धेः स्थानं सुषुप्तं स्यात्तद्द्वयस्याभिमानवान् ॥०१८॥

प्राज्ञ आत्मा त्रयञ्चैतत् मकारः प्रणवः स्मृतः ।
अकारश् च उकारो ऽसौ मकारो ह्य् अयमेव च ॥०१९॥

अहं साक्षी च चिन्मात्रो जाग्रत्स्वप्नादिकस्य च ।
नाज्ञानञ्चैव तत्कार्यं संसारादिकबन्धनं ॥०२०॥

[[३३२]]
विश्वास-प्रस्तुतिः
ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्विमुक्त ॐ ॥०२१॥

अहं ब्रह्म परं ज्ञानं समाधिर्बन्धघातकः ।
चिरमानन्दकं ब्रह्म सत्यं ज्ञानमनन्तकं ॥०२२॥

अयमात्मा परम्ब्रह्म तद् ब्रह्म त्वमसीति च ।
गुरुणा बोधितो जीवो ह्य् अहं ब्रह्मास्मि वाह्यतः ॥०२३॥

सो ऽसावादित्यपुरुषः सो ऽसावहमखण्ड ॐ ।
मुच्यते ऽसारसंसाराद्ब्रह्मज्ञो ब्रह्म तद्भवेत् ॥०२४॥

{इत्य् आग्नेये महापुराणे ब्रह्मज्ञानं नाम षट्सप्तत्यधिकत्रिशततमो ऽध्यायः }