३७३ ध्यानं

{अथ त्रिसप्तत्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

ध्यानम्

अग्निर् उवाच
ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहूर्मुहुः ।
अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥००१॥

मूलम्

आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च ।
ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते ॥००२॥

ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च ।
प्रत्यान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते ॥००३॥

ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रिचित् ।
ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना ॥००४॥

एवं ध्यानसमायुक्तः खदेहं यः परित्यजेत् ।
कुलं स्वजनमित्राणि समुद्धृत्य हरिर्भवेत् ॥००५॥

एवं मुहूर्तमर्धं वा ध्यायेद् यः श्रद्धया हरिं ।
सोपि यां गतिमाप्नोति न तां सर्वैर् महामखैः ॥००६॥

:न्

[[३२०]]

विश्वास-प्रस्तुतिः

ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनं ।
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित् ॥००७॥

योगाभ्यासाद्भवेन्मूक्तिरैश्वर्यञ्चाष्टधा महत् ।
ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः ॥००८॥

विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ।
मूर्तामूर्तं परम्ब्रह्म हरेर्ध्यानं हि चिन्तनम् ॥००९॥

सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः ।
अणिमादिगुणैश्वर्यं मुक्तिर्ध्यानप्रयोजनम् ॥०१०॥

फलेन योजको विष्णुरतो ध्यायेत् परेश्वरं ।
गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन् निमिषन्नपि ॥०११॥

शुचिर्वाप्यशुचिर्वापि ध्यायेत् शततमीश्वरम् ।
स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम् ॥०१२॥

हृत्पद्मपीठिकामध्ये ध्यानयोगेन1 पूजयेत् ।
ध्यानयज्ञः परः शुद्धः सर्वदोषविवर्जितः ॥०१३॥

तेनेष्ट्वा मुक्तिमाप्नोति वाह्यशुद्धैश् च नाध्वरैः ।
हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः ॥०१४॥

ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ।
तस्माद्शुद्धं सन्त्यज्य ह्य् अनित्यं वाह्यसाधनं ॥०१५॥

यज्ञाद्यं कर्म सन्त्यज्य योगमत्यर्थमभ्यसेत् ।
विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं ॥०१६॥

चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं ।
तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः ॥०१७॥

[[३२१]]

विश्वास-प्रस्तुतिः

ध्यायेत्त्रिमण्डलं पूर्वं कृष्णं रक्तं सितं क्रमात् ।
सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः1 ॥०१८॥

ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् ।
ऐश्वर्यं पङ्कजं दिव्यं पुरुशोपरि संस्थितं ॥०१९॥

द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितं ।
नालमष्टाङ्णूलं तस्य नाभिकन्दसमुद्भवं ॥०२०॥

पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् ।
कर्णिकाकेशरं नालं ज्ञानवैराग्यमुत्तमम् ॥०२१॥

विष्णुधर्मश् च तत्कन्दमिति पद्मं विचिन्तयेत् ।
तद्धर्मज्ञानवैराग्यं शिवैश्वर्यमयं परं ॥०२२॥

ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् ।
तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिं2 ॥०२३॥

अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं ।
कदम्बगोलकाकारं तारं रूपमिव स्थितं ॥०२४॥

ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः ।
प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरं ॥०२५॥

ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरं ।
मनःस्थित्यर्थमिच्छान्ति स्थूलध्यानमनुक्रमात् ॥०२६॥

तद्भूतं निश् चलीभूतं लभेत् सूक्ष्मे ऽपि संस्थितं ।
नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतं ॥०२७॥

नालेनाष्टदलं पद्मं द्वादशाङ्गुलविस्तृतं ।

:न्

[[३२२]]

विश्वास-प्रस्तुतिः

सकर्णिके केसराले सूर्यसोमाग्निमण्डलं ॥०२८॥

अग्निमण्डलमध्यस्थः शङ्खचक्रगदाधरः ।
पद्मी चतुर्भुजो विष्णुरथ वाष्टभुजो हरिः ॥०२९॥

शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः ।
स्वर्णवर्णः श्वेतवर्णः सश्रोवत्सः सकौस्तुभः ॥०३०॥

वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः ।
रत्नोज्ज्वलकिरीटश् च पीताम्बरधरो महान् ॥०३१॥

सर्वाभरणभूषाढ्यो वितस्तर्वा यथेच्छया ।
अहं ब्रह्म ज्योतिरात्मा वाउदेवो बिमुक्त ॐ ॥०३२॥

ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश् च चिन्तयेत् ।
जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति ॥०३३॥

जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोडशीं ।
जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः ।०३४।
भुक्तिर्मुर्क्तिर्मृत्युजयो जपेन प्राप्नुयात् फलं1 ॥०३४॥

{इत्य् आग्नेये महापुराणे ध्यानं नाम त्रिसप्तत्यधिकत्रिशततमो ऽध्यायः ॥ }

:न्

[[३२३]]

  1. भोगनद्यभिवेशेनेति ञ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. लब्धदीपशिखाकृतिमिति ख॥ , ञ॥ च ↩︎ ↩︎