{अथोनसप्तत्यधिकत्रिशततमो ऽध्यायः}
शरीरावयवाः
विश्वास-प्रस्तुतिः
अग्निर् उवाच
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं धीः खुञ्च
भूतगं ।
शब्दस्पर्शरूपरमगन्धाः खादिषु तद्गुणाः ॥००१॥
मूलम्

पायूपस्थौ करौ पादौ वाग्भवेत् कर्मखुन्तथा ।
उत्सर्गानन्दकादानगतिवागादि कर्म तत् ॥००२॥

पञ्चकर्मेन्द्रियान्यत्र पञ्चबुद्धीन्द्रियाणि च ।
इन्द्रियार्थाश् च पञ्चैव महाभूता मनो ऽधिपाः ॥००३॥

आत्माव्यक्तश् चतुर्विंशतत्त्वानि पुरुषः परः ।
संयुक्तश् च वियुक्तश् च यथा मत्स्योदके उभे ॥००४॥

अव्यक्तमास्रितानीह रजःसत्त्वतमांसि च ।
आन्तरः पुरुषो जीवः स परं ब्रह्म कारणं ॥००५॥

स याति परमं स्थानं यो वेत्ति पुरुषं परं ।
सप्ताशयाः स्मृता देहे रुधिरस्यैक आशयः ॥००६॥

[[३०६]]
विश्वास-प्रस्तुतिः
वायुमूत्राशयः सप्तः स्त्रीणां गर्भाशयो ऽष्टमः ॥००७॥

पित्तात्पक्वाशयो ऽग्नेः स्याद्योनिर्विकशिता द्युतौ ।
पद्मवद्गर्भाशयः स्यात्तत्र घत्ते सरक्तकं ॥००८॥

शुक्रं स्वशुक्रतश्चाङ्गं कुन्तलान्यत्र कालतः ।
न्यस्तं शुक्रमतो योनौ नेति गर्भाशयं मुने ॥००९॥

ऋतावपि च योनिश्चेद्वातपित्तकफावृता ।
भवेत्तदा विकाशित्वं नैव तस्यां प्रजायते ॥०१०॥

बुक्कात्पुक्कसकप्लीहकृतकोष्ठाङ्गहृद्व्रणाः ।
तण्डकश् च महाभाग निबद्धान्याशये मतः ॥०११॥

रसस्य पच्यमानस्य साराद्भवति देहिनां ।
प्लीहा यकृच्च धर्मज्ञ रक्तफेणाच्च पुक्कसः ॥०१२॥

रक्तं पित्तञ्च भवति तथा तण्डकसञ्ज्ञकः ।
मेदोरक्तप्रसाराच्च वुक्कायाः सम्भवः स्मृतः ॥०१३॥

रक्तमांसप्रसाराच्च भवन्त्यन्त्राणि देहिनां ।
सार्धत्रिव्यामसङ्ख्यानि तानि नॄणां विनिर्दिशेत् ॥०१४॥

त्रिव्यामानि तथा स्त्रीणां प्राहुर्वेदविदो जनः ।
रक्तवायुसमायोगात् कामेयस्योद्भवः स्मृतः ॥०१५॥

कफप्रसाराद्भवति हृदयं पद्मसन्निभं ।
अधोमुखं तच्छूषिरं यत्र जीवो व्यवस्थितः ॥०१६॥

चैतन्यानुगता भावःसर्वे तत्र व्यवस्थिताः ।
तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत् ॥०१७॥

दक्षिणे च तथा क्लोम पद्मस्यैवं प्रकीर्तितं ।
श्रोतांसि यानि देहे ऽस्मिन् कफरक्तवहानि च ॥०१८॥

[[३०७]]
विश्वास-प्रस्तुतिः
तेषां भूतानुमानाच्च भवतीन्द्रियसम्भवः ।
नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैतृकं ॥०१९॥

कृष्णञ्च मण्डलं वातात्तथा मवति मातृकं ।
पित्तात्त्वङ्मण्डलं ज्ञेयं मातापितृसमुद्भवं ॥०२०॥

मांसासृक्कफजा जिह्वा मेदो ऽसृक्कफमांसजौ ।
वृषाणौ दश प्राणस्य ज्ञेयान्यायतनानि तु ॥०२१॥

