३७५ समाधिः

{अथ पञ्चसप्तत्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

समाधिः

अग्निर् उवाच
यदात्ममात्रं निर्भासं स्तिमितोदधिवत् स्थितं ।
चैतन्यरूपवद्ध्यानं तत् समाधिरिहोच्यते ॥००१॥

मूलम्

ध्यायन्मनः सन्निवेश्य यस्तिष्ठेदचलस्थिरः ।
निर्वातानलवद्योगी समाधिस्थः प्रकीर्तितः ॥००२॥

न शृणोति न चाघ्राति न पश्यति न वम्यति ।
न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥००३॥

न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् ।
एवमीश्वरसंलीनः समाधिस्थः स गीयते ॥००४॥

[[३२६]]

विश्वास-प्रस्तुतिः

यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता ।
ध्यायतो विष्णुमात्मानं समाधिस्तस्य योगिनः ॥००५॥

उपसर्गाः प्रवर्तन्ते दिव्याः सिद्धिप्रसूचकाः ।
पातितः श्रावणो धातुर्दशनस्वाङ्गवेदनाः ॥००६॥

प्रार्थयन्ति च तं देवा भोगैर् दिव्यैश् च योगिनं ।
नृपाश् च पृथिवीदानैर् धनैश् च सुधनाधिपाः ॥००७॥

वेदादिसर्वशास्त्रञ्च स्वयमेव प्रवर्तते ।
अभीष्टछन्दोविषयं काव्यञ्चास्य प्रवर्तते ॥००८॥

रसायनानि दिव्यानि दिव्याश् चौषधयस् तथा ।
समस्तानि च शिल्पानि कलाः सर्वाश् च विन्दति ॥००९॥

सुरेन्द्रकन्या इत्य् आद्या गुणाश् च प्रतिभादयः ।
तृणवत्तान्त्यजेद् यस्तु तस्य विष्णुः प्रसीदति ॥०१०॥

अणिमादिगुणैश्वर्यः शिष्ये ज्ञानं प्रकाश्य च ।
भुक्त्वा भोगान् यथेच्छातस्तनुन्त्यक्त्वालयात्ततः ॥०११॥

तिष्ठेत् स्वात्मनि विज्ञान आनन्दे ब्रह्मणीश्वरे।
मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः ॥०१२॥

सर्वाश्रयन्निजे देहे देही विन्दति वेदनां ।
योगयुक्तस्तु सर्वेषां योगान्नाप्नोति वेदनां ॥०१३॥

आकाशमेकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मैको ह्य् अनेकेषु जलाधारेष्विवांशुमान् ॥०१४॥

ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः ।
इमे लोका एष चात्मा तस्माच्च सचराचरं ॥०१५॥

[[३२७]]

विश्वास-प्रस्तुतिः

गृद्दण्दचक्रसंयोगात् कुम्भकारो यथा घटं ।
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः ॥०१६॥

करणान्येवमादाय तासु तास्विह योनिषु ।
मृजत्यात्मानमात्मैवं सम्भूय करणानि च ॥०१७॥

कर्मणा दोषमोहाभ्यामिच्छयैव स बध्यते ।
ज्ञानाद्विमुच्यते जीवो धर्माद् योगी न रोगभाक् ॥०१८॥

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्ट्वैवमकाले प्राणसङ्क्षयः ॥०१९॥

अनन्ता रश्मयस्तस्य दीपवद् यः स्थितो हृदि ।
सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ॥०२०॥

ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलं ।
ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिं ॥०२१॥

यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितं ।
तेन देवनिकायानि धामानि प्रतिपद्यते ॥०२२॥

ये नैकरूपाश्चाधस्ताद्रश्मयो ऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैश् च सञ्चरते हि सः ॥०२३॥

बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च ।
अहङ्कारश् च बुद्धिश् च पृथिव्यादीनि चैव हि ॥०२४॥

अव्यक्त आत्मा क्षेत्रज्ञः क्षेत्रस्त्यास्य निगद्यते ।
ईश्वरः सर्वभूतस्य सन्नसन् सदसच्च सः ॥०२५॥

बुद्धेरुत्पत्तिरव्यक्ता ततो ऽहङ्कारसम्भवः ।
तस्मात् खादीनि जायन्ते एकोत्तरगुणानि तु ॥०२६॥

[[३२८]]

विश्वास-प्रस्तुतिः

शब्दः स्पर्शश् च रूपञ्च रसो गन्धश् च तद्गुणाः ।
यो यस्मिन्नाश्रितश् चैषां स तस्मिन्नेव लीयते ॥०२७॥

सत्त्वं रजस्तमश् चैव गुणास्तस्यैव कीर्तिताः ।
रजस्तमोभ्यामाविष्टश् चक्रवद्भ्राभ्यते हि सः ॥०२८॥

अनादिरादिमान् यश् च स एव पुरुषः परः ।
लिङ्गेन्द्रियैर् उपग्राह्याः स विकार उदाहृतः ॥०२९॥

यतो देवाः पुराणानि विद्योपनिषदस् तथा ।
श्लोकाः सूत्राणि भाष्याणि यच्चान्यद्माङ्भयं भवेत् ॥०३०॥

पितृयानोपवीथ्याश् च यदगस्त्यस्य चान्तरं ।
तेनाग्निहोत्रिणो यान्ति प्रजाकामा दिवं प्रति ॥०३१॥

ये च दानपराः सम्यगष्टाभिश् च गुणैर् युताः ।
अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः ॥०३२॥

पुनरावर्तने वीजभूता धर्मप्रवर्तकाः ।
सप्तर्षिनाग्वीथ्याश् च देवलोकं समाश्रिताः ॥०३३॥

तावन्त एव मुनयः सर्वारम्भविवर्जिताः ।
तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ॥०३४॥

यत्र यत्रावतिष्ठन्ते यावदाहूतसम्प्लवं ।
वेदानुवचनं यज्ञा ब्रह्मचर्यं तपो दमः ॥०३५॥

श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः ।
स त्वाश्रमैर् निदिध्यास्यः समस्तैर् एवमेव तु ॥०३६॥

द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ।
य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः ॥०३७॥

उपासते द्विजाः सत्यं श्रद्धया परया युताः ।

[[३२९]]

विश्वास-प्रस्तुतिः

क्रमात्ते सम्भवन्त्यर्चिरहः शुक्लं तथोत्तरं ॥०३८॥

अयनन्देवलोकञ्च सवितारं सविद्युतं ।
ततस्तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् ॥०३९॥

करोति पुनरावृत्तिस्तेषामिह न विद्यते ।
यज्ञेन तपसा दानैर् ये हि स्वर्गजितो जनाः ॥०४०॥

धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ।
पितृलोकं चन्द्रमसं नभो वायुं जलं महीं ॥०४१॥

क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च ।
एतद्यो न विजानाति मार्गद्वितयमात्मनः ॥०४२॥

दन्दशूकः पतङ्गो वा भवेद्कीटो ऽथवा कृमिः ।
हृदये दीपवद्ब्रह्म ध्यानाज्जिवो मृतो भवेत् ॥०४३॥

न्यायागतधनस्तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थो ऽपि विमुच्यते ॥०४४॥

{इत्य् आग्नेये महापुराणे समाधिर्नाम पञ्चसप्तत्यधिकत्रिशततमो ऽध्यायः }

[[३३०]]