{अथैकसप्तत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
यमनियमाः
अग्निर् उवाच
संसारतापमुक्त्यर्थं वक्ष्याम्य् अष्टाङ्गयोगकं ।
ब्रह्मप्रकाशकं ज्ञानं1 योगस्तत्रैकचित्तता ॥००१॥
मूलम्

चित्तवृत्तिर्निरोधश् च जीवब्रह्मात्मनोः परः ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥००२॥

यमाः पञ्च स्मृता नियमाद्भुक्तिमुक्तिदाः ।
शौचं सन्तोषतपसी स्वाध्यायेश्वरपूजने ॥००३॥

भूतापीडा ह्य् अहिंसा स्यादहिंसा धर्म उत्तमः ।
यथा गजपदे ऽन्यानि2 पदानि पथगामिनां3 ॥००४॥
विश्वास-प्रस्तुतिः
एवं सर्वमहिंसायां धर्मार्थमभिधीयते ।
उद्वेगजननं हिंसा सन्तापकरणन्तथा ॥००५॥
मूलम्
एवं सर्वमहिंसायां धर्मार्थमभिधीयते ।
उद्वेगजननं हिंसा सन्तापकरणन्तथा ॥००५॥
:न्
[[३१४]]
विश्वास-प्रस्तुतिः
हितस्यातिनिषेधश् च मर्मोद्घाटनमेव च ॥००६॥

सुखापह्नुतिः संरोधो बधो दशविथा च सा ।
यद्भूतहितमत्यन्तं वचः सत्यस्य लक्षणं ॥००७॥

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियं ।
प्रियञ्च नानृतं ब्रूयादेष धर्मः सनातनः ॥००८॥

मैथुनस्य परित्यागो ब्रह्मचर्यन्तदष्टधा ।
स्मरणं कीर्तनं केलिः प्रेक्ष्यणं गुह्यभाषणं ॥००९॥

सङ्कल्पो ऽध्यवसायश् च क्रियानिर्वृत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥०१०॥

ब्रह्मचर्यं क्रियामूलमन्यथा विफला क्रिया ।
वसिष्ठश् चन्द्रमाः शुक्रो देवाचार्यः पितामहः ॥०११॥

तपोवृद्धा वयोवृद्धास्ते ऽपि स्त्रीभिर्विमोहिताः ।
गौडी पैष्टी च माध्वी च विज्ञेयास्त्रिविधाः सुराः ॥०१२॥

चतुर्थी स्त्री सुरा ज्ञेया ययेदं मोहितं जगत् ।
माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा तु माद्यति ॥०१३॥

यस्माद्दृष्टमदा नारी तस्मात्तान्नावलोकयेत् ।
यद्वा तद्वापरद्रव्यमपहृत्य बलान्नरः ॥०१४॥

अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।
कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीं ॥०१५॥

पादुके चापि गृह्णीयात् कुर्यान्नान्यस्य सङ्ग्रहं ।
देहस्थितिनिमित्तस्य वस्त्रादेः स्यात्परिग्रहः ॥०१६॥

शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः ।
शौचन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा ॥०१७॥

[[३१५]]
विश्वास-प्रस्तुतिः
गृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धेरथान्तरं ।
उभयेन शुचिर्यस्तु स शुचिर्नेतरः शुचिः ॥०१८॥

यथा कथञ्चित्प्राप्त्या च सन्तोषस्तुष्टिरुच्यते ।
मनसश्चेन्द्रियाणाञ्च ऐकाग्र्यं तप उच्यते ॥०१९॥

तज्जयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ।
वाचिकं मन्त्रजप्यादि मानसं रागवर्जनं ॥०२०॥

शारीरं देवपूजादि सर्वदन्तु त्रिधा तपः ।
प्रणवाद्यास्ततो वेदाः प्रणवे पर्यवस्थिताः ॥०२१॥

वाङ्मयः प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् ।
अकारश् च तथोकारो मकारश्चार्धमात्रया ॥०२२॥

तिस्रो मात्रास्त्रयो वेदाः लोका भूरादयो गुणाः ।
जाग्रत्स्वप्नः सुषुप्तिश् च ब्रह्मविष्णुमहेश्वराः ॥०२३॥

प्रद्युम्नः श्रीर्वासुदेवः सर्वमोङ्गारकः क्रमात् ।
अमात्रो नष्टमात्रश् च द्वैतस्यापगमः शिवः ॥०२४॥

ओङ्कारो विदितो येन स मुनिर्नेतरो मुनिः ।
चतुर्थी मात्रा गान्धारी प्रयुक्ता मूर्ध्निलक्ष्यते ॥०२५॥

तत्तुरीयं परं ब्रह्म ज्योतिर्दीपो घटे यथा ।
तथा हृत्पद्मनिलयं ध्यायेन्नित्यं जपेन्नरः ॥०२६॥

प्रणवो धनुः शरो ह्य् आत्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥०२७॥

एतेदेकाक्षरं ब्रह्म एतदेकाक्षरं परं ।
देतदेकाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥०२८॥

[[३१६]]
विश्वास-प्रस्तुतिः
देवता परमात्मास्य नियोगो भुक्तिमुक्तये ॥०२९॥

भूरग्न्यात्मने हृदयं भुवः प्राजापत्यात्मने ।
शिरः स्वःसूर्यात्मने च शिखा कवचमुच्यते ॥०३०॥

ओम्भूर्भुवः स्वःकवचं सत्यात्मने ततो ऽस्त्रकं ।
विन्यस्य पूजयेद्विष्णुं जपेद्वै भुक्तिमुक्तये ॥०३१॥

जुहुयाच्च तिलाज्यादि सर्वं सम्पद्यते नरे ।
यस्तु द्वादशसाहस्रं जपमन्वहमाचरेत् ॥०३२॥

तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते ।
अनिमादि कोटिजप्याल्लक्षात्सारस्वतादिकं ॥०३३॥

वैदिकस्तान्त्रिको मिश्रो विष्णार्वै त्रिविधो मखः ।
त्रयानामीप्सितेनैकविधिना हरिमर्चयेत् ॥०३४॥

प्रणम्य दण्डवद्भूमौ नमस्कारेण यो ऽर्चयेत् ।
स याङ्गतिमवाप्नोति न तां क्रतुशतैर् अपि ॥०३५॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥०३६॥

{इत्य् आग्नेये महापुराणे यमनियमा नामैकसप्तत्यधिकत्रिशततमो ऽध्यायः }
[[३१७]]