{अथ चतुःसप्तत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
धारणा
अग्निर् उवाच
धारणा मनसोध्येये संस्थितिर्ध्यानवद्द्विधा ।
मूर्तामूर्तहरिध्यानमनोधारणतो हरिः ॥००१॥
मूलम्

यद्वाह्यावस्थितं लक्षयं तस्मान्न चलते मनः ।
तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः ॥००२॥

कालावधि परिच्छिन्नं देहे संस्थापितं मनः ।
न प्रच्यवति यल्लक्ष्याद्धारणा साभिधीयते ॥००३॥

धारणा द्वादशायामा ध्यानं द्वदशधारणाः ।
ध्यानं द्वादशकं यावत्समाधिरभिधीयते ॥००४॥

धारणाभ्यासयुक्तात्मा यदि प्राणैर् विमुच्यते ।
कुलैकविंशमुत्तार्य स्वर्याति परमं पदं1 ॥००५॥

यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः ।
तत्तदङ्गं धिया व्याप्य धारयेत्तत्त्वधारणं ॥००६॥

आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका ।
साग्निः शिखा फडन्ता च विष्णोः कार्या द्विजोत्तम ॥००७॥

नाडीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम् ।
पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतं ॥००८॥

:न्
[[३२४]]
विश्वास-प्रस्तुतिः
तिर्यक्चाधोर्ध्वभागेभ्यः प्रयान्त्यो ऽतीव तेजसा1 ।
चिन्तयेत् साधकेन्द्रस्तं यावत्सर्वं महामुने ॥००९॥

भस्प्रीभूतं शरीरं स्वन्ततश् चैवीपसंहरेत् ।
शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः ॥०१०॥

शिरो धीरञ्च2 कारञ्च कण्ठं चाधोमुखे स्मरेत् ।
ध्यायेदच्छिन्नचिन्तात्मा भुयो भूतेन चात्मना ॥०११॥

स्फुरच्छीकरसंस्मर्शप्रभूते हिमगामिभिः ।
धाराभिरखिलं विश्वमापूर्य भुवि चिन्तयेत् ॥०१२॥

ब्रह्मरन्ध्राच्च सङ्क्षोभाद्यावदाधारमण्डलग् ।
सुषुम्नान्तर्गतो भूत्वा सम्पूर्णेन्दुकृतालयं ॥०१३॥

सम्प्लाव्य हिमसंस्पर्शतोयेनामृतमूर्तिना ।
क्षुत्पिपासाक्रमप्रायसन्तापपरिपीडितः ॥०१४॥

धारयेद्वारुणीं मन्त्रो तुष्ट्यर्थं चाप्यतन्त्रितः ।
वारुणीधारणा प्रोक्ता ऐशानीधारणां शृणु ॥०१५॥

व्योम्नि ब्रह्ममये पद्मे प्राणापाणे क्षयङ्गते ।
प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता ॥०१६॥

महाभावञ्जपेत् सर्वं ततो व्यापक ईश्वरः ।
अर्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं ॥०१७॥

असत्यं सत्यमाभाति तावत्सर्वं चराचरं ।
यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः ॥०१८॥

[[३२५]]
विश्वास-प्रस्तुतिः
प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं ॥०१९॥

मातृमोदकवत्सर्वं जपहोमार्चनादिकं ।
विष्णुमन्त्रेण वा कुर्यादमृतां धारणां वदे ॥०२०॥

सम्पूर्णेन्दुनिभं ध्यायेत् कमलं तन्त्रिमुष्टिगम् ।
शिरःस्थं चिन्तयेद् यत्नाच्छशाङ्कायुतवर्चसं ॥०२१॥

सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं ।
तथा हृत्कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् ।०२२।
साधको विगतक्लेशो जायते धारणादिहिः ॥०२२॥

{इत्य् आग्नेये महापुराणे धारणा नाम चतुःसप्तत्यधिकत्रिशततमो ऽध्यायः ॥ }