मूर्धा हृन्नाभिकण्ठाश् च जिह्वा शुक्रञ्च शोणितं ।
गुदं वस्तिश् च गुल्फञ्च कण्डुराः शोडशेरिताः ॥०२२॥

द्वे करे द्वे च चरणे चतस्रः पृष्ठतो गले ।
देहे पादादिशीर्षान्ते जालानि चैव षोडश ॥०२३॥

मांसस्नायुशिरास्थिन्यः चत्वारश् च पृथक् पृथक् ।
मणिबन्धनगुल्फेषु निबद्धानि परस्परं ॥०२४॥

षट्कूर्चानि स्मृतानीह हस्तयोः पादयोः पृथक् ।
ग्रीवायाञ्च तथा मेढ्रे कथितानि मनीषिभिः ॥०२५॥

पृष्ठवंशस्योपगताश् चतस्रो मांसरज्जवः ।
नवत्यश् च तथा पेश्यस्तासां बन्धनकारिकाः ॥०२६॥

सीरण्यश् च तथा सप्त पञ्च मूर्धानमाश्रिताः ।
एकैका मेढ्रजिह्वास्ता अस्थि षष्टिशतत्रयं ॥०२७॥

सूक्ष्मैः सह चतुःषष्ठिर्दशना विंशतिर्नखाः ।
पाणिपादशलाकाश् च तासां स्थानचतुष्टयं ॥०२८॥

षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयं ।
चत्वार्यरत्न्योरस्थीनि जङ्घयोस्तद्वदेव तु ॥०२९॥

[[३०८]]
विश्वास-प्रस्तुतिः
अक्षस्थानांशकश्रोणिफलके चैवमादिशेत् ॥०३०॥

भगास्तोकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।
ग्रीवायाञ्च तथास्थीनि जत्रुकञ्च तथा हमुः ॥०३१॥

तन्मूलं द्वेललाटाक्षिगण्डनासाङ्घ्य्रवस्थिताः ।
पर्शुकास्तालुकैः सार्धमर्वुदैश् च द्विसप्ततिः ॥०३२॥

द्वेशङ्खके कपालानि चत्वार्येव शिरस् तथा ।
उरः सप्तदशास्थीनि सन्धीनां द्वे शते दश ॥०३३॥

अष्टषष्टिस्तु शाखासु षष्टिश् चैकविवर्जिता ।
अन्तरा वै त्र्यशीतिश् च स्नायोर् नवशतानि च ॥०३४॥

त्रिंशाधिके द्वे शते तु अन्तराधौ तु सप्ततिः ।
ऊर्ध्वगाः षट्शतान्येव शाखास्तु कथितानि तु ॥०३५॥

पञ्चपेशीशतान्येव1 चत्वारिंशत्तथोर्ध्वगाः ।
चतुःशतन्तु शाखासु अन्तराधौ च षष्टिका ॥०३६॥

स्त्रीणाम् चैकाधिका वै स्याद्विंशतिश् चतुरुत्तरा ।
स्तनयोर्दश योनौ च त्रयोदश तथाशये ॥०३७॥

गर्भस्य च चतस्रः स्युः शिराणाञ्च शरीरिणां ।
त्रिंशच्छतसहस्राणि तथान्यानि नवैव तु ॥०३८॥

षट्पञ्चाशत्सहस्राणि रसन्देहे वहन्ति ताः ।
केदार इव कुल्याश् च क्लेदलेपादिकञ्च यत् ॥०३९॥

द्वासप्ततिस् तथा कोट्यो व्योम्नामिह महामुने ।
मज्जाया मेदसश् चैव वसायाश् च तथा द्विज ॥०४०॥

:न्
[[३०९]]
विश्वास-प्रस्तुतिः
रक्तस्य सरसस्यात्र क्रमशो ऽञ्जलयो मताः ॥०४१॥

अर्धार्धाभ्यधिकाः सर्वाः पूर्वपूर्वाञ्जलेर्मताः ।
अर्धाञ्जलिश् च शुक्रस्य तदर्धञ्च ततौजसः ॥०४२॥

रजसस्तु तथा स्त्रीणाञ्चतस्रः कथिता बुधैः ।
शरीरं मलदोषादि पिण्डं ज्ञात्वात्मनि त्यजेत्1 ॥०४३॥

{इत्य् आग्नेये महापुराणे शरीरावयवा नामो न सप्तत्यधिकत्रिशततमो ऽध्यायः }