{अथसप्रत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नरकनिरूपणम्
अग्निर् उवाच
उक्तानि यममार्गाणि वक्ष्ये ऽथ मरणे नृणां ।
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ॥००१॥
मूलम्

शरीरमुपरुध्याथ कृत्स्नान्दोषान्रुणद्धि वै ।
छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ॥००२॥

शैत्यात् प्रकुपितो वायुश्छिद्रमन्विष्यते ततः ।
द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा ॥००३॥

ऊर्ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा ।
एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणां ॥००४॥

:न्
[[३१०]]
विश्वास-प्रस्तुतिः
मूर्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया ॥००५॥

अन्तकाले तु सम्प्राप्रे प्राणे ऽपानमुपस्थिते ।
तमसा संवृते ज्ञाने संवृतेषु च मर्मसु ॥००६॥

स जिवो नाभ्यधिष्टानश्चाल्यते मातरिश्वना ।
बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः ॥००७॥

च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु ।
प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुपा ॥००८॥

गृह्णाति तत्क्षणाद्योगे शरीरञ्चातिवाहिकम् ।
आकाशवायुतेजांसि विग्रहादूर्ध्वगामिनः ॥००९॥

जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः ।
आतिवाहिकदेहन्तु यमदूता नयन्ति तं ॥०१०॥

याम्यं मार्गं महाघोरं षडशीतिसहस्रकम् ।
अन्नोदकं नीयमानो बान्धवैर् दत्तमश्नुते ॥०११॥

यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् ।
प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर् दिवम् ॥०१२॥

भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश् च यातनाः ।
अष्टाविंशतिरेवाधःक्षितेर्नरककोटयः ॥०१३॥

सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः ।
घोराख्या प्रथमाकोटिः सुघोरा तदधःस्थिता ॥०१४॥

अतिघोरा महाघोरा घोररूपा च पञ्चमी ।
षष्ठी तरलताराख्या सप्तमी च भयानका ॥०१५॥
मूलम्
अतिघोरा महाघोरा घोररूपा च पञ्चमी ।
षष्ठी तरलताराख्या सप्तमी च भयानका ॥०१५॥
विश्वास-प्रस्तुतिः
भयोत्कटा कालरात्री महाचण्डा च चण्डया ।
कोलाहला प्रचण्डाख्या पद्मा नरकनायिका ॥०१६॥

[[३११]]
विश्वास-प्रस्तुतिः
पद्मावती भीषणा च भीमा चैव करालिका ।
विकराला महावज्रा त्रिकोणा पञ्चकोणिका ॥०१७॥

सदीर्घा वर्तुला सप्तभूमा चैव सुभूमिका ।
दीप्तमायाष्टाविंशतयः कोटयः पापिदुःखदाः ॥०१८॥

अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः ।
रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं ॥०१९॥

तामिश्रमन्धतामिश्रं महारौरवरौरवौ ।
असिपत्रं वनञ्चैव लोहभारं तथैव च ॥०२०॥
मूलम्
तामिश्रमन्धतामिश्रं महारौरवरौरवौ ।
असिपत्रं वनञ्चैव लोहभारं तथैव च ॥०२०॥
विश्वास-प्रस्तुतिः
नरकं कालसूत्रञ्च महानरकमेव व ।
सञ्जीवनं महावीचि तपनं सम्प्रतापनं ॥०२१॥
मूलम्
नरकं कालसूत्रञ्च महानरकमेव व ।
सञ्जीवनं महावीचि तपनं सम्प्रतापनं ॥०२१॥
विश्वास-प्रस्तुतिः
सङ्घातञ्च सकाकोलं कुद्मलं पूतिमृत्तिकं ।
लोहशङ्कुमृजीषञ्च प्रधानं शाल्मलीं नदीम् ॥०२२॥

नरकान्विद्धि कोटीशनागन्वै घोरदर्शनान् ।
पात्यन्ते पापकर्माण एकैकस्मिन्बहुष्वपि ॥०२३॥

मार्जारोलूकगोमायुगृघ्रादिवदनाश् च ते ।
तैलद्रोण्यां नरं क्षिप्त्वा ज्वालयन्ति हुताशनं ॥०२४॥

अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् ।
अयःपात्रेषु चैवान्यान् बहुवह्निकणेषु च ॥०२५॥

शूलाग्रारोपिताश्चान्ये छिद्यन्ते नरके ऽपरे ।
ताड्यन्ते च कशाभिस्तु भोज्यन्ते चाप्ययोगुडान् ॥०२६॥

यमदूतैर् नराः पांशून्विष्ठारक्तकफादिकान् ।
तप्तं मद्यं पाययन्ति पाटयन्ति पुनर्नरान् ॥०२७॥

[[३१२]]
विश्वास-प्रस्तुतिः
तैलेनोष्णेन सिच्यन्ते छिद्यन्ते नैकघा शिरः ॥०२८॥

हा तातेति क्रन्दमानाः स्वकन्निदन्ति कर्म ते ।
महापातकजान्घोरान्नरकान्प्राप्य गर्हितान् ॥०२९॥

कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ।
मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥०३०॥

खरपुक्कशम्लेच्छानां मद्यपः स्वर्णहार्यपि ।
कृमिकीटपतङ्गत्वं गुरुगस्तृणगुल्मतां ॥०३१॥

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः ।
स्वर्णहारी तु कुनखी दुश् चर्मा गुरुतल्पगः ॥०३२॥

यो येन संस्पृशत्येषां स तल्लिङ्गो ऽभिजायते ।
अन्नहर्ता मायावी स्यान्मूको वागपहारकः ॥०३३॥

धान्यं हृत्वातिरिक्ताङ्गः पिशुनः पूतिनासिकः ।
तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः ॥०३४॥

परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ।
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥०३५॥

रत्नहारी हीनजातिर्गन्धान् छुछुन्दरी शुभान् ।
पत्रं शाकं शिखी हृत्वा मुखरो धान्यहारकः ॥०३६॥

अजः पशुम्पयः काको यानमुष्ट्रः1 फलं कपिः ।
मधु दंशः फलं गृध्रो गृहकाक उपस्करं ॥०३७॥

शिवत्री वस्त्रं सारसञ्च झल्ली लवणहारकः ।
उक्त आध्यात्मिकस्तापः शस्त्राद्यैर् आधिभौतिकः ॥०३८॥

[[३१३]]
विश्वास-प्रस्तुतिः
त्रिथा तापं हि संसारं ज्ञानयोगाद्विनाशयेत् ।०३९।
कृच्छ्रैर् व्रतैश् च दानाद्यैर् विष्णुपूजादिभिर्नरः ॥०३९॥

{इत्य् आग्नेये महापुराणे नरकनिरूपणं नाम सप्तत्यधिकत्रिशततमो ऽध्यायः }