{अथ द्विसप्त्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
आसनप्राणायामप्रत्याहाराः
अग्निर् उवाच
आसनं कमलाद्युक्तं तद्बद्ध्वा चिन्तयेत्परं ।
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥००१॥
मूलम्

नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं ।
तत्रैकाग्रं मनः कृत्वा यातचित्तेन्द्रियक्रियः ॥००२॥

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।
समकायशीरग्रीवं धारयन्नचलं स्थिरः ॥००३॥

सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् ।
पार्ष्णिभ्यां वृषणौ रक्षंस् तथा प्रजननं पुनः ॥००४॥

उरुभ्यामुपरिस्थाप्य वाहू तिर्यक् प्रयत्नतः ।
दक्षिणं करपृष्ठञ्च न्यसेद्धामतलोपरि ॥००५॥

उन्नम्य शनकैर् वक्रं मुखं विष्टभ्य चाग्रतः ।
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं ॥००६॥

नासिकापुटमङ्गुल्या पीड्यैव च परेण च ।
आदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ॥००७॥

वाह्येन वायुना देहं दृतिवत् पूरयेद्यथा ।
तथा पुर्णश् च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ॥००८॥

न भुञ्चति न गृह्णाति वायुमन्तर्वाहिःस्थितम् ।
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ॥००९॥

[[३१८]]
विश्वास-प्रस्तुतिः
कन्यकः1 सकृदुद्घातः स वै द्वादशमात्रिकः ।
मध्यमश् च द्विरुद्घातश् चतुर्विंशतिमात्रिकः ॥०१०॥

उत्तमश् च त्रिरुद्घातः षट्त्रिंशत्तालमात्रिकः ।
स्वेदकम्पाभिधातानाम् जननश्चोत्तमोत्तमः ॥०११॥

अजितान्नारुहेद्भूमिं हिक्काश्वासादयस् तथा ।
जिते प्राणे खल्पदोजविन्मूत्रादि प्रजायते ॥०१२॥

आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
बलवर्णप्रसादश् च सर्वदोषक्षयः फलं ॥०१३॥

जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः ।
इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं ॥०१४॥

ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च ।
इन्द्रियांश् च विनिर्जित्य सर्वमेव जितं भवेत् ॥०१५॥

इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥०१६॥

शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः ।
मनश् च सारथिः प्रोक्तः प्राणायामः कशः2
स्मृतः ॥०१७॥

ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः ।
शनैर् निश्चलताम् एति प्राणायामैकसंहितम् ॥०१८॥

जलविन्दुं कुशाग्रेण मासे मासे पिवेत्तु यः ।
संवत्सरशतं साग्रं प्राणयामश् च तत्समः ॥०१९॥

:न्
[[३१९]]
विश्वास-प्रस्तुतिः
आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते ॥०२०॥

उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि ।
भोगनद्यतिवेगेन1 ज्ञानवृक्षं समाश्रयेत् ॥०२१॥

{इत्य् आग्नेये महापुराणे आसनप्राणायामप्रत्याहारा नाम द्विसप्तत्यधिकत्रिशततमो ऽध्यायः